०१
विश्वास-प्रस्तुतिः
एष वै ग्र᳘हः॥
(हो) य᳘ एष त᳘पति ये᳘नेमाः स᳘र्व्वाः प्रजा᳘ गृहीतास्त᳘स्मादाहुर्ग्र᳘हान्गृह्णीम इ᳘ति चरन्ति ग्र᳘हगृहीताः स᳘न्त इ᳘ति॥
मूलम् - श्रीधरादि
एष वै ग्र᳘हः॥
(हो) य᳘ एष त᳘पति ये᳘नेमाः स᳘र्व्वाः प्रजा᳘ गृहीतास्त᳘स्मादाहुर्ग्र᳘हान्गृह्णीम इ᳘ति चरन्ति ग्र᳘हगृहीताः स᳘न्त इ᳘ति॥
मूलम् - Weber
एष वै ग्र᳘हः॥
य᳘ एष त᳘पति ये᳘नेमाः स᳘र्वाः प्रजा᳘ गृहीतास्त᳘स्मादाहुर्ग्र᳘हान्गृह्णीम इ᳘ति चरन्ति ग्र᳘हगृहीताः स᳘न्त इ᳘ति॥
मूलम् - विस्वरम्
ग्रहोपासनाब्राह्मणम् ।
एष वै ग्रहो य एष तपति, येनेमाः सर्वाः प्रजा गृहीताः । तस्मादाहुः- ग्रहान्गृह्णीम इति । चरन्ति ग्रहगृहीताः सन्त इति ॥ १ ॥
सायणः
एष वै ग्रह इति । [सूर्यात्मकस्य व्याधिर्त्वि (?) कस्य ] ग्रहस्याभिचारिकस्यैवमुपस्थानमत्राभिधीयते । ग्रहाधिकारात्प्रसङ्गाच्चाध्यात्मिकाधिभौतिका ग्रहाः प्रदर्श्यन्ते । ग्रहशन्दस्य निर्वचनान्तरमुच्यते । तत्रोपस्थेयं तावद्- ग्रहमाह- एष वै ग्रह इति । येनेमाः सर्वाः प्रजा गृहीता इति सौरेण तेजसा सर्व एव देहा अधिष्ठिताः । यथोक्तं तस्येमाः सर्वाः प्रजा रश्मिभिः प्राणेष्वभिहिता “तस्य हैतस्य हृदये पादावतिहतौ तदेषा सविता” विभक्तिभ्यः प्रजाभ्यो विभजतीति वा । येनेति कर्तरि तृतीया ततश्च गृह्णातीति ग्रह इति कर्तरि एव कारके “ग्रहवृदृनिश्चिगमश्च” इति (पा. सू. ३-३-५८) अप्प्रत्ययं दर्शयति- यस्माच्चैष आदित्यो ग्रहः ‘स्तस्मादादुः’ ब्रह्मविदो ‘ग्रहान् गृह्णीम इति’ एवं मन्यमाना ऋत्विजः ‘चरन्ति ग्रहेणादित्येन गृहीताः’ ‘सन्तः’ इत्यादि स्वस्वावकाशे “स उद्यन्तं चादित्यमुपतिष्ठते” एतत्पठितव्यं व्यवहर्तृभिस्तदुत्सार्यास्यैवादित्यस्य ग्रहस्य ग्रह एवपरभागलाभायान्यग्रहानुपन्यस्य निराकरोति वागेवेति । आध्यात्मिकया ‘वाचा हि’ इति करणे तृतीया । वाचा स यथा ऽऽदित्यरूपे व्यावहारिकम् इदं सर्वं व्यवहारजातं परिगृहीतं व्यवहर्तृभिर्न हि यद्येन यद्भाषितं तदतिक्रमितुमर्हति किमु तद्यद्वाक् इति दूषणं किंशब्दे द्रष्टव्यम् । यदेतद्वाग्ग्रह इत्येतत्किमिति मिथ्यैतदित्यर्थः । कथं तत्रेदं द्रष्टव्यम् । नहि वचने सर्वे गृह्यन्ते ऽतिक्रमस्य निदर्शनात्ततश्चान्यदेवता तत्र भूयादिति नियामकं न वाङ्मात्रमिति ॥ १ ॥ २ ॥
Eggeling
- Now the graha 1, forsooth, is he that burns yonder, since by him all these creatures are held (swayed). Hence they say, ‘We take (grab) the grahas,’ ‘They walk, seized by the grahas.’
०२
विश्वास-प्रस्तुतिः
व्वा᳘गेव ग्र᳘हः॥
(हो) व्वाचा᳘ हीदᳫं᳭ स᳘र्व्वं गृहीतं कि᳘मु तद्यद्वाग्ग्र᳘हः॥
मूलम् - श्रीधरादि
व्वा᳘गेव ग्र᳘हः॥
(हो) व्वाचा᳘ हीदᳫं᳭ स᳘र्व्वं गृहीतं कि᳘मु तद्यद्वाग्ग्र᳘हः॥
मूलम् - Weber
वा᳘गेव ग्र᳘हः॥
वाचाॗ हीदᳫं स᳘र्वं गृहीतं कि᳘मु तद्यद्वाग्ग्र᳘हः॥
मूलम् - विस्वरम्
वागेव ग्रहः । वाचा हीदं सर्वं गृहीतम् । किमु तद्- यद्वाग्ग्रहः ॥ २ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
०३
विश्वास-प्रस्तुतिः
(हो) ना᳘मैव ग्र᳘हः॥
(हो) ना᳘म्ना᳘ हीदᳫँ᳭ स᳘र्व्वं गृहीतं कि᳘मु तद्यन्ना᳘म ग्र᳘हो बहूनां वै ना᳘मानि व्विद्मा᳘थ नस्ते᳘न ते न᳘ गृहीता᳘ भवन्ति॥
मूलम् - श्रीधरादि
(हो) ना᳘मैव ग्र᳘हः॥
(हो) ना᳘म्ना᳘ हीदᳫँ᳭ स᳘र्व्वं गृहीतं कि᳘मु तद्यन्ना᳘म ग्र᳘हो बहूनां वै ना᳘मानि व्विद्मा᳘थ नस्ते᳘न ते न᳘ गृहीता᳘ भवन्ति॥
मूलम् - Weber
ना᳘मैव ग्र᳘हः॥
ना᳘म्नाॗ हीदᳫं स᳘र्वं गृहीतं कि᳘मु तद्यन्ना᳘म ग्र᳘हो बहूनां वै ना᳘मानि विद्मा᳘थ नस्ते᳘न ते न᳘ गृहीता᳘ भवन्ति॥
मूलम् - विस्वरम्
नामैव ग्रहः । नाम्ना हीदं सर्वं गृहीतम् । किमु तद् यन्नाम ग्रहः । बहूनां वै नामानि विद्माथ नस्तेन ते न गृहीता भवन्ति ॥ ३ ॥
सायणः
नामैव ग्रह इति । ‘नाम्ना’ करणभूतेन व्यवहर्तृभिरिदं सर्वं नामजातं परिगृहीतं बुद्ध्या चानीय इत्यभिप्रायः । ‘किमु तद्यत् वाङ्नाम’ इति पूर्वपक्षः । ‘बहूनां वै’ अर्थानामिन्द्रादीनां मघवानिन्द्र इत्यादीनि ‘विद्म’ जानीम “विदो लटो वा”- (पा. सू. ३ । ४ । ८३) इति मसो मादेशः । अथ तथापि ‘नः’ अस्माकं ‘ते’ इन्द्रादयो ‘न’ ‘तेन’ नाम्ना ‘गृहीता’ बद्धा इव वशवर्त्तिनो भवन्ति । वशवर्तित्वं च ग्रहणं न स्मरणमात्रमित्यभिप्रायः ॥ ३ ॥
Eggeling
- The graha, forsooth, is the name, for everything is held (fixed) by a name here,–what wonder, then, that the name is the graha? We know the names of many, and are they not thereby held by us 4?
०४
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘न्नमेव ग्र᳘हः॥
(हो᳘ ऽन्ने) अ᳘न्नेन᳘ हीदᳫँ᳭ स᳘र्व्वं गृहीतं त᳘स्माद्या᳘वन्तो नो᳘ ऽशनमश्न᳘न्ति ते᳘ नः स᳘र्व्वे गृहीता᳘ भवन्त्ये᳘षैव स्थि᳘तिः॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘न्नमेव 5 ग्र᳘हः॥
(हो᳘ ऽन्ने) अ᳘न्नेन᳘ हीदᳫँ᳭ स᳘र्व्वं गृहीतं त᳘स्माद्या᳘वन्तो नो᳘ ऽशनमश्न᳘न्ति ते᳘ नः स᳘र्व्वे गृहीता᳘ भवन्त्ये᳘षैव स्थि᳘तिः॥
मूलम् - Weber
अ᳘न्नमेव ग्र᳘हः॥
अ᳘न्नेनॗ हीदᳫं स᳘र्वं गृहीतं त᳘स्माद्या᳘वन्तो नो᳘ ऽशनमश्न᳘न्ति ते᳘ नः स᳘र्वे गृहीता᳘ भवन्त्येॗषैव स्थि᳘तिः॥
मूलम् - विस्वरम्
अन्नमेव ग्रहः । अन्नेन हीदं सर्वं गृहीतम् । तस्माद् यावन्तो नो ऽशनमश्नन्ति ते नः सर्वे गृहीता भवन्ति । एषैव स्थितिः ॥ ४ ॥
सायणः
‘अन्नमेव’ ‘अन्नेन हि’ करणभूतेन दातृभिः ‘इदं’ ‘सर्वं’ सर्वजातीयकं वशीकृतम् । यस्मात् ‘यावन्तः’ प्राणिनो ऽस्माकमन्नम् ‘अश्नन्ति’ ‘ते’ अस्माकं ‘सर्वे’ ‘गृहीता’ वश्या ‘भवन्ति’ इति ‘एषैव’ अत्र ‘स्थितिः’ ॥ ४ ॥
Eggeling
- The graha, forsooth, is food; for by food everything is kept (grah) here: hence as many as eat our food, all those are kept by us. Such is the natural order of things.
०५
विश्वास-प्रस्तुतिः
स य᳘ एष᳘ सोमग्रहः॥
(हो᳘ ऽन्नं) अ᳘न्नं वा᳘ ऽएष स य᳘स्यै देव᳘ताया ऽएतं ग्र᳘हं गृह्णा᳘ति᳘ सा ऽस्मै देव᳘तैते᳘न ग्र᳘हेण गृहीता तं का᳘मᳫँ᳭ स᳘मर्धयति यत्काम्या᳘ गृह्णा᳘ति स᳘ उद्य᳘न्तं वा ऽऽदित्य᳘मुपति᳘ष्ठते ऽस्तं य᳘न्तं वा ग्र᳘हो ऽस्यमु᳘मनया᳘र्त्या गृहाणासा᳘वदो मा प्रा᳘पदि᳘ति यं᳘ द्विष्या᳘दसा᳘वस्मै का᳘मो मा स᳘मर्धी᳘ति वा न᳘ है᳘वास्मै स का᳘मः स᳘मृध्यते य᳘स्मा ऽएव᳘मुपति᳘ष्ठते॥
मूलम् - श्रीधरादि
स य᳘ एष᳘ सोमग्रहः॥
(हो᳘ ऽन्नं) अ᳘न्नं वा᳘ ऽएष स य᳘स्यै देव᳘ताया ऽएतं ग्र᳘हं गृह्णा᳘ति᳘ सा ऽस्मै देव᳘तैते᳘न ग्र᳘हेण गृहीता तं का᳘मᳫँ᳭ स᳘मर्धयति यत्काम्या᳘ गृह्णा᳘ति स᳘ उद्य᳘न्तं वा ऽऽदित्य᳘मुपति᳘ष्ठते ऽस्तं य᳘न्तं वा ग्र᳘हो ऽस्यमु᳘मनया᳘र्त्या गृहाणासा᳘वदो मा प्रा᳘पदि᳘ति यं᳘ द्विष्या᳘दसा᳘वस्मै का᳘मो मा स᳘मर्धी᳘ति वा न᳘ है᳘वास्मै स का᳘मः स᳘मृध्यते य᳘स्मा ऽएव᳘मुपति᳘ष्ठते॥
मूलम् - Weber
स य᳘ एष᳘ सोमग्रहः॥
अ᳘न्नं वा᳘ एष स य᳘स्यै देव᳘ताया एतं ग्र᳘हम् गृह्णा᳘तिॗ सास्मै देव᳘तैते᳘न ग्र᳘हेण गृहीता तं का᳘मᳫं स᳘मर्धयति यत्काम्या᳘ गृह्णा᳘ति स᳘ उद्य᳘न्तं वादित्य᳘मुपति᳘ष्ठते ऽस्तं य᳘न्तं वा ग्र᳘हो ऽस्यमु᳘मनया᳘र्त्या गृहाणासा᳘वदो मा प्रा᳘पदि᳘ति यं᳘ द्विष्या᳘दसा᳘वस्मै का᳘मो मा स᳘मर्धी᳘ति वा न᳘ हैॗवास्मै स का᳘मः स᳘मृध्यते य᳘स्मा एव᳘मुपति᳘ष्ठते॥
मूलम् - विस्वरम्
स य एष सोमग्रहः । अन्नं वा ऽएष स यस्यै देवताया ऽएतं ग्रहं गृह्णाति सा ऽस्मै देवतैतेन ग्रहेण गृहीता तं कामं समर्धयति- यत्काम्या गृह्णाति । स उद्यन्तं वा ऽऽदित्यमुपतिष्ठते, अस्तं यन्तं वा- “ग्रहो ऽसि अमुमनयार्त्या गृहाण असावदो मा प्रापत्” इति । यं द्विष्यात् असावस्मै कामो मा समर्धीति वा । न हैवास्मै स कामः समृध्यते- यस्मा ऽएवमुपतिष्ठते ॥ ५ ॥
सायणः
स य एष इति । अत्र ग्रहणमाधिभौतिकमाधियज्ञिके सोमग्रहमुपसंहरति । ततश्चोपस्थानदाद् ग्रहणेनायं साधारणो वादो द्रष्टव्यः । उपासनकमुक्त्वा तदुपस्थानमाह- स उद्यन्तं वेति । हविर्यज्ञादिदं विदुषः इत्यन्नग्रहणमाधिदैविकम् । आधियज्ञियं सोममुपसंहरति । उपस्थानमत्र च ग्रहो ऽस्यमुमनयार्त्या गृहाणेत्येतया । (उत् ऊर्ध्वं शेषद्वयमुपनयेभ्यः सविकल्पः ।) अमुमनयेत्यभिवरणीयपात्र्यां ग्राहयित्वा ततः कर्मविद्यात आह- ‘अमुम्’ इति इष्टनिर्देशः । ‘अनया’ इति ज्वराद्यार्तिविशेषनिर्देशः । ‘असौ’ इति द्वेष्यस्य च निर्देशः । एवं ‘अदः’ इति यद्द्वेष्यः कामयते तन्निर्देशः । ‘असौ’ (स्वदि स्वत्ता अहो ग्रामादीयन्ते तन्मा प्रापत् ।) ‘यं द्विष्यात्’ तस्यैव नामादिशेत्; अथवा ‘असौ कामो’ ग्रहादिकः ‘अस्मै’ खदिरवर्म ‘मा समर्धि’ इत्येवं ब्रूयात् ॥ ५ ॥
इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठे ऽध्याये ग्रहोपासनं नाम पञ्चमं ब्राह्मणम् ॥ (४-६-५) ॥
Eggeling
- And as to this graha of Soma, that is food; for whatever deity one draws this graha, that deity, being seized by this graha, fulfils that wish of his for which he draws it. He approaches either the rising or the setting sun, thinking, ‘Thou art the seizer, seize thou N.N. by such and such a disease! may N.N. not obtain such and such!’ (naming) him whom he hates; or with, ‘May such and such a wish not be fulfilled to him!’ and, assuredly, that wish is not fulfilled to him for whom he thus approaches (the sun).
-
432:2 That is, the seizer, holder, swayer. According to the St. Petersb. Dict. the word ‘graha’ probably has not already in this passage the later meaning of ‘planet’ as the one holding or influencing man; but that of some demoniac being. The whole Brāhmaṇa is a play on the word ‘graha’ in its active and passive meanings of seizer, holder, influence; and draught, libation. The corresponding Brāhmaṇa of the Kāṇva text (V, 7, 1) differs widely from our text. Its general drift is as follows: The graha is the breath,–the graha of that breath is food,–the graha of that food is the water,–the graha of that water is fire,–the graha of the fire (Agni) is the breath,–thus the deities are seized by him, and he wins a place in the world of the deities. ↩︎
-
432:3 Perhaps with the double-entendre, ’everything (libation &c.) is drawn with speech here.’ ↩︎
-
432:4 ? Kimu tad yad vāg grahaḥ. The usual meaning of kim u, ‘how much more,’ ‘still more so,’ seems hardly to suit this passage. ↩︎
-
432:5 ? Or, ‘are not those of us (that have a name) held (known) thereby?’ In either case, however, the interrogative force of ‘atha,’ without any other particle, is rather unusual. ↩︎
-
यावान् बह्वशनस्तावान्मनुष्यो ऽन्नग्रहगृहीतो भवति । तत्र ऋत्विक् यजमानो वा ज्योतिष्टोमादिक्रतुषु बह्वशनेन तदार्त्या ऽऽर्तश्चेत् । तदा यस्मिन्महे स आर्तो भवति । स ग्रहो यद्देवत्यः । सा देवता तदार्तिग्रहस्य । तां देवतां एष वै ग्रह इत्येवं विधयोपासनयोपासीत । उपस्थानमपि कुर्यात् । तदुपस्थानं ‘उद्यंतं अस्तं यंतं वा आदित्यं ग्रहो ऽस्यमुमनया ऽर्त्या गृहाणासावदो मां प्रापत्’ इति (५) मंत्रेणोपतिष्ठेत । एवंविधं काम्यमुक्तमत्र ब्राह्मणे । इदं काम्यमाभिचारिकमप्युक्तमत्र । यं द्विष्यादसावस्मै काम समर्द्धीति वेत्यनेन । अदःशब्दस्थाने शत्रुनामादेशः । सूत्रानुपनिबद्धमिदम् । ↩︎