०१

विश्वास-प्रस्तुतिः

तद्य᳘त्रैत᳘त्त्रिरात्रं᳘ सह᳘स्रं द᳘दाति॥
त᳘देषा᳘ साहस्री᳘ क्रियते स᳘ प्रथमे᳘ ऽहंस्त्री᳘णि च शता᳘नि न᳘यति त्र᳘यस्त्रिᳫं᳭ शतं चैव᳘मेव᳘ द्वितीये᳘ ऽहंस्त्री᳘णि चैव᳘ शता᳘नि न᳘यति त्र᳘यस्त्रिᳫँ᳭शतं चैव᳘मेव᳘ तृतीये᳘ ऽहंस्त्री᳘णि चैव᳘ शता᳘नि न᳘यति त्र᳘यस्त्रिᳫँ᳭शतं चा᳘थैषा᳘ साहस्र्य᳘तिरिच्यते॥

मूलम् - श्रीधरादि

तद्य᳘त्रैत᳘त्त्रिरात्रं᳘ सह᳘स्रं द᳘दाति॥
त᳘देषा᳘ साहस्री᳘ क्रियते स᳘ प्रथमे᳘ ऽहंस्त्री᳘णि च शता᳘नि न᳘यति त्र᳘यस्त्रिᳫं᳭ शतं चैव᳘मेव᳘ द्वितीये᳘ ऽहंस्त्री᳘णि चैव᳘ शता᳘नि न᳘यति त्र᳘यस्त्रिᳫँ᳭शतं चैव᳘मेव᳘ तृतीये᳘ ऽहंस्त्री᳘णि चैव᳘ शता᳘नि न᳘यति त्र᳘यस्त्रिᳫँ᳭शतं चा᳘थैषा᳘ साहस्र्य᳘तिरिच्यते॥

मूलम् - Weber

तद्य᳘त्रैत᳘त्त्रिरात्रे᳘ सह᳘स्रं द᳘दाति॥
त᳘देषा᳘ साहस्री᳘ क्रियते स᳘ प्रथमे᳘ ऽहंस्त्री᳘णि च शता᳘नि न᳘यति त्र᳘यस्त्रिंशतम् चैव᳘मेव᳘ द्वितीये᳘ ऽहंस्त्री᳘णि चैव᳘ शता᳘नि न᳘यति त्र᳘यस्त्रिंशतं चैव᳘मेव᳘ तृतीये᳘ ऽहंस्त्री᳘णि चैव᳘ शता᳘नि न᳘यति त्र᳘यस्त्रिंशतं चा᳘थैषा᳘ साहस्र्य᳘तिरिच्यते॥

मूलम् - विस्वरम्

गर्गत्रिरात्रमहीनम् ।

तद् यत्रैतत्त्रिरात्रे सहस्रं ददाति- तदेषा साहस्री क्रियते । स प्रथमे ऽहं स्त्रीणि च शतानि नयति, त्रयस्त्रिंशतं च । एवमेव द्वितीये ऽहं स्त्रीणि चैव शतानि नयति, त्रयस्त्रिंशतं च । एवमेव तृतीये ऽहं स्त्रीणि चैव शतानि नयति त्रयस्त्रिंशतं च । अथैषा साहस्त्र्यतिरिच्यते ॥ १ ॥

सायणः

तद्यत्रैतदिति । साहस्रीब्राह्मणमेतत् । संवत्सरसत्रविषयो वैषुवतो ग्रह इति । मन्त्रक्रमादुपस्थितमप्युत्सार्याहीने गता ‘साहस्री’ तावदुच्यते । यत्र यस्मिँश्च त्रिरात्रे तिस्रो रात्रयः समाहृतास्त्रिरात्रः 1 । रात्र्या चाहोरात्रं लक्ष्यते, तेनाप्यहोरात्रपरिमितं सोमयागस्ततश्च यत्र त्रिरात्रे सोमयागस्तत्र सङ्घाते गार्गाख्ये सहस्रं दक्षिणां ददाति तत्तत्रैषा वक्ष्यमाणा त्रिरूपादिका गौः साहस्री सहस्रस्य पूरणीत्येतस्मिन्नर्थे वक्ष्यमाणं द्रष्टव्यम् । सहस्राहवासा क्रियते इति वक्ष्यमाण सम्बन्धार्थ उपन्यासः । कथं नाम स यदेतत् प्रथमे ऽहनि इत्याद्येतद्गर्गत्रिरात्रविषयं विज्ञाय ततः स प्रथमे ऽहनीत्यसममर्थानुवाद एव । स एव समविभक्ताः प्रत्यहं ददातीत्यसद्धर्मस्य सर्वाहीनविषयत्वात् । ‘अथैषा साहस्त्र्यतिरिच्यते’ विभक्तुमशक्यत्वात् ॥ १ ॥

Eggeling
  1. Now when at that Trirātra 2 sacrifice he gives those thousand (cows), then that one is made the one-thousandth 3. On the first day he brings three hundred and thirty-three; and likewise on the second day he brings three hundred and thirty-three; and likewise on the third day he brings three hundred and thirty-three. Then that one-thousandth is left over.

०२

विश्वास-प्रस्तुतिः

सा वै त्रि᳘रूपा स्यादि᳘त्याहुः॥
(रे) एत᳘द्ध्यस्यै[[!!]] रूप᳘तममिवे᳘ति रो᳘हिणी ह त्वे᳘वोपध्वस्ता᳘ स्यादेत᳘द्धै᳘वास्यै[[!!]] रूप᳘तममिव॥

मूलम् - श्रीधरादि

सा वै त्रि᳘रूपा स्यादि᳘त्याहुः॥
(रे) एत᳘द्ध्यस्यै[[!!]] रूप᳘तममिवे᳘ति रो᳘हिणी ह त्वे᳘वोपध्वस्ता᳘ स्यादेत᳘द्धै᳘वास्यै[[!!]] रूप᳘तममिव॥

मूलम् - Weber

सा वै त्रि᳘रूपा स्यादि᳘त्याहुः॥
एतद्ध्य᳘स्यै रूप᳘तममिवे᳘ति रो᳘हिणी ह त्वेॗवोपध्वस्ता᳘ स्यादे᳘तद्धैॗवास्यै रूप᳘तममिव॥

मूलम् - विस्वरम्

सा वै त्रिरूपा स्यादित्याहुः । एतद्ध्यस्यै रूपतममिवेति । रोहिणी ह त्वेवोपध्वस्ता स्यात् । एतद्धैवास्यै रूपतममिव ॥ २ ॥

सायणः

सा वै त्रिरूपेति । ‘त्रिरूपा’ 1 त्रिवर्णा ‘रोहिणी’ रक्ता ‘उपध्वस्ता’ वर्णान्तरेणाहता ‘रूपतमम्’ रूपान्तरेभ्यः प्रकृष्टं रूपम् ॥ २ ॥

Eggeling
  1. She should be three-coloured, they say, for that is the most perfect form for her. But let it be a red one, and spotted, for that indeed is the most perfect form for her.

०३

विश्वास-प्रस्तुतिः

सा᳘ स्याद᳘प्रवीता॥
व्वाग्वा᳘ ऽएषा᳘ निदा᳘नेन य᳘त्साहस्र्य᳘यातयाम्नी वा᳘ ऽइयं व्वाग᳘यातयाम्न्य᳘प्रवीता त᳘स्माद᳘प्रवीता स्यात्॥

मूलम् - श्रीधरादि

सा᳘ स्याद᳘प्रवीता॥
व्वाग्वा᳘ ऽएषा᳘ निदा᳘नेन य᳘त्साहस्र्य᳘यातयाम्नी वा᳘ ऽइयं व्वाग᳘यातयाम्न्य᳘प्रवीता त᳘स्माद᳘प्रवीता स्यात्॥

मूलम् - Weber

सा᳘ स्याद᳘प्रवीता॥
वाग्वा᳘ एषा᳘ निदा᳘नेन य᳘त्साहस्र्य᳘यातयाम्नी वा᳘ ऽयं वाग᳘यातयाम्न्य᳘प्रवीता त᳘स्माद᳘प्रवीता स्यात्॥

मूलम् - विस्वरम्

सा स्यादप्रवीता । वाग्वा ऽएषा निदानेन- यत्साहस्री अयातयाम्नी वा ऽइयं वाग्, अयातयाम्नी अप्रवीता । तस्मादप्रवीता स्यात् ॥ ३ ॥

सायणः

सा स्यादप्रवीतेति । वृषेणानुपगता । वाग्वा एवेति । वागेव देवता अस्या अधिदैवतमित्यर्थः । ‘अयातयाम्नी’ अनुपक्षीणवीर्या वाक् ससारा स्वकार्यादपि हरिणा ‘अप्रवीता’ असंस्कृतवीर्यत्वात् ॥ ३ ॥

Eggeling
  1. Let it be one that has not been approached (by a bull), for she, the Sāhasrī, is in reality Vāc (speech); but Vāc, forsooth, is of unimpaired vigour, and so is one of unimpaired vigour which has not been approached: therefore it should be one that has not been approached.

०४

विश्वास-प्रस्तुतिः

(त्तां᳘) तां᳘ प्रथमे᳘ ऽहन्नयेत्॥
(द्वा) वाग्वा᳘ ऽएषा᳘ निदा᳘नेन य᳘त्साहस्री त᳘स्या एत᳘त्सह᳘स्रं व्वाचः प्र᳘जातं पूर्व्वा᳘ हैषै᳘ति पश्चा᳘देनां प्र᳘जातम᳘न्वेत्युत्त᳘मे᳘ वैनाम᳘हन्नयेत्पू᳘र्व्वम᳘हास्यै प्र᳘जातमे᳘ति पश्चा᳘देषा᳘न्वेति᳘ सो ऽएषा᳘ मीमा᳘ᳫँ᳘सै᳘वोत्तम᳘ ऽए᳘वैनाम᳘हन्नयेत्पू᳘र्व्वम᳘हास्यै प्र᳘जातमे᳘वैति पश्चा᳘देषा᳘न्वेति॥

मूलम् - श्रीधरादि

(त्तां᳘) तां᳘ प्रथमे᳘ ऽहन्नयेत्॥
(द्वा) वाग्वा᳘ ऽएषा᳘ निदा᳘नेन य᳘त्साहस्री त᳘स्या एत᳘त्सह᳘स्रं व्वाचः प्र᳘जातं पूर्व्वा᳘ हैषै᳘ति पश्चा᳘देनां प्र᳘जातम᳘न्वेत्युत्त᳘मे᳘ वैनाम᳘हन्नयेत्पू᳘र्व्वम᳘हास्यै प्र᳘जातमे᳘ति पश्चा᳘देषा᳘न्वेति᳘ सो ऽएषा᳘ मीमा᳘ᳫँ᳘सै᳘वोत्तम᳘ ऽए᳘वैनाम᳘हन्नयेत्पू᳘र्व्वम᳘हास्यै प्र᳘जातमे᳘वैति पश्चा᳘देषा᳘न्वेति॥

मूलम् - Weber

ता᳘म् प्रथमे᳘ ऽहन्नयेत्॥
वाग्वा᳘ एषा᳘ निदा᳘नेन य᳘त्साहस्री त᳘स्या एत᳘त्सह᳘स्रं वाचः प्र᳘जातम् पूर्वा᳘ हैषै᳘ति पश्चा᳘देनाम् प्र᳘जातम᳘न्वेत्युत्तमे᳘ वैनाम᳘हन्नयेत्पू᳘र्वम᳘हास्यै प्र᳘जातमे᳘ति पश्चा᳘देषा᳘न्वेतिॗ सो एषा᳘ मीमाॗᳫंॗसैॗवोत्तम᳘ एॗवैनाम᳘हन्नयेत्पू᳘र्वम᳘हास्यै प्र᳘जातमे᳘ति पश्चा᳘देषा᳘न्वेति॥

मूलम् - विस्वरम्

तां प्रथमे ऽहन्नयेत् । वाग्वा ऽएषा निदानेन- यत्साहस्री । तस्या एतत्सहस्रं वाचः प्रजातम् । पूर्वा हैषैति । पश्चादेनां प्रजातमन्वेति । उत्तमे वैनामहन्नयेत्, पूर्वमहास्यै प्रजातमेति, पश्चादेषान्वेति । सो ऽएषा मीमांसैव । उत्तम ऽएवैनामहन्नयेत् । पूर्वमहास्यै प्रजातमेवैति, पश्चादेषान्वेति ॥ ४ ॥

सायणः

तां प्रथमे ऽहन्निति 4पूर्वा हैषैतीति । (गवामेष नाव इत्यभिधाय पूर्वमाह एषा इत्येवमपि ।) एनां स्त्रीणामग्रतो धावन्तो वत्सा इत्याशयः । उत्तमे वैनामिति । ये पुष्टा वत्सास्ते अग्रतो भवन्ति (तेहमुक्तमिति । एतस्मादेव वाक्यशेषात् प्रथमे इति यजमानो नान्यः प्रथमो न धातव्याः ।) उत्तमे त्वृजुनीयमानाः पश्चादिति गम्यते ॥ ४ ॥

Eggeling
  1. He may lead her up (to the sacrificial ground) on the first day; for she, the Sāhasrī, is in reality Vāc, and hers, Vāc’s, is that thousandfold progeny 5.

She walks at the head (of the other 333 cows), and behind her follows her progeny. Or he may lead her up on the last day; then her progeny precedes her, and she herself walks behind. This, however, is mere speculation: let him lead her up on the last day,–her progeny precedes her, and she herself walks behind.

०५

विश्वास-प्रस्तुतिः

तामु᳘त्तरेण हविर्धा᳘ने॥
द᳘क्षिणेना᳘ग्नीध्नं[[!!]] द्रोणकलशम᳘वघ्रापयति यज्ञो वै᳘ द्रोणकलशो᳘ यज्ञ᳘मे᳘वैनामेत᳘द्दर्शयति॥

मूलम् - श्रीधरादि

तामु᳘त्तरेण हविर्धा᳘ने॥
द᳘क्षिणेना᳘ग्नीध्नं[[!!]] द्रोणकलशम᳘वघ्रापयति यज्ञो वै᳘ द्रोणकलशो᳘ यज्ञ᳘मे᳘वैनामेत᳘द्दर्शयति॥

मूलम् - Weber

तामु᳘त्तरेण हविर्धा᳘ने॥
द᳘क्षिणेना᳘ग्नीध्रं᳘ द्रोणकलशम᳘वघ्रापयति यज्ञो वै᳘ द्रोणकलशो᳘ यज्ञ᳘मेॗवैनामेत᳘द्दर्शयति॥

मूलम् - विस्वरम्

तामुत्तरेण हविर्धाने दक्षिणेनाग्नीध्रं द्रोणकलशवमघ्रापयति । यज्ञो वै द्रोणकलशः । यज्ञमेवैनामेतद्दर्शयति ॥ ५ ॥

सायणः

तामुत्तरेणेति । अन्तरा शालासदसि नीत्वा ‘द्रोणकलशम्’ एव ‘अवघ्रापयति’ ‘यज्ञो वै द्रोणकलशः’ वृत्रस्य शिरसो धारणात् सोमाधारश्चेति । यज्ञ एवैनामिति । यज्ञो यजमानस्तं सहस्रेण रिरिचानमनया सहस्रस्य पात्रभूतया रिच्यमानमप्यानयतीत्यभिप्रायः ॥ ५ ॥

Eggeling
  1. North of the Havirdhāna shed, and south of the Āgnīdhra fire-house he makes her smell the Droṇakalaśa; for the Droṇakalaśa is the sacrifice; thus he makes her see the sacrifice.

०६

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘जिघ्र कल᳘शम्॥
(म्म) मह्या᳘ त्वा व्विशन्त्वि᳘न्दव इ᳘ति रिरिचान᳘ इव वा᳘ ऽएष᳘ भवति यः᳘ सह᳘स्रं द᳘दाति त᳘मे᳘वैत᳘द्रिरिचानं पु᳘नरा᳘प्याययति यदाहा᳘जिघ्र कल᳘शं मह्या᳘ त्वा व्विशन्त्वि᳘न्दव ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘जिघ्र कल᳘शम्॥
(म्म) मह्या᳘ त्वा व्विशन्त्वि᳘न्दव इ᳘ति रिरिचान᳘ इव वा᳘ ऽएष᳘ भवति यः᳘ सह᳘स्रं द᳘दाति त᳘मे᳘वैत᳘द्रिरिचानं पु᳘नरा᳘प्याययति यदाहा᳘जिघ्र कल᳘शं मह्या᳘ त्वा व्विशन्त्वि᳘न्दव ऽइ᳘ति॥

मूलम् - Weber

आ᳘जिघ्र कल᳘शम्॥
मह्या᳘ त्वा विशन्त्वि᳘न्दव इ᳘ति रिरिचान᳘ इव वा᳘ एष᳘ भवति यः᳘ सह᳘स्रं द᳘दाति त᳘मेॗवैत᳘द्रिरिचानम् पु᳘नरा᳘प्याययति यदाहा᳘जिघ्र कल᳘शम् मह्या᳘ त्वा विशन्त्वि᳘न्दव इ᳘ति॥

मूलम् - विस्वरम्

“आजिघ्र कलशं मह्या त्वा विशन्त्विवन्दवः”- (वा. सं. ८ । ४२) इति । रिरिचान इव वा ऽएष भवति- यः सहस्रं ददाति । तमेवैतद्रिरिचानं पुनराप्याययति- यदाह- आजिघ्र कलशं मह्या त्वा विशन्त्विन्दव इति ॥ ६ ॥

सायणः

आजिघ्रेति । प्रसन्नाश्चतस्रः 4 ॥ ६-९ ॥

Eggeling
  1. With (Vāj. S. VIII, 42), ‘Smell the trough: may the drops enter thee, O mighty one!’ Now he who gives a thousand (cows) becomes, as it were, emptied: him, thus emptied, he thereby replenishes, when he says, ‘Smell the trough: may the drops enter thee, O mighty one!’

०७

विश्वास-प्रस्तुतिः

पु᳘नरूर्जा नि᳘वर्तस्वे᳘ति॥
त᳘द्वेव᳘ रिरिचानं पु᳘नरा᳘प्याययति यदा᳘ह पु᳘नरूर्जा नि᳘वर्तस्वे᳘ति॥

मूलम् - श्रीधरादि

पु᳘नरूर्जा नि᳘वर्तस्वे᳘ति॥
त᳘द्वेव᳘ रिरिचानं पु᳘नरा᳘प्याययति यदा᳘ह पु᳘नरूर्जा नि᳘वर्तस्वे᳘ति॥

मूलम् - Weber

पु᳘नरूर्जा नि᳘वर्तस्वे᳘ति॥
त᳘द्वेव᳘ रिरिचानम् पु᳘नरा᳘प्याययति यदा᳘ह पु᳘नरूर्जा नि᳘वर्तस्वे᳘ति॥

मूलम् - विस्वरम्

“पुनरूर्जा निवर्तस्व”- (वा. सं. ८ । ४२) इति । तद्वेव रिरिचानं पुनराप्याययति- यदाह- पुनरूर्जा निवर्तस्वेति ॥ ७ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. ‘Return again with sap!’ him who is emptied he thus replenishes when he says, ‘Return again with sap!’

०८

विश्वास-प्रस्तुतिः

सा᳘ नः सह᳘स्रं धुक्ष्वे᳘ति॥
त᳘त्सह᳘स्रेण रिरिचानं पु᳘नरा᳘प्याययति यदा᳘ह सा᳘ नः सह᳘स्रं धुक्ष्वे᳘ति॥

मूलम् - श्रीधरादि

सा᳘ नः सह᳘स्रं धुक्ष्वे᳘ति॥
त᳘त्सह᳘स्रेण रिरिचानं पु᳘नरा᳘प्याययति यदा᳘ह सा᳘ नः सह᳘स्रं धुक्ष्वे᳘ति॥

मूलम् - Weber

सा᳘ नः सह᳘स्रं धुक्ष्वे᳘ति॥
त᳘त्सह᳘स्रेण रिरिचानम् पु᳘नराप्याययति यदा᳘ह सा᳘ नः सह᳘स्रं धुक्ष्वे᳘ति॥

मूलम् - विस्वरम्

“सा नः सहस्रं धुक्ष्व”- (वा. सं. ८ । ४२) इति । तत्सहस्रेण रिरिचानं पुनराप्याययति- यदाह- सानः सहस्रं धुक्ष्वेति ॥ ८ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. ‘And milk to us a thousandfold!’ him who is emptied he thus replenishes with a thousand (forces), when he says, ‘And milk to us a thousandfold!’

०९

विश्वास-प्रस्तुतिः

(त्यु) उरु᳘धारा प᳘यस्वती पु᳘नर्मा᳘विशताद्रयिरि᳘ति॥
त᳘द्वेव᳘ रिरिचानं पुनरा᳘प्याययति[[!!]] यदा᳘ह पु᳘नर्मा᳘विशताद्रयिरिति[[!!]]॥

मूलम् - श्रीधरादि

(त्यु) उरु᳘धारा प᳘यस्वती पु᳘नर्मा᳘विशताद्रयिरि᳘ति॥
त᳘द्वेव᳘ रिरिचानं पुनरा᳘प्याययति[[!!]] यदा᳘ह पु᳘नर्मा᳘विशताद्रयिरिति[[!!]]॥

मूलम् - Weber

उरु᳘धारा प᳘यस्वती पु᳘नर्मा᳘विशताद्रयिरि᳘ति॥
त᳘द्वेव᳘ रिरिचानम् पु᳘नरा᳘प्याययति यदा᳘ह पु᳘नर्मा᳘विशताद्रयिरि᳘ति 6

मूलम् - विस्वरम्

“उरुधारा पयस्वती पुनर्माविशताद्रयिः”- (वा. सं. ८ । ४२) इति । तद्वेव रिरिचानं पुनराप्याययति- यदाह- पुनर्मा विशताद्रयीरिति ॥ ९ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. ‘Broad-streamed, milk-abounding,–may wealth come back to me!’ him who is emptied he thus replenishes when he says, ‘May wealth come back to me!’

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ दक्षिणे क᳘र्ण ऽआ᳘जपति॥
(ती᳘) इ᳘डे र᳘न्ते ह᳘व्ये का᳘म्ये च᳘न्द्रे ज्योते᳘ ऽदिति स᳘रस्वति म᳘हि व्वि᳘श्रुति॥ एता᳘ ते ऽअघ्न्ये ना᳘मानि देवे᳘भ्यो मा सुकृ᳘तं ब्रूतादि᳘ति व्वोचेरि᳘ति वैता᳘नि ह वा᳘ ऽअस्यै देवत्रा ना᳘मानि सा या᳘नि ते देवत्रा ना᳘मानि तै᳘र्मा देवे᳘भ्यः सुकृतं᳘ ब्रूतादि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ दक्षिणे क᳘र्ण ऽआ᳘जपति॥
(ती᳘) इ᳘डे र᳘न्ते ह᳘व्ये का᳘म्ये च᳘न्द्रे ज्योते᳘ ऽदिति स᳘रस्वति म᳘हि व्वि᳘श्रुति॥ एता᳘ ते ऽअघ्न्ये ना᳘मानि देवे᳘भ्यो मा सुकृ᳘तं ब्रूतादि᳘ति व्वोचेरि᳘ति वैता᳘नि ह वा᳘ ऽअस्यै देवत्रा ना᳘मानि सा या᳘नि ते देवत्रा ना᳘मानि तै᳘र्मा देवे᳘भ्यः सुकृतं᳘ ब्रूतादि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ दक्षिणे क᳘र्ण आ᳘जपति॥
इ᳘डे र᳘न्ते ह᳘व्ये का᳘म्ये च᳘न्द्रे ज्योते᳘ ऽदिति स᳘रस्वति म᳘हि वि᳘श्रुति एता᳘ ते अघ्न्ये ना᳘मानि देवे᳘भ्यो मा सुकृ᳘तम् ब्रूतादि᳘ति वोचेरि᳘ति वैता᳘नि ह वा᳘ अस्यै देवत्रा ना᳘मानि सा या᳘नि ते देवत्रा ना᳘मानि तै᳘र्मा देवे᳘भ्यःसुकृ᳘तम् ब्रूतादि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ दक्षिणे कर्ण ऽआजपति- “इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिति सरस्वति महि विश्रुति । एता ते ऽअघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात्”- (वा. सं. ८ । ४३) इति । वोचेरिति वा । एतानि ह वा ऽअस्यै देवत्रा नामानि । सा यानि ते देवत्रा नामानि तैर्मा देवेभ्यः सुकृतं ब्रूतादित्येवैतदाह ॥ १० ॥

सायणः

अथ दक्षिण 7 इति । वोचेरित्येतत्तथाभूता ब्रूयाद् ‘ब्रूताद्’ इत्यस्य स्थाने ‘वोचेरिति’ ब्रूयात् ‘एतानि ह वै अस्यै’ गोर्देवत्रा देवेषु नामानि ॥ १० ॥

Eggeling
  1. He then mutters in her right ear, ‘O Iḍā, blithesome, adorable, lovable, bright, shining, Aditi (inviolable), Śarasvatī (sapful), mighty,

glorious,–these are thy names, O cow: tell thou the gods of me as a doer of good!’–or, ‘speak thou . . .’ These indeed are her names with the gods: he thus means to say, ‘whatever thy names are with the gods, therewith tell the gods of me as a doer of good.’

११

विश्वास-प्रस्तुतिः

ताम᳘वार्जन्ति॥
सा यद्य᳘पुरुषाभिवीता प्रा᳘चीयात्त᳘त्रव्विद्याद᳘रात्सीदयं य᳘जमानः कल्या᳘णं लोक᳘मजैषीदि᳘ति यद्यु᳘दीचीयाच्छ्रे᳘यानस्मिल्ँ᳘लोके य᳘जमानो भविष्यती᳘ति व्विद्याद्य᳘दि प्रती᳘चीयादि᳘भ्यतिल्विल इव धा᳘न्यतिल्विलो भविष्यती᳘ति व्विद्याद्य᳘दि दक्षि᳘णेया᳘त्क्षि᳘प्रे ऽस्मा᳘ल्लोकाद्य᳘जमानः[[!!]] प्रै᳘ष्यती᳘तिव्विद्यादेता᳘नि व्विज्ञा᳘नानि॥

मूलम् - श्रीधरादि

ताम᳘वार्जन्ति॥
सा यद्य᳘पुरुषाभिवीता प्रा᳘चीयात्त᳘त्रव्विद्याद᳘रात्सीदयं य᳘जमानः कल्या᳘णं लोक᳘मजैषीदि᳘ति यद्यु᳘दीचीयाच्छ्रे᳘यानस्मिल्ँ᳘लोके य᳘जमानो भविष्यती᳘ति व्विद्याद्य᳘दि प्रती᳘चीयादि᳘भ्यतिल्विल इव धा᳘न्यतिल्विलो भविष्यती᳘ति व्विद्याद्य᳘दि दक्षि᳘णेया᳘त्क्षि᳘प्रे ऽस्मा᳘ल्लोकाद्य᳘जमानः[[!!]] प्रै᳘ष्यती᳘तिव्विद्यादेता᳘नि व्विज्ञा᳘नानि॥

मूलम् - Weber

ताम᳘वार्जन्ति॥
सा यद्य᳘पुरुषाभिवीता प्रा᳘चीयात्त᳘त्र विद्याद᳘रात्सीदयं य᳘जमानः कल्या᳘णं लोक᳘मजैषीदि᳘ति यद्यु᳘दीचीयाछ्रे᳘यानस्मिं᳘लोके य᳘जमानो भविष्यती᳘ति विद्याद्य᳘दि प्रती᳘चीयादि᳘भ्यतिल्विल 8 इव धा᳘न्यतिल्विलो भविष्यती᳘ति विद्याद्य᳘दि दक्षिॗणेॗयात्क्षिॗप्रे ऽस्मा᳘ल्लोकाद्य᳘जमानः प्रै᳘ष्यती᳘ति विद्यादेता᳘नि विज्ञा᳘नानि॥

मूलम् - विस्वरम्

तामवार्जन्ति । सा यद्यपुरुषाभिवीता प्राचीयात्- तत्र विद्यात्- अरात्सीदयं यजमानः, कल्याणं लोकमजैषीदिति । यद्युदीचीयात्- श्रेयानस्मिल्ँ लोके यजमानो भविष्यतीति विद्यात् । यदि प्रतीचीयात्- इभ्यतिल्विल इव, धान्यतिल्विलो भविष्यतीति विद्यात् । यदि दक्षिणेयात्- क्षिप्रे ऽस्माल्लोकाद्यजमानः प्रैष्यतीति विद्यात् । एतानि विज्ञानानि ॥ ११ ॥

सायणः

तामवार्जन्तीति । तामवार्जितां साहस्रीमवघ्राय निरुक्तां सतीम् ‘अवार्जन्ति’ अवसृजन्ति विमुञ्चन्ति सा ऽवसृष्टासती ‘पुरुषेणाभिवीता’ अभिगमिता अजेर्गत्यर्थस्य (वीर्यस्य) वी आदेशः । यदि ‘प्राचीयात्’ गच्छेत् ‘तत्र’ निमित्ते ‘विद्यादरात्सीत्’ “ऋधु वृद्धौ”- (धा. पा. स्वा. प. २५) । इति धातो रूपम् । सिद्धकर्मा ‘यजमानः’ ‘कल्याणम्’ शोभनं स्वर्गं ‘लोकं’ जितवान् ‘अयम्’ यदि च ‘प्रतीचि’ ‘इयात्’ तत ‘इभ्यतिल्विलो भविष्यतीति’ ‘विद्यात्’ । “विल संवरणे”- (धा. पा. तु. ६७) तिल इव शाखाभिः पुष्पफलेन वर्धते तिल्विलं छान्दसो ऽकारलोपः । इमा हस्तिनः इभेभ्यो हिता इभ्याः हस्तिपका इभ्यः तिल्विलो वृत इति (इभ्यतिल्विलवामभ्यहस्तिभ्यां भवतीति तत्प्रदानार्था एव इभ्याः ।) हस्तिनो भवन्तीत्यर्थः । इवशब्दः समुच्चये । धान्यावृत इव धान्यावृतश्चेत्यर्थः ॥ ११ ॥

Eggeling
  1. They release her. If, not urged by any man, she goes eastwards, then let him know that this sacrificer has succeeded, that he has won the happy world. If she goes northwards, let him know that the sacrificer will be more glorious in this world. If she goes westwards, let him know that he will be rich in dependants and crops. If she goes southwards, let him know that the sacrificer will quickly depart from this world. Such are the ways of knowledge.

१२

विश्वास-प्रस्तुतिः

तद्या᳘ ऽएता᳘स्तिस्र᳘स्तिस्रस्त्रिᳫँ᳭शत्य᳘धि भ᳘वन्ति॥
ता᳘स्वेता᳘मुपसमा᳘कुर्वन्ति व्वि वा᳘ ऽएतां᳘ व्विरा᳘जं व्वृहन्ति यां᳘ व्याकुर्व्व᳘न्ति व्वि᳘च्छिन्नो ऽएषा᳘ व्विराड्या व्वि᳘वृढा द᳘शाक्षरा वै᳘ व्विराट्त᳘त्कृत्स्नां᳘ व्विरा᳘जᳫँ᳭ सं᳘दधाति ताᳫँ᳭ हो᳘त्रे दद्याद्धो᳘ता हि᳘ साहस्रस्त᳘स्मात्ताᳫँ᳭ हो᳘त्रे दद्यात्॥

मूलम् - श्रीधरादि

तद्या᳘ ऽएता᳘स्तिस्र᳘स्तिस्रस्त्रिᳫँ᳭शत्य᳘धि भ᳘वन्ति॥
ता᳘स्वेता᳘मुपसमा᳘कुर्वन्ति व्वि वा᳘ ऽएतां᳘ व्विरा᳘जं व्वृहन्ति यां᳘ व्याकुर्व्व᳘न्ति व्वि᳘च्छिन्नो ऽएषा᳘ व्विराड्या व्वि᳘वृढा द᳘शाक्षरा वै᳘ व्विराट्त᳘त्कृत्स्नां᳘ व्विरा᳘जᳫँ᳭ सं᳘दधाति ताᳫँ᳭ हो᳘त्रे दद्याद्धो᳘ता हि᳘ साहस्रस्त᳘स्मात्ताᳫँ᳭ हो᳘त्रे दद्यात्॥

मूलम् - Weber

तद्या᳘ एता᳘स्तिस्र᳘स्तिस्रस्त्रिंशत्य᳘धि भ᳘वन्ति॥
ता᳘स्वेता᳘मुपसमा᳘कुर्वन्ति वि वा᳘ एतां᳘ विरा᳘जं वृहन्ति यां᳘ व्याकुर्व᳘न्ति विछिन्नो एषा᳘ विराड्या वि᳘वृढा द᳘शाक्षरा वै᳘ विराट्त᳘त्कृत्स्नां᳘ विरा᳘जᳫं सं᳘दधाति ताᳫं हो᳘त्रे दद्याद्धो᳘ता हि साहसस्त᳘स्मात्ताᳫं हो᳘त्रे दद्यात्॥

मूलम् - विस्वरम्

तद् या एतास्तिस्रस्तिस्रस्त्रिंशत्यधिभवन्ति- तास्वेतामुपसमाकुर्वन्ति । वि वा ऽएतां विराजं वृहन्ति- यां व्याकुर्वन्ति । विच्छिन्नो ऽएषा विराट्- या विवृढा । दशाक्षरा वै विराट् । तत् कृत्स्नां विराजं सन्दधाति । तां होत्रे दद्यात् । होता हि साहस्रः । तस्मात्तां होत्रे दद्यात् ॥ १२ ॥

सायणः

तद्या एता इति । अथैतां विसृष्टां सतीं किं कुर्वन्तीत्यत आह- ‘या एताः’ प्रतिदिवसं ‘तिस्रस्तिस्रो गावस्त्रिंशतिरधिका अपि ‘भवन्ति’ “यस्मादधिकं यस्य चेश्वरवचनं- तत्र सप्तमी” (पा. सू. २ । ३ । ९) ‘तासु’ ‘एतासु’ पूर्वनीतासु एतां साहस्रीमुपनीय स एकादशभिः कुर्वन्नेकादशतं कुर्वन्तीत्यर्थः । ‘विवृहन्ति’ “बृहू उद्यमे”- (धा. पा. तु. प. ६६) । विविधं हि वैतां ‘विराजं’ ‘यां’ पृथक् आनयन्ति । ‘विच्छिन्ना उ एषा’ ‘विराड्’ दक्षिणात्मिका ‘या’ ‘विवृढा’ विभज्योद्यम्य नीता ततस्तस्मादुद्यताभवत् समं सृजति ‘विराजं संदधाति’ । दशाक्षरा हि विराट् विराड्यज्ञो भुवनात्मा च [ सर्वा न्याभिस्वावदसद्भेग्रमु ] संहित एवानया नु ‘कृत्स्नां’ ‘संदधाति’ इत्याशयः । होता दक्षिणां नयतीति । नयतेर्दाने प्रयुक्तत्वात् । ‘तां 9 होत्रे दद्यात्’ इति वदतो दाने दर्शनात् । तास्वेतामुपसमाकुर्वन्तीति च पूर्वनीतायाः संसर्गवचनात् यदि तु संसृज्यैव ताभिर्नवमिः साहस्रं नीयते ततः कथं सा विराड्विवृढा व्याकृतार्थाः स्यात्तस्मादर्पण एवायं नियमो न्यूना दशतोपनायदिति ।

नयनो नयनं तु त्रयस्त्रिंशता सहितानां त्रयाणां शतानां सहितानामेवेति द्रष्टव्यम् । तत्र तु प्रकृतशतविभागानुसारेण मुख्यस्यैकैकस्य चतस्रश्चतस्रो दशतो ऽर्पणीयाः प्रपद्यन्ते । होतुस्तिस्रो दशतः सप्त च त्रिभागोनगावः प्राप्नुवन्ति । तस्य हि साहस्र्या सहिते एकादशकार्यमिष्यते । ततश्च तृतीयिनामिहास्यैषो सदर्पणीया प्राप्नोति । अर्धिनां तु द्वे द्वे दशतावन्येन एवं (प्राप्नुतायादीचैषैका तृतीयिनां सत्रिभागा त्रयोदशैकादशश्लोको कसा प्राप्नुवन्ति) तत्तद्दशतमर्पयित्वा पुनस्त्रयाणामेकादशतमर्पयेत्, चतुर्होत्रा सह पूर्णामर्पयेदित्येवं प्राकृतविभागेनार्पणे प्रसज्यमाने आह- यस्मा एकामेकादशते आह- होता हि साहस्रं सत्युक्थे बृहतीनां सहस्रमर्हतीति साहस्रः य ऋत्विक् सन्नित्युन्नेता सन्नित्यर्थः । स ऋत्विक्छब्द उन्नेतुर्लक्षणार्थः । इतरथा तु बहव एव ऋत्विजो नाश्रावयन्ति तेषामपि बृहती स्यात् । ‘तदाहुर्न सहस्रे’ दीयमाने ऽधिकमश्वादिकं प्रतिषिध्यते तेन विनैव क्रतुफलं सिद्ध्यतीत्येतद्दर्शयति ‘सहस्रेण ह्येव काममेव’ ददाति विविधसामर्थ्याद्विशेषः । तदाह- सत्यं तावत् सहस्रेणैव ‘सर्वान्कामानाप्नोति’ ‘कामेन’ एव इच्छया ऽस्य यजमानस्येतरद्दत्तं भवति (तं निष्फले दाने इव युक्ता तत्र भूमेच्छया ‘इतरद्दत्तं भवति’ सफलमभूदत एवं सिद्धे नान्य एवेत्यभिप्रायः) ॥ १२-१४ ॥

Eggeling
  1. And what three (cows) there are each time over and above the (three hundred and) thirty, thereto they add that one 10. Now, when they draw out a Virāj (verse), they pull it asunder, and a Virāj which is pulled asunder is torn in two;–and the Virāj consisting of ten syllables, he thus makes the Virāj complete. Let him give her to the Hotr̥; for the Hotr̥ is a thousandfold 11: therefore let him give her to the Hotr̥.

१३

विश्वास-प्रस्तुतिः

(द्द्वौ᳘) द्वौ᳘ वोन्नेता᳘रौ कुर्व्वीत॥
त᳘योर्यतरो᳘ नाश्राव᳘येत्त᳘स्मा ऽएनां दद्या᳘द्व्यृद्धो वा᳘ ऽएष[[!!]] उन्नेता[[!!]] य᳘ ऋत्विक्स᳘न्नाश्राव᳘यति᳘ व्यृद्धो ऽएषां[[!!]] व्विराड्या व्वि᳘वृढा त᳘द्यद्व्यृद्ध᳘ ऽए᳘वैत᳘द्व्यृद्धं दधाति॥

मूलम् - श्रीधरादि

(द्द्वौ᳘) द्वौ᳘ वोन्नेता᳘रौ कुर्व्वीत॥
त᳘योर्यतरो᳘ नाश्राव᳘येत्त᳘स्मा ऽएनां दद्या᳘द्व्यृद्धो वा᳘ ऽएष[[!!]] उन्नेता[[!!]] य᳘ ऋत्विक्स᳘न्नाश्राव᳘यति᳘ व्यृद्धो ऽएषां[[!!]] व्विराड्या व्वि᳘वृढा त᳘द्यद्व्यृद्ध᳘ ऽए᳘वैत᳘द्व्यृद्धं दधाति॥

मूलम् - Weber

द्वौ᳘ वोन्नेता᳘रौ कुर्वीत॥
त᳘योर्यतरोॗ नाश्राव᳘येत्त᳘स्मा एनां दद्याॗद्व्यृद्धो वा᳘ एष᳘ उन्नेता᳘ य᳘ ऋत्विक्सॗन्नाश्राव᳘यतिॗ व्यृद्धो एषा᳘ विराड्या वि᳘वृढा तॗद्व्यृद्ध एॗवैतॗद्व्यृद्धं 12 दधाति॥

मूलम् - विस्वरम्

द्वौ वोन्नेतारौ कुर्वीत । तयोर्यतरो नाश्रावयेत्- तस्मा एनां दद्यात् । व्यृद्धो वा ऽएष उन्नेता- य ऋत्विक्सन्नाश्रावयति । व्यृद्धो ऽएषा विराट् या विवृढा । तद् व्यृद्ध ऽएवैतद्व्यृद्धं दधाति ॥ १३ ॥

सायणः

[व्याख्यानं द्वादशे]

Eggeling
  1. Or let him appoint two Unnetr̥s, and let him give her to him, of the two, who does not call for the Śraushaṭ; for defective, indeed, is he who, being an officiating priest, does not call for the Śraushaṭ; and defective also is the Virāj which is pulled asunder: thus he puts the defective to the defective.

१४

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्न᳘) न᳘ सहस्रे᳘ ऽधि किं᳘ चन᳘ दद्यात्सह᳘स्रेण᳘ ह्येव स᳘र्व्वान्का᳘मानाप्नोती᳘ति त᳘दु होवा᳘चा᳘सुरिः का᳘ममेव᳘ दद्यात्सह᳘स्रेणा᳘ह स᳘र्व्वान्का᳘मानाप्नो᳘ति का᳘मेनो ऽअस्ये᳘तरद्दत्तं᳘ भवतीति[[!!]]॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्न᳘) न᳘ सहस्रे᳘ ऽधि किं᳘ चन᳘ दद्यात्सह᳘स्रेण᳘ ह्येव स᳘र्व्वान्का᳘मानाप्नोती᳘ति त᳘दु होवा᳘चा᳘सुरिः का᳘ममेव᳘ दद्यात्सह᳘स्रेणा᳘ह स᳘र्व्वान्का᳘मानाप्नो᳘ति का᳘मेनो ऽअस्ये᳘तरद्दत्तं᳘ भवतीति[[!!]]॥

मूलम् - Weber

त᳘दाहुः॥
न᳘ सहस्रे᳘ ऽधि किं᳘ चन᳘ दद्यात्सह᳘स्रेणॗ ह्येव स᳘र्वान् का᳘मानाप्नोती᳘ति त᳘दु होवाचा᳘सुरिः का᳘ममेव᳘ दद्यात्सह᳘स्रेणा᳘ह स᳘र्वान् का᳘मानाप्नो᳘ति का᳘मेनो अस्ये᳘तरद्दत्त᳘म् भवती᳘ति॥

मूलम् - विस्वरम्

तदाहुः- न सहस्रे ऽधि किंचन दद्यात् सहस्रेण ह्येव सर्वान्कामानाप्नोतीति । तदुहोवाचासुरिः- काममेव दद्यात् । सहस्रेणाह सर्वान्कामानाप्नोति । कामेनो ऽअस्येतरद्दत्तं भवतीति ॥ १४ ॥

सायणः

[व्याख्यानं द्वादशे]

Eggeling
  1. Now they say, one ought not to give anything above a thousand (cows), because by a thousand he obtains all the objects of his desire. But Āsuri said, ‘Let him give according to his wish: by a thousand he indeed obtains all his wishes; and anything else (that he gives) is likewise given at his wish 13.’

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दि र᳘थं वा युक्तं᳘ दास्यन्त्स्यात्[[!!]]॥
(द्य᳘) य᳘द्वा व्वशा᳘यै वा व्वपा᳘याᳫँ᳭ हुता᳘यां दद्या᳘दुदवसानी᳘यायां वे᳘ष्टौ॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दि र᳘थं वा युक्तं᳘ दास्यन्त्स्यात्[[!!]]॥
(द्य᳘) य᳘द्वा व्वशा᳘यै वा व्वपा᳘याᳫँ᳭ हुता᳘यां दद्या᳘दुदवसानी᳘यायां वे᳘ष्टौ॥

मूलम् - Weber

अ᳘थ य᳘दि र᳘थं वा युक्तं᳘ दास्यन्त्स्या᳘त्॥
य᳘द्वा वशा᳘यै वा वपा᳘याᳫं हुता᳘यां दद्या᳘दुदवसानी᳘यायां वे᳘ष्टौ॥

मूलम् - विस्वरम्

अथ यदि रथं वा युक्तं दास्यन्त्स्यात्, यद्वा वशायै वा, वपायां हुतायां दद्यात्, उदवसानीयायां वेष्टौ ॥ १५ ॥

सायणः

अथेति । ‘अथ यदि’ तत्राधिकारार्थं वा युक्तं यद्वान्यत्किञ्चिद्यदि ‘दास्यन्स्यात्’ ततो वशायै वपायां ‘दद्यादुदवसानीयायां वेष्टौ’ 14 । सूत्रकारेणात्र “साहस्रीमेव तद्ददाती” त्युक्तम् । तच्छ्रुत्यन्तरतो ज्ञेयम् ॥ १५ ॥

Eggeling
  1. And should he intend to give a cart yoked (with a team of oxen), or something else, let him give it either after the offering of the omentum of the barren cow, or at the concluding (udavasānīyā) offering.

१६

विश्वास-प्रस्तुतिः

स वै द᳘क्षिणा न᳘यन्॥
(न्न᳘) अ᳘न्यूना दश᳘तो नयेद्य᳘स्मा ऽए᳘कां दास्यन्त्स्या᳘द्दश᳘भ्यस्ते᳘भ्यो दश᳘तमुपा᳘वर्तयेद्य᳘स्मै द्वे᳘ दास्यन्त्स्या᳘त्पञ्च᳘भ्यस्ते᳘भ्यो दश᳘तमुपा᳘वर्तयेद्य᳘स्मै तिस्रो᳘ दास्यन्त्स्या᳘त्रिभ्यस्ते᳘भ्यो दश᳘तमुपा᳘वर्तयेद्य᳘स्मै प᳘ञ्च दास्यन्त्स्याद्द्वा᳘भ्यां ता᳘भ्यां दश᳘तमुपा᳘वर्तयेदेवमा᳘शतात्त᳘थो हास्यैषा᳘ ऽन्यूना व्विरा᳘डमु᳘ष्मिंल्लोके᳘ कामदु᳘घा भवति॥

मूलम् - श्रीधरादि

स वै द᳘क्षिणा न᳘यन्॥
(न्न᳘) अ᳘न्यूना दश᳘तो नयेद्य᳘स्मा ऽए᳘कां दास्यन्त्स्या᳘द्दश᳘भ्यस्ते᳘भ्यो दश᳘तमुपा᳘वर्तयेद्य᳘स्मै द्वे᳘ दास्यन्त्स्या᳘त्पञ्च᳘भ्यस्ते᳘भ्यो दश᳘तमुपा᳘वर्तयेद्य᳘स्मै तिस्रो᳘ दास्यन्त्स्या᳘त्रिभ्यस्ते᳘भ्यो दश᳘तमुपा᳘वर्तयेद्य᳘स्मै प᳘ञ्च दास्यन्त्स्याद्द्वा᳘भ्यां ता᳘भ्यां दश᳘तमुपा᳘वर्तयेदेवमा᳘शतात्त᳘थो हास्यैषा᳘ ऽन्यूना व्विरा᳘डमु᳘ष्मिंल्लोके᳘ कामदु᳘घा भवति॥

मूलम् - Weber

स वै द᳘क्षिणा न᳘यन्॥
अ᳘न्यूना दश᳘तो नयेद्य᳘स्मा ए᳘कां दास्यन्त्स्या᳘द्दश᳘भ्यस्ते᳘भ्यो दश᳘तमुपा᳘वर्तयेद्य᳘स्मै द्वे᳘ दास्यन्त्स्या᳘त्पञ्च᳘भ्यस्ते᳘भ्यो दश᳘तमुपा᳘वर्तयेद्य᳘स्मै तिस्रो᳘ दास्यन्त्स्या᳘त्त्रिभ्यस्ते᳘भ्यो दश᳘तमुपा᳘वर्तयेद्य᳘स्मै प᳘ञ्च दास्यन्त्स्याद्द्वा᳘भ्यां ता᳘भ्यां दश᳘तमुपा᳘वर्तयेदेवमा᳘ शतात्त᳘थो हास्यैषा᳘न्यूना विरा᳘डमु᳘ष्मिंलोके᳘ कामदु᳘घा भवति॥

मूलम् - विस्वरम्

स वै दक्षिणा नयन्, अन्यूना दशतो नयेत् । यस्मा ऽएकां दास्यन्त्स्याद् दशभ्यस्तेभ्यो दशतमुपावर्तयेत् । यस्मै द्वे दास्यन्त्स्यात्- पञ्चम्यस्तेभ्यो दशतमुपावर्तयेत् । यस्मै तिस्रो दास्यन्त्स्यात्- त्रिभ्यस्तेभ्यो दशतमुपावर्तयेत् । यस्मै पञ्च दास्यन्त्स्याद्- द्वाभ्यां ताभ्यां दशतमुपावर्तयेत् । एवमा शतात् । तथो हास्यैषा ऽन्यूना विराडमुष्मिल्ँ लोके कामदुघा भवति ॥ १६ ॥

इति गर्गत्रिरात्रम् ।

सायणः

स वै दक्षिणेति । स वै यजमानकाल इत्यर्थः । नयनेन दानं लक्ष्यते किं कारणम् । त्रीणि च शतानि नयति त्रयस्त्रिंशमेवेति । (त्रयस्त्रिंशानामन्यूनाभिर्दशभिर्नेतुमशक्यत्वात् । तस्मादाग्नीध्रे दक्षिणा इयं भाष्ये व्याख्यापूर्वं कर्तव्या ।) ‘यस्मा एकाम्’ इत्यादि । तत्रैतावानेवार्थो विधेयो दशम्यो मुख्यादिभ्यो ‘दशतमुपावर्तयेत्’ अर्पयेत् पुनः पञ्चभ्यस्तेभ्यो मुख्येभ्य एकादशतमुपावर्तयेदित्येतदपि प्राप्नोति तथाप्यर्थविरोधान्न भवति । पञ्चदशतमित्येतदेव भवति पञ्चभ्य एकेभ्यो द्विभ्य एकादशायनसामर्थ्यात् । ततस्त्रिभ्य उपावर्तयेत्प्रशास्तु प्रस्तोतृभ्यां तिस्रस्तिस्र उद्गात्रे चतस्र इत्येवं ततो द्वाभ्यां दशतमुपावर्तयेत् होत्रध्वर्युभ्यां यतो ‘यस्मै’ वमाशतात् दशभ्यः पञ्चदशभ्यो दशतमुपावर्तयेदिति प्राप्नोति तथाप्यविरोधात् त्रिभ्य एव दशतमुपावर्तयेत् कथं नु नवमदशमाभ्यामिति तिस्रस्तिस्रो होत्रे च तिस्रः पुनः पाकादिभ्य स्तिस्र इति तिस्रो ऽध्वर्यवे चतस्रः पुनरपि या दिशां तिस्रस्तिस्रो नेष्ट्रे चतस्र इत्येवं चार्पितासु तास्वन्ते प्रतिग्रहमन्त्रः सकृदेव हि प्राकृतेन क्रमेण ब्रूयुः । यास्तु तास्त्रयस्त्रिंशत्तासां तिस्रो होत्र उन्नेत्रे वा स्थापयित्वा दशकर्मोक्तसंख्यादिभ्यो वा चतुष्कृत्वो ग्रावस्तुद्भ्य एवोन्नेतारं तत्रोन्नेयात्तेषां मध्यात् दशरात्रे साहस्र्या सह दास्यते । यदि तून्नेत्रे दास्यते तेन उत्तमे ऽहन्प्रथमं शतं दददुन्नेत्रे द्वे एव दद्यात् (न्नोष्टुतं पञ्चमं) द्वितीयं तु शतं दद्याद्ग्रावस्तुते नेष्ट्रे च पञ्चमं दद्यादुन्नेतारमन्तरा । यदेव तृतीये पुनः शते दीयमाने नेष्ट्रे दद्याच्चतस्रो ग्रावस्तुते नयेदेवोन्नेतारमन्तरेण ततो ऽनेन सादयित्रे उन्नेत्रे तामथैकादशतं दद्यादित्येषा कर्मयोजना । अत्र च यस्मादित्येकामित्येकसंप्रदानं यच्छब्देनोद्दिश्यते ‘तेभ्य’ इति बहुवचनात् तेन परामृशति तच्च विरुद्धमिति सामर्थ्याद्यस्मै एकामेकां दास्यन्स्यादित्यभ्यासो द्रष्टव्यः । एवमुत्तरत्रापि द्रष्टव्यम् । एवमपि च प्रसिद्धे तेन संप्रदानस्योपलक्षणमुपपद्येत । न चैका देया कस्मैचिदित्येतदस्यापि प्रसिद्धं कथं तेन पुरुषा उपलक्ष्यन्ते ? सत्यमेतत् किन्तु उपलक्षणान्यत्वानुपपत्यैवैकादशतो विधिर्यो ऽत्र द्रष्टव्यः । एकामेकामेकस्मै दद्यात्तेभ्यश्च तामेकैकां दद्यात् तेभ्यस्तामेवं दशतं कृत्वा दद्यात् । येन पृथक् पृथगेव यस्मै द्वे दास्यन्स्यादित्यादि योज्यम् । अथवा दशभ्यो दशतं दित्सन्नर्थादेव तेभ्य एकैकां दास्यन् भवतीत्यनुवादो वा ऽयम् । एवं यस्मै पंचेत्यादि । ननु पञ्चभ्यो दशतं दित्सन्संस्तन्नियोगतो द्वे द्वे दास्यन् भवति । कदाचिद्विषडेकस्मै दद्यादथ शतस्य वा एकैकामेवमपि पञ्चभ्य एव दशको दत्तो भवति; नैतदेवं समं स्यादश्रुतत्वादिति दशतो न्यायेन समो विभागः प्राप्नोति । तस्माद्दशभ्यो दशतं दद्यात्ततः पञ्चभ्यश्चतसृभ्यस्ततो द्वाभ्यां पुनश्चैवं यथासंभवमाशतादित्येतावदेवात्र विधीयते 15 । (यस्मात्तत्प्रैषतुमित्यनुवादः) तथा क्रियमाणस्य यजमानस्यैष दशात्मिका विराड्- वर्तते शतानि नव दशन्यूनानि तेषामेकैकस्मिन् दशतस्ता ‘अन्यूना’ विराडधियज्ञमुपात्ता ऽमुष्मिंल्लोके तादृश्येव कामदुघा भवति । (विराज्यो एह्येव सर्व एव दोहो न्यजते (?) कामा इत्यभिप्रायः) ॥ १६ ॥

इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमे ऽध्याये अष्टमं ब्राह्मणम् ॥ (४ । ५ । ८) ॥

Eggeling
  1. In bringing the dakshiṇās, let him bring complete decads. If he intends to give one (cow) to any (priest), let him pass over a decad to ten such (priests). If he intends to give two to any one, let him pass over a decad to five such (priests). If he intends to give three to any one, let him pass over a decad to three such 16. If he intends to give five to

any one, let him pass over a decad to two such. Thus up to a hundred: and thus this perfect Virāj of his becomes a cow of plenty for him in yonder world.


  1. सहस्रदक्षिणे त्रिरात्रे प्रतिविभज्य नयन् रोहिणीमुपध्वस्तामप्रवीतामतिरेचयति त्रिरूपां वा । का. श्रौ. सू. । १३ । ७४ । ↩︎ ↩︎

  2. 414:1 The Sahasradakshiṇa Trirātra, or sacrifice of three (pressing) days, with a thousand cows as the priests’ fee, is mentioned Kāty. XIII, 4, 35 seq. as, apparently, an independent Ahīna sacrifice. I do not, however, know whether it might not be added on to some other sacrificial performance, as, for instance, to the Pr̥shṭḥya shaḍaha, thus forming together with this the Navarātra (or first nine days of the Daśarātra, see p. 402, note 2). Kāty. gives no indication as to the particular forms of Soma-sacrifice required for the several days; but, guided no doubt by the Brāhmaṇa, he confines his remarks to the manner of distribution of the dakshiṇās. ↩︎

  3. 414:2 Sāhasrī, lit. ‘she who makes the dakshiṇā to consist of one thousand.’ ↩︎

  4. आद्ये ऽहन् प्रथमां नयेदंत्येवा पश्चात् । आद्ये ऽहनिपक्षे प्रथमां अंत्ये ऽवा ऽहनि पश्चान्नयेदिति । का. श्रौ. सू. १३ । ७५ । ↩︎ ↩︎

  5. 414:3 Or,–and from her, Vāc, those thousand (cows) were produced; or,–and from her (the thousandth cow) that thousandfold progeny of Vāc was produced; see IV, 6, 7, 3, where the thousandfold progeny of Vāc is identified with the Vedic texts generally. ↩︎

  6. ऽदिति AB. The संहिता ८. ४३ reads ऽदिते. ↩︎

  7. इडे रंत इति दक्षिणे ऽस्याः कर्णे यजमानो जपति । रोहिणीसंस्कारो ऽयमिति कर्कः । व्वोचेरितिवा ऽन्ते । ब्रूतादित्यस्यस्थाने ‘व्वोचे’ रिति वा ब्रूयादित्यर्थः का. श्रौ. सू. । १३ । ७७ । ७८ । ↩︎

  8. तिल चलने तिल-इव शाखाभिः पुष्यफलेर्विवृद्धः तिल्विलः हस्तिपकः marginal gloss. in A. ↩︎

  9. सव्वर्तो नवसु दशमीं कृत्वा होत्रे दद्यात् । उन्नेतारो वा कृत्वा नाश्रावयते । दशदशाभेदेन दक्षिणा दद्यात् । का. श्रौ. सू. १३ । ७९-८१ । ↩︎

  10. 416:1 I am not certain whether I understand this passage rightly. According to paragraph 16, and Kāty. XIII, 4, 23, he is to give away the cows by tens. This would leave three each day, or nine on the three days. To them he is to add the Sāhasrī, and give the ten cows to the Hotr̥.–A common Virāj verse consists of three times ten syllables; but there are also such as consist of three times eleven syllables. These latter the sacrificer is thus represented (by withholding three cows out of thirty-three) to make into a proper Virāj. ↩︎

  11. 416:2 That is, according to the St. Petersb. Dict., he possesses a thousand verses;–if it does not rather refer to the extent of the Rig-veda, consisting of rather more than a thousand (1028) hymns. Cp. also ’the thousandfold progeny of Vāc,’ p. 414, note 3. ↩︎

  12. त᳘द्व्यृद्ध᳘ एवै AB. ↩︎

  13. 417:1 The Kāṇva text has much the same reasoning, but does not ascribe it to any one. ↩︎

  14. अनुबंध्यवपाहोमांते दद्यादेनाम् । एनां दशमीमिति सूत्रशेषः । उदवसानीयायां वा । अन्यदिच्छन् । का. श्रौ. सू. १३ । ८२-८४ ↩︎

  15. अथ गर्गत्रिरात्रादौ सहस्रदक्षिणाके यज्ञे गोसाहस्री दक्षिणाविभागः ॥ दशदशाभेदेन दक्षिणा दद्यात् । अनूबंध्यवपा होमांते दद्यादेनां । ८२ । उदवसानीयायां वा । ८३ । अन्यदिच्छन् । ८४ । गर्गत्रिरात्रादेः सहस्रदक्षिणाकस्य यज्ञस्य त्र्यहसाध्यत्वेन विभज्यदानमन्वहमुक्तं । तत्र प्रतिदिनं त्रयस्त्रिंशदधिकशतत्रयं गवां दातव्यं भवति । तत्र च दशदश गाः संख्याय षोडशर्त्विग्भ्यो दातव्याः । तत्रचायं क्रमः । १ प्रथमत एकं दशकं गृहीत्वा ब्रह्मो १ द्गातृ २ होत्र ३ ध्वर्यु ४ ब्राह्मणाच्छंसि ५ प्रस्तोतुं ६ मैत्रावरुण ७ प्रतिप्रस्थातृ ८ पोतृ ९ प्रतिहर्तृभ्यो १० दशभ्यः ऋत्विग्भ्यः एकैकां गां दद्यात् । इति प्रथमं दशकं । १० । २ द्वितीयं दशकं प्रथमदशकवद्देयं । ३ तृतीयं दशकं द्वे द्वे गावौ इति पंचधा गवां विभागः ब्राह्मणाच्छंसि १ प्रस्तोतृ २ मैत्रावरुण ३ प्रतिप्रस्थातृ ४ पोतृभ्यः ५ पंचभ्यः द्वे द्वे दद्यात् । ४ चतुर्थं दशकं तृतीयदशकवत् पंचधा विभागः पंचभ्यो दानंच । पंचानां दाने क्रमः । ब्राह्मणाच्छंसि १ प्रस्तोतृ २ मैत्रावरुण ३ प्रतिप्रस्थातृ ४ प्रतिहर्तृभ्यः ५ (इति पंचभ्यो) द्वे द्वे दद्यात् । ५ पंचमं दशकं चतस्रः ४ तिस्रः ३ तिस्रः ३ इति वैषम्येण विभागः । अच्छावाकाय चतस्रः ४अग्नीधे तिस्रः ३ । सुब्रह्मण्याय तिस्रः ३ । इति त्रिभ्यो दानं । ६ षष्ठं दशकं पंचमदशकवत् वैषम्येण विभागः । ४ । ३ । ३ । इति । नेष्ट्रे चतस्रः ४ । ग्रावस्तुते तिस्रः ३ । उन्नेत्रे तिस्रः ३ । इति त्रिभ्यो दानं । ७ सप्तमं दशकं द्वेधा विभागः । २ पंच ५ । पंचेति । ब्रह्मणे पंच ५ उद्गात्रे पंच ५ । इति द्वाभ्यां दानं । ८ अष्टमं दशकं सप्तमदशकवत् पंच पंचेति द्वेधा विभागः । ब्रह्मणे ५ उद्गात्रे ५ इति द्वाभ्यां दानं । ९ नवमं दशकं द्वेधो विभागः । २ । होत्रे पंच ५ । अध्वर्यवे पंच ५ । इति द्वाभ्यां दानं । १० दशमं दशकं नवमदशकवत् द्वेधा विभागः २ होत्रे ५ अध्वर्यवे ५ इति द्वाभ्यां दानं । एवमेकगोशतीविभागः । १०० । एवमेव द्वितीयगोशती १०० । तृतीयगोशतीच । १०० । एवं त्रिशती । ३०० । १ अथ त्रयस्त्रिंशदुर्वरिताः । ३३ । तत्रैकं दशकं । १० । प्रथमदशकवत् ब्रह्मादिप्रतिहर्त्रेतेभ्यो दशर्त्विग्भ्य एकैकां दद्यात् । २ द्वितीयं दशकं प्रथमदशकवत् ब्रह्मादिप्रतिहर्त्रेतेभ्यो दशर्त्विग्भ्य एकैकां दद्यात् । ३ तृतीयं दशकं । द्वे द्वे इति पंचधा विभागः । ५ । ब्राह्मणाच्छंसि १ प्रस्तोतॄ २ मैत्रावरुण ३ प्रतिप्रस्थातृ ४ प्रतिहर्तॄभ्यः ५ इति पंचभ्यो द्वे द्वे दद्यात् । तिस्रस्तिस्रः परिशिष्यंते ता अत्र न देयाः । इति प्रथमाहः । अथ द्वितीये ऽहनि । एवमेव शतत्रयीदानं । त्रयस्त्रिंशन्मध्ये तु । १ प्रथमं दशकं पंचधा विभज्य । ब्राह्मणाच्छंसि १ प्रस्तोतृ २ मैत्रावरुण ३ प्रतिप्रस्थातृ ४ प्रतिहर्तृभ्यो ५ द्वे द्वे दद्यात् । २ द्वितीयं दशकं चतस्रः ४ तिस्रः ३ तिस्रः ३ । इति वैषम्येण त्रेधा विभागः । नेष्ट्रे चतस्रः ४ । ग्रावस्तुते तिस्रः ३ । उन्नेत्रे तिस्रः ३ । इति त्रिभ्यो दानं । तृतीयं दशकं पंचधा विभज्य ब्राह्मणाच्छंसि १ प्रस्तोतृ २ मैत्रावरुण ३ प्रतिप्रस्थातृ ४ प्रतिहर्तृभ्यो द्वे द्वे दद्यात् । तृतीये ऽहनि । शतत्रयीदानं पूर्ववत् । त्रयस्त्रिंशन्मध्ये तु । १ प्रथमं दशकं पंच ५ पंचेति द्वेधा विभागः । २ । ब्रह्मणे पंच ५ उद्गात्रे ५ इति द्वाभ्यां दानं । २ द्वितीयं दशकं प्रथमदशकवत् द्वेधा विभागः । ब्रह्मोद्गातृभ्यां द्वाभ्यां च दानं । ३ तृतीयं दशकं पंच ५ पंचेति द्वेधा विभज्य । अध्वर्यवे पंच दत्वा पुनस्तस्मा एव पंच दद्यात् । इति एकस्मै १ दानं । ततः सर्वेषां यास्तिस्रस्तिस्रो ऽवशिष्टाः । ताः सर्वा आदाय । तासु नवसु संपन्नासु । इमां साहस्रीं दशमीं कृत्वा । तद्दशकं । अनूबंध्यवपाहोमांते । उदवसनीयायामिष्टौ वा होत्रे दद्यात् । अथवा पक्षांतरम् । अस्मिन्पक्षे द्वावुन्नेतारौ वृत्वा । तयोर्मध्ये य आश्रावणं न करोति तस्मै एतद्दशकं अनूबंध्यवपाहोमांते उदवसानीयायां वा दद्यादिति पक्षांतरं । अस्मिन्नवे पक्षे प्रथमे ऽह्नि ५ शतत्रयीदानांते त्रयस्त्रिंशत्सु ये द्वे गावौ होतुर्भागौ भवतः । ते उन्नेत्रे दद्यात् । न होत्रे । द्वितीये ऽहनि २ त्रयस्त्रिंशत्सु यास्तिस्रः उन्नेतुर्भागा भवंति । ता होत्रे दद्यात् । नोन्नेत्रे । तृतीये ऽहनि त्रयस्त्रिंशत्सु यास्तिस्र उन्नेतुर्भागा भवति । ताः प्रतिशतकं होत्रे देयाः । इति गोसाहस्रीदक्षिणाविभागः । तथा ऽत्र देवयाज्ञिकः- दशभ्यो दशकौ दत्वा चतुर्न्यो ऽष्टौ च पंचकान् ॥ द्विकेन पूरयेत् षड्भ्यः षड्भ्यो द्विकमिति स्थितिरिति । १ । यदत्र श्लोके क्रमांतरं तच्छ्रुतिविरोधान्नादर्तव्यं । दानं तु श्रुत्यनुरोधेनैव कर्तव्यं । श्रुत्युक्तः क्रमस्तु प्रथममेकैकस्याः १ ततो द्वयोर्द्वयोः २ ततस्तिसृणां तिसृणां ३ ततः पंचानां पंचानामिति । ५ इति शृत्युक्तः क्रमः । श्लोकोक्तः क्रमस्तु एकैकदानानंतरं पंचभ्यो दानमभिहितमिति श्लोकोक्तः क्रमः । का. श्रौ. सू. । १३ । ८१ । ↩︎

  16. 417:2 In this and all other cases the text has ’to those three (ten &c.).’ It is not clear in what manner he is to divide the ten cows between the three priests, unless indeed he is to repeat the same process three times, giving the odd cow each time to another priest. The Kāṇva text only mentions two of the cases here given, viz. that if he intends to give one cow to each (ekaikām), he is to give ten to ten such; and if he intends to give two to each, he is to give ten to five such. Professor Weber, Ind. Stud. X, 52, remarks that this paragraph is not clear to him, and suggests that it may be interpolated. It does not appear, what the exact proportion of the thousand cows is for each of the sixteen priests; but we may assume that it did not differ much from that given at the Agnishṭoma (see p. 345, note 1), and that this result was brought about by repeated distributions among varied groupings of the priests. ↩︎