०१

विश्वास-प्रस्तुतिः

तद्य᳘त्रैत᳘द्द्वादशाहे᳘न᳘ व्यूढच्छन्दसा य᳘जते॥
तद्ग्र᳘हा᳘न्व्यूहति᳘ व्यूहत ऽउद्गाता᳘ च हो᳘ता च च्छ᳘न्दाᳫँ᳭सि स᳘ ऽएष प्र᳘ज्ञात[[!!]] ऽएव पू᳘र्व्वस्त्र्यहो᳘ भवति स᳘मूढच्छन्दास्त᳘दैन्द्रवायवा᳘ग्रान्गृह्णाति॥

मूलम् - श्रीधरादि

तद्य᳘त्रैत᳘द्द्वादशाहे᳘न᳘ व्यूढच्छन्दसा य᳘जते॥
तद्ग्र᳘हा᳘न्व्यूहति᳘ व्यूहत ऽउद्गाता᳘ च हो᳘ता च च्छ᳘न्दाᳫँ᳭सि स᳘ ऽएष प्र᳘ज्ञात[[!!]] ऽएव पू᳘र्व्वस्त्र्यहो᳘ भवति स᳘मूढच्छन्दास्त᳘दैन्द्रवायवा᳘ग्रान्गृह्णाति॥

मूलम् - Weber

तद्य᳘त्रैत᳘द्द्वादशाहे᳘नॗ व्यूढछन्दसा य᳘जते॥
तद्ग्र᳘हाॗन्व्यूहतिॗ व्यूहत उद्गाता᳘ च हो᳘ता च छ᳘न्दांसि स᳘ एष प्र᳘ज्ञा᳘त एव पू᳘र्वस्त्र्यहो᳘ भवति स᳘मूडछन्दास्त᳘दैन्द्रवायवा᳘ग्रान्गृह्णाति॥

मूलम् - विस्वरम्

व्यूढद्वादशाहः ।

तद् यत्रैतद् द्वादशाहेन व्यूढच्छन्दसा यजते- तद्ग्रहान्व्यूहति । व्यूहत उद्गाता च होता च छन्दांसि । स एष प्रज्ञात एव पूर्वस्त्र्यहो भवति समूढच्छन्दाः । तदैन्द्रवायवाग्रान्गृह्णाति ॥ १ ॥

सायणः

तद्यत्रैतद्द्वादशाहेनेति ‘व्यूढच्छन्दसा’ 1 दशरात्रस्य चतुर्थनवमयोरह्वोर्द्वारा ग्रहाणामाग्रयणः पूर्वं ग्रहीतव्यः । षष्ठसप्तमयोस्तु शुक्रस्तावद्धारणीयो यावत् पूर्वे ग्रहा गृहीतास्ततः परिमृज्य सादनीयाः । आग्रयणस्तु हिंकृत्य सादनीयः । वैराजा व्यूढच्छन्दांस्यपि दशरात्रे ग्रहा व्यूहनीया इत्येतदत्र ब्राह्मणे विधीयते । ‘एतत्’ इति श्रुत्यन्तरप्रसिद्धम् । द्वादशाहेन यजनं प्रत्यक्षवदुत्तरविवक्षया परामृशति । तत्तत्र ग्रहानेवाध्वर्युर्वक्ष्यमाणं व्यूहति । आग्रयणादीनामप्यस्य स्थानं भवति होतोद्गातारौ अपि तत्र च्छन्दांसि व्यूहन्तौ अन्योन्यस्य स्थानं नयतः स एवार्थज्ञानप्रसिद्ध एवाधिकृतं पूर्वं प्रथमस्त्र्यहः ‘प्रज्ञातः’ त्रिको भवति । कीदृशा समूढं (कृंदरहोतृण्णावत्) तत्राध्वर्युरप्यैन्द्रवायवानेवाधिकृतान् गृहान् गृह्णातीत्युत्तरविवक्षया ऽनुवादः । अनुवादत्वादेव बादरोत्रिरहस्त्र्यह इति गम्यते । होतुरुद्गातॄणां द्विदशरात्रं चतुर्थादहोरात्र्याख्यो द्वादशाहस्य ॥ १ ॥

Eggeling
  1. When he performs a twelve days’ sacrifice with transposed metres (Dvādaśāha vyūḍḥachandas), then he (the Adhvaryu) transposes the grahas (cups of Soma); and both the Udgātr̥ and the Hotr̥ transpose the metres. Now there is first that normal Tryaha (triduum), with settled metres 2: there he draws the cup beginning with the Aindravāyava.

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ चतुर्थे᳘ ऽह᳘न्व्यूहति॥
ग्र᳘हा᳘न्व्यूहन्ति च्छ᳘न्दाᳫँ᳭सि त᳘दाग्रयणा᳘ग्रान्गृह्णाति प्राजापत्यं वा᳘ ऽएत᳘च्चतुर्थम᳘हर्भवत्यात्मा वा᳘ ऽआग्रयण᳘ आत्मा वै᳘ प्रजा᳘पतिस्त᳘स्मादाग्रयणा᳘ग्रान्गृह्णाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ चतुर्थे᳘ ऽह᳘न्व्यूहति॥
ग्र᳘हा᳘न्व्यूहन्ति च्छ᳘न्दाᳫँ᳭सि त᳘दाग्रयणा᳘ग्रान्गृह्णाति प्राजापत्यं वा᳘ ऽएत᳘च्चतुर्थम᳘हर्भवत्यात्मा वा᳘ ऽआग्रयण᳘ आत्मा वै᳘ प्रजा᳘पतिस्त᳘स्मादाग्रयणा᳘ग्रान्गृह्णाति॥

मूलम् - Weber

अ᳘थ चतुर्थे᳘ ऽहॗन्व्यूहति॥
ग्र᳘हाॗन्यूहन्ति छ᳘न्दांसि त᳘दाग्रयणा᳘ग्रान् गृह्णाति प्राजापत्यं वा᳘ एत᳘च्चतुर्थम᳘हर्भवत्यात्मा वा᳘ आग्रयण आत्मा वै᳘ प्रजा᳘पतिस्त᳘स्मादाग्रयणा᳘ग्रान्गृह्णाति॥

मूलम् - विस्वरम्

अथ चतुर्थे ऽहन्व्यूहति । ग्रहान् व्यूहन्ति छन्दांसि । तदाग्रयणाग्रान्गृह्णाति । प्राजापत्यं वा ऽएतच्चतुर्थमहर्भवति । आत्मा वा ऽआग्रयणः । आत्मा वै प्रजापतिः । तस्मादाग्रयणाग्रान्गृह्णाति ॥ २ ॥

सायणः

अथ चतुर्थ इति ‘चतुर्थे’ अहनि इह सत्रस्य ‘व्यूहति’ ग्रहानध्वर्युः । ते “र्धारयन्त एवे” ति प्रयोगान्तरं धारयदभिप्रायं बहुवचनमेक एवात्र धारणात् । अथ यदाग्रहानिति येन तस्मादाग्रयणात्पूर्वेचैन्द्रवायवादयः ॥ २ ॥ ३ ॥

Eggeling
  1. Then, on the fourth day, he transposes the grahas, and they transpose the metres. There he draws the cups beginning with the Āgrayaṇa,–for that fourth day is Prajāpati’s own; and the Āgrayaṇa is the self, and Prajāpati is the self: therefore he draws the cups beginning with the Āgrayaṇa.

०३

विश्वास-प्रस्तुतिः

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘साद᳘येत्तं᳘ धार᳘यन्त ऽएवो᳘पासते᳘ ऽथ ग्र᳘हान्गृह्णात्य᳘थ यदा ग्र᳘हान्गृह्णात्य᳘थ य᳘त्रै᳘वैत᳘स्य कालस्त᳘देनᳫँ᳭ हिङ्कृ᳘त्य सादयत्य᳘थैतत्प्र᳘ज्ञातमेव᳘ पञ्चमम᳘हर्भवति त᳘दैन्द्रवा᳘यवाग्रान्गृह्णाति[[!!]]॥

मूलम् - श्रीधरादि

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘साद᳘येत्तं᳘ धार᳘यन्त ऽएवो᳘पासते᳘ ऽथ ग्र᳘हान्गृह्णात्य᳘थ यदा ग्र᳘हान्गृह्णात्य᳘थ य᳘त्रै᳘वैत᳘स्य कालस्त᳘देनᳫँ᳭ हिङ्कृ᳘त्य सादयत्य᳘थैतत्प्र᳘ज्ञातमेव᳘ पञ्चमम᳘हर्भवति त᳘दैन्द्रवा᳘यवाग्रान्गृह्णाति[[!!]]॥

मूलम् - Weber

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘साद᳘येत्तं᳘ धार᳘यन्त एवो᳘पासते᳘ ऽथ ग्र᳘हान् गृह्णात्य᳘थ यदा ग्र᳘हान् गृह्णात्य᳘थ य᳘त्रैॗवैत᳘स्य कालस्त᳘देनᳫं हिंकृ᳘त्य सादयत्यथैतत्प्र᳘ज्ञातमेव᳘ पञ्चमम᳘हर्भवति त᳘दैन्द्रवायवा᳘ग्रान् गृह्णाति॥

मूलम् - विस्वरम्

तं गृहीत्वा न सादयति । प्राणा वै ग्रहाः । नेत्प्राणान्मोहयानीति । मोहयेद्ध प्राणान् यत्सादयेत् । तं धारयन्त एवोपासते, अथ ग्रहान्गृह्णाति अथ यदा ग्रहान्गृह्णाति, अथ यत्रैवैतस्य कालः- तदेनं हिंकृत्य सादयति । अथैतत् प्रज्ञातमेव पञ्चममहर्भवति । तदैन्द्रवायवाग्रान्गृह्णाति ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. Having drawn that (Āgrayaṇa) cup, he does not deposit it–the grahas being the vital airs–lest he should disorder the vital airs 3; for he would indeed disorder the vital airs, were he to deposit it. They sit near holding that (cup) 4; and (the Adhvaryu) draws (the other) cups; and while he draws the cups, then whenever the time of that cup (in the order of performance comes), he utters ‘Hiṁ’ and deposits it. Then follows that normal 5 fifth day; on that he draws the cups beginning with the Aindravāyava.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ षष्ठे᳘ ऽह᳘न्व्यूहति॥
ग्र᳘हा᳘न्व्यूहन्ति च्छ᳘न्दाᳫं᳭सि त᳘च्छुक्रा᳘ग्रान्गृह्णात्यैन्द्रं वा᳘ ऽएतत्षष्ठम᳘हर्भवत्येष वै᳘ शुक्रो य᳘ एष त᳘पत्येष᳘ ऽउ ऽएवे᳘न्द्रस्त᳘स्माच्छुक्रा᳘ग्रान्गृह्णाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ षष्ठे᳘ ऽह᳘न्व्यूहति॥
ग्र᳘हा᳘न्व्यूहन्ति च्छ᳘न्दाᳫं᳭सि त᳘च्छुक्रा᳘ग्रान्गृह्णात्यैन्द्रं वा᳘ ऽएतत्षष्ठम᳘हर्भवत्येष वै᳘ शुक्रो य᳘ एष त᳘पत्येष᳘ ऽउ ऽएवे᳘न्द्रस्त᳘स्माच्छुक्रा᳘ग्रान्गृह्णाति॥

मूलम् - Weber

अ᳘थ षष्ठे᳘ ऽहॗन्व्यूहति॥
ग्र᳘हाॗन्व्यूहन्ति छ᳘न्दांसि त᳘छुक्रा᳘ग्रान् गृह्णात्यैन्द्रं वा᳘ एतत्षष्ठम᳘हर्भवत्येष वै᳘ शुक्रो य᳘ एष त᳘पत्येष᳘ उ एवे᳘न्द्रस्त᳘स्माछुक्रा᳘ग्रान् गृह्णाति॥

मूलम् - विस्वरम्

अथ षष्ठे ऽहन्व्यूहति ग्रहान्, व्यूहन्ति छन्दांसि तच्छुकाग्रान्गृह्णाति । ऐन्द्रं वा एतत्षष्ठमहर्भवति । एष वै शुक्रः य एष तपति । एष उ ऽएवेन्द्रः । तस्माच्छुक्राग्रान्गृह्णाति ॥ ४ ॥

सायणः

अथ षष्ठ इति । प्रसन्नो ब्राह्मण एष प्रायेण बार्हतः । बृहत्या आयतनं बृहतीति छन्दांस्यनुसंपद्यन्ते । एवं जागतमपि द्रष्टव्यम् । अङ्गानि वै ग्रहा इति सत्यं प्राणा ग्रहा एव प्राणाः स्वायतनानि नयनगोलकादीनि हित्वा ऽन्यत्रैव वर्तन्ते तथापि तु यानि तान्यङ्गानि नयनगोलकादीनि तान्यपि प्राणायतनत्वात् ग्रहा एव तानि च पुरुषविधानि अन्यस्यान्यं निक्षिप्य शेषेषु व्याक्षिप्यमाणेषु प्राणानपि व्यत्यस्यात् तस्मादस्त्य यमध्यात्मिकानां ग्रहाणां व्यत्यास इत्यधियाज्ञिकानामपि युक्तावत्रैव ग्रहानिति पुनर्वचनं । किन्तु तत्राध्वर्योरित्येतद्दर्शनोपक्रमार्थं, किन्तु तत्राध्वर्योरिति । यद्यध्वर्युर्ग्रहान्नव्यूहतीतरौ च च्छन्दांसि व्यूहतः । ततः कथं यज्ञस्य क्षत्रमाभ्यामसंस्कृतं भवति । (सामो मूर्त्तिस्त्रिरपि भवतीयमपीति प्रश्न एतद्वा ऽध्वर्युरिति प्रतिचवनम्) ॥ ४ ॥

Eggeling
  1. Thereupon, on the sixth day, he transposes the grahas, and they transpose the metres. There he draws the cups beginning with the Śukra; for that sixth day is Indra’s own, and the Śukra (bright, clear) is he that burns yonder, and he (the sun) indeed is Indra: therefore he draws the cups beginning with the Śukra.

०५

विश्वास-प्रस्तुतिः

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘त्साद᳘येत्तं᳘ धार᳘यन्त ऽएवो᳘पासते᳘ ऽथ ग्र᳘हान्गृह्णात्य᳘थयदा ग्र᳘हान्गृह्णात्य᳘थ य᳘त्रै᳘वैत᳘स्य कालस्त᳘देनᳫँ᳭ सादयति॥

मूलम् - श्रीधरादि

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘त्साद᳘येत्तं᳘ धार᳘यन्त ऽएवो᳘पासते᳘ ऽथ ग्र᳘हान्गृह्णात्य᳘थयदा ग्र᳘हान्गृह्णात्य᳘थ य᳘त्रै᳘वैत᳘स्य कालस्त᳘देनᳫँ᳭ सादयति॥

मूलम् - Weber

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणान्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘त्साद᳘येत्तं᳘ धार᳘यन्त एवो᳘पासते᳘ ऽथ ग्र᳘हान् गृह्णात्य᳘थ यदा ग्र᳘हान् गृह्णात्य᳘थ य᳘त्रैॗवैत᳘स्य कालस्त᳘देनᳫं सादयति॥

मूलम् - विस्वरम्

तं गृहीत्वा न सादयति । प्राणा वै ग्रहाः । नेत्प्राणान्मोहयानीति । मोहयेद्ध प्राणान् यत्सादयेत् । तं धारयन्त एवोपासते, अथ ग्रहान्गृह्णाति । अथ यदा ग्रहान्गृह्णाति, अथ यत्रैवैतस्य कालः- तदेनं सादयति ॥ ५ ॥

सायणः

Eggeling
  1. Having drawn that (cup), he does not deposit it–the grahas being the vital airs–lest he should disorder the vital airs; for he would indeed disorder the vital airs, were he to deposit it. They sit near

holding that (cup); and he draws (the other) cups; and while he draws the cups, then whenever the time of that (cup comes), he deposits it.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सप्तमे᳘ ऽह᳘न्व्यूहति॥
ग्र᳘हा᳘न्व्यूहन्ति च्छ᳘न्दाᳫँ᳭सि त᳘च्छुक्रा᳘ग्रान्गृह्णाति बा᳘र्हतं वा᳘ ऽएत᳘त्सप्तमम᳘हर्भवत्येष वै᳘ शुक्रो य᳘ एष त᳘पत्येष उ ऽएव᳘ बृहंस्त᳘स्माच्छुक्रा᳘ग्रान्गृह्णाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सप्तमे᳘ ऽह᳘न्व्यूहति॥
ग्र᳘हा᳘न्व्यूहन्ति च्छ᳘न्दाᳫँ᳭सि त᳘च्छुक्रा᳘ग्रान्गृह्णाति बा᳘र्हतं वा᳘ ऽएत᳘त्सप्तमम᳘हर्भवत्येष वै᳘ शुक्रो य᳘ एष त᳘पत्येष उ ऽएव᳘ बृहंस्त᳘स्माच्छुक्रा᳘ग्रान्गृह्णाति॥

मूलम् - Weber

अ᳘थ सप्तमे᳘ ऽहॗन्व्यूहति॥
ग्र᳘हाॗन्व्यूहन्ति छ᳘न्दांसि त᳘छुक्रा᳘ग्रान् गृह्णाति बा᳘र्हतं वा᳘ एत᳘त्सप्तमम᳘हर्भवत्येष वै᳘ शुक्रो य᳘ एष त᳘पत्येष उ एव᳘ बृहंस्त᳘स्माछुक्रा᳘ग्रान् गृह्णाति॥

मूलम् - विस्वरम्

अथ सप्तमे ऽहन्व्यूहति ग्रहान् व्यूहन्ति छन्दांसि तच्छुक्राग्रान्गृह्णाति । बार्हतं वा ऽएतत्सप्तममहर्भवति । एष वै शुक्रो य एष तपति । एष उ ऽएव बृहन् । तस्माच्छुक्राग्रान्गृह्णाति ॥ ६ ॥

सायणः

Eggeling
  1. Then, on the seventh day, he transposes the grahas, and they transpose the metres. There he draws the cups beginning with the Śukra cup; for that seventh day belongs to the Br̥hatī (‘great’ metre); for the Śukra is he that burns yonder, and he indeed is great: therefore he draws the cups beginning with the Śukra.

०७

विश्वास-प्रस्तुतिः

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘त्साद᳘येत्तं᳘ धार᳘यन्त ऽएवो᳘पासते᳘ ऽथ ग्र᳘हान्गृह्णात्य᳘थ यदा ग्र᳘हान्गृह्णात्य᳘थ य᳘त्रै᳘वैत᳘स्य कालस्त᳘देनᳫँ᳭ सादयत्य᳘थैतत्प्र᳘ज्ञातमे᳘वाष्टमम᳘हर्भवति त᳘दैन्द्रवायवा᳘ग्रान्गृह्णाति॥

मूलम् - श्रीधरादि

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘त्साद᳘येत्तं᳘ धार᳘यन्त ऽएवो᳘पासते᳘ ऽथ ग्र᳘हान्गृह्णात्य᳘थ यदा ग्र᳘हान्गृह्णात्य᳘थ य᳘त्रै᳘वैत᳘स्य कालस्त᳘देनᳫँ᳭ सादयत्य᳘थैतत्प्र᳘ज्ञातमे᳘वाष्टमम᳘हर्भवति त᳘दैन्द्रवायवा᳘ग्रान्गृह्णाति॥

मूलम् - Weber

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘त्साद᳘येत्तं᳘ धार᳘यन्त एवो᳘पासते᳘ ऽथ ग्र᳘हान् गृह्णात्य᳘थ यदा ग्र᳘हान् गृह्णात्य᳘थ य᳘त्रैॗवैत᳘स्य कालस्त᳘देनᳫं सादयत्य᳘थैतत्प्र᳘ज्ञातमेॗवाष्टमम᳘हर्भवति त᳘दैन्द्रवायवा᳘ग्रान् गृह्णाति॥

मूलम् - विस्वरम्

तं गृहीत्वा न सादयति । प्राणा वै ग्रहाः । नेत्प्राणान्मोहयानीति । मोहयेद्ध प्राणान् यत्सादयेत् । तं धारयन्त एवोपासते, अथ ग्रहान्गृह्णाति । अथ यदा ग्रहान्गृह्णाति, अथ यत्रैवैतस्य कालः- तदेनं सादयति । अथैतत्प्रज्ञातमेवाष्टममहर्भवति । तदैन्द्रवायवाग्रान्गृह्णाति ॥ ७ ॥

सायणः

Eggeling
  1. Having drawn that (cup), he does not deposit it–the grahas being the vital airs–lest he should disorder the vital airs; for he would indeed disorder the vital airs, were he to deposit it. They sit near holding that (cup); and he draws the (other) cups; and while he draws the cups, then whenever the time of that (cup comes), he deposits it. Then follows that normal eighth day: there he draws the cups beginning with the Aindravāyava.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ नवमे᳘ ऽह᳘न्व्यूहति॥
ग्र᳘हा᳘न्व्यूहन्ति च्छ᳘न्दाᳫँ᳭सि त᳘दाग्रयणा᳘ग्रान्गृह्णाति जा᳘गतं वा᳘ ऽएत᳘न्नवमम᳘हर्भवत्यात्मा वा᳘ ऽआग्रयणः स᳘र्व्वं वा᳘ ऽइद᳘मात्मा ज᳘गत्त᳘स्मादाग्रयणा᳘ग्रान्गृह्णाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ नवमे᳘ ऽह᳘न्व्यूहति॥
ग्र᳘हा᳘न्व्यूहन्ति च्छ᳘न्दाᳫँ᳭सि त᳘दाग्रयणा᳘ग्रान्गृह्णाति जा᳘गतं वा᳘ ऽएत᳘न्नवमम᳘हर्भवत्यात्मा वा᳘ ऽआग्रयणः स᳘र्व्वं वा᳘ ऽइद᳘मात्मा ज᳘गत्त᳘स्मादाग्रयणा᳘ग्रान्गृह्णाति॥

मूलम् - Weber

अ᳘थ नवमे᳘ ऽहॗन्व्यूहति॥
ग्र᳘हाॗन्व्यूहन्ति छ᳘न्दांसि त᳘दाग्रयणा᳘ग्रान् गृह्णाति जा᳘गतं वा᳘ एत᳘न्नवमम᳘हर्भवत्यात्मा वा᳘ आग्रयणः स᳘र्वं वा᳘ इद᳘मात्मा ज᳘गत्त᳘स्मादाग्रयणा᳘ग्रान् गृह्णाति॥

मूलम् - विस्वरम्

अथ नवमे ऽहन् व्यूहति ग्रहान्, व्यूहन्ति छन्दांसि । तदा ग्रयणाग्रान्गृह्णाति । जागतं वा ऽएतन्नवममहर्भवति । आत्मा वा आग्रयणः, सर्वे वा ऽइदमात्मा जगत् । तस्मादाग्रयणाग्रान्गृह्णाति ॥ ८ ॥

सायणः

Eggeling
  1. Then, on the ninth day, he transposes the grahas, and they transpose the metres. There he draws the cups beginning with the Āgrayaṇa; for that ninth day belongs to the Jagatī (metre), and the Āgrayaṇa is the self, and the self (soul) is this whole world (jagat): therefore he draws the cups beginning with the Āgrayaṇa.

०९

विश्वास-प्रस्तुतिः

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘त्साद᳘येत्तं᳘ धार᳘यन्त ए᳘वोपासते᳘ ऽथ ग्र᳘हान्गृह्णात्य᳘थ यदा ग्र᳘हान्गृह्णात्य᳘थ य᳘त्रै᳘वैत᳘स्य कालस्त᳘देनᳫँ᳭ हिङ्कृ᳘त्य सादयति॥

मूलम् - श्रीधरादि

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘त्साद᳘येत्तं᳘ धार᳘यन्त ए᳘वोपासते᳘ ऽथ ग्र᳘हान्गृह्णात्य᳘थ यदा ग्र᳘हान्गृह्णात्य᳘थ य᳘त्रै᳘वैत᳘स्य कालस्त᳘देनᳫँ᳭ हिङ्कृ᳘त्य सादयति॥

मूलम् - Weber

तं᳘ गृहीत्वा न᳘ सादयति॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्य᳘त्साद᳘येत्तं धार᳘यन्त एॗवोपासते᳘ ऽथ ग्र᳘हान् गृह्णात्य᳘थ यदा ग्र᳘हान् गृह्णात्य᳘थ य᳘त्रैॗवैत᳘स्य कालस्त᳘देनᳫं हिंकृ᳘त्य सादयति॥

मूलम् - विस्वरम्

तं गृहीत्वा न सादयति । प्राणा वै ग्रहाः । नेत्प्राणान्मोहयानीति । मोहयेद्ध प्राणान्- यत्सादयेत् । तं धारयन्त एवोपासते, अथ ग्रहान्गृह्णाति अथ यदा ग्रहान् गृह्णाति, अथ यत्रैवैतस्य कालः- तदेनं हिंकृत्य सादयति ॥ ९ ॥

सायणः

Eggeling
  1. Having drawn it, he does not deposit it–the grahas being the vital airs–lest he should disorder the vital airs; for he would indeed disorder the vital airs, were he to deposit it. They sit near holding that (cup); and he draws the (other) cups; and while he draws the cups, when the time of that (cup comes), he utters ‘Hiṁ’ and deposits it.

१०

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्न᳘) न᳘ व्यूहेद्ग्र᳘हान्प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्यद्व्यू᳘हेत्त᳘स्मान्न᳘ व्यूहेत्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्न᳘) न᳘ व्यूहेद्ग्र᳘हान्प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्यद्व्यू᳘हेत्त᳘स्मान्न᳘ व्यूहेत्॥

मूलम् - Weber

त᳘दाहुः॥
नॗ व्यूहेद्ग्र᳘हान्प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्यद्व्यू᳘हेत्त᳘स्मान्नॗ व्यूहेत्॥

मूलम् - विस्वरम्

तदाहुः- न व्यूहेद्ग्रहान् । प्राणा वै ग्रहाः । नेत्प्राणान्मोहयानीति । मोहयेद्ध प्राणान्- यदव्यूहेत् । तस्मान्न व्यूहेत् ॥ १० ॥

सायणः

Eggeling
  1. Now they say, He should not transpose the

cups–the cups being the vital airs–lest he should disorder the vital airs; for he would indeed disorder the vital airs, were he to transpose them: therefore he should not transpose (the cups).

११

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘दु᳘ व्यूहेदेव[[!!]]॥
(वा᳘ ऽ) अ᳘ङ्गानि वै ग्र᳘हाः का᳘मं वा᳘ ऽइमान्य᳘ङ्गानि व्यत्या᳘सᳫँ᳭शेते त᳘स्मादु᳘ व्यूहेदेव[[!!]]॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘दु᳘ व्यूहेदेव[[!!]]॥
(वा᳘ ऽ) अ᳘ङ्गानि वै ग्र᳘हाः का᳘मं वा᳘ ऽइमान्य᳘ङ्गानि व्यत्या᳘सᳫँ᳭शेते त᳘स्मादु᳘ व्यूहेदेव[[!!]]॥

मूलम् - Weber

त᳘दुॗ व्यूहेदेव᳟॥
अ᳘ङ्गानि वै ग्र᳘हाः का᳘मं वा᳘ इमान्य᳘ङ्गानि 6 व्यत्या᳘सं शेते त᳘स्मादुॗ व्यूहेदेव᳟॥

मूलम् - विस्वरम्

तदु व्यूहेदेव । अङ्गानि वै ग्रहाः । कामं वा ऽइमान्यङ्गानि व्यत्यासं शेते । तस्मादु व्यूहेदेव ॥ ११ ॥

सायणः

Eggeling
  1. But let him, nevertheless, transpose them; for the cups are the limbs, and in sleeping one likes to turn 7 his limbs from one side to the other: therefore let him nevertheless transpose them.

१२

विश्वास-प्रस्तुतिः

त᳘दु᳘ नैव᳘ व्यूहेत्॥
(त्प्रा) प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्यद्व्यू᳘हेत्त᳘स्मान्न᳘ व्यूहेत्॥

मूलम् - श्रीधरादि

त᳘दु᳘ नैव᳘ व्यूहेत्॥
(त्प्रा) प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्यद्व्यू᳘हेत्त᳘स्मान्न᳘ व्यूहेत्॥

मूलम् - Weber

त᳘दुॗ नैवॗ व्यूहेत्॥
प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानी᳘ति मोह᳘येद्ध प्राणान्यद्व्यू᳘हेत्त᳘स्मान्नॗ व्यूहेत्॥

मूलम् - विस्वरम्

तदु नैव व्यूहेत् । प्राणा वै ग्रहाः नेत्प्राणान्मोहयानीति । मोहयेद्ध प्राणान्- यद्व्यूहेत् । तस्मान्न व्यूहेत् ॥ १२ ॥

सायणः

Eggeling
  1. Nevertheless, he should not transpose them–the cups being the vital airs–lest he should disorder the vital airs; for he would indeed disorder the vital airs, were he to transpose (the cups): therefore let him not transpose them.

१३

विश्वास-प्रस्तुतिः

(त्किं) किं नु त᳘त्राध्वर्योः[[!!]]॥
(र्य᳘) य᳘दुद्गाता᳘ च हो᳘ता च च्छ᳘न्दाᳫँ᳭सि व्यू᳘हत एतद्वा᳘ अध्वर्यु᳘र्व्यूहति ग्र᳘हान्य᳘दैन्द्रवायवा᳘ग्रान्प्रातःसवने᳘ गृह्णा᳘ति शुक्रा᳘ग्रान्मा᳘ध्यन्दिने स᳘वन ऽआग्रयणा᳘ग्रांस्तृतीयसवने[[!!]]॥

मूलम् - श्रीधरादि

(त्किं) किं नु त᳘त्राध्वर्योः[[!!]]॥
(र्य᳘) य᳘दुद्गाता᳘ च हो᳘ता च च्छ᳘न्दाᳫँ᳭सि व्यू᳘हत एतद्वा᳘ अध्वर्यु᳘र्व्यूहति ग्र᳘हान्य᳘दैन्द्रवायवा᳘ग्रान्प्रातःसवने᳘ गृह्णा᳘ति शुक्रा᳘ग्रान्मा᳘ध्यन्दिने स᳘वन ऽआग्रयणा᳘ग्रांस्तृतीयसवने[[!!]]॥

मूलम् - Weber

किं नु त᳘त्राध्वर्यो᳟॥
य᳘दुद्गाता᳘ च हो᳘ता च छ᳘न्दांसि व्यू᳘हत एतद्वा᳘ अधर्युॗर्व्यूहति ग्र᳘हान्य᳘दैन्द्रवायवा᳘ग्रान्प्रातःसवने᳘ गृह्णा᳘ति शुक्रा᳘ग्रान्मा᳘ध्यन्दिने स᳘वन आग्रयणा᳘ग्रांस्तृतीयसवने᳟॥

मूलम् - विस्वरम्

किं नु तत्राध्वर्योः- यदुद्गाता च होता च छन्दांसि व्यूहतः । एतद्वा ऽअध्वर्युर्व्यूहति ग्रहान्- यदैन्द्रवायवाग्रान्प्रातः सवने गृह्णाति, शुक्राग्रान्माध्यन्दिने सवने, आग्रयणाग्रान् तृतीयसवने ॥ १३ ॥

सायणः

इति श्री हरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमे ऽध्याये बार्हतं नाम नवमं ब्राह्मणम् ॥ (४ । ५ । ९) ॥

Eggeling
  1. What, then, is the Adhvaryu to do in that case, when both the Udgātr̥ and Hotr̥ transpose (change) the metres 8? In that, at the morning pressing, he draws first the Aindravāyava cup; and at the midday pressing the Śukra cup; and at the evening pressing the Āgrayaṇa cup,–thereby forsooth the Adhvaryu transposes (the cups).

  1. अहीने व्यूढच्छंदसि दशरात्रस्य चतुर्थनवंमयो रन्होराग्रयणग्रहणं प्रथमः । द्वादशाहो द्विधा । व्यूढच्छंदाः १ समूढच्छंदाश्चे २ ति । स्वस्वस्थानविपरीतत्वेन ऊढानि स्थानांतरे प्रक्षिप्तानि छंदांसि यस्मिन् द्वादशाहे सो ऽयं व्यूढच्छंदाः । इति सायणः । ४ । ४ । ५ । ऐ० ब्रा०) यथोदाहरणं । ज्योतिष्टोमे प्रातःसवने गायत्रीछंदः । माध्यंदिने त्रिष्टुपछंदः । तृतीयसवने च जगतीछंदः । तत्र माध्यंदिनसवनीयत्रिष्टुप्स्थाने प्रातःसवनिका गायत्री पठ्यते । तार्तीयसवनजगतीस्थाने माध्यंदिनसवनिका त्रिष्टुप् पठ्यते । प्रातःसवनिकागायत्रीस्थाने तार्तीयसवनिका जगती पठ्यते । इदमेव छंदसां व्यूहनं । तदेतद्व्यूहनं होतुरुद्गातुश्च विहितं सूत्रे । व्यूढच्छन्दसीत्युक्तेः । समूढच्छन्दसि नैतच्च्छन्दोव्यूहनं । साम्येन ऊहा यत्र स समूढः । वैषम्येनोहा यत्र स व्यूढः । द्वादशाहे द्वादशस्वपि अहःसु ग्रहाग्रता विहिता । तत्र ग्रहाग्रता नाम अनेकेषु ग्रहेषु गृह्यमाणेषु प्रथमं यस्य ग्रहस्य ग्रहणं सा तद्ग्रहाग्रता । यथा अस्मिन्नेव ब्राह्मणे त्रयोदश्यां कंडिकायामुक्ता । प्रातःसवने ऐंद्रवायवाग्राः । माध्यंदिने शुकाग्राः । तृतीये आग्रयणाग्राः । इमे ग्रहाग्रतोहाः साम्येन यस्मिन् स समूढः । इमे ग्रहाग्रतोहाः व्यूढछंदस्यपि भवंति । अव्यूढो वा (१२ । १३५) इति वक्ष्यमाणासूत्रात् । तत्र द्वादशाहस्याहीनस्य व्यूढछंदसो दशरात्रस्यायं क्रमः । चतुर्थनवमयोरन्होराग्रयणाग्राः । षष्ठसप्तमयोः शुक्राग्राः । पंचमनवमयोरैंद्रवायवाग्राः । तृतीयं नवमं चाहः प्रज्ञातमिति शब्देनोच्यते । तथाच सूत्रं । शुक्रस्य षष्ठसप्तमयोरिति । (१२ । १३२) असादनमापूर्व्वेषां ग्रहणात् । पूर्वेषां ग्रहणदर्वाक् शुक्रस्याग्रयणस्य च स्वस्वस्थाने नासादनं किंतु उभयोः परिमार्जनप्रभृति कृत्वा प्राकृते काले आसादनं कर्तव्यं तदप्यासादनं यस्य हिंकारो विहितः । तस्य हिंकृत्यासादनं । इतरस्य तु अहिंकृत्यैवासादनं । तथाच सूत्रं । परिमार्जनप्रभृतिकाले हिंकृत्य सादनमिति । का. श्रौ. सू. १२ । १३१-१३४ । ↩︎

  2. 418:1 That is, three days, on which the order of the Agnishṭoma is observed. Hence, having drawn the Upāṁśu and Antaryāma cups (IV, 1, 1 and 2), which must always be drawn first, he draws the Aindravāyava cup (IV, 1, 3) and so on. The same order is preserved on the fifth, eighth, and last three days. On the fourth and ninth days, on the other hand, he follows up the Upāṁśu and Antaryāma by the grahas of the third pressing, beginning with the Āgrayaṇa (IV, 3, 5, 21 seq.); these being then succeeded by those of the morning and midday pressings; and on the sixth and seventh days the Upāṁśu and Antaryāma cups are succeeded by the grahas of the midday pressing, beginning with the Śukra cup (IV, 3, 3, 2). This change of the proper order of performance, of course, involves a different arrangement of the stotras and śastras (or ’the metres,’ as they are called in the texts). This dislocation of the three pressings is afterwards to be rectified by the various cups being ‘deposited’ on the khara in their normal order. In the last two paragraphs of the present Brāhmaṇa the author, however, discountenances this practice of changing the natural order of drawing the cups. ↩︎

  3. 419:1 For this construction see p. 15, note 3. ↩︎

  4. 419:2 ‘Having given it to some one else (to hold), he draws the other cups.’ Kāṇva text. ↩︎

  5. 419:3 Or, that ‘known’ fifth day, i.e. performed in the manner known, or explained before (viz. at the Agnishṭoma). ↩︎

  6. का᳘मन्वा᳘ऽइमा AB. ↩︎

  7. 421:1 In the text our subordinate clause is, as usual, the principal clause: ‘one sleeps in turning his limbs from one side to the other.’ ↩︎

  8. 421:2 The chanters and the Hotr̥ in any case use different metres, as the principal ones, at different pressings. ↩︎