०१
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः[[!!]]॥
(श्च᳘) च᳘तुस्त्रिᳫँ᳭ शद्व्या᳘हृतयो भवन्ति प्रा᳘यश्चित्तयो ना᳘मैष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः[[!!]]॥
(श्च᳘) च᳘तुस्त्रिᳫँ᳭ शद्व्या᳘हृतयो भवन्ति प्रा᳘यश्चित्तयो ना᳘मैष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
च᳘तुस्त्रिंशद्व्या᳘हृतयो भवन्ति प्रा᳘यश्चित्तयो ना᳘मैष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते॥
मूलम् - विस्वरम्
अथ प्रायश्चित्तम् ।
ता वा ऽएताश्चतुस्त्रिंशद्व्याहृतयो भवन्ति- प्रायश्चित्तयो नाम । एष वै प्रजापतिः- य एष यज्ञस्तायते । यस्मादिमाः प्रजाः प्रजाताः । एतम्वेवाप्येतर्ह्यनु प्रजायन्ते ॥ १ ॥
सायणः
ता वा एता इति । ज्योतिष्टोमस्येदमखिलमारब्धं तत्र च मन्त्रपाठानुरोधेनातिग्राह्या विकृता अपि सत्र उक्ताः । तदनन्तरं मन्त्रानुरोधेन विषुवा ग्रहः महाव्रतीयो विवदास्यः । सत्रोत्थानं सोमप्रायश्चित्तानीत्येष ब्राह्मणक्रमः प्राप्नोति तत्र मन्त्रक्रममनादृत्यातिपर्यनुयोज्यत्वाच्च ज्योतिष्टोम एव पात्रविधोक्तावकाशवचनं चाधुना ऽपि ज्योतिष्टोम एव प्रायश्चित्तान्युच्यन्ते । तदर्थमुपक्रमते । ‘ता वै एताः’ मन्त्रसमाम्नाये “परमेष्ठ्यभिधीत” इत्यत्र “परमेष्ठिने स्वाहेति जुहुयात्” इत्यादि ब्राह्मणसहिते सिद्धाश्चतुस्त्रिंशद्व्याहृतयो भवन्ति । विभक्तिव्यवच्छिन्नाः परस्परं व्याह्रियन्ते पठ्यन्त इति व्याहृतयः परमेष्ठिने स्वाहेत्यादयः प्रायश्चित्तय इत्येवंनामिका यादृशमेव प्राप्तं नाशात् कर्म तादृशमेव प्रायश्चित्तम् उत्तरकालमपीत्येवं चेत्येते सञ्ज्ञायन्ते । आभिर्भेषज्यात्मिकाभिरिति प्रायश्चित्तस्य एतद्भैषज्यात्मकः प्रजापतिः ॥ १ ॥
Eggeling
- Now, there are here thirty-four utterances, called expiations 1. Prajāpati, forsooth, is that sacrifice which is performed here, and from which these creatures have been produced,–and in like manner are they produced therefrom even to this day.
०२
विश्वास-प्रस्तुतिः
(न्ते ऽष्टौ) अष्टौ व᳘सवः॥
(ऽ) ए᳘कादश रुद्रा द्वा᳘दशादित्या᳘ इमे᳘ ऽएव द्या᳘वापृथिवी᳘ त्रयस्त्रिᳫम्᳘श्यौ त्र᳘यस्त्रि᳘ᳫं᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭शस्त᳘देनं प्रजा᳘पतिं करोत्येतद्वा᳘ ऽअ᳘स्त्येत᳘द्ध्यमृ᳘तं[[!!]] य᳘द्ध्य᳘मृतं[[!!]] तद्ध्य᳘स्त्येत᳘दु तद्यन्म᳘र्त्यᳫँ᳭ स᳘ ऽएष᳘ प्रजा᳘पतिः स᳘र्व्वं वै᳘ प्रजा᳘पतिस्त᳘देनं प्रजा᳘पतिं करोति त᳘स्मादेताश्च᳘तुस्त्रिᳫँ᳭शद्व्या᳘हृतयो[[!!]] भवन्ति प्रा᳘यश्चित्तयो ना᳘म॥
मूलम् - श्रीधरादि
(न्ते ऽष्टौ) अष्टौ व᳘सवः॥
(ऽ) ए᳘कादश रुद्रा द्वा᳘दशादित्या᳘ इमे᳘ ऽएव द्या᳘वापृथिवी᳘ त्रयस्त्रिᳫम्᳘श्यौ त्र᳘यस्त्रि᳘ᳫं᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭शस्त᳘देनं प्रजा᳘पतिं करोत्येतद्वा᳘ ऽअ᳘स्त्येत᳘द्ध्यमृ᳘तं[[!!]] य᳘द्ध्य᳘मृतं[[!!]] तद्ध्य᳘स्त्येत᳘दु तद्यन्म᳘र्त्यᳫँ᳭ स᳘ ऽएष᳘ प्रजा᳘पतिः स᳘र्व्वं वै᳘ प्रजा᳘पतिस्त᳘देनं प्रजा᳘पतिं करोति त᳘स्मादेताश्च᳘तुस्त्रिᳫँ᳭शद्व्या᳘हृतयो[[!!]] भवन्ति प्रा᳘यश्चित्तयो ना᳘म॥
मूलम् - Weber
अष्टौ व᳘सवः॥
ए᳘कादश रुद्रा द्वा᳘दशादित्या᳘ इमे᳘ एव द्या᳘वापृथिवी᳘ त्रयस्त्रिंॗश्यौ त्र᳘यस्त्रिंशद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिंशस्त᳘देनम् प्रजा᳘पतिं करोत्येतद्वा᳘ अस्त्येतद्ध्य᳘मृतं यद्ध्य᳘मृ᳘तं तद्ध्य᳘स्त्येत᳘दु 2 तद्यन्म᳘र्त्यᳫं स᳘ एष᳘ प्रजा᳘पतिः स᳘र्वं वै᳘ प्रजा᳘पतिस्त᳘देनम् प्रजा᳘पतिं करोति त᳘स्मादेताश्च᳘तुस्त्रिंशॗद्व्याहृतयो भवन्ति प्रा᳘यश्चित्तयो ना᳘म॥
मूलम् - विस्वरम्
अष्टौ वसवः, एकादश रुद्राः, द्वादशादित्याः । इमे ऽएव द्यावापृथिवी त्रयस्त्रिंश्यो । त्रयस्त्रिंशद्वै देवाः, प्रजापतिश्चतुस्त्रिंशः । तदेनं प्रजापतिं करोति । एतद्वा ऽअस्ति, एतद्ध्यमृतम् । यद्ध्यमृतं तद्ध्यस्ति । एतदु तद्यन्मर्त्यम् । स एष प्रजापतिः । सर्वं वै प्रजापतिः । तदेनं प्रजापतिं करोति । तस्मादेताश्चतुस्त्रिंशद्व्याहृतयो भवन्ति- प्रायश्चित्तयो नाम ॥ २ ॥
सायणः
अष्टौ वसव इति । (देविको याज्ञिकफलभूतः ।) ‘वसवः’ अग्न्यादय आरण्यके वक्ष्यन्ते । ‘रुद्रा’ आदित्या एकादश प्राणा आदित्या द्वादशमासारते अनुगृह्यन्ते द्यावापृथिव्योस्त्रिंशद्देवाः प्रजापतिसामान्यरूपास्त्रयस्त्रिंशद्वचनात् । तेनात्रेतिहाससिद्धा वरवादयो देवगणाः (प्रातःसवनादिनाजादि पृथिव्यादिस्थाना) ग्रहीतव्याः । शेषस्य देवजातस्य द्यावापृथिवीभ्यां परिग्रहात्तेन त्रयस्त्रिंशद्देवाः प्रजापतिसामान्यरूपास्त्रयस्त्रिंश एव सः अवि- (देवैश्चतुस्त्रिंशकाजः प्रजापतिः ।) ततः किं यद् ‘एताश्चतुस्त्रिंशद् व्याहृतयो भवन्ति 3 । तदेनं यज्ञमविकलमिवाधिदेविकं प्रजापतिं करोति तदनुकारेण च यजमानमेतद्वा अस्तीति पुनः सदात्मकतया वस्वादीनां यज्ञस्य व्याहृतीभावं प्रजापतित्वमापादयेदिति । एतद्वै व्याहृतियज्ञेव स्वादिरूपकमस्ति किमपि यदेतन्न तदन्यदित्यर्थः । कथम् ? ‘एतद्ध्यमृतम्’ अविनाश्यमूर्तमित्यर्थः । कथं वस्वादयस्तावत् प्राणपिण्डात्मकाः सङ्घातरूपास्तेषामात्मरूपं तावन्निरूपवारमेवामृतप्राणपिण्डापेक्षयामृताः । (पिण्ड एव चतुर्मर्त्य एवं यज्ञो ऽपि देवतामृता हविर्मर्त्यं व्याहृतिष्वपि देवता परमेष्ठ्यादिका अमृताः । स्वाहाकारप्रदानं हविर्मर्त्यं पश्वमृतागसमङ्गीकृत्याह-) एतद्ध्यमृतमिति । ततः किमित्यत आह- यद्यमृतमस्ति न हि तत् कदाचिदपि नास्तीत्येवं तद्रूपं प्रतिपद्यते, तस्मान्नैत्या अमृतास्ति सच्छब्दपर्याया इत्यभिप्रायः । एतदु तद्यन्मर्त्यमिति । तस्यैव व्याहृतियज्ञावस्थादे (?) र्मर्त्यांशेन यथोक्तेनासद्रूपतामाह- यन्मर्त्यमिति । प्रसिद्धं लोके स्थूलं विनाशि तदप्येतद्देवतारूपं समाप्तम् ॥ २ ॥
Eggeling
- There are eight Vasus, eleven Rudras, twelve Ādityas; and these two, Heaven and Earth, are the (thirty-second and) thirty-third. And there are thirty-three gods, and Prajāpati is the thirty-fourth;–thus he makes him (the sacrificer, or Yajña) to be Prajāpati 4: now that 5 is, for that is immortal, and what is immortal that is. But what is mortal that also is Prajāpati; for Prajāpati is everything: thus he makes him to be Prajāpati, and hence there are these thirty-four utterances, called expiations.
०३
विश्वास-प्रस्तुतिः
ता है᳘के॥
यज्ञं त᳘न्व[[!!]] इत्या᳘चक्षते यज्ञ᳘स्य ह᳘ त्वे᳘वैता᳘नि प᳘र्व्वाणि स᳘ ऽएष[[!!]] यज्ञ᳘स्ताय᳘मान ऽएता᳘ ऽएव᳘ देव᳘ता भ᳘वन्नेति॥
मूलम् - श्रीधरादि
ता है᳘के॥
यज्ञं त᳘न्व[[!!]] इत्या᳘चक्षते यज्ञ᳘स्य ह᳘ त्वे᳘वैता᳘नि प᳘र्व्वाणि स᳘ ऽएष[[!!]] यज्ञ᳘स्ताय᳘मान ऽएता᳘ ऽएव᳘ देव᳘ता भ᳘वन्नेति॥
मूलम् - Weber
ता है᳘के॥
यज्ञतन्व᳘ इत्या᳘चक्षते यज्ञ᳘स्य हॗ त्वेॗवैता᳘नि प᳘र्वाणि स᳘ एष᳘ यज्ञ᳘स्ताय᳘मान एता᳘ एव᳘ देव᳘ता भ᳘वन्नेति॥
मूलम् - विस्वरम्
ता हैके यज्ञं तन्व इत्याचक्षते । यज्ञस्य ह त्वेवैतानि पर्वाणि । स एष यज्ञस्तायमान एता एव देवता भवन्नेति ॥ ३ ॥
सायणः
(तत्त्वयज्ञस्य ते इतस्तस्मात्तच्च एव ता भिन्ना एव ता भिन्ना एव ता भिन्ना एव यज्ञस्यानैकस्यास्तत्वएते चेष) प्रजा एव इत्येकेषां मतम् । यज्ञस्य ह त्वेवेति । देवतारूपाण्येव प्रत्येकं तानि सम प्तानि । यज्ञस्तु तत्र व्यासज्यवल्लोक एव परमेष्ठ्यादीनि च पर्वाणीत्यर्थः । एता एव देवता इति । परमेष्ठादिक अभिध्याता विरूपो यज्ञो भवन्नेति ॥ ३ ॥
Eggeling
- Now some call these (formulas) the ‘forms of the sacrifice;’ but, indeed, they are rather the joints of the sacrifice: this same sacrifice, in being performed, is continually becoming those deities.
०४
विश्वास-प्रस्तुतिः
स य᳘दि घर्मदु᳘घा ह्व᳘लेत्॥
(द) अन्या᳘मुपसं᳘क्रामेयुः स य᳘स्यामे᳘वैनां व्वे᳘लायां पुरा᳘ पिन्व᳘यन्ति त᳘द्वै᳘वैनामु᳘दीचीᳫं᳭ स्थाप᳘येद᳘ग्रेण वा शा᳘लां प्रा᳘चीम्॥
मूलम् - श्रीधरादि
स य᳘दि घर्मदु᳘घा ह्व᳘लेत्॥
(द) अन्या᳘मुपसं᳘क्रामेयुः स य᳘स्यामे᳘वैनां व्वे᳘लायां पुरा᳘ पिन्व᳘यन्ति त᳘द्वै᳘वैनामु᳘दीचीᳫं᳭ स्थाप᳘येद᳘ग्रेण वा शा᳘लां प्रा᳘चीम्॥
मूलम् - Weber
स य᳘दि घर्मदु᳘घा ह्व᳘लेत्॥
अन्या᳘मुपसं᳘क्रामेयुः स य᳘स्यामेॗवैनं वे᳘लायाम् पुरा᳘ पिन्व᳘यन्ति त᳘द्वैॗवैनामु᳘दीचीᳫं स्थाप᳘येद᳘ग्रेण वा शा᳘लाम् प्रा᳘चीम्॥
मूलम् - विस्वरम्
सा यदि धर्मदुघा ह्वलेत्- अन्यामुपसंक्रामेयुः । स यस्यामेवैनां वेलायां पुरा पिन्वयन्ति- तदैवैनामुदीचीं स्थापयेत्, अग्रेण वा शालां प्राचीम् ॥ ४ ॥
सायणः
ननु च व्याहृतिकालो यज्ञ इत्येवं पूर्वमुपन्यस्तमधुना तु देवताफलं दर्शयति । व्याहृतिग्रहणेन व्याहृतिसम्बद्धा देवता होमद्रव्यं कर्त्तेत्वादि सर्वमाक्षिप्तम् । यथैव यज्ञस्यात्तस्योत्तरकालं मन्त्रादिकाङ्गं चिकित्सनीयम्, एवं भिषज्यमप्यन्तकर्म आसिकोसिकमेव कदाचित्कथंचिद् व्यवह्रियते । कदाचिद् व्याहृतिभिः कदाचिद्वो ऽनया कदाचिद् व्याहृतिभिश्चतुस्त्रिंशतिमाज्याहुतीति । सा यदि धर्मप्रवर्ग्यार्थं पयो दुग्धे या धेनुः सा धर्मदुघा “दुहः कब्घश्च”- (पा० सू० ३ । २ । ७० ।) इति हकारस्य घकारः । ‘ह्वलेद्’ 6 विनश्येद्व्याद्ध्यादिना न वा गृहीता तथापि सा धर्मधुग्भवेदित्युच्यते । ततो ऽन्यां घर्मदुघामुपसंक्रामेयुः । अथ नान्या घर्मघुग्यतरतत्कथं तामुपगच्छेयुः । यस्यामेव वेलायां तस्मिन्नेव प्रदेशे गार्हपत्यस्य दक्षिणतो होतुः सन्दर्शने पुरा (अविनष्टा पूर्वापित्वं यन्निति सेवनार्था बहुदुग्धमालदुहमाम्नावन्ती ?) प्रयुञ्जते दोहयन्ति तद्वा तच्छब्दात् सप्तभ्या लुक् तस्यामेकविधवेलायामेनामन्यां गामुदीचीं तथावस्थिते किं कुर्यादित्यत आह ॥ ४ ॥
Eggeling
- Now should the cow, which supplies the gharma 7, fail (to give milk), let them go to another; and at the same place where they otherwise make that gharma (milk) flow 8, let them place her with her
head towards the north, or in front of the hall with her face to the east.
०५
विश्वास-प्रस्तुतिः
तद्ये᳘ ऽएते᳘ ऽअभि᳘तः॥
पुच्छकाण्ड᳘ᳫँ᳭ शिखण्डास्थे᳘ ऽनुच्छ᳘याते त᳘योर्यद्द᳘क्षिणं त᳘स्मिन्नेता᳘श्चतुस्त्रिᳫँ᳘[[!!]] शतमाज्याहुती᳘र्जुहोत्येता᳘वान्वै स᳘र्व्वो यज्ञो या᳘वत्य एताश्च᳘तुस्त्रिᳫं᳭शद्व्या᳘हृतयो भवन्ति त᳘दस्यां कृत्स्न᳘मेव स᳘र्व्वं यज्ञं᳘ दधात्येषा ह्य᳘तो घर्मं पि᳘न्वत ऽए᳘षो त᳘त्र प्रा᳘यश्चित्तिः क्रियते॥
मूलम् - श्रीधरादि
तद्ये᳘ ऽएते᳘ ऽअभि᳘तः॥
पुच्छकाण्ड᳘ᳫँ᳭ शिखण्डास्थे᳘ ऽनुच्छ᳘याते त᳘योर्यद्द᳘क्षिणं त᳘स्मिन्नेता᳘श्चतुस्त्रिᳫँ᳘[[!!]] शतमाज्याहुती᳘र्जुहोत्येता᳘वान्वै स᳘र्व्वो यज्ञो या᳘वत्य एताश्च᳘तुस्त्रिᳫं᳭शद्व्या᳘हृतयो भवन्ति त᳘दस्यां कृत्स्न᳘मेव स᳘र्व्वं यज्ञं᳘ दधात्येषा ह्य᳘तो घर्मं पि᳘न्वत ऽए᳘षो त᳘त्र प्रा᳘यश्चित्तिः क्रियते॥
मूलम् - Weber
तद्ये᳘ एते᳘ अभि᳘तः॥
पुछकाण्डं᳘ शिखण्डास्थे᳘ उछ᳘याते त᳘योर्यद्द᳘क्षिणं त᳘स्मिन्नेताश्च᳘तुस्त्रिंशतमाज्याहुती᳘र्जुहोत्येता᳘वान्वै स᳘र्वो यज्ञो या᳘वत्य एताश्च᳘तुस्त्रिंशद्व्या᳘हृतयो भवन्ति त᳘दस्यां कृत्स्न᳘मेव स᳘र्वं यज्ञं᳘ दधात्येषा ह्य᳘तो घर्मम् पि᳘न्वत एॗषो त᳘त्र प्रा᳘यश्चित्तिः क्रियते॥
मूलम् - विस्वरम्
तद् ये ऽएते ऽअभितः पुच्छकाण्डं शिखण्डास्थे ऽअनुच्छयाते- तयोर्यद्दक्षिणं- तस्मिन्नेताश्चतुस्त्रिंशतमाज्याहुतीर्जुहोति । एतावान्वै सर्वो यज्ञे- यावत्य एताश्चतुस्त्रिंशद्व्याहृतयो भवन्ति । तदस्यां कृत्स्नमेव सर्वं यज्ञं दधाति । एषा ह्यतो घर्मं पिन्वते एषो तत्र प्रायश्चित्तिः क्रियते ॥ ५ ॥
सायणः
तद्ये ऽएते इति । तस्या ये एते पुच्छकाण्डस्य 9 पार्श्वतः उच्चैः स्थिते शिखण्डेइवास्थिनी शिखण्डास्थे । अस्थिशब्दस्य “छन्दस्यपि दृश्यते”- (पा० सू० ७ । १ । ७६) इत्यनङि कृते “अनसन्तान्नपुंसकाच्छन्दसि”- (पा० सू० ५ । ४ । १०३) इति समासान्तः । तयोरस्थि यद्दक्षिणं तस्मिन्नेताः परमेष्ठ्यादिरेवोप संहारात् । ततश्चैवं विज्ञायते । तस्मिन्नेता इति । एताः व्याहृतिनामकाः आहुतीर्जुहोति’ इति । ‘एतावान्वै सर्वो यज्ञः’ इत्यभिधीयते । एवं चतुस्त्रिंशदवस्थाविशेषा य इमे एतेच परमेष्ठ्यादिकालका इत्यभिप्रायः । तदस्यामिति । (परमेष्ठ्यादयस्तत् कथं चाहुतिस्तत्रैवावतिष्ठते इत्यभिप्रायः ।) कृत्स्नमिति । कल्प्यते सर्वमित्यग्निष्टोमादिभेदभिन्नं किमर्थं पुनरस्यां ‘यज्ञं’ ‘दधाति’ इत्यत आह- ‘एषा’ ह्यभिनवा धेनुरन्तर्धृतं ‘घर्मं’ प्रवर्ग्यसाधनं पयः ‘पिन्वते’ दुग्धे तच्च यज्ञस्य शिरः शिरसः सकलस्य स्त्रीसारो यदि वा अस्याः सकलोपयोगो भवतीति । ततो ऽस्याः सुत्यायांघृतधर्मप्रादुर्भावो युज्यते नान्यथेति शेषेणेव ‘तत्र प्रायश्चित्तिः’ ‘क्रियते’ यदि धर्मदुघा ह्वलेदित्युपसंहारः ॥ ५ ॥
Eggeling
- And that which is the right one of the two bones with hair-tufts which protrude on both sides of her tail-bone,–thereon he offers those thirty-four oblations of ghee; for as much as are those thirty-four utterances, so much is the sacrifice: thus he lays the whole sacrifice entirely into her; for therefrom she lets the gharma (milk) flow, and this is the atonement therefore.
०६
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ य᳘द्यज्ञ᳘स्य ह्व᳘लेत्॥
(त्त᳘) त᳘त्समन्वी᳘क्ष्य जुहुयाद्दीक्षोपस᳘त्स्वाहवनी᳘ये प्र᳘सुत ऽआ᳘ग्नीध्रे व्वि वा᳘ ऽएत᳘द्यज्ञ᳘स्य प᳘र्व्व स्रᳫंसते यद्ध्व᳘लति सा᳘ यैव त᳘र्हि त᳘त्र देव᳘ता भ᳘वति त᳘यै᳘वैत᳘द्भिषज्य᳘ति त᳘या सं᳘दधाति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ य᳘द्यज्ञ᳘स्य ह्व᳘लेत्॥
(त्त᳘) त᳘त्समन्वी᳘क्ष्य जुहुयाद्दीक्षोपस᳘त्स्वाहवनी᳘ये प्र᳘सुत ऽआ᳘ग्नीध्रे व्वि वा᳘ ऽएत᳘द्यज्ञ᳘स्य प᳘र्व्व स्रᳫंसते यद्ध्व᳘लति सा᳘ यैव त᳘र्हि त᳘त्र देव᳘ता भ᳘वति त᳘यै᳘वैत᳘द्भिषज्य᳘ति त᳘या सं᳘दधाति॥
मूलम् - Weber
अ᳘थ य᳘द्यज्ञ᳘स्य ह्व᳘लेत्॥
त᳘त्समन्वी᳘क्ष्य जुहुयाद्दीक्षोपस᳘त्स्वाहवनी᳘ये प्र᳘सुत आ᳘ग्नीध्रे वि वा᳘ एत᳘द्यज्ञ᳘स्य प᳘र्व स्र्ंसते यद्ध्व᳘लति साॗ यैव त᳘र्हि त᳘त्र देव᳘ता भ᳘वति त᳘यैॗवैत᳘द्भिषज्य᳘ति त᳘या सं᳘दधाति॥
मूलम् - विस्वरम्
अथ यद्यज्ञस्य ह्वलेत्- तत् समन्वीक्ष्य जुहुयात्- दीक्षोपसत्सु, आहवनीये प्रसुत ऽआग्नीध्रे । विवा ऽएतद्यज्ञस्य पर्व स्रंसते- यदूध्वलति । सा यैव तर्हि तत्र देवता भवति- तयैवैतद्भिषज्यति- तया सन्दधाति ॥ ६ ॥
सायणः
अथ यदिति । अन्यदपि क्वचित् सोमस्य विनश्येत् तत् तत्सम्यगनुदृश्य या देवता तस्यै परमेष्ठ्यादिकायै एकामाज्याहुतिं हुत्वा ब्रह्मा सकृद्वृहीतां जुहुयात् । ‘दीक्षोपसत्सु’ च वर्त्तमानासु ‘आहवनीयस्य’ शालाद्वार्यवद् ‘जुहुयात्’ । प्रसुते तु सुत्यायां यदि ह्वले कृत आग्नीध्रीये जुहुयात् । (आज्याहुत्योरभिधानाच्छालायामनुपक्रान्त एव क्रान्तौ गृह एवाहवनीये होतव्यतायै वैतद् भिषज्याहुत्यां तृप्तये इत्यभिप्रायः।) अथ यास्ता उक्ताहुतय इति । चतुर्गृहीतमित्यादयः प्रायश्चित्तयस्ताभिः सह किमासां भिषज्यतीति कार्यसाम्याद्विकल्पः । आहोस्वित् समुच्चयः ? भिन्नाङ्गवर्त्तित्वात् समुच्चयः । सत्यपि भैषज्ये सामान्ये ऋग्वेदाद्यंशस्ताभिर्भिषज्यति । (यागाद्यंशभाव्याभाव्यशस्त्याभिस्ततश्चावर्त्तेरकार्ये नानात्वात्समुच्चयः ।) तद्यथैकस्मिन्नेव कार्ये वातपित्तादिभेषजानामभिन्नदेशानामप्यवान्तरकार्यभेदानामवधयो न विकल्प एवमिहापि द्रष्टव्यम् । तथा च दर्शयत्युभयं ह्येतत् कर्माध्वरकर्म चेति तत्रैव तत्रापि सन्धाने च क्षुद्रात्रभयं ह्येतत् कर्म ऋग्वेदादिकं चेत्येवं सति यत्र विशेषतो नादिष्टं प्रायश्चित्तं तत्र कालाहुतिं हुत्वा वेदाहुतिं ब्रह्मा जुहुयात् । आदिष्टे तु प्रायश्चित्ते कालाहुतयस्तस्य च पात्रक्रमेण क्रिया एवमष्टावपि कालाहुतिं जप्त्वा यथोक्तां प्रायश्चित्तिं कुर्यात् ॥ ६ ॥
Eggeling
- And if any part of the sacrifice were to fail, let him make an oblation with regard thereto on the Āhavanīya during the consecration and the Upasads, and on the Āgnīdhra during the Soma feast–for whatever point of the sacrifice fails, that breaks–and whichever then is the deity in that (special offering), through that one he heals it, through that he puts it together again.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि स्क᳘न्देत्॥
(त्त᳘) त᳘दद्भि᳘रुपनि᳘नयेदद्भिर्वा᳘ ऽᳫँ᳭ इदᳫँ᳭स᳘र्व्वमाप्तᳫँ᳭ स᳘र्व्वस्यैवा᳘प्त्यै व्वैष्णववारु᳘ण्य ऽर्चा[[!!]] यद्द्वा᳘ ऽइदं किं᳘चार्छ᳘ति व्व᳘रुण ए᳘वेदᳫँ᳭ स᳘र्व्वमा᳘र्पयति य᳘योरो᳘जसा स्कभिता र᳘जाᳫँ᳭सि व्वी᳘र्य्येभिर्व्वीर᳘तमा श᳘विष्ठा॥ या प᳘त्येते ऽअ᳘प्रतीता स᳘होभिर्व्वि᳘ष्णू ऽअगन्व᳘रुणापूर्व्व᳘हूतावि᳘ति यज्ञो वै व्वि᳘ष्णुस्त᳘स्यैतदा᳘र्छति व्व᳘रुणो वा᳘ ऽआर्पयिता तद्य᳘स्याश्चै᳘वैत᳘द्देव᳘ताया आर्छ᳘ति᳘ यो च देव᳘तार्प᳘यति ता᳘भ्यामे᳘वैत᳘दुभा᳘भ्यां भिषज्य᳘त्युभा᳘भ्याᳫँ᳭ सं᳘दधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि स्क᳘न्देत्॥
(त्त᳘) त᳘दद्भि᳘रुपनि᳘नयेदद्भिर्वा᳘ ऽᳫँ᳭ इदᳫँ᳭स᳘र्व्वमाप्तᳫँ᳭ स᳘र्व्वस्यैवा᳘प्त्यै व्वैष्णववारु᳘ण्य ऽर्चा[[!!]] यद्द्वा᳘ ऽइदं किं᳘चार्छ᳘ति व्व᳘रुण ए᳘वेदᳫँ᳭ स᳘र्व्वमा᳘र्पयति य᳘योरो᳘जसा स्कभिता र᳘जाᳫँ᳭सि व्वी᳘र्य्येभिर्व्वीर᳘तमा श᳘विष्ठा॥ या प᳘त्येते ऽअ᳘प्रतीता स᳘होभिर्व्वि᳘ष्णू ऽअगन्व᳘रुणापूर्व्व᳘हूतावि᳘ति यज्ञो वै व्वि᳘ष्णुस्त᳘स्यैतदा᳘र्छति व्व᳘रुणो वा᳘ ऽआर्पयिता तद्य᳘स्याश्चै᳘वैत᳘द्देव᳘ताया आर्छ᳘ति᳘ यो च देव᳘तार्प᳘यति ता᳘भ्यामे᳘वैत᳘दुभा᳘भ्यां भिषज्य᳘त्युभा᳘भ्याᳫँ᳭ सं᳘दधाति॥
मूलम् - Weber
अ᳘थ य᳘दि स्क᳘न्देत्॥
त᳘दद्भि᳘रुपनि᳘नयेदद्भिर्वा᳘ इदᳫं स᳘र्वमाप्तᳫं स᳘र्वस्यैवा᳘प्त्यै वैष्णववारुण्य᳘र्चा यद्वा᳘ इदं किं᳘ चार्छ᳘ति व᳘रुण एॗवेदᳫं स᳘र्वमा᳘र्पयति य᳘योरो᳘जसा स्कभिता र᳘जांसि वीॗर्येभिर्वीर᳘तमा श᳘विष्ठा या प᳘त्येते अ᳘प्रतीता स᳘होभिर्वि᳘ष्णू अगन्व᳘रुणा पूर्व᳘हूतावि᳘ति यज्ञो वै वि᳘ष्णुस्त᳘स्यैतदा᳘र्छति व᳘रुणो वा᳘ आर्पयिता तद्य᳘स्याश्चैॗवैत᳘द्देव᳘ताया आर्छ᳘तिॗ यो च देव᳘तार्प᳘यति ता᳘भ्यामॗवैत᳘दुभा᳘भ्याम् भिषज्य᳘त्युभा᳘भ्याᳫं सं᳘दधाति॥
मूलम् - विस्वरम्
अथ यदि स्कन्देत्- तदद्भिरुपनिनयेत् । अद्भिर्वा ऽइदं सर्वमाप्तम् । सर्वस्यैवाप्त्यै। वैष्णववारुण्य ऽर्चा । यद्वा ऽइदं किं चार्च्छति- वरुण एवेदं सर्वमार्पयति । “ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा । या पत्येते ऽअप्रतीता सहोभिः, विष्णू ऽअगन्वरुणा पूर्वहूतौ”- (वा. सं. ८ । ५९) इति । यज्ञो वै विष्णुः । तस्यैतदार्च्छति । वरुणो वा ऽआर्पयिता तद् यस्याश्चैवैतद्देवताया ऽआर्छति, यो च देवतार्पयति- ताभ्यामेवैतदुभाभ्यां भिषज्यति, उभाभ्यां सन्दधाति ॥ ७ ॥
सायणः
अथ यदीति । यज्ञस्येति वर्त्तते येन सम्बन्धी सोमो ऽभिषुतः ‘स्कन्देत्’ तत एव सोम इति न तावदाज्यादिपतन एतत्प्रायश्चित्तं पतिते ऽपि तस्मिन्यज्ञस्य वैगुण्याभावात्तथैष्टिकश्च यदा स्कन्देत्तत्रापि प्राकृतस्यैव प्रायश्चित्तस्य भावात् । अनभिषुते सोमे स्कन्ने पुनर्गृहीतुं शक्यत्वाद्गृहीते च तस्मिन् वैगुण्याभावादभिषुतस्तु यः स्कन्दति तत्रावश्यं कियांश्चिदंशः प्रत्याहरणीयो भवति तन्न्यूनः सोमो भवतीति वैगुण्यात्तत्रैव युक्तं प्रायश्चित्तेन 10 । यदि सोमस्य रसः किञ्चित्स्कन्देत्तदद्भिरुपसिञ्चेत । वैष्णवी चासौ वारुणीत्येतया वैष्णववारुण्या क्रयाय द्वै । इदं किञ्चिल्लोके चार्छति । “ऋगतौ”- (धा. पा. १६ । प.) इत्येष आङ्पूर्वो विनाशे वर्त्तते । तस्य च ऋच्छादेशः । यत् किञ्चिन्नश्यति सर्वमिदं वरुण एव ‘अर्पयति’ विनाशयति, तस्यैवर्त्तेर्णिचि पुगागमः “ययोरोजसेति” एतया ऋचा यत्र वा ‘देवता’ ‘अर्पयति’ यस्माच्च विमृशति ‘ताभ्यामुभाभ्यां’ । ‘भिषज्यति’ तस्य कृत्स्नस्य ताभ्यामनुदेशादित्यभिप्रायः ॥ ७ ॥
Eggeling
- And if anything 11 be spilt, let him pour water thereon–everything here being pervaded (or obtained) by water–for the obtainment of everything 12; with a verse to Vishṇu and Varuṇa,–for whatsoever distress one undergoes here on earth, all that Varuṇa inflicts 13,–(Vāj. S. VIII, 59; Atharva-veda VII, 25, 1),
‘They by whose vigour the spheres were propped up, who are in strength the strongest and mightiest; who sway with powers unresisted, to Vishṇu and Varuṇa hath it gone at the morning prayer!’ For Vishṇu is the sacrifice, and it is that (sacrifice) of his which now undergoes distress; and Varuṇa is the inflicter: thus by both these deities–that whose (sacrifice) undergoes distress, and that which inflicts it–he heals (the joint of the sacrifice), by both he puts it together.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थो ऽअ᳘भ्येव᳘ मृशेत्॥
(द्दे) देवान्दि᳘वमगन्यज्ञस्त᳘तो मा द्र᳘विणमष्टु मनुष्यानन्त᳘रिक्षमगन्यज्ञस्त᳘तो[[!!]] मा द्र᳘विणमष्टु पितॄ᳘न्पृथिवी᳘मगन्यज्ञस्त᳘तो मा द्र᳘विणमष्टु यं कं᳘ च लोकम᳘गन्यज्ञस्त᳘तो मे भद्र᳘मभूदि᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थो ऽअ᳘भ्येव᳘ मृशेत्॥
(द्दे) देवान्दि᳘वमगन्यज्ञस्त᳘तो मा द्र᳘विणमष्टु मनुष्यानन्त᳘रिक्षमगन्यज्ञस्त᳘तो[[!!]] मा द्र᳘विणमष्टु पितॄ᳘न्पृथिवी᳘मगन्यज्ञस्त᳘तो मा द्र᳘विणमष्टु यं 14 कं᳘ च लोकम᳘गन्यज्ञस्त᳘तो मे भद्र᳘मभूदि᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
अ᳘थो अॗभ्येव᳘ मृशेत्॥
देवान्दि᳘वमगन्यज्ञस्त᳘तो मा द्र᳘विणमष्टु मनुॗष्यानन्त᳘रिक्षमगन्यज्ञस्त᳘तो मा द्र᳘विणमष्टु पितॄ᳘न्पृथिवी᳘मगन्यज्ञस्त᳘तो मा द्र᳘विणमष्टु यं कं᳘ च लोकम᳘गन्यज्ञस्त᳘तो मे भद्र᳘मभूदि᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
अथो ऽअभ्येव मृशेत्- “देवान्दिवमगन्यज्ञः ततो मा द्रविणमष्टु, मनुष्यानन्तरिक्षमगन्यज्ञः ततो मा द्रविणमष्टु, पितॄन्पृथिवीमगन्यज्ञः ततो मा द्रविणमष्टुयं कं च लोकमगन्यज्ञः । ततो मे भद्रमभूत्” (वा. सं. ८ । ६०) इत्येवैतदाह ॥ ८ ॥
सायणः
अथो अभ्येव मृशेदिति । देवस्कन्नं 14 सोमं नाद्भिरुपनिनयेत् । कालाहुतिभिश्चैतत्समुच्चीयते । भिन्नांशवर्त्तित्वादध्वर्युश्चेदं कुर्यात् । समाख्यानात् । कालाहुतिमात्रब्राह्मणश्रवणात् ॥ ८ ॥
Eggeling
- And let him then touch (the spilt material) with (Vāj. S. VIII, 60), ‘To the gods, to the sky hath the sacrifice gone: may wealth thence accrue to me! to the men, to the air hath the sacrifice gone: may wealth thence accrue to me! to the Fathers, to the earth hath the sacrifice gone: may wealth thence accrue to me!’–‘To whatever world the sacrifice has gone, thence happiness has come to me 15!’ this is what he thereby means to say.
०९
विश्वास-प्रस्तुतिः
त᳘द्ध स्मैतदा᳘रुणिराह॥
किᳫं᳭ स᳘ यजेत यो᳘ यज्ञ᳘स्य᳘ व्यृद्ध्या पा᳘पीयान्म᳘न्येत यज्ञ᳘स्य᳘ वा ऽअहं᳘[[!!]] व्यृद्ध्या श्रे᳘यान्भवामी᳘त्येत᳘द्ध स्म स त᳘द᳘भ्याह य᳘देता᳘ आशि᳘ष ऽउपग᳘च्छति॥
मूलम् - श्रीधरादि
त᳘द्ध स्मैतदा᳘रुणिराह॥
किᳫं᳭ स᳘ यजेत यो᳘ यज्ञ᳘स्य᳘ व्यृद्ध्या पा᳘पीयान्म᳘न्येत यज्ञ᳘स्य᳘ वा ऽअहं᳘[[!!]] व्यृद्ध्या श्रे᳘यान्भवामी᳘त्येत᳘द्ध स्म स त᳘द᳘भ्याह य᳘देता᳘ आशि᳘ष ऽउपग᳘च्छति॥
मूलम् - Weber
त᳘द्ध स्मैतदा᳘रुणिराह॥
किᳫं स᳘ यजेत यो᳘ यज्ञ᳘स्य व्यृद्ध्या पा᳘पीयान्म᳘न्येत यज्ञ᳘स्य वा᳘ अॗहं व्यृद्ध्या श्रे᳘यान्भवामी᳘त्येत᳘द्ध स्म स त᳘दॗभ्याह य᳘देता᳘ आशि᳘ष उपग᳘छति॥
मूलम् - विस्वरम्
तद्ध स्मैतदारुणिराह- किं स यजेत- यो यज्ञस्य व्यृद्ध्या पापीयान्मन्येत । यज्ञस्य वा ऽअहं व्यृद्ध्या श्रेयान्भवामीत्येतद्ध स्म स तदभ्याह- यदेता आशिष उपगच्छति ॥ ९ ॥
इति प्रायश्चित्तम् ।
सायणः
तद्ध स्मैतदिति । या एता आशिषस्ततो मा द्रविणमष्ट्वित्यादयः । एवं तु स्कन्दनविशेषात्स (नभ्यनन सर्वस्माद्गृह्यते न लिङ्गक्रमात्) प्राप्तं यज्ञस्य 14 दोह इत्यस्य वाचनं दर्शयति पूर्वासु कालाहुतिषु ॥ ९ ॥
इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमे ऽध्याये सप्तमं ब्राह्मणम् ॥ ४-७ ॥
Eggeling
- Here now Āruṇi said, ‘Why should he sacrifice who would think himself the worse for a miscarriage of the sacrifice? I, for one, am the better for a miscarriage of the sacrifice 16!’ This, then, he said with reference to the adoption of those benedictions.
-
411:1 Viz. the formulas, Vāj. S. VIII, 54-58, employed for making good any mishaps during the Soma-sacrifice. Cf. Śat. Br. XII, 6, 1, 1 seq. In the Kāṇva recension, V, 7, 4, kaṇḍikās 5-10 correspond to the present Brāhmaṇa, while kaṇḍikās 1-4 contain the account of the Mahāvratīya graha corresponding to M. IV, 6, 4. ↩︎
-
त्येतद्वा᳘ऽअस्त्ये AB. ↩︎
-
परमेष्ठ्यादीश्च चतुस्त्रिंशतं जुहोति । इदं धर्मस्य मृन्मयपात्रभेदे प्रायश्चित्तं । चकारेण । य ऋतेचिदभिश्रिषः पुराजत्रुभ्य आतृदः । सधाता संधिं मघवापुरूवसुरिष्कर्ता विह्रुतं पुनरिति च धर्म्यमिति पूर्वसूत्रोक्तेन मंत्रेण मृन्मयधर्म्यभिन्नपात्राभिमर्शनमपि प्रायश्चित्तं । का. श्रौ. सू. २५ । १३७ । पृषदाज्यरकंदने चैके । परमेष्ठ्यादिचतुस्त्रिंशद्व्याहृतिहोमः । एकीयग्रहणाद्विकल्पः । का. श्रौ. सू. २५ । १४२ । अद्रिभेदने मारुतेन ब्रह्मसाम्ना स्तुवीरन् । मरुल्लिंगासृक्षु गीयमानं ब्रह्मसाम । माध्यंदिने ब्राह्मणाच्छंसिविग्रहस्तोत्रमिदं । चतुस्त्रिँशद्धोमश्च । अद्रिभेदने भवतीत्यर्थः । का. श्रौ. सू. २५ । २९८ । २९९ । ↩︎
-
411:2 ? Or, this then he makes Prajāpati to be; but see IV, 6, 1, 5. ↩︎
-
411:3 ? I.e. that divine race or element. The Kāṇva text reads, etāvad vā idam asty, etad dhy amr̥tam, yad dhy amr̥taṁ tad asti. ↩︎
-
घर्मधुग्घ्वाले चादोहे च । ह्वाले मरणे सतीत्यर्थः । का. श्रौ. सू । २५ । १३८ ↩︎
-
411:4 See p. 104, note 3. ↩︎
-
411:5 That is, when they milk the cow with the Mantras ‘Flow thou for the Aśvins!’ &c., see IV, 2, 1, 11 seq. Perhaps yasyāṁ velāyām has to be taken in the sense of ‘at the same time at which they make it flow,’ as is done in the St. Petersb. Dict. Compare, however, the Kāṇva reading, tad yām upasaṁkrāmeyus tām agreṇa vā dīkshitaśālāṁ yatra vainam etat pinvayanti tad enām prācīṁ vodīcīṁ vā sthāpayitavai brūyāt. ↩︎
-
उदीच्या दोहस्थाने ऽन्यस्याः । अन्यस्या गोर्व्यवस्थिताया इत्यर्थः । शालाया वा पुरस्तात्प्राच्याः । शालाया वा पुरस्तादवस्थितायाः इत्यन्यस्या गोरवस्थानेविकल्पः । पुच्छकांडाद्दक्षिणे ऽस्थनि हुत्वा दोहयेत् । तामेव गां दोहयेदित्यर्थः । का. श्रौ. सू. २५ । १३९-१४१ । ↩︎
-
ययोरोजसेवोदके नोपसिंचेत् । सोम एवस्कन्नहविर्यज्ञियप्रायश्चित्तमिदमिति कर्कः । स्कन्नसोमप्रायश्चित्तमिदमिति देवयाज्ञिकाः । ययोर्व्वैष्णववारुणी त्रिष्टुबिति कात्यायनसर्वानुक्रमः । का. श्रौ. सू. २५ । २८ । ↩︎
-
412:1 Viz. any Soma, according to Kāty. XXV, 2, 9; or any clotted ghee (pr̥shadājya), according to the Kāṇva text. ↩︎
-
412:2 For this construction, see p. 15, note 3. ↩︎
-
412:3 Or, whatsoever undergoes (suffering) here on earth, all that Varuṇa causes to undergo it. ↩︎
-
‘यं कञ्च’ इत्यादिभागो मन्त्रतयैवाम्नातः संहितायाम् । इह तु सों ऽशः फलितार्थकथनमात्रं प्रतीयते । मन्त्र संहितायाम्- ‘चतुस्त्रिंशतन्तवः’- इति, ‘यज्ञस्य दोहः’- इति, ‘आपवस्व’- इत्येवं त्रयः प्रायश्चितार्थी होममन्त्रा अभ्ये ऽप्युक्तास्त इह ब्राह्मणे न दृश्यन्ते । ↩︎ ↩︎ ↩︎
-
413:1 This last sentence (‘To whatever world . . .’) is treated as if it belonged to the sacrificial formula, to which it is attached in the Saṁhitā. The mistake (which doubtless there is) probably arose from the omission of the ‘iti’ in the Brāhmaṇa. In the Kāṇva text of the Brāhmaṇa, the analogous sentence appears clearly as belonging to the exposition, and not to the Saṁhitā. ↩︎
-
413:2 Kiṁ sa yajñena yajeteti yo yajñaḥ syāt tena vyr̥ddhena śreyo nābhigached iti. Kāṇva text. ↩︎