०१
विश्वास-प्रस्तुतिः
व्वशामा᳘लभन्ते॥
ता᳘माल᳘भ्य सं᳘ज्ञपयन्ति संज्ञ᳘प्याह व्वपामु᳘त्खिदे᳘त्युत्खि᳘द्य व्वपा᳘मनुम᳘र्शं ग᳘र्भमे᳘ष्टवै᳘ ब्रूयात्स य᳘दि न᳘ व्विन्द᳘न्ति किमा᳘द्रियेरन्य᳘द्यु व्विन्द᳘न्ति त᳘त्र प्रा᳘यश्चित्तिः क्रियते॥
मूलम् - श्रीधरादि
व्वशामा᳘लभन्ते॥
ता᳘माल᳘भ्य सं᳘ज्ञपयन्ति संज्ञ᳘प्याह व्वपामु᳘त्खिदे᳘त्युत्खि᳘द्य व्वपा᳘मनुम᳘र्शं ग᳘र्भमे᳘ष्टवै᳘ ब्रूयात्स य᳘दि न᳘ व्विन्द᳘न्ति किमा᳘द्रियेरन्य᳘द्यु व्विन्द᳘न्ति त᳘त्र प्रा᳘यश्चित्तिः क्रियते॥
मूलम् - Weber
वशामा᳘लभते॥
ता᳘माल᳘भ्य सं᳘ज्ञपयन्ति संज्ञ᳘प्याह वपामु᳘त्खिदे᳘त्युत्खि᳘द्य वपा᳘मनुम᳘र्शं ग᳘र्भमे᳘ष्टवै᳘ ब्रूयात्स य᳘दि न᳘ विन्द᳘न्ति किमा᳘द्रियेरन्य᳘द्यु विन्द᳘न्ति त᳘त्र प्रा᳘यश्चित्तिः क्रियते 1 ॥
मूलम् - विस्वरम्
अनुबन्ध्याप्रायश्चित्तम् ।
वशामालभन्ते । तामालभ्य संज्ञपयन्ति । संज्ञप्याह- वपामुत्खिदेति । उत्खिद्य वपामनुमर्शं गर्भमेष्टवै ब्रूयात् । स यदि न विन्दन्ति- किमाद्रियेरन् । यद्यु विन्दन्ति- तत्र प्रायश्चित्तिः क्रियते ॥ १ ॥
सायणः
वशामालभन्त 2 इति । अनुबन्ध्याशेषप्रायश्चित्तब्राह्मणमेतत् । तत् सम्बन्धार्थमनुद्रवति वशामालभन्ते । तां वपाश्रपणीभ्यां प्रतिप्रस्थाता ऽन्वारभत इत्यादिना ‘आलभ्य’ तत् समर्थाचरणेनैव संज्ञपयन्ति । ततो ऽध्वर्युः संज्ञप्य तत्समर्थाचरणेन शमितारमाह- वपामुत्खिदेति । तत एतेनैव प्रैषणेन तामुत्खिद्याध्वर्युः शमितारम् ‘अनुमर्शम्’ अवमृश्यावमृशति प्रदेशं ‘गर्भमेष्टवै’ “कर्त्तरि कृत्-” (३ । ४ । ६७) इत्यर्थे तवै । एवं ब्रूयात् । तं यदा तन्न लभन्ते ततो न किञ्चिदपि प्रायश्चित्तविशुद्धये क्रियते ॥ १ ॥
Eggeling
- They lay hands on the barren cow 3, and having laid hands on it, they quiet it. It having been quieted 4, he says (to the slaughterer), ‘Pull out the omentum!’ The omentum having been pulled out 4, let him tell (the slaughterer) to search groping for an embryo. If they do not find one, why need they care? and if they find one, atonement is made therefore.
०२
विश्वास-प्रस्तुतिः
न वै त᳘दवकल्पते॥
यदे᳘कां म᳘न्यमाना ए᳘कयेवैत᳘या च᳘रेयुर्यद्द्वे म᳘न्यमाना द्वा᳘भ्यामिव च᳘रेयुः स्थालीं᳘ चै᳘वोष्णी᳘षं चो᳘पकल्पयितवै᳘ ब्रूयात्॥
मूलम् - श्रीधरादि
न वै त᳘दवकल्पते॥
यदे᳘कां म᳘न्यमाना ए᳘कयेवैत᳘या च᳘रेयुर्यद्द्वे म᳘न्यमाना द्वा᳘भ्यामिव च᳘रेयुः स्थालीं᳘ चै᳘वोष्णी᳘षं चो᳘पकल्पयितवै᳘ ब्रूयात्॥
मूलम् - Weber
न वै त᳘दवकल्पते॥
यदे᳘काम् म᳘न्यमाना ए᳘कयेवैत᳘या च᳘रेयुर्यद्द्वे म᳘न्यमाना द्वा᳘भ्यामिव च᳘रेयु स्थालीं᳘ चैॗवोष्णी᳘षं चो᳘पकल्पयितवै᳘ ब्रूयात्॥
मूलम् - विस्वरम्
न वै तदवकल्पते- यदेकां मन्यमाना एकयेवैतया चरेयुः । यद्द्वे मन्यमाना द्वाभ्यामिव चरेयु:- स्थालीं चैवोष्णीषं चोपकल्पयितवै ब्रूयात् ॥ २ ॥
सायणः
कस्तत्र दोष इति चेदत आह- न वै तदिति । यदि तावदेकैवेयं वशा चोदिता किं ततो गर्भेणेति ‘मन्यमाना’ एकयैवानया ‘चरेयुः’ ततो गर्भस्य यागार्थस्य हिंसा कृता स्यात्तेनैतन्नावकल्पते । अथ त्वेकस्यामपि चोदितायां कथमप्येते द्वे आयाति तेनालब्धत्वात् पृथगेव वस्तुभ्यामिव ‘द्वाभ्याम्’ अपि चराम इति मन्यमानाः चरेयुः तदप्ययुक्तम् ।
अचोदितत्वात्तदवस्थ एव यज्ञार्थे हिंसादोषः । तस्याः ‘स्थालीं चैव’ मेधश्रपणार्थे ‘उष्णीषं’ च गर्भवेष्टनार्थम् ‘उपकल्पयितवै’ उपकल्पयतेति यजमानपुरुषः ‘ब्रूयात्’ ॥ २ ॥
Eggeling
- For surely it is not right that, thinking it to be one (cow), they should perform, as it were, with that one; or that, thinking them to be two, they should perform, as it were, with two 5. Let him bid (the
slaughterer) get ready the pot (sthālī) and the cloth (ushṇīsha) 6.
०३
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ व्वप᳘या चरन्ति॥
य᳘थैव त᳘स्यै च᳘रणं व्वप᳘या चरि᳘त्वा ऽध्वर्यु᳘श्च य᳘जमानश्च पु᳘नरे᳘तः स᳘ आहाध्वर्युर्नि᳘रूहैतं᳘ ग᳘र्भमि᳘ति त᳘ᳫं᳘ ह᳘ नोदरतो नि᳘रूहेदा᳘र्ताया वै᳘ मृता᳘या उदरतो नि᳘रूहन्ति यदा वै ग᳘र्भः स᳘मृद्धो भ᳘वति प्रज᳘ननेन वै स त᳘र्हि प्रत्यङ्ङै᳘ति तम᳘पि व्विरु᳘ज्य श्रो᳘णी प्रत्य᳘ञ्चं नि᳘रूहितवै᳘ ब्रूयात्॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ व्वप᳘या चरन्ति॥
य᳘थैव त᳘स्यै च᳘रणं व्वप᳘या चरि᳘त्वा ऽध्वर्यु᳘श्च य᳘जमानश्च पु᳘नरे᳘तः स᳘ आहाध्वर्युर्नि᳘रूहैतं᳘ ग᳘र्भमि᳘ति त᳘ᳫं᳘ ह᳘ नोदरतो नि᳘रूहेदा᳘र्ताया वै᳘ मृता᳘या उदरतो नि᳘रूहन्ति यदा वै ग᳘र्भः स᳘मृद्धो भ᳘वति प्रज᳘ननेन वै स त᳘र्हि प्रत्यङ्ङै᳘ति तम᳘पि व्विरु᳘ज्य श्रो᳘णी प्रत्य᳘ञ्चं नि᳘रूहितवै᳘ ब्रूयात्॥
मूलम् - Weber
अ᳘थ वप᳘या चरन्ति॥
य᳘थैव त᳘स्यै च᳘रणं वप᳘या चरिॗत्वाध्वर्यु᳘श्च य᳘जमानश्च पु᳘नरे᳘तः स᳘ आहाध्वर्युर्नि᳘रूहैतं ग᳘र्भमि᳘ति त᳘ᳫं᳘ हॗ नोदरतो नि᳘रूहेदा᳘र्ताया वै᳘ मृता᳘या उदरतो नि᳘रूहन्ति यदा वै ग᳘र्भः स᳘मृद्धो भ᳘वति प्रज᳘ननेन वै स त᳘र्हि प्रत्यङ्ङै᳘ति तम᳘पि विरु᳘ज्य श्रो᳘णी प्रत्य᳘ञ्चं नि᳘रूहितवै᳘ ब्रूयात्॥
मूलम् - विस्वरम्
अथ वपया चरन्ति- यथैव तस्यै चरणम् । वपया चरित्वा ऽध्वर्युश्च यजमानश्च पुनरेतः । स आह- अध्वर्युर्निरूहैतं गर्भम्- इति । तं ह नोदरतो निरूहेद् । आर्ताया वै मृताया उदरतो निरूहन्ति । यदा वै गर्भः समृद्धो भवति- प्रजननेन वै स तर्हि प्रत्यङ्ङेति । तमपि विरुज्य श्रोणी प्रत्यञ्चं निरूहितवै ब्रूयात् ॥ ३ ॥
सायणः
अथ वपयेति । ‘पुनरेतः’ अध्वर्युर्वपोत्खेदनार्थं पूर्वमेव । ततो यजमानो ऽपि तृणाधिष्ठानार्थं तदभिप्रायं पुनर्वचनम् । ‘स आहाध्वर्युनिरूहैतं गर्भम् इति’ शमितारमाह- ‘तं’ गर्भान्तरप्रदेशेन ‘निरूहेत्’ । “ऊह वितर्के”- (धा. पा. भ्वा. प. ८८४) निःपूर्वो निष्कर्षणे वर्तते । निष्कर्षेत किं कारणम् । ‘आर्त्तायाः’ हि ‘मृतायाः’ गोर्विकर्त्तारः ‘उदरतो’ निष्कर्षन्ति । तच्चात्रामङ्गलमयुक्तम् । बहिर्हविषो जीवद्वचनात् । यदा तु ‘समृद्धो’ निष्पन्नगर्भो ‘भवति’ तदा ‘प्रजननेन’ तत् प्राङ् गच्छति । नोदरेण तिर्यक् । अयं च समृद्ध इष्यते । ततश्चैवमपि ब्रूयात् । ‘विरुज्य’ विपाद्य ‘श्रोणी’ ‘प्रत्यञ्चं’ समृद्धमभवत् ‘निरूहितवै’ इति । अथ कस्मादपिशब्द इदमपि ब्रूयात् ॥ ३ ॥
Eggeling
- They then perform with the omentum, just as its mode of performance is 7. Having performed with the omentum, both the Adhvaryu and Sacrificer return (to the sacrificial ground). The Adhvaryu says, ‘Pull out that embryo!’ otherwise he would not pull it out from the womb, since it is only pulled out from the womb of a sick or dead (female); but when the embryo is full grown, then indeed it comes out through birth: let him bid him pull it out even after tearing asunder the thighs.
०४
विश्वास-प्रस्तुतिः
(त्तं᳘) तं᳘ निरूह्य᳘माणमभि᳘मन्त्रयते॥
ए᳘जतु द᳘शमास्यो ग᳘र्भो जरा᳘युणा सहे᳘ति स यदाहै᳘जत्वि᳘ति प्राण᳘मे᳘वास्मिन्नेत᳘द्दधाति द᳘शमास्य इ᳘ति यदा वै ग᳘र्भः स᳘मृद्धो भ᳘वत्य᳘थ द᳘शमास्यस्त᳘मेतदप्य᳘दशमास्यᳫँ᳭ स᳘न्तं ब्र᳘ह्मणैव य᳘जुषा द᳘शमास्यं करोति॥
मूलम् - श्रीधरादि
(त्तं᳘) तं᳘ निरूह्य᳘माणमभि᳘मन्त्रयते॥
ए᳘जतु द᳘शमास्यो ग᳘र्भो जरा᳘युणा सहे᳘ति स यदाहै᳘जत्वि᳘ति प्राण᳘मे᳘वास्मिन्नेत᳘द्दधाति द᳘शमास्य इ᳘ति यदा वै ग᳘र्भः स᳘मृद्धो भ᳘वत्य᳘थ द᳘शमास्यस्त᳘मेतदप्य᳘दशमास्यᳫँ᳭ स᳘न्तं ब्र᳘ह्मणैव य᳘जुषा द᳘शमास्यं करोति॥
मूलम् - Weber
तं᳘ निरुह्य᳘माणमभि᳘मन्त्रयते॥
ए᳘जतु द᳘शमास्यो ग᳘र्भो जरा᳘युणा सहे᳘ति स यदाहै᳘जत्वि᳘ति प्राण᳘मेॗवास्मिन्नेत᳘द्दधाति द᳘शमास्य इ᳘ति यदा वै ग᳘र्भः स᳘मृद्धो भ᳘वत्य᳘थ द᳘शमास्यस्त᳘मेतदप्य᳘दशमास्यᳫं स᳘न्तम् ब्र᳘ह्मणैव य᳘जुषा द᳘शमास्यं करोति॥
मूलम् - विस्वरम्
तं निरूह्यमाणमभिमन्त्रयते- “एजतु दशमास्यो गर्भो जरायुणा सह”- (वा. सं. ८ । २८) इति । स यदाह- एजत्विति । प्राणमेवास्मिन्नेतद्दधाति । दशमास्य इति । यदा वै गर्भः समृद्धो भवति- अथ दशमास्यः । तमेतदप्यदशमास्यं सन्तं ब्रह्मणैव यजुषा दशमास्यं करोति ॥ ४ ॥
सायणः
तं निरूह्यमाणमिति । आभ्यां द्वाभ्यां कण्डिकाभ्यामभिमन्त्रणमन्त्रो व्याख्यायते । सप्तभिर्मेदसा शोणितेन चरणमुच्यते । यत्र यत्पाशुकाङ्गकीर्तनं तदङ्गगतकर्मणः क्रमसिद्ध्यर्थम् । ततः परैः षड्भिर्गर्भस्य प्रतिपत्तिरुच्यते ॥ ४-१८ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमाध्याये द्वितीयं ब्राह्मणम् ॥ ४ । ५ । २ ॥
Eggeling
- When it is pulled out, he addresses it with (Vāj. S. VIII, 28), ‘May the embryo of ten months move together with the caul!’–by saying, ‘May it move,’ he puts breath into it; and ‘of ten months’ he says, because when an embryo is full grown, then it is one of ten months: thus, even though it is not ten months old, he makes it one of ten months by means of the Brahman (prayer), the Yajus.
०५
विश्वास-प्रस्तुतिः
जरा᳘युणा सहे᳘ति॥
तद्य᳘था द᳘शमास्यो जरा᳘युणा सहेया᳘देव᳘मेत᳘दाह य᳘था ऽयं᳘ वायुरे᳘जति य᳘था समुद्र ए᳘जती᳘ति प्राण᳘मे᳘वास्मिन्नेत᳘द्दधात्ये᳘वायं द᳘शमास्यो ऽअ᳘स्रज्जरा᳘युणा सहे᳘ति तद्य᳘था द᳘शमास्यो जरा᳘युणा सह स्र᳘ᳫं᳘सेतैव᳘मेत᳘दाह॥
मूलम् - श्रीधरादि
जरा᳘युणा सहे᳘ति॥
तद्य᳘था द᳘शमास्यो जरा᳘युणा सहेया᳘देव᳘मेत᳘दाह य᳘था ऽयं᳘ वायुरे᳘जति य᳘था समुद्र ए᳘जती᳘ति प्राण᳘मे᳘वास्मिन्नेत᳘द्दधात्ये᳘वायं द᳘शमास्यो ऽअ᳘स्रज्जरा᳘युणा सहे᳘ति तद्य᳘था द᳘शमास्यो जरा᳘युणा सह स्र᳘ᳫं᳘सेतैव᳘मेत᳘दाह॥
मूलम् - Weber
जरा᳘युणा सहे᳘ति॥
तद्य᳘था द᳘शमास्यो जरा᳘युणा सहेया᳘देव᳘मेत᳘दाह य᳘थायं᳘ वायुरे᳘जति य᳘था समुद्र ए᳘जती᳘ति प्राण᳘मेॗवास्मिन्नेत᳘द्दधात्येॗवायं द᳘शमास्यो अ᳘स्रज्जरा᳘युणा सहे᳘ति तद्य᳘था द᳘शमास्यो जरा᳘युणा सह स्र᳘ᳫं᳘सेतैव᳘मेत᳘दाह॥
मूलम् - विस्वरम्
जरायुणा सहेति । तद्यथा दशमास्यो जरायुणा सहेयाद्- एवमेतदाह । “यथा ऽयं वायुरेजति यथा समुद्र एजति”- (वा. सं. ८ । २८) इति । प्राणमेवास्मिन्नेतद्दधाति । “एवायं दशमास्यो ऽअस्रज्जरायुणा सह”- (वा. सं. ८ । २८) इति । तद्यथा दशमास्यो जरायुणा सह स्रंसेत- एवमेतदाह ॥ ५ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- ‘Together with the caul’–this he says so that, like a ten months’ (calf), it may go out with the caul 8,–‘As yonder wind moveth, as the ocean moveth;’–thereby he puts breath into it;–‘So hath this ten months’ (calf) slipped out with the caul;’–this he means to say so that, like a ten months’ calf, it may slip out with the caul.
०६
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
कथ᳘मेतं ग᳘र्भं कुर्यादित्य᳘ङ्गादङ्गाद्धै᳘वास्या᳘वद्येयुर्य᳘थैवे᳘तरेषामवदा᳘नानामवदा᳘नं त᳘दु त᳘था न᳘ कुर्यादुत᳘ ह्येषो᳘ ऽविकृताङ्गो भ᳘वत्यध᳘स्तादेव᳘ ग्रीवा᳘ अपिकृ᳘त्यैत᳘स्याᳫँ᳭ स्थाल्या᳘मेतं मे᳘धᳫँ᳭ श्चोतयेयुः स᳘र्व्वेभ्यो वा᳘ ऽअस्यैषो᳘ ऽङ्गेभ्यो मे᳘ध श्चोतति त᳘दस्य स᳘र्व्वेषामेवा᳘ङ्गानाम᳘वत्तं भवत्य᳘वद्यन्ति व्वशा᳘या ऽअवदा᳘नानि य᳘थैव ते᳘षामवदा᳘नम्॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
कथ᳘मेतं ग᳘र्भं कुर्यादित्य᳘ङ्गादङ्गाद्धै᳘वास्या᳘वद्येयुर्य᳘थैवे᳘तरेषामवदा᳘नानामवदा᳘नं त᳘दु त᳘था न᳘ कुर्यादुत᳘ ह्येषो᳘ ऽविकृताङ्गो भ᳘वत्यध᳘स्तादेव᳘ ग्रीवा᳘ अपिकृ᳘त्यैत᳘स्याᳫँ᳭ स्थाल्या᳘मेतं मे᳘धᳫँ᳭ श्चोतयेयुः स᳘र्व्वेभ्यो वा᳘ ऽअस्यैषो᳘ ऽङ्गेभ्यो मे᳘ध श्चोतति त᳘दस्य स᳘र्व्वेषामेवा᳘ङ्गानाम᳘वत्तं भवत्य᳘वद्यन्ति व्वशा᳘या ऽअवदा᳘नानि य᳘थैव ते᳘षामवदा᳘नम्॥
मूलम् - Weber
त᳘दाहुः॥
कथ᳘मेतं ग᳘र्भं कुर्यादित्य᳘ङ्गादङ्गाद्धैवास्या᳘वद्येयुर्य᳘थैवे᳘तरेषामवदा᳘नानामवदा᳘नं त᳘दु त᳘था न᳘ कुर्यादुतॗ ह्येषो᳘ ऽविकृताङ्गो भ᳘वत्यध᳘स्तादेव᳘ ग्रीवा᳘ अपिकृ᳘त्यैत᳘स्याᳫं स्थाल्या᳘मेतम् मे᳘धं श्चोतयेयुः स᳘र्वेभ्यो वा᳘ अस्यैषो᳘ ऽङ्गेभ्यो मे᳘ध श्चोतति त᳘दस्य स᳘र्वेषामेवा᳘ङ्गानाम᳘वत्तम् भवत्य᳘वद्यन्ति वशा᳘या अवदा᳘नानि य᳘थैव ते᳘षामवदा᳘नम्॥
मूलम् - विस्वरम्
तदाहुः- कथमेतं गर्भं कुर्यादिति । अङ्गादङ्गाद्धैवास्यावद्येयुः- यथैवेतरेषामवदानानामवदानम् । तदु तथा न कुर्यात् । उत ह्येषो ऽविकृताङ्गो भवति । अधस्तादेव ग्रीवा अपिकृत्यैतस्यां स्थाल्यामेतं मेधं श्चोतयेयुः । सर्वेभ्यो वा ऽअस्यैषो ऽङ्गेभ्यो मेध श्चोतति । तदस्य सर्वेषामेवाङ्गानामवत्तं भवति । अवद्यन्ति वशाया अवदानानि- यथैव तेषामवदानम् ॥ ६ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- Here now they say, ‘What is he to do with
that embryo?’–They might cut off a portion from every limb, even as (is done) the portioning of other portions. But let him not do so; for that (embryo) surely has its limbs undeveloped. Having cut it below the neck, they should let that fat juice drip into the pot; for that same juice drips from all its limbs, and thus it is a portion cut out from all its limbs. He then cuts the sacrificial portions of the cow in the same way in which they are (usually) portioned off.
०७
विश्वास-प्रस्तुतिः
ता᳘नि पशुश्र᳘पणे श्रपयन्ति॥
त᳘दे᳘वैतं मे᳘धᳫँ᳭ श्रपयन्त्युष्णी᳘षेणावे᳘ष्ट्य ग᳘र्भं पार्श्वतः᳘ पशुश्र᳘पणस्योपनि᳘दधाति यदा᳘ शृतो भ᳘वत्य᳘थ समु᳘द्यावदा᳘नान्ये᳘वाभिजुहो᳘ति᳘ नैतं मे᳘धमुद्वासयन्ति[[!!]] पशुं[[!!]] त᳘दे᳘वैतं मे᳘धमुद्वासयन्ति[[!!]]॥
मूलम् - श्रीधरादि
ता᳘नि पशुश्र᳘पणे श्रपयन्ति॥
त᳘दे᳘वैतं मे᳘धᳫँ᳭ श्रपयन्त्युष्णी᳘षेणावे᳘ष्ट्य ग᳘र्भं पार्श्वतः᳘ पशुश्र᳘पणस्योपनि᳘दधाति यदा᳘ शृतो भ᳘वत्य᳘थ समु᳘द्यावदा᳘नान्ये᳘वाभिजुहो᳘ति᳘ नैतं मे᳘धमुद्वासयन्ति[[!!]] पशुं[[!!]] त᳘दे᳘वैतं मे᳘धमुद्वासयन्ति[[!!]]॥
मूलम् - Weber
ता᳘नि पशुश्र᳘पणे श्रपयन्ति॥
त᳘देॗवैतम् मे᳘धं श्रपयन्त्युष्णी᳘षेणावे᳘ष्ट्य ग᳘र्भम् पार्श्वतः᳘ पशुश्र᳘पणस्योपनि᳘दधाति यदा᳘ शृतो भ᳘वत्य᳘थ समु᳘द्यावदा᳘नान्येॗवाभिजुहो᳘ति नैतम् मे᳘धमु᳘द्वासयन्ति पशुं᳘ त᳘देॗवैतम् मे᳘धमु᳘द्वासयन्ति॥
मूलम् - विस्वरम्
तानि पशुश्रपणे श्रपयन्ति । तदेवैतं मेधं श्रपयन्ति । उष्णीषेणावेष्ट्य गर्भं पार्श्वतः पशुश्रपणस्योपनिदधाति । यदा शृतो भवति । अथ समुद्यावदानान्येवाभिजुहोति । नैतं मेधमुद्वासयन्ति । पशुं तदेवैतं मेधमुद्वासयन्ति ॥ ७ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- They cook them on the cooking-fire of the animal offering: at the same time 9 they cook that fat juice. Having wrapped the embryo in the cloth, he lays it down by the side of the cooking-fire. When it (the victim) is cooked, he puts together 10 the (flesh) portions and bastes only them, but not that juice. They remove the victim (from the fire); and at the same time they remove that juice.
०८
विश्वास-प्रस्तुतिः
तं᳘ जघ᳘नेन चा᳘त्वालम᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति॥
दक्षिणतो᳘ निधा᳘य प्रतिप्रस्थाता᳘ ऽवद्यत्य᳘थ स्रुचोरु᳘पस्तृणीते᳘ ऽथ मनो᳘तायै हवि᳘षो ऽनुवा᳘च आहा᳘वद्यन्ति व्वशा᳘या अवदा᳘नानां य᳘थैव ते᳘षामवदा᳘नम्॥
मूलम् - श्रीधरादि
तं᳘ जघ᳘नेन चा᳘त्वालम᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति॥
दक्षिणतो᳘ निधा᳘य प्रतिप्रस्थाता᳘ ऽवद्यत्य᳘थ स्रुचोरु᳘पस्तृणीते᳘ ऽथ मनो᳘तायै हवि᳘षो ऽनुवा᳘च आहा᳘वद्यन्ति व्वशा᳘या अवदा᳘नानां य᳘थैव ते᳘षामवदा᳘नम्॥
मूलम् - Weber
तं᳘ जघ᳘नेन चा᳘त्वालम᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति॥
दक्षिणतो᳘ निधा᳘य प्रतिप्रस्थाता᳘वद्यत्य᳘थ स्रुचोरु᳘पस्तृणीते᳘ ऽथ मनो᳘तायै हवि᳘षो ऽनुवा᳘च आहा᳘वद्यन्ति वशा᳘या अवदा᳘नानां य᳘थैव ते᳘षामवदा᳘नम्॥
मूलम् - विस्वरम्
तं जघनेन चात्वालमन्तरेण यूपं चाग्निं च हरन्ति । दक्षिणतो निधाय प्रतिप्रस्थाता ऽवद्यति । अथ स्रुचोरुपस्तृणीते । अथ मनोतायै हविषो ऽनुवाच आह । अवद्यन्ति वशाया अवदानानाम्- यथैव तेषामवदानम् ॥ ८ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- They take it along the back of the pit, between the sacrificial stake and the fire. It having been put down south (of the fire), the Pratiprasthātr̥ cuts off the sacrificial portions. He then makes an under-layer (of ghee) in both offering-spoons, and addresses (the Hotr̥) for the recitation to the Manotā deity on the havis. Thereupon they make cuttings from the portions of the cow, in the same way in which cuttings are made from them 11.
०९
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ प्रचरणी᳘ति स्रु᳘ग्भवति॥
त᳘स्यां प्रतिप्रस्थाता मे᳘धायो᳘पस्तृणीते द्विर᳘वद्यति सकृ᳘दभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने ऽअ᳘थानुवा᳘च आहाश्रा᳘व्याह प्रेष्ये᳘ति व्व᳘षट्कृते ऽध्वर्यु᳘र्जुहोत्यध्वर्योर᳘नु हो᳘मं जुहो᳘ति प्रतिप्रस्थाता[[!!]]॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ प्रचरणी᳘ति स्रु᳘ग्भवति॥
त᳘स्यां प्रतिप्रस्थाता मे᳘धायो᳘पस्तृणीते द्विर᳘वद्यति सकृ᳘दभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने ऽअ᳘थानुवा᳘च आहाश्रा᳘व्याह प्रेष्ये᳘ति व्व᳘षट्कृते ऽध्वर्यु᳘र्जुहोत्यध्वर्योर᳘नु हो᳘मं जुहो᳘ति प्रतिप्रस्थाता[[!!]]॥
मूलम् - Weber
अ᳘थ प्रचरणी᳘ति स्रु᳘ग्भवति॥
त᳘स्याम् प्रतिप्रस्थाता मे᳘धायो᳘पस्तृणीते द्विर᳘वद्यति सकृ᳘दभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने अ᳘थानुवा᳘च आहाश्रा᳘व्याह प्रेष्ये᳘ति व᳘षट्कृते ऽध्वर्यु᳘र्जुहोत्यध्वर्योर᳘नु हो᳘मं जुहोति प्रतिप्रस्थाता᳟॥
मूलम् - विस्वरम्
अथ प्रचरणीति स्रुग्भवति । तस्यां प्रतिप्रस्थाता मेधायोपस्तृणीते द्विरवद्यति सकृदभिघारयति प्रत्यनक्त्यवदाने । अथानुवाच आह । आश्राव्याह- ‘प्रेष्य’ इति । वषट्कृते ऽध्वर्युर्जुहोति । अध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता ॥ ९ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- Now there is an offering-spoon called pracaraṇī
therein the Pratiprasthātr̥ makes an underlayer of ghee for the fat juice, takes two portions (from the juice), bastes them once (with ghee), and replenishes (the juice whence) both portions (have been taken). He (the Adhvaryu) then addresses (the Hotr̥) for. the recitation (of the invitatory prayer). Having called for the Śraushaṭ, he says (to the Maitrāvaruṇa), ‘Prompt (the Hotr̥ to recite the offering prayer)!’ As the Vashaṭ is uttered, the Adhvaryu offers (the flesh portions). After the Adhvaryu’s oblation the Pratiprasthātr̥ offers (the fat juice)–
१०
विश्वास-प्रस्तुतिः
य᳘स्यै ते यज्ञि᳘यो ग᳘र्भ इति[[!!]]॥
(त्य᳘) अ᳘यज्ञिया वै ग᳘र्भास्त᳘मेतद्ब्र᳘ह्मणैव य᳘जुषा यज्ञि᳘यं करोति य᳘स्यै यो᳘निर्हिरण्ययी᳘त्यदो वा᳘ ऽएत᳘स्यै यो᳘निं व्वि᳘च्छिन्दन्ति य᳘ददो᳘ निष्क᳘र्षन्त्यमृ᳘तमा᳘युर्हि᳘रण्यं ता᳘मे᳘वास्या ऽएत᳘दमृ᳘तां यो᳘निं करोत्य᳘ङ्गान्य᳘ह्रुता य᳘स्य तं᳘ मात्रा स᳘मजीगमᳫँ᳭ स्वाहे᳘ति य᳘दि पु᳘मान्त्स्याद्य᳘द्यु स्त्री स्याद᳘ङ्गान्य᳘ह्रुता य᳘स्यै तां᳘ मात्रा स᳘मजीगमᳫं स्वाहे᳘ति य᳘द्यु ऽअ᳘विज्ञातो ग᳘र्भो भ᳘वति पुᳫँ᳭स्कृ᳘त्यैव᳘ जुहुयात्पु᳘माᳫं᳭सो हि ग᳘र्भा अ᳘ङ्गान्य᳘ह्रुता य᳘स्य तं᳘ मात्रा स᳘मजीगमᳫं᳭ स्वाहे᳘त्यदो वा᳘ ऽएतं᳘ मात्रा व्वि᳘ष्वञ्चं कुर्व्वन्ति य᳘ददो᳘ निष्क᳘र्षन्ति त᳘मेत᳘द्ब्र᳘ह्मणैव य᳘जुषा सम᳘र्ध्य मध्यतो᳘ यज्ञ᳘स्य पु᳘नर्मात्रा स᳘ङ्गमयति॥
मूलम् - श्रीधरादि
य᳘स्यै ते यज्ञि᳘यो ग᳘र्भ इति[[!!]]॥
(त्य᳘) अ᳘यज्ञिया वै ग᳘र्भास्त᳘मेतद्ब्र᳘ह्मणैव य᳘जुषा यज्ञि᳘यं करोति य᳘स्यै यो᳘निर्हिरण्ययी᳘त्यदो वा᳘ ऽएत᳘स्यै यो᳘निं व्वि᳘च्छिन्दन्ति य᳘ददो᳘ निष्क᳘र्षन्त्यमृ᳘तमा᳘युर्हि᳘रण्यं ता᳘मे᳘वास्या ऽएत᳘दमृ᳘तां यो᳘निं करोत्य᳘ङ्गान्य᳘ह्रुता य᳘स्य तं᳘ मात्रा स᳘मजीगमᳫँ᳭ स्वाहे᳘ति य᳘दि पु᳘मान्त्स्याद्य᳘द्यु स्त्री स्याद᳘ङ्गान्य᳘ह्रुता य᳘स्यै तां᳘ मात्रा स᳘मजीगमᳫं स्वाहे᳘ति य᳘द्यु ऽअ᳘विज्ञातो ग᳘र्भो भ᳘वति पुᳫँ᳭स्कृ᳘त्यैव᳘ जुहुयात्पु᳘माᳫं᳭सो हि ग᳘र्भा अ᳘ङ्गान्य᳘ह्रुता य᳘स्य तं᳘ मात्रा स᳘मजीगमᳫं᳭ स्वाहे᳘त्यदो वा᳘ ऽएतं᳘ मात्रा व्वि᳘ष्वञ्चं कुर्व्वन्ति य᳘ददो᳘ निष्क᳘र्षन्ति त᳘मेत᳘द्ब्र᳘ह्मणैव य᳘जुषा सम᳘र्ध्य मध्यतो᳘ यज्ञ᳘स्य पु᳘नर्मात्रा स᳘ङ्गमयति॥
मूलम् - Weber
य᳘स्यै ते यज्ञि᳘यो ग᳘र्भ इ᳘ति॥
अ᳘यज्ञिया वै ग᳘र्भास्त᳘मेतद्ब्र᳘ह्मणैव य᳘जुषा यज्ञि᳘यं करोति य᳘स्यै यो᳘निहिरण्ययी᳘त्यदो वा᳘ एत᳘स्यै यो᳘निं वि᳘छिन्दन्ति य᳘ददो᳘ निष्क᳘र्षन्त्यमृ᳘तमा᳘युर्हि᳘रण्यं ता᳘मेॗवास्या एत᳘दमृ᳘तां यो᳘निं करोत्य᳘ङ्गान्य᳘ह्रुता य᳘स्य त᳘म् मात्रा स᳘मजीगमᳫं स्वाहे᳘ति य᳘दि पु᳘मान्त्स्याद्य᳘द्यु स्त्री स्याद᳘ङ्गान्य᳘ह्रुता य᳘स्यै ता᳘म् मात्रा स᳘मजीगमᳫं स्वाहे᳘ति य᳘द्यु अ᳘विज्ञातो ग᳘र्भो भ᳘वति पुंस्कृ᳘त्यैव᳘ 12 जुहुयात्पु᳘मांसो हि ग᳘र्भा अ᳘ङ्गान्य᳘ह्रुता य᳘स्य त᳘म् मात्रा स᳘मजीगमᳫं स्वाहे᳘त्यदो वा᳘ एत᳘म् मात्रा वि᳘ष्वञ्चं कुर्वन्ति य᳘ददो᳘ निष्क᳘र्षन्ति त᳘मेत᳘द्ब्र᳘ह्मणैव य᳘जुषा सम᳘र्ध्य मध्यतो᳘ यज्ञ᳘स्य पु᳘नर्मात्रा स᳘ङ्गमयति॥
मूलम् - विस्वरम्
“यस्यै ते यज्ञियो गर्भः”- (वा. स. ८ । २९) इति । अयज्ञिया वै गर्भाः । तमेतद्ब्रह्मणैव यजुषा यज्ञियं करोति । “यस्यै योनिर्हिरण्ययी”- (वा. सं. ८ । २५) इति । अदो वा ऽएतस्यै योनिं विच्छिन्दन्ति । यददो निष्कर्षन्ति- अमृतमायुर्हिरण्यम् । तामेवास्या एतदमृतां योनिं करोति । “अङ्गान्यता यस्य तं मात्रा समजीगमं स्वाहा” (वा. सं. ८ । २९) इति यदि पुमान्त्स्यात् । यद्यु स्त्री स्यात् अङ्गान्यह्नुता यस्यै तां मात्रा समजीगमं स्वाहेति । यद्यु ऽअविज्ञातो गर्भो भवति, पुंस्कृत्यैव जुहुयात् । पुमांसो हि गर्भाः । अङ्गान्यह्नुता यस्य तं मात्रा समजीगमं स्वाहा- इति । अदो वा ऽएतं मात्रा विष्वञ्चं कुर्वन्ति- यददो निष्कर्षन्ति । तमेतद्ब्रह्मणैव यजुषा समर्ध्य मध्यतो यज्ञस्य पुनर्मात्रा सङ्गमयति ॥ १० ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- With (Vāj. S. VIII, 29), ‘Thou whose fruit is fit for sacrifice,’–for embryos are unfit for sacrifice: this one he thus makes fit for sacrifice by means of the Brahman, the Yajus;–’thou who hast a golden womb,’–for on that former occasion 13, they rend the womb when they tear out (the embryo); and gold means immortal life; he thus makes that womb of her (the cow) immortal;–‘Him whose limbs are unbroken, I have brought together with his mother, Hail!’ Thus, if it be a male (embryo); but if it be a female one, with, ‘Her whose limbs are unbroken, I have brought together with her mother, Hail!’ And, if it be an indistinguishable embryo, let him offer in making it male, since embryos (garbha, masc.) are male, ‘Him whose limbs are unbroken, I have brought together with his mother, Hail!’ For on that former occasion, when they tear out (the embryo) they separate it from its mother: now, having rendered it successful by means of the Brahman, the Yajus, he brings it again together with its mother in the midst of the sacrifice.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाध्वर्युर्व्व᳘नस्प᳘तिना चरति॥
व्व᳘नस्प᳘तिना ऽध्वर्यु᳘श्चरित्वा या᳘न्युपभृ᳘त्यवदा᳘नानि भ᳘वन्ति ता᳘नि समान᳘यमान᳘ ऽआहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘त्यत्या᳘क्रामति प्रतिप्रस्थाता स᳘ एतᳫँ᳭ स᳘र्व्वमे᳘व मे᳘धं गृह्णीते᳘ ऽथोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयत्याश्रा᳘व्याह प्रेष्ये᳘ति व्व᳘षट्कृते ऽध्वर्यु᳘र्जुहोत्यध्वर्योर᳘नु हो᳘मं जुहोति प्रतिप्रस्थाता᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाध्वर्युर्व्व᳘नस्प᳘तिना चरति॥
व्व᳘नस्प᳘तिना ऽध्वर्यु᳘श्चरित्वा या᳘न्युपभृ᳘त्यवदा᳘नानि भ᳘वन्ति ता᳘नि समान᳘यमान᳘ ऽआहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘त्यत्या᳘क्रामति प्रतिप्रस्थाता स᳘ एतᳫँ᳭ स᳘र्व्वमे᳘व मे᳘धं गृह्णीते᳘ ऽथोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयत्याश्रा᳘व्याह प्रेष्ये᳘ति व्व᳘षट्कृते ऽध्वर्यु᳘र्जुहोत्यध्वर्योर᳘नु हो᳘मं जुहोति प्रतिप्रस्थाता᳘॥
मूलम् - Weber
अ᳘थाध्वयुर्व᳘नस्प᳘तिना चरति॥
व᳘नस्प᳘तिनाध्वर्यु᳘श्चरित्वा या᳘न्युपभृ᳘त्यवदा᳘नानि भ᳘वन्ति ता᳘नि समान᳘यमान आहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘त्यत्या᳘क्रामति प्रतिप्रस्थाता स᳘ एतᳫं स᳘र्वमेव मे᳘धं गृह्णीते᳘ ऽथोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयत्याश्रा᳘व्याह प्रेष्ये᳘ति व᳘षट्कृते ऽध्वर्यु᳘र्जुहोत्यध्वर्योर᳘नु हो᳘मं जुहोति प्रतिप्रस्थाता᳟॥
मूलम् - विस्वरम्
अथाध्वर्युर्वनस्पतिना चरति । वनस्पतिना ऽर्ध्वयुश्चरित्वा यान्युपभृत्यवदानानि भवन्ति- तानि समानयमान आह- ‘अग्नये स्विष्टकृते ऽनुब्रूहि’ इति । अत्याक्रामति प्रतिप्रस्थाता । स एतं सर्वमेव मेधं गृह्णीते । अथोपरिष्टाद् द्विराज्यस्याभिघारयति । आश्राव्याह- ‘प्रेष्य’ इति । वषट्कृते ऽध्वर्युर्जुहोति । अध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता ॥ ११ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- Thereupon the Adhvaryu makes the oblation to the Lord of the forest 14. Having made the oblation to the Lord of the forest, the Adhvaryu, while pouring together the sacrificial portions that are for the upabhr̥ṭ, says (to the Hotr̥), ‘Recite the invitatory prayer to Agni Svishṭakr̥t!’ The Pratiprasthātr̥ comes and takes all that fat juice, and pours twice (ghee) thereon. Having called for the Śraushaṭ, the Adhvaryu says, ‘Prompt!’ and offers as the Vashaṭ is uttered. After the Adhvaryu’s oblation the Pratiprasthātr̥ offers,
१२
विश्वास-प्रस्तुतिः
पुरुदस्मो व्वि᳘षुरूप ऽइ᳘न्दुरि᳘ति॥
बहुदान ऽइ᳘ति हैतद्यदा᳘ह पुरुदस्म इ᳘ति व्वि᳘षुरूप इ᳘ति व्वि᳘षुरूपा ऽइव हि ग᳘र्भा ऽइ᳘न्दुरन्त᳘र्महिमा᳘नमानञ्ज धी᳘र ऽइ᳘त्यन्त᳘र्ह्येष᳘ मात᳘र्यक्तो भ᳘वत्ये᳘कप᳘दीं द्विप᳘दीं त्रिप᳘दीं च᳘तुष्पदीमष्टा᳘पदीं भु᳘वना᳘नु प्रथन्ताᳫँ᳭ स्वाहे᳘ति प्रथ᳘यत्ये᳘वैनामेतत्सु᳘भूयो ह जयत्यष्टा᳘पद्येष्ट्वा य᳘दु चा᳘नष्टापद्या॥
मूलम् - श्रीधरादि
पुरुदस्मो व्वि᳘षुरूप ऽइ᳘न्दुरि᳘ति॥
बहुदान ऽइ᳘ति हैतद्यदा᳘ह पुरुदस्म इ᳘ति व्वि᳘षुरूप इ᳘ति व्वि᳘षुरूपा ऽइव हि ग᳘र्भा ऽइ᳘न्दुरन्त᳘र्महिमा᳘नमानञ्ज धी᳘र ऽइ᳘त्यन्त᳘र्ह्येष᳘ मात᳘र्यक्तो भ᳘वत्ये᳘कप᳘दीं द्विप᳘दीं त्रिप᳘दीं च᳘तुष्पदीमष्टा᳘पदीं भु᳘वना᳘नु प्रथन्ताᳫँ᳭ स्वाहे᳘ति प्रथ᳘यत्ये᳘वैनामेतत्सु᳘भूयो ह जयत्यष्टा᳘पद्येष्ट्वा य᳘दु चा᳘नष्टापद्या॥
मूलम् - Weber
पुरुदस्मो वि᳘षुरूप इ᳘न्दुरि᳘ति॥
बहुदान इ᳘ति हैतद्यदा᳘ह पुरुदस्म इ᳘ति वि᳘षुरूप इ᳘ति वि᳘षुरूपा इव हि ग᳘र्भा इ᳘न्दुरन्त᳘र्महिमा᳘नमानञ्ज धी᳘र इ᳘त्यन्तॗर्ह्येष᳘ मात᳘र्यक्तो भ᳘वत्ये᳘कपदीं द्विप᳘दीं त्रिप᳘दीं च᳘तुष्पदीमष्टा᳘पदीम् भु᳘वना᳘नु प्रथन्ताᳫं स्वाहे᳘ति प्रथ᳘यत्येॗवैनामेतत्सु᳘भूयो ह जयत्यष्टा᳘पद्येष्ट्वा य᳘दुचा᳘नष्टापद्या॥
मूलम् - विस्वरम्
“पुरुदस्मो विषुरूप इन्दुः”- (वा. सं. ८ । ३०) इति । बहुदाना इति हैतद्- यदाह- पुरुदस्म इति । विषुरूप इति । विपुरूपा इव हि गर्भाः । “इन्दुरन्तर्महिमानमानञ्च धीरः”- (वा. सं. ८ । ३०) इति । अन्तर्ह्येष मातर्यक्तो भवति । “एकपदीं द्विपदीं त्रिपदीं चतुष्पदीमष्टापदीं भुवनानु प्रथन्तां स्वाहा” (वा. सं. ८ । ३०) इति । प्रथयत्येवैनामेतत् । सुभूयो ह जयति- अष्टापद्येष्ट्वा, यदु चानष्टापद्या ॥ १२ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- With (Vāj. S. VIII, 30), ‘The bountiful multiform juice 15,’–by ‘bountiful’ he means to say (the bestower) ‘of numerous gifts;’ and ’the multiform’ he says, because embryos are, as it were, multiform,–‘The strong juice hath invested itself with greatness:’–for it (the embryo) is indeed invested 16 in the mother.–‘May the worlds spread along her, the one-footed, two-footed, three-footed, four-footed, eight-footed,–‘Hail!’ He thereby magnifies her (the cow): far more, forsooth, does he gain by offering an eight-footed one, than by one not eight-footed.
१३
विश्वास-प्रस्तुतिः
त᳘दाहुः᳘॥
क्वैतं गर्भं᳘[[!!]] कुर्यादि᳘ति व्वृक्ष᳘ ऽए᳘वैनमु᳘द्दध्युरन्त᳘रिक्षायतना वै ग᳘र्भा अन्त᳘रिक्षमिवैतद्य᳘द्वृक्षस्त᳘देनᳫँ᳭ स्व᳘ ऽए᳘वाय᳘तने प्र᳘तिष्ठापयति त᳘दु वा᳘ ऽआहुर्य᳘ एनं त᳘त्रानुव्याह᳘रेद्वृक्ष᳘ ऽएनं मृतमु᳘द्धास्यन्ती᳘ति त᳘था हैव᳘ स्यात्॥
मूलम् - श्रीधरादि
त᳘दाहुः᳘॥
क्वैतं गर्भं᳘[[!!]] कुर्यादि᳘ति व्वृक्ष᳘ ऽए᳘वैनमु᳘द्दध्युरन्त᳘रिक्षायतना वै ग᳘र्भा अन्त᳘रिक्षमिवैतद्य᳘द्वृक्षस्त᳘देनᳫँ᳭ स्व᳘ ऽए᳘वाय᳘तने प्र᳘तिष्ठापयति त᳘दु वा᳘ ऽआहुर्य᳘ एनं त᳘त्रानुव्याह᳘रेद्वृक्ष᳘ ऽएनं मृतमु᳘द्धास्यन्ती᳘ति त᳘था हैव᳘ स्यात्॥
मूलम् - Weber
त᳘दाहुः᳟᳟॥
क्वैतं ग᳘र्भं कुर्यादि᳘ति वृक्ष᳘ एॗवैनमु᳘द्दध्युरन्त᳘रिक्षायतना वै ग᳘र्भा अन्त᳘रिक्षमिवैतद्य᳘द्वृक्षस्त᳘देनᳫं स्व᳘ एॗवाय᳘तने प्र᳘तिष्ठापयति त᳘दु वा᳘ आहुर्य᳘ एनं त᳘त्रानुव्याह᳘रेद्वृक्ष᳘ एनम् मृतमु᳘द्धास्यन्ती᳘ति त᳘था हैव᳘ स्यात्॥
मूलम् - विस्वरम्
तदाहु:- क्वैतं गर्भं कुर्यादिति । वृक्ष ऽएवैनमुद्दध्युः । अन्तरिक्षायतना वै गर्भाः । अन्तरिक्षमिवैतद् यद्वृक्षः । तदेनं स्व ऽएवायतने प्रतिष्ठापयति । तदु वा ऽआहुः- य एनं तत्रानुव्याहरेद्- वृक्ष ऽएनं मृतमुद्धास्यन्तीति । तथा हैव स्यात् ॥ १३ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- Here now they say, ‘What is he to do with that embryo 17?’ They may expose it on a tree; for
embryos have the air for their support, and the tree is, as it were, the same as the air: thus he establishes it on its own support. But, say they, if, in that case, any one were to curse him, saying, ‘They shall expose him 18 dead on a tree,’ then verily it would be so.
१४
विश्वास-प्रस्तुतिः
(द) अप᳘ ए᳘वै᳘नमभ्य᳘वहरेयुः[[!!]]॥
(रा᳘) आ᳘पो वा᳘ ऽअस्य स᳘र्व्वस्य प्रतिष्ठा त᳘देनम᳘प्स्वेव प्र᳘तिष्ठापयति त᳘दु वा᳘ ऽआहुर्य᳘ ऽएनं त᳘त्रानुव्याह᳘रेद᳘प्स्वेव᳘ मरिष्यतीति[[!!]] त᳘था हैव᳘ स्यात्॥
मूलम् - श्रीधरादि
(द) अप᳘ ए᳘वै᳘नमभ्य᳘वहरेयुः[[!!]]॥
(रा᳘) आ᳘पो वा᳘ ऽअस्य स᳘र्व्वस्य प्रतिष्ठा त᳘देनम᳘प्स्वेव प्र᳘तिष्ठापयति त᳘दु वा᳘ ऽआहुर्य᳘ ऽएनं त᳘त्रानुव्याह᳘रेद᳘प्स्वेव᳘ मरिष्यतीति[[!!]] त᳘था हैव᳘ स्यात्॥
मूलम् - Weber
अप ए᳘वैन᳘मभ्य᳘वहरेयुः॥
आ᳘पो वा᳘ अस्य स᳘र्वस्य प्रतिष्ठा त᳘देनमॗप्स्वेव प्र᳘तिष्ठापयति त᳘दु वा᳘ आहुर्य᳘ एनं त᳘त्रानुव्याह᳘रेदॗप्स्वेव᳘ मरिष्यती᳘ति त᳘था हैव᳘ स्यात्॥
मूलम् - विस्वरम्
अप एवैनमभ्यवहरेयुः । आपो वा ऽअस्य सर्वस्य प्रतिष्ठा । तदेनमप्स्वेव प्रतिष्ठापयति । तदु वा ऽआहुः- य एनं तत्रानुव्याहरेद्- अप्स्वेव मरिष्यतीति । तथा हैव स्यात् ॥ १४ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- They may throw it into the water, for water is the support of everything here: he thus establishes it in the water. But, say they, if, in that case, any one were to curse him, saying, ‘He shall die in water!’ then verily it would be so.
१५
विश्वास-प्रस्तुतिः
(दा) आखूत्कर᳘ ऽए᳘वैनमु᳘पकिरेयुः॥
(रि) इयं वा᳘ ऽअस्य स᳘र्वस्य प्रतिष्ठा त᳘देनमस्या᳘मेव प्र᳘तिष्ठापयति त᳘दु वा᳘ ऽआहुर्य᳘ एनं त᳘त्रानुव्याह᳘रेत्क्षि᳘प्रे ऽस्मै मृता᳘य श्मशानं᳘ करिष्यन्ती᳘ति त᳘था हैव᳘ स्यात्॥
मूलम् - श्रीधरादि
(दा) आखूत्कर᳘ ऽए᳘वैनमु᳘पकिरेयुः॥
(रि) इयं वा᳘ ऽअस्य स᳘र्वस्य प्रतिष्ठा त᳘देनमस्या᳘मेव प्र᳘तिष्ठापयति त᳘दु वा᳘ ऽआहुर्य᳘ एनं त᳘त्रानुव्याह᳘रेत्क्षि᳘प्रे ऽस्मै मृता᳘य श्मशानं᳘ करिष्यन्ती᳘ति त᳘था हैव᳘ स्यात्॥
मूलम् - Weber
आखूत्कर᳘ एॗवैनमु᳘पकिरेयुः॥
इयं वा᳘ अस्य स᳘र्वस्य प्रतिष्ठा त᳘देनमस्या᳘मेव प्र᳘तिष्ठापयति त᳘दु वा᳘ आहुर्य᳘ एनं त᳘त्रानुव्याह᳘रेत्क्षिॗप्रे ऽस्मै मृता᳘य श्मशानं᳘ करिष्यन्ती᳘ति त᳘था हैव᳘ स्यात्॥
मूलम् - विस्वरम्
आखूत्कर ऽएवैनमुपकिरेयुः । इयं वा ऽअस्य सर्वस्य प्रतिष्ठा । तदेनमस्यामेव प्रतिष्ठापयति । तदु वा ऽआहुः- य एनं तत्रानुव्याहरेत्- क्षिप्रे ऽस्मै मृताय श्मशानं करिष्यन्तीति । तथा हैव स्यात् ॥ १५ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- They may bury it ins a mole-hill; for this (earth) is the support of everything here: he thus establishes it on this same (earth). But, say they, if, in that case, any one were to curse him, saying, ‘They shall quickly prepare a burying-place for him, being dead!’ then verily it would be so.
१६
विश्वास-प्रस्तुतिः
(त्य) पशुश्र᳘पण ऽए᳘वैनं मरु᳘द्भ्यो जुहुयात्॥
(द) अहुता᳘दो वै᳘ देवा᳘नां मरु᳘तो व्विड᳘हुतमिवैतद्यद᳘शृतो ग᳘र्भ ऽआहवनी᳘याद्वा᳘ ऽएष आ᳘हृतो भवति पशुश्र᳘पणस्तथा᳘ ह न᳘ बहिर्धा᳘ यज्ञाद्भ᳘वति न᳘ प्रत्य᳘क्षमिवाहवनी᳘ये देवा᳘नां वै᳘ मरु᳘तस्त᳘देनं मरु᳘त्स्वेव प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
(त्य) पशुश्र᳘पण ऽए᳘वैनं मरु᳘द्भ्यो जुहुयात्॥
(द) अहुता᳘दो वै᳘ देवा᳘नां मरु᳘तो व्विड᳘हुतमिवैतद्यद᳘शृतो ग᳘र्भ ऽआहवनी᳘याद्वा᳘ ऽएष आ᳘हृतो भवति पशुश्र᳘पणस्तथा᳘ ह न᳘ बहिर्धा᳘ यज्ञाद्भ᳘वति न᳘ प्रत्य᳘क्षमिवाहवनी᳘ये देवा᳘नां वै᳘ मरु᳘तस्त᳘देनं मरु᳘त्स्वेव प्र᳘तिष्ठापयति॥
मूलम् - Weber
पशुश्र᳘पण एॗवैनम् मरु᳘द्भ्यो जुहुयात्॥
अहुता᳘दो वै᳘ देवा᳘नाम् मरु᳘तो विड᳘हुतमिवैतद्यद᳘शृतो ग᳘र्भ आहवनी᳘याद्वा᳘ एष आ᳘हृतो भवति पशुश्र᳘पणस्तथा᳘ह न᳘ बहिर्धा᳘ यज्ञाद्भ᳘वति न᳘ प्रत्य᳘क्षमिवाहवनी᳘ये देवा᳘नां वै᳘ मरु᳘तस्त᳘देनम् मरु᳘त्स्वेव प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
पशुश्रपण ऽएवैनं मरुद्भ्यो जुहुयात् । अहुतादो वै देवानां मरुतो विट् । अहुतमिवैतद्- यदशृतो गर्भः । आहवनीयाद्वा ऽएष आहृतो भवति । पशुश्रपणः । तथा ह न बहिर्धा यज्ञाद्भवति । न प्रत्यक्षमिव आहवनीये । देवानां वै मरुतः । तदेनं मरुत्स्वेव प्रतिष्ठापयति ॥ १६॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- He may offer it to the Maruts on the cooking-fire of the animal sacrifice; for the Maruts, the clans (common people) of the gods, are not oblation-eaters (ahuta-ad) 19, and the uncooked embryo, as it were, is no oblation (ahuta); and the animal cooking-fire is taken from the Āhavanīya: thus indeed it (the embryo) is
not excluded from the sacrifice, and yet is not (offered) directly in the Āhavanīya (offering-fire). And the Maruts are of the gods: he thus establishes it with the Maruts 20.
१७
विश्वास-प्रस्तुतिः
स᳘ हु᳘त्वैव᳘ समिष्टयजू᳘ᳫँ᳘षि॥
प्रथमावशान्तेष्व᳘ङ्गारेष्वेतᳫँ᳭ सो᳘ष्णीषं ग᳘र्भमा᳘दत्ते तं प्राङ्ति᳘ष्ठञ्जुहोति मारु᳘त्य ऽर्चा[[!!]] म᳘रुतो य᳘स्य हि क्ष᳘ये पाथा᳘ दिवो᳘ व्विमहसः॥ स᳘ सुगोपा᳘तमो ज᳘न इ᳘ति न स्वा᳘हाकरोत्यहुता᳘दो वै᳘ देवा᳘नां मरु᳘तो व्विड᳘हुतमिवैतद्यद᳘स्वाहाकृतं᳘ देवा᳘नां वै᳘ मरु᳘तस्त᳘देनं मरु᳘त्स्वेव प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
स᳘ हु᳘त्वैव᳘ समिष्टयजू᳘ᳫँ᳘षि॥
प्रथमावशान्तेष्व᳘ङ्गारेष्वेतᳫँ᳭ सो᳘ष्णीषं ग᳘र्भमा᳘दत्ते तं प्राङ्ति᳘ष्ठञ्जुहोति मारु᳘त्य ऽर्चा[[!!]] म᳘रुतो य᳘स्य हि क्ष᳘ये पाथा᳘ दिवो᳘ व्विमहसः॥ स᳘ सुगोपा᳘तमो ज᳘न इ᳘ति न स्वा᳘हाकरोत्यहुता᳘दो वै᳘ देवा᳘नां मरु᳘तो व्विड᳘हुतमिवैतद्यद᳘स्वाहाकृतं᳘ देवा᳘नां वै᳘ मरु᳘तस्त᳘देनं मरु᳘त्स्वेव प्र᳘तिष्ठापयति॥
मूलम् - Weber
स᳘ हुॗत्वैव᳘ समिष्टयजूं᳘षि॥
प्रथमावशान्तेष्व᳘ङ्गारेष्वेतᳫं सो᳘ष्णीषं ग᳘र्भमा᳘दत्ते तं प्राङ् ति᳘ष्ठञ्जुहोति मारुत्य᳘र्चा म᳘रुतो य᳘स्य हि क्ष᳘ये पाथा᳘ दिवो᳘ विमहसः स᳘ सुगोपा᳘तमो ज᳘न इ᳘ति न स्वा᳘हाकरोत्यहुता᳘दो वै᳘ देवा᳘नाम् मरु᳘तो विड᳘हुतमिवैतद्यद᳘स्वाहाकृतं 21 देवा᳘नां वै᳘ मरु᳘तस्त᳘देनम् मरु᳘त्स्वेव प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
स हुत्वैव समिष्टयजूंषि, प्रथमावशान्तेष्वङ्गारेष्वेतं सोष्णीषं गर्भमादत्ते । तं प्राङ्तिष्ठञ्जुहोति- मारुत्य ऽर्चा । “मरुतो यस्य हि क्षये पाथा दिवो विमहसः ॥ स सुगोपातमो जनः”- (वा. सं. ८ । ३१) इति । न स्वाहा करोति । अहुतादो वै देवानां मरुतो विट् । अहुतमिवैतद्- यदस्वाहाकृतम् । देवानां वै मरुतः । तदेनं मरुत्स्वेव प्रतिष्ठापयति ॥ १७ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- As soon as he has performed the Samishṭayajus offerings, when the coals are only just extinguished, he takes that embryo with the cloth, and standing with his face to the east, he offers it with a verse to the Maruts (Vāj. S. VIII, 31; Rig-veda I. 86, 1),–‘Verily, O Maruts, in whosesoever house ye drink, the heroes of the sky, he is the best protected man.’ He utters no Svāhā (hail), for the Maruts, the clans of the gods are no oblation-eaters, and no oblation, as it were, is what is offered without Svāhā. And the Maruts are of the gods: he thus establishes it with the Maruts.
१८
विश्वास-प्रस्तुतिः
(त्य) अथा᳘ङ्गारैरभिस᳘मूहति॥
मही द्यौः᳘ पृथिवी᳘ च न इमं᳘ यज्ञं᳘ मिमिक्षताम्। पिपृतां᳘ नो भ᳘रीमभिरि᳘ति॥
मूलम् - श्रीधरादि
(त्य) अथा᳘ङ्गारैरभिस᳘मूहति॥
मही द्यौः᳘ पृथिवी᳘ च न इमं᳘ यज्ञं᳘ मिमिक्षताम्। पिपृतां᳘ नो भ᳘रीमभिरि᳘ति॥
मूलम् - Weber
अथा᳘ङ्गारैरभिस᳘मूहति॥
मही द्यौः᳘ पृथिवी᳘ च न इमं᳘ यज्ञ᳘म् मिमिक्षताम् पिपृतां᳘ नो भ᳘रीमभिरि᳘ति॥
मूलम् - विस्वरम्
अथाङ्गारैरभिसमूहति- “मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः”- (वा. सं. ८ । ३२ ।) इति 22 ॥ १८ ॥
सायणः
[व्याख्यानं चतुर्थे]
इत्यग्निष्टोमः ।
Eggeling
- He then covers it over with the coals with (Vāj. S. VIII, 32; Rig-veda I, 22, 13), ‘The great Heaven and Earth may mix this our sacrifice, and fill us with nourishments!’
-
The beginning of ५. २ is preceded in A by the following words: गर्भप्रसूतिसमये पठन इदं ब्राह्मणं । द्वौ कण्डिका वर्जित । आखूत्कर ॥१॥ पशुश्रपण ॥२॥. ↩︎
-
अनूबंध्यायै व्वपामुत्खिद्यानुमर्शं गर्भमेष्टवै ब्रूयात् । अनेन च शमिता प्रेष्यते । ततश्चाध्वर्युः प्रैषदाने । इति कर्कः । दर्शने स्थालीं चैवोष्णीषं चोपकल्पयितवै ब्रूयात् । अयं च शमितुः प्रति प्रैषः । तदर्थो ऽध्वर्योरेव । इति कर्कः । व्वपांते ऽनपेक्षमध्वर्युः प्रेष्यति निरूहैतं गर्भमिति व्विरुज्य श्रोणी प्रत्यंचं निरूहितवै ब्रूयात् । अत्र कर्कः । प्रैषद्वयं चैतत् । उभयत्र हि क्रियापदमाम्नातम् । प्रेष्येति च ब्रू ३हीति च । तत्रेतिकरणपरिच्छिन्न एकः प्रैषः । शेषो द्वितीयः । प्रयोजनं मध्ये व्विरामः । इति । निरूह्यमाणमभिमंत्रयत एजतु दशमास्य इति पशुवदवदानं गर्भस्य । कण्ठं वा ऽवकृत्य स्थाल्यां मेधश्रावणम् । अत्र कर्कः । मेधपक्षे च स्थाल्या अमंत्रकं प्रोक्षणम्, जुहोतित्वादिति । अवदानसहितमधिश्रित्योष्णीषवेष्टितं गर्भं पार्श्वतो निदधात्यनभिघारितमवदानवद्धृत्वा दक्षिणतो मेधं निदधाति । अत्र कर्कः । अनभिघारितमेधम् अंतरा यूपाग्नी हृत्वा दक्षिणतों ऽगानां । स्थापयेदिति । प्रतिप्रस्थाता वशावदानकाले प्रचरण्याम्मेधमवद्यति । अत्र कर्कः । प्रचरण्याश्च मंत्ररहिता जुहूवत्संस्कारक्रिया । मेधस्य चोपस्तीर्य द्विरवदानं प्रत्युपस्तारश्चेति । अवदानान्यनुजुहोति यस्यै त इति । वशावदानान्यनुमेधं जुहोति यस्यै त इत्यनेन मंत्रेणेति कर्कः । अंगान्यह्रुता यस्य यस्या इति यथालिंगम् । यल्लिंगो गर्भ इति कर्कः । अविज्ञाते पुंवत् । अविज्ञाते गर्भे पुंवत्प्रयोग इति कर्कः । स्विष्टकृद्वनस्पत्यंतरे प्रत्येत्य प्रतिप्रस्थाता प्रचरण्याँ सर्व्वं मेधमवद्यति । स्विष्टकृतमनुजुहोति पुरुदस्म इति । स्विष्टकृदंत उष्णीषवेष्टितस्य व्वृक्षासंजनं वा ऽप्स्ववहरणं वा ऽऽखूत्करोपकिरणं वा । अनुव्याहारभयं त्वेतेषु । समिष्टयजुरंते शामित्र एव जुहुयात्तिष्ठन् मरुत इत्यस्वाहाकृत्य मही द्यौरित्यंगारैरभ्यूहति । गर्भमित्यर्थः । का. श्रौ. सू. । २५। २२८-२४२ । ↩︎
-
391:1 The order of this and the succeeding Brāhmaṇas differs considerably in the two recensions. In the Kāṇva recension the present Brāhmaṇa (the text of which also differs very much) is preceded by three others (V, 6, 1-3), corresponding to M. IV, 5, 3; IV, 5, 4 and IV, 5, 6, respectively. ↩︎
-
391:2 The text has simply, he (viz. the Samitr̥ or butcher) having quieted it, he (the Adhvaryu) says, (Ś.) having pulled it out, let him (A.) bid. . . . ↩︎ ↩︎
-
391:3 The meaning of this would seem to be, that they should not content themselves with the supposition of its being a barren cow, but that they should ascertain whether she is not–as the term is–‘ashṭāpadī,’ or eight-footed, i.e. a cow with calf (cf. par. 12), and should in that case make atonement. The Kāṇva text reads, Now when they thus proceed with that (animal offering), they, thinking it to be one (cow) only, pronounce the āprī verses (āprīṇanti). They turn out to be two (te dve bhavataḥ); and surely it is not right that one should cast away that on which the āprī verses have been pronounced. Now that juice has flowed together from all the limbs: thus offering is also made with those sacrificial portions of that (embryo). And the sacrifice is as much as the havis and Svishṭakr̥t: he thus connects that whole (embryo) with that sacrifice, and thus that which is superfluous (atirikta) becomes not superfluous. ↩︎
-
392:1 The comm. on Kāty. XXV, 10, 7, describes the ushṇīsha, used on this occasion, as a small cloth, or kerchief. ↩︎
-
392:2 See III, 8, 2, 16 seq. ↩︎
-
392:3 Or, even as a ten months’ calf moves with the caul, so he means to say (that) this (should take place). ↩︎
-
393:1 Or, in the same place. The Kāṇva text reads, Having cut off the head, and let the juice (rasa) flow out, he cooks it by the side of (prativeśam) the (flesh) portions. And when they proceed with the havis, then having made an underlayer of ghee, and, taking twice from that juice, having basted (the portions therewith), he replenishes the (places of the) two portions. ↩︎
-
393:2 ? Read ‘samuhya’ for ‘samudya.’ See III, 8, 3, 5 seq. ↩︎
-
393:3 See III, 8, 3, 15 seq. ↩︎
-
पुस्कृ᳘त्यैव᳘ AB. ↩︎
-
394:1 See par. 3. ↩︎
-
395:1 See III, 8, 3, 33. ↩︎
-
395:2 Indu, lit. ‘droop,’ a term usually applied to the draughts of Soma, a connection with which doubtless is here intended. ↩︎
-
395:3 A different simile is implied in the original ‘antar mahimānam ānañja.’ ↩︎
-
395:4 The Kāṇva text is much briefer here: He then ties up the head (śiraḥ pratinahya, ? with the body) either with a cloth (ushṇīsha), or with bast (vakala), and having pushed asunder the cooking-fire of the animal offering, he lays it above them, with ‘Verily, O Maruts . . .,’ for the common people are eaters of raw flesh, and the Maruts are the people: he thus establishes it with the Maruts. Or (uto) with a verse to Heaven and Earth, ‘The great Heaven and Earth . . .,’ for additional superfluous (atirikta) is that (garbha), beyond these two, heaven and earth, nothing whatever remains (or, nothing surpasses them, atiricyata): thus he establishes it within those two, heaven and earth; and while being superfluous, it comes to be no longer superfluous (or redundant). ↩︎
-
396:1 ‘Enam’ apparently refers both to the sacrificer and to the embryo (garbha, masc.). ↩︎
-
396:2 For the common people are eaters of raw flesh (āmād), and the Maruts are the people. Kāṇva text. Neither a Kshatriya nor a Vaiśya can eat remains of offerings, but only a Brāhman is hutād, Ait. Br. VII, 19. ↩︎
-
397:1 One might expect ‘deveshu:’ thus he establishes it with the gods; unless it is intended as the final decision: ‘hence he consigns it to the Maruts.’ The wording is, however, the same as in the preceding paragraphs. ↩︎
-
तद्यद᳘स्वाहाकृतं᳘ AB. ↩︎
-
एष प्रथमः सोमः । सर्वविकाराणामयं प्रथमः सोम इति कर्कः । का. श्रौ. सू. १० । २०७ । ↩︎