०१
विश्वास-प्रस्तुतिः
अथा᳘तः पश्वयन᳘स्यैव᳘॥
प᳘श्वेकादशिन्यै᳘वेयात्स᳘ ऽआग्नेयं᳘ प्रथमं᳘ पशुमा᳘लभते᳘ ऽथ व्वारुणम᳘थ पु᳘नराग्नेय᳘मेव᳘मे᳘वैत᳘या प᳘श्वेकादशिन्ये᳘यात्॥
मूलम् - श्रीधरादि
अथा᳘तः पश्वयन᳘स्यैव᳘॥
प᳘श्वेकादशिन्यै᳘वेयात्स᳘ ऽआग्नेयं᳘ प्रथमं᳘ पशुमा᳘लभते᳘ ऽथ व्वारुणम᳘थ पु᳘नराग्नेय᳘मेव᳘मे᳘वैत᳘या प᳘श्वेकादशिन्ये᳘यात्॥
मूलम् - Weber
अथा᳘तः पश्वयन᳘स्यैव᳟॥
पॗश्वेकादशिन्यैॗवेयात्स᳘ आग्नेय᳘म् प्रथम᳘म् पशुमा᳘लभते᳘ ऽथ वारुणम᳘थ पु᳘नराग्नेय᳘मेव᳘मेॗवैत᳘या पॗश्वेकादशिन्येयात्॥
मूलम् - विस्वरम्
अथातः पश्वयनस्यैव । पश्वेकादशिन्यैवेयात् । स आग्नेयं प्रथमं पशुमालभते, अथ वारुणम्, अथ पुनराग्नेयम्- एवमेवैतया पश्वेकादशिन्येयात् ॥ १ ॥
सायणः
अथातो गवामयन एव सवनीयविकल्पास्त्रयो दृश्यन्ते । अथात इति । ‘अथातः’ ‘पश्वयनस्य’ विधानमिति शेषः । पशूनामयनं पश्वयनं प्रतिकर्म समेत्यनेनेत्ययनं मार्गः कल्पः । तत्र तावत्प्रथमं कल्पमाह- ‘पश्वेकादशिन्या’ आग्नेयः, सारस्वतः, सौम्य इत्यादिकया ‘इयात्’- गवामयनं स्यात् । एवशब्दो नियमानुवादः । प्रतिदिवसमेव ह्येकादशिनी समस्ता स्तोमयज्ञेन तेन सह विकल्प्यमाना प्राप्ता सर्वेष्वहस्सु नियम्यते पश्वेकादशिन्या एव सर्वत्रैव यागान्तराले कल्पान्तरमाश्रयेदित्यर्थः । न पुनः सकल एव गवामयने कल्पान्तराभावमयं (थेत इति ।) कल्पान्तरयोरपि वक्ष्यमाणत्वात्, स आग्नेयमिति पूर्ववाक्यात् प्रत्यहं समस्ता एकादशिनी प्राप्स्यतीत्यनेन विह्नियते स आग्नेयं पशुं प्रथममालभते प्रथममित्यालम्भविशेषणम् । प्रथमे ऽहन्याग्नेयमालभत इत्यर्थः । य उत्तरेष्वप्यहःसु सारस्वतीष्वालभ्य उत्तरापेक्षया प्रथमे ऽहनि प्रथममालभते । कुत एतत् । उत्तरग्रहापेक्षमेतत् प्राथम्यं पुनरेकस्मिन्नेवाहनि पश्वन्तरापेक्षं स्यात् ॥ १ ॥
Eggeling
- Now as to the manner of animal offerings. One may perform with the (ordinary) set of eleven victims. He seizes one for Agni as the first victim, and one for Varuṇa (as the last); then again one for Agni.: in this way let him perform with the set of eleven victims 1.
०२
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थो ऽअ᳘प्यैन्द्राग्न᳘मेवा᳘हरहः पशुमा᳘लभेत॥
(ता) अग्निर्वै स᳘र्व्वा देव᳘ता अग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जुह्वती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता तत्स᳘र्व्वाश्चै᳘वैत᳘द्देव᳘ता᳘ नापराध्नो᳘ति᳘ यो च यज्ञ᳘स्य देव᳘ता तां ना᳘पराध्नोति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थो ऽअ᳘प्यैन्द्राग्न᳘मेवा᳘हरहः पशुमा᳘लभेत॥
(ता) अग्निर्वै स᳘र्व्वा देव᳘ता अग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जुह्वती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता तत्स᳘र्व्वाश्चै᳘वैत᳘द्देव᳘ता᳘ नापराध्नो᳘ति᳘ यो च यज्ञ᳘स्य देव᳘ता तां ना᳘पराध्नोति॥
मूलम् - Weber
अ᳘थो अ᳘प्यैन्द्राग्न᳘मेवा᳘हरहः पशुमा᳘लभेत॥
अग्निर्वै स᳘र्वा देव᳘ता अग्नौ हि स᳘र्वाभ्यो देव᳘ताभ्यो जुह्वती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता तत्स᳘र्वाश्चैॗवैत᳘द्देव᳘ता नापराध्नो᳘तिॗ यो च यज्ञ᳘स्य देव᳘ता तां ना᳘पराध्नोति॥
मूलम् - विस्वरम्
अथो ऽअप्यैन्द्राग्नमेवाहरहः पशुमालभेत । अग्निर्वै सर्वा देवताः । अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति । इन्द्रो वै यज्ञस्य देवता । तत् सर्वाश्चैवैतद्देवता नापराध्नोति- यो च यज्ञस्य देवता- तां नापराध्नोति ॥ २ ॥
सायणः
अथो अप्यैन्द्राग्नमेवाहरहः इत्युत्तराह्नां श्रवणात् एकस्मिन्नहनि वचनमनर्थकमेव स्यात् । अथ पुनराग्नेयमिति वा ऽऽवृत्तिरेकस्मिन्प्राप्ते विधीयते ततस्तस्माद्विहारवाक्यमेवैतत् । ततश्चाथ सारस्वतमथ पौष्णमथ सौम्यमित्येव 2 एतया विहृतया पश्वेकादशिन्या गच्छेद्यावदृतुसत्रस्येति । अथो अप्येताभ्यां कण्डिकाभ्यामपरौ कल्पावुच्येते 3 । (उपचया या) स्वस्मिन्सवनीये सत्यालभ्यन्त इत्युपालभ्यन्ते वैषुवते ऽहन्निति यद्द्वयोः संवत्सरार्द्धयोर्वसन्तशरदोश्चान्तरालं स विषुवानेव 4 याग उच्यते आत्मा विषुवानित्यादौ महाव्रतमुपान्त्यमहर्गवामयनस्य 5 ॥ २ ॥ ३ ॥
इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठे ऽध्याये तृतीयं ब्राह्मणम् ॥ (४-१-३) ॥
Eggeling
- Or one may day after day seize a victim for Indra and Agni; for all the gods are Agni, since in Agni offering is made to all the deities; and Indra is the deity of the sacrifice: thus he neither offends any of the deities, nor does he offend him who is the deity of the sacrifice.
०३
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तः स्तोमायन᳘स्यैव᳘॥
(वा) आग्नेय᳘मग्निष्टोम ऽआ᳘लभेत तद्धि स᳘लोम य᳘दाग्नेय᳘मग्निष्टोम᳘ ऽआल᳘भेत य᳘द्युक्थ्यः[[!!]] स्या᳘दैन्द्राग्नं᳘ द्विती᳘यमा᳘लभेतैन्द्राग्ना᳘नि᳘ ह्युक्था᳘नि य᳘दि षोडशी स्या᳘दैन्द्रं᳘[[!!]] तृती᳘यमा᳘लभेते᳘न्द्रो हि᳘ षोडशी य᳘द्यतिरात्रः स्या᳘त्सारस्वतं᳘ चतुर्थमा᳘लभेत व्वाग्वै स᳘रस्वती यो᳘षा वै व्वाग्यो᳘षा रा᳘त्रिस्त᳘द्यथायथं[[!!]] यज्ञक्रतून्व्या᳘वर्तयत्येता᳘नि त्रीण्य᳘यनानि ते᳘षां यतम᳘त्काम᳘येत ते᳘नेयाद्द्वा᳘ ऽउपाल᳘म्भ्यौ पशू᳘ सौर्यं᳘ द्विती᳘यं पशुमा᳘लभते व्वै᳘षुवते᳘ ऽहन्प्राजापत्यं᳘ महाव्रते᳘॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तः स्तोमायन᳘स्यैव᳘॥
(वा) आग्नेय᳘मग्निष्टोम ऽआ᳘लभेत तद्धि स᳘लोम य᳘दाग्नेय᳘मग्निष्टोम᳘ ऽआल᳘भेत य᳘द्युक्थ्यः[[!!]] स्या᳘दैन्द्राग्नं᳘ द्विती᳘यमा᳘लभेतैन्द्राग्ना᳘नि᳘ ह्युक्था᳘नि य᳘दि षोडशी स्या᳘दैन्द्रं᳘[[!!]] तृती᳘यमा᳘लभेते᳘न्द्रो हि᳘ षोडशी य᳘द्यतिरात्रः स्या᳘त्सारस्वतं᳘ चतुर्थमा᳘लभेत व्वाग्वै स᳘रस्वती यो᳘षा वै व्वाग्यो᳘षा रा᳘त्रिस्त᳘द्यथायथं[[!!]] यज्ञक्रतून्व्या᳘वर्तयत्येता᳘नि त्रीण्य᳘यनानि ते᳘षां यतम᳘त्काम᳘येत ते᳘नेयाद्द्वा᳘ ऽउपाल᳘म्भ्यौ पशू᳘ सौर्यं᳘ द्विती᳘यं पशुमा᳘लभते व्वै᳘षुवते᳘ ऽहन्प्राजापत्यं᳘ महाव्रते᳘॥
मूलम् - Weber
अथा᳘त स्तोमायन᳘स्यैव᳟॥
आग्नेय᳘मग्निष्टोम आ᳘लभेत तद्धि स᳘लोम य᳘दाग्नेय᳘मग्निष्टोम᳘ आल᳘भेत य᳘द्युक्थ्यः᳘ स्या᳘दैन्द्राग्नं᳘ द्विती᳘यमा᳘लभेतैन्द्राग्ना᳘निॗ ह्युक्था᳘नि य᳘दि षोडशी स्यादै᳘न्द्रं᳘ तृती᳘यमा᳘लभेते᳘न्द्रो हि᳘ षोडशी य᳘द्यतिरात्रः स्या᳘त्सारस्वतं᳘ चतुर्थमा᳘लभेत वाग्वै स᳘रस्वती यो᳘षा वै वाग्यो᳘षा रा᳘त्रिस्तद्य᳘थायथं यज्ञक्रतून्व्या᳘वर्तयत्येता᳘नि त्रीण्य᳘यनानि ते᳘षां यतम᳘त्काम᳘येत ते᳘नेयाद्द्वा᳘ उपाल᳘म्भ्यौ पशू᳘ सौर्यं᳘ द्विती᳘यम् पशुमा᳘लभते वै᳘षुवते᳘ ऽहन्प्राजापत्य᳘म् महाव्रते᳟॥
मूलम् - विस्वरम्
अथातः स्तोमायनस्यैव आग्नेयमग्निष्टोम ऽआलभेत । तद्धि सलोम- यदाग्नेयमग्निष्टोम ऽआलभेत । यद्युक्थ्यः स्याद्- ऐन्द्राग्नं द्वितीयमालभेत । ऐन्द्राग्नानि ह्युक्थ्यानि । यदि षोडशी स्यात्- ऐन्द्रं तृतीयमालभेत । इन्द्रो हि षोडशी । यद्यतिरात्रः स्यात्- सारस्वतं चतुर्थमालभेत । वाग्वै सरस्वती । योषा वै वाक्, योषा रात्रिः । तद् यथायथं यज्ञक्रतून्व्यावर्तयति । एतानि त्रीण्ययनानि । तेषां यतमत्कामयेत- तेनेयात् । द्वा ऽउपालम्भ्यौ पशू । सौर्यं द्वितीयं पशुमालभते वैषुवते ऽहन्, प्राजापत्यं महाव्रते ॥ ३ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- Then as to the manner (of animal offering) in accordance with the Stoma 6. At the Agnishṭoma
let him seize a (victim) for Agni; for it is befitting that at the Agnishṭoma (‘Agni’s praise’) he should seize a victim for Agni. If it be an Ukthya sacrifice, let him seize as the second (victim) one for Indra and Agni, for the hymns (uktha) 7 belong to Indra and Agni. If it be a Shoḍaśin sacrifice, let him seize as the third (victim) one for Indra; for the Shoḍaśin (graha) is Indra. If it be an Atirātra, let him seize as the fourth (victim) one for Sarasvatī; for Sarasvatī is Vāc (speech), and Vāc is a female, and so is rātri (fem., ’night’) female. Thus he duly distinguishes between the sacrificial performances. Such are the three manners (of animal offering): he may perform in whichever manner he pleases. Two victims must needs be seized,–for Sūrya he seizes the second en the Vishuvant day, and for Prajāpati at the Mahāvrata.
-
428:2 See III, 9, 1, 5 seq. He is to sacrifice one victim each day, and if after the eleventh day, the performance is to go on (as at the Dvādaśāha), he is to begin anew with the first victim of the ekādaśinī. According to the Kāṇva text and Kāty. XII, 6, 17 he is on such an odd day to immolate all the remaining victims of the set of eleven. Thus on the last (twelfth) day of the Dvādaśāha–the Udayanīya Atirātra–he would have to sacrifice the entire set of eleven victims. ↩︎
-
यथोच्छ्रितँ सवनीयाना ११ लभत एकतृणेनोपाकृत्याग्नेय १ सारस्वत २ सौम्य ३ पौष्ण ४ बार्हस्पत्य ५ वैश्वदे ६ वैंद्र ७ मारुतैं ८ द्राग्न ९ सावित्र १० वारुणान् ११ । एकयूपे पश्वेकादशिन्यामाग्नेयं नियुज्य तस्मिंस्तस्मिन्नितरानुदीचः । एकयूपे यदापश्वेकादशिनी भवति तदा एवं नियोजनं कर्तव्यं इति सूत्रार्थः । आग्नेयः प्रथमो गच्छत्यन्वारब्धो ऽनुपूर्व्या इतरे । प्रतिप्रस्थात्रान्वारब्ध आग्नेयः । इतरे सारस्वतादयः अनन्वारब्धाः । आनुपूर्व्याः क्रमेणानुगामिनः । संज्ञपनार्थं पशुनयनक्रमो ऽयम् । स्तोमायने तु युगपद्गमनम् । दक्षिणं च निघ्नंत्येनमुत्तरमुत्तरमितरान् । पशुसंज्ञपने क्रमो ऽयम् । एनमाग्नेयम् । का. श्रौ. सू. ८ । २२९-२३२ । ↩︎
-
अग्नेयो ऽग्निष्टोमे सवनीयः पशुः । ऐंद्राग्नश्चोक्थ्ये द्वितीयः । ऐंद्रो व्वृष्णिः षोडशिनि तृतीयः । सरस्वत्यै चतुर्थो ऽतिरात्रे मेषी वा । एतत् स्तोमायनं । का. श्रौ. सू. ९ । १७३-१७५ । ↩︎
-
ऐंद्राग्नः सवनीयो ऽन्वहम् । द्वादशस्वहःस्सु इमानि त्रीणि पक्षांतराणि । स्तोमायनं वा । एकादशिना वा विहृताः । द्वादश आद्यः । एकादशिना विहृता इति तृतीयपक्षे इमानि पक्षांतराणि । सर्व्वसमासोवा । ऐंद्राग्नो वा । यावच्छेषमुत्तरेषु । उत्तरेषु अहर्गणेषु । का. श्रौ. सू. । १२ । १२४-१२९ । ↩︎
-
अग्निष्टोमो विषुवान् । प्रातरनुवाकः संधिवेलायामुदितं यथोक्तं वा । सौर्य उपालंभ्यः । उदुत्यमिति ग्रहग्रहणमतिग्राह्यवद्भक्षवर्जम् । का. श्रौ. सू. १३ । २२-२५ । षष्ठे मासे त्रयो ऽभिप्लवाः गो आयुषी दशरात्रो महाव्व्रतमग्निष्टोमः । का. श्रौ. सू. १३ । २९ । ↩︎
-
428:3 I.e. the particular form of the Jyotishṭoma, which is being performed. ↩︎
-
429:1 That is, the hymns of the Rig-veda, the single collections of which begin with the hymns to Agni, followed by those to Indra. The ‘ukthāni’ here can scarcely refer to the three additional śastras of the Ukthya sacrifice, as they are composed of hymns to Indra-Varuṇa, Indra-Br̥haspati, and Indra-Vishṇu respectively. Āśv. Śr. VI, 1; Ait. Br. III, 50. Cp. IV, 2, 5, 14. ↩︎