०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्व्वा᳘ ऽएष य᳘दᳫँ᳭शुः᳘॥
सो ऽस्यैष᳘ आ᳘त्मै᳘वात्मा ह्ययं᳘[[!!]] प्रजा᳘पतिस्त᳘दस्यैत᳘मात्मा᳘नं कुर्व्वन्ति य᳘त्रैतं᳘ गृह्ण᳘न्ति त᳘स्मिन्नेता᳘न्प्राणा᳘न्दधाति य᳘थायथैते᳘ प्राणा ग्र᳘हा व्याख्याय᳘न्ते स᳘ ह स᳘र्व्वतनूरेव य᳘जमानो ऽमु᳘ष्मिल्ँ लोके स᳘म्भवति॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्व्वा᳘ ऽएष 1 य᳘दᳫँ᳭शुः᳘॥
सो ऽस्यैष᳘ आ᳘त्मै᳘वात्मा ह्ययं᳘[[!!]] प्रजा᳘पतिस्त᳘दस्यैत᳘मात्मा᳘नं कुर्व्वन्ति य᳘त्रैतं᳘ गृह्ण᳘न्ति त᳘स्मिन्नेता᳘न्प्राणा᳘न्दधाति य᳘थायथैते᳘ प्राणा ग्र᳘हा व्याख्याय᳘न्ते स᳘ ह स᳘र्व्वतनूरेव य᳘जमानो ऽमु᳘ष्मिल्ँ लोके स᳘म्भवति॥

मूलम् - Weber

प्रजा᳘पतिर्वा᳘ एष य᳘दंशुः᳟᳟॥
सो ऽस्यैष᳘ आॗत्मैॗवात्मा ह्य᳘य᳘म् प्रजा᳘पतिस्त᳘दस्यैत᳘मात्मा᳘नं कुर्वन्ति य᳘त्रैतं᳘ गृह्ण᳘न्ति त᳘स्मिन्नेता᳘न्प्राणा᳘न्दधाति य᳘था यथैते᳘ प्राणा ग्र᳘हा व्याख्याय᳘न्ते स᳘ ह स᳘र्वतनूरेव य᳘जमानो ऽमु᳘ष्मिंलोके स᳘म्भवति॥

मूलम् - विस्वरम्

अंशुग्रहः ।

प्रजापतिर्वा ऽएष यदंशुः सो ऽस्यैष आत्मैव । आत्मा ह्ययं प्रजापतिः । तदस्यैतमात्मानं कुर्वन्ति-यत्रैतं गृह्णन्ति । तस्मिन्नेतान्प्राणान्दधाति । यथा- यथैते प्राणा ग्रहा व्याख्यायन्ते । स ह सर्वतनूरेव यजमानो ऽमुष्मिंल्लोके सम्भवति ॥ १ ॥

सायणः

प्रजापतिर्वा इति । अंशुब्राह्मणमेतत् । प्रजापतिरभिमानी अंशवो ऽधिदैवम् । अयं ह्यपो भिधाय प्रागित्येताभ्यो ऽतिरिक्तस्तूष्णीमुपचर्यते, द्वादशदक्षिणश्चेत्युपपद्यते ‘प्रजापतिः’ ‘अंशुः’ इति च सोमसम्बन्धाद् ग्रहस्य नामधेयम् साधकों ऽशुरिति सौ ऽस्यैष आत्मैवेत्यध्यात्मआत्मा ह्ययं प्रजापतिरिति यत्प्रजापतिः लिङ्गं तत्सर्वेषामेव प्राणिनामन्यो लिङ्गात्मकः यदपि प्रजापतेः शरीरं वैराजं तदपि साधारणं शरीरिणाम् आत्मा सर्वप्राणिनामित्यभिप्रायः । ननु चात्मा ह वा ऽस्याग्रयण आत्मा शरीरमित्युक्तं नैष न दोषः । स हि स्थूलो ऽयं च निरुक्तो लिङ्गानां भविष्यति एवमपि ध्रुवो निरुक्त आत्मेत्युक्तमेवमपि तद्विशिष्टं लिङ्गमिदं सामान्यमिति दोषः । तत्तस्मिन्नुतावस्थेयं यजमानस्यैवमात्मानं महान्तं कुर्वन्ति ऋत्विजो यत्र चैतं गृह्णन्त्यंशुमस्मिंश्च अंश्वात्मके आत्मनि ‘एतान्’ ग्रहात्मकान् ‘प्राणान्’ दधात्यध्वर्युः । कथं ? ‘यथायथा एते’ उपांश्वादयो ग्रहाः प्राणोदानवागादिरूपेण व्याख्यायन्ते । अथ तथा कृते आत्मनि क्रियमाणस्य यजमानस्यान्येभ्यो यजमानेभ्यः प्रविष्टं भवतीत्यत आह- स हेति । यत्स य उपांशुक्रतौ गृह्यतें ऽशुः ‘सर्वतनूः’ सर्वं जगत्तनूरस्येति सर्वतनूः सर्वात्मक इत्यर्थः ॥ १ ॥

Eggeling
  1. Now, the Aṁśu (graha), forsooth, is no other than Prajāpati: that (cup) is his (Yajña’s or the

Sacrificer’s) self 2, for Prajāpati is the self. Hence when they draw that (cup) they produce that self of his. Therein they lay these vital airs, according to as these vital airs, the grahas, are explained 3; and verily the sacrificer is born with his whole body in yonder world.

०२

विश्वास-प्रस्तुतिः

त᳘दार᳘म्भणवत्॥
(द्य᳘) य᳘त्रैतं᳘ गृह्णन्त्य᳘थैत᳘दनारम्भण᳘मिव य᳘त्रैतं न᳘ गृह्ण᳘न्ति त᳘स्माद्वा᳘ ऽअᳫँ᳭शुं᳘ गृह्णाति॥

मूलम् - श्रीधरादि

त᳘दार᳘म्भणवत्॥
(द्य᳘) य᳘त्रैतं᳘ गृह्णन्त्य᳘थैत᳘दनारम्भण᳘मिव य᳘त्रैतं न᳘ गृह्ण᳘न्ति त᳘स्माद्वा᳘ ऽअᳫँ᳭शुं᳘ गृह्णाति॥

मूलम् - Weber

त᳘दार᳘म्भणवत्॥
य᳘त्रैतं᳘ गृह्णन्त्य᳘थैत᳘दनारम्भण᳘मिव य᳘त्रैतं न᳘ गृह्ण᳘न्ति त᳘स्माद्वा᳘ अंशुं᳘ गृह्णाति॥

मूलम् - विस्वरम्

तद् आरम्भणवद्- यत्रैतं गृह्णन्ति । अथैतदनारम्भणमिव- यत्रैतं न गृह्णन्ति । तस्माद्वा ऽअंशुं गृह्णाति ॥ २ ॥

सायणः

स यजमानो ऽमुष्मिंल्लोके सम्भवति तदारम्भः अस्यायं वा ऽपरो विशेषः ‘यत्र’ कर्मणि ‘एतम्’ अंशुं गृह्णन्ति इत्येतत् ‘आरम्भणवत्’ आरम्भते कार्यमनेनेत्यारम्भणम् उपादानं तदेवंभूतं संपृक्तं लिङ्गं संयुक्तं तद्यत्र विद्यते तदारम्भणवत् । एतदुक्तं भवति यों ऽशुमता क्रतुना यजेत तस्मै तदुपादानमारम्भते ऽयमेव भवति 4 । यस्तु प्राकृतेन ऋतुना यजते स परक्रीतोपादानेन परिमितकार्यमाप्नोति तत्तदाहैवैतत्कर्मणा प्रज्ञातादौ । ‘यत्रैतं न गृह्णन्ति’ इति ॥ २ ॥

Eggeling
  1. Where they draw that (cup), then that is (like) having a hold 5; and where they do not draw it, then that is (like) having no hold: therefore, then, he draws the Aṁśu.

०३

विश्वास-प्रस्तुतिः

तं वा ऽऔ᳘दुम्बरेण पा᳘त्रेण गृह्णाति॥
प्रजा᳘पतिर्व्वा᳘ ऽएष᳘ प्राजापत्य᳘ ऽउदुम्ब᳘रस्त᳘स्मादौ᳘दुम्बरेण पा᳘त्रेण गृह्णाति॥

मूलम् - श्रीधरादि

तं वा ऽऔ᳘दुम्बरेण पा᳘त्रेण गृह्णाति॥
प्रजा᳘पतिर्व्वा᳘ ऽएष᳘ प्राजापत्य᳘ ऽउदुम्ब᳘रस्त᳘स्मादौ᳘दुम्बरेण पा᳘त्रेण गृह्णाति॥

मूलम् - Weber

तं वा औ᳘दुम्बरेण पा᳘त्रेण गृह्णाति॥
प्रजा᳘पतिर्वा᳘ एष᳘ प्राजापत्य᳘ उदुम्ब᳘रस्त᳘स्मादौ᳘दुम्बरेण पा᳘त्रेण गृह्णाति॥

मूलम् - विस्वरम्

तं वा ऽऔदुम्बरेण पात्रेण गृह्णाति । प्रजापतिर्वा ऽएषः । प्राजापत्य उदुम्बरः । तस्मादौदुम्बरेण पात्रेण गृह्णाति ॥ ३ ॥

सायणः

तं वा औदुम्बरेणेति । प्रजापतिरयमित्येतस्मिन्नर्थे ‘प्राजापत्यः’ तद्धितो प्यप्रत्ययः । ‘उदुम्बरः’ ‘तस्मात्’ सर्वस्मादात्मनः फलनिष्पत्तेः ॥ ३ ॥

Eggeling
  1. He draws it with a vessel of uḍumbara wood; for that (cup) is Prajāpati, and the uḍumbara tree is Prajāpati’s own: therefore he draws it with a vessel of uḍumbara wood.

०४

विश्वास-प्रस्तुतिः

तं वै च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥
त्र᳘यो वा᳘ ऽइमे᳘ लोकास्त᳘दिमा᳘नेव᳘ लोकां᳘स्तिसृ᳘भिराप्नो᳘ति प्रजा᳘पतिर्वा ऽअ᳘तीमाल्ँ᳘लोकां᳘श्चतुर्थस्त᳘त्प्रजा᳘पतिमेव᳘ चतु᳘र्थ्या ऽऽप्नोति त᳘स्माच्च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥

मूलम् - श्रीधरादि

तं वै च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥
त्र᳘यो वा᳘ ऽइमे᳘ लोकास्त᳘दिमा᳘नेव᳘ लोकां᳘स्तिसृ᳘भिराप्नो᳘ति प्रजा᳘पतिर्वा ऽअ᳘तीमाल्ँ᳘लोकां᳘श्चतुर्थस्त᳘त्प्रजा᳘पतिमेव᳘ चतु᳘र्थ्या ऽऽप्नोति त᳘स्माच्च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥

मूलम् - Weber

तं वै च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥
त्र᳘यो वा᳘ इमे᳘ लोकास्त᳘दिमा᳘नेव᳘ लोका᳘ᳫं᳘स्तिसृ᳘भिराप्नोति प्रजा᳘पतिर्वा अ᳘तीमां᳘लोकां᳘श्चतुर्थस्त᳘त्प्रजा᳘पतिमेव᳘ चतुॗर्थ्याप्नोति त᳘स्माच्च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥

मूलम् - विस्वरम्

तं वै चतुःस्रक्तिना पात्रेण गृह्णाति । त्रयो वा ऽइमे लोकाः । तदिमानेव लोकांस्तिसृभिराप्नोति । प्रजापतिर्वा ऽअतीमांल्लोकांश्चतुर्थः । तत् प्रजापतिमेव चतुर्थ्या ऽऽप्नोति । तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति ॥ ४ ॥

सायणः

तं वै चतुःस्रक्तिनेति । प्रसन्नप्रायमतः परम् । ‘स यदेवात्र क्षणुते वा’ (ह्यनौघवात्मद्विलिङ्गाद्विशेषयति । तद्विरः) पूर्वब्राह्मणे तत्समर्थयति ॥ ४ ॥ ५ ॥ ६ ॥

Eggeling
  1. He draws it with a square vessel; for there are here three worlds: these three worlds he obtains by three (corners). And Prajāpati is the fourth over and above these three worlds: thus he obtains Prajāpati by the fourth (corner): therefore he draws it with a square vessel.

०५

विश्वास-प्रस्तुतिः

स वै᳘ तूष्णी᳘मेव ग्रा᳘वाणमादत्ते᳘॥
तूष्णी᳘मᳫँ᳭शून्नि᳘वपति तूष्णी᳘मप ऽउ᳘पसृजति तूष्णी᳘मुद्य᳘त्य सकृदभि᳘षुणोति[[!!]] तूष्णी᳘मेनम᳘नवानञ्जुहोति त᳘देनं प्रजा᳘पतिं करोति॥

मूलम् - श्रीधरादि

स वै᳘ तूष्णी᳘मेव ग्रा᳘वाणमादत्ते᳘॥
तूष्णी᳘मᳫँ᳭शून्नि᳘वपति तूष्णी᳘मप ऽउ᳘पसृजति तूष्णी᳘मुद्य᳘त्य सकृदभि᳘षुणोति[[!!]] तूष्णी᳘मेनम᳘नवानञ्जुहोति त᳘देनं प्रजा᳘पतिं करोति॥

मूलम् - Weber

स वै᳘ तूष्णी᳘मेव ग्रा᳘वाणमादत्ते᳟॥
तूष्णी᳘मंशून्नि᳘वपति तूष्णी᳘मप उ᳘पसृजति तूष्णी᳘मुद्यत्य सकृ᳘दभि᳘षुणोति तूष्णी᳘मेनम᳘नवानन्जुहोति त᳘देनम् प्रजा᳘पतिं करोति॥

मूलम् - विस्वरम्

स वै तूष्णीमेव ग्रावाणमादत्ते । तूष्णीमंशून्निवपति । तूष्णीमप उपसृजति । तूष्णीमुद्यत्य, सकृदभिषुणोति । तूष्णीमेनमनवानञ्जुहोति । तदेनं प्रजापतिं करोति ॥ ५ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. Silently he takes up the pressing-stone; silently he throws down the Soma-plants (aṁśu); silently he pours water thereon; silently raising (the stone), he

presses once; silently he offers that (libation) without drawing breath: thus he makes him (the sacrificer) to be Prajāpati.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थास्याᳫँ᳭ हि᳘रण्यं बद्धं᳘ भवति॥
तदु᳘पजिघ्रति स य᳘देवा᳘त्र क्षणुते᳘ वा व्वि᳘ वा लिश᳘ते ऽमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘तमा᳘युरात्म᳘न्धत्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थास्याᳫँ᳭ हि᳘रण्यं बद्धं᳘ भवति॥
तदु᳘पजिघ्रति स य᳘देवा᳘त्र क्षणुते᳘ वा व्वि᳘ वा लिश᳘ते ऽमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘तमा᳘युरात्म᳘न्धत्ते॥

मूलम् - Weber

अ᳘थास्याᳫं हि᳘रण्यम् बद्ध᳘म् भवति॥
तदु᳘पजिघ्रति स य᳘देवा᳘त्र क्षणुते᳘ वा वि᳘ वा लिश᳘ते ऽमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘तमा᳘युरात्म᳘न्धत्ते॥

मूलम् - विस्वरम्

अथास्यां हिरण्यं बद्धं भवति । तदुपजिघ्रति । स यदेवात्र क्षणुते वा, वि वा लिशते- अमृतमायुर्हिरण्यं, तदमृतमायुरात्मन् धत्ते ॥ ६ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. Now there is a piece of gold in that (spoon): that he smells at. And if he either galls or scratches himself at this (sacrifice),–gold being immortal life,–he lays that immortal life into his own self.

०७

विश्वास-प्रस्तुतिः

त᳘दु होवाच राम औ᳘पतस्विनिः॥
का᳘ममेव᳘ प्राण्यात्का᳘ममु᳘दन्याद्यद्वै᳘ तूष्णीं᳘ जुहो᳘ति त᳘दे᳘वैनं प्रजा᳘पतिं करोती᳘ति॥

मूलम् - श्रीधरादि

त᳘दु होवाच राम औ᳘पतस्विनिः॥
का᳘ममेव᳘ प्राण्यात्का᳘ममु᳘दन्याद्यद्वै᳘ तूष्णीं᳘ जुहो᳘ति त᳘दे᳘वैनं प्रजा᳘पतिं करोती᳘ति॥

मूलम् - Weber

त᳘दु होवाच राम औ᳘पतस्विनिः॥
का᳘ममेव᳘ प्राण्यात्का᳘ममु᳘दन्याद्यद्वै᳘ तूष्णीं᳘ जुहो᳘ति त᳘देॗवैनम् प्रजा᳘पतिं करोतीॗति॥

मूलम् - विस्वरम्

तदु होवाच राम औपतस्विनिः- काममेव प्राण्यात्, काममुदन्यात् । यद्वै तूष्णीं जुहोति; तदेवैनं प्रजापतिं करोतीति ॥ ७ ॥

सायणः

उपतस्विनस्यापत्यम् ‘औपतस्विनिः’ ॥ ७ ॥

Eggeling
  1. As to this Rāma Aupatasvini said, ‘Let him freely breathe out and freely breathe in: if he but offers silently, thereby he makes him (the sacrificer) to be Prajāpati.’

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थास्याᳫं हि᳘रण्यं बद्धं᳘ भवति॥
तदु᳘पजिघ्रति स य᳘देवा᳘त्र क्षणुते᳘ वा व्वि᳘ वा लिश᳘ते ऽमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘तमा᳘युरात्म᳘न्धत्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थास्याᳫं हि᳘रण्यं बद्धं᳘ भवति॥
तदु᳘पजिघ्रति स य᳘देवा᳘त्र क्षणुते᳘ वा व्वि᳘ वा लिश᳘ते ऽमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘तमा᳘युरात्म᳘न्धत्ते॥

मूलम् - Weber

अ᳘थास्याᳫं हि᳘रण्यम् बद्द᳘म् भवति॥
तदु᳘पजिघ्रति स य᳘देवा᳘त्र क्षणुते᳘ वा वि᳘ वा लिश᳘ते ऽमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘तमा᳘युरात्म᳘न्धत्ते॥

मूलम् - विस्वरम्

अथास्यां हिरण्यं बद्धं भवति । तदुपजिघ्रति । स यदेवात्र क्षणुते वा, वि वा लिशते । अमृतमायुर्हिरण्यम् । तदमृतमायुरात्मन्धते ॥ ८ ॥

सायणः

अथास्यां हिरण्यमिति । पुनरवघ्राणवचनमुच्छ्वासवचनपक्षस्यानिवृत्त्यर्थम् । पूर्वत्राप्यनुच्छ्वासवचनपक्षे ऽप्यनिवृत्त्यर्थं पूर्वत्राप्यनुच्छ्वासकृतं दोषं समानार्थकार्यमिव हिरण्यस्यावघ्राणमित्यर्थः ॥ ८ ॥

Eggeling
  1. Now there is a piece of gold in that (spoon): that he smells at. And if he either galls or scratches himself at this (sacrifice),–gold being immortal life, he lays that immortal life into his own self.

०९

विश्वास-प्रस्तुतिः

त᳘दु होवाच बुडिल आ᳘श्वतराश्विः॥
(रु) उद्य᳘त्यैव᳘ गृह्णीया᳘न्नाभि᳘षुणुयादभि᳘षुण्वन्ति वा᳘ ऽअन्या᳘भ्यो देव᳘ताभ्यस्त᳘दन्य᳘था त᳘तः करोति य᳘थो चा ऽन्या᳘भ्यो देव᳘ताभ्यो᳘ ऽथ य᳘दुद्य᳘च्छति त᳘दे᳘वास्याभि᳘षुतं भव᳘तीति॥

मूलम् - श्रीधरादि

त᳘दु होवाच बुडिल आ᳘श्वतराश्विः॥
(रु) उद्य᳘त्यैव᳘ गृह्णीया᳘न्नाभि᳘षुणुयादभि᳘षुण्वन्ति वा᳘ ऽअन्या᳘भ्यो देव᳘ताभ्यस्त᳘दन्य᳘था त᳘तः करोति य᳘थो चा ऽन्या᳘भ्यो देव᳘ताभ्यो᳘ ऽथ य᳘दुद्य᳘च्छति त᳘दे᳘वास्याभि᳘षुतं भव᳘तीति॥

मूलम् - Weber

त᳘दु होवाच बुडिल आ᳘श्वतराश्विः॥
उद्य᳘त्यैव᳘ गृह्णीयाॗन्नाभि᳘षुणुयादभि᳘षुण्वन्ति वा᳘ अन्या᳘भ्यो देव᳘ताभ्यस्त᳘दन्य᳘था त᳘तः करोति य᳘थो चान्या᳘भ्यो देव᳘ताभ्यो᳘ ऽथ य᳘दुद्य᳘छति त᳘देॗवास्याभि᳘षुतम् भव᳘तीति॥

मूलम् - विस्वरम्

तदु होवाच बुडिल आश्वतराश्विः- उद्यत्यैव गृह्णीयाद्, नाभिषुणुयात् । अभिषुण्वन्ति वा ऽअन्याभ्यो देवताभ्यः । तदन्यथा ततः करोति । यथो चान्याभ्यो देवताभ्यः । अथ यदुद्यच्छति- तदेवास्याभिषुतं भवतीति ॥ ९ ॥

सायणः

‘बुडिलो’ नाम ब्रह्मवादी अश्वतरो ऽश्वो ऽस्यास्तीत्यश्वतराश्वः । अश्वतराश्वस्यापत्यम् ‘आश्वतराश्विः’ स उवाच- ‘उद्यत्य’ उद्यम्यैव 6 ग्रावाणमधिषवणस्थानामंशूनामुपरि ततों ऽशव उत्सृष्टा आपों ऽशुं गृहीत्वा गृह्णीयात् । प्राक्प्रांशूनतिहन्यात् । किं कारणम् । ‘अभिषुण्वन्ति’ सोममन्याभ्यो ग्रहदेवताभ्यः प्रजापतेरेकादशीभूताभ्यां न यथा प्रजापतेः सामान्यात्मकस्य, ततश्च यदुद्यम्यानभिषुत्य गृह्णाति तद्यथा ‘अन्याभ्यो देवताभ्यो वै’ तथा करोति ततः । अथ ‘यदुद्यच्छतीति’ (तत्प्रातराभिएवाभिषुत्याग्नौ) जुहोति तं हुत्वा यज्ञमग्नावेव योनौ रेतोभूतं सिञ्चतीति (वाधा दभिषवेण) सर्वत्र भाव्यमित्यभिप्रायः ॥ ९ ॥

Eggeling
  1. As to this Budila Āśvatarāśvi said, ‘Let him draw it after merely raising (the stone), and let him not press; for they do press for other deities: thus he does different from what he does for other deities; and in that he raises (the stone) thereby indeed the pressing takes place for him.’

१०

विश्वास-प्रस्तुतिः

त᳘दु होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो᳘ ऽभ्ये) अ᳘भ्येव᳘षुणुयान्न सो᳘म इ᳘न्द्रम᳘सुतो ममाद ना᳘ब्रह्माणो मघ᳘वानᳫं सुता᳘स इत्यृ᳘षिणाभ्य᳘ ऽनूक्तं न वा᳘ ऽअन्य᳘स्यै क᳘स्यै चन᳘ देव᳘तायै सकृ᳘दभि᳘षुणोति त᳘दन्य᳘था त᳘तः करोति य᳘थो चान्या᳘भ्यो देव᳘ताभ्यस्त᳘स्माद᳘भ्येव᳘षुणुयादि᳘ति॥

मूलम् - श्रीधरादि

त᳘दु होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो᳘ ऽभ्ये) अ᳘भ्येव᳘षुणुयान्न सो᳘म इ᳘न्द्रम᳘सुतो ममाद ना᳘ब्रह्माणो मघ᳘वानᳫं सुता᳘स इत्यृ᳘षिणाभ्य᳘ ऽनूक्तं न वा᳘ ऽअन्य᳘स्यै क᳘स्यै चन᳘ देव᳘तायै सकृ᳘दभि᳘षुणोति त᳘दन्य᳘था त᳘तः करोति य᳘थो चान्या᳘भ्यो देव᳘ताभ्यस्त᳘स्माद᳘भ्येव᳘षुणुयादि᳘ति॥

मूलम् - Weber

त᳘दु होवाच या᳘ज्ञवल्क्यः॥
अॗभ्येव᳘ षुणुयान्न सो᳘म इ᳘न्द्रम᳘सुतो ममाद ना᳘ब्रह्माणो मघ᳘वानᳫं सुता᳘स इत्यृ᳘षिणाभ्य᳘नूक्तं न वा᳘ अन्य᳘स्यै क᳘स्यै चन᳘ देव᳘तायै सकृ᳘दभि᳘षुणोति त᳘दन्य᳘था त᳘तः करोति य᳘थो चान्या᳘भ्यो देव᳘ताभ्यस्त᳘स्मादॗभ्येव᳘ षुणुयादि᳘ति॥

मूलम् - विस्वरम्

तदु होवाच याज्ञवल्क्यः- अभ्येव षुणुयात् । “न सोम इन्द्रमसुतो ममाद, नाब्रह्माणो मघवानं सुतासः” इति ऋषिणा ऽभ्यनूक्तम् । न वा अन्यस्यै कस्यै चन देवतायै सकृदभिषुणोति । तद् अन्यथा ततः करोति । यथो चान्याभ्यो देवताभ्यः । तस्मादभ्येव षुणुयादिति ॥ १० ॥

सायणः

तदु होवाचेति । याज्ञवल्क्यस्तु ‘अभिषुणुयादेव’ (संछत्वौघत्यै गृह्णीयादिति) किं कारणम् । मन्त्रेणानभिषुतस्य सोमस्य देवतर्पणत्वप्रतिषेधात् “न सोम इन्द्रमि” ति मन्त्रः । अस्यार्थः- उत्तरस्मिन्नर्द्धे तच्छब्दः । श्रूयते । पूर्वस्मिन् यच्छब्दो ऽध्याहार्यः । यमिन्द्रं मघवानमभिषुतः सोमो न मादयति न चाभिषुतः अपि सोमः अब्रह्माणः [प्रत्यक् कल्पयन्ति तस्मै इन्द्राय त्वां स्तुतिं जनये ऽहम् कीदृशमुक्थ्यं यज्ञे योषित् यदुक्थ्यं क्रियमाणं स इन्द्रो जुषति सेवते किमर्थं तादृशं जनयति यथा स तज्जन्यमानं नवीयो नवतरं शस्त्रं ‘शृणवत्’ शृणुयात् तन्मनुष्य इवास्माकं स्वभूतमुक्तं तस्मादुक्थ्यं जनयेयं जुषेयं तृतीयं शृणवद्यथा न इति शेषः । ततः स्वयं नाभिषुतो तमेव प्रजापतिरित्यभिप्रायः 7 ।] यथा चान्याभ्यो देवताभ्य इति कुर्वत अप्राजापत्यों ऽशुरिति दर्शयति- न सर्वग्रहस्य ग्रहीतव्यों ऽशुरित्युपपत्त्या समात्रा ज्ञानादिप्रयोगेष्वेवाविधानात् । यो वा ऽनूचानो ऽभिजितः शुद्धस्य प्रयोगे ग्रहीतव्य इत्यत आह- सहस्रे इति । सहस्रेण सहस्रदक्षिणः क्रतुर्लभ्यते सहस्रदक्षिणे ऋतौ ग्रहीतव्य एव । सर्वस्वदक्षिणे च क्रतौ विश्वजिदादिक्रतावेव च । एतानि ग्रहणानीत्युपसंहारः । ततश्च तेषु क्रतुषु ज्ञानादीनां ग्राह्येत्यन्येषामिति ॥ १०-१५ ॥

इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठे ऽध्याये प्रथमं ब्राह्मणम् ॥ (४-६-१) ॥

Eggeling
  1. As to this Yājñavalkya said, ‘Nay, let him press: “The unpressed Soma delighted not the mighty Indra, nor the outpressed draughts without prayer,” thus spake the R̥shi (Rig-veda VII, 26, I). For no other deity does he strike but once: thus he does different from what he does for other deities,–therefore let him press!’

११

विश्वास-प्रस्तुतिः

त᳘स्य द्वा᳘दश प्रथम᳘गर्भाः॥
षष्ठौ᳘ह्यो द᳘क्षिणा द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरᳫँ᳭शुस्त᳘देनं प्रजा᳘पतिं करोति॥(शतम्॥ २८००॥)

मूलम् - श्रीधरादि

त᳘स्य द्वा᳘दश प्रथम᳘गर्भाः॥
षष्ठौ᳘ह्यो द᳘क्षिणा द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरᳫँ᳭शुस्त᳘देनं प्रजा᳘पतिं करोति॥(शतम्॥ २८००॥)

मूलम् - Weber

त᳘स्य द्वा᳘दश प्रथम᳘गर्भाः॥
पष्ठौॗह्यो द᳘क्षिणा द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरंशुस्त᳘देनम् प्रजा᳘पतिं करोति॥

मूलम् - विस्वरम्

तस्य द्वादश प्रथमगर्भाः पष्ठौह्यो दक्षिणा । द्वादश वै मासाः सम्वत्सरस्य । सम्वत्सरः प्रजापतिः । प्रजापतिरंशुः । तदेनं प्रजापतिं करोति ॥ ११ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. Twelve heifers pregnant with their first calf are the priests’ fee for this (graha). Now there are twelve months in the year, and Prajāpati is the year, and the Aṁśu is Prajāpati: thus he makes him (the sacrificer) to be Prajāpati.

१२

विश्वास-प्रस्तुतिः

ता᳘सां द्वा᳘दश ग᳘र्भाः॥
(स्ता) ताश्च᳘तुर्विᳫं᳭शतिश्चतुर्विᳫं᳭ शतिर्व्वै᳘ संव्वत्सर᳘स्यार्धमासाः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरᳫँ᳭शुस्त᳘देनं प्रजा᳘पतिं करोति॥

मूलम् - श्रीधरादि

ता᳘सां द्वा᳘दश ग᳘र्भाः॥
(स्ता) ताश्च᳘तुर्विᳫं᳭शतिश्चतुर्विᳫं᳭ शतिर्व्वै᳘ संव्वत्सर᳘स्यार्धमासाः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरᳫँ᳭शुस्त᳘देनं प्रजा᳘पतिं करोति॥

मूलम् - Weber

ता᳘सां द्वा᳘दश ग᳘र्भाः॥
ताश्च᳘तुर्विंशतिश्च᳘तुर्विंशतिर्वै᳘ संवत्सर᳘स्यार्धमासाः᳘ संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरंशुस्त᳘देनम् प्रजा᳘पतिं करोति॥

मूलम् - विस्वरम्

तासां द्वादश गर्भाः । ताश्चतुर्विंशतिः । चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः । सम्वत्सरः प्रजापतिः । प्रजापतिरंशुः । तदेनं प्रजापतिं करोति ॥ १२ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. They have twelve embryo calves,–that makes

twenty-four. Now there are twenty-four half-moons in the year, and Prajāpati is the year, and the Aṁśu is Prajāpati: thus he makes him to be Prajāpati.

१३

विश्वास-प्रस्तुतिः

त᳘दु ह कौकूस्तः[[!!]]॥
(श्च᳘) च᳘तुर्विᳫँ᳭शतिमे᳘वैताः᳘ प्रथम᳘गर्भाः पष्ठौहीर्द᳘क्षिणा ददावृषभं᳘ पञ्चविᳫँ᳭शᳫँ᳭ हि᳘रण्यमेत᳘दु ह स᳘ ददौ॥

मूलम् - श्रीधरादि

त᳘दु ह कौकूस्तः[[!!]]॥
(श्च᳘) च᳘तुर्विᳫँ᳭शतिमे᳘वैताः᳘ प्रथम᳘गर्भाः पष्ठौहीर्द᳘क्षिणा ददावृषभं᳘ पञ्चविᳫँ᳭शᳫँ᳭ हि᳘रण्यमेत᳘दु ह स᳘ ददौ॥

मूलम् - Weber

त᳘दु ह कौकूस्तः᳟॥
च᳘तुर्विंशतिमेॗवैताः᳘ प्रथम᳘गर्भाः पष्ठौहीर्द᳘क्षिणा ददावृषभम् पञ्चविंशᳫं हि᳘रण्यमेत᳘दु ह स᳘ ददौ॥

मूलम् - विस्वरम्

तदु ह कौकूस्तः- चतुर्विंशतिमेवैताः प्रथमगर्भाः पष्ठौहीर्दक्षिणा ददौ, ऋषभं पञ्चविंशम् । हिरण्यम्, एतदु ह स ददौ ॥ १३ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. Now Kaukūsta 8 indeed gave as many as twenty-four heifers with their first calf as dakshiṇās, and a bull as the twenty-fifth, and gold; and truly that is what he gave.

१४

विश्वास-प्रस्तुतिः

स वा᳘ ऽएष न स᳘र्व्वस्यैव ग्रहीत᳘व्यः॥
(ऽ) आत्मा᳘ ह्यस्यैष[[!!]] यो᳘ न्वेव᳘ ज्ञातस्त᳘स्य ग्रहीत᳘व्यो यो᳘ वा ऽस्य प्रियः स्याद्यो᳘ वा ऽनूचानो᳘ ऽनूक्तेनैनं प्राप्नुया᳘त्॥

मूलम् - श्रीधरादि

स वा᳘ ऽएष न स᳘र्व्वस्यैव ग्रहीत᳘व्यः॥
(ऽ) आत्मा᳘ ह्यस्यैष[[!!]] यो᳘ न्वेव᳘ ज्ञातस्त᳘स्य ग्रहीत᳘व्यो यो᳘ वा ऽस्य प्रियः स्याद्यो᳘ वा ऽनूचानो᳘ ऽनूक्तेनैनं प्राप्नुया᳘त्॥

मूलम् - Weber

स वा᳘ एष न स᳘र्वस्येव ग्रहीत᳘व्यः॥
आत्मा ह्य᳘स्यैष योॗ न्वेव᳘ ज्ञातस्त᳘स्य ग्रहीत᳘व्यो यो᳘ वास्य प्रियः स्याद्यो᳘ वानूचानो᳘ ऽनूक्तेनैनम् प्राप्नुया᳘त्॥

मूलम् - विस्वरम्

स वा ऽएष न सर्वस्यैव ग्रहीतव्यः । आत्मा ह्यस्यैषः । यो न्वेव ज्ञातः- तस्य ग्रहीतव्यः । यो वा ऽस्य प्रियः स्याद्, यो वा ऽनूचानः । अनूक्तेनैनं प्राप्नुयात् ॥ १४ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. This (graha) should not be drawn for every one, since this is his (Yajña’s) self. It should only be drawn for one who is well known, or one who is his (the Adhvaryu’s) friend, or one who, being learned in sacred lore, would acquire it by his study.

१५

विश्वास-प्रस्तुतिः

(त्स) सह᳘स्रे ग्रहीत᳘व्यः॥
स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमेष᳘ स᳘र्व्ववेदसे᳘ ग्रहीत᳘व्यः स᳘र्व्वं वै᳘ सर्व्ववेदसᳫँ᳭ स᳘र्व्वमेष᳘ व्विश्वजि᳘ति स᳘र्व्वपृष्ठे ग्रहीतव्यः स᳘र्व्वं वै᳘ व्विश्वजित्स᳘र्व्वपृष्ठः स᳘र्व्वमेष᳘ व्वाजपे᳘ये राजसू᳘ये ग्रहीत᳘व्यः स᳘र्व्वᳫँ᳭ हि त᳘त्सत्रे᳘ ग्रहीत᳘व्यः स᳘र्व्वं वै᳘ सत्रᳫँ᳭ स᳘र्व्वमेष᳘ एता᳘नि ग्र᳘हणानि॥

मूलम् - श्रीधरादि

(त्स) सह᳘स्रे ग्रहीत᳘व्यः॥
स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमेष᳘ स᳘र्व्ववेदसे᳘ ग्रहीत᳘व्यः स᳘र्व्वं वै᳘ सर्व्ववेदसᳫँ᳭ स᳘र्व्वमेष᳘ व्विश्वजि᳘ति स᳘र्व्वपृष्ठे ग्रहीतव्यः स᳘र्व्वं वै᳘ व्विश्वजित्स᳘र्व्वपृष्ठः स᳘र्व्वमेष᳘ व्वाजपे᳘ये राजसू᳘ये ग्रहीत᳘व्यः स᳘र्व्वᳫँ᳭ हि त᳘त्सत्रे᳘ ग्रहीत᳘व्यः स᳘र्व्वं वै᳘ सत्रᳫँ᳭ स᳘र्व्वमेष᳘ एता᳘नि ग्र᳘हणानि॥

मूलम् - Weber

सह᳘स्रे ग्रहीत᳘व्यः॥
स᳘र्वं वै सह᳘स्रᳫं स᳘र्वमेष᳘ सर्ववेदसे᳘ ग्रहीत᳘व्यः स᳘र्वं वै᳘ सर्ववेदसᳫं स᳘र्वमेष᳘ विश्वजि᳘ति स᳘र्वपृष्ठे ग्रहीतव्यः स᳘र्वं वै᳘ विश्वजित्स᳘र्वपृष्ठः स᳘र्वमेष᳘ वाजपे᳘ये राजसू᳘ये ग्रहीत᳘व्यः स᳘र्वᳫं हि त᳘त्सत्त्रे᳘ ग्रहीत᳘व्यः स᳘र्वं वै᳘ सत्त्रᳫं स᳘र्वमेष᳘ एता᳘नि ग्र᳘हणानि॥

मूलम् - विस्वरम्

सहस्रे ग्रहीतव्यः । सर्वं वै सहस्रम् 7 । सर्वमेषः । सर्ववेदसे ग्रहीतव्यः । सर्वं वै सर्ववेदसम् । सर्वमेषः । विश्वजिति सर्वपृष्ठे ग्रहीतव्यः । सर्वं वै विश्वजित्सर्वपृष्ठः । सर्वमेषः । वाजपेये राजसूये ग्रहीतव्यः । सर्वं हि तत् सत्रे ग्रहीतव्यः । सर्वं वै सत्रम् । सर्वमेषः । एतानि ग्रहणानि ॥ १५ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. It should be drawn at a (sacrifice with) a thousand (cows as the priests’ fee); for a thousand is everything, and this (graha) is everything. It should be drawn at (a sacrifice) where the entire property is given away, for the entire property is everything, and this (graha) is everything. It should be drawn at a Viśvajit with all the Pr̥shṭḥas, for the Viśvajit (‘all-conquering’) is everything, and this (cup) is everything. It should be drawn at a Vājapeya and Rājasūya, for that is everything. It should be drawn at a sattra (sacrificial session), for the sattra means everything 9, and this (cup) means everything. These are the drawings.

  1. इह संहितायां उपयामगृहीतो ऽसीत्यादयो ऽदाभ्यग्रहग्रहणमन्त्राः, व्रेशीनां त्वेत्यादयो जलचालनमन्त्राः, उशिक्त्वं देवेत्यादयः सोमे अंशुक्षेपमन्त्राश्चाम्नायन्ते । त इह ब्राह्मणे न सन्ति । ↩︎

  2. 424:1 Or body (ātman); aṁśu meaning the Soma-plant, and hence the body of the Soma. This graha seems to consist of imperfectly pressed Soma-plants in water. Cf. Kāty. XII, 5, 6-12. See also Śat. Br. IV, I, I, 2; Taitt. S. VI, 6, 10; Sāy. on Taitt. S. I, p. 603. In the Kāṇva text this Brāhmaṇa is followed by one on the Adābhya graha, which is identified with speech. ↩︎

  3. 424:2 Or, perhaps, according to as the grahas are explained as being these vital airs. ↩︎

  4. अपो निघायाँ श्वदाभ्यग्रहणमौदुंबरेण चतुःस्रक्तिना । अँशोस्तूष्णीँ सर्वत्र । अनुच्छ्वसंश्चेच्छन् । अद्यादानाँ शुनिवपनोपमार्जनसकृत्प्रहरणग्रहणहोमान् हिरण्यं चोपजिघ्रति । का. श्रौ. सू. १२ । ९९-१०२ । ↩︎

  5. 424:3 Or, like something that has a handle. The Kāṇva text reads,–for whomsoever they draw that (cup), his vital airs are, as it were, supplied’ with a firmer hold, and, as it were, firmly established (ārambhaṇavattarā iva pratishṭḥitā iva). And for whomsoever they do not draw it, his vital airs are, as it were, without any hold (‘haltloser’) and quite unrestrained (anārambhaṇatarā ivāsyāyatatarā iva prāṇāḥ). ↩︎

  6. उद्यम्य वा प्रहरणम् । का. श्रौ. सू. १२ । १०३ । ↩︎

  7. द्वादश वत्सतर्यो गर्भिण्यो दक्षिणा ऽसत्रे । का. श्रौ. सू. १२ । १०५ । ↩︎ ↩︎

  8. 426:1 The Kāṇva MISS. read ‘Kaükthasta.’ ↩︎

  9. 426:2 Perhaps the author here means to connect sattra (satra) with the adverbs satram, satrā, ‘altogether, always,’ instead of with the verb sad, to sit; but cf. IV, 6, 8, 1. ↩︎