०१
विश्वास-प्रस्तुतिः
स᳘र्व्व ह वै᳘ देवाः[[!!]]॥
(ऽ) अ᳘ग्रे सदृ᳘शा आसुः स᳘र्व्वे पु᳘ण्यास्ते᳘षाᳫँ᳭ स᳘र्वेषाᳫँ᳭सदृ᳘शानाᳫँ᳭ स᳘र्व्वेषां पु᳘ण्यानां त्र᳘यो ऽकामयन्तातिष्ठा᳘वानः स्यामे᳘त्यग्निरि᳘न्द्रः सू᳘र्यः॥
मूलम् - श्रीधरादि
स᳘र्व्व ह वै᳘ देवाः[[!!]]॥
(ऽ) अ᳘ग्रे सदृ᳘शा आसुः स᳘र्व्वे पु᳘ण्यास्ते᳘षाᳫँ᳭ स᳘र्वेषाᳫँ᳭सदृ᳘शानाᳫँ᳭ स᳘र्व्वेषां पु᳘ण्यानां त्र᳘यो ऽकामयन्तातिष्ठा᳘वानः स्यामे᳘त्यग्निरि᳘न्द्रः सू᳘र्यः॥
मूलम् - Weber
स᳘र्वे ह वै᳘ देवाः᳟॥
अ᳘ग्रे सदृ᳘शा आसुः स᳘र्वे पु᳘ण्यास्ते᳘षाᳫं स᳘र्वेषाᳫं सदृशानाᳫं स᳘र्वेषाम् पु᳘ण्यानां त्र᳘यो ऽकामयन्तातिष्ठा᳘वानः स्यामे᳘त्यग्निरि᳘न्द्रः॥
मूलम् - विस्वरम्
सर्वे ह वै देवा अग्रे सदृशा आसुः- सर्वे पुण्याः । तेषां सर्वेषां सदृशानां सर्वेषां पुण्यानां त्रयो ऽकामयन्त ‘अतिष्ठावानः स्याम’ इति- अग्निः इन्द्रः सूर्यः ॥ १ ॥
सायणः
सर्वे ह वै देवा इति । एतेनातिग्राह्या नाम ग्रहाः पृष्ठ्ये षडहे विश्वजिति च विधीयन्ते 1 । ‘अतिष्ठावानः’ अतिपूर्वात् ष्ठाधातोः “आतो मनिन्क्वनिब्वनिपश्च”- (पा. सू. ३ । २ । ७४) इति वनिप् । अत्यन्यान्देवांस्तिष्ठन्तीत्यतिष्ठावानः ‘तान्’ ग्रहानतिरिक्तान् गृह्णन्तो देवाश्च ‘अतिष्ठावानो ऽभवन्’ कथं ‘यथा’ ‘एते’ अग्न्यादय (एव सर्वं लोकप्रसिद्धम्) ‘अतिष्ठेव’ तिष्ठतेर्मनिनि “आतश्चोपसर्गे”- (पा. सू. ३ । ३ । १०६ ।) इति अतिष्ठानमतिष्ठाश्चेति वा एषामस्तीत्यतिष्ठावन्त इति प्राप्ते लुप् मतुपः । इवेति वाक्यपूरणो ऽतिष्ठावान् एव भवति । ‘यस्यैवं विदुष एतान् ग्रहान् गृह्णन्ति’ 2 । क्रतुफलमेवार्थं चादाय कीर्त्यते “तान्वै पृष्ठ्ये षडहे गृह्णीयादिति” क्रत्वर्थत्वात् । तत्रैव क्रतुभावे तदेव विदुषः फलं भवति नान्यस्यात एवेति वचनात् ॥ १ ॥ २॥
Eggeling
- Now, at first the gods were all alike, all good. Of them, being all alike, all good, three desired, ‘May we be superior 5!’–Agni, Indra, and Sūrya.
०२
विश्वास-प्रस्तुतिः
(स्ते᳘) ते᳘ ऽर्चन्तः श्रा᳘म्यन्तश्चेरुः॥
(स्त᳘) त᳘ ऽएता᳘नतिग्रा᳘ह्यान्ददृशुस्तान᳘त्यगृह्णत तद्य᳘देनानत्य᳘गृह्णत त᳘स्मादतिग्रा᳘ह्या ना᳘म᳘ ते ऽतिष्ठा᳘वानो ऽभवन्य᳘थैत᳘ ऽएत᳘दति᳘ष्ठेवाति᳘ष्ठेव ह वै᳘ भवति य᳘स्यैवं᳘ विदु᳘ष ऽएतान्ग्र᳘हान् गृह्ण᳘न्ति᳘॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘ ऽर्चन्तः श्रा᳘म्यन्तश्चेरुः॥
(स्त᳘) त᳘ ऽएता᳘नतिग्रा᳘ह्यान्ददृशुस्तान᳘त्यगृह्णत तद्य᳘देनानत्य᳘गृह्णत त᳘स्मादतिग्रा᳘ह्या ना᳘म᳘ ते ऽतिष्ठा᳘वानो ऽभवन्य᳘थैत᳘ ऽएत᳘दति᳘ष्ठेवाति᳘ष्ठेव ह वै᳘ भवति य᳘स्यैवं᳘ विदु᳘ष ऽएतान्ग्र᳘हान् गृह्ण᳘न्ति᳘॥
मूलम् - Weber
ते᳘ ऽर्चन्तः श्रा᳘म्यन्तश्चेरुः॥
त᳘ एता᳘नतिग्रा᳘ह्यान्ददृशुस्तान᳘त्यगृह्णत तद्य᳘देनानत्य᳘गृह्णत त᳘स्मादतिग्रा᳘ह्या ना᳘मॗ ते ऽतिष्ठा᳘वानो ऽभवन्य᳘थैत᳘ एत᳘दतिॗष्ठेवातिॗष्ठेव ह वै᳘ भवति य᳘स्यैवं᳘ विदु᳘ष एतान्ग्र᳘हान्गृह्ण᳘न्ति॥
मूलम् - विस्वरम्
ते ऽर्चन्तः श्राम्यन्तश्चेरुः । त ऽएतानतिग्राह्यान्ददृशुः । तानत्यगृह्णत । तद्यत् एनान् अत्यगृह्णत । तस्मादतिग्राह्या नाम । ते ऽतिष्ठावानो ऽभवन् । यथैत ऽएतदतिष्ठेव । अतिष्ठेव ह वै भवति । यस्यैवं विदुष एतान्ग्रहान्गृह्णन्ति ॥ २ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- They went on praising and toiling. They saw those Atigrāhyas 4, and drew (grah) them for themselves
over and above (ati): hence the name Atigrāhyas. They became superior, even as they are now superior 6 and verily he becomes superior for whomsoever, knowing this, they draw those cups of Soma.
०३
विश्वास-प्रस्तुतिः
नो ह वा᳘ ऽइदम᳘ग्रे ऽग्नौ व्व᳘र्च आस॥
य᳘दिद᳘मस्मिन्व᳘र्चः᳘[[!!]] सो ऽकामयतेदं म᳘यि व्व᳘र्चः स्यादि᳘ति स᳘ ऽएतं ग्र᳘हमपश्यत्त᳘मगृह्णीत त᳘तो ऽस्मिन्नेतद्व᳘र्च ऽआस᳘॥
मूलम् - श्रीधरादि
नो ह वा᳘ ऽइदम᳘ग्रे ऽग्नौ व्व᳘र्च आस॥
य᳘दिद᳘मस्मिन्व᳘र्चः᳘[[!!]] सो ऽकामयतेदं म᳘यि व्व᳘र्चः स्यादि᳘ति स᳘ ऽएतं ग्र᳘हमपश्यत्त᳘मगृह्णीत त᳘तो ऽस्मिन्नेतद्व᳘र्च ऽआस᳘॥
मूलम् - Weber
नो ह वा᳘ इदम᳘ग्रे ऽग्नौ व᳘र्च आस॥
य᳘दिद᳘मस्मिॗन्व᳘र्चः सो ऽकामयतेदम् म᳘यि व᳘र्चः स्यादि᳘ति स᳘ एतं ग्र᳘हमपश्यत्त᳘मगृह्णीत त᳘तो ऽस्मिन्नेतद्व᳘र्च आस॥
मूलम् - विस्वरम्
नो ह वा ऽइदमग्रे ऽग्नौ वर्च आस- यदिदमस्मिन्वर्चः सो ऽकामयत । इदं मयि वर्चः स्यादिति । स एतं ग्रहमपश्यत् तमगृह्णीत । ततो ऽस्मिन्नेतद्वर्च आस ॥ ३ ॥
सायणः
नो ह वा इति । त्रिभिरेताभिरग्न्यादय ऋषय एषां ग्रहाणां यथासङ्ख्यं तं वै त्रिभिः ‘वर्चो’ वीर्यं भ्राजः इत्येतद्दर्शनं क्रियते । तेजांसि दीप्तयः वीर्याणि वीरयन्ति विक्रमन्ते कार्यं साधयन्ते तैरिति ॥ ३-५ ॥
Eggeling
- And at first there was not in Agni that lustre which is now in him. He desired, ‘May that lustre be in me!’ He saw this graha, and drew it for himself, and henceforth that lustre was in him.
०४
विश्वास-प्रस्तुतिः
नो ह वा᳘ ऽइदम᳘ग्र ऽइ᳘न्द्र ऽओ᳘ज आस॥
य᳘दिद᳘मस्मिन्नो᳘जः᳘ सो ऽकामयतेदं मय्यो᳘जः स्यादि᳘ति स᳘ एतं ग्र᳘हमपश्यत्त᳘मगृह्णीत त᳘तो ऽस्मिन्नेतदो᳘ज आस᳘॥
मूलम् - श्रीधरादि
नो ह वा᳘ ऽइदम᳘ग्र ऽइ᳘न्द्र ऽओ᳘ज आस॥
य᳘दिद᳘मस्मिन्नो᳘जः᳘ सो ऽकामयतेदं मय्यो᳘जः स्यादि᳘ति स᳘ एतं ग्र᳘हमपश्यत्त᳘मगृह्णीत त᳘तो ऽस्मिन्नेतदो᳘ज आस᳘॥
मूलम् - Weber
नो ह वा᳘ इदम᳘ग्र इ᳘न्द्र ओ᳘ज आस॥
य᳘दिद᳘मस्मिन्नोॗजः सो ऽकामयतेदम् मय्यो᳘जः स्यादि᳘ति स᳘ एतं ग्र᳘हमपश्यत्त᳘मगृह्णीत त᳘तो ऽस्मिन्नेतदो᳘ज आस॥
मूलम् - विस्वरम्
नो ह वा ऽइदमग्र ऽइन्द्र ऽओज आस- यदिदमस्मिन्नोजः । सो ऽकामयत । इदं मय्योजः स्यादिति । स एवं ग्रहमपश्यत् । तमगृह्णीत ततो ऽस्मिन्नेतदोज आस ॥ ४ ॥
सायणः
[व्याख्यानं तृतीये]
Eggeling
- And at first there was not in Indra that power which is now in him. He desired, ‘May that power be in me!’ He saw this graha and drew it for himself, and henceforth that power was in him.
०५
विश्वास-प्रस्तुतिः
नो ह वा᳘ ऽइदम᳘ग्रे सू᳘र्ये भ्रा᳘ज ऽआस॥
य᳘दिद᳘मस्मिन्भ्रा᳘जः सो ऽकाम᳘यतेदं म᳘यि भ्रा᳘जः स्यादि᳘ति स᳘ ऽएतं ग्र᳘हमपश्यत्त᳘मगृह्णीत त᳘तो ऽस्मिन्नेतद्भ्रा᳘ज ऽआसैता᳘नि ह वै ते᳘जाᳫँ᳭स्येता᳘नि व्वी᳘र्याण्यात्म᳘न्धत्ते य᳘स्यैवं᳘ विदु᳘ष ऽएतान्ग्र᳘हान्गृह्ण᳘न्ति॥
मूलम् - श्रीधरादि
नो ह वा᳘ ऽइदम᳘ग्रे सू᳘र्ये भ्रा᳘ज ऽआस॥
य᳘दिद᳘मस्मिन्भ्रा᳘जः सो ऽकाम᳘यतेदं म᳘यि भ्रा᳘जः स्यादि᳘ति स᳘ ऽएतं ग्र᳘हमपश्यत्त᳘मगृह्णीत त᳘तो ऽस्मिन्नेतद्भ्रा᳘ज ऽआसैता᳘नि ह वै ते᳘जाᳫँ᳭स्येता᳘नि व्वी᳘र्याण्यात्म᳘न्धत्ते य᳘स्यैवं᳘ विदु᳘ष ऽएतान्ग्र᳘हान्गृह्ण᳘न्ति॥
मूलम् - Weber
नो ह वा᳘ इदम᳘ग्रे सू᳘र्ये भ्रा᳘ज आस॥
य᳘दिद᳘मस्मिन्भ्राॗजः सो ऽकामयतेदम् म᳘यि भ्रा᳘जः स्यादि᳘ति स᳘ एतं ग्र᳘हमपश्यत्त᳘मगृह्णीत त᳘तो ऽस्मिन्नेतद्भ्रा᳘ज आसैता᳘नि ह वै ते᳘जांस्येता᳘नि वीॗर्याण्यात्म᳘न्धत्ते य᳘स्यैवं᳘ विदु᳘ष एतान्ग्र᳘हान् गृह्णन्ति॥
मूलम् - विस्वरम्
नो ह वा ऽइदमग्रे सूर्ये भ्राज आस- यदिदमस्मिन्भ्राजः । सो ऽकामयत । इदं मयि भ्राजः स्यादिति । स एतं ग्रहमपश्यत् । तमगृह्णीत । ततो ऽस्मिन्नेतद्भ्राज आस । एतानि ह वै तेजांसि । एतानि वीर्याण्यात्मन्धत्ते- यस्यैवं विदुषः एतान्ग्रहान्गृह्णन्ति ॥ ५ ॥
सायणः
[व्याख्यानं तृतीये]
Eggeling
- And at first there was not in Sūrya that splendour which is now in him. He desired, ‘May that splendour be in me!’ He saw this graha and drew it for himself, and henceforth that splendour was in him. And verily for whomsoever, knowing this, they draw those cups of Soma, he takes unto himself those same fires (energies), those same powers.
०६
विश्वास-प्रस्तुतिः
तान्वै᳘ प्रातःसवने᳘ गृह्णीयात्॥
(दा) आग्रयणं᳘ गृही᳘त्वात्मा वा᳘ ऽआग्रयणो᳘ बहु वा᳘ ऽइद᳘मात्म᳘न ऽए᳘कैकम᳘तिरिक्तं क्लोम हृदयं᳘ त्वद्य᳘त्त्वत्॥
मूलम् - श्रीधरादि
तान्वै᳘ प्रातःसवने᳘ गृह्णीयात्॥
(दा) आग्रयणं᳘ गृही᳘त्वात्मा वा᳘ ऽआग्रयणो᳘ बहु वा᳘ ऽइद᳘मात्म᳘न ऽए᳘कैकम᳘तिरिक्तं क्लोम हृदयं᳘ त्वद्य᳘त्त्वत्॥
मूलम् - Weber
तान्वै᳘ प्रातःसवने᳘ गृह्णीयात्॥
आग्रयणं᳘ गृहीॗत्वात्मा वा᳘ आग्रयणो᳘ बहु वा᳘ इद᳘मात्म᳘न ए᳘कैकम᳘तिरिक्तं क्लोमहृदयं᳘ त्वद्य᳘त्त्वत् 7 ॥
मूलम् - विस्वरम्
तान्वै प्रातःसवने गृह्णीयादाग्रयणं गृहीत्वा । आत्मा वा ऽआग्रयणः । बहु वा ऽइदमात्मन एकैकमतिरिक्तं क्लोम, हृदयं त्वत् यत्त्वत् ॥ ६ ॥
सायणः
तान्वै प्रातःसवन इति । ‘आत्मा’ शरीरस्येव ‘बहु’ अतिरिक्तमस्ति । किं किं ‘क्लोम’ शोणिताधारम् ‘हृदयं त्वत्’ त्वच्छब्दश्चशब्दार्थे । क्लोमवद्धृदयं च ‘यत् त्वत्’ अन्यत् यकृत्प्लीहादि तदात्मनो ऽतिरिक्तम् । यस्मादेकैकमतिरिक्तं लक्षयत्येकैकं पृथगवस्थितमेवेत्यर्थः । ततः किं यद्यात्मनो बह्वतिरिक्तमस्ति । एते ऽप्यतिग्राह्याः अतिरिक्ताः तेनैतेरतिरिक्तस्थान एवात्मनो ऽन्तरे भवितव्यमित्यभिप्रायः ॥ ६ ॥
Eggeling
- Let him draw them at the morning pressing, after drawing the Āgrayaṇa; for the Āgrayaṇa is the self (body), and many parts of this self are one each (and thus) over and above (the others), such as the lung 8 and heart, and others.
०७
विश्वास-प्रस्तुतिः
(न्मा᳘) मा᳘ध्यन्दिने वैनान्त्स᳘वने गृह्णीयात्॥
(दु) उ᳘क्थ्यं[[!!]] गृही᳘त्वोपाकरिष्य᳘न्वा पूतभृ᳘तो ऽय᳘ᳫं᳘ ह वा᳘ ऽअस्यैषो᳘ ऽनिरुक्त ऽआत्मा य᳘दु᳘क्थ्यः᳘ सो ऽएषा᳘ मीमाᳫँ᳘सैव᳘ प्रातःसवन᳘ ऽए᳘वैनान्गृह्णीयादाग्रयणं᳘ गृहीत्वा॥
मूलम् - श्रीधरादि
(न्मा᳘) मा᳘ध्यन्दिने वैनान्त्स᳘वने गृह्णीयात्॥
(दु) उ᳘क्थ्यं[[!!]] गृही᳘त्वोपाकरिष्य᳘न्वा पूतभृ᳘तो ऽय᳘ᳫं᳘ ह वा᳘ ऽअस्यैषो᳘ ऽनिरुक्त ऽआत्मा य᳘दु᳘क्थ्यः᳘ सो ऽएषा᳘ मीमाᳫँ᳘सैव᳘ प्रातःसवन᳘ ऽए᳘वैनान्गृह्णीयादाग्रयणं᳘ गृहीत्वा॥
मूलम् - Weber
मा᳘ध्यन्दिने वैनान्त्स᳘वने गृह्णीयात्॥
उक्थ्यं᳘ गृहीॗत्वोपाकरिष्य᳘न्वा पूतभृ᳘तो ऽय᳘ᳫं᳘ ह वा᳘ अस्यैषो᳘ ऽनिरुक्त आत्मा य᳘दुॗक्थ्यः᳘ सो एषा᳘ मीमाॗᳫंॗसैव᳘ प्रातःसवन᳘ एॗवैनान्गृह्णीयादाग्रयणं᳘ गृहीत्वा॥
मूलम् - विस्वरम्
माध्यन्दिने वैनान्त्सवने गृह्णीयात् । उक्थ्यं गृहीत्वा उपाकरिष्यन्वा पूतभृतः । अयं ह वा ऽअस्यैपो ऽनिरुक्त आत्मा- यदुक्थ्यः सो ऽएषा मीमांसैव । प्रातःसवन ऽएवैनान्गृह्णीयादाग्रयणं गृहीत्वा ॥ ७ ॥
सायणः
माध्यन्दिन इति । ‘उपाकरिष्यन्वा’ पृष्ठ्यं कुत एतत् । ते माहेन्द्रस्येवानुहोमं हूयन्त इति 9 । माहेन्द्रसंनिबन्धात्तांश्च ग्रहान् “पूतभृतो गृह्णीयात्” किं पुनः कारणम् उक्थ्यं गृहीत्वा गृहीयात् ‘अयँह वा अस्यैष’ यज्ञस्य ‘अनिरुक्त आत्मा यदुक्थ्यः’ ततः किंतेनापि (तदतिरिक्तमादित्यं बन्धमेवेत्यभिप्रायः) ॥ प्रातःसवन एवैनानिति । (यद्यपि नासासह प्रत्यासत्तिमात्रमस्ति । तथापि शरीरस्यायं क्लोमादिभिः सत्यत्वेन नाभेरित्यभिप्रायः) ॥ ७ ॥ ८ ॥
Eggeling
- Or he might draw them from the Pūtabhr̥t, at the midday pressing, after drawing the Ukthya, or when about to bespeak (the chant), for the Ukthya indeed is the same as that undefined self of his. But this is mere speculation: let him rather draw them at the morning pressing, after drawing the Āgrayaṇa.
०८
विश्वास-प्रस्तुतिः
ते᳘ माहेन्द्र᳘स्यैवा᳘नु हो᳘मᳫँ᳭ हूयन्ते॥
(न्त ऽ) एष वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केवल्यमेव᳘ स्तोत्रं नि᳘ष्केवल्यᳫँ᳭ शस्त्रमि᳘न्द्रो वै य᳘जमानो य᳘जमानस्य वा᳘ ऽएते का᳘माय गृह्यन्ते त᳘स्मान्माहेन्द्रस्यैवा᳘नु हो᳘मᳫँ᳭ हूयन्ते॥
मूलम् - श्रीधरादि
ते᳘ माहेन्द्र᳘स्यैवा᳘नु हो᳘मᳫँ᳭ हूयन्ते॥
(न्त ऽ) एष वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केवल्यमेव᳘ स्तोत्रं नि᳘ष्केवल्यᳫँ᳭ शस्त्रमि᳘न्द्रो वै य᳘जमानो य᳘जमानस्य वा᳘ ऽएते का᳘माय गृह्यन्ते त᳘स्मान्माहेन्द्रस्यैवा᳘नु हो᳘मᳫँ᳭ हूयन्ते॥
मूलम् - Weber
ते᳘ माहेन्द्र᳘स्यैवा᳘नु हो᳘मᳫं हूयन्ते॥
एष वा इ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केवल्यमेव᳘ स्तोत्रं नि᳘ष्केवल्यं शस्त्रमि᳘न्द्रो वै य᳘जमानो य᳘जमानस्य वा᳘ एते का᳘माय गृह्यन्ते त᳘स्मान्माहेन्द्र्र᳘स्यैवा᳘नु हो᳘मᳫं हूयन्ते॥
मूलम् - विस्वरम्
ते माहेन्द्रस्यैवानु होमं हूयन्ते । एष वा ऽइन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रः । अप्यस्यैतन्निष्केवल्यमेव स्तोत्रम्, निष्केवल्यं शस्त्रम् । इन्द्रो वै यजमानः । यजमानस्य वा ऽएते कामाय गृह्यन्ते । तस्मान्माहेन्द्रस्यैवानुहोमं हूयन्ते ॥ ८ ॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- They are offered after the offering of the Māhendra graha; for that, the Māhendra, is Indra’s special cup; and so are the (Nishkevalya) stotra and śastra specially his. But the sacrificer is Indra; and for the sacrificer’s benefit (these cups) are drawn: therefore they are offered after the offering of the Māhendra graha.
०९
विश्वास-प्रस्तुतिः
(न्ते ऽथा᳘) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वा᳘) अ᳘ग्ने पवस्व[[!!]] स्व᳘पा ऽअस्मे व्व᳘र्चः सुवी᳘र्यम्॥ द᳘धद्रयिं म᳘यि पो᳘षम्॥ उपयाम᳘गृहीतो ऽस्य᳘ग्नये[[!!]] त्वा व्व᳘र्चस ऽएष᳘ ते यो᳘निरग्न᳘ये त्वा व्व᳘र्चसे॥
मूलम् - श्रीधरादि
(न्ते ऽथा᳘) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वा᳘) अ᳘ग्ने पवस्व[[!!]] स्व᳘पा ऽअस्मे व्व᳘र्चः सुवी᳘र्यम्॥ द᳘धद्रयिं म᳘यि पो᳘षम्॥ उपयाम᳘गृहीतो ऽस्य᳘ग्नये[[!!]] त्वा व्व᳘र्चस ऽएष᳘ ते यो᳘निरग्न᳘ये त्वा व्व᳘र्चसे॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
अग्ने प᳘वस्व स्व᳘पा अस्मे व᳘र्चः सुवी᳘र्यम् द᳘धद्रयिम् म᳘यि पो᳘षम् उपयाम᳘गृहीतो ऽस्यग्न᳘ये त्वा व᳘र्चस एष᳘ ते यो᳘निरग्न᳘ये त्वा व᳘र्चसे॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव । “अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधद्रयिं मयि पोषम् । उपयामगृहीतो ऽस्यग्नये त्वा वर्चस ऽएष ते योनिरग्नये त्वा वर्चसे”- (वा० सं० ८ । ३८) इति ॥ ९ ॥
सायणः
अथात इति । ‘अग्ने पवस्व’ इत्यादीनां तु मन्त्र एवार्थलिङ्गक्रमाभ्यामेव तु ग्रहणसादनेष्वपि नियोज्यः ॥ ९-११ ॥
Eggeling
- He thus draws them therefrom [the first with
Vāj. S. VIII, 38; Rig-veda IX, 66, 21] 10, ‘O Agni, skilful in works, become thou pure, bestowing upon us lustre and manly vigour, and upon me health and wealth!–Thou art taken with a support: thee to Agni, for lustre!–This is thy womb: thee to Agni, for lustre!’
१०
विश्वास-प्रस्तुतिः
(स ऽ) उ᳘त्तिष्ठन्नो᳘जसा[[!!]]॥
सह᳘ पीत्वी शि᳘प्रे ऽअवेपयः॥ सो᳘ममिन्द्र चमू᳘सुतम्॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वौ᳘जस ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वौ᳘जसे॥
मूलम् - श्रीधरादि
(स ऽ) उ᳘त्तिष्ठन्नो᳘जसा[[!!]]॥
सह᳘ पीत्वी शि᳘प्रे ऽअवेपयः॥ सो᳘ममिन्द्र चमू᳘सुतम्॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वौ᳘जस ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वौ᳘जसे॥
मूलम् - Weber
उत्ति᳘ष्ठन्नो᳘जसा॥
सह᳘ पीत्वी शि᳘प्रे अवेपयः सो᳘ममिन्द्र चमू᳘सुतम् उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वौ᳘जस एष᳘ ते यो᳘निरि᳘न्द्राय त्वौ᳘जसे॥
मूलम् - विस्वरम्
“उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे ऽअवेपयः । सोममिन्द्र चमू सुतम् । उपयामगृहीतो ऽसीन्द्राय त्वौजस ऽएष ते योनिरिन्द्राय त्वौजसे”- (वा० सं० ८ । ३९) इति ॥ १० ॥
सायणः
[व्याख्यानं नवमे]
Eggeling
- [The second with Vāj. S. VIII, 39; Rig-veda VIII, 76, 10], ‘Uprising by thy power didst thou move thy jaws, O Indra, drinking the cup-drawn juice!–Thou art taken with a support: thee to Indra for power!–This is thy womb: thee to Indra for power!’
११
विश्वास-प्रस्तुतिः
(से᳘ ऽदृ) अ᳘दृश्रमस्य केत᳘वः॥
(वो) व्वि᳘रश्म᳘यो ज᳘ना२ँ॥ अ᳘नु॥ भ्रा᳘जन्तो अग्न᳘यो यथा॥ उपयाम᳘गृहीतो ऽसि सू᳘र्याय त्वा भ्राजा᳘यैष᳘ ते यो᳘निः सू᳘र्याय त्वा भ्राजाये᳘ति॥
मूलम् - श्रीधरादि
(से᳘ ऽदृ) अ᳘दृश्रमस्य केत᳘वः॥
(वो) व्वि᳘रश्म᳘यो ज᳘ना२ँ॥ अ᳘नु॥ भ्रा᳘जन्तो अग्न᳘यो यथा॥ उपयाम᳘गृहीतो ऽसि सू᳘र्याय त्वा भ्राजा᳘यैष᳘ ते यो᳘निः सू᳘र्याय त्वा भ्राजाये᳘ति॥
मूलम् - Weber
अ᳘दृश्रमस्य केत᳘वः॥
वि᳘ रश्म᳘यो ज᳘नां अ᳘नु भ्रा᳘जन्तो अग्न᳘यो यथा उपयाम᳘गृहीतो ऽसि सू᳘र्याय त्वा भ्राजा᳘यैष᳘ ते यो᳘निः सू᳘र्याय त्वा भ्राजाये᳘ति॥
मूलम् - विस्वरम्
“अदृश्रमस्य केतवः विरश्मयो जनां २ ॥ अनु । भ्राजन्तो अग्नयो यथा । उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वां भ्राजाय”- (वा० सं० ८ । ४०) इति ॥ ११ ॥
सायणः
[व्याख्यानं नवमे]
Eggeling
- [The third with Vāj. S. VIII, 40; Rig-veda I, 50, 3], ‘His beacons have appeared, his beams, wide and far over the people, shining splendidly like fires!–Thou art taken with a support: thee to Sūrya for splendour!–This is thy womb: thee to Sūrya for splendour!’
१२
विश्वास-प्रस्तुतिः
ते᳘षां भक्षः᳘[[!!]]॥
(क्षो᳘ ऽग्ने) अ᳘ग्ने व्वर्चस्विन्व᳘र्चस्वांस्त्वं᳘ देवेष्व᳘सि व्व᳘र्चस्वानहं᳘ मनु᳘ष्येषु भूयासमि᳘न्द्रौजिष्ठौ᳘जिष्ठस्त्वं᳘ देवेष्वस्यो᳘जिष्ठो ऽहं᳘ मनु᳘ष्येषु भूयासम्॥ सू᳘र्य भ्राजिष्ठ भ्रा᳘जिष्ठस्त्वं᳘ देवेष्व᳘सि भ्रा᳘जिष्ठो ऽहं᳘ मनु᳘ष्येषु भूयासमि᳘त्येतानि[[!!]] ह वै भ्रा᳘जाᳫं᳭स्येता᳘नि व्वी᳘र्याण्यात्म᳘न्धत्ते य᳘स्यैवं᳘ व्विदु᳘ष ऽएतान्ग्र᳘हान्गृह्ण᳘न्ति॥
मूलम् - श्रीधरादि
ते᳘षां भक्षः᳘[[!!]]॥
(क्षो᳘ ऽग्ने) अ᳘ग्ने व्वर्चस्विन्व᳘र्चस्वांस्त्वं᳘ देवेष्व᳘सि व्व᳘र्चस्वानहं᳘ मनु᳘ष्येषु भूयासमि᳘न्द्रौजिष्ठौ᳘जिष्ठस्त्वं᳘ देवेष्वस्यो᳘जिष्ठो ऽहं᳘ मनु᳘ष्येषु भूयासम्॥ सू᳘र्य भ्राजिष्ठ भ्रा᳘जिष्ठस्त्वं᳘ देवेष्व᳘सि भ्रा᳘जिष्ठो ऽहं᳘ मनु᳘ष्येषु भूयासमि᳘त्येतानि[[!!]] ह वै भ्रा᳘जाᳫं᳭स्येता᳘नि व्वी᳘र्याण्यात्म᳘न्धत्ते य᳘स्यैवं᳘ व्विदु᳘ष ऽएतान्ग्र᳘हान्गृह्ण᳘न्ति॥
मूलम् - Weber
ते᳘षाम् भ᳘क्षः॥
अ᳘ग्ने वर्चस्विन्व᳘र्चस्वांस्त्वं᳘ देवेष्व᳘सि व᳘र्चस्वानह᳘म् मनुॗष्येषु भूयासमि᳘न्द्रौजिष्ठौ᳘जिष्ठस्त्वं᳘ देवेष्वस्यो᳘जिष्ठो ऽह᳘म् मनुॗष्येषु भूयासᳫं सू᳘र्य भ्राजिष्ठ भ्रा᳘जिष्ठस्त्वं᳘ देवेष्व᳘सि भ्रा᳘जिष्ठो ऽह᳘म् मनुॗष्येषु भूयासमि᳘त्येता᳘नि ह वै भ्रा᳘जांस्येता᳘नि वीॗर्याण्यात्म᳘न्धत्ते य᳘स्यैवं᳘ विदु᳘ष एतान्ग्र᳘हान् गृह्ण᳘न्ति॥
मूलम् - विस्वरम्
तेषां भक्षः । “अग्ने वर्चस्विन्वर्चस्वांस्त्वं देवेष्वसि, वर्चस्वानहं मनुष्येषु भूयासम् । इन्द्रौजिष्ठौजिष्ठस्त्वं देवेष्वसि, ओजिष्ठोहं मनुष्येषु भूयासम् । सूर्य भ्राजिष्ठ भ्राजिष्ठस्त्वं देवेष्वसि, भ्राजिष्ठो ऽहं मनुष्येषु भूयासम्”- (वा. सं. ८ । ३८-४०) इति । एतानि ह वै भ्राजांसि । एतानि वीर्याण्यात्मन्धत्ते । यस्यैवं विदुष एतान्ग्रहान्गृह्णन्ति ॥ १२ ॥
सायणः
तेषां भक्ष इति 11 । अत्रापि लिङ्गक्रमाभ्यामेव विनियोगः । यजमानस्यैव च भक्षो मन्त्रवर्णात् ‘आत्मन्धत्ते’ इति च वाक्यशेषात् ॥ १२ ॥
Eggeling
- The drinking of these (cups is performed by the sacrificers with the resp. texts), ‘O lustrous Agni, lustrous art thou among the gods: may I be lustrous among men!–Most powerful Indra, most powerful art thou among the gods: may I be the most powerful among men!–Most splendid Sūrya, most splendid art thou among the gods: may I be the most splendid among men!’ And, verily, these same splendours, these same powers he takes unto himself for whomsoever, knowing this, they draw these cups.
१३
विश्वास-प्रस्तुतिः
तान्वै पृ᳘ष्ठ्ये षडहे᳘ गृह्णीयात्॥
(त्पू᳘) पू᳘र्व्वे त्र्यह᳘ ऽआग्नेय᳘मेव᳘ प्रथमे᳘हन्नैन्द्रं᳘ द्विती᳘ये सौर्यं᳘ तृती᳘य ऽएव᳘मे᳘वान्वहम्[[!!]]॥
मूलम् - श्रीधरादि
तान्वै पृ᳘ष्ठ्ये षडहे᳘ गृह्णीयात्॥
(त्पू᳘) पू᳘र्व्वे त्र्यह᳘ ऽआग्नेय᳘मेव᳘ प्रथमे᳘हन्नैन्द्रं᳘ द्विती᳘ये सौर्यं᳘ तृती᳘य ऽएव᳘मे᳘वान्वहम्[[!!]]॥
मूलम् - Weber
तान्वै पृ᳘ष्ठ्ये षडहे᳘ गृह्णीयात्॥
पूर्वे त्र्यह᳘ आग्नेय᳘मेव᳘ प्रथमे᳘ ऽहन्नैन्द्रं᳘ द्विती᳘ये सौर्यं᳘ तृती᳘य एव᳘मेॗवान्वह᳘म्॥
मूलम् - विस्वरम्
तान्वै पृष्ठ्ये षडहे गृह्णीयात् । पूर्व त्र्यहे- आग्नेयमेव प्रथमे ऽहन् । ऐन्द्रं द्वितीये । सौर्यं तृतीये- एवमेवान्वहम् ॥ १३ ॥
सायणः
तान्वै पृष्ठ्य इति । प्रथमे माहेन्द्रस्तोत्रं तत्साधनत्वाद्रथन्तरादीनि सामानि पृष्ठानि तत्सम्बन्धादहानि षट् पृष्टानि तेषां समूहः पृष्ठ्यः षडहः । “तस्य समूहः” (पा. सू. ४ । २ । ३७ ।) इति प्रकृत्य यत्प्रकरणे- पृष्ठ्यादिभ्य उपसङ्ख्यानमाह- इति । प्रातःसवनसम्बन्धादन्यदारभ्य यावत्प्रकृतिकमिदं कर्मविशेषसम्बन्धवचनम् । तानु हैक इति । यद्युत्तरे त्र्यहे ग्रहीष्यन्स्यादुत्तरे त्र्यहे गृह्णातीत्यतो वचनात्ततः पूर्वे गृहीत्वैव गृह्णीयात् । विश्वजिति नाम्ना सर्वपृष्ठशब्दो ऽत्र पृष्ठसाधनै रथन्तरादिषु सामसु वर्त्तते । सर्वाणि पृष्ठसाधनानि रथन्तरादीनि यस्य सन्ति स सर्वपृष्ठस्तस्मिन्नेकाह एवैते गृह्यन्त इति विनियोगान्तरम् ॥ १३ ॥ १४ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमाध्याये चतुर्थं ब्राह्मणम् ॥ ४-५-४ ॥
Eggeling
- Let him draw them on the first three days of the Pr̥shṭḥya shaḍaha 12; namely, the Agni cup on
the first day, the Indra cup on the second, the Sūrya cup on the third–thus one day by day.
१४
विश्वास-प्रस्तुतिः
ता᳘नु है᳘क ऽउ᳘त्तरे त्र्यहे᳘ गृह्णन्ति॥
त᳘दु त᳘था न᳘ कुर्यात्पू᳘र्व्व ऽए᳘वैनांस्त्र्यहे᳘ गृह्णीयाद्यद्यु᳘त्तरे त्र्यहे᳘ ग्रही᳘ष्यन्त्स्यात्पू᳘र्व्व ऽए᳘वैनांस्त्र्यहे᳘ गृहीत्वाथो᳘त्तरे त्र्यहे᳘ गृह्णीया᳘देव᳘मेव᳘ यथापूर्व्वं᳘ व्विश्वजि᳘ति स᳘र्व्वपृष्ठ ऽएकाह᳘ ऽएव᳘ गृह्यन्ते॥
मूलम् - श्रीधरादि
ता᳘नु है᳘क ऽउ᳘त्तरे त्र्यहे᳘ गृह्णन्ति॥
त᳘दु त᳘था न᳘ कुर्यात्पू᳘र्व्व ऽए᳘वैनांस्त्र्यहे᳘ गृह्णीयाद्यद्यु᳘त्तरे त्र्यहे᳘ ग्रही᳘ष्यन्त्स्यात्पू᳘र्व्व ऽए᳘वैनांस्त्र्यहे᳘ गृहीत्वाथो᳘त्तरे त्र्यहे᳘ गृह्णीया᳘देव᳘मेव᳘ यथापूर्व्वं᳘ व्विश्वजि᳘ति स᳘र्व्वपृष्ठ ऽएकाह᳘ ऽएव᳘ गृह्यन्ते॥
मूलम् - Weber
ता᳘नु है᳘क उ᳘त्तरे त्र्यहे᳘ गृह्णन्ति॥
त᳘दु त᳘था न᳘ कुर्यात्पू᳘र्व एॗवैनांस्त्र्यहे᳘ गृह्णीयाद्यद्यु᳘त्तरे त्र्यहे᳘ ग्रही᳘ष्यन्त्स्यात्पू᳘र्व एॗवैनांस्त्र्यहे᳘ गृहीत्वाथो᳘त्तरे त्र्यहे᳘ गृह्णीयादेव᳘मेव᳘ यथापूर्वं᳘ विश्वजि᳘ति स᳘र्वपृष्ठ एकाह᳘ एव᳘ गृह्यन्ते॥
मूलम् - विस्वरम्
तानु हैक ऽउत्तरे त्र्यहे गृह्णन्ति । तदु तथा न कुर्यात् । पूर्व ऽएवैनांस्त्र्यहे गृह्णीयाद् । यद्युत्तरे त्र्यहे ग्रहीष्यन्त्स्यात्- पूर्व ऽएवैनांस्त्र्यहे गृहीत्वा- अथोत्तरे त्र्यहे गृह्णीयात् । एवमेव यथापूर्वं विश्वजिति- सर्वपृष्ठ ऽएकाह ऽएव गृह्यन्ते ॥ १४ ॥ इति पृष्ठ्यः षडहः । विश्वजिदेकाहो वा ॥
सायणः
[व्याख्यानं त्रयोदशे]
Eggeling
- Some 13, however, draw them on the last three days; but let him not do so: let him rather draw them on the first three days. But should he intend to draw them on the last three days, let him first draw them on the first three days and let him then draw them on the last three days. In like manner they are drawn (all three) in their proper order, on one and the same day, at the Viśvajit 14 with all the Pr̥shṭḥas.
-
पृष्ठ्यः षडहः प्रथमो ऽग्निष्टोमश्चतुर्थः षोडश्युक्थ्या इतरे । का. श्रौ. सू. १२-४७ । ↩︎
-
तत्रातिग्राह्यग्रहणं त्र्यहे पूर्वे ऽग्ने पवस्वोत्तिष्ठन्नुश्रमित्यन्वहमेवैकम् । उत्तरे वा । उत्तरे त्र्यहे वेति पक्षांतरम् । उभयोर्वा उभयोस्त्र्यहयोर्वा ग्रहणमिति च पक्षांतरम् । एवंच पक्षत्रयं विकल्पेन इति कर्कमतम् । संप्रदाये तु पक्षद्वयम् पूर्वे वा त्र्यहे उभयोर्वेति । का. श्रौ. सू. ४८-५० । ↩︎
-
402:2 The Dvādaśāha, or twelve days’ performance, forms the connecting link between the so-called Ahīna sacrifices (consisting of between two and twelve press-days) and the sattras, or sacrificial sessions (of twelve press-days and upwards); since it can be performed as one or the other. As a sattra (which seems to be its usual character) it consists of the Daśarātra, or ten nights’ (or days’) period, preceded and followed by an Atirātra, as the prāyaṇīya (opening) and udayanīya (concluding) days. The Daśarātra, on its part, consists of three tryahas (or tridua), viz. a Pr̥shṭḥya shaḍaha (see note 4), and three Ukthya days, the so-called Chandomas (on which see Haug, Ait. Br. Transl. p. 347). These are followed by an Atyagnishṭoma day, called Avivākya (i.e. on which there should be ’no dispute, or quarrel’). ↩︎
-
402:4 I.e. cups of Soma ’to be drawn over and above’ (Weber, Ind. Stud. IX, 235; for a different explanation see Haug, Ait. Br. Transl. p. 490). These three grahas are required at the Pr̥shṭḥya shaḍaha, which forms part of the Dvādaśāha (see note 3), and of sacrificial sessions generally. The shaḍaha, or period of six Soma days, which (though itself consisting of two tryaha, or tridua) may be considered as forming a kind of unit in sattras, or sacrificial sessions, is of two kinds, viz. the Abhiplava shaḍaha and the Pr̥shṭḥya shaḍaha. Both require (for the Hotr̥’s pr̥shṭḥa-stotra at the midday pressing) the use of the Rathantara-sāman on uneven, and that of the Br̥hat-sāman on even days. The chief difference between them is that while the pr̥shṭḥa-stotras of the Abhiplava are performed in the ordinary (Agnishṭoma) way, the Pr̥shṭḥya shaḍaha requires their performance in the proper pr̥shṭḥa form, see p. 339, note 2. Besides, while the Abhiplava shaḍaha consists of four Ukthya days, preceded and followed by one Agnishṭoma day; the first day of the Pr̥shṭḥya shaḍaha is an Agnishṭoma, the fourth a Shoḍaśin, the remaining four days being Ukthyas. There is also a difference between the two in regard to the stomas, or forms of chanting, used; for while the Pr̥shṭḥya requires successively one of the six principal stomas (from the Trivr̥t up to the Trayastriṁśa, as given p. 308, note 2) for each day, the Abhiplava requires the first four stomas (Trivr̥t to Ekaviṁśa) for each day, though in a different order. In this respect, three groups or forms are assumed for the performance of the stotras at the Agnishṭoma and Ukthya, viz. the Jyotishṭoma [a. Bahishpavavamāna in the Trivr̥t; b. Ājyastotras and c. Mādhyandina-pavamāna in the Pañcadaśa; d. the Pr̥shṭḥa-stotras and e. Ārbhava-pavavamāna in the Saptadaśa; and f. the Agnishṭoma sāman in the Ekaviṁśa stoma]; the Goshṭoma [a. Pañcadaśa; b. Trivr̥t; c. Saptadaśa; e. f. (and g. Ukthastotras) Ekaviṁśa]; and Āyushṭoma [a. Trivr̥t; b. Pañcadaśa; c. d. Saptadaśa; e. f. g. Ekaviṁśa]. These forms are distributed over the two tridua of the Abhiplava in the order: Jyotishṭoma, Goshṭoma, Āyushṭoma; Goshṭoma, Āyushṭoma, Gyotishṭoma. ↩︎ ↩︎
-
402:3 Ati-tishṭḥāvānaḥ, lit. ‘standing forth over (all others,’ see IV, 5, 3, 2). In this, as in the preceding Brāhmaṇa, the prefix ati has to do service repeatedly for etymological and symbolical purposes. ↩︎
-
403:1 Lit. even as they are now the superiority, i.e. a superior power. ↩︎
-
त्वद्यत्वत् AB. ↩︎
-
404:1 That is, the right lung (kloman), the left lung being called by a different name. See St. Petersb. Dict. s. v. ↩︎
-
माहेन्द्रमनुहोमः । अतिग्राह्याणामिति शेषः । का० श्रौ० सू० १२ । ५१ । ↩︎
-
405:1 The Kāṇvas use a different formula, viz. Rig-veda IX, 66, 19. See Vāj. S. ed. Weber, p. 254 (XII). ↩︎
-
अग्ने वर्चस्विन्निन्द्रौजिष्ठ सूर्य भ्राजिष्ठेति भक्षणं यजमानैः । का० श्रौ० सू० १२ । ५२ । ↩︎
-
405:2 See page 402, note 4. In conjunction with the Rathantara (Sāma-veda II, 30-31) and Br̥hat (II, 159-60) sāmans, the other four principal pr̥shṭḥa sāmans–viz. the Vairūpa (II, 212-13), Vairāja (II, 277-9), Śākvara (II, 1151-3; or Mahānāmnī, 1-3), and Raivata (II, 434-6)–are used respectively by the Hotr̥ on the last four days of the shaḍaha. As regards the Hotr̥’s assistants, while the Maitrāvaruṇa always uses the same sāman, as at the Agnishṭoma, viz. the Vāmadevya (II, 32-34), the sāmans used by the other Hotrakas are given in the Sāma-veda immediately after the respective sāman of the Hotr̥, mentioned above. ↩︎
-
406:1 The Kāṇva text ascribes this practice to the Carakas. ↩︎
-
406:2 Regarding the sacrificial session, called Gavām ayana, of which the Viśvajit forms part, see p. 426, note 3. ↩︎