०१
विश्वास-प्रस्तुतिः
इ᳘न्द्रो ह वै᳘ षोडशी[[!!]]॥
तं नु᳘ सकृदि᳘न्द्रं भूतान्य᳘त्यरिच्यन्त प्रजा वै᳘ भूता᳘नि ता᳘ हैनेन सदृग्भ᳘वमिवासुः॥
मूलम् - श्रीधरादि
इ᳘न्द्रो ह वै᳘ षोडशी[[!!]]॥
तं नु᳘ सकृदि᳘न्द्रं भूतान्य᳘त्यरिच्यन्त प्रजा वै᳘ भूता᳘नि ता᳘ हैनेन सदृग्भ᳘वमिवासुः॥
मूलम् - Weber
इ᳘न्द्रो ह वै᳘ षोडशी᳟॥
तं नु᳘ सकृदि᳘न्द्रम् भूतान्य᳘त्यरिच्यन्त प्रजा वै᳘ भूता᳘नि ता᳘ हैनेन सदृग्भ᳘वमिवासुः॥
मूलम् - विस्वरम्
अथ षोडशी ग्रहः ।
इन्द्रो ह वै षोडशी तं नु सकृदिन्द्रं भूतान्यत्यरिच्यन्त । प्रजा वै भूतानि । ता हैनेन सम्भवमिवासुः ॥ १ ॥
सायणः
इन्द्रो ह वै षोडशीति 1 । ‘षोडशी’ नाम ग्रहो ऽत्र ज्योतिष्टोमो ग्रह एव काम्यो विधीयते तदर्थमितिहासोपन्यासः । ‘इन्द्रः’ देवराजः षोडशावयववशाकर्षणश्चक्षुः षोडशः सो ऽस्यास्तीति ‘षोडशी’ तच्छब्दः श्रूयत इत्यध्याहारः । यो ऽयं षोडशीन्द्रः । (प्रसिद्धानसकृन्नित्यमेव प्रसिद्धः ।) प्राक् ‘भूतानि’ तान्येवेच्छाकामाय ‘अत्यरिच्यन्त’ । ज्ञानैश्वर्यप्रभावैः । ‘प्रजा वै भूतानि’ देवराजव्यतिरिक्ताः ‘प्रजाः’ ‘भूतानि’ ‘ताः’ च प्रजा ‘एनेन’ इन्द्रेण ‘सदृग्भवम्’ ‘आसुः’ सदृश्यो भूत्वा भूत्वा आसुः स्थिताः । इन्द्र अग्निष्टोमाभ्यां ईजे ता ऽअपि ताभ्यामीजिरे एवेत्यभिप्रायः ॥ १ ॥
Eggeling
- The Shodaśin 2 (graha) forsooth is Indra. Now, at one time the beings surpassed (ati-ric)
Indra–the beings being the creatures–they were in a state of equality, as it were, with him.
०२
विश्वास-प्रस्तुतिः
(रि᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षां᳘चक्रे॥
कथं᳘ न्वह᳘मिदᳫँ᳭[[!!]] स᳘र्व्वम᳘तितिष्ठेयमर्व्वा᳘गेव म᳘दिदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यादि᳘ति स᳘ ऽएतं ग्र᳘हमपश्यत्त᳘मगृह्णीत स᳘ इदᳫँ᳭स᳘र्व्वमेवा᳘त्यतिष्ठदर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वमभवत्स᳘र्व्वᳫँ᳭ ह वा᳘ ऽइदम᳘तितिष्ठत्यर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वं भवति य᳘स्यैवं᳘ व्विदु᳘ष ऽएतं ग्र᳘हं गृह्ण᳘न्ति॥
मूलम् - श्रीधरादि
(रि᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षां᳘चक्रे॥
कथं᳘ न्वह᳘मिदᳫँ᳭[[!!]] स᳘र्व्वम᳘तितिष्ठेयमर्व्वा᳘गेव म᳘दिदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यादि᳘ति स᳘ ऽएतं ग्र᳘हमपश्यत्त᳘मगृह्णीत स᳘ इदᳫँ᳭स᳘र्व्वमेवा᳘त्यतिष्ठदर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वमभवत्स᳘र्व्वᳫँ᳭ ह वा᳘ ऽइदम᳘तितिष्ठत्यर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वं भवति य᳘स्यैवं᳘ व्विदु᳘ष ऽएतं ग्र᳘हं गृह्ण᳘न्ति॥
मूलम् - Weber
इ᳘न्द्रो ह वा᳘ ईक्षां᳘ चक्रे॥
कथं न्व᳘ह᳘मिदᳫं स᳘र्वम᳘तितिष्ठेयमर्वा᳘गेव म᳘दिदᳫं स᳘र्वᳫं स्यादि᳘ति स᳘ एतं ग्र᳘हमपश्यत्त᳘मगृह्णीत स᳘ इदᳫं स᳘र्वमेवा᳘त्यतिष्ठदर्वा᳘गेॗवास्मादिदᳫं स᳘र्वमभवत्स᳘र्वᳫं ह वा᳘ इदम᳘तितिष्ठत्यर्वा᳘गेवास्मादिदᳫं स᳘र्वम् भवति य᳘स्यैवं᳘ विदु᳘ष एतं ग्र᳘हं गृह्ण᳘न्ति॥
मूलम् - विस्वरम्
इन्द्रो ह वा ऽईक्षाञ्चक्रे ‘कथं न्वहमिदं सर्वमतितिष्ठेयम् । अर्वागेव मदिदं सर्वं स्याद्’ इति । स एतं ग्रहमपश्यत् । तमगृह्णीत । स इदं सर्वमेवात्यतिष्ठत्, अर्वागेवास्मादिदं सर्वमभवत् । सर्वं ह वा ऽइदमतितिष्ठति, अर्वागेवास्मादिदं सर्वं भवति यस्यैवं विदुष एवं ग्रहं गृह्णन्ति ॥ २ ॥
सायणः
अथैवं सति- इन्द्रो ह वा इति । स एतं ग्रहमिति । यद्यपि पूर्वं नोपन्यस्तो ग्रहस्तथाप्यतिष्ठेत्यनया पुरोरुचा क्रमादुपस्थितायाः प्रत्यक्षवन्निर्दिश्यते वक्ष्यमाणम् । स इद ँ सर्वमेवात्यतिष्ठदिति । यदस्मादिन्द्रात् कर्मविद्याभावनाभिर्निकृष्टं तत् सर्वमतिक्रम्य अतिष्ठत् । सर्व ँ ह वा इदमिति । ‘तिष्ठति’ इति फलवचनम् । ननु च तं वै प्रातःसवने गृह्णीयादिति प्रातःसवनान्तर्गतो ऽयं क्रमाज्ज्योतिष्टोमेन ग्रहीष्यते । ततश्च परार्थे फलश्रुतिरर्थवादः स्यात् यथा ऽतिग्राह्येषु प्रवर्ग्ये च । नैतदेवं, तथा हि सति क्रत्वर्थो ऽयं नित्यः स्यात्तत्र ‘यद्यग्निष्टोमः स्यात् । यद्युक्थ्यः स्यात् । यदि षोडशी स्यात्’ इत्यनित्यता । दर्शनानि विहस्येरन् शाखान्तरवत्स्फुट एव स्यात्कामनिर्द्देशः । षोडशिना वीर्यकामः स्तुवीत । अतिग्राह्यास्तु नित्याः पृष्ठ्ये विश्वजिति च । प्रवर्ग्यो ऽपि नित्य एव चानेन क्वचित्प्रथमप्रयोगादौ निरस्त इति विशेषः ॥ २ ॥
Eggeling
- Indra then bethought himself, ‘How can I stand forth over everything here, and how may everything here be beneath me?’ He saw that graha, and drew it for himself. Then he stood forth over everything here, and everything here was
beneath him. And, verily, for whomsoever, knowing this, they draw that cup of Soma, he stands forth over everything here, and everything here is beneath him.
०३
विश्वास-प्रस्तुतिः
त᳘स्मादेतदृ᳘षिणाभ्या᳘नूक्तम्॥
न᳘ ते महित्वम᳘नुभूद᳘ध द्यौर्य᳘दन्य᳘या स्फि᳘ग्या क्षाम᳘वस्था ऽइ᳘ति न᳘ ह वा᳘ ऽअस्यासौ द्यौ᳘रन्यतरां᳘ चन᳘ स्फिचीम᳘नुबभूव त᳘थेदᳫँ᳭स᳘र्व्वमेवा᳘त्यतिष्ठदर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वमभवत्स᳘र्वᳫँ᳭ ह वा᳘ ऽइदम᳘तितिष्ठत्यर्व्वा᳘गे᳘वा᳘स्मादिदᳫं᳭ स᳘र्व्वं भवति यस्यैवं᳘ विदु᳘ष ऽएतं ग्र᳘हं गृह्ण᳘न्ति॥
मूलम् - श्रीधरादि
त᳘स्मादेतदृ᳘षिणाभ्या᳘नूक्तम्॥
न᳘ ते महित्वम᳘नुभूद᳘ध द्यौर्य᳘दन्य᳘या स्फि᳘ग्या क्षाम᳘वस्था ऽइ᳘ति न᳘ ह वा᳘ ऽअस्यासौ द्यौ᳘रन्यतरां᳘ चन᳘ स्फिचीम᳘नुबभूव त᳘थेदᳫँ᳭स᳘र्व्वमेवा᳘त्यतिष्ठदर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वमभवत्स᳘र्वᳫँ᳭ ह वा᳘ ऽइदम᳘तितिष्ठत्यर्व्वा᳘गे᳘वा᳘स्मादिदᳫं᳭ स᳘र्व्वं भवति यस्यैवं᳘ विदु᳘ष ऽएतं ग्र᳘हं गृह्ण᳘न्ति॥
मूलम् - Weber
त᳘स्मादेतदृ᳘षिणाभ्या᳘नूक्तम्॥
न᳘ ते महित्वम᳘नुभूद᳘ध द्यौर्य᳘दन्य᳘या स्फिॗग्या क्षाम᳘वस्था इ᳘ति न᳘ ह वा अस्यासौ द्यौ᳘रन्यतरां᳘ चन᳘ स्फिचीम᳘नुबभूव त᳘थेदᳫं स᳘र्वमेवा᳘त्यतिष्ठदर्वा᳘गेॗवास्मादिदᳫं स᳘र्वमभवत्स᳘र्वᳫं ह वा᳘ इदम᳘तितिष्ठत्यर्वा᳘गेॗवास्मादिदᳫं स᳘र्वम् भवति यस्यैवं᳘ विदु᳘ष एतं ग्र᳘हं गृह्ण᳘न्ति 3 ॥
मूलम् - विस्वरम्
तस्मादेतदृषिणाभ्यनूक्तम्- “न ते महित्वमनुभूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः” इति । न ह वा ऽअस्यासौ द्यौरन्यतराञ्चन स्फिगीमनुबभूव । तथेदं सर्वमेवात्यतिष्ठत्, अर्वागेवास्मादिदं सर्वमभवत् । सर्वं ह वा हदमतितिष्ठति । अर्वागेवास्मादिदं सर्वं भवति- यस्यैवं विदुष एतं ग्रहं गृह्णन्ति ॥ ३ ॥
सायणः
तस्मादेतदृषिणेति । मैत्रेणैतदिन्द्रस्यातिष्ठातृत्वम् ‘अभ्यनूक्तम्’ ‘न ते महित्वम्’ इह उच्यते- हे भगवन्निन्द्र ! विजानतः बहूनि जातानि मरुदादीन्यस्येति विजानतः । तव महित्वं नानुभवति ‘द्यौः’ ‘अध’ अतः कारणात् चन ‘यत्’ यस्मात् कारणात् महाबलतया वलमिवात्मानमाचरितव्या एतव्या बलवत्तरा ? अहन्नहि परिशयानमर्त्या जायमानं नु विधातव्या । “न ते महित्वमनुभूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः” इति नैव यस्यैकमपि सव्यां दक्षिणां वा स्फिगामन्तमनुभूता । “अनुर्लक्षणे”- (पा. सू. १ । ४ । ८४ ।) इति कर्मप्रवचनीयः । यस्मिन्नुपदेशस्य निष्पन्नस्य का स्फिगी तमपि प्रदेशमुन्नतया द्यौर्न प्राप्तेत्यर्थः ॥ ३ ॥
Eggeling
- Wherefore it has been said by the R̥shi (Rig-veda III, 32, 11), ‘The sky hath not reached thy greatness, when thou didst rest on the earth with thine other thigh,’–for, verily, yonder sky did not reach up to his other thigh 4: so did he stand forth over everything here, and everything here was beneath him. And, verily, for whomsoever, knowing this, they draw that cup of Soma, he stands forth over everything here, and everything here is beneath him.
०४
विश्वास-प्रस्तुतिः
तं वै ह᳘रिवत्य ऽर्चा᳘ गृह्णा᳘ति॥
ह᳘रिवतीषु स्तुवते ह᳘रिवतीर᳘नुशᳫं᳭सति व्वी᳘र्यं[[!!]] वै ह᳘र इन्द्रो᳘ ऽसुराणाᳫं᳭ सप᳘त्नानाᳫँ᳭ स᳘मवृङ्क्त त᳘थो ऽए᳘वैष᳘ एत᳘द्वी᳘र्यᳫँ᳭[[!!]] ह᳘रः सप᳘त्नानाᳫँ᳭ सं᳘वृङ्क्ते त᳘स्माद्ध᳘रिवत्य ऽर्चा᳘ गृह्णा᳘ति ह᳘रिवतीषु स्तुवते ह᳘रिवतीर᳘नुशᳫँ᳭ सति॥
मूलम् - श्रीधरादि
तं वै ह᳘रिवत्य ऽर्चा᳘ गृह्णा᳘ति॥
ह᳘रिवतीषु स्तुवते ह᳘रिवतीर᳘नुशᳫं᳭सति व्वी᳘र्यं[[!!]] वै ह᳘र इन्द्रो᳘ ऽसुराणाᳫं᳭ सप᳘त्नानाᳫँ᳭ स᳘मवृङ्क्त त᳘थो ऽए᳘वैष᳘ एत᳘द्वी᳘र्यᳫँ᳭[[!!]] ह᳘रः सप᳘त्नानाᳫँ᳭ सं᳘वृङ्क्ते त᳘स्माद्ध᳘रिवत्य ऽर्चा᳘ गृह्णा᳘ति ह᳘रिवतीषु स्तुवते ह᳘रिवतीर᳘नुशᳫँ᳭ सति॥
मूलम् - Weber
तं वै ह᳘रिवत्यर्चा᳘ गृह्णा᳘ति॥
ह᳘रिवतीषु स्तुवते ह᳘रिवतीर᳘नुशंसति वीर्यं᳘ वै ह᳘र इन्द्रो᳘ ऽसुराणाᳫं सप᳘त्नानाᳫं स᳘मवृङ्क्त त᳘थो एॗवैष᳘ एत᳘द्वीर्य᳘ᳫं᳘ ह᳘रः सप᳘त्नानाᳫं सं᳘वृङ्क्ते त᳘स्माद्ध᳘रिवत्यर्चा᳘ गृह्णा᳘ति ह᳘रिवतीषु स्तुवते ह᳘रिवतीर᳘नुशंसति॥
मूलम् - विस्वरम्
तं वै हरिवत्य ऽर्चा विगृह्णाति । हरिवतीषु स्तुवते, हरिवतीरनुशंसति । वीर्यं वै हर इन्द्रो ऽसुराणां सपत्नानां समवृङ्क्त । तथो एवैष एतद्वीर्यं हरः सपत्नानां संवृङ्क्ते । तस्माद्धरिवत्य ऽर्चा गृह्णाति । हरिवतीषु स्तुवते, हरिवतीरनुशंसति ॥ ४ ॥
सायणः
प्रातःसवने ऽतिग्राह्यान् गृहीत्वा षोडशिनं खादिरेण चतुःस्रक्तिनातिष्ठ युक्ष्वाहीति वा । अतिग्राह्यस्य बहुत्वाभावात् बहुवचनमुच्चारणार्थम् । अतिग्राह्यषोडशिनोः पौर्वापर्यं शाखांतरादिति कर्कः । आतिष्ठव्वृत्रहन् ८ । ३३ युक्ष्वाहिकेशिना ८ । ३४ इति मंत्रविकल्पः । इंद्रमिद्धरीइति ८ । ३५ । तृतीयमंत्रविकल्पस्तु आग्रयणाद्वेंद्रमिद्धरी इति गृहीत्वेति कठसूत्रोक्तेरिति महीधरः । का. श्रौ. सू. १२ । ९५ ।
तथा तेन प्रकारेणेदं सर्वमिन्द्रो ऽत्यतिष्ठत् । यथा द्यौरादर्श्यपि न जातेति मन्त्रेणेतिहासं द्रढयति । तेनायं फलविधिः । तं वै हरिवत्येति । ‘वीर्यं वै हरः’ ज्योतिः । तच्च ‘इन्द्रो ऽसुराणाम्’ स्वभूतं संवृक्तवानाच्छिन्नवान् वृतवानित्यर्थः । (ततश्च हाराहुतवानिति हारिरिन्द्रं) ‘तथो एव’ ततश्च हरिशब्दं हर्तृवाचिनं प्रयुञ्जानो हर्त्तैव वीर्यस्य भवतीति ॥ ४ ॥
Eggeling
- He draws it with a verse to the lord of the bay steeds (Indra Harivant); they (the Udgātr̥s) chant verses to (Indra) Harivant, and he (the Hotr̥) afterwards recites verses to (Indra) Harivant. For Indra seized upon the strength, the fury (haras) of his enemies, the Asuras; and in like manner does he (the sacrificer) now seize upon the strength, the fury of his enemies: therefore he draws the graha with a verse to (Indra) Harivant; they chant verses to Harivant, and he (the Hotr̥) afterwards recites verses to Harivant.
०५
विश्वास-प्रस्तुतिः
तं वा᳘ ऽअनुष्टु᳘भा गृह्णाति॥
गायत्रं वै᳘ प्रातःसवनं त्रै᳘ष्टुभं मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं जा᳘गतं तृतीयसवनमथा᳘तिरिक्तानुष्टुब᳘त्ये᳘वैनमेत᳘द्रेचयति त᳘स्मादनुष्टु᳘भा गृह्णाति॥
मूलम् - श्रीधरादि
तं वा᳘ ऽअनुष्टु᳘भा गृह्णाति॥
गायत्रं वै᳘ प्रातःसवनं त्रै᳘ष्टुभं मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं जा᳘गतं तृतीयसवनमथा᳘तिरिक्तानुष्टुब᳘त्ये᳘वैनमेत᳘द्रेचयति त᳘स्मादनुष्टु᳘भा गृह्णाति॥
मूलम् - Weber
तं वा᳘ अनुष्टु᳘भा गृह्णाति॥
गायत्रं वै᳘ प्रातःसवनं त्रै᳘ष्टुभम् मा᳘ध्यन्दिनᳫं स᳘वनं जा᳘गतं तृतीयसवनमथातिरिक्तानुष्टुबत्येॗवैनमेत᳘द्रेचयति त᳘स्मादनुष्टु᳘भा गृह्णाति॥
मूलम् - विस्वरम्
तं वा ऽअनुष्टुभा गृह्णाति । गायत्रं वै प्रातःसवनम्- त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनम् । अथातिरिक्तानुष्टुब् अत्येवैनमेतद्रेचयति । तस्मादनुष्टुभा गृह्णाति ॥ ५ ॥
सायणः
तं वा इति । प्रसन्ना ॥ ५ ॥ ६ ॥
Eggeling
- He draws it with an Anushṭubh verse; for the morning press-feast belongs to the Gāyatrī, the midday feast to the Trishṭubh, and the evening feast to the Jagatī. The Anushṭubh, then, is over and above 5 (ati-rikta), and he thus makes that (Soma of the
Shoḍaśin) to remain over: hence he takes it with an Anushṭubh.
०६
विश्वास-प्रस्तुतिः
तं वै च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥
त्र᳘यो वा᳘ ऽइमे᳘ लोकास्त᳘दिमा᳘नेव᳘ लोकां᳘स्तिसृ᳘भिः स्रक्ति᳘भिराप्नोत्य᳘त्ये᳘वैनं चतुर्थ्या᳘ स्रक्त्या᳘ रेचयति त᳘स्माच्च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥ [अर्धप्रपाठकः]॥
मूलम् - श्रीधरादि
तं वै च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥
त्र᳘यो वा᳘ ऽइमे᳘ लोकास्त᳘दिमा᳘नेव᳘ लोकां᳘स्तिसृ᳘भिः स्रक्ति᳘भिराप्नोत्य᳘त्ये᳘वैनं चतुर्थ्या᳘ स्रक्त्या᳘ रेचयति त᳘स्माच्च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥ [अर्धप्रपाठकः]॥
मूलम् - Weber
तं वै च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥
त्र᳘यो वा᳘ इमे᳘ लोकास्त᳘दिमा᳘नेव᳘ लोका᳘ᳫं᳘स्तिसृ᳘भिः स्रक्ति᳘भिराप्नोत्य᳘त्येॗवैनं चतुर्थ्या स्रक्त्या᳘ रेचयति त᳘स्माच्च᳘तुःस्रक्तिना पा᳘त्रेण गृह्णाति॥
मूलम् - विस्वरम्
तं वै चतुःस्रक्तिना पात्रेण गृह्णाति । त्रयो वा ऽइमे लोकाः । तद् इमानेव लोकाँस्तिसृभिः स्रक्तिभिराप्नोति । अत्येवैनं चतुर्थ्या स्रक्त्या रेचयति । तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति ॥ ६ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- He draws it in a square cup; for there are three worlds: these same worlds he gains by three corners, and by the fourth corner he makes that (Soma) to remain over;–therefore he draws it in a square cup.
०७
विश्वास-प्रस्तुतिः
तं वै᳘ प्रातःसवने᳘ गृह्णीयात्॥
(दा) आग्रयणं᳘ गृहीत्वा स᳘ प्रातःसवने᳘ गृहीत᳘ ऐत᳘स्मात्कालादु᳘पशेते त᳘देनᳫँ᳭ स᳘र्व्वाणि स᳘वनान्य᳘तिरेचयति॥
मूलम् - श्रीधरादि
तं वै᳘ प्रातःसवने᳘ गृह्णीयात्॥
(दा) आग्रयणं᳘ गृहीत्वा स᳘ प्रातःसवने᳘ गृहीत᳘ ऐत᳘स्मात्कालादु᳘पशेते त᳘देनᳫँ᳭ स᳘र्व्वाणि स᳘वनान्य᳘तिरेचयति॥
मूलम् - Weber
तं वै᳘ प्रातःसवने᳘ गृह्णीयात्॥
आग्रयणं᳘ गृहीत्वा स᳘ प्रातःसवने᳘ गृहीतॗ एत᳘स्मात्कालादु᳘पशेते त᳘देनᳫं स᳘र्वाणि स᳘वनान्य᳘तिरेचयति॥
मूलम् - विस्वरम्
तं वै प्रातःसवने गृह्णीयात्- आग्रयणं गृहीत्वा स प्रातःसवने गृहीत ऐतस्मात्कालादुपशेते । तदेनं सर्वाणि सवनान्यतिरेचयति ॥ ७ ॥
सायणः
तं वै प्रातःसवन इति । ऐतस्मात् कालादिति । तृतीयसवनप्रान्तात् कुत एतत् “तदेनँ सर्वाणि सवनान्यतिरेचयति” इति वाक्यशेषात् । तथापि “तं वै पुरास्तमयादुपाकरोति”- इति वचनादस्तमितं यावदुपशेते ॥ ७ ॥
Eggeling
- Let him draw it at the morning pressing, after drawing the Āgrayaṇa. Having been drawn at the morning pressing, it reposes apart from that time: he thus makes it to outlast all (three) pressings.
०८
विश्वास-प्रस्तुतिः
मा᳘ध्यन्दिने वैनᳫँ᳭ स᳘वने गृह्णीयात्॥
(दा) आग्रयणं᳘ गृहीत्वा᳘ सो ऽएषा᳘ मीमा᳘ᳫँ᳘ सैव᳘ प्रातःसवन᳘ ऽए᳘वैनं गृह्णीयादाग्रयणं᳘ गृहीत्वा स᳘ प्रातःसवने᳘ गृहीत᳘ ऐत᳘स्मात्कालादु᳘पशेते॥
मूलम् - श्रीधरादि
मा᳘ध्यन्दिने वैनᳫँ᳭ स᳘वने गृह्णीयात्॥
(दा) आग्रयणं᳘ गृहीत्वा᳘ सो ऽएषा᳘ मीमा᳘ᳫँ᳘ सैव᳘ प्रातःसवन᳘ ऽए᳘वैनं गृह्णीयादाग्रयणं᳘ गृहीत्वा स᳘ प्रातःसवने᳘ गृहीत᳘ ऐत᳘स्मात्कालादु᳘पशेते॥
मूलम् - Weber
मा᳘ध्यन्दिने वैनᳫं स᳘वने गृह्णीयात्॥
आग्रयणं᳘ गृहीत्वाॗ सो एषा᳘ मीमाॗᳫंॗसैव᳘ प्रातःसवन᳘ एॗवैनं गृह्णीयादाग्रयणं᳘ गृहीत्वा स᳘ प्रातःसवने᳘ गृहीतॗ ऐत᳘स्मात्कालादु᳘पशेते॥
मूलम् - विस्वरम्
माध्यन्दिने वैनं सवने गृह्णीयात् आग्रयणं गृहीत्वा सो एषा मीमांसैव प्रातःसवन एवैनं गृह्णीयादाग्रयणं गृहीत्वा स प्रातःसवने गृहीत ऐतस्मात्कालादुपशेते ॥ ८ ॥
सायणः
माध्यन्दिने वैनमिति । प्रसन्नास्तिस्रः 6 ॥ ८-९-१० ॥
Eggeling
- Or he may draw it at the midday pressing, after drawing the Āgrayaṇa,–but this is mere speculation: let him rather draw it at the morning pressing, after drawing the Āgrayaṇa: having been drawn at the morning pressing, it reposes apart from that time.
०९
विश्वास-प्रस्तुतिः
(ते ऽथा᳘) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वा᳘) आ᳘तिष्ठ व्वृत्रहन्र᳘थं युक्ता᳘ ते ब्र᳘ह्मणा ह᳘री। अर्व्वाची᳘नᳫँ᳭ सु᳘ ते म᳘नो ग्रा᳘वा कृणोतु व्वग्नु᳘ना। उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा षोडशि᳘न ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा षोडशि᳘न ऽइ᳘ति॥
मूलम् - श्रीधरादि
(ते ऽथा᳘) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वा᳘) आ᳘तिष्ठ व्वृत्रहन्र᳘थं युक्ता᳘ ते ब्र᳘ह्मणा ह᳘री। अर्व्वाची᳘नᳫँ᳭ सु᳘ ते म᳘नो ग्रा᳘वा कृणोतु व्वग्नु᳘ना। उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा षोडशि᳘न ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा षोडशि᳘न ऽइ᳘ति॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
आ᳘तिष्ठ वृत्रहन्र᳘थ युक्ता᳘ ते ब्र᳘ह्मणा ह᳘री अर्वाची᳘नᳫं सु᳘ ते म᳘नो ग्रा᳘वा कृणोतु वग्नु᳘ना उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा षोडशि᳘न एष᳘ ते यो᳘निरि᳘न्द्राय त्वा षोडशि᳘न इ᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव “आतिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना । उपयामगृहीतो ऽसोन्द्राय त्वा षोडशिने एष ते योनिरिन्द्राय त्वा षोडशिने”- (वा. सं. ८ । ३३ ।) इति ॥ ९ ॥
सायणः
[व्याख्यानं अष्टमे]
Eggeling
- He thus draws it therefrom with (Vāj. S. VIII, 33; Rig-veda I, 84, 3), ‘Mount the chariot, O slayer of Vr̥tra, thy bay steeds have been harnessed by prayer! May the stone by its sound draw hitherward thy mind!–Thou art taken with a support: thee to Indra Shoḍaśin (the sixteenfold)!–This is thy womb: thee to Indra Shoḍaśin!’
१०
विश्वास-प्रस्तुतिः
(त्य) अन᳘या वा॥
युक्ष्वा हि᳘ केशि᳘ना ह᳘री व्वृ᳘षणा कक्ष्यप्रा᳘। अ᳘था न इन्द्र सोमपा गिरामु᳘पश्रुतिं चर। उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा षोडशि᳘न ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा षोडशि᳘न ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्य) अन᳘या वा॥
युक्ष्वा हि᳘ केशि᳘ना ह᳘री व्वृ᳘षणा कक्ष्यप्रा᳘। अ᳘था न इन्द्र सोमपा गिरामु᳘पश्रुतिं चर। उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा षोडशि᳘न ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा षोडशि᳘न ऽइ᳘ति॥
मूलम् - Weber
अन᳘या वा॥
युक्ष्वा हि᳘ केशि᳘ना ह᳘री वृ᳘षणा कक्ष्यप्रा᳘ अ᳘था न इन्द्र सोमपा गिरामु᳘पश्रुतिं चर उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा षोडशि᳘न एष᳘ ते यो᳘निरि᳘न्द्राय त्वा षोडशि᳘न इ᳘ति॥
मूलम् - विस्वरम्
अनया वा “युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर । उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन ऽएष ते योनिरिन्द्राय त्वा षोडशिने”- (वा. सं. ८ । ३४) इति ॥ १० ॥
सायणः
[व्याख्यानं अष्टमे]
Eggeling
- Or with this (verse, Vāj. S. VIII, 34; Rig-veda I, 10, 3), ‘Harness thy long-maned, girth-filling bay steeds! Come hither to us, O Indra, drinker of Soma, to hear our songs! Thou art taken with a support: thee to Indra Shoḍaśin!–This is thy womb: thee to Indra Shoḍaśin!’
११
विश्वास-प्रस्तुतिः
(त्य) अथे᳘त्य स्तोत्र᳘मुपा᳘करोति॥
सो᳘मो᳘ ऽत्यरेच्युपा᳘वर्तध्वमित्य᳘त्ये᳘वैनमेत᳘द्रेचयति तं वै᳘ पु᳘रास्तमया᳘दुपाकरोत्य᳘स्तमिते᳘ ऽनुशᳫँ᳭ सति त᳘देनेना ऽहोरात्रे सं᳘दधाति त᳘स्मात्पु᳘रास्तमया᳘दुपाकरोत्य᳘स्तमिते᳘ ऽनुशᳫँ᳭सति॥
मूलम् - श्रीधरादि
(त्य) अथे᳘त्य स्तोत्र᳘मुपा᳘करोति॥
सो᳘मो᳘ ऽत्यरेच्युपा᳘वर्तध्वमित्य᳘त्ये᳘वैनमेत᳘द्रेचयति तं वै᳘ पु᳘रास्तमया᳘दुपाकरोत्य᳘स्तमिते᳘ ऽनुशᳫँ᳭ सति त᳘देनेना ऽहोरात्रे सं᳘दधाति त᳘स्मात्पु᳘रास्तमया᳘दुपाकरोत्य᳘स्तमिते᳘ ऽनुशᳫँ᳭सति॥
मूलम् - Weber
अथे᳘त्य स्तोत्र᳘मुपा᳘करोति॥
सोमो᳘ ऽत्यरेच्युपा᳘वर्तध्वमित्य᳘त्येॗवैनमेत᳘द्रेचयति तं वै᳘ पुॗरास्तमया᳘दुपाकरोत्य᳘स्तमिते᳘ ऽनुशंसति त᳘देनेनाहोरात्रे सं᳘दधाति त᳘स्मात्पुॗरास्तमया᳘दुपाकरोत्य᳘स्तमिते᳘ ऽनुशंसति॥
मूलम् - विस्वरम्
अथेत्य स्तोत्रमुपाकरोति । सोमो ऽत्यरेच्युपावर्तध्वमिति । अत्येवैनमेतद्रेचयति । तं वै पुरास्तमयादुपाकरोति, अस्तमिते ऽनुशंसति । तदेनेनाहोरात्रे सन्दधाति । तस्मात्पुरास्तमयादुपाकरोति, अस्तमिते ऽनुशंसति ॥ ११ ॥
सायणः
अथेत्य स्तोत्रमुपाकरोतीति । न ग्रहणानन्तरम् “तं वै प्रातःसवने गृह्णाति”- इति “तं वै पुरास्तमयादुपाकरोति” इति च कालभेदात्तस्मादेतदेव द्रष्टव्यम् । यावत्तार्तीयसवनाभ्याम् उक्थविग्रहाभ्यां प्रतिप्रस्थात्रा चरिते हविर्द्धानमध्वर्युर्गत्वा यस्मान्न जात इति षोडशिनमुपस्थाय 7 तृणहिरण्यैरुपस्पृश्योपास्तमयमागत्य (?) स्तोत्रं षोडशिनस्तृणहिरण्यैरुपाकरोति 8 । कथं ? हे उद्गातारो ऽतिरेचितः सोमो ऽस्माभिः षोडश्यनुहोमे चमसार्थमत उपावर्त्तध्वं यूयं स्तोत्रायेति । एवं ब्रुवन्नेतं षोडशिनमतिरेचयति । एवं सवनानि षोडश्यनुकारेण च यजमानं तं वै पुरास्तमयादिति ग्रहार्थत्वात् स्तोत्रस्य स्तोत्र उपाक्रियमाणे ग्रह एवोपाक्रियत इत्येतदङ्गीकृत्य तं षोडशिनं ग्रहं स्तोत्रात्मकं पुरास्तमयादुपाकरोत्यस्तमिते तु तमेवानुशंसति शस्त्रात्मना 9 तथा च क्रियमाणं तेन षोडशिनाहोरात्रे सन्दधातीत्याह 10 ॥ ११ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमा ऽध्याये तृतीयं ब्राह्मणम् ॥ ४-५-३ ॥
Eggeling
- Thereupon he returns (to the sadas) and bespeaks the chant with, ‘Soma has been left over:
Turn ye back 11!’ for he indeed causes it to remain over by that (Shoḍaśin graha). He (the Adhvaryu) bespeaks it 12 before the setting of the sun; and after sunset he (the Hotr̥) follows it up by reciting the śastra: thus he thereby joins day and night together,–therefore he bespeaks (the stotra) 13 before the
setting of the sun, and after sunset he follows it up by reciting the śastra 14.
-
षडुत्तरे ऽत्यग्निष्टोम उक्थ्यः षोडशी व्वाजपेयोतिरात्रो ऽप्तोर्यामः । संस्थाविकारा इमे । न क्रतुविकाराः । तत्रोक्थ्यषोडश्यतिरात्राणामग्निष्टोमविकारत्वम् । अत्यग्निष्टोमस्यापि अग्निष्टोम शब्दनात् अग्निष्टोमविकारत्वम् । वाजपेयस्य षोडशिविकारत्वम् । अप्तोर्यामस्यातिरात्रविकारत्वम् । इति कर्कः । का. श्रौ. सू. । १० । २०९ । ↩︎
-
397:2 The author has now completed his exposition of the simplest form of Soma-sacrifice, viz. the Agnishṭoma, the libations of which are accompanied by twelve chants (stotra) and as many recitations (śastra), and which (on the press-day) requires one victim to Agni (see IV, 2, 5, 14). He has also incidentally (IV, 4, 2, 18) touched upon the characteristic features of the Ukthya sacrifice, viz. its second victim, a he-goat to Indra-Agni, and three additional Uktha stotras and śastras (p. 370 note 1). He now proceeds to consider another libation which, with its accompanying stotra and śastra, forms the distinctive feature of the Shoḍaśin sacrifice, i.e. the one having sixteen or a sixteenth (hymn). This sacrifice also requires a third victim on the press-day, viz. a ram to Indra. By the addition, on the other hand, of the Shoḍaśin graha, with its chant and recitation, to an ordinary Agnishṭoma, another form of one day’s (ekāha) Soma-sacrifice is obtained, viz. the Atyagnishṭoma, or redundant Agnishṭoma, with thirteen stotras and śastras. This form of sacrifice is, however, comparatively rarely used, and was probably devised on mere theoretic grounds, to complete the sacrificial system. A somewhat more common form is the Atirātra, lit. ’that which has a night over and above,’ differing as it does from the Shoḍaśin in that–besides a fourth victim (a he-goat to Sarasvatī)–it has in addition a night performance of libations, with three rounds (paryāyas) of four stotras and śastras each (one for the Hotr̥ and for each of his three assistants), and concluding at daybreak with one more stotra, the sandhi (twilight) stotra, and the Aśvina śastra and offering. These are the forms of Soma-sacrifice referred to in the present book, as required for the performance of sacrificial sessions (twelve days and more) of which its concluding portion treats. With another form, the Vājapeya sacrifice, the author deals in the next Kāṇḍa. These–with the Aptoryāma, which to the Atirātra adds another course of four Atirikta, or superadded stotras–constitute in the later official classification the seven fundamental forms (saṁsthā) of Soma-sacrifice. This term, meaning properly ’termination, consummation,’ probably applied originally to the concluding rites of the Soma-sacrifice proper, as the distinctive features of the several forms of sacrifice, but by a natural transition, became the generic terms for the complete forms of sacrifice. See Professor Weber’s somewhat different explanation, Ind. Stud. IX, 229. ↩︎
-
see ऋक्. ३.३२. ११. ↩︎
-
399:1 ? Or either of his thighs. The situation depicted in this verse would seem that of the warrior Indra lying or kneeling on Vr̥tra, whom he has thrown on the ground. ↩︎
-
399:2 Or, additional, in excess; see IV, 4, 3, 4. ↩︎
-
माध्यंदिने वा ऽऽग्रयणादुत्तरः । उत्तरः षोडशी गृह्यत इत्यर्थः । धाराग्रहांते वा ऽतिग्राह्यान् । पूतभृतो वोपाकरिष्यन् पृष्ठ्यम् । अत्र कर्कः । षोडशिनं गृह्णाति पृष्ठ्यमुपाकरिष्यन्नतिग्राह्यान् गृह्णातीति योगविभागः । एवं चातिग्राह्याणां कालत्रयम् । षोडशिग्रहस्य तु चत्वारः कालाः। अंतराग्रयणोक्थ्यौ तृतीयसवने काण्वपाठाच्चतुर्थः काल इति । तथाच काण्वीया श्रुतिः । अथो अप्याहुः । तृतीयसवन एवैनं गृह्णीयादिति । आग्रयणमेव गृहीत्वाथैतमथोक्थ्यमिति । का० श्रौ० सू० १२ । ९६-९८ । ↩︎
-
उक्थ्यांते षोडशिचरणमुपस्थायैनं यस्मान्न जात इति चमसानुन्नीय । अत्र प्रयोगक्रमः । उक्थ्यप्रचारांते षोडशिग्रहप्रचारः । ततः प्रथमं चमसोन्नयनम् । ततो यस्मान्न जात इति षोडशिग्रहोपस्थानम् । इति कर्कः । का. श्रौ. सू. १२ । ११३ । ↩︎
-
तृणहिरण्यैः स्तोत्रोपाकरणमुपास्तमयँ सोमो ऽत्यरेच्युपावर्तध्वमिति कृष्णे ऽश्व उपतिष्ठति । इंद्र꣥ जु꣣षा꣢ ३ स्वः꣤ प्रव꣥हा । प्र । इति षोडशिस्तोत्रम् । का. श्रौ. सू. १२ । ११४ । ↩︎
-
आश्वलायनानां विहृतषोडशीशस्त्रम् । हिं भूर्भुवः स्वरोम् । अध्वर्योशोशोंसावो ३ मिन्द्रजुषस्व प्रवहायाहीत्यादि उद्यद्द्रध्नस्य विष्टपमित्यन्तम् । षोडशीयागो द्विविधः । विहृतो अविहृतश्च । यत्र गौरीवीतं साम पठ्यते स विहृतः । यत्र निनँ साम पठ्यते स अविहृतः । इति । षोडशीयागे षोडश शस्त्राणि १६ सौमिकानि द्वादश १२ त्रीणि उक्थ्यशस्त्राणि ३ । चतुर्थं षोडशिशस्त्रं च १-१६ । ↩︎
-
इंद्रश्च सम्म्राडिति भक्षणम् का. श्रौ. सू. १२-११५ । इति षोडशी परिसमाप्तः । ↩︎
-
401:1 See IV, 2, 5, 8. The verb, here and elsewhere translated by ’to bespeak,’ is upā-kr̥, the proper meaning of which would seem ’to be to prepare, to introduce, to bring up’ the chant. As the same verb is, however, also used for the ‘driving up, or bringing up’ of cattle (to the stable), it may perhaps have a similar meaning in connection with the stotra; the metres of the chant (which are often called the cattle of the gods) being, as it were, ’led up’ (or put to’) by the Adhvaryu, to be ‘harnessed’ or ‘yoked’ (yuj) by the Udgātr̥; see p. 311, note 1. Instead of the Prastara, handed to the Udgātr̥ on the occasion of the Pavamānas, two stalks of sacrificial grass are generally used with other chants; but certain stotras and sāmans require to be ‘introduced’ by special objects, such as a fan, or the two churning sticks (for producing fire), or water mixed with avakā plants, or an arrow. ↩︎
-
401:2 ? Read ’tad’ for ’tam;’ or ‘he calls upon him (the Udgātr̥).’ ↩︎
-
401:3 The Shoḍaśi-stotra usually consists of the Gaurivita Sāman (S. V. II, 302-4); but the Nānada Sāman (ib. II, 790-3) may be used instead. It is performed in the ekaviṁśa stoma, i.e. the three verses are chanted in three turns, so as, by repetitions, to produce twenty-one verses; the usual form being a a a-b b b-c; a-b b b-c c c; a a a-b-c c c. For some modifications in the present case, see Haug, Transl. Ait. Br. p. 258 note. The first turn is to be performed in a low voice, while the sun is going down; the second in a middle voice, when the sun has disappeared, but not entirely the daylight; and the third turn in a loud voice, when darkness is closing in. If, for some reason or other, the stotra is entirely performed after sunset, it is chanted with a loud voice throughout. During the chanting a horse (black, if possible), or a bullock, or he-goat is to stand at the front (or back) gate of the sadas, facing the latter. Besides, a piece of gold is to circulate among the chanters, each of them holding it, while his turn of chanting lasts, and the Udgātr̥ (or all three) doing so during the nidhana or finale. ↩︎
-
402:1 The Shoḍaśi-śastra is minutely described in the Ait. Br. IV, 3 seq. The opening verses are in the Anushṭubh metre (of sixteen syllables), but otherwise also the Hotr̥ has by means of pauses and insertions of formulas (nivid) to bring out its ‘sixteenfold’ character so as to accord with its designation. ↩︎