०१

विश्वास-प्रस्तुतिः

एष वै᳘ प्रजा᳘पतिः॥
(र्य᳘) र्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते॥

मूलम् - श्रीधरादि

एष वै᳘ प्रजा᳘पतिः॥
(र्य᳘) र्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते॥

मूलम् - Weber

एष वै᳘ प्रजा᳘पतिः॥
य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते॥

मूलम् - विस्वरम्

एष वै प्रजापतिर्य एष यज्ञस्तायते । यस्मादिमाः प्रजाः प्रजाताः । एतम्वेवाप्येतर्ह्यनु प्रजायन्ते ॥ १ ॥

सायणः

एष वै प्रजापतिरिति । यज्ञात्मकस्य प्रजापतेरुपांशुपात्रादिभ्यः प्रदेशेभ्यो ऽजावयः ‘प्रजायन्ते तेषां च पात्राणां पुनः पुनः प्रयोगात्ता अपि प्रजाः पुनःपुनः प्रजायन्ते यदा यदा ऽन्ते प्राजापत्यात्मकात् स लेशो यदन्ततो हारियोजनस्तदैताः ‘प्रजाः’ पालयितुम् अभिजिघ्रति । उपांशुपात्रासादनेनैव सर्वाः प्रजाः प्रजायन्त इत्येतद्दर्शनं ब्राह्मणेन क्रियते । (प्रायमेव वातः प्रभृति) अजा अराडीतरा अतिशयेन शीघ्रमुच्चैर्गच्छन्त्यराडीतराः । कथमरमिति निपातः शैघ्र्यवचनस्तस्य च्छान्दसो मकारलोपः । आ इत्युपसर्ग ऽउपार्ये उच्चैस्त्वम् । “डीङ् विहायस गतौ”- (धा. पा. भ्वा. आ. ९९३) तस्मात् क्विप् । अरमाडयन्ते शीघ्रमुच्चैर्गच्छन्ते इत्यराड्यः । अवयो ऽपि च शीघ्रमुच्चैश्च डयन्ते । अतिशयेन त्वजा अराडीतराः अरशब्दाद् आडीशब्दस्तदग्रे प्रसिद्धे तरप् । अराडीतरा इति शीघ्रप्रकृष्टोदग्रतायां प्रयुज्यते ॥ १-५ ॥

Eggeling
  1. Prajāpati, forsooth, is that sacrifice which is performed here, and from which these creatures have been produced: and in like manner are they produced thereafter even to this day.

०२

विश्वास-प्रस्तुतिः

(न्त ऽउ) उपाᳫँ᳭शुपात्र᳘मेवा᳘न्वजाः प्र᳘जायन्ते॥
तद्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते॥

मूलम् - श्रीधरादि

(न्त ऽउ) उपाᳫँ᳭शुपात्र᳘मेवा᳘न्वजाः प्र᳘जायन्ते॥
तद्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते॥

मूलम् - Weber

उपांशुपात्र᳘मेवा᳘न्वजाः प्र᳘जायन्ते॥
तद्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तम् प्र᳘जायन्ते॥

मूलम् - विस्वरम्

उपांशुपात्रमेवान्वजाः प्रजायन्ते । तद्वै तत् पुनर्यज्ञे प्रयुज्यते । तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. After the Upāṁśu cup goats are produced. Now that (cup) is again employed in the sacrifice: hence creatures are here produced again and again.

०३

विश्वास-प्रस्तुतिः

(न्ते ऽन्त) अन्तर्यामपात्र᳘मेवान्व᳘वयः प्र᳘जायन्ते॥
तद्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते॥

मूलम् - श्रीधरादि

(न्ते ऽन्त) अन्तर्यामपात्र᳘मेवान्व᳘वयः प्र᳘जायन्ते॥
तद्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते॥

मूलम् - Weber

अन्तर्यामपात्र᳘मेवान्व᳘वयः प्र᳘जायन्ते॥
तद्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तम् प्र᳘जायन्ते॥

मूलम् - विस्वरम्

अन्तर्यामपात्रमेवान्ववयः प्रजायन्ते । तद्वै तत् पुनर्यज्ञे प्रयुज्यते । तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ॥ ३ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. After the Antāryama cup sheep are produced. Now that (cup) is again employed at the sacrifice: hence creatures are here produced again and again.

०४

विश्वास-प्रस्तुतिः

(न्ते᳘ ऽथ) अ᳘थ य᳘देत᳘योरुभ᳘योः॥
सह᳘ सतो᳘रुपाᳫँ᳭शुं पू᳘र्व्वं जुहो᳘ति त᳘स्मादु सह᳘ स᳘तो ऽजाविक᳘स्योभ᳘यस्यै᳘वाजाः पू᳘र्व्वा य᳘न्त्यनूच्यो᳘ ऽवयः॥

मूलम् - श्रीधरादि

(न्ते᳘ ऽथ) अ᳘थ य᳘देत᳘योरुभ᳘योः॥
सह᳘ सतो᳘रुपाᳫँ᳭शुं पू᳘र्व्वं जुहो᳘ति त᳘स्मादु सह᳘ स᳘तो ऽजाविक᳘स्योभ᳘यस्यै᳘वाजाः पू᳘र्व्वा य᳘न्त्यनूच्यो᳘ ऽवयः॥

मूलम् - Weber

अ᳘थ य᳘देत᳘योरुभ᳘योः॥
सह᳘ सतो᳘रुपांशु पू᳘र्वं जुहो᳘ति त᳘स्मादु सह᳘ सॗतो ऽजाविक᳘स्योभ᳘यस्यैॗवाजाः पू᳘र्वा य᳘न्त्यनूच्यो᳘ ऽवयः॥

मूलम् - विस्वरम्

अथ यदेतयोरुभयोः । सह सतोरुपांशुं पूर्वं जुहोति- तस्मादु सह सतो ऽजाविकस्योभयस्यैवाजाः पूर्वा यन्ति- अनूच्यो ऽवयः ॥ ४ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. And because of those two (cups) which are together he offers the Upāṁśu first, therefore, of goats and sheep when they are together 1, the goats go first, and the sheep behind them.

०५

विश्वास-प्रस्तुतिः

(यो᳘ ऽथ) अ᳘थ य᳘दुपाᳫँ᳭ शु᳘ᳫं᳘ हु᳘त्वा॥
(त्वो) ऊर्ध्व᳘मुन्मा᳘र्ष्टि त᳘स्मादिमा᳘ ऽअजा᳘ ऽअराडी᳘तरा आक्र᳘ममाणा ऽइव यन्ति॥

मूलम् - श्रीधरादि

(यो᳘ ऽथ) अ᳘थ य᳘दुपाᳫँ᳭ शु᳘ᳫं᳘ हु᳘त्वा॥
(त्वो) ऊर्ध्व᳘मुन्मा᳘र्ष्टि त᳘स्मादिमा᳘ ऽअजा᳘ ऽअराडी᳘तरा आक्र᳘ममाणा ऽइव यन्ति॥

मूलम् - Weber

अ᳘थ य᳘दुपांशु᳘ᳫं᳘ हुॗत्वा॥
ऊर्ध्व᳘मुन्मा᳘र्ष्टि त᳘स्मादिमा᳘ अजा᳘ अरा डी᳘तरा 2 आक्र᳘ममाणा इव यन्ति॥

मूलम् - विस्वरम्

अथ यदुपांशु हुत्वा ऊर्ध्वमुन्मार्ष्टि- तस्मादिमा अजा अराडीतरा आक्रममाणा इव यन्ति ॥ ५ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. And because, having offered the Upāṁśu, he wipes (the vessel) upwards, therefore these goats walk like nimbly 3 climbing spokes.

०६

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ य᳘दन्तर्याम᳘ᳫं᳘ हुत्वा[[!!]]॥
(त्वा᳘) अ᳘वाञ्चमवमा᳘र्ष्टि त᳘स्मादिमा ऽअ᳘वयो ऽवाचीनशीर्ष्ण्यः[[!!]] ख᳘नन्त्य इव यन्त्येता वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां य᳘दजाव᳘यस्त᳘स्मादेतास्त्रिः᳘ संव्वत्सर᳘स्य व्विजा᳘यमाना द्वौ त्रीनि᳘ति जनयन्ति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ य᳘दन्तर्याम᳘ᳫं᳘ हुत्वा[[!!]]॥
(त्वा᳘) अ᳘वाञ्चमवमा᳘र्ष्टि त᳘स्मादिमा ऽअ᳘वयो ऽवाचीनशीर्ष्ण्यः[[!!]] ख᳘नन्त्य इव यन्त्येता वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां य᳘दजाव᳘यस्त᳘स्मादेतास्त्रिः᳘ संव्वत्सर᳘स्य व्विजा᳘यमाना द्वौ त्रीनि᳘ति जनयन्ति॥

मूलम् - Weber

अथ य᳘दन्तर्याम᳘ᳫं᳘ हुत्वा᳟॥
अ᳘वाञ्चमवमा᳘र्ष्टि त᳘स्मादिमा अ᳘वयो ऽवाचीनशीर्ष्ण्यः᳘ ख᳘नन्त्य इव यन्त्येता वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां य᳘दजाव᳘यस्त᳘स्मादेतास्त्रिः᳘ संवत्सर᳘स्य विजा᳘यमाना द्वौ त्रीनि᳘ति जनयन्ति॥

मूलम् - विस्वरम्

अथ यदन्तर्यामं हुत्वा ऽवाञ्चमवमार्ष्टि- तस्मादिमा अवयो ऽवाचीनशीर्ष्ण्यः खनन्त्य इव यन्ति । एता वै प्रजापतेः प्रत्यक्षतमां- यदजावयः । तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ, त्रीन्, इति जनयन्ति ॥ ६ ॥

सायणः

‘अवाचीनशीर्ष्ण्यः’ इत्येतस्य चोदग्रताया एव विपर्ययः । अवाचीनशीर्ष्ण्यः चाधोगतशिरस्का ‘एता वै प्रजापतेः प्रत्यक्षतमां’ प्रत्यक्षत्वेन सन्निकर्षो लक्ष्यते । बहुप्रजत्वेन प्रजापतेः सन्निकृष्टतमाः प्राण्यन्तरेभ्यः । एष वै शुक्र इति । (मार्जनान्यनुकारेणाजादीनामुदग्रतादिकारेण धर्म्मो दर्शित एवमत्रापीति ।) तत्त्वं नाम शुकधर्मः पुरुषाणां दृश्यते । एकशफमन्वितर इति ‘ऋतुपात्रम्’ ‘इत्येकशफस्य’ ‘शिर’ इत्यभिहितया दीर्घं त्रिकोणं प्रउग इव दर्शयति । एतानीति विचाररूपस्य प्रदर्शनमेतत् ॥ ६-८ ॥

Eggeling
  1. And because, having offered the Antaryāma, he wipes (the vessel) downwards, therefore these sheep walk with their heads down, as if digging. Now they, the goats and sheep, are most conspicuously Prajāpati-like: whence, bringing forth thrice in the year, they produce two or three 4 (young ones).

०७

विश्वास-प्रस्तुतिः

शुक्रपात्र᳘मेवा᳘नु मनु᳘ष्याः प्र᳘जायन्ते॥
तद्वै᳘ तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्त ऽएष वै᳘ शुक्रो य᳘ एष त᳘पत्येष᳘ ऽउ ऽएवे᳘न्द्रः पु᳘रुषो वै᳘ पशूना᳘मैन्द्रस्त᳘स्मात्पशूना᳘मीष्टे॥

मूलम् - श्रीधरादि

शुक्रपात्र᳘मेवा᳘नु मनु᳘ष्याः प्र᳘जायन्ते॥
तद्वै᳘ तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्त ऽएष वै᳘ शुक्रो य᳘ एष त᳘पत्येष᳘ ऽउ ऽएवे᳘न्द्रः पु᳘रुषो वै᳘ पशूना᳘मैन्द्रस्त᳘स्मात्पशूना᳘मीष्टे॥

मूलम् - Weber

शुक्रपात्र᳘मेवा᳘नु मनुॗष्याः प्र᳘जायन्ते॥
तद्द्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तम् प्र᳘जायन्त एष वै᳘ शुक्रो य᳘ एष त᳘पत्येष᳘ उ एवे᳘न्द्रः पु᳘रुषो वै᳘ पशूना᳘मैन्द्रस्त᳘स्मात्पशूना᳘मीष्टे॥

मूलम् - विस्वरम्

शुक्रपात्रमेवानु मनुष्याः प्रजायन्ते । तद्वै तत् पुनर्यज्ञे प्रयुज्यते- तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते । एष वै शुक्रो- य एष तपति । एष ऽउ ऽएवेन्द्रः । पुरुषो वै पशूनामैन्द्रः । तस्मात्पशूनामीष्टे ॥ ७ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. After 5 the Śukra cup men are produced. Now that (cup) is again employed at the sacrifice: hence creatures are here produced again and again. But the Śukra (bright) is the same as he that burns yonder, and he indeed is Indra; and of animals, man is Indra-like 6: whence he rules over animals.

०८

विश्वास-प्रस्तुतिः

(ष्ट ऽ) ऋतुपात्र᳘मेवान्वे᳘कशफं प्र᳘जायते॥
तद्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्त ऽइ᳘तीव वा᳘ ऽऋतुपात्रमि᳘तीवै᳘कशफस्य शि᳘र आग्रयणपात्र᳘मुक्थ्यपात्र᳘मादित्यपात्र᳘मेता᳘न्येवा᳘नु गा᳘वः प्र᳘जायन्ते ता᳘नि वै ता᳘नि पु᳘नर्यज्ञे प्र᳘युज्यन्ते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते॥

मूलम् - श्रीधरादि

(ष्ट ऽ) ऋतुपात्र᳘मेवान्वे᳘कशफं प्र᳘जायते॥
तद्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्त ऽइ᳘तीव वा᳘ ऽऋतुपात्रमि᳘तीवै᳘कशफस्य शि᳘र आग्रयणपात्र᳘मुक्थ्यपात्र᳘मादित्यपात्र᳘मेता᳘न्येवा᳘नु गा᳘वः प्र᳘जायन्ते ता᳘नि वै ता᳘नि पु᳘नर्यज्ञे प्र᳘युज्यन्ते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते॥

मूलम् - Weber

ऋतुपात्र᳘मेवान्वे᳘कशफम् प्र᳘जायते॥
तद्वै तत्पु᳘नर्यज्ञे प्र᳘युज्यते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तम् प्रजायन्त इ᳘तीव वा᳘ ऋतुपात्रमि᳘तीवै᳘कशफस्य शि᳘र आग्रयणपात्र᳘मुक्थ्यपात्र᳘मादित्यपात्र᳘मेता᳘न्येवा᳘नु गा᳘वः प्र᳘जायन्ते ता᳘नि वै ता᳘नि पु᳘नर्यज्ञे प्र᳘युज्यन्ते त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तम् प्र᳘जायन्ते॥

मूलम् - विस्वरम्

ऋतुपात्रमेवान्वेकशफं प्रजायते । तद्वै तत् पुनर्यज्ञे प्रयुज्यते । तस्मादिमाः प्रजाः पुनरभ्यावर्त्तं प्रजायन्ते । इतीव वा ऽऋतुपात्रम् । इति वैकशफस्य शिरः । आग्रयणपात्रम्, उक्थ्यपात्रम्, आदित्यपात्रम्- एतान्येवानु गावः प्रजायन्ते । तानि वै तानि पुनर्यज्ञे प्रयुज्यन्ते । तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ॥ ८ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. After the R̥tu cup the one-hoofed species is produced. Now that (cup) is again employed in the sacrifice: hence creatures are here produced again and again. And such-like is the Ritu cup 7, and suchlike the head of the one-hoofed. The Āgrayaṇa

cup, the Ukthya cup, and the Āditya cup,–after them cows are produced. Now, these are again employed in the sacrifice: hence creatures are here produced again and again.

०९

विश्वास-प्रस्तुतिः

(न्ते᳘ ऽथ) अ᳘थ य᳘दजाः[[!!]]॥
क᳘निष्ठानि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते त᳘स्मादेतास्त्रिः᳘ संव्वत्सर᳘स्य व्विजा᳘यमाना द्वौ त्रीनि᳘ति जन᳘यन्त्यः क᳘निष्ठाः क᳘निष्ठानि हि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते॥

मूलम् - श्रीधरादि

(न्ते᳘ ऽथ) अ᳘थ य᳘दजाः[[!!]]॥
क᳘निष्ठानि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते त᳘स्मादेतास्त्रिः᳘ संव्वत्सर᳘स्य व्विजा᳘यमाना द्वौ त्रीनि᳘ति जन᳘यन्त्यः क᳘निष्ठाः क᳘निष्ठानि हि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते॥

मूलम् - Weber

अ᳘थ य᳘दजाः᳟॥
क᳘निष्ठानि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते त᳘स्मादेतास्त्रिः᳘ संवत्सर᳘स्य विजा᳘यमाना द्वौ त्रीनि᳘ति जन᳘यन्त्यः क᳘निष्ठाः क᳘निष्ठानि हि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते॥

मूलम् - विस्वरम्

अथ यदजाः कनिष्ठानि पात्राण्यनु प्रजायन्ते- तस्मादेतास्त्रिः सम्वत्सरस्य विजायमाना द्वौ, त्रीन् इति जनयन्त्यः कनिष्ठाः कनिष्ठानि हि पात्राण्यनु प्रजायन्ते ॥ ९ ॥

सायणः

अथ यदजा इति । कनिष्ठानामनेकत्वादुपांशुपात्रस्य बहुवचनमुपपन्नम् । प्रयोगान्तर्गतोपांशुपात्रान्तराभिप्रायं तु द्रष्टव्यम् । तथापि तु आग्रयणोक्थ्यादित्यपात्रेभ्यः स्तोकान्येव भवन्ति तान्यपि हि प्रयोगमेदे प्रत्येकं बहूनि भवन्ति ॥ ९ ॥

Eggeling
  1. And because goats are produced after the fewest cups, therefore, though bringing forth thrice in a year, producing two or three, (they are) very few, for they are produced after the fewest cups.

१०

विश्वास-प्रस्तुतिः

(न्ते᳘ ऽथ) अ᳘थ यद्गा᳘वः॥
(वो) भू᳘यिष्ठानि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते त᳘स्मादेताः᳘ सकृ᳘त्संव्वत्सर᳘स्य व्विजा᳘यमाना ऽए᳘कैकं ज᳘नयन्त्यो[[!!]] भू᳘यिष्ठा भूयिष्ठानि[[!!]] हि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते॥

मूलम् - श्रीधरादि

(न्ते᳘ ऽथ) अ᳘थ यद्गा᳘वः॥
(वो) भू᳘यिष्ठानि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते त᳘स्मादेताः᳘ सकृ᳘त्संव्वत्सर᳘स्य व्विजा᳘यमाना ऽए᳘कैकं ज᳘नयन्त्यो[[!!]] भू᳘यिष्ठा भूयिष्ठानि[[!!]] हि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते॥

मूलम् - Weber

अ᳘थ यद्गा᳘वः॥
भू᳘यिष्ठानि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते त᳘स्मादेताः᳘ सकृ᳘त्संवत्सर᳘स्य विजा᳘यमाना ए᳘कैकं जन᳘यन्त्यो भू᳘यिष्ठा भू᳘यिष्ठानि हि पा᳘त्राण्य᳘नु प्रजा᳘यन्ते॥

मूलम् - विस्वरम्

अथ यद्भावो भूयिष्ठानि पात्राण्यनु प्रजायन्ते । तस्मादेताः सकृत्सम्वत्सरस्य विजायमाना एकैकं जनयन्त्यो भूयिष्ठाः । भूयिष्ठानि हि पात्राण्यनु प्रजायन्ते ॥ १० ॥

सायणः

‘भूयिष्ठानि’ इति बहुतमानि (स्वयाभवान्तानि) प्रयोगभेदापेक्षया तु बहुतमानि । ‘प्रजापतिर्वै द्रोणकलश’ इतराणि पात्राण्यपेक्ष्यत्वात् सर्वोपकारित्वाच्च ‘स इमाः प्रजा’ इतरपात्रे भवा ‘उपावर्त्तते’ ततः प्रयुज्यमान उपावृत्तश्चापि (ते धत्तेव) ‘अवत्यभिजिघ्रति’ कथं पुनः ‘अवति’ रक्षतीत्यत आह- ‘प्रजनयति’ ॥ १० ॥ ११॥

Eggeling
  1. And because cows are produced after the most cups, therefore, though bringing forth once in a year, and producing one each time, (they are) most numerous, for they are produced after the most cups.

११

विश्वास-प्रस्तुतिः

(न्ते᳘ ऽथ) अ᳘थ द्रोणकलशे[[!!]]॥
(शे ऽन्त) अन्ततो᳘ हारियोजनं ग्र᳘हं गृह्णाति प्रजा᳘पतिर्व्वै᳘ द्रोणकलशः स᳘ इमाः᳘ प्रजा᳘ उपा᳘वर्तते ता᳘ अवति ता᳘ अभि᳘जिघ्रत्येतद्वा᳘ ऽएना अवति य᳘देनाः प्रजन᳘यति॥

मूलम् - श्रीधरादि

(न्ते᳘ ऽथ) अ᳘थ द्रोणकलशे[[!!]]॥
(शे ऽन्त) अन्ततो᳘ हारियोजनं ग्र᳘हं गृह्णाति प्रजा᳘पतिर्व्वै᳘ द्रोणकलशः स᳘ इमाः᳘ प्रजा᳘ उपा᳘वर्तते ता᳘ अवति ता᳘ अभि᳘जिघ्रत्येतद्वा᳘ ऽएना अवति य᳘देनाः प्रजन᳘यति॥

मूलम् - Weber

अ᳘थ द्रोणकलॗशे॥
अन्ततो᳘ हारियोजनं ग्र᳘हं गृह्णाति प्रजा᳘पतिर्वै᳘ द्रोणकलशः स᳘ इमाः᳘ प्रजा᳘ उपा᳘वर्तते ता᳘ अवति ता᳘ अभि᳘जिघ्रत्येतद्वा᳘ एना भवति य᳘देनाः प्रजन᳘यति॥

मूलम् - विस्वरम्

अथ द्रोणकलशे ऽन्ततो हारियोजनं ग्रहं गृह्णाति । प्रजापतिर्वै द्रोणकलशः स इमाः प्रजा उपावर्त्तते । ता अवति । ता अभिजिघ्रति । एतद्वा ऽएना अवति- यदेनाः प्रजनयति ॥ ११ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. Then, in the Droṇakalaśa (trough) he finally draws the Hāriyojana graha. Now, the Droṇakalaśa is Prajāpati;–he turns unto these creatures, and fosters them, and kisses them 8: he fosters them in that he produces them.

१२

विश्वास-प्रस्तुतिः

प᳘ञ्च ह᳘ त्वेव ता᳘नि पा᳘त्राणि॥
या᳘नीमाः᳘ प्रजा अ᳘नु प्रजा᳘यन्ते समान᳘मुपाᳫँ᳭श्वन्तर्याम᳘योः शुक्रपात्र᳘मृतुपात्र᳘माग्रयणपात्र᳘मुक्थ्यपात्रं प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञो य᳘द्यु ष᳘डे᳘व ऽर्त᳘वः संव्वत्सरस्ये᳘त्यादित्यपात्र᳘मे᳘वैते᳘षाᳫँ᳭ षष्ठम्[[!!]]॥

मूलम् - श्रीधरादि

प᳘ञ्च ह᳘ त्वेव ता᳘नि पा᳘त्राणि॥
या᳘नीमाः᳘ प्रजा अ᳘नु प्रजा᳘यन्ते समान᳘मुपाᳫँ᳭श्वन्तर्याम᳘योः शुक्रपात्र᳘मृतुपात्र᳘माग्रयणपात्र᳘मुक्थ्यपात्रं प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञो य᳘द्यु ष᳘डे᳘व ऽर्त᳘वः संव्वत्सरस्ये᳘त्यादित्यपात्र᳘मे᳘वैते᳘षाᳫँ᳭ षष्ठम्[[!!]]॥

मूलम् - Weber

प᳘ञ्च हॗ त्वेव ता᳘नि पा᳘त्राणि॥
या᳘नीमाः प्रजा अ᳘नु प्रजा᳘यन्ते समान᳘मुपांश्वन्तर्याम᳘योः शुक्रपात्र᳘मृतुपात्र᳘माग्रयणपात्र᳘मुक्थ्यपात्रम् प᳘ञ्च वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञो य᳘द्यु ष᳘डेवर्त᳘वः संवत्सरस्ये᳘त्यादित्यपात्र᳘मेॗवैते᳘षां षष्ठ᳘म्॥

मूलम् - विस्वरम्

पञ्च ह त्वेव तानि पात्राणि- यानीमाः प्रजा अनु प्रजायन्ते- समानमुपांश्वन्तर्यामयोः, शुक्रपात्रम्, ऋतुपात्रम्, आग्रयणपात्रम्, उक्थ्यपात्रम् । पञ्च वा ऽऋतवः सम्वत्सरस्य । सम्वत्सरः प्रजापतिः । प्रजापतिर्यज्ञः । यद्यु षडेव ऽर्तवः सम्वत्सरस्य- इत्यादित्यपात्रमेवैतेषां षष्ठम् ॥ १२ ॥

सायणः

‘समानमुपांश्वन्तर्यामयोः’ पात्रं तयोरेव समानत्वान्न तयोश्च समानत्वमध्यात्मं वायोर्वृत्तिभेदाङ्गीकरणादवत्येव पुनः ‘यश्च’ पुनः प्रयोगित्वात् प्रजानामनुरूपाणि चैतान्येव तेनैव चानुरूपता लक्ष्यते तेभ्य एव प्रदेशेभ्यः प्रजायन्ते नान्यत इत्यभिप्रायः ॥

‘आदित्यपात्रमेवैतेषाम्’ इति तदपि ह्यनुहोमेषु प्रयुक्तं सत् पुनरादित्यग्रहे प्रयुज्यत इत्यभिप्रायः । प्रजापतिं ह्येवेदमिति । (यद्यपि 9 (?) लुर्यवस्थानीयाच्छुक्रादिपर्वणप्रजापतेस्तथापि प्राणानुगृहीत एवेत्यभिप्रायः)॥ १२ ॥ १३ ॥

इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमे ऽध्याये पञ्चमं ब्राह्मणम् ॥ (४-५-५) ॥

Eggeling
  1. Now, these same cups after which creatures are produced, are five,–those of the Upāṁśu and Antaryāma (counting as) one and the same, the Śukra cup, the R̥tu cup, the Āgrayaṇa cup, and the Ukthya cup; for there are five seasons in the year, and Prajāpati is the year, and the sacrifice is Prajāpati. But if there be six seasons in the year, then the Āditya cup is the sixth of them.

१३

विश्वास-प्रस्तुतिः

(मे᳘) ए᳘कᳫँ᳭ ह᳘ त्वेव तत्पा᳘त्रम्॥
य᳘दिमाः᳘ प्रजा अ᳘नु प्रजा᳘यन्त ऽउपाᳫँ᳭शुपात्र᳘मेव᳘ प्राणो᳘ ह्यु᳘पाᳫँ᳭ शुः[[!!]] प्रा᳘णो हि᳘ प्रजा᳘पतिः प्रजा᳘पति᳘ᳫँ᳘ ह्ये᳘वेदᳫँ᳭ स᳘र्व्वम᳘नु॥

मूलम् - श्रीधरादि

(मे᳘) ए᳘कᳫँ᳭ ह᳘ त्वेव तत्पा᳘त्रम्॥
य᳘दिमाः᳘ प्रजा अ᳘नु प्रजा᳘यन्त ऽउपाᳫँ᳭शुपात्र᳘मेव᳘ प्राणो᳘ ह्यु᳘पाᳫँ᳭ शुः[[!!]] प्रा᳘णो हि᳘ प्रजा᳘पतिः प्रजा᳘पति᳘ᳫँ᳘ ह्ये᳘वेदᳫँ᳭ स᳘र्व्वम᳘नु॥

मूलम् - Weber

ए᳘कᳫं हॗ त्वेव तत्पा᳘त्रम्॥
य᳘दिमाः᳘ प्रजा अ᳘नु प्रजा᳘यन्त उपांशुपात्र᳘मेव᳘ प्राणोॗ ह्युपांशुः᳘ प्राणो हि᳘ प्रजा᳘पतिः प्रजा᳘पतिॗᳫंॗ ह्येॗवेदᳫं स᳘र्वम᳘नु॥

मूलम् - विस्वरम्

एक ह त्वेव तत् पात्रम्- यदिमाः प्रजा अनु प्रजायन्ते- उपांशुपात्रमेव । प्राणो ह्युपांशुः, प्राणो हि प्रजापतिः । प्रजापतिं ह्येवेदं सर्वमनु ॥ १३ ॥

सायणः

[व्याख्यानं द्वादशे]

Eggeling
  1. But indeed there is only that one cup after which creatures are produced here, to wit, the Upāṁśu cup; for the Upāṁśu is breath, and Prajāpati is breath, and everything here is after Prajāpati.

  1. 407:1 That is, in mixed flocks. In the compound ‘ajāvika’ (Kāṇv. ajāvayaḥ, αἶγες καὶ ὄϊες) also the goats come first. ↩︎

  2. डीङ् विहायसां गतौ अतिशययेन (!) उच्चैर्गछन्ति marginal gloss in A. ↩︎

  3. 407:2 Perhaps ‘ara’ has to be taken in the sense of ‘quick, nimble,’ instead of ‘spokes,’ and ‘ḍītara’ might mean ‘flying up,’ ‘popping up their heads,’ as opposed to ‘avācīnaśīrshan.’ ↩︎

  4. 407:3 ? Or, three (times) two, ‘dvau trīn iti;’ the Kāṇva text reads (of goats alone) ’trīṁs trīn.’ ↩︎

  5. 407:4 Or, along with, correspondingly with, anu. ↩︎

  6. 407:5 Or, connected with Indra, Indra’s own (aindra). ↩︎

  7. 407:6 The two R̥tupātras are shaped like spoon-bowls, with spouts on both sides. ↩︎

  8. 408:1 Or, smells, sniffs at them (as a cow does the calf). ↩︎

  9. ‘यद्यविर्यवस्थानीयाच्छुकादिपर्वणः’- इत्यादिः पाठश्चेत्- सुबोधः स्यादिति भाति । ↩︎