०१
विश्वास-प्रस्तुतिः
एतं वा᳘ ऽएते᳘ गच्छन्ति॥
षड्भिर्मा᳘सैर्य᳘ एष त᳘पति ये᳘ संव्वत्सरमा᳘सते त᳘दुच्य᳘त ऽएव᳘ सामतो य᳘थैत᳘स्य रूपं᳘ क्रिय᳘त ऽउच्य᳘त ऽऋक्तो᳘ ऽथैत᳘देव᳘ यजुष्टः᳘ पुरश्चरणतो य᳘देतं᳘ गृह्ण᳘न्त्येते᳘नो ऽए᳘वैनं गच्छन्ति॥
मूलम् - श्रीधरादि
एतं वा᳘ ऽएते᳘ गच्छन्ति॥
षड्भिर्मा᳘सैर्य᳘ एष त᳘पति ये᳘ संव्वत्सरमा᳘सते त᳘दुच्य᳘त ऽएव᳘ सामतो य᳘थैत᳘स्य रूपं᳘ क्रिय᳘त ऽउच्य᳘त ऽऋक्तो᳘ ऽथैत᳘देव᳘ यजुष्टः᳘ पुरश्चरणतो य᳘देतं᳘ गृह्ण᳘न्त्येते᳘नो ऽए᳘वैनं गच्छन्ति॥
मूलम् - Weber
एतं वा᳘ एते᳘ गछन्ति॥
षड्भिर्मा᳘सैर्य᳘ एष त᳘पति ये᳘ संवत्सरमा᳘सते त᳘दुच्य᳘त एव᳘ सामतो य᳘थैत᳘स्य रूपं᳘ क्रिय᳘त उच्य᳘त ऋक्तो᳘ ऽथैत᳘देव᳘ यजुष्टः᳘ पुरश्चरणतो य᳘देतं᳘ गृह्ण᳘न्त्येते᳘नो एॗवैनं गछन्ति॥
मूलम् - विस्वरम्
विषुवदहः ।
एतं वा ऽएते गच्छन्ति षड्भिर्मासैः य एष तपति, ये सम्वत्सरमासते । तदुच्यत ऽएव सामतोयथैतस्य रूपं क्रियते उच्यत ऽऋक्तः, अथैतदेव यजुष्टः पुरश्चरणतो- यदेतं गृह्णन्ति । एतेनो ऽएवैनं गच्छन्ति ॥ १ ॥
सायणः
एतं वा इति । सौमिकानां क्रतूनामखिलमेतद्वर्तते इत्यत्रैव गवामयनिके विषुवत्येष ग्रहो विकुर्यात् । विषुवत्येषग्राह्यं विधीयते प्रसन्नाभ्यामेव कंडिकाभ्याम् ॥ १ ॥ २ ॥
इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (४-६-२) ॥
Eggeling
- Verily, they who sit (sacrificing) for a year, by means of six months go to him that burns yonder:
so it is told on the part of the Sāman, in as much as it is made of the form of that (sun) it is told on the part of the R̥k 1; and now in like manner on the part of the Yajus, by means of preparatory rite, when they draw that (graha) 2, they thereby also go to him (the sun).
०२
विश्वास-प्रस्तुतिः
(न्त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वो᳘) उ᳘दु त्यं᳘ जात᳘वेदसं देवं᳘ वहन्ति केत᳘वः॥ दृशे व्वि᳘श्वाय सू᳘र्यम्॥ उपयाम᳘गृहीतो ऽसि सू᳘र्याय त्वा भ्राजा᳘यैष᳘ ते यो᳘निः सूर्याय[[!!]] त्वा भ्राजाये᳘ति॥
मूलम् - श्रीधरादि
(न्त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वो᳘) उ᳘दु त्यं᳘ जात᳘वेदसं देवं᳘ वहन्ति केत᳘वः॥ दृशे व्वि᳘श्वाय सू᳘र्यम्॥ उपयाम᳘गृहीतो ऽसि सू᳘र्याय त्वा भ्राजा᳘यैष᳘ ते यो᳘निः सूर्याय[[!!]] त्वा भ्राजाये᳘ति॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
उदु त्यं᳘ जात᳘वेदसं देवं᳘ वहन्ति केत᳘वः दृशे वि᳘श्वाय सू᳘र्यम् उपयाम᳘गृहीतो ऽसि सू᳘र्याय त्वा भ्राजा᳘यैष᳘ ते यो᳘निः सू᳘र्याय त्वा भ्राजाये᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय, एष ते योनिः सूर्याय त्वा भ्राजाय”- (वा. सं. ८ । ४१) इति ॥ २ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- He thus takes it therefrom with (Vāj. S. VIII, 41; Rig-veda I, 50, 1) 3, ‘The lights bear on high that divine knower of beings, Sūrya, that all may see him!–Thou art drawn with a support: thee to Sūrya nor splendour!–This is thy womb: thee to Sūrya for splendour!’
-
427:1 Ta etaṁ shaḍbhir māsair yanti, tasmāt parāñco grahā gr̥hyante parāñci stotrāṇi parāñci śastrāṇi. Ta etaṁ shashṭḥe māse gachanti tad etasya rūpaṁ kriyate. Kāṇva text. ↩︎
-
427:2 Viz. the Atigrāhya cup to Sūrya (IV, 5, 4, 2 seq.), which has to be drawn on the Vishuvant or middle day of the Gavām ayana; an animal sacrifice to the same deity being also prescribed. ↩︎
-
428:1 The Kāṇva text allows the alternative mantra, Rig-veda I, 50, 3; Vāj. S. VIII, 40, Adr̥śram asya ketavaḥ, &c. See IV, 5, 4, 11. ↩︎