०१

विश्वास-प्रस्तुतिः

त्रयी वै᳘ व्विद्या[[!!]]॥
(द्य᳘र्चो) ऋचो[[!!]] य᳘जूᳫँ᳭षि सा᳘मानीय᳘मेव᳘ ऽर्चो ऽस्याᳫं ह्य᳘र्चति यो᳘ ऽर्चति स व्वा᳘गेव᳘ ऽर्चो व्वाचा ह्य᳘ ऽर्चति यो᳘ ऽर्चति᳘ सो ऽन्त᳘रिक्षमेव य᳘जूᳫँ᳭षि द्यौः सा᳘मानि᳘ सैषा᳘ त्रयी व्विद्या᳘ सौ᳘म्ये ऽध्वरे प्र᳘युज्यते॥

मूलम् - श्रीधरादि

त्रयी वै᳘ व्विद्या[[!!]]॥
(द्य᳘र्चो) ऋचो[[!!]] य᳘जूᳫँ᳭षि सा᳘मानीय᳘मेव᳘ ऽर्चो ऽस्याᳫं ह्य᳘र्चति यो᳘ ऽर्चति स व्वा᳘गेव᳘ ऽर्चो व्वाचा ह्य᳘ ऽर्चति यो᳘ ऽर्चति᳘ सो ऽन्त᳘रिक्षमेव य᳘जूᳫँ᳭षि द्यौः सा᳘मानि᳘ सैषा᳘ त्रयी व्विद्या᳘ सौ᳘म्ये ऽध्वरे प्र᳘युज्यते॥

मूलम् - Weber

त्रयी वै᳘ विद्या᳟॥
ऋ᳘चो य᳘जूंषि सा᳘मानीय᳘मेव᳘र्चो ऽस्याᳫं ह्य᳘र्चति यो᳘ ऽर्चति स वा᳘गेव᳘र्चो वाचा ह्य᳘र्चति यो᳘ ऽर्चतिॗ सो ऽन्त᳘रिक्षमेव य᳘जूंषि द्यौः सा᳘मानिॗ सैषा त्रयी विद्या᳘ सौॗम्ये ऽध्वरे प्र᳘युज्यते॥

मूलम् - विस्वरम्

पुरश्चरणोपनिषत् ।

त्रयी वै विद्या- ऋचो, यजूंषि, सामानि । इयमेव ऽर्चः । अस्यां ह्यर्चति- यो ऽर्चति- सः । वागेव ऽर्चः । वाचा ह्यर्चति- यो ऽर्चति- सः अन्तरिक्षमेव यजूंषि । द्यौः सामानि सैषा त्रयी विद्या सौम्ये ऽध्वरे प्रयुज्यते ॥ १ ॥

सायणः

त्रयी वै विद्येति । अत्र सदोहविर्द्धाने अद्वारेण प्रेक्षमाणं ब्रूयात् प्रेक्षित्वोत्प्रेक्षते एष क्रत्वर्थो ज्योतिष्टोमे विधिः उपांशुर्यजुर्भिः सरस्वती इत्येष सर्वकर्मसु एतस्यैवावृतं मत्वा ऽऽवर्तते इति ज्योतिष्टोमे एतद्विधीयते यदुद्दिश्य प्रवृत्तमिदं ब्राह्मणम् । अनुषङ्गात्त्रय्यां विद्यायां वह्नेरदर्शनं करिष्यति । यत्त्वत्र न कृतं तदग्निरहस्येषु 1 करिष्यते । ‘त्रयी’ त्र्यवयवा ‘विद्या’ “विद ज्ञाने”- (धा. पा. अ. प. ५४) विद्यया ऽनया विद्यत इति विद्या । क्व पुनस्तस्याः त्रयो ऽवयवा ऋगादयः 2 ते च विद्याशब्दाद्वेदयंते मन्त्रात्मका एव ऋगादय इत्येवर्चा इत्यृचामपि लोकं एवञ्च सामानि चेन्द्र इत्यधिदेवमुपरिष्टाद्वक्ष्यति । इदम् ‘अस्यां ह्यर्चति’ इत्यर्चनकारणत्वात् ‘इयम्’ ऋच एव इति कूवरं त्वन्याभिरित्यृच इत्यृक्शब्दे पृथिव्यां शब्दस्य व्युत्पत्तिं दर्शयति- पृथिव्यां तु कारणत्वस्यानुपपत्तेरधिकरणत्वं दर्शितम् । यो ऽर्चति सो ऽस्यामर्चतीति संबन्धः । (वाणग सर्व इध्यात्मकत्रिद्वियातिस्कामनः) साहचर्यात् शब्दात्मिकायामस्यां ह्यर्चतीति पृथिवीत्वेन स्तूयते । न च तस्यार्थो ऽयं योगो ऽस्ति, तत्तस्मात् कारणयोः साधर्म्यप्रदर्शनमेव द्रष्टव्यम् । तथाहि लोकेषु सृज्यमानेषु ऋग्वेदात्सूक्ष्मत्वान्मनःपृथिवीसंसर्जनात्तादृग्वेदीसूक्ष्मान्मनःपृथिवीसंसर्जनात्पुनः पिण्डेषु सृज्यमानेषु पृथिव्या समुच्चिता तदग्रे ऋग्वेदं पिण्डात्मकं ससर्ज । एवं वाचा ऽपि स कार्यकारणभावो दर्शनीयः । स च स्थूल एव दृश्यते ऋग्वेदसाध्यं हि कर्म कर्त्तव्यमिति तद्वागिन्द्रियं प्रयुक्ते न चर्ग्वेदसाधनानि कर्माणि क्रियन्त इति । एष एव प्रपञ्चो यजुर्वेदसामवेदयोरपि यथायोगं दर्शनीयः । अन्तरिक्षमन्तरिक्षलोकं स यजुर्वेद उक्तार्थत्वात्तञ्चाग्निमुक्तकारणधर्मत्वात् एवं याजुषाद्यध्यात्ममुत्तरत्र वक्ष्यते- सोमं (तू वा) गन्धर्वश्च सामानि वेति को वा सामवेदः तत्कार्यत्वात्साधर्म्यान्निरुक्तत्वं च सैषा त्रय्यधिविद्या ‘सौम्ये’ सोमसाधके यज्ञे प्रयुज्यते नाग्निहोत्रादावेकेन द्वाभ्यां तस्य निष्पत्तिरित्यभिप्रायः ॥ १ ॥

Eggeling
  1. Threefold, forsooth, is science; the R̥cs, the Yajus, and the Sāmans. The R̥cs are this (earth), since it is thereon that he who sings them, does sing them; the R̥cs are speech, since it is by speech that he who sings them, does sing them. And the Yajus, forsooth, are the air, and the Sāmans the sky. That same threefold science is used in the Soma-sacrifice.

०२

विश्वास-प्रस्तुतिः

(त ऽ) इम᳘मेव᳘ लोक᳘मृचा ज᳘यति॥
(त्य) अन्त᳘रिक्षं य᳘जुषा दि᳘वमेव सा᳘म्ना त᳘स्माद्यस्यै᳘का व्विद्या᳘नूक्ता स्याद᳘न्वेवापी᳘तरयोर्नि᳘र्मितं व्विवक्षेतेम᳘मेव᳘ लोक᳘मृचा ज᳘यत्यन्त᳘रिक्षं य᳘जुषा दि᳘वमेव सा᳘म्ना॥

मूलम् - श्रीधरादि

(त ऽ) इम᳘मेव᳘ लोक᳘मृचा ज᳘यति॥
(त्य) अन्त᳘रिक्षं य᳘जुषा दि᳘वमेव सा᳘म्ना त᳘स्माद्यस्यै᳘का व्विद्या᳘नूक्ता स्याद᳘न्वेवापी᳘तरयोर्नि᳘र्मितं व्विवक्षेतेम᳘मेव᳘ लोक᳘मृचा ज᳘यत्यन्त᳘रिक्षं य᳘जुषा दि᳘वमेव सा᳘म्ना॥

मूलम् - Weber

इम᳘मेव᳘ लोक᳘मृचा ज᳘यति॥
अन्त᳘रिक्षं य᳘जुषा दि᳘वमेव सा᳘म्ना त᳘स्माद्यस्यैका विद्या᳘नूक्ता स्याद᳘न्वेवापी᳘तरयोर्नि᳘र्मितं विवक्षेतेम᳘मेव᳘ लोक᳘मृचा ज᳘यत्यन्त᳘रिक्षं य᳘जुषा दि᳘वमेव सा᳘म्ना॥

मूलम् - विस्वरम्

इममेव लोकमृचा जयति, अन्तरिक्षं यजुषा, दिवमेव साम्ना । तस्माद्यस्यैका विद्यानूक्तास्याद्- अन्वेवापीतरयोर्निर्मितं विवक्षेत । इममेव लोकमृचा जयति, अन्तरिक्षं यजुषा, दिवमेव साम्ना ॥ २ ॥

सायणः

अथ किं तया प्रयुक्तया भवतीत्याह- इममेवेति । ‘इममेव लोकम्’ इति । ज्योतिष्टोम एवावयुत्यनुवादः । ‘तस्माद्यस्यैका विद्या’ इति यस्माज्ज्योतिष्टोमो ऽवगतः स ऋगादीनां पृथिव्यादिजयकारणत्वं तस्माद्बहिरपि स्तोमादनूक्तेनैव (लोकाक्षि गीधौनीषा) एका विद्या देवानूक्ता स्याद् ग्रन्थतो ऽर्थतश्च स्वयं गृहीत्वा पश्चाच्छिष्येभ्य उक्ता सा इत्यध्याहारः । इतरयोरपि विद्ययो र्निर्मितं बहुशाखासंघातात्मकान् वेदान् (त्रिंशत्यतमः (?) शाखात्मनापि तमिष्टयादितम्) अन्यतमां शाखामित्यर्थः । अनुविवक्षेतैवानुवक्तुमिच्छेत् ततश्चाचार्य्यादधीयते । (एवेपिदै शक्तिश्च सन्नित्येतदुक्तं भवति) स्मरन्ति च “वेदानधीत्य 3 वेदौ वेति” इतरयोरपि निर्मितमिति । (नापि शब्दपूर्वस्यापि विद्ययो नासौ निर्मिता वैका शाखेयमित्यर्थः) अनुशाखा ऽनुक्तास्यादेतदिति नियम्यते- इममेव लोकमिति ॥ २ ॥

Eggeling
  1. By the R̥c he conquers this world, by the Yajus the air, and by the Sāman the sky. Therefore whosoever has learnt one of these sciences, let him endeavour to learn also what is contained in the two others: by the R̥c, forsooth, he conquers this world, by the Yajus the air, and by the Sāman the sky.

०३

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएत᳘त्॥
(त्स) सह᳘स्रं व्वाचः प्र᳘जातं द्वे ऽइ᳘न्द्रस्तृ᳘तीये तृ᳘तीयं व्वि᳘ष्णुर्ऋ᳘चश्च सा᳘मानि चे᳘न्द्रो य᳘जूᳫँ᳭षि व्वि᳘ष्णुस्त᳘स्मात्स᳘दस्यृक्सामा᳘भ्यां कुर्व्वन्त्यैन्द्रᳫँ᳭ हि स᳘दः॥ (अर्धप्रपाठकः)॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएत᳘त्॥
(त्स) सह᳘स्रं व्वाचः प्र᳘जातं द्वे ऽइ᳘न्द्रस्तृ᳘तीये तृ᳘तीयं व्वि᳘ष्णुर्ऋ᳘चश्च सा᳘मानि चे᳘न्द्रो य᳘जूᳫँ᳭षि व्वि᳘ष्णुस्त᳘स्मात्स᳘दस्यृक्सामा᳘भ्यां कुर्व्वन्त्यैन्द्रᳫँ᳭ हि स᳘दः॥ (अर्धप्रपाठकः)॥

मूलम् - Weber

तद्वा᳘ एत᳘त्॥
सह᳘स्रम् वाचः प्र᳘जातं द्वे इ᳘न्द्रस्तृ᳘तीये तृ᳘तीयं वि᳘ष्णुरृ᳘चश्च सा᳘मानि चे᳘न्द्रो य᳘जूंषि वि᳘ष्णुस्त᳘स्मात्स᳘दस्यृक्सामा᳘भ्यां कुर्वन्त्यैन्द्रᳫं हि स᳘दः॥

मूलम् - विस्वरम्

तद्वा ऽएतत् सहस्रं वाचः प्रजातम् । द्वे ऽइन्द्रस्तृतीये, तृतीयं विष्णुः ऋचश्च सामानि च इन्द्रः यजूंषि विष्णुः । तस्मात्सदसि ऋक्सामाभ्यां कुर्वन्ति ऐन्द्रं हि सदः ॥ ३ ॥

सायणः

इतरस्यानुवचनविधेः एवमानुषंगिकमनुवचनं विधाय प्रयोगमेवाह- तद्वा एतदिति । तदेतत्रयीविद्यात्मकं सहस्रं बहुतमं वाच आध्यात्मिकायाः प्रजातं वागिन्द्रियाणामग्न्यादीनामभिव्यक्तिः । अधियज्ञियाश्च शब्दमात्रात्मिकाया ऋगादेः ‘प्रजातं’ विशेषविकासाधिदैवत्यामुपचर्य वाचा गायत्र्याविति च्छदांसि ‘प्रजातं’ । तस्यास्य सहस्रस्य वाचः प्रजातं ‘द्वे’ ‘तृतीये’ द्वौत्रिभागाविन्द्र एकं ‘तृतीयं’ विष्णुरित्यधिदेवम् इन्द्राविष्ण्वोरेतौ शब्द (प्रयोगा) शेषावित्यर्थः । ‘ऋचश्च सामानि चेन्द्र’ इति विभागात्तावद्वचनं तस्मात्सदसीति यस्माद्दृष्टो नैव इन्द्रस्तस्मात्ताभ्यां सदसि स्तोत्रादि कुर्वन्ति च ‘ऐन्द्रं हि’ इन्द्रस्य स्वभूतं सदः स्वायतने युक्तं स्तोत्रमित्यभिप्रायः । वेदसिद्धस्यैव चायं सदसिकरणस्यानुवादो वक्ष्यमाणमिथुनोपोद्धातार्थः ॥ ३ ॥

Eggeling
  1. This, then, is the thousandfold progeny of Vāc (speech) 4. Indra (obtained for his share) two-thirds, and Vishṇu one-third 5: the R̥cs and Sāmans are Indra, and the Yajus are Vishṇu. Therefore in the Sadas they perform (the Śastras and Stotras) with the R̥c and Sāman, for the Sadas is Indra’s own.

०४

विश्वास-प्रस्तुतिः

(दो᳘ ऽथै) अ᳘थैतं व्वि᳘ष्णुं यज्ञ᳘म्॥
(मे) एतैर्य᳘जुर्भिः पुर᳘ ऽइवैव᳘ बिभ्रति त᳘स्मात्पुरश्च᳘रणं ना᳘म॥

मूलम् - श्रीधरादि

(दो᳘ ऽथै) अ᳘थैतं व्वि᳘ष्णुं यज्ञ᳘म्॥
(मे) एतैर्य᳘जुर्भिः पुर᳘ ऽइवैव᳘ बिभ्रति त᳘स्मात्पुरश्च᳘रणं ना᳘म॥

मूलम् - Weber

अ᳘थैतं वि᳘ष्णुं यज्ञ᳘म्॥
एतैर्य᳘जुर्भिः पुर᳘ इवैव᳘ बिभ्रति त᳘स्मात्पुरश्च᳘रणं ना᳘म॥

मूलम् - विस्वरम्

अथैतं विष्णुं यज्ञमेतैर्यजुर्भिः पुर इवैव बिभ्रति । तस्मात्पुरश्चरणं नाम ॥ ४ ॥

सायणः

अथैतं विष्णुमिति । अथशब्दो विशेषणार्थः । एतत्तद्धोतोद्गातारः सदस्यृक्सामाभ्यां कुर्वन्त्यध्वर्यवस्तु ‘एतं’ प्रत्यक्षं सोमशरीरं ‘विष्णुं’ ‘यज्ञम्’ ‘एतैः’ वेदार्थवत् क्रिया प्रत्यासन्नैः ‘यजुर्भिः’ ‘पुरः’ सदसः पूर्वस्यां दिशि हविर्द्धाने वितन्वन्ति विपुनंति संस्कारैर्यस्मादेवमृक्सामाभ्यां सदसः पुरस्ताद्यजुर्भिश्चरति ‘तस्मात्’ यत् ‘पुरश्चरणम्’ इत्येव प्रसिद्धानि यजूंष्याधियज्ञिकदेशनिमित्तत्वं पुराणत्वं कालनिमित्तमपि वक्ष्यति । तद्वा एतत् मनो ऽध्वर्युरित्यध्यात्मिकं च नो ह्यनभिगतमिति विष्णुं यज्ञं यजुर्भिर्ह वर्द्धते विश्नातीत्ययमनुवाद एव वक्ष्यमाणस्य मिथुनक्रमस्योपन्यासार्थः ॥ ४ ॥

Eggeling
  1. And by means of these Yajus they, as it were, bring forward (puras) that Vishṇu, the sacrifice: hence the name ‘puraścaraṇa’ (preparatory ceremony).

०५

विश्वास-प्रस्तुतिः

व्वा᳘गेव᳘ ऽर्चश्च सा᳘मानि च॥
म᳘न एव य᳘जूᳫँ᳭षि सा य᳘त्रेयं व्वागा᳘सीत्स᳘र्व्वमेव तत्रा᳘क्रियत स᳘र्व्वं प्रा᳘ज्ञायता᳘थ य᳘त्र म᳘न आ᳘सी᳘न्नैव त᳘त्र किं᳘ चना᳘क्रियत न प्रा᳘ज्ञायत नो हि म᳘नसा ध्या᳘यतः क᳘श्च᳘नाजाना᳘ति॥

मूलम् - श्रीधरादि

व्वा᳘गेव᳘ ऽर्चश्च सा᳘मानि च॥
म᳘न एव य᳘जूᳫँ᳭षि सा य᳘त्रेयं व्वागा᳘सीत्स᳘र्व्वमेव तत्रा᳘क्रियत स᳘र्व्वं प्रा᳘ज्ञायता᳘थ य᳘त्र म᳘न आ᳘सी᳘न्नैव त᳘त्र किं᳘ चना᳘क्रियत न प्रा᳘ज्ञायत नो हि म᳘नसा ध्या᳘यतः क᳘श्च᳘नाजाना᳘ति॥

मूलम् - Weber

वा᳘गेव᳘र्चश्च सा᳘मानि च॥
म᳘न एव य᳘जूंषि सा य᳘त्रेयं वागा᳘सीत्स᳘र्वमेव तत्रा᳘क्रियत स᳘र्वम् प्रा᳘ज्ञायता᳘थ य᳘त्र म᳘न आ᳘सीॗन्नैव त᳘त्र किं᳘ चना᳘क्रियत न प्रा᳘ज्ञायत नो हि म᳘नसा ध्या᳘यतः क᳘श्चॗनाजाना᳘ति॥

मूलम् - विस्वरम्

वागेव ऽर्चश्च सामानि च, मन एव यजूंषि । सा यत्रेयं वागासीत्- सर्वमेव तत्राक्रियत, सर्वं प्राज्ञायत । अथ यत्र मन आसीत्- नैव तत्र किंचनाक्रियत, न प्राज्ञायत । नो हि मनसा ध्यायतः कश्चनाजानाति ॥ ५ ॥

सायणः

वागेवर्चश्चेति । ‘वाक्’ आध्यात्मिकीन्द्रियात्मिकाधिदैविकी सुपर्णात्मिकास्ता ऋचः सामानि च । कथं शब्दात्मकानि तानि तावदृक्सामानीति विस्पष्टमेव; देवता त्वभिमानिनी मन्त्रे ऋक्साम्नामिन्द्रियत्वसमुत्थापनं तेषामपि चैतदपि तद्ग्रहणेन गृह्यन्ते मनश्च यजूंषीति मनः करणं तत्र आसीत् सर्वमेव तत्राधिक्रियते यज्ञाय तत्राधिदैविक्येन्द्रियत्मिकया वाचा ऽधिष्ठितशब्दात्मिकया इन्द्रियात्मिकया वाचेरितमृगादीत्यभिप्रायः । अथ यत्र हविर्द्धाने न किंचिदप्याक्रियत न प्राज्ञायत तत्र किं कारणं ‘नोहि मनसा ध्यायतः’ कस्यचित्कदाचिदपि चिकीर्षितं जानाति न चाज्ञातं क्रियते इत्यभिप्रायः । ततः किं मनसस्तावद्बहिः प्रकाशकधर्मस्तदात्मनामपि यजुषां विष्णोश्च स एव धर्मस्तेन तत्र हविर्द्धाने न किञ्चित्प्रज्ञायते ॥ ५ ॥

Eggeling
  1. Both the R̥cs and the Sāmans are Speech, and the Yajus are the Mind. Now wherever this Speech was, there everything was done, everything was known; but wherever Mind was, there nothing whatever was done, nothing was known, for no one knows (understands) those who think in their mind.

०६

विश्वास-प्रस्तुतिः

ते᳘ देवा व्वा᳘चमब्रुवन्॥
(न्प्रा᳘) प्रा᳘ची प्रे᳘हीदं प्र᳘ज्ञपये᳘ति सा᳘ होवाच किं᳘ मे त᳘तः स्यादि᳘ति यत्किंचा᳘वषट्कृतᳫं स्वाहाकारे᳘ण यज्ञे᳘ हूय᳘ते त᳘त इ᳘ति त᳘स्माद्यत्किंचा᳘वषट्कृतᳫंस्वाहाकारे᳘ण यज्ञे᳘ हूय᳘ते त᳘द्वाचः सा प्रा᳘ची प्रै᳘त्सैतत्प्रा᳘ज्ञपयदि᳘तीदं᳘ कुरुते᳘तीदं᳘ कुरुते᳘ति॥

मूलम् - श्रीधरादि

ते᳘ देवा व्वा᳘चमब्रुवन्॥
(न्प्रा᳘) प्रा᳘ची प्रे᳘हीदं प्र᳘ज्ञपये᳘ति सा᳘ होवाच किं᳘ मे त᳘तः स्यादि᳘ति यत्किंचा᳘वषट्कृतᳫं स्वाहाकारे᳘ण यज्ञे᳘ हूय᳘ते त᳘त इ᳘ति त᳘स्माद्यत्किंचा᳘वषट्कृतᳫंस्वाहाकारे᳘ण यज्ञे᳘ हूय᳘ते त᳘द्वाचः सा प्रा᳘ची प्रै᳘त्सैतत्प्रा᳘ज्ञपयदि᳘तीदं᳘ कुरुते᳘तीदं᳘ कुरुते᳘ति॥

मूलम् - Weber

ते᳘ देवा वा᳘चमब्रुवन्॥
प्रा᳘ची प्रे᳘हीदम् प्र᳘ज्ञपये᳘ति सा᳘ होवाच कि᳘म् मे त᳘तः स्यादि᳘ति यत्किं चा᳘वषट्कृतᳫं स्वाहाकारे᳘ण यज्ञे᳘ हूय᳘ते त᳘त्त इ᳘ति त᳘स्माद्यत्किं चा᳘वषट्कृतᳫं स्वाहाकारे᳘ण यज्ञे᳘ हूय᳘ते त᳘द्वाचः सा प्रा᳘ची प्रैॗत्सैतत्प्रा᳘ज्ञपयदि᳘तीदं᳘ कुरुते᳘तीदं᳘ कुरुते᳘ति॥

मूलम् - विस्वरम्

ते देवा वाचमब्रुवन्- प्राची प्रेहि; इदं प्रज्ञपयेति । सा होवाच- किं मे ततः स्यादिति । यत्किं चावषट्कृतं स्वाहाकारेण यज्ञे हूयते- तत ऽइति । तस्माद्यत्किंचावषट्कृतं स्वाहाकारेण यज्ञे हूयते- तद् वाचः । सा प्राची प्रैत् । सैतत्प्राज्ञपयत्- इतीदं कुरुत, इतीदं कुरुतेति ॥ ६ ॥

सायणः

ते देवा इति । ‘वाचं’ विग्रहवती ‘देवा अब्रुवन्’ तस्याम् उक्तायामिन्द्रियात्मिका प्रोक्तैव च भवत्यनया ऽन्यत्वादेकस्या एव ह्येते संव्यवहारार्था अवस्थाभेदाः ‘स्वाहाकारेण’ इति । यो ऽयं स्वाहाकार एष वाचा निरुक्तत्वादुद्भूतो यथाह- “तँस्वा महिमाम्युवाद जुहुधीति स प्रजापतिर्विदांचकार स्वो वै मा महिमाहेति स स्वाहेत्येवाजुहोदिति” तेन स्वाहाकारप्रदाने हविस्त इत्युक्तवन्तः । तस्माद्यत्किंचिदिहास्य यज्ञस्य उपसंहारः स्यात् । ननु च स्वाहाकारप्रदानेषु मान्त्रवर्णिक्य एव देवताः सन्त्यग्नये स्वाहेत्यादयः । तानि कथं वाचो भविष्यन्त्येवं यत्र नास्ति विस्पष्टा ऽन्या देवानां तद्वाचो भविष्यन्ति नैतदेवम्; एवं हि सति यत्किञ्चिदिति वीप्सार्थं वचनं विहन्येत एवं तर्ह्यन्यासु देवतासु सतीषु (आवावाचोमिमं निजमिति) इदमुच्यते । ननु च सर्व एव यज्ञ (इन्द्रस्यैन्द्रस्वाकृत्तत्र) स्वाहाकारप्रदानेषु को विशेष इत्यत्रोच्यते । स्वाहाकारप्रदानेषु (वागस्याभिमानीत्येव) सा वा देवता प्राची सदसः (स्वात्मातनाश्च) हविर्धानं प्रैत् प्राप्ता शस्त्रशास्त्रकारेभ्यो ऽध्वर्युं प्राची इन्द्रगत्वा च सा एतत्कर्म प्रज्ञपितवती कथमध्वर्युः प्रतिप्रस्थातृवत् प्रैषानुवचनोपाकरणे प्रज्ञापिता भवतीति एवमिदं कर्म कुतः हविः (एतविमसपरं) कुरुतेति ॥ ६ ॥

Eggeling
  1. The gods said to Speech, ‘Go thou forward and make this known!’ She said, ‘What will be my reward then?’–‘Whatever in the sacrifice is offered with Svāhā, and without Vashaṭ, that shall be thine!’ Hence whatever in the sacrifice is offered with Svāhā, and without Vashaṭ, that belongs to Speech. She then went forward and made that known, saying, ‘Do this so! do this so!’

०७

विश्वास-प्रस्तुतिः

त᳘स्मादु कुर्व्व᳘न्त्ये᳘व ऽर्चा᳘[[!!]] हविर्धा᳘ने॥
प्रातरनुवाकम᳘न्वाह सामिधेनीर᳘न्वाह ग्रा᳘व्णो ऽभि᳘ष्टौत्येवᳫँ᳭ हि᳘ सयु᳘जाव᳘भवताम्॥

मूलम् - श्रीधरादि

त᳘स्मादु कुर्व्व᳘न्त्ये᳘व ऽर्चा᳘[[!!]] हविर्धा᳘ने॥
प्रातरनुवाकम᳘न्वाह सामिधेनीर᳘न्वाह ग्रा᳘व्णो ऽभि᳘ष्टौत्येवᳫँ᳭ हि᳘ सयु᳘जाव᳘भवताम्॥

मूलम् - Weber

त᳘स्मादु कुर्व᳘न्त्येव᳘र्चा᳘ हविर्धा᳘ने॥
प्रातरनुवाकम᳘न्वाह सामिधेनीर᳘न्वाह ग्रा᳘व्णो ऽभि᳘ष्टौत्येवᳫं हि᳘ सयु᳘जाव᳘भवताम्॥

मूलम् - विस्वरम्

तस्मादु कुर्वन्त्येव ऽर्चा हविर्धाने । प्रातरनुवाकमन्वाह । सामिधेनीरन्वाह । ग्राव्णो ऽभिष्टौति । एवं हि सयुजावभवताम् ॥ ७ ॥

सायणः

अभिषोतारो ऽभिषुण्वते अग्नये ऽनुब्रूहि उपावर्तध्वमित्यादि । हविःस्थाने ऽपि दर्शयति- तस्मादुक्तवते वर्त्तेत तस्मादुत्क्वा वाग्वेदेन वागात्मकेन च कुर्वन्त्येवर्चा (कालकर्मप्रातरनुवाकानुवचनादि हविर्द्धानमनो यजुष्ट्वात्मके एषां तोर्जि विष्णुं च सयुजौ एकस्यामनुवचनादि) यां यां सह प्रयुज्येत इन्द्रः करणत्वेन विष्णुरधिकरणत्वेनेति सयुजौ चर्याते तस्मादुक्ता अत्राप्यृक्सामसद आत्मिकाया वाचो मनो यज्ञः स्वभावस्यावयज्ञस्य च मिथुनं गम्यत एवेति नोक्तम् ॥ ७ ॥ ८ ॥

Eggeling
  1. Therefore they also perform with the R̥c in the Havirdhāna: he (the Hotr̥) recites the morning prayer, he recites the kindling-verses; he (the Grāvastut) praises the pressing-stones,–for thus, indeed, they (Speech and Mind) became yoke-fellows.

०८

विश्वास-प्रस्तुतिः

त᳘स्मादु कुर्व्व᳘न्त्येव स᳘दसि॥
य᳘जुषौ᳘दुम्बरीमु᳘च्छ्रयन्ति स᳘दः सं᳘मिन्वन्ति धि᳘ष्ण्यानुपकिरन्त्येवᳫँ᳭[[!!]] हि᳘ सयु᳘जाव᳘भवताम्॥

मूलम् - श्रीधरादि

त᳘स्मादु कुर्व्व᳘न्त्येव स᳘दसि॥
य᳘जुषौ᳘दुम्बरीमु᳘च्छ्रयन्ति स᳘दः सं᳘मिन्वन्ति धि᳘ष्ण्यानुपकिरन्त्येवᳫँ᳭[[!!]] हि᳘ सयु᳘जाव᳘भवताम्॥

मूलम् - Weber

त᳘स्मादु कुर्व᳘न्त्येव स᳘दसि॥
य᳘जुष्टौ᳘दुम्बरीमु᳘छ्रयन्ति स᳘दः स᳘मिन्वन्ति धि᳘ष्ण्यानु᳘पकिरन्त्येवᳫं हि᳘ सयु᳘जाव᳘भवताम्॥

मूलम् - विस्वरम्

तस्मादु कुर्वन्त्येव सदसि । यजुषौदुम्बरमुच्छ्रयन्ति । सदः संमिन्वन्ति । धिष्ण्यानुपकिरन्ति । एवं हि सयुजावभवताम् ॥ ८ ॥

सायणः

[व्याख्यानं सप्तमे]

Eggeling
  1. And hence they also perform with the Yajus in the Sadas: they raise up the Udumbara post, they erect the Sadas, they throw up the dhishṇya hearths,–for thus they became yoke-fellows.

०९

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएतत्स᳘दः प᳘रिश्रयन्ति॥
(न्त्ये) एत᳘स्मै मिथुना᳘य तिर᳘ ऽइवेदं᳘ मिथुनं᳘ चर्याता ऽइ᳘ति᳘ व्यृद्धं वा᳘ ऽएत᳘न्मिथुनं य᳘दन्यः प᳘श्यति त᳘स्माद्यद्य᳘पि जायापती᳘ मिथुनं च᳘रन्तौ प᳘श्यन्ति᳘ व्येव᳘ द्रवत आ᳘ग ऽएव᳘ कुर्व्वाते त᳘स्माद᳘द्वारेण स᳘दः प्रे᳘क्षमाणं ब्रूयान्मा प्रे᳘क्षथा इ᳘ति य᳘था ह मिथुनं᳘ चर्य᳘माणं प᳘श्ये᳘देवं तत्का᳘मं द्वा᳘रेण देव᳘कृतᳫँ᳭ हि द्वा᳘रम्॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएतत्स᳘दः प᳘रिश्रयन्ति॥
(न्त्ये) एत᳘स्मै मिथुना᳘य तिर᳘ ऽइवेदं᳘ मिथुनं᳘ चर्याता ऽइ᳘ति᳘ व्यृद्धं वा᳘ ऽएत᳘न्मिथुनं य᳘दन्यः प᳘श्यति त᳘स्माद्यद्य᳘पि जायापती᳘ मिथुनं च᳘रन्तौ प᳘श्यन्ति᳘ व्येव᳘ द्रवत आ᳘ग ऽएव᳘ कुर्व्वाते त᳘स्माद᳘द्वारेण स᳘दः प्रे᳘क्षमाणं ब्रूयान्मा प्रे᳘क्षथा इ᳘ति य᳘था ह मिथुनं᳘ चर्य᳘माणं प᳘श्ये᳘देवं तत्का᳘मं द्वा᳘रेण देव᳘कृतᳫँ᳭ हि द्वा᳘रम्॥

मूलम् - Weber

तद्वा᳘ एतत्स᳘दः प᳘रिश्रयन्ति॥
एत᳘स्मै मिथुना᳘य तिर᳘ इवेद᳘म् मिथुनं᳘ चर्याता इ᳘तिॗ व्यृद्धं वा एत᳘न्मिथुनं य᳘दन्यः प᳘श्यति त᳘स्माद्यद्य᳘पि जायापती᳘ मिथुनं च᳘रन्तौ प᳘श्यन्तिॗ व्येव᳘ द्रवत आ᳘ग एव᳘ कुर्वाते त᳘स्माद᳘द्वारेण स᳘दः प्रे᳘क्षमाणम् ब्रूयान्मा प्रे᳘क्षथा इ᳘ति य᳘था ह मिथुनं᳘ चर्य᳘माणम् प᳘श्येदेवं तत्का᳘मं द्वा᳘रेण देव᳘कृतᳫं हि द्वा᳘रम्॥

मूलम् - विस्वरम्

तद्वा ऽएतत्सदः परिश्रयन्ति- एतस्मै मिथुनाय । तिर इवेदं मिथुनं चर्याता ऽइति । व्यृद्धं वा ऽएतन्मिथुनम्- यदन्यः पश्यति । तस्माद्यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति- व्येव द्रवतः, आग एव कुर्वते । तस्मादद्वारेण सदः प्रेक्षमाणं ब्रूयाद्- मा प्रेक्षथा इति । यथा ह मिथुनं चर्यमाणं पश्येद्- एवं तत् । कामं द्वारेण । देवकृतं हि द्वारम् ॥ ९ ॥

सायणः

तद्वा एतदिति एतस्मै मिथुनायेति । यदेतद् गम्यते वाच ऋक्सामात्मिकायाः सदसश्च यजुरात्मकस्य तिरोहितम् ‘इदं मिथुनं’ चर्यातै इत्येतत्प्रार्थयमानाः ‘परिश्रयन्ति’ “प्रार्थनायां लिङ्” इत्यर्थे लेट् । व्यृद्धमपुष्कलं परिसमाप्त्यमतो वायो ऽति निःफलं क्रव्याह- तदेतन्मिथुनं यदन्यस्ताभ्यां पश्यति यस्मादर्थेन तस्माद्यद्यपि दम्पती अचिरमिथुनं चरन्तौ केचिदन्ये पश्यन्ति तथापि तौ जायापती विशेषत एव न ज्ञायेते (स्ववाचो स्मायं (?) कर्मणो ददते न दृश्यमानो म (?) दृश्यमानो न (?) दृश्यमानेन लभ्यते वा स्यादेष इत्यभिप्रायः ।) ‘आगः’ अपराध एव कुर्वाते दंपती द्रष्टुः किमित्येष दुरात्मा आवां मिथुनं चरन्तौ पश्यतीति । यस्माच्चैव दृश्यमानं मिथुनं हन्यते तस्मान्मिथुनव्यृद्धिपरिहाराय द्वारेण प्रेक्षमाणं ब्रूयात् । मा प्रेक्षथा इति । मा प्रेक्षथा इति मान्त्रवर्णिकदृष्टप्रतिषेधः स तस्य पुरुषार्थस्तथा चाग एव द्रष्टुः न कुर्वतेति दर्शितम् । यथाह- मिथुनमिति लौकिकमिथुनदर्शनोपमानं (द्रष्टु इयाये स्वे दोषदर्शनसमुत्यं दर्शयति-) काममिच्छया द्वारेण सदसउत्तरतः प्रेक्षते ऽत्र न दोषः । किं कारणं देवैरिह दर्शनार्थमेव द्वारं कृतम् । यदि च तेनापि दृश्यमाने दोषः स्यात्ततो न तद्देवैरुपायः करिष्यत इति दर्शनोपायव्यवस्थयापि च दोषो ऽवतिष्ठते । यथा तदेव मिथुनं लोके चानुमानिकं तमपि लज्जयन्ति किं तर्हि प्रत्यक्षमेव ॥ ९ ॥

Eggeling
  1. That same Sadas they enclose on all sides with a view to that generation, thinking, ‘Quite secretly shall be carried on that generation!’ for improper, indeed, is the generation which another sees hence even when a husband and wife are seen, while carrying on intercourse, they run away from each other, for they give offence. Therefore to any one looking into the Sadas, except through the door, let him say, ‘Look not!’ for it is as if he were seeing intercourse being carried on. Freely (one may look) through the door, for the door is made by the gods.

१०

विश्वास-प्रस्तुतिः

(मे) एव᳘मे᳘वैत᳘द्धविर्धा᳘नं प᳘रिश्रयन्ति॥
(न्त्ये) एत᳘स्मै मिथुना᳘य तिर᳘ ऽइवेदं᳘ मिथुनं᳘ चर्याता ऽइ᳘ति᳘ व्यृद्धं वा᳘ ऽएत᳘न्मिथुनं य᳘दन्यः प᳘श्यति त᳘स्माद्यद्य᳘पि जायापती᳘ मिथुनं च᳘रन्तौ प᳘श्यन्ति᳘ व्येव᳘ द्रवत ऽआ᳘ग ऽएव᳘ कुर्व्वाते त᳘स्माद᳘द्वारेण हविर्धानं प्रे᳘क्षमाणं ब्रूयान्मा प्रे᳘क्षथा ऽइ᳘ति य᳘था ह मिथुनं᳘ चर्य᳘माणं प᳘श्येदेवं तत्का᳘मं द्वा᳘रेण देव᳘कृतᳫँ᳭ हि द्वा᳘रम्॥

मूलम् - श्रीधरादि

(मे) एव᳘मे᳘वैत᳘द्धविर्धा᳘नं प᳘रिश्रयन्ति॥
(न्त्ये) एत᳘स्मै मिथुना᳘य तिर᳘ ऽइवेदं᳘ मिथुनं᳘ चर्याता ऽइ᳘ति᳘ व्यृद्धं वा᳘ ऽएत᳘न्मिथुनं य᳘दन्यः प᳘श्यति त᳘स्माद्यद्य᳘पि जायापती᳘ मिथुनं च᳘रन्तौ प᳘श्यन्ति᳘ व्येव᳘ द्रवत ऽआ᳘ग ऽएव᳘ कुर्व्वाते त᳘स्माद᳘द्वारेण हविर्धानं प्रे᳘क्षमाणं ब्रूयान्मा प्रे᳘क्षथा ऽइ᳘ति य᳘था ह मिथुनं᳘ चर्य᳘माणं प᳘श्येदेवं तत्का᳘मं द्वा᳘रेण देव᳘कृतᳫँ᳭ हि द्वा᳘रम्॥

मूलम् - Weber

एव᳘मेॗवैत᳘द्धविर्धा᳘नम् प᳘रिश्रयन्ति॥
एत᳘स्मै मिथुना᳘य तिर᳘ इवेद᳘म् मिथुनं᳘ चर्याता इ᳘तिॗ व्यृद्धं वा᳘ एत᳘न्मिथुनं य᳘दन्यः प᳘श्यति त᳘स्माद्यद्य᳘पि जायापती᳘ मिथुनं च᳘रन्तौ प᳘श्यन्तिॗ व्येव᳘ द्रवत आ᳘ग एव᳘ कुर्वाते त᳘स्माद᳘द्वारेण हविर्धानम् प्रे᳘क्षमाणम् ब्रूयान्मा प्रे᳘क्षथा इ᳘ति य᳘था ह मिथुनं᳘ चर्य᳘माणम् प᳘श्येदेवं तत्का᳘मं द्वा᳘रेण देव᳘कृतᳫं हि द्वा᳘रम्॥

मूलम् - विस्वरम्

एवमेवैतद्धविर्धानं परिश्रयन्ति- एतस्मै मिथुनाय । तिर- इवेदं मिथुनं चर्याता ऽइति । व्यृद्धं वा ऽएतन्मिथुनम्- यदन्यः पश्यति । तस्माद्यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति- व्येव द्रवतः, आग एव कुर्वते । तस्मादद्वारेण हविर्धानं प्रेक्षमाणं ब्रूयाद्- मा प्रेक्षथा इति । यथा ह मिथुनं चर्यमाणं पश्येद्- एवं तत् । कामं द्वारेण । देवकृतं हि द्वारम् ॥ १० ॥

सायणः

एवमेवैतदिति । पूर्वमेषा व्याख्याता ॥ १० ॥

Eggeling
  1. In like manner they enclose the Havirdhāna on all sides with a view to that generation, thinking, ‘Quite secretly this generation shall be carried on!’ for improper, indeed, is the generation which another sees: hence even when a husband and wife are seen, while carrying on intercourse, they run away from each other, for they give offence. Therefore to any one looking into the Havirdhāna, except through the door, let him say, ‘Look not!’ for it is as if he were seeing intercourse being carried on. Freely (one may look) through the door, for the door is made by the gods.

११

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएतद्वृ᳘षा सा᳘म॥
यो᳘षामृ᳘चᳫँ᳭ स᳘दस्य᳘ध्येति त᳘स्मान्मिथुनादि᳘न्द्रो जातस्ते᳘जसो वै तत्ते᳘जो जातं य᳘दृच᳘श्च सा᳘म्नश्चे᳘न्द्र ऽइ᳘न्द्र ऽइ᳘ति᳘ ह्येत᳘माच᳘क्षते य᳘ ऽएष त᳘पति॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएतद्वृ᳘षा सा᳘म॥
यो᳘षामृ᳘चᳫँ᳭ स᳘दस्य᳘ध्येति त᳘स्मान्मिथुनादि᳘न्द्रो जातस्ते᳘जसो वै तत्ते᳘जो जातं य᳘दृच᳘श्च सा᳘म्नश्चे᳘न्द्र ऽइ᳘न्द्र ऽइ᳘ति᳘ ह्येत᳘माच᳘क्षते य᳘ ऽएष त᳘पति॥

मूलम् - Weber

तद्वा᳘ एतद्वृ᳘षा सा᳘म॥
यो᳘षामृ᳘चᳫं स᳘दस्य᳘ध्येति 6 त᳘स्मान्मिथुनादि᳘न्द्रो जातस्ते᳘जसो वै तत्ते᳘जो जातं य᳘दृच᳘श्च सा᳘म्नश्चे᳘न्द्र इ᳘न्द्र इ᳘तिॗ ह्येत᳘माच᳘क्षते य᳘ एष त᳘पति॥

मूलम् - विस्वरम्

तद्वा ऽएतद्वृषा साम योषामृचं सदस्यध्येति । तस्मान्मिथुनादिन्द्रो जातः । तेजसो वै तत्तेजो जातम्- यदृचश्च साम्नश्च इन्द्रः । इन्द्र इति ह्येतमाचक्षते- य एष तपति ॥ ११ ॥

सायणः

तद्वा एतदिति । सत्येवं पूर्वस्मिन्वाङ्मनसयोर्मिथुने इमामपरामृक्सामयोर्वाक्प्राणयोश्च मिथुनसंपदं दर्शयति ‘तेजसस्तेजो जातम्’ इत्येतस्य सिद्धार्थः । तेजस इति प्रकाशस्वभावकत्वादृक्सामे तेज इति अस्य नु तेजस्त्वं सूर्यो वा ॥ ११ ॥

Eggeling
  1. Now there, in the Sadas, that male, the Sāman, longs after the female, the R̥c. From that generation Indra was produced: from fire, indeed, fire is produced, viz. Indra from the R̥c and the Sāman; for Indra they call him that burns yonder (the sun).

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैतद्वृ᳘षा सो᳘मः॥
(मो) यो᳘षा ऽअपो᳘ हविर्धाने᳘ ऽध्येति त᳘स्मान्मिथुना᳘च्चन्द्र᳘मा जातो᳘ ऽन्नाद्वै तद᳘न्नं जातं य᳘दद्भ्य᳘श्च सो᳘माच्च चन्द्र᳘माश्चन्द्र᳘मा᳘ ह्येतस्या᳘न्नं य᳘ एष त᳘पति तद्य᳘जमानं चै᳘वैत᳘ज्जन᳘यत्यन्ना᳘द्यं चास्मै जनयत्यृच᳘श्च सा᳘म्नश्च य᳘जमानं जन᳘यत्यद्भ्य᳘श्च सो᳘माच्चास्मा ऽअन्ना᳘द्यम्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैतद्वृ᳘षा सो᳘मः॥
(मो) यो᳘षा ऽअपो᳘ हविर्धाने᳘ ऽध्येति त᳘स्मान्मिथुना᳘च्चन्द्र᳘मा जातो᳘ ऽन्नाद्वै तद᳘न्नं जातं य᳘दद्भ्य᳘श्च सो᳘माच्च चन्द्र᳘माश्चन्द्र᳘मा᳘ ह्येतस्या᳘न्नं य᳘ एष त᳘पति तद्य᳘जमानं चै᳘वैत᳘ज्जन᳘यत्यन्ना᳘द्यं चास्मै जनयत्यृच᳘श्च सा᳘म्नश्च य᳘जमानं जन᳘यत्यद्भ्य᳘श्च सो᳘माच्चास्मा ऽअन्ना᳘द्यम्॥

मूलम् - Weber

अ᳘थैतद्वृ᳘षा सो᳘मः॥
यो᳘षा अपो᳘ हविर्धाने᳘ ऽध्येति 7 त᳘स्मान्मिथुना᳘च्चन्द्र᳘मा जातो᳘ ऽन्नाद्वै तद᳘न्नं जातं य᳘दद्ब्य᳘श्च सो᳘माच्च चन्द्र᳘माश्चन्द्र᳘माॗ ह्येतस्या᳘न्नं य᳘ एष त᳘पति तद्य᳘जमानं चैॗवैत᳘ज्जन᳘यत्यन्ना᳘द्यं चास्मै जनयत्यृच᳘श्च सा᳘म्नश्च य᳘जमानं जन᳘यत्यद्भ्य᳘श्च सो᳘माच्चास्मा अन्ना᳘द्यम्॥

मूलम् - विस्वरम्

अथैतद् वृषा सोमः, योषा अपो हविर्धाने ऽध्येति । तस्मान्मिथुनाच्चन्द्रमा जातः । अन्नाद्वै तदन्नं जातम्- यदद्भ्यश्च सोमाच्च चन्द्रमाः । चन्द्रमा ह्येतस्यान्नम्- य एष तपति । तद्यजमानं चैवैतज्जनयति- अन्नाद्यं चास्मै जनयति । ऋचश्च साम्नश्च यजमानं जनयति, अद्भ्यश्च सोमाच्चास्मा ऽअन्नाद्यम् ॥ १२ ॥

सायणः

अथैतद्वृषेति । इदमपि सत्येव यज्ञस्य वाचश्च मिथुने यजुर्वेदिकमेवोत्तरं मिथुनमपां सोमस्य च संपर्कस्तस्माच्च चन्द्रमा जात इति दर्शनानुपहतस्य मिथुनस्य कार्यप्रदर्शनम् । ‘अन्नाद्वै तदन्नम्’ इत्यप्सोमत्वादन्नं चन्द्रमा अप्यन्नं चेत्यभिप्रायः । तथा यजमानमिति इतिहासस्य यज्ञ उपसंहारः । यजमानमत्तारं जनयत्यृवश्च साम्नश्चाध्वर्युर्मा प्रेक्षथा इति वचनं मिथुनं रक्षम् (?) एवमेव हविर्द्धाने ऽन्नाद्यं मिथुनमेव रक्षं (?) जनयित्वा च मा प्रेक्षथा इत्येष विधिः समाप्तः ॥ १२ ॥

Eggeling
  1. And there, in the Havirdhāna, that male, the Soma, longs after the female, the water. From that generation the moon was produced: from food, indeed, food is produced, viz. the moon from water and Soma; for the moon is the food of him that burns yonder 8. Hence he thereby produces the sacrificer, and for him he produces food: from the R̥c and Sāman he produces the sacrificer, and from water and Soma he produces food for him.

१३

विश्वास-प्रस्तुतिः

य᳘जुषा ह वै᳘ देवाः[[!!]]॥
(ऽ) अ᳘ग्रे यज्ञं᳘ तेनिरे᳘ ऽथर्चा᳘थ सा᳘म्ना त᳘दिदम᳘प्येत᳘र्हि य᳘जुषैवा᳘ग्रे यज्ञं᳘ तन्वते᳘ ऽथर्चा᳘थ सा᳘म्ना य᳘जो ह वै ना᳘मैतद्यद्य᳘जुरि᳘ति॥

मूलम् - श्रीधरादि

य᳘जुषा ह वै᳘ देवाः[[!!]]॥
(ऽ) अ᳘ग्रे यज्ञं᳘ तेनिरे᳘ ऽथर्चा᳘थ सा᳘म्ना त᳘दिदम᳘प्येत᳘र्हि य᳘जुषैवा᳘ग्रे यज्ञं᳘ तन्वते᳘ ऽथर्चा᳘थ सा᳘म्ना य᳘जो ह वै ना᳘मैतद्यद्य᳘जुरि᳘ति॥

मूलम् - Weber

य᳘जुषा ह वै᳘ देवाः᳟॥
अ᳘ग्रे यज्ञं᳘ तेनिरे᳘ ऽथर्चा᳘थ सा᳘म्ना त᳘दिदम᳘प्येत᳘र्हि य᳘जुषैवा᳘ग्रे यज्ञं᳘ तन्वते᳘ ऽथर्चा᳘थ सा᳘म्ना य᳘जो ह वै ना᳘मैतद्यद्य᳘जुरि᳘ति॥

मूलम् - विस्वरम्

यजुषा ह वै देवा अग्रे यज्ञं तेनिरे- अथ ऽर्चा, अथ साम्ना । तदिदमप्येतर्हि यजुषैवाग्रे यज्ञं तन्वते- अथ ऽर्चा, अथ साम्ना । यजो ह वै नामैतद्- यद्यजुरिति ॥ १३ ॥

सायणः

यजुषा हेति । एताभिरष्टाभिः कण्डिकाभिः यजुर्वेदसाध्यकर्मण उपांशुचरणं नाम धर्मो विधीयते । तत्रैवैका तावदुपपत्तिर्यथाध्यात्मार्थमिन्द्रियाणां पुरश्चरणं बहिः प्रकाशमेव यजुर्वेदीयोत्तरयोः पुरश्चरणमध्वर्युश्च स्तोत्रशस्त्रकारिणां ततश्च तेन बहिः प्रकाशधर्मकेण स (तेवेद्युक्तं) भवितुमिति तस्या उपपत्तेरुत्तरत्र वक्ष्यमाणाया उपोद्धातार्थमिदं यजुर्वेदस्य कालतः पुरश्चरणत्वमत्र प्रदर्श्यते इति । यजेर्द्धातोः करणसाधनप्रत्ययो ऽत्र युक्त इत्येतद्दर्शयति । ततश्च इज्यते ऽनेनेति यज इत्येवं प्राप्ते यजुरिति निरूढः । ननु च यद्यत्र प्राप्तिर्विभाव्यते ततो यजुश्शिष्टयागेनैतानि रूपाणि प्राप्नुवन्ति न यजत इति नैष दोषः । न व्याकरणकृतप्राप्तमेतद्वचनं कथं तर्हि यज इत्येव धातुः तिरोहितो दृष्टः प्रयोगश्चात्र कर्तरि कारके चायं प्रत्ययः (अहो वर इत्यादौ यागः । इष्टिरित्यत्र धातुरेव तिरोधीयत इत्यभिप्रायः) ॥ १३ ॥

Eggeling
  1. Now with the Yajus the gods first performed sacrifice, then with the R̥c, then with the Sāman and in like manner do they now perform the sacrifice. first with the Yajus, then with the R̥c, then with the Sāman; for Yajus, they say, is the same as Yajas (worship).

१४

विश्वास-प्रस्तुतिः

य᳘त्र वै᳘ देवाः᳘॥
(ऽ) इमा᳘ व्विद्याः का᳘मान्दुदुह्रे त᳘द्ध यजुर्व्वि᳘द्यैव भू᳘यिष्ठान्का᳘मान्दुदुहे सा नि᳘र्धीततमेवास सा ने᳘तरे व्विद्ये᳘ प्रत्या᳘स᳘ नान्तरिक्षलोक ऽइ᳘तरौ लोकौ प्र᳘त्यास॥

मूलम् - श्रीधरादि

य᳘त्र वै᳘ देवाः᳘॥
(ऽ) इमा᳘ व्विद्याः का᳘मान्दुदुह्रे त᳘द्ध यजुर्व्वि᳘द्यैव भू᳘यिष्ठान्का᳘मान्दुदुहे सा नि᳘र्धीततमेवास सा ने᳘तरे व्विद्ये᳘ प्रत्या᳘स᳘ नान्तरिक्षलोक ऽइ᳘तरौ लोकौ प्र᳘त्यास॥

मूलम् - Weber

य᳘त्र वै᳘ देवाः᳟॥
इमा᳘ विद्याः का᳘मान्दुदुह्रे त᳘द्ध यजुर्विॗद्यैव भू᳘यिष्ठान्का᳘मान्दुदुहे सा नि᳘र्धीततमेवास सा ने᳘तरे विद्य᳘ प्रत्या᳘सॗ नान्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘त्यास॥

मूलम् - विस्वरम्

यत्र वै देवा इमा विद्याः कामान्दुदुह्ने- तद्ध यजुर्विद्यैव भूयिष्ठान्कामान्दुदुहे । सा निर्धीततमेवास । सा नेतरे विद्ये प्रत्यास । नान्तरिक्षलोक इतरौ लोकौ प्रत्यास ॥ १४ ॥

सायणः

यत्र वै देवा इति । एताभिः पञ्चभिः कण्डिकाभिरुपांशुत्वे कारणमाह- ‘निर्धीततमेवास सा नेतरे’- यजुर्विद्येषामुपांशुचरणेनाप्यत इति ‘यत्र’ काले ‘देवाः इमा विद्याः’ विग्रहवतीरिमान् ‘कामान्’ भोगान् दुदुह्ने ततस्तत्र काले यजुर्विद्येव बहुतमान् ‘कामान्’ दुग्धवती स्रुता । ततश्च सा निःसारत्वात् ‘इतरे विद्ये प्रति’ न बभूव । प्रति प्रतिनिधौ कर्मप्रवचनीयः तद्युक्ते द्वितीया (पा. सू. २ । ३ । ८) सानु प्रतिनिधेरिति निधे (?) इतिहासेन च यस्मादिति पंचमी सा एव प्रयोगात् । न गम्येति गम्यते । ततश्च इतरे विद्ये प्रतीतरयोर्विद्ययोः प्रतिनिधिसदृशी समाना बभूवेत्यर्थः । तदनुकारित्वादन्तरिक्षलोके ऽपि यजुर्वेदमक्तिरिति । यो लोकयोः समानो बभूव ॥ १४ ॥

Eggeling
  1. Now when the gods milked (the objects of) their wishes from these sciences, the Yajus science

milked most wishes. It became, as it were, emptied the most; it was not equal to the other two sciences,–the air-world was not equal to the two other worlds.

१५

विश्वास-प्रस्तुतिः

ते᳘ देवा᳘ ऽअकामयन्त॥
कथं᳘ न्वियं᳘ व्विद्ये᳘तरे व्विद्ये᳘ प्रतिस्या᳘त्कथ᳘मन्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘तिस्यादि᳘ति॥

मूलम् - श्रीधरादि

ते᳘ देवा᳘ ऽअकामयन्त॥
कथं᳘ न्वियं᳘ व्विद्ये᳘तरे व्विद्ये᳘ प्रतिस्या᳘त्कथ᳘मन्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘तिस्यादि᳘ति॥

मूलम् - Weber

ते᳘ देवा᳘ अकामयन्त॥
कथं न्वियं᳘ विद्ये᳘तरे विद्ये᳘ प्रतिस्या᳘त्कथ᳘मन्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘तिस्यादि᳘ति॥

मूलम् - विस्वरम्

ते देवा अकामयन्त- कथं न्वियं विद्येतरे विद्ये प्रतिस्यात्, कथमन्तरिक्षलोक इतरौ लोकौ प्रतिस्यादिति ॥ १५ ॥

सायणः

ते देवा इति । प्रसन्ना ॥ १५ ॥

Eggeling
  1. The gods desired, ‘How can this science become equal to the other two sciences; how can the air-world become equal to the two other worlds?’

१६

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(रु) उपा᳘ᳫं᳘श्वेव य᳘जुर्भिश्चराम त᳘त ऽएषा᳘ व्विद्ये᳘तरे व्विद्ये᳘ प्रतिभविष्य᳘ति त᳘तो ऽन्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘तिभविष्यती᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(रु) उपा᳘ᳫं᳘श्वेव य᳘जुर्भिश्चराम त᳘त ऽएषा᳘ व्विद्ये᳘तरे व्विद्ये᳘ प्रतिभविष्य᳘ति त᳘तो ऽन्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘तिभविष्यती᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
उपांॗश्वेव य᳘जुर्भिश्चराम त᳘त एषा᳘ विद्ये᳘तरे विद्ये᳘ प्रतिभविष्य᳘ति त᳘तो ऽन्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘तिभविष्यती᳘ति॥

मूलम् - विस्वरम्

ते होचुः- उपांश्वेव यजुर्भिश्चराम- तत एषा विद्येतरे विद्ये प्रतिभविष्यति, ततो ऽन्तरिक्षलोक इतरौ लोकौ प्रतिभविष्यतीति ॥ १६ ॥

सायणः

ते होचुरिति । ‘यजुर्भिः’ यजुर्वेदेनेत्यर्थः । अवयवैरवयविन उपलक्षणैर्यजुर्विद्यायामिवैताभ्यामपि आप्यानस्यापेक्षत्वादेषा विद्येत्यभिगमनम् ॥ १६ ॥

Eggeling
  1. They said, ‘Let us perform in a low voice with the Yajus: then that science will become equal to the other two sciences; then the air-world will become equal to the two other worlds!’

१७

विश्वास-प्रस्तुतिः

तै᳘रुपा᳘ᳫं᳘श्वचरन्॥
(न्ना᳘) आ᳘प्याययन्ने᳘वैनानि तत्त᳘त एषा᳘ व्विद्ये᳘तरे व्विद्ये᳘ प्रत्या᳘सीत्त᳘तो ऽन्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘त्यासीत्त᳘स्माद्य᳘जूᳫंषि नि᳘रुक्तानि सन्त्य᳘निरुक्तानि त᳘स्मादय᳘मन्तरिक्षलोको नि᳘रुक्तः सन्न᳘निरुक्तः॥

मूलम् - श्रीधरादि

तै᳘रुपा᳘ᳫं᳘श्वचरन्॥
(न्ना᳘) आ᳘प्याययन्ने᳘वैनानि तत्त᳘त एषा᳘ व्विद्ये᳘तरे व्विद्ये᳘ प्रत्या᳘सीत्त᳘तो ऽन्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘त्यासीत्त᳘स्माद्य᳘जूᳫंषि नि᳘रुक्तानि सन्त्य᳘निरुक्तानि त᳘स्मादय᳘मन्तरिक्षलोको नि᳘रुक्तः सन्न᳘निरुक्तः॥

मूलम् - Weber

तै᳘रुपांश्वचरन्॥
आ᳘प्याययन्नेॗवैनानि तत्त᳘त एषा᳘ विद्ये᳘तरे विद्ये᳘ प्रत्या᳘सीत्त᳘तो ऽन्तरिक्षलोक इ᳘तरौ लोकौ प्र᳘त्यासीत्त᳘स्माद्य᳘जूंषि नि᳘रुक्तानि सन्त्य᳘निरुक्तानि त᳘स्मादय᳘मन्तरिक्षलोको नि᳘रुक्तः सन्न᳘निरुक्तः॥

मूलम् - विस्वरम्

तैरुपांश्वचरन्- आप्याययन्नैवैनानि तत् । तत एषा विद्येतरे विद्ये प्रत्यासीत्, ततो ऽन्तरिक्षलोक इतरौ लोकौ प्रत्यासीत् । तस्माद्यजूंषि निरुक्तानि सन्त्यनिरुक्तानि । तस्मादयमन्तरिक्षलोको निरुक्तः सन्ननिरुक्तः ॥ १७ ॥

सायणः

तैरुपांश्विति । ‘आप्याययन्’ इत्यल्पायासो ऽप्युपांशु प्रयुज्यमानं संवर्द्धितं वर्द्धितवन्तः । यस्मादेव देवाः ‘तस्मात्’ एतानि ‘यजूंषि’ ‘निरुक्तानि’ अर्थतः ‘सन्त्यनिरुक्तानि’ प्रयोगतो ऽन्येषामश्रवणीयानि प्रयुज्यन्ते । तदनुकारेण वायुरन्तरिक्षलोकान्तरितानि विमानचरैर्देवैः प्रयोगादिषु कीर्तितत्वान्निरुक्तान्यपि विस्पष्टपृथिवीचन्द्रार्कतारकादीव न दृश्यत इत्यर्थः ॥ १७ ॥

Eggeling
  1. They performed with them in a low voice, and thereby strengthened them; and henceforth that science was equal to the other two sciences, and the air-world was equal to the two other worlds. Therefore the Yajus, while being distinct, are yet indistinct; and therefore the air-world, while being distinct, is yet indistinct (indefinable).

१८

विश्वास-प्रस्तुतिः

स य᳘ उपाᳫंशु य᳘जुर्भिश्च᳘रति॥
(त्या᳘) आ᳘प्याययत्ये᳘वैनानि स ता᳘न्येन मा᳘पीनान्या᳘प्याययन्त्य᳘थ य᳘ ऽउच्चैश्च᳘रति रूक्ष᳘यत्ये᳘वैनानि स ता᳘न्येनᳫं रूक्षा᳘णि रूक्षयन्ति॥

मूलम् - श्रीधरादि

स य᳘ उपाᳫंशु य᳘जुर्भिश्च᳘रति॥
(त्या᳘) आ᳘प्याययत्ये᳘वैनानि स ता᳘न्येन मा᳘पीनान्या᳘प्याययन्त्य᳘थ य᳘ ऽउच्चैश्च᳘रति रूक्ष᳘यत्ये᳘वैनानि स ता᳘न्येनᳫं रूक्षा᳘णि रूक्षयन्ति॥

मूलम् - Weber

स य᳘ उपांशु य᳘जुर्भिश्च᳘रति॥
आ᳘प्याययत्येॗवैनानि स ता᳘न्येनमा᳘पीनान्या᳘प्याययन्त्य᳘थ य᳘ उच्चैश्च᳘रति रूक्ष᳘यत्येॗवैनानि स ता᳘न्येनं रूक्षा᳘णि रुक्षयन्ति॥

मूलम् - विस्वरम्

स य उपांशु यजुर्भिश्चरति- आप्याययत्येवैनानि सः तान्येनमापीनान्याप्याययन्ति । अथ य उच्चैश्चरति- रूक्षयत्येवैनानि सः । तान्येनं रूक्षाणि रूक्षयन्ति ॥ १८ ॥

सायणः

स य उपांश्विति । अर्थवादेनायं विधिः ‘यजुर्भिः’ यजुर्वेदावयवैरित्यर्थः । यजुर्भिर्विद्यापक्रमाद्वेदो लक्ष्यते । वेदो हि यजुर्मंत्रः । कुत एतत् । अङ्गानिवेदाश्चत्वार 9 इति प्रकृत्य विद्याह्येताश्चतुर्दशेति वचनात् । तेनापि यजुर्वेदेनेह स्वावयवैः पुनर्मन्त्रात्तां लक्ष्यन्ते किं कारणं सकलयज्ञे कारणत्वेन विधानादुपांशुयजुश्चरतीत्यत्र च यजुश्चरणे उपांशुत्वस्य श्रवणात् । ननु च जयसाधकतममिदमित्यत्र सकलस्य वेदस्य सामर्थ्यात्कारणत्वं नैतद्विपर्ययमुपांशुत्वं किं न ज्ञायते ? किं लक्षणया पुनरवयवाख्या श्रीयन्त इत्युच्यते । “यजुषा ह वै देवा अग्रे यज्ञं तेनिरे” [त्रयोदशकण्डिकायां] इत्यत्र यज्ञकरणभूतानि यजूंषि प्रकृतानि न जयसाधनानि तेनोपक्रमवशात्पुरश्चरणोपसंहारः । शाखावयवैरेवैतदुपांशुत्वं विधीयते, ततश्च यजुर्वेदविद्यायास्तद्गतानामृचामपि सिद्धमुपांशुत्वं प्रयोगकाले । नन्वेवं सति सोमाध्वरेणोपक्रम्य तासां सौम्ये ऽध्वर एवैदुपांशुत्वं प्राप्नोति । ननु कर्मान्तराणि तदेवं यदि हि यजुर्वेदरूपा (?) सौम्ये ऽध्वरे परिसमाप्तं स्यात् । तत्तत्रोपक्रमवशात्तावन्मात्र एवावतिष्ठते । अथ तु यजुर्विद्या सर्वकर्मसु वर्तते । ततश्च यजुर्विद्या ऽवयवत्वात् सर्वकर्ममन्त्रेष्वेवोपांशुत्वस्यावतारो यत्र सौम्याध्वरोपक्रमादिति । तत्रोच्यते- त्रय्या विशिष्ट उपक्रमो ऽसौ वर इत्ययमुत्प्रेक्षणप्रतिषेधे विश्वोपयोगी तत्रैवाचक्षाणो (नात्राप्युत्थानो) ऽवय ऽवान्तरेभ्यः शक्नोति उपांशुत्वं निवर्तयितुम् । तस्मादुपपन्नं सर्वकर्मसु यजुषामुपांशुत्वधर्मस्तथाच तदेतद्यजुरुपांश्वनिरुक्तमिति प्रकृत्योपांशु यजुषां हविर्निर्वपति सर्वधर्मतामेव (दनामिष्यप्नोते) “स्फायी ओप्यायी वृद्धौ”- (धा. पा. भ्वा. आ. ४८९ । ४९०) । “प्यायः पी”- (पा. सू. ६ । १ । २८) निष्ठायां तकारस्य नत्वम् (पा. सू. ८ । २ । ४५) । आपीनानि वृद्धानीत्यर्थः ॥ १८ ॥

Eggeling
  1. He who performs with the Yajus in a low voice, strengthens them; and they, thus strengthened, strengthen him. But he who performs in a loud voice, weakens them, and, being weak, they weaken him.

१९

विश्वास-प्रस्तुतिः

व्वा᳘गेव᳘ ऽर्चश्च सा᳘मानि च॥
म᳘न एव य᳘जूᳫँषि स य᳘ ऽऋचा᳘ च सा᳘म्ना च च᳘रन्ति व्वाक्ते᳘ भवन्त्य᳘थ ये य᳘जुषा च᳘रन्ति म᳘नस्ते᳘ भवन्ति त᳘स्मान्ना᳘नभिप्रेषितमध्वर्यु᳘णा किं᳘ चन᳘ क्रियते य᳘दै᳘वाध्वर्युराहा᳘नुब्रूहि यजेत्य᳘थैव ते᳘ कुर्व्वन्ति य᳘ ऽऋचा᳘ कुर्व्व᳘न्ति य᳘दै᳘वाध्वर्युरा᳘ह सो᳘मः पवत ऽउपा᳘वर्तध्वमित्य᳘थैव ते᳘ कुर्व्वन्ति ये सा᳘म्ना कुर्व्व᳘न्ति᳘ नो ह्य᳘नभिगतं म᳘नसा व्वाग्व᳘दति॥

मूलम् - श्रीधरादि

व्वा᳘गेव᳘ ऽर्चश्च सा᳘मानि च॥
म᳘न एव य᳘जूᳫँषि स य᳘ ऽऋचा᳘ च सा᳘म्ना च च᳘रन्ति व्वाक्ते᳘ भवन्त्य᳘थ ये य᳘जुषा च᳘रन्ति म᳘नस्ते᳘ भवन्ति त᳘स्मान्ना᳘नभिप्रेषितमध्वर्यु᳘णा किं᳘ चन᳘ क्रियते य᳘दै᳘वाध्वर्युराहा᳘नुब्रूहि यजेत्य᳘थैव ते᳘ कुर्व्वन्ति य᳘ ऽऋचा᳘ कुर्व्व᳘न्ति य᳘दै᳘वाध्वर्युरा᳘ह सो᳘मः पवत ऽउपा᳘वर्तध्वमित्य᳘थैव ते᳘ कुर्व्वन्ति ये सा᳘म्ना कुर्व्व᳘न्ति᳘ नो ह्य᳘नभिगतं म᳘नसा व्वाग्व᳘दति॥

मूलम् - Weber

वा᳘गेव᳘र्चश्च सा᳘मानि च॥
म᳘न एव य᳘जूंषि स य᳘ ऋचा᳘ च सा᳘म्ना च च᳘रन्ति वाक्ते᳘ भवन्त्य᳘थ ये य᳘जुषा च᳘रन्ति म᳘नस्ते᳘ भवन्ति त᳘स्मान्ना᳘नभिप्रेषितमध्वर्यु᳘णा किं चन᳘ क्रियते यॗदैॗवाध्वर्युराहा᳘नुब्रूहि यजेत्य᳘थैव ते᳘ कुर्वन्ति य᳘ ऋचा᳘ कुर्व᳘न्ति यॗदैॗवाध्वर्युरा᳘ह सो᳘मः पवत उपा᳘वर्तध्वमित्य᳘थैव ते᳘ कुर्वन्ति ये सा᳘म्ना कुर्व᳘न्तिॗ नो ह्य᳘नभिगतम् म᳘नना वाग्व᳘दति॥

मूलम् - विस्वरम्

वागेव ऽर्चश्च सामानि च, मन एव यजूंषि । स य ऽऋचा च साम्ना च चरन्ति- वाक्ते भवन्ति । अथ ये यजुषा चरन्ति- मनस्ते भवन्ति । तस्मान्नानभिप्रेषितमध्वर्युणा किं चन क्रियते । यदैवाध्वर्युराह- ‘अनुब्रूहि’ ‘यज’ इति । अथैव ते कुर्वन्ति य ऽऋचा कुर्वन्ति । यदैवाध्वर्युराह- सोमः पवत ऽउपावर्तध्वमिति । अथैव ते कुर्वन्ति- ये साम्ना कुर्वन्ति । नो ह्यनभिगतं मनसा वाग्वदति ॥ १९ ॥

सायणः

वागेवर्चश्चेति अत्र यजुषा (तत्वारिणावसमनसस्त (?) मुच्यते) उपांशुचरणोपपत्तिस्तु (द्वये) यजुषा चरन्ति इति बहुवचनात् सर्व एवाध्वर्युपुरुषा आग्नीध्रश्चोपांशु चरन्तीति गम्यते ॥ १९ ॥

Eggeling
  1. The R̥cs and Sāmans, forsooth, are speech, and the Yajus are the mind; and so those who perform with the R̥c and Sāman are speech, and those who perform with the Yajus are the mind. Hence nothing whatever is done, unless ordered by the Adhvaryu: when the Adhvaryu says, ‘Recite (the invitatory prayer)! Pronounce the offering prayer!’ then those who perform with the R̥k perform it. And when the Adhvaryu says, ‘Soma becometh pure: turn ye back 10!’ then those who perform with the Sāman perform it,–for speech speaks not but what is conceived by the mind.

२०

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएतन्म᳘नो ऽध्वर्युः᳘॥
पुर᳘ ऽइवैव᳘ चरति त᳘स्मात्पुरश्च᳘रणं ना᳘म पुर᳘ ऽइव ह वै᳘ श्रिया य᳘शसा भवति य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएतन्म᳘नो ऽध्वर्युः᳘॥
पुर᳘ ऽइवैव᳘ चरति त᳘स्मात्पुरश्च᳘रणं ना᳘म पुर᳘ ऽइव ह वै᳘ श्रिया य᳘शसा भवति य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - Weber

तद्वा᳘ एतन्म᳘नो ऽध्वर्युः᳟॥
पुर᳘ इवैव᳘ चरति त᳘स्मात्पुरश्च᳘रणं ना᳘म पुर᳘ इव ह वै᳘ श्रिया य᳘शसा भवति य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

तद्वा ऽएतन्मनो ऽध्वर्युः पुर- इवैव चरति । तस्मात्पुरश्चरणं नाम । पुर-इव ह वै श्रिया यशसा भवति- य एवमेतद्वेद ॥ २० ॥

सायणः

तद्वा एतदिति । अत्राध्वर्युः पुरश्चरणनिमित्तमित्युच्यते उत्तरविवक्षया ॥ २० ॥

Eggeling
  1. Thus, then, the Adhvaryu, the mind, walks, as it were, in front (puraś-carati): hence the name ‘puraścaraṇa 11;’ and verily, he who knows this, stands, as it were, in front through prosperity and glory.

२१

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएत᳘देव᳘ पुरश्च᳘रणम्॥
य᳘ ऽएष त᳘पति स᳘ ऽएत᳘स्यै᳘वावृ᳘ता चरेद्ग्र᳘हं गृही᳘त्वैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्तेत प्रतिगी᳘र्यैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्तेत ग्र᳘हᳫं हु᳘त्वैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्तेत स᳘ हैष᳘ भर्ता स यो᳘ हैवं᳘ व्विद्वा᳘नेत᳘स्यावृता᳘[[!!]] शक्नो᳘ति च᳘रितुᳫं शक्नो᳘ति हैव᳘ भा᳘र्यान्भ᳘र्तुम्॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएत᳘देव᳘ पुरश्च᳘रणम्॥
य᳘ ऽएष त᳘पति स᳘ ऽएत᳘स्यै᳘वावृ᳘ता चरेद्ग्र᳘हं गृही᳘त्वैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्तेत प्रतिगी᳘र्यैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्तेत ग्र᳘हᳫं हु᳘त्वैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्तेत स᳘ हैष᳘ भर्ता स यो᳘ हैवं᳘ व्विद्वा᳘नेत᳘स्यावृता᳘[[!!]] शक्नो᳘ति च᳘रितुᳫं शक्नो᳘ति हैव᳘ भा᳘र्यान्भ᳘र्तुम्॥

मूलम् - Weber

तद्वा᳘ एत᳘देव᳘ पुरश्च᳘रणम्॥
य᳘ एष त᳘पति स᳘ एत᳘स्यैॗवावृ᳘ता चरेद्ग्र᳘हं गृहीॗत्वैत᳘स्यैॗवावृ᳘तमन्वा᳘वर्तेत प्रतिगी᳘र्यैत᳘स्यैॗवावृ᳘तमन्वा᳘वर्तेत ग्र᳘हᳫं हुॗत्वैत᳘स्यैॗवावृ᳘तमन्वा᳘वर्तेत स᳘ हैष᳘ भर्ता स यो᳘ हैवं᳘ विद्वा᳘नेत᳘स्यावृ᳘ता शक्नो᳘ति च᳘रितुं शक्नो᳘ति हैव᳘ भाॗर्यान्भ᳘र्तुम् 12

मूलम् - विस्वरम्

तद्वा ऽएतदेव पुरश्चरणम्- य एष तपति । स एतस्यैवावृता चरेत् । ग्रहं गृहीत्वैतस्यैवावृतमन्वावर्तेत । प्रतिगीर्यैतस्यैवावृतमन्वावर्तेत । ग्रहं हुत्वैतस्यैवावृतमन्वावर्तेत । स हैष भर्ता । स यो हैवं विद्वानेतस्यावृता शक्नोति चरितुं- शक्नोति हैव भार्यान्भर्त्तुम् ॥ २१ ॥

सायणः

तद्वा एतदेवेति । अवैदिकस्य पुरश्चरणस्य ‘आवृता’ अध्वर्युश्चरेद् ग्रहग्रहणादेतस्येत्युच्यते, सस्तोत्रशस्त्रे चाग्रहेष्वेव तदावर्त्तनं द्रष्टव्यं, पुरश्चरणसंबन्धविधानात् । तत्र स्व (?) नरापेक्षया पुरश्चरणस्योत्पत्तेः ‘स यो हैवं विद्वान्’ इति शक्तिमात्रे ऽध्वर्योः फलम् ॥ २१ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठे ऽध्याये सप्तमं ब्राह्मणम् ॥ ४-६-७ ॥

Eggeling
  1. Now that same puraścaraṇa (going before) is nothing else than yonder burning (sun): one ought to perform in accordance with his (the sun’s) course. When he (the Adhvaryu) has drawn a cup of Soma, let him turn round in accordance with his course; when he has responded (to the Hotr̥’s recitation), let him turn round in accordance with his course; when he has offered a graha, let him turn round in accordance with his course: he (the sun), verily, is the supporter; and whosoever, knowing this, is able to perform in accordance with his course, he, forsooth, is able to support his dependants 13.

  1. दशमकाण्डे । ↩︎

  2. नियतपादाक्षरावसानो ऽवयवः ऋगित्युच्यते । अनियतपादाक्षरावसानो ऽवयवो यजुरित्युच्यते प्रगीतसाध्या ऋगेव सामेत्युच्यते । ↩︎

  3. मनु अ० ३ श्लो० २ । ↩︎

  4. 436:1 See IV, 5, 8, 4. ↩︎

  5. 436:2 Thus according to the Kāṇva text,–dvau bhāgāv indro ’bhajataikaṁ vishṇuḥ. ↩︎

  6. स᳘दस्य᳘द्ध्येति AB. ↩︎

  7. र्धाने᳘ऽद्ध्येति AB. ↩︎

  8. 438:1 See I, 6, 4, 13 seq. ↩︎

  9. “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥” इति स्मृतिः । ↩︎

  10. 439:1 See IV, 2, 5, 8. ↩︎

  11. 440:1 That is, preparation, preparatory ceremony;–and hence also the ’taking the lead, being the precursor.’ ↩︎

  12. A has at the close ॥ १ ॥ एब्राह्मणानि नाम । घटसर्प ↩︎

  13. 440:2 In the Kāṇva text this is the last Brāhmaṇa of the (fifth) Kāṇḍa. ↩︎