०१

विश्वास-प्रस्तुतिः

अथा᳘तो महाव्रती᳘यस्यैव᳘॥
प्रजा᳘पतेर्ह वै᳘ प्रजाः᳘ ससृजान᳘स्य प᳘र्व्वाणि व्वि᳘सस्रᳫँ᳭सुः स व्वि᳘स्रस्तैः प᳘र्व्वभिर्न᳘ शशाक स᳘ᳫँ᳘हातुं त᳘तो देवा ऽअ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएतं᳘ महाव्रती᳘यं ददृशुस्त᳘मस्मा ऽअगृह्णंस्ते᳘नास्य प᳘र्व्वाणि स᳘मदधुः॥

मूलम् - श्रीधरादि

अथा᳘तो महाव्रती᳘यस्यैव᳘॥
प्रजा᳘पतेर्ह वै᳘ प्रजाः᳘ ससृजान᳘स्य प᳘र्व्वाणि व्वि᳘सस्रᳫँ᳭सुः स व्वि᳘स्रस्तैः प᳘र्व्वभिर्न᳘ शशाक स᳘ᳫँ᳘हातुं त᳘तो देवा ऽअ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएतं᳘ महाव्रती᳘यं ददृशुस्त᳘मस्मा ऽअगृह्णंस्ते᳘नास्य प᳘र्व्वाणि स᳘मदधुः॥

मूलम् - Weber

अथा᳘तो महाव्रती᳘यस्यैव᳟॥
प्रजा᳘पतेर्ह वै᳘ प्रजाः᳘ ससृजान᳘स्य प᳘र्वाणि वि᳘सस्रंसुः स वि᳘स्रस्तैः प᳘र्वभिर्न᳘ शशाक स᳘ᳫं᳘हातुं त᳘तो देवा अ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ एत᳘म् महाव्रती᳘यं ददृशुस्त᳘मस्मा अगृह्णस्ते᳘नास्य प᳘र्वाणि स᳘मदधुः॥

मूलम् - विस्वरम्

अथातो महाव्रतीयस्यैव । प्रजापतेर्ह वै प्रजाः ससृजानस्य पर्वाणि विसस्रंसुः । स विस्रस्तैः पर्वभिर्न शशाक संहातुम् । ततो देवा अर्चन्तः श्राम्यन्तश्चेरुः । त एतं महाव्रतीयं ददृशुः । तमस्मा ऽअगृह्णन् । तेनास्य पर्वाणि समदधुः ॥ १ ॥

सायणः

अथात इति महाव्रतीयस्य ब्राह्मणमेतत् । महच्च तद्व्रतं चेति महाव्रतम् उपान्त्यं गवामयने ऽहस्तत्र भवो महाव्रतीयः “गहादिभ्यश्च” (पा. सू. ४ । २ । १३८) इति च्छप्रत्ययः । ‘ससृजानस्य’ सृष्टवतः पर्वाणि विस्रस्तानि ‘स विस्रस्तैः’ ‘पर्वभिर्न’ शक्तवान् ‘संहातुं’ “ओहाङ्गतौ” (धा. पा. जु. आ. ७) संगृहीतपर्वभिः ‘त एतं’ महाव्रतीयमेव नाम्ना ग्रहं दृष्टवन्तः । कुत एतत् । ग्रहमित्युत्तरत्र ‘तमस्मै अगृह्णन् इत्यादिग्रहणवचनादिना चरतः प्रजापतेः प्राणस्यान्नार्थमिदमिति 1 चतुर्थ्यन्ते शब्दे अस्मै अन्नाद्यायाभ्युत्तस्थावित्यर्थः । यद्वै मनुष्याणामिति व्रतशब्दस्यान्नवाचित्वं व्याख्यातं ‘महद्वा इदं प्रजापतेः’ व्रतमन्नं जातं ‘येन’ अन्नेन ‘अयं’ ‘समहास्त’ संगतः स्वान्नैरित्येव यस्मादनिरुक्तं तस्मान्महाव्रतं नामेति वक्तव्ये ‘महाव्रतीयो नाम’ इति ब्रुवत् स्वार्थिकमेव छप्रत्ययं दर्शयति एतत्समानि वचनानि प्रदर्शनार्थम् ॥ १ ॥ २ ॥

Eggeling
  1. Then as to the Mahāvratīya (graha) 2. Now when Prajāpati had created the living beings, his

joints were relaxed: with his relaxed joints he was unable to raise himself. Then the gods went on praising and toiling. They saw this Mahāvratīya (cup) and drew it for him: thereby they restored his joints.

०२

विश्वास-प्रस्तुतिः

स स᳘ᳫँ᳘हितैः प᳘र्व्वभिः॥
(रि) इद᳘मन्ना᳘द्यमभ्यु᳘त्तस्थौ य᳘दिदं᳘ प्रजा᳘पतेरन्ना᳘द्यं यद्वै᳘ मनु᳘ष्याणाम᳘शनं त᳘द्देवा᳘नां व्व्रतं᳘ महद्वा᳘ ऽइदं᳘ व्व्रत᳘मभूद्ये᳘नाय᳘ᳫँ᳘ सम᳘हास्ते᳘ति त᳘स्मान्महाव्रती᳘यो ना᳘म॥

मूलम् - श्रीधरादि

स स᳘ᳫँ᳘हितैः प᳘र्व्वभिः॥
(रि) इद᳘मन्ना᳘द्यमभ्यु᳘त्तस्थौ य᳘दिदं᳘ प्रजा᳘पतेरन्ना᳘द्यं यद्वै᳘ मनु᳘ष्याणाम᳘शनं त᳘द्देवा᳘नां व्व्रतं᳘ महद्वा᳘ ऽइदं᳘ व्व्रत᳘मभूद्ये᳘नाय᳘ᳫँ᳘ सम᳘हास्ते᳘ति त᳘स्मान्महाव्रती᳘यो ना᳘म॥

मूलम् - Weber

स स᳘ᳫं᳘हितैः प᳘र्वभिः॥
इद᳘मन्ना᳘द्यमभ्यु᳘त्तस्थौ य᳘दिद᳘म् प्रजा᳘पतेरन्ना᳘द्यं यद्वै᳘ मनुॗष्याणाम᳘शनं त᳘द्देवा᳘नां व्रत᳘म् महद्वा᳘ इदं᳘ व्रत᳘मभूद्ये᳘नाय᳘ᳫं᳘ सम᳘हास्ते᳘ति त᳘स्मान्महाव्रती᳘यो ना᳘म॥

मूलम् - विस्वरम्

स संहितैः पर्वभिः इदमन्नाद्यमभ्युत्तस्थौ- यदिदं प्रजापतेरन्नाद्यम् । यद्वै मनुष्याणामशनम्- तद्देवानां व्रतम् । महद्वा ऽइदं व्रतमभूद् येनायं समहास्तेति । तस्मान्महाव्रतीयो नाम ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. With his joints thus restored, he approached this food, what food of Prajāpati there is,–for what eating is to men, that the vrata (fast-food, or religious observance generally) is to the gods. And because (they say), ‘Great, indeed, is this vrata whereby he has raised himself,’ therefore it is called Mahāvratīya.

०३

विश्वास-प्रस्तुतिः

(मै) एवं वा᳘ ऽएते᳘ भवन्ति॥
ये᳘ संव्वत्सरमा᳘सते य᳘थैव त᳘त्प्रजा᳘पतिः प्रजाः᳘ ससृजान ऽआ᳘सीत्स य᳘थैव त᳘त्प्रजा᳘पतिः संव्वत्स᳘रे ऽन्ना᳘द्यमभ्युद᳘तिष्ठदेव᳘मे᳘वैत᳘ ऽएत᳘त्संव्वत्स᳘रे ऽन्ना᳘द्यमभ्यु᳘त्तिष्ठन्ति[[!!]] ये᳘षामेवं᳘ व्विदुषामेतं[[!!]] ग्र᳘हं गृह्ण᳘न्ति॥

मूलम् - श्रीधरादि

(मै) एवं वा᳘ ऽएते᳘ भवन्ति॥
ये᳘ संव्वत्सरमा᳘सते य᳘थैव त᳘त्प्रजा᳘पतिः प्रजाः᳘ ससृजान ऽआ᳘सीत्स य᳘थैव त᳘त्प्रजा᳘पतिः संव्वत्स᳘रे ऽन्ना᳘द्यमभ्युद᳘तिष्ठदेव᳘मे᳘वैत᳘ ऽएत᳘त्संव्वत्स᳘रे ऽन्ना᳘द्यमभ्यु᳘त्तिष्ठन्ति[[!!]] ये᳘षामेवं᳘ व्विदुषामेतं[[!!]] ग्र᳘हं गृह्ण᳘न्ति॥

मूलम् - Weber

एवं वा᳘ एते᳘ भवन्ति॥
ये᳘ संवत्सरमा᳘सते य᳘थैव त᳘त्प्रजा᳘पतिः प्रजाः᳘ ससृजान आ᳘सीत्स य᳘थैव त᳘त्प्रजा᳘पतिः संवत्सॗरे ऽन्ना᳘द्यमभ्युदति᳘ष्ठदेव᳘मेॗवैत᳘ एत᳘त्संवत्सॗरे ऽन्ना᳘द्यमभ्यु᳘त्तिष्ठन्ति ये᳘षामेवं᳘ विदु᳘षामेतं ग्र᳘हं गृह्ण᳘न्ति॥

मूलम् - विस्वरम्

एवं वा एते भवन्ति- ये सम्वत्सरमासते । यथैव तत्प्रजापतिः प्रजाः ससृजान आसीत्- स यथैव तत्प्रजापतिः सम्वत्सरे ऽन्नाद्यमभ्युदतिष्ठद्- एवमेवैत ऽएतत्सम्वत्सरे ऽन्नाद्यमभ्युत्तिष्ठन्ति- येषामेवं विदुषामेतं ग्रहं गृह्णन्ति ॥ ३ ॥

सायणः

एवं वा एत इति । प्रसन्नो ब्राह्मणशेषः ॥ ३-६ ॥

इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठे ऽध्याये महाव्रतीयं नाम चतुर्थं ब्राह्मणम् ॥ (४-६-४) ॥

Eggeling
  1. Now, even as Prajāpati then was, when he had created the living beings, so are those who sit (in sacrificial session) for a year; and as Prajāpati then, after a year, approached food, so do they now, after a year, approach food, for whomsoever that knows this, they draw that cup.

०४

विश्वास-प्रस्तुतिः

तं वा ऽइ᳘न्द्रायैव᳘ व्विमृ᳘धे गृह्णीयात्॥
(त्स᳘) स᳘र्व्वा वै ते᳘षां मृ᳘धो हता᳘ भवन्ति स᳘र्व्वं जितं ये᳘ संव्वत्सरमा᳘सते त᳘स्माद्विमृ᳘धे व्वि᳘ न इन्द्र मृ᳘धो जहि नीचा᳘ यच्छ पृत᳘न्यतः[[!!]]॥ यो᳘ ऽअस्मा᳘२ँ॥ ऽअभिदा᳘सत्य᳘धरं गमया त᳘मः॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा व्विमृ᳘ध ऽएष᳘ ते यो᳘निरि᳘न्द्राय[[!!]] त्वा विमृ᳘ध ऽइति[[!!]]॥

मूलम् - श्रीधरादि

तं वा ऽइ᳘न्द्रायैव᳘ व्विमृ᳘धे गृह्णीयात्॥
(त्स᳘) स᳘र्व्वा वै ते᳘षां मृ᳘धो हता᳘ भवन्ति स᳘र्व्वं जितं ये᳘ संव्वत्सरमा᳘सते त᳘स्माद्विमृ᳘धे व्वि᳘ न इन्द्र मृ᳘धो जहि नीचा᳘ यच्छ पृत᳘न्यतः[[!!]]॥ यो᳘ ऽअस्मा᳘२ँ॥ ऽअभिदा᳘सत्य᳘धरं गमया त᳘मः॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा व्विमृ᳘ध ऽएष᳘ ते यो᳘निरि᳘न्द्राय[[!!]] त्वा विमृ᳘ध ऽइति[[!!]]॥

मूलम् - Weber

तं वा इ᳘न्द्रायैव᳘ विमृ᳘धे गृह्णीयात्॥
स᳘र्वा वै ते᳘षाम् मृ᳘धा हता᳘ भवन्ति स᳘र्वं जितं ये᳘ संवत्सरमा᳘सते त᳘स्माद्विमृ᳘धे वि᳘ न इन्द्र मृ᳘धो जहि नीचा᳘ यछ पृतन्यतः᳟॥
यो᳘ अस्मा᳘न् अभिदा᳘सत्य᳘धरं गमया त᳘मः॥
उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा विमृ᳘ध एष᳘ ते यो᳘निरिन्द्रा᳘य त्वा विमृ᳘ध इ᳘ति॥

मूलम् - विस्वरम्

तं वा ऽइन्द्रायैव विमृधे गृह्णीयात् 1 । सर्वा वै तेषां मृधो हता भवन्ति, सर्वं जितम्- ये सम्वत्सरमासते । तस्माद्विमृधे “वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो ऽअस्मां २ ॥ ऽअभिदासति, अधरं गमया तमः । उपयामगृहीतो ऽसीन्द्राय त्वा विमृधे; एष ते योनिरिन्द्राय त्वा विमृधे"- (वा. सं. ८ । ४४) इति ॥ ४ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. Let him draw it for Indra Vimr̥dh (the Averter of scorn), for, verily, the scorners of those who sit for

a year are smitten, and all is won by them: hence for Indra Vimr̥dh,–with (Vāj. S. VIII, 44; Rig-veda X, 152, 4), ‘Scatter thou our scorners, O Indra, lay them low that war against us, and send them, that persecute us, to the nethermost darkness!–Thou art taken with a support: thee to Indra Vimr̥dh!–This is thy womb: thee to Indra Vimr̥dh!’

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थो व्विश्व᳘कर्मणे॥
व्वि᳘श्वं वै ते᳘षां क᳘र्म कृतᳫँ᳭ स᳘र्व्वं जितं᳘ भवति ये᳘ संवत्सरमा᳘सते त᳘स्माद्विश्व᳘कर्मणे व्वाचस्प᳘तिं व्विश्व᳘कर्माणमूत᳘ये मनोजु᳘वं व्वा᳘जे ऽअद्या᳘ हुवेम॥ स᳘ नो व्वि᳘श्वानि ह᳘वनानि जोषद्विश्व᳘शम्भूर᳘वसे साधुकर्मा[[!!]]॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा व्विश्व᳘कर्मण ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा व्विश्व᳘कर्मण इ᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थो व्विश्व᳘कर्मणे॥
व्वि᳘श्वं वै ते᳘षां क᳘र्म कृतᳫँ᳭ स᳘र्व्वं जितं᳘ भवति ये᳘ संवत्सरमा᳘सते त᳘स्माद्विश्व᳘कर्मणे व्वाचस्प᳘तिं व्विश्व᳘कर्माणमूत᳘ये मनोजु᳘वं व्वा᳘जे ऽअद्या᳘ हुवेम॥ स᳘ नो व्वि᳘श्वानि ह᳘वनानि जोषद्विश्व᳘शम्भूर᳘वसे साधुकर्मा[[!!]]॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा व्विश्व᳘कर्मण ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा व्विश्व᳘कर्मण इ᳘ति॥

मूलम् - Weber

अ᳘थो विश्व᳘कर्मणे॥
वि᳘श्वं वै ते᳘षां क᳘र्म कृतᳫं स᳘र्वं जित᳘म् भवति ये᳘ संवत्सरमा᳘सते त᳘स्माद्विश्व᳘कर्मणे वाचस्पतिम् विश्व᳘कर्माणमूत᳘ये मनोजु᳘वं वा᳘जे अद्या᳘ हुवेम॥
स᳘ नो वि᳘श्वानि ह᳘वनानि जोषद्विश्व᳘शम्भूर᳘वसे साधु᳘कर्ना उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा विश्व᳘कर्मण एष᳘ ते यो᳘निरि᳘न्द्राय त्वा विश्व᳘कर्मण इ᳘ति॥

मूलम् - विस्वरम्

अथो विश्वकर्मणे । विश्वं वै तेषां कर्म कृतं, सर्वं जितं भवति- ये सम्वत्सरमासते । तस्माद्विश्वकर्मणे- “वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽअद्या हुवेम । स नो विश्वानि हवनानि जोषद्; विश्वशम्भूरवसे साधुकर्मा । उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे; एष ते योनिरिन्द्राय त्वा विश्वकर्मणे- (वा. सं. ८ । ४५) इति ॥ ५ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. Or for Viśvakarman (the All-worker), for all work is done, everything is won by those who sit in session for a year: hence for Viśvakarman,–with (Vāj. S. VIII, 45; Rig-veda X, 81, 7), ‘Vācaspati Viśvakarman, the thought-speeder 3, let us invoke for protection in our struggle 4 this day: may he, the all-beneficient worker of good, delight in all our offerings 5 for our protection!–Thou art taken with a support: thee to Indra Viśvakarman 6!–This is thy womb; thee to Indra Viśvakarman!’

०६

विश्वास-प्रस्तुतिः

य᳘द्यु ऽऐन्द्रीं᳘ व्वैश्वकर्मणीं᳘ व्विद्यात्[[!!]]॥
(त्त᳘) त᳘यैव गृह्णीयाद्वि᳘श्वकर्मन्हवि᳘षा व्व᳘र्धनेन त्राता᳘रमि᳘न्द्रमकृणोरवध्यम्[[!!]]॥ त᳘स्मै व्वि᳘शः स᳘मनमन्त पूर्व्वी᳘रय᳘मुग्रो᳘[[!!]] व्विह᳘व्यो यथा᳘सत्॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा व्विश्व᳘कर्मण ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा व्विश्व᳘कर्मण ऽइ᳘ति॥

मूलम् - श्रीधरादि

य᳘द्यु ऽऐन्द्रीं᳘ व्वैश्वकर्मणीं᳘ व्विद्यात्[[!!]]॥
(त्त᳘) त᳘यैव गृह्णीयाद्वि᳘श्वकर्मन्हवि᳘षा व्व᳘र्धनेन त्राता᳘रमि᳘न्द्रमकृणोरवध्यम्[[!!]]॥ त᳘स्मै व्वि᳘शः स᳘मनमन्त पूर्व्वी᳘रय᳘मुग्रो᳘[[!!]] व्विह᳘व्यो यथा᳘सत्॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा व्विश्व᳘कर्मण ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा व्विश्व᳘कर्मण ऽइ᳘ति॥

मूलम् - Weber

य᳘द्यु ऐन्द्रीं᳘ वैश्वकर्मणीं᳘ विद्या᳘त्॥
त᳘थैव गृह्णीयाद्वि᳘श्वकर्मन्हवि᳘षा व᳘र्धनेन त्राता᳘रमि᳘न्द्रमकृणोरवध्य᳘म्॥
त᳘स्मै वि᳘शः स᳘मनमन्त पू᳘र्वीरय᳘मुग्रो᳘ विह᳘व्यो यथा᳘सत्॥
उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा विश्व᳘कर्मण एष᳘ ते यो᳘निरि᳘न्द्राय त्वा विश्व᳘कर्मण इ᳘ति॥

मूलम् - विस्वरम्

यद्यु ऐन्द्रीं वैश्वकर्मणीं विद्यात् तयैव गृह्णीयात् । “विश्वकर्मन् हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम् । तस्मै विशः समनमन्त पूर्वीरयमुग्रो विहव्यो यथासत् । उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे; एष ते योनिरिन्द्राय त्वा विश्वकर्मणे”- (वा. सं. ८ । ४६) इति ॥ ६ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. But if he knows the (verse) referring to Indra (and) Viśvakarman, let him draw it thus 7 (Vāj. S. VIII, 46), ‘O Viśvakarman, with strengthening libation madest thou Indra an invincible champion: to him did the people bow down of

old, because 8 he, the mighty, is worthy of adoration.–Thou art taken with a support: thee to Indra Viśvakarman!–This is thy womb: thee to Indra Viśvakarman!’


  1. गवामयनस्य नवममहः महाव्रतं । प्राजापत्य उपालंभ्यः । का. श्रौ. सू. १३ । ३० । ↩︎ ↩︎

  2. 429:2 The drawing of this cup forms part of the performance of the last but one day of the Gavām ayana, the so-called Mahāvrata (great vow) day, on which the following particulars are supplied by Kātyāyana XIII, 2, 16 seq. The particular form of sacrifice prescribed for the day is the Agnishṭoma. A victim to Prajāpati is to be immolated. The Mahāvratīya-graha is drawn as an additional libation (like the Atigrāhyas,). The signal for the chanting of the Pr̥shṭḥa-stotras is given by (a Brāhman) playing, with a rattan plectrum, on a harp with a hundred strings of Muñja grass. During the chanting and recitation, the Udgātr̥ sits on an arm-chair, the Hotr̥ on a hammock or swing, the Adhvaryu on a board, and the other priests on cushions of grass. Then follow several curious ceremonies, performed partly inside and partly outside the Vedi. The performance of the Sattra is alternately lauded and vituperated by two persons [the one, a Brāhman, seated at the front door of the Sadas; the other, a Śūdra, at the back door; both facing each other;–thus Lāṭy. IV, 3, according to which authority, however, they are merely to say respectively, ‘These Sattrins have not succeeded!’–‘They have succeeded!’] At the same time a harlot and a theological student (brahmachārin) upbraid one another (in front of the Āgnīdhrīya fire shed); while (south of the Mārjālīya) a sham contest takes place between an Ārya (Vaiśya) and a Śūdra for the possession of a round white skin, the Śūdra having to give in (after the third effort, when the Ārya beats him with the skin). Thereupon a couple is shut up in an enclosed space south of the Mārjālīya (or behind the Āgnīdhrīya, Lāṭy.) for maithuna. ↩︎

  3. 431:1 Or, the thought-swift (manojū). ↩︎

  4. 431:2 For the different meanings of ‘vāja’ see Max Müller, ‘India, what can it teach us?’ p. 164. ↩︎

  5. 431:3 Or, in all our invocations (havana). ↩︎

  6. 431:4 The identification of Viśvakarman with Indra was probably suggested by the final pāda of the preceding verse of the hymn (Rig-veda X, 81, 6): ‘May there be (or may he, Viśvakarman, be) for us a Sūri Maghavan’ (a rich patron; terms frequently applied to Indra). But cp. Muir, O. S. T. vol. iv, p. 7. ↩︎

  7. 431:5 The Kāṇva text does not give the verse, but remarks merely,–But if he can get (vindet) an aindrī vaiśvakarmaṇī (verse), let him draw it therewith. ↩︎

  8. 432:1 I see no other way of rendering ‘yathā-asat’ in this passage. ↩︎