०१

विश्वास-प्रस्तुतिः

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘चक्रुस्ते᳘ होचुः को᳘ नो दक्षिणत᳘ आसिष्यते ऽथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - श्रीधरादि

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘चक्रुस्ते᳘ होचुः को᳘ नो दक्षिणत᳘ आसिष्यते ऽथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - Weber

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः॥
ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘ चक्रुस्ते᳘ होचुः को᳘ नो दक्षिणत᳘ आसिष्यते ऽथा᳘भये ऽनाष्ट्र᳘ उत्तरतो᳘ यज्ञमु᳘पचरिष्याम इॗति॥

मूलम् - विस्वरम्

यज्ञोपचारः ।

देवा ह वै यज्ञं तन्वानास्ते ऽसुररक्षसेभ्य आसङ्गाद्विभयाञ्चक्रुः । ते होचुः- को नो दक्षिणत आसिष्यते, अथाभये ऽनाष्ट्रे ऽउत्तरतो यज्ञमुपचरिष्याम इति ॥ १ ॥

सायणः

देवा ह वा इति । ब्रह्मिष्ठो ब्रह्मा दक्षिणत आसीत स च प्रस्तोत्रा मन्त्रजपं जपित्वा ऽनुजानीयादित्येतावद्ब्रह्मत्वमत्रोच्यते तत्प्रसङ्गाच्च ब्राह्मणाच्छंसिनो वरणम् । मैत्रावरुणजपश्च । प्रसन्नप्रायाश्चैताश्चतस्रः कण्डिकाः ॥ १-४ ॥

Eggeling
  1. Now once on a time the gods, while performing sacrifice, were afraid of an attack from the Asura-Rakshas. They said, ‘Who of us shall sit on the south side; we will then enter upon the sacrifice on the north side in a place free from danger and injury.’

०२

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र्य᳘) य᳘ एव᳘ नो व्वीर्य᳘वत्तमः स᳘ दक्षिणत᳘ आस्तामथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र्य᳘) य᳘ एव᳘ नो व्वीर्य᳘वत्तमः स᳘ दक्षिणत᳘ आस्तामथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
य᳘ एव᳘ नो वीर्य᳘वत्तमः स᳘ दक्षिणत᳘ आस्तामथा᳘भये ऽनाष्ट्र᳘ उत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - विस्वरम्

ते होचुः- य एव नो वीर्यवत्तमः स दक्षिणत आस्ताम्, अथाभये ऽनाष्ट्र ऽउत्तरतो यज्ञमुपचरिष्याम इति ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. They said, ‘He who is the strongest of us, let him sit on the south side; we will then enter upon the sacrifice on the north side in a place free from danger and injury.’

०३

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(रि᳘) इ᳘न्द्रो वै᳘ नो व्वीर्य᳘वत्तम ऽइ᳘न्द्रो दक्षिणत᳘ ऽआस्तामथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(रि᳘) इ᳘न्द्रो वै᳘ नो व्वीर्य᳘वत्तम ऽइ᳘न्द्रो दक्षिणत᳘ ऽआस्तामथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
इ᳘न्द्रो वै᳘ नो वीर्य᳘वत्तम इ᳘न्द्रो दक्षिणत᳘ आस्तामथा᳘भये ऽनाष्ट्र᳘ उत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - विस्वरम्

ते होचुः- इन्द्रो वै नो वीर्यवत्तमः । इन्द्रो दक्षिणत आस्ताम्, अथाभये ऽनाष्ट्र ऽउत्तरतो यज्ञमुपचरिष्याम इति ॥ ३ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. They said, ‘Verily, Indra is the strongest of us: let Indra sit on the south side; we will then enter upon the sacrifice on the north side in a place free from danger and injury.’

०४

विश्वास-प्रस्तुतिः

ते हे᳘न्द्रमूचुः॥
(स्त्वं) त्वंवै᳘ नो व्वी᳘र्यवत्तमो ऽसि[[!!]] त्वं᳘ दक्षिणत᳘ आस्वाथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - श्रीधरादि

ते हे᳘न्द्रमूचुः॥
(स्त्वं) त्वंवै᳘ नो व्वी᳘र्यवत्तमो ऽसि[[!!]] त्वं᳘ दक्षिणत᳘ आस्वाथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति॥

मूलम् - Weber

ते हे᳘न्द्रमूचुः॥
त्वं वै᳘ नो वीर्य᳘वत्तमो ऽसि त्वं᳘ दक्षिणत᳘ आस्वाथा᳘भये नाष्ट्र᳘ उत्तरतो᳘ यज्ञमु᳘पचरिष्याम इ᳘ति 1

मूलम् - विस्वरम्

ते हेन्द्रमूचुः- त्वं वै नो वीर्यवत्तमो ऽसि । त्वं दक्षिणत आस्व । अथाभये ऽनाष्ट्र ऽउत्तरतो यज्ञमुपचरिष्याम इति ॥ ४ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. They said to Indra, ‘Verily, thou art the strongest of us: sit thou on the south side; we will then enter upon the sacrifice on the north side in a place free from danger and injury.’

०५

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
किं᳘ मे ततः᳘ स्यादि᳘ति ब्राह्मणच्छ᳘ᳫँ᳘स्या[[!!]] ते ब्रह्मसाम᳘ त ऽइ᳘ति त᳘स्माद्ब्राह्मणाच्छᳫँ᳭सि᳘नं प्र᳘वृणीत ऽइ᳘न्द्रो ब्रह्मा ब्रा᳘ह्मणादिती᳘न्द्रस्य᳘ ह्येषा स इ᳘न्द्रो दक्षिणत᳘ ऽआस्ताथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘[[!!]] यज्ञमु᳘पाचरंस्त᳘स्माद्य᳘ एव᳘ व्वीर्य᳘वत्तमः स्यात्स᳘ दक्षिणत᳘ ऽआसीताथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरेयुर्यो[[!!]] वै᳘ ब्राह्मणा᳘नामनूचान᳘तमः स᳘ ऽएषां व्वीर्य᳘वत्तमो᳘ ऽथ य᳘दिदं य᳘ एव क᳘श्च ब्रह्मा भ᳘वति कुवि᳘त्तूष्णीमा᳘स्त ऽइ᳘ति त᳘स्माद्य᳘ एव᳘ व्वी᳘र्यवत्तमः[[!!]] स्यात्स᳘ दक्षिणत᳘ ऽआसीता᳘थाभये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरेयुस्त᳘स्माद्ब्राह्मणा᳘ दक्षिणत᳘ ऽआसते ऽथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमुपचरन्ति[[!!]]॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
किं᳘ मे ततः᳘ स्यादि᳘ति ब्राह्मणच्छ᳘ᳫँ᳘स्या[[!!]] ते ब्रह्मसाम᳘ त ऽइ᳘ति त᳘स्माद्ब्राह्मणाच्छᳫँ᳭सि᳘नं प्र᳘वृणीत ऽइ᳘न्द्रो ब्रह्मा ब्रा᳘ह्मणादिती᳘न्द्रस्य᳘ ह्येषा स इ᳘न्द्रो दक्षिणत᳘ ऽआस्ताथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘[[!!]] यज्ञमु᳘पाचरंस्त᳘स्माद्य᳘ एव᳘ व्वीर्य᳘वत्तमः स्यात्स᳘ दक्षिणत᳘ ऽआसीताथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमु᳘पचरेयुर्यो[[!!]] वै᳘ ब्राह्मणा᳘नामनूचान᳘तमः स᳘ ऽएषां व्वीर्य᳘वत्तमो᳘ ऽथ य᳘दिदं य᳘ एव क᳘श्च ब्रह्मा भ᳘वति कुवि᳘त्तूष्णीमा᳘स्त ऽइ᳘ति त᳘स्माद्य᳘ एव᳘ व्वी᳘र्यवत्तमः[[!!]] स्यात्स᳘ दक्षिणत᳘ ऽआसीता᳘थाभये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ 2 यज्ञमु᳘पचरेयुस्त᳘स्माद्ब्राह्मणा᳘ दक्षिणत᳘ ऽआसते ऽथा᳘भये ऽनाष्ट्र᳘ ऽउत्तरतो᳘ यज्ञमुपचरन्ति[[!!]]॥

मूलम् - Weber

स᳘ होवाच॥
कि᳘म् मे ततः᳘ स्यादि᳘ति ब्राह्मणाॗछंस्या ते ब्रह्मसाम᳘ त इ᳘ति त᳘स्माद्ब्राह्मणाछंसि᳘नम् प्र᳘वृणीत इ᳘न्द्रो ब्रह्मा ब्रा᳘ह्मणादिती᳘न्द्रस्यॗ ह्येषा स इ᳘न्द्रो दक्षिणत᳘ आस्ताथाभये᳘ नाष्ट्र᳘ उत्तरतो᳘ यज्ञमु᳘पाचरंस्त᳘स्माद्य᳘ एव᳘ वीर्य᳘वत्तमः स्यात्स᳘ दक्षिणत᳘ आसीताता᳘भये ऽनाष्ट्र᳘ उत्तरतो᳘ यज्ञमु᳘पचरेयु᳘र्यो वै᳘ ब्राह्मणा᳘नामनूचान᳘तमः स᳘ एषां वीर्य᳘वत्तमो᳘ ऽथ य᳘दिदं य᳘ एव क᳘श्च ब्रह्मा भ᳘वति कुवि᳘त्तूष्णीमा᳘स्त इ᳘ति त᳘स्माद्य᳘ एव᳘ वीर्य᳘वत्तमः स्यात्स᳘ दक्षिणत᳘ आसीता᳘थाभये ऽनाष्ट्र᳘ उत्तरतो᳘ यज्ञमु᳘पचरेयुस्त᳘स्माद्ब्राह्मणा᳘ दक्षिणत᳘ आसते ऽथा᳘भये ऽनाष्ट्र᳘ उत्तरतो᳘ यज्ञमु᳘पचरन्ति॥

मूलम् - विस्वरम्

स होवाच- किं मे ततः स्यादिति । ब्राह्मणाच्छंस्या ते ब्रह्मसाम त ऽइति । तस्माद्ब्राह्मणाच्छंसिनं प्रवृणीते । इन्द्रो ब्रह्मा ब्राह्मणादिति इन्द्रस्य ह्येषा । स इन्द्रो दक्षिणत आस्त, अथाभये ऽनाष्ट्र ऽउत्तरतो यज्ञमुपाचरन् । तस्माद्य एव वीर्यवत्तमः स्यात् स दक्षिणत आसीत । अथाभये ऽनाष्ट्र Sउत्तरतो यज्ञमुपचरेयुः । यो वै ब्राह्मणानामनूचानतमः स एषां वीर्यवत्तमः । अथ यदिदं य एव कश्च ब्रह्मा भवति- कुवित्तूष्णीमास्त ऽइति । तस्माद्य एव वीर्यवत्तमः स्यात् । स दक्षिणत आसीत अथाभये ऽनाष्ट्र ऽउत्तरतो यज्ञमुपचरेयुः । तस्माद्ब्राह्मणा दक्षिणत आसते, अथाभये ऽनाष्ट्र ऽउत्तरतो यज्ञमुपचरन्ति ॥ ५ ॥

सायणः

स होवाचेति । इन्द्रो दक्षिणतः स्थाप्यमानो देवानुवाच ‘किं’ मम फलं ‘ततः स्यादिति’ देवास्तु तमिन्द्रमूचुर्ब्राह्मणाच्छंस्यानाम होत्रा 3 प्रथमो ब्रह्मपुरुषः सो (?) ततः प्रत्यात्मिका यावत्किंचित्सा करिष्यति शस्त्रं वा आज्यं वा तत्सर्वं तव भविष्यतीत्यर्थः । न केवलं सा किं तर्हि ‘ब्रह्मसाम’ अपरं तव भविष्यति माध्यन्दिने सवने ब्रह्मणाच्छंसिनः शस्त्रं स्तोत्रं तद्ब्रह्मसाम तदपि तव एवं देवा ऊचुस्तस्मादवृत्वा ऽप्यध्वर्युर्ऋतुग्रहयाज्यर्थमन्यासु होत्रासु व्रियमाणासु इममपि ब्राह्मणाच्छंसिनं प्रवृतमेव स तवैव रूपं यत्ते वृणीते इन्द्रो ब्रह्मेत्यनेन मन्त्रेण इन्द्रस्य ह्येषा स्वभूता ब्राह्मणाच्छंस्या (दौवैव व दंत त्वादिति) ब्रह्मा इन्द्र इति सामानाधिकरण्ये क्रतुः । अत्र च ब्राह्मणाच्छंस्येति प्रकृते तस्माद्ब्राह्मणाच्छंसिनमिति प्रयोगाद् ब्राह्मणाच्छंस्येव ब्राह्मणाच्छंस्याशब्देनोच्यत इति अनुमन्त्रस्यार्थं दर्शयामः । ‘इन्द्रो’ देवराजः ब्रह्मास्तीति शेषः । कुत एतत् प्रवृणीत इति वचनाद्वरणं हि साम्ना कर्मणि प्रवर्तते । तत्वाध्येषणा या शिष्यस्यैव भवति स एव शेषः कथं पुनरिन्द्रो (?) साम्नादिष्वित्यत आह- ब्राह्मणात् कर्मणो हेतोः ब्रह्मा ऋत्विक् कतमः ब्राह्मणस्तस्माद्धेतोः ब्राह्मणमधितद्ब्रह्मत्वं कुर्वन्निन्द्रो ब्रह्मास्त्वित्यर्थः । द्वे च सतीन्द्रो ऽत्र व्रियमाणो ब्रह्मा न भवति कथं स ऋत्विक् (?) नैष दोषः । नैवानुऋत्विग्वरणेनायं मानुषः स्यात्प्रयोगादावेव वृतत्वात् । एवमपि ब्रह्मणो वरणं मन्त्रेण क्रियते न वा ब्राह्मणाच्छंसिनः नैष दोषः । ब्राह्मणाच्छंस्येवानुब्रह्मेति ब्रह्मपुरुषत्वात् । ततश्चायमर्थः । इन्द्रो ब्राह्मणाच्छंसि कर्म करोति । कथं पुनरवसीयते मन्त्रार्थ इति । पूर्वोत्तरेषु मन्त्रेष्वीदृशानामेवार्थानां दर्शनात् । अश्विनौ अध्वर्यूतौ आध्वर्यवाद्धेतोर्मित्रावरुणौ प्रशास्तारौ तौ (?) प्रशस्तौ कर्मणा एवमेव इन्द्रो ब्राह्मणाच्छंसीयादिति वक्तव्ये लक्षणया ऽयमर्थः सेत्स्यतीति तथोक्तं तथोत्तरेषु मरुतः पोतारः सन्तु पोत्रात्पवमानाद्ग्नावः स्त्रियो देवपत्न्यः । तद्वान्नेष्ट्रानयनात्पत्नीनां सो ऽग्निराग्नीध्रो ऽस्तु आग्नीध्रात्कर्मण इति । अथ कस्मादेवं न भवति य एष ब्रह्मा एष इन्द्रो ऽस्त्विति न तदेवं न ह्येवं सति वरणं कृतं स्यादपि च मित्रावरुणौ प्रशास्तारावित्येतन्न संभवति । न हि द्वौ प्रशास्तारौ मित्रावरुणात्मकौ स्यातां, तस्माद्यथोक्त एव मन्त्रार्थः । ननु ब्रह्मणः कर्म ब्रह्मत्वं स्याद्ब्रह्मत्वम् इति विशेषविधानात् । नैतदेवं मन्त्रान्तरवशात्तावदयं मन्त्रार्थो विशिष्टस्ततश्च (एतद्वसन) इन्द्रादिष्वपि ब्रह्मशब्दः पठितव्यः । (उच्यते इह तावद्धि तुल्यं तत्पुरुषस्य वा शंसनमुचितमयं नु होतारौ न तत्पुरुषः) तथापि ब्राह्मणात्कर्मणा होता शंसतीति ब्राह्मणाच्छंसी । पञ्चम्या अलुग्द्रष्टव्यः । ब्रह्मणा किल त्रिभिरपि देवकर्मकर्तव्यं तत्स एतैः पुरुषै कारयित्वा वैदिकं ब्राह्मणाच्छंसिना अग्नीधा यज्ञार्थमच्छावाक्पोत्रा सामादिकं ततश्च यस्माद्ब्रह्मणः कर्म कर्तव्यं तस्माच्छंसीति ब्राह्मणाच्छंसतीति एवमेव ब्रह्मत्वं स्यात्- “कृत्यल्युटो बहुलम्”- (पा. सू. ३ । ३ । ११३) । इति कर्तरि ण्यप्रत्ययः । ‘इन्द्रो दक्षिणत आस्त’ 4- “आस उपवेशने”- (धा. पा. अ. आ. ११) उपविष्टः । ‘अथ यदिदम्’ इति प्रसिद्धानुवादो निंदार्थे यदि वा लोके दृश्यते यः कश्चिदवीर्यवत्तमो ऽपि ब्रह्मा भवति तत्र किं प्रवृत्तिकारणं आह- ‘कुवित्’ बहुप्रायः ‘तूष्णी’ ब्रह्मा ‘आस्ते’ तूष्णीमिति न होत्र्युद्गातृवद्वाचानैव करोति (मन्यसे इति एवमध्वर्युवदतीव परिसतीत्यभिप्रायः ।) एवं ब्रह्मा प्रायस्तूष्णीमास्ते । (ततो ऽहमपि सव्यामि तूष्णीमासीति त्रायेति मन्यमानो) यः कश्चिदपि ब्रह्मा भवति । तत्र युक्तमवीर्यवत्त्वमेव अवीर्यत्वस्य गोपायितुमशक्यत्वात्तस्माद्वीर्यवत्तम एव ब्रह्मा स्यादिति वक्तव्ये ब्रह्मणो दक्षिणावस्थानमुपसंहरति । ‘तस्माद्ब्राह्मण’ इत्यन्ये ऽपि ब्राह्मणा अवृता एतामेव दिशमधितिष्ठेयुरिति दर्शयति ॥ ५ ॥

Eggeling
  1. He said, ‘What will be my reward then?’–‘The office of Brāhmaṇāchaṁsin shall be thine, the

Brahmasāman 5 shall be thine!’–Hence one elects the Brāhmaṇāchaṁsin with, ‘Indra is the Brahman, by virtue of the Brahmaship!’ for to Indra belongs this (office). Indra sat on the south side, and they entered upon the sacrifice on the north side in a place free from danger and injury. Therefore let him who is the strongest sit on the south side, and let them then enter upon the sacrifice on the north side in a place free from danger and injury. Now he, forsooth, who is the most learned of Brāhmans, is the strongest of them; and as now any one is (able to become) a (superintendent) Brahman 6–nay, does he not sit still?–therefore whosoever is the strongest

of them, let him sit on the south side, and let them then enter upon the sacrifice on the north side in a place free from danger and injury. Hence Brāhmans sit on the south side (of the vedi), and they enter upon the sacrifice on the north side in a place free from danger and injury.

०६

विश्वास-प्रस्तुतिः

स यत्रा᳘ह॥
ब्र᳘ह्मन्त्स्तोष्या᳘मः प्र᳘शास्तरि᳘ति त᳘द्ब्रह्मा᳘ जपत्येतं᳘ ते देव सवितर्यज्ञं प्रा᳘हुर्बृ᳘हस्प᳘तये ब्रह्म᳘णे। ते᳘न यज्ञ᳘मव ते᳘न यज्ञ᳘पतिं ते᳘न मा᳘म। स्तुत᳘ सवितुः᳘ प्रसव ऽइ᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुरेते᳘न न्वेव भू᳘यिष्ठा ऽइवो᳘पचरन्ति॥

मूलम् - श्रीधरादि

स यत्रा᳘ह॥
ब्र᳘ह्मन्त्स्तोष्या᳘मः प्र᳘शास्तरि᳘ति त᳘द्ब्रह्मा᳘ जपत्येतं᳘ ते देव सवितर्यज्ञं प्रा᳘हुर्बृ᳘हस्प᳘तये ब्रह्म᳘णे। ते᳘न यज्ञ᳘मव ते᳘न यज्ञ᳘पतिं ते᳘न मा᳘म। स्तुत᳘ सवितुः᳘ प्रसव ऽइ᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुरेते᳘न न्वेव भू᳘यिष्ठा ऽइवो᳘पचरन्ति॥

मूलम् - Weber

स यत्रा᳘ह॥
ब्र᳘ह्मन्त्स्तोष्या᳘मः प्र᳘शास्तरि᳘ति तद्ब्रह्मा᳘ जपत्येतं᳘ ते देव सवितर्यज्ञम् प्रा᳘हुर्बृ᳘हस्प᳘तये ब्रह्म᳘णे ते᳘न यज्ञ᳘मव ते᳘न यज्ञ᳘पतिं ते᳘न मा᳘मव स्तुत᳘ सवितुः᳘ प्रसव इ᳘तिॗ सो ऽसा᳘वेव ब᳘न्धुरेते᳘नॗ न्वेव भू᳘यिष्ठा इवो᳘पचरन्ति॥

मूलम् - विस्वरम्

स यत्राह- ब्रह्मन् स्तोष्यामः प्रशास्तरिति । तद् ब्रह्मा जपति । “एतं ते देव सवितर्यज्ञं प्राहुः, बृहस्पतये ब्रह्मणे । तेन यज्ञमव, तेन यज्ञपतिम्, तेन मामव (वा. सं. २ । १२) । स्तुत सवितुः प्रसवे” इति । सो ऽसावेव बन्धुः । एतेन न्वेव भूयिष्ठा- इवोपचरन्ति ॥ ६ ॥

सायणः

स यत्राहेति । प्रसन्ना । बृहस्पते प्रसूतेति 7 शेषः ॥ ६-८ ॥

इति श्रीहरिस्वामिनाः । कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठे ऽध्याये षष्ठं ब्राह्मणम् ॥ (४-६-६) ॥

Eggeling
  1. When (the Prastotr̥) says, ‘Brahman, we will chant, O Praśāstar!’ then the Brahman mutters (Vāj.. S. II, 12), ‘This thy sacrifice, O divine Savitar, have they announced unto Br̥haspati (the lord of prayer), the Brahman 8: therefore speed the sacrifice, speed the lord of the sacrifice, speed me 9!–Praise ye at the impulse (prasava) of Savitr̥!’ The significance is the same (as before) 10. With this (text) must probably enter upon (the chant).

०७

विश्वास-प्रस्तुतिः

(न्त्य) अने᳘न᳘ त्वेवो᳘पचरेत्॥
(द्दे᳘) दे᳘व सवितरेतद्बृ᳘हस्पते प्रे᳘ति त᳘त्सविता᳘रं प्रसवायो᳘पधावति स हि᳘ देवा᳘नां प्रसविता बृ᳘हस्पते प्रे᳘ति ब्बृ᳘हस्प᳘तिर्व्वै᳘ देवा᳘नां ब्रह्मा तद्य᳘ ऽएव᳘ देवा᳘नां ब्रह्मा त᳘स्मा ऽए᳘वैतत्प्रा᳘ह त᳘स्मादाह ब्बृ᳘हस्प᳘ते प्रेति[[!!]]॥

मूलम् - श्रीधरादि

(न्त्य) अने᳘न᳘ त्वेवो᳘पचरेत्॥
(द्दे᳘) दे᳘व सवितरेतद्बृ᳘हस्पते प्रे᳘ति त᳘त्सविता᳘रं प्रसवायो᳘पधावति स हि᳘ देवा᳘नां प्रसविता बृ᳘हस्पते प्रे᳘ति ब्बृ᳘हस्प᳘तिर्व्वै᳘ देवा᳘नां ब्रह्मा तद्य᳘ ऽएव᳘ देवा᳘नां ब्रह्मा त᳘स्मा ऽए᳘वैतत्प्रा᳘ह त᳘स्मादाह ब्बृ᳘हस्प᳘ते प्रेति[[!!]]॥

मूलम् - Weber

अने᳘नॗ त्वेवो᳘पचरेत्॥
दे᳘व सवितरेतद्बृ᳘हस्पते प्रे᳘ति त᳘त्सविता᳘रम् प्रसवायो᳘पधावति स हि᳘ देवा᳘नाम् प्रसविता बृ᳘हस्पते प्रे᳘ति बृ᳘हस्प᳘तिर्वै देवा᳘नाम् ब्रह्मा तद्य᳘ एव᳘ देवा᳘नाम् ब्रह्मा त᳘स्मा एॗवैतत्प्रा᳘ह त᳘स्मादाह बृ᳘हस्पते प्रे᳘ति॥

मूलम् - विस्वरम्

अनेन त्वेवोपचरेत् । “देव सवितरेतद्बृहस्पते प्र”- इति । तत् सवितारं प्रसवायोपधावति । स हि देवानां प्रसविता । बृहस्पते प्रेति । बृहस्पतिर्वै देवानां ब्रह्मा । तद् य एव देवानां ब्रह्मा- तस्मा ऽएवैतत्प्राह- तस्मादाह- बृहस्पते प्रेति ॥ ७ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. But one may also enter upon it with, ‘O divine Savitar; this, O Br̥haspati, forwards!’ Therewith he hastes to Savitr̥ for his impulsion, for he is the impeller (prasavitr̥) of the gods; and ‘O Br̥haspati, forwards!’ he says, because Br̥haspati is the Brahman of the gods,–thus he announces it to him who is the Brahman of the gods: therefore he says, ‘O Br̥haspati, forwards 11!’

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मैत्रावरुणो᳘ जपति॥
प्र᳘सूतं देवे᳘न सवित्रा जु᳘ष्टं मित्राव᳘रुणाभ्यामि᳘ति त᳘त्सविता᳘रं प्रसवायो᳘पधावति स हि᳘ देवा᳘नां प्रसविता जु᳘ष्टं मित्राव᳘रुणाभ्यामि᳘ति मित्राव᳘रुणौ वै᳘ मैत्रावरुण᳘स्य देव᳘ते त᳘द्ये᳘ ऽएव᳘ मैत्रावरुण᳘स्य देव᳘ते ता᳘भ्यामे᳘वैतत्प्रा᳘ह त᳘स्मादाह जु᳘ष्टं मित्राव᳘रुणाभ्यामि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मैत्रावरुणो᳘ जपति॥
प्र᳘सूतं देवे᳘न सवित्रा जु᳘ष्टं मित्राव᳘रुणाभ्यामि᳘ति त᳘त्सविता᳘रं प्रसवायो᳘पधावति स हि᳘ देवा᳘नां प्रसविता जु᳘ष्टं मित्राव᳘रुणाभ्यामि᳘ति मित्राव᳘रुणौ वै᳘ मैत्रावरुण᳘स्य देव᳘ते त᳘द्ये᳘ ऽएव᳘ मैत्रावरुण᳘स्य देव᳘ते ता᳘भ्यामे᳘वैतत्प्रा᳘ह त᳘स्मादाह जु᳘ष्टं मित्राव᳘रुणाभ्यामि᳘ति॥

मूलम् - Weber

अ᳘थ मैत्रावरुणो᳘ जपति॥
प्र᳘सूतं देवे᳘न सवित्रा जु᳘ष्टम् मित्राव᳘रुणाभ्यामि᳘ति त᳘त्सविता᳘रम् प्रसवायो᳘पधावति स हि᳘ देवा᳘नाम् प्रसविता जु᳘ष्टम् मित्राव᳘रुणाभ्यामि᳘ति मित्राव᳘रुणौ वै᳘ मैत्रावरुण᳘स्य देव᳘ते तद्ये᳘ एव᳘ मैत्रावरुण᳘स्य देव᳘ते ता᳘भ्यामेॗवैतत्प्रा᳘ह त᳘स्मादाह जु᳘ष्टम् मित्राव᳘रुणाभ्यामि᳘ति॥

मूलम् - विस्वरम्

अथ मैत्रावरुणो जपति । “प्रसूतंदेवेन सवित्रा जुष्टं मित्रावरुणाभ्याम्" 7- इति । तत् सवितारं प्रसवायोपधावति । स हि देवानां प्रसविता । “जुष्टं मित्रावरुणाभ्याम्” इति । मित्रावरुणौ वै मैत्रावरुणस्य देवते । तद् ये ऽएव मैत्रावरुणस्य देवते- ताभ्यामेवैतत्प्राह- तस्मादाह- जुष्टं मित्रावरुणाभ्यामिति ॥ ८ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. The Maitrāvaruṇa then mutters, ‘Impelled

by the divine Savitr̥, acceptable to Mitra and Varuṇa!’ Therewith he hastes to Savitr̥ for his impulsion, for he is the impeller of the gods; and ‘acceptable to Mitra and Varuṇa’ he says, because Mitra and Varuṇa are the deities of the Maitrāvaruṇa (Praśāstr̥),–thus he announces it to those who are the deities of the Maitrāvaruṇa: therefore he says, ‘acceptable to Mitra and Varuṇa.’


  1. A. has at the close ॥ ४ ॥ एकांडीने नाम । कुर्वा ॥. ↩︎

  2. उत्तरतउपचारो यज्ञः । ↩︎

  3. होतॄनामग्रहणांतं कृत्वेतरांश्चाश्राव्याश्राव्य प्रव्वृणीते यथालिंगम् । होतुरनभिहितमपि इंद्रं होत्रात् इति वरिष्ठम् । इति कर्कः । अश्विना ऽध्वर्यू आध्यर्यवात् । अत्र चाध्वर्योर्द्वितीयः प्रतिप्रस्थाता । वरणं च नेष्टा करोतीति कर्कः । मित्रावरुणौ प्रशास्तारौ प्राशःस्त्रात् । अत्र द्वितीयो ऽच्छावाकः । इति कर्कः । इंद्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छँ सिनम् । ब्रह्मणो वरणमपीति कर्कः । ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंस्या इति नामांतरं । ब्राह्मणाच्छंसी अनुब्रह्माऋत्विगुच्यते । उपब्रह्मेत्यर्थः । अस्मादुपब्रह्मवरणलिंगादन्यत्रापि क्रियमाणं उपर्त्विजां वरणं वैधमिति बोद्धव्यम् । मरुतः पोत्रात् । ग्नावो नेष्ट्रात् । अग्निराग्नीध्रात् । अग्निर्ह दैवीनामिति यजमानम् । वृणीते । का. श्रौ. सू. ९ । १७६-१८० । ↩︎

  4. दक्षिणतो ब्रह्मयजमानयोरासने । का. श्रौ. सू. १ । २०२ । २०१ । ↩︎

  5. 434:1 That is, the Sāman which supplies the text for the Stotra chanted in connection with the Brāhmaṇāchaṁsin’s Sastra, and forming the Stotriya verse of the latter. Thus, at the midday savana, the (Pr̥shṭḥa) Stotra of that priest usually consists of the Naudhasa-sāman (Sāma-veda II, 35-36), if the Rathantara-sāman (Sāma-vela II, 30-31) is used for the Hotr̥’s Stotra; but, if the Br̥hat-sāman (ib. II, 159-160) is used for the latter, then the Śyaita-sāman (II, 161-2) is used as the Brahma-sāman. See p. 339, note 2. The reason, however, why special mention is made of the Brāhmaṇāchaṁsin in this place, probably is that at the Gavām ayana the Brahma-sāman is treated in a peculiar way. For, while on 142 days of the first half of the year,–viz. on the Caturviṁśa, on all (6 × 23) Ābhiplavika days and on the three Svara-sāman days,–one and the same tune, the Abhīvarta-sāman, is to be used day by day, but each time with a different pragātha stanza (thus the pragātha S. V. II, 35-36, usually chanted to the Naudhasa tune, being on this occasion chanted to the Abhīvarta tune); on the corresponding days of the second half of the year, one and the same stanza, ‘Indra kratuṁ na ā bhara’ (S. V. II, 806-7), is to be used day by day, but with different tunes (six such being given in the Calc. ed. vol. iv, pp. 529-34). Tāṇḍya Br. IV, 3, 1 seq. ↩︎

  6. 434:2 According to XII, 6, I, 40 only priests of the Vasishṭḥa family could become Brahmans, or superintendent priests, in olden times; because they alone knew the Somabhāga mantras; but now every one learns them, and can therefore become a Brahman. ↩︎

  7. प्रस्तोत्रामंत्रित एतं ते देवसवितः स्तुतसवितुः प्रसव इत्युक्त्वा प्रसौति । देवसवितरेतत् बृहस्पते इति वा । रश्मिना सत्यायेति वा प्रतिमंत्रं । संहितायां पंचदशे ऽध्याये रश्मिना सत्यायेति एकोनत्रिंशत् २९ स्तोमभागमंत्राः ज्योतिष्टोमे द्वादश स्तोत्राणि तत्राद्यैर्द्वादशभिर्मंत्रैः प्रतिमंत्रं प्रतिस्तोत्रं रश्मिना सत्यायेत्यादिकं क्रमेणैकैकं मंत्रमुक्त्वा स्तुतसवितुरित्यनेन सर्वत्रानुजानीयात् । इति सूत्रार्थः । प्रस्तोत्रामंत्रणं तु ब्रह्मन् स्तोष्यामः प्रशास्तः । इति । ↩︎ ↩︎

  8. 435:1 Mahīdhara interprets, ‘This sacrifice, O divine Savitar, they announce to thee and to Br̥haspati, the Brahman.’ Perhaps the correct meaning (though not that assumed by the Brāhmaṇa) is, ‘This sacrifice they announce to thee as the Br̥haspati, the Brahman!’ and similarly the mantra in the next paragraph. ↩︎

  9. 435:2 The Kāṇva text adds here the verse Vāj. S. II, 13; see Śat. Br. I, 7, 4, 22, with the same various reading ‘gyotir.’ ↩︎

  10. 435:3 See I, 7, 4, 21. Asau nvaivaitasya yajusho bandhur ya evāsau darśapūrṇamāsayoḥ; Kāṇva text. ↩︎

  11. 435:4 On ‘pra’ see part i, p. 301 note. ↩︎