०१

विश्वास-प्रस्तुतिः

एष वै᳘ प्रजा᳘पतिः॥
(र्य᳘) य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः[[!!]] प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते स᳘ आश्विनं ग्र᳘हं गृही᳘त्वावकाशान᳘वकाशयति॥

मूलम् - श्रीधरादि

एष वै᳘ प्रजा᳘पतिः॥
(र्य᳘) य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः[[!!]] प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते स᳘ आश्विनं ग्र᳘हं गृही᳘त्वावकाशान᳘वकाशयति॥

मूलम् - Weber

एष वै᳘ प्रजा᳘पतिः॥
य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्र᳘जाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते स᳘ आश्विनं ग्र᳘हं गृहीॗत्वावकाशान᳘वकाशयति॥

मूलम् - विस्वरम्

अथावकाशमन्त्राः ।

एष वै प्रजापतिर्य एष यज्ञस्तायते । यस्मादिमाः प्रजाः प्रजाताः । एतम्वेवाप्येतर्ह्यनु प्रजायन्ते । स आश्विनं ग्रहं गृहीत्वावकाशानवकाशयति ॥ १ ॥

सायणः

एष वै प्रजापतिरिति । अध्वर्युग्रहानवकाशाद्यजमानस्तु सप्राणं कृत्स्नं यज्ञं जनयित्वा येन कुरुते । “प्राणाय म”- इत्यादिभिर्मन्त्रैरात्मानमेव प्रजापतिं करोत्ययं मन्त्रसमस्तार्थः । सो ऽध्वर्युराश्विनं ग्रहं गृहीत्वा ऽवकाशा उपांश्वादयस्तान् ‘अवकाशयति’ अवेक्षयति 1 । यजमानो ऽवेक्षते अध्वर्युस्तमवेक्षयति । ‘प्राणाय म’ इत्युपांशुमवेक्षस्वेत्येवमुत्तरानपि । तन्त्रकारस्तु मन्त्रानवकाशाननुवाचयतीति व्याजहार ॥ १ ॥

Eggeling
  1. Prajāpati, forsooth, is that sacrifice which is here performed, and whence these creatures have been produced, and in like manner are they produced therefrom even to this day. Having drawn the Aśvina graha, he makes (the sacrificer) eye (the several cups, while muttering) the Avakāśa formulas 2.

०२

विश्वास-प्रस्तुतिः

स᳘ उपाᳫं᳭शु᳘मेव᳘ प्रथमम᳘वकाशयति॥
प्राणा᳘य मे व्वर्चोदा व्वर्चसे पवस्वेत्य᳘थोपाᳫँ᳭शुस᳘वनं व्याना᳘य मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थान्तर्याम᳘मुदाना᳘य मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थैन्द्रवायवं᳘ व्वाचे᳘ मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थ मैत्रावरुणं क्र᳘तूद᳘क्षाभ्यां मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थाश्विनᳫँ᳭ श्रो᳘त्राय मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थ शुक्रा᳘मन्थि᳘नौ च᳘क्षुर्भ्यां मे व्वर्चो᳘दसौ व्व᳘र्चसे पवेथामिति[[!!]]॥

मूलम् - श्रीधरादि

स᳘ उपाᳫं᳭शु᳘मेव᳘ प्रथमम᳘वकाशयति॥
प्राणा᳘य मे व्वर्चोदा व्वर्चसे पवस्वेत्य᳘थोपाᳫँ᳭शुस᳘वनं व्याना᳘य मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थान्तर्याम᳘मुदाना᳘य मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थैन्द्रवायवं᳘ व्वाचे᳘ मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थ मैत्रावरुणं क्र᳘तूद᳘क्षाभ्यां मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थाश्विनᳫँ᳭ श्रो᳘त्राय मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थ शुक्रा᳘मन्थि᳘नौ च᳘क्षुर्भ्यां मे व्वर्चो᳘दसौ व्व᳘र्चसे पवेथामिति[[!!]]॥

मूलम् - Weber

स᳘ उपांशु᳘मेव᳘ प्रथमम᳘वकाशयति॥
प्राणा᳘य मे वर्चोदा वर्चसे पवस्वेत्य᳘थोपांशुस᳘वनं व्याना᳘य मे वर्चोदा व᳘र्चसे पवस्वेत्य᳘थान्तर्याम᳘मुदाना᳘य मे वर्चोदा व᳘र्चसे पवस्वेत्य᳘थैन्द्रवायवं᳘ वाचे᳘ मे वर्चोदा व᳘र्चसे पवस्वेत्य᳘थ मैत्रावरुणं क्र᳘तूद᳘क्षाभ्याम् मे वर्चोदा व᳘र्चसे पवस्वेत्य᳘थाश्विनं श्रो᳘त्राय मे वर्चोदा व᳘र्चसे पवस्वेत्य᳘थ शुक्रा᳘मन्थि᳘नौ च᳘क्षुर्भ्याम् मे वर्चो᳘दसौ व᳘र्चसे पवेथामि᳘ति॥

मूलम् - विस्वरम्

स उपांशुमेव प्रथममवकाशयति- “प्राणाय 1 मे वर्चोदा वर्चसे पवस्व”- (वा. सं. ७ । २७) इति । अथोपांशुसवनम्- “व्यानाय मे वर्चोदा वर्चसे पवस्व”- (वा. सं. ७ । २७) इति । अथान्तर्यामम्- “उदानाय मे वर्चोदा वर्चसे पवस्व”- (वा. सं. ७ । २७ ।) इति । अथैन्द्रवायवम्- “वाचे मे वर्चोदा वर्चसे पवस्व”- (वा. सं. ७ । २७) इति । अथ मैत्रावरुणम्- “ऋतुदक्षाभ्यां मे वर्चोदा वर्चसे पवस्व”- (वा. सं. ७ । २७ ।) इति । अथाश्विनम्- “श्रोत्राय मे वर्चोदा वर्चसे पवस्व”- (वा. सं. ७ । २७) इति । अथ शुक्रामन्थिनौ- “चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम्”- (वा. सं. ७ । २७) इति ॥ २॥

सायणः

स उपांशुमिति । प्रसन्ना ॥ २ ॥

Eggeling
  1. The Upāṁśu cup he eyes first with (Vāj. S. VII, 27), ‘For mine out-breathing, (a) giver of lustre 3, become thou pure for lustre!’ Then the Upāṁśusavana stone with, ‘For my through-breathing, giver of lustre, become thou pure for lustre!’ Then the Antaryāma cup with, ‘For mine up-breathing, giver of lustre, become thou pure for lustre!’ Then the Aindravāyava with, ‘For my voice, giver of lustre, become thou pure for lustre!’ Then the Maitrāvaruṇa with, ‘For mine intelligence and will, giver of lustre, become thou pure for lustre!’ Then the Aśvina with, ‘For mine ear, giver of lustre, become thou pure for lustre!’ Then the Śucra and Manthin with, ‘For mine eyes, givers of lustre, become ye pure for lustre!’

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाग्रयण᳘म्॥
(मा) आत्म᳘ने मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थो᳘क्थ्यमो᳘जसे[[!!]] मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थ ध्रुवमा᳘युषे मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थाम्भृणौ व्वि᳘श्वाभ्यो मे प्रजा᳘भ्यो व्वर्चोद᳘सौ व्व᳘र्चसे पवेथामि᳘ति व्वैश्वदेवौ वा᳘ ऽअम्भृणाव᳘तो हि᳘ देवे᳘भ्य उन्न᳘यन्त्य᳘तो मनु᳘ष्येभ्यो᳘ ऽतः पितृ᳘भ्यस्त᳘स्माद्वैश्वदेवा᳘वम्भृणौ[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाग्रयण᳘म्॥
(मा) आत्म᳘ने मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थो᳘क्थ्यमो᳘जसे[[!!]] मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थ ध्रुवमा᳘युषे मे व्वर्चोदा व्व᳘र्चसे पवस्वेत्य᳘थाम्भृणौ व्वि᳘श्वाभ्यो मे प्रजा᳘भ्यो व्वर्चोद᳘सौ व्व᳘र्चसे पवेथामि᳘ति व्वैश्वदेवौ वा᳘ ऽअम्भृणाव᳘तो हि᳘ देवे᳘भ्य उन्न᳘यन्त्य᳘तो मनु᳘ष्येभ्यो᳘ ऽतः पितृ᳘भ्यस्त᳘स्माद्वैश्वदेवा᳘वम्भृणौ[[!!]]॥

मूलम् - Weber

अ᳘थाग्रयण᳘म्॥
आत्म᳘ने मे वर्चोदा व᳘र्चसे पवस्वेत्य᳘थोक्थ्य᳘मो᳘जसे मे वर्चोदा व᳘र्चसे पवस्वेत्य᳘थ ध्रुवमा᳘युषे मे वर्चोदा व᳘र्चसे पवस्वेत्य᳘थाम्भृणौ वि᳘श्वाभ्यो मे प्रजा᳘भ्यो वर्चोद᳘सौ व᳘र्चसे पवेथामि᳘ति वैश्वदेवौ वा᳘ अम्भृणाव᳘तो हि᳘ देवे᳘भ्य उन्न᳘यन्त्य᳘तो मनुॗष्येभ्यो᳘ ऽतः पितृ᳘भ्यस्त᳘स्माद्वैश्वदेवा᳘वम्भृणौ᳟॥

मूलम् - विस्वरम्

अथाग्रयणम्- “आत्मने मे वर्चोदा वर्चसे पवस्व”- (वा. सं. ७ । २८) इति अथोक्थ्यम्- “ओजसे मे वर्चोदा वर्चसे पवस्व”- (वा. सं. ७ । २८) इति । अथ ध्रुवम्- “आयुषे मे वर्चोदा वर्चसे पवस्व”- (वा. सं. ७ । २८) इति । अथाम्भृणौ- “विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथाम्"- (वा. सं. ७ । २८) इति । वैश्वदेवौ वा ऽअम्भृणौ अतो हि देवेभ्य उन्नयन्ति, अतो मनुष्येभ्यः, अतः पितृभ्यः । तस्माद्वैश्वदेवावम्भृणौ ॥ ३ ॥

सायणः

अथाग्रयणमिति । अवकाशावस्तीर्यादेरुत्तीरथाम्भृणौ पूतभृदाधवनीयावत आभ्यां पूतभृदाधवनीयाभ्यां देवेभ्य उन्नयन्ति सोमयागार्थमत एव मनुष्येभ्यः पितृभ्यश्च नाराशंस एतदभिप्रायमेतत् 4 ॥ ३ ॥

Eggeling
  1. Then the Āgrayaṇa with (Vāj. S. VII, 28), ‘For my mind, giver of lustre, become thou -pure for lustre!’ Then the Ukthya with, ‘For

my vigour, giver of lustre, become thou pure for lustre!’ Then the Dhruva with, ‘For my life, giver of lustre, become thou pure for lustre!’ Then the two Soma-troughs (Pūtabhr̥t and Ādhavanīya) with, ‘For all mine offspring, givers of lustre, become ye pure for lustre!’ Now the two troughs belong to the All-gods, for therefrom they draw (Soma) for the gods, therefrom for men, therefrom for the Fathers: therefore the two Soma-troughs belong to the All-gods.

०४

विश्वास-प्रस्तुतिः

(णाव᳘) अ᳘थ द्रोणकलश᳘म्॥
को ऽसि कत᳘मो ऽसी᳘ति प्रजा᳘पतिर्वै कः क᳘स्यासि को ना᳘मासी᳘ति प्रजा᳘पतिर्वै को ना᳘म य᳘स्य ते नामा᳘मन्मही᳘ति मनुते᳘ ह्यस्य[[!!]] ना᳘म यं᳘ त्वा सो᳘मेना᳘तीतृपामे᳘ति तर्प᳘यति[[!!]] ह्येनᳫँ᳭ सो᳘मेन स᳘ आश्विनं ग्र᳘हं गृही᳘त्वान्वङ्ग᳘माशि᳘षमा᳘शास्ते तर्प᳘यति᳘ सुप्रजाः᳘ प्रजा᳘भिः स्यामि᳘ति त᳘त्प्रजामा᳘शास्ते सुवी᳘रो व्वी᳘रैरि᳘ति त᳘द्वीराना᳘शास्ते सुपो᳘षः पो᳘षैरि᳘ति तत्पु᳘ष्टिमा᳘शास्ते॥

मूलम् - श्रीधरादि

(णाव᳘) अ᳘थ द्रोणकलश᳘म्॥
को ऽसि कत᳘मो ऽसी᳘ति प्रजा᳘पतिर्वै कः क᳘स्यासि को ना᳘मासी᳘ति प्रजा᳘पतिर्वै को ना᳘म य᳘स्य ते नामा᳘मन्मही᳘ति मनुते᳘ ह्यस्य[[!!]] ना᳘म यं᳘ त्वा सो᳘मेना᳘तीतृपामे᳘ति तर्प᳘यति[[!!]] ह्येनᳫँ᳭ सो᳘मेन स᳘ आश्विनं ग्र᳘हं गृही᳘त्वान्वङ्ग᳘माशि᳘षमा᳘शास्ते तर्प᳘यति᳘ सुप्रजाः᳘ प्रजा᳘भिः स्यामि᳘ति त᳘त्प्रजामा᳘शास्ते सुवी᳘रो व्वी᳘रैरि᳘ति त᳘द्वीराना᳘शास्ते सुपो᳘षः पो᳘षैरि᳘ति तत्पु᳘ष्टिमा᳘शास्ते॥

मूलम् - Weber

अ᳘थ द्रोणकलशम्॥
को ऽसि कतॗमो ऽसी᳘ति प्रजा᳘पतिर्वै कः क᳘स्यासि को ना᳘मासी᳘ति प्रजा᳘पतिर्वै को ना᳘म य᳘स्य ते नामा᳘मन्मही᳘ति मनुते ह्य᳘स्य ना᳘म यं᳘ त्वा सो᳘मेना᳘तीतृपामे᳘ति तर्प᳘यतिॗ ह्येनᳫं सो᳘मेन स᳘ आश्विनं ग्र᳘हं गृहीत्वान्वङ्ग᳘माशिषमा᳘शास्ते सुप्रजाः᳘ प्रजा᳘भिः स्यामि᳘ति त᳘त्प्रजामा᳘शास्ते सुवी᳘रो वीरैरि᳘ति त᳘द्वीराना᳘शास्ते सुपो᳘षः पो᳘षैरि᳘ति तत्पु᳘ष्टिमा᳘शास्ते॥

मूलम् - विस्वरम्

अथ द्रोणकलशम् । “को ऽसि कतमो ऽसि”- (वा. सं. ७ । २९) इति । प्रजापतिर्वै कः । “कस्यासि को नामासि” (वा. सं. ७ । २९) इति । प्रजापतिर्वै को नाम । “यस्य ते नामामन्महि”- (वा. सं. ७ । २९) इति । मनुते ह्यस्य नाम । “यं त्वा सोमेनातीतृपाम”- (वा. सं. ७ । २९) इति । तर्पयति ह्येनं सोमेन । स आश्विनं ग्रहं गृहीत्वान्वङ्गमाशिषमाशास्ते- “सुप्रजाः प्रजाभिः स्याम्”- (वा. सं. ७ । २९) इति । तत् प्रजामाशास्ते । “सुवीरो वीरैः”- (वा. सं. ७ । २९) इति । तद् वीरानाशास्ते । “सुपोषः पोषैः”- (वा. सं. ७ । २९) इति । तत् पुष्टिमाशास्ते ॥ ४ ॥

सायणः

अथ द्रोणकलशमिति 4 । ‘मनुत ह्यस्य नाम’ क इत्येतत् । ‘स आश्विनं ग्रहं गृहीत्वा’ समर्थाचरणेन यजमानः । ‘अन्वङ्गम्’ प्राणतां प्राणादीनां पश्चात् । अङ्गेषु कल्पितेषु स लब्धात्मकः सन् ‘आशिषमाशास्ते’ भूर्भुवः स्वरिति । यक्षितव्यं लिङ्गक्रमाभ्यामेव विनियोगस्य सिद्धे तत् सत्येनैवेतद्वावँ समर्द्धयतीति ब्राह्मणस्य च प्रदेशान्तरे ऽभावात् ॥ ४ ॥

Eggeling
  1. Then the Droṇakalaśa with (Vāj. S. VII, 29), ‘Who (ka) art thou? Which one art thou?’–Ka is Prajāpati;–‘Whose (kasya, or Ka’s) art thou? who (ka) art thou by name?’–Ka (‘who’) by name is Prajāpati;–‘Thou upon whose name we have thought,’ for he indeed thinks upon his name;–‘Thou whom we have gladdened with Soma;’–for he indeed gladdens him with Soma. Having drawn the Āśvina cup, he prays for blessing part after part (of the sacrifice) with, ‘May I be abundantly supplied with offspring,’ thereby he prays for offspring;–‘abundantly supplied with men,’ thereby he prays for men (heroes);–‘abundantly supplied with food!’ thereby he prays for prosperity.

०५

विश्वास-प्रस्तुतिः

तान्वै न स᳘र्व्वमिवा᳘वकाशयेत्॥
(द्यो᳘) यो᳘ न्वेव᳘ ज्ञातस्तम᳘वकाशयेद्यो᳘ वास्य प्रियः स्याद्यो᳘ वानूचानो᳘ ऽनूक्तेनैनान्प्राप्नुयात्स᳘ आश्विनं ग्र᳘हं गृहीत्वा᳘ कृत्स्नं᳘ यज्ञं᳘ जनयति तं᳘ कृत्स्नं᳘ यज्ञं᳘ जनयित्वा त᳘मात्म᳘न्धत्ते त᳘मात्म᳘न्कुरुते॥

मूलम् - श्रीधरादि

तान्वै न स᳘र्व्वमिवा᳘वकाशयेत्॥
(द्यो᳘) यो᳘ न्वेव᳘ ज्ञातस्तम᳘वकाशयेद्यो᳘ वास्य प्रियः स्याद्यो᳘ वानूचानो᳘ ऽनूक्तेनैनान्प्राप्नुयात्स᳘ आश्विनं ग्र᳘हं गृहीत्वा᳘ कृत्स्नं᳘ यज्ञं᳘ जनयति तं᳘ कृत्स्नं᳘ यज्ञं᳘ जनयित्वा त᳘मात्म᳘न्धत्ते त᳘मात्म᳘न्कुरुते॥

मूलम् - Weber

तान्वै न स᳘र्वमिवा᳘वकाशयेत्॥
योॗ न्वेव᳘ ज्ञातस्तम᳘वकाशयेद्यो᳘ वास्य प्रियः स्याद्यो᳘ वानूचानो᳘ ऽनूक्तेनैनान्प्राप्नुयात्स᳘ आश्विनं ग्र᳘हं गृहीत्वा᳘ कृत्स्नं᳘ यज्ञं᳘ जनयति तं᳘ कृत्स्नं᳘ यज्ञं᳘ जनयित्वा त᳘मात्म᳘न्धत्ते त᳘मात्म᳘न्कुरुते॥

मूलम् - विस्वरम्

तान्वै न सर्वमिवावकाशयेत् । यो न्वेव ज्ञातः- तमवकाशयेत्, यो वास्य प्रियः स्याद्, यो वानूचानो ऽनूक्तेनैनान्प्राप्नुयात् । स आश्विनं ग्रहं गृहीत्वा कृत्स्नं यज्ञं जनयति । तं कृत्स्नं यज्ञं जनयित्वा तमात्मन्धत्ते तमात्मन्कुरुते ॥ ५ ॥ इति पात्रावकाशमन्त्राः ।

सायणः

तान्वै न सर्वमिति । उपांश्वादिभिः सम्बन्धादवकाशान् सर्वप्रयोगविषयं प्राप्ते ज्ञातादिप्रयोग एव व्यवस्थाप्यते तत्रोपन्यासः । तानवकाशान्न सर्वं यजमानमज्ञातादिकमप्यवकाशयेत् 5 । किंचिदेवावकाशयेदित्यर्थः । एतस्मादेव वचनात् सर्वशब्दादनवकाश्यो ऽपि (यजत दर्शयतीतरथा) अनवकाश्यो ऽकृरनकारित्वादनधिकृत एव, स्याद्यो न्वेव ज्ञातः शुच्याभिजनतया यो वास्याध्वर्योः ‘प्रियः’ प्रियो ऽतिशयेन ‘यो वानूचानो’ वेदार्थानुवचनसमर्थो ऽनूक्तेनानुवचनेन विद्ययैव ‘एनान्’ उपांश्वादिरूपान् प्राणान् प्राप्नुयात् ।

यथा ह ते वेहैते विद्याविन एवेति तमेव गुणं यजमानमवकाशयन् नान्यमन्यस्त्वनवकाशित एव यजमान आश्विनग्रहं गृहीत्वा कृत्स्नं यज्ञं जनयति तदा हि प्राणैर्ग्रहैर्योजितो भवतीत्यभिप्रायः ॥ ५ ॥

इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमे ऽध्याये षष्ठं ब्राह्मणम् ॥ ४-५-६ ॥

Eggeling
  1. He must not let every one eye them, but only him who is well known, or one who is his friend, or one who, being learned in sacred lore, may acquire these (texts) through study. Having drawn the Āśvina cup, he (thus) produces the whole sacrifice; and having produced the whole sacrifice, he deposits it in his own self, and makes it his own.

  1. ग्रहानवेक्षयति यथागृहीतमवकाशान्वाचयति प्राणाय म इति प्रतिमंत्रम् । उपाँशुसवनं द्वितीयम् । उपांशुसवनस्याग्रहत्वादिदं सूत्रम् । आश्विन‍ँ शुकामंथिनौ युगपत् पूतभृदाधवनीयौ च व्विश्वाभ्यो मा इति । पूतभृदाघवनीयावपि चशब्दाद् युगपत् इति कर्कः । का. श्रौ. सू. ९ । १६६-१६८ । ↩︎ ↩︎

  2. 409:1 For the proper place of this ceremony in the actual performance of the Agnishṭoma, see p. 312, note 4. ↩︎

  3. 409:2 Either, thou who bestowest lustre on my out-breathing . . ., or, Thou who art a bestower of lustre, become thou pure for lustre to my out-breathing. ↩︎

  4. ‘एवाभिप्रायमेतत्’- इ० पा० । ↩︎ ↩︎

  5. ज्ञातप्रियानूचानानवकाशयेत् । का. श्रौ. सू. ९ । १७१ । ↩︎