०१
विश्वास-प्रस्तुतिः
य᳘दि सो᳘ममपह᳘रेयुः॥
(र्व्वि᳘) व्वि᳘धावते᳘च्छतेति[[!!]] ब्रूयात्स य᳘दि व्विन्द᳘न्ति किमा᳘द्रियेरन्य᳘द्यु न᳘ व्विन्द᳘न्ति त᳘त्र प्रा᳘यश्चित्तिः क्रियते[[!!]]॥
मूलम् - श्रीधरादि
य᳘दि सो᳘ममपह᳘रेयुः॥
(र्व्वि᳘) व्वि᳘धावते᳘च्छतेति[[!!]] ब्रूयात्स य᳘दि व्विन्द᳘न्ति किमा᳘द्रियेरन्य᳘द्यु न᳘ व्विन्द᳘न्ति त᳘त्र प्रा᳘यश्चित्तिः क्रियते[[!!]]॥
मूलम् - Weber
य᳘दि सो᳘ममपह᳘रेयुः॥
वि᳘धावतेछते᳘ति ब्रूयात्स य᳘दि विन्द᳘न्ति किमा᳘द्रियेरन्य᳘द्यु न᳘ विन्द᳘न्ति त᳘त्र प्रा᳘यश्चित्तिः क्रि᳘यते॥
मूलम् - विस्वरम्
यदि सोममपहरेयुः विधावतेच्छतेति ब्रूयात् । स यदि विन्दन्ति किमाद्रियेरन् । यद्यु न विन्दन्ति- तत्र प्रायश्चित्तिः क्रियते ॥ १ ॥
सायणः
यदि सोममिति । अत्र ब्राह्मणे सोमापहारे तत्प्रतिनिधिनियमो गम्यते 1 । कलशभेदसोमातिरेकयोश्च प्रायश्चित्तमुच्यते । (यद्यप्यपहारयुक्तस्वराः सोममतिद्रष्टव्यम्) । स्वीकृतस्य प्रयोगापहारोपपत्तेरक्रीतस्तु सोमविक्रयिणो यदि ह्नियते तेन यजमानस्याभिध्यानादिति विपत्तिनिमित्तां तु कालाहुतिं हुत्वा ऽयं क्रेतव्यः ‘यदि विन्दन्ति’ तमेवोपहृतं न सोमान्तरमपि कुतस्तस्यालाभे प्रायश्चित्तानुपपत्तेः ॥ १ ॥
Eggeling
- If the Soma is carried off, let him say, ‘Run about and seek!’ If they find it, why should they care? But if they do not find it, atonement is made therefore.
०२
विश्वास-प्रस्तुतिः
द्वया᳘नि वै᳘ फाल्गुना᳘नि॥
लो᳘हितपुष्पाणि चारुण᳘पुष्पाणि च स या᳘न्यरुण᳘पुष्पाणि फाल्गुना᳘नि ता᳘न्यभि᳘षुणुयादेष वै सो᳘मस्य न्यङ्गो य᳘दरुण᳘पुष्पाणि फाल्गु᳘नानि त᳘स्मादरुण᳘पुष्पाण्यभि᳘षुणुयात्॥
मूलम् - श्रीधरादि
द्वया᳘नि वै᳘ फाल्गुना᳘नि॥
लो᳘हितपुष्पाणि चारुण᳘पुष्पाणि च स या᳘न्यरुण᳘पुष्पाणि फाल्गुना᳘नि ता᳘न्यभि᳘षुणुयादेष वै सो᳘मस्य न्यङ्गो य᳘दरुण᳘पुष्पाणि फाल्गु᳘नानि त᳘स्मादरुण᳘पुष्पाण्यभि᳘षुणुयात्॥
मूलम् - Weber
द्वया᳘नि वै᳘ फाल्गुना᳘नि॥
लो᳘हितपुष्पाणि चारुण᳘पुष्पाणि च स या᳘न्यरुण᳘पुष्पाणि फाल्गुना᳘नि ता᳘न्यभि᳘षुणुयादेष वै सो᳘मस्य न्यङ्गो य᳘दरुण᳘पुष्पाणि फाल्गु᳘नानि तस्मादरुण᳘पुष्पाण्यभि᳘षुणुयात्॥
मूलम् - विस्वरम्
द्वयानि वै फाल्गुनानि- लोहितपुष्पाणि चारुणपुष्पाणि च । स यान्यरुणपुष्पाणि फाल्गुनानि तान्यभिषुणुयात् । एष वै सोमस्य न्यङ्गो यदरुणपुष्पाणि फाल्गुनानि । तस्मादरुणपुष्पाण्यभिषुणुयात् ॥ २ ॥
सायणः
द्वयानि वा इति ‘द्वयानि’ द्विभागानि ‘फाल्गुनानि’ अर्जुनाख्यानि । कथम् द्विभागानि लोहितपुष्पाणि वारुणं गौरं गौरपुष्पाणि च तत्रैवं सति यान्यरुणपुष्पाण्यर्जुनतृणानि तान्यभिषुणुयात् । सोमोपहृते यागे (द्रव्यमसंस्काराभिषवसस्वत्वद्वारेण) यागसाधनत्वमेव तेषामुच्यते । ‘एष वै सोमस्य न्यङ्गः’ (निकृष्टो यो वत्वा सोमः । अव्या न व्यथते तस्मिन्नितिन्यङ्गः) सोमः अरुणपुष्पेष्वर्जुनेषु श्येनेष्वस्थित इत्यर्थः ॥ २ ॥
Eggeling
- Now there are two kinds of Phālguna plants,
the red-flowering and the brown-flowering. Those Phālguna plants which have brown flowers one may press; for they, the brown-flowering Phālgunas, are akin to the Soma-plant: therefore he may press those with brown flowers.
०३
विश्वास-प्रस्तुतिः
(द्य᳘) य᳘द्यरुण᳘पुष्पाणि न᳘ व्विन्दे᳘युः॥
श्येन᳘हृतमभि᳘षुणुयाद्य᳘त्र वै᳘ गायत्री सो᳘ममच्छा᳘पतत्त᳘स्या ऽआह᳘रन्त्यै सो᳘मस्याᳫँ᳭शु᳘रपतत्त᳘च्छ्येन᳘हृतमभवत्त᳘स्माच्छ्येन᳘हृतमभि᳘षुणुयात्॥
मूलम् - श्रीधरादि
(द्य᳘) य᳘द्यरुण᳘पुष्पाणि न᳘ व्विन्दे᳘युः॥
श्येन᳘हृतमभि᳘षुणुयाद्य᳘त्र वै᳘ गायत्री सो᳘ममच्छा᳘पतत्त᳘स्या ऽआह᳘रन्त्यै सो᳘मस्याᳫँ᳭शु᳘रपतत्त᳘च्छ्येन᳘हृतमभवत्त᳘स्माच्छ्येन᳘हृतमभि᳘षुणुयात्॥
मूलम् - Weber
य᳘द्यरुण᳘पुष्पाणि न᳘ विन्दे᳘युः॥
श्येन᳘हृतमभि᳘षुणुयाद्य᳘त्र वै᳘ गायत्री सो᳘ममछा᳘पतत्त᳘स्या आह᳘रन्त्यै सो᳘मस्यांशु᳘रपतत्त᳘छ्येन᳘हृतमभवत्त᳘स्माछ्ये᳘नहृतमभि᳘षुणुयात्॥
मूलम् - विस्वरम्
यद्यरुणपुष्पाणि न विन्देयुः श्येनहृतमभिषुणुयात्, यत्र वै गायत्री सोममच्छापतत् । तस्या ऽआहरन्त्यै सोमस्यांशुरपतत्, तच्छ्येनहृतमभवत् । तस्माच्छ्येहृतमभिषुणुयात् ॥ ३ ॥
सायणः
यद्यरुणपुष्पाणीति । श्येनहृतं वृक्षेण सोमेन कामवृक्षसंबन्धं ज्ञायते ॥ ३ ॥
Eggeling
- If they cannot get brown-flowering (Phālgunas), he may press the Syenahr̥ta 2 plant. For when Gāyatrī flew up for Soma, a sprig of Soma fell from her, as she was bringing him: it became the Syenahr̥ta plant: therefore he may press the Syenahr̥ta plant.
०४
विश्वास-प्रस्तुतिः
(द्य᳘) य᳘दि श्येन᳘हृतं न᳘ विन्दे᳘युः॥
(रा᳘) आदारा᳘नभि᳘षुणुयाद्य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत त᳘स्य यो र᳘सो व्य᳘प्रुष्यत्त᳘त आदाराः स᳘मभवंस्त᳘स्मादादारा᳘नभि᳘षुणुयात्॥
मूलम् - श्रीधरादि
(द्य᳘) य᳘दि श्येन᳘हृतं न᳘ विन्दे᳘युः॥
(रा᳘) आदारा᳘नभि᳘षुणुयाद्य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत त᳘स्य यो र᳘सो व्य᳘प्रुष्यत्त᳘त आदाराः स᳘मभवंस्त᳘स्मादादारा᳘नभि᳘षुणुयात्॥
मूलम् - Weber
य᳘दि श्येन᳘हृतं न᳘ विन्दे᳘युः॥
आदारा᳘नभि᳘षुणुयाद्य᳘त्र वै यज्ञ᳘स्य शिरो᳘ ऽछिद्यत त᳘स्य यो र᳘सो व्य᳘प्रुष्यत्त᳘त आदाराः स᳘मभवंस्त᳘स्मादादारा᳘नभि᳘षुणुयात्॥
मूलम् - विस्वरम्
यदि श्येनहृतं न विन्देयुः- आदारानभिषुणुयात् । यत्र वै यज्ञस्य शिरो ऽच्छिद्यत- तस्य यो रसो व्यप्रुष्यत्- तत आदाराः समभवन् । तस्मादादारानभिषुणुयात् ॥ ४ ॥
सायणः
यदि श्येनहृतमिति । ‘आदाराः’ प्रसिद्धानि मध्यदेशतृणानीति अरुणा (गोयो वा) दुर्वाकुशदर्भा हरितान् शुष्कानपि यानेव कांश्चिदपि तथान्यप्रकरणानामवस्थानियमः । (प्रस्वः प्रस्तरम्) एकां गां दद्यादिति च संबन्धे सति गामित्यनुवाद एकैव संख्यायाः शतसंख्यामात्राधिकारिण्याः स्वयमेव गोविषयतोपपत्तेः स्वतन्त्रां गामेकां दद्याद्धिरण्यादि यथाप्राप्तमित्येतदापद्येत । (एवं शब्दस्वनिस्वानुवाहेन एवाथवा कृते (द) प्रसङ्गादेकशब्दाच्च परोसौ स तन्निवृत्तिमेव द्योतयति) । विपक्षत्वात्तद्द्रव्यान्तरे निवृत्तिस्तेन देयमेवात्र हिरण्यादीति गम्यते । अवभृथादेवेत्युदयनीयामप्यकृत्वेत्यर्थः । पुनर्दीक्षेत पुनर्यज्ञायेत्यभिप्रायः । कुत एतत् । अत्र ह्येतावदेव विधीयते पुनः कुर्यादिति । कुर्याद्यत् कृत्वा यादृशेनैव पुनर्यजेत तथा चाह- पुनर्यज्ञो ह्येव तत्र प्रायश्चित्तिरिति । ततश्च तस्मिन्नेव देवयजने तिष्ठेत शालासदोहविर्द्धानविहारे पुनःशब्दात् सर्वत्रापि दीक्षां कुर्यात् । तत्र च पुनर्यज्ञवचनादेव तद्वद्ददाति यत् पूर्वस्मिन्कृतप्रयोगे दास्यन्स्यादिति सोमापहृतानामिति वाक्योपसंहारः । सोमो ऽपहृतो येषां यजमानानां ते सोमापहृताः । “वा ऽऽहिताग्न्यादिषु” । (पा. सू. २ । २ । ३७) इति निष्ठायाः परनिपातः । तेषामेतत् कर्म भवति । अथ यद्यपहृते सोममेवान्यं विन्देयुस्ततः कथं न तमभिषुणुयुस्तत्रास्य विशेषोपहृते प्रतिनिधिता स्यात् । चरकाणां तु सोमे लब्धे सोमोपहर्त्रे किंचिद्दत्त्वा सोम एवाभिषोतव्य इति वचनम् ॥ ४-६ ॥
Eggeling
- If they cannot get the Śyenahr̥ta, he may press Ādāra plants. For when the head of the sacrifice was cut off, then Ādāra plants sprung from the sap which spirted from it: therefore he may press Ādāra plants.
०५
विश्वास-प्रस्तुतिः
(द्य᳘) य᳘द्यादारान्न᳘ व्विन्दे᳘युः॥
(र) अरुणदूर्व्वा᳘ अभि᳘षुणुयादेष वै सो᳘मस्य न्यङ्गो य᳘दरुणदूर्व्वास्त᳘स्मादरुणदूर्व्वा ऽअभि᳘षुणुयात्॥
मूलम् - श्रीधरादि
(द्य᳘) य᳘द्यादारान्न᳘ व्विन्दे᳘युः॥
(र) अरुणदूर्व्वा᳘ अभि᳘षुणुयादेष वै सो᳘मस्य न्यङ्गो य᳘दरुणदूर्व्वास्त᳘स्मादरुणदूर्व्वा ऽअभि᳘षुणुयात्॥
मूलम् - Weber
य᳘द्यादारान्न᳘ विन्दे᳘युः॥
अरुणदूर्वा᳘ अभि᳘षुणुयादेष वै सो᳘मस्य न्यङ्गो य᳘दरुणदूर्वास्त᳘स्मादरुणदूर्वा᳘ अभि᳘षुणुयात्॥
मूलम् - विस्वरम्
यद्यादारान्न विन्देयुः- अरुणदूर्वा अभिषुणुयात् । एष वै सोमस्य न्यङ्गो- यदरुणदूर्वाः । तस्मादरुणदूर्वा अभिषुणुयात् ॥ ५ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- If they cannot get Ādāras, he may press brown Dūb (dūrvā) plants, for they, the brown Dūb plants, are akin to the Soma: therefore he may press brown Dūb plants.
०६
विश्वास-प्रस्तुतिः
(द्य᳘) य᳘द्यरुणदूर्व्वा न᳘ व्विन्दे᳘युः॥
(र᳘) अ᳘पि या᳘नेव कां᳘श्च ह᳘रितान्कुशा᳘नभि᳘षुणुयात्तत्राप्ये᳘कामेव गां᳘ दद्याद᳘थावभृथा᳘दे᳘वोदे᳘त्य पु᳘नर्दीक्षेत पुनर्यज्ञो᳘ ह्येव त᳘त्र प्रा᳘यश्चित्तिरि᳘ति नु᳘ सोमापहृता᳘नाम्॥
मूलम् - श्रीधरादि
(द्य᳘) य᳘द्यरुणदूर्व्वा न᳘ व्विन्दे᳘युः॥
(र᳘) अ᳘पि या᳘नेव कां᳘श्च ह᳘रितान्कुशा᳘नभि᳘षुणुयात्तत्राप्ये᳘कामेव गां᳘ दद्याद᳘थावभृथा᳘दे᳘वोदे᳘त्य पु᳘नर्दीक्षेत पुनर्यज्ञो᳘ ह्येव त᳘त्र प्रा᳘यश्चित्तिरि᳘ति नु᳘ सोमापहृता᳘नाम्॥
मूलम् - Weber
य᳘द्यरुणदूर्वा न᳘ विन्दे᳘युः॥
अ᳘पि या᳘नेव कां᳘श्च ह᳘रितान्कुशा᳘नभि᳘षुणुयात्तत्राप्ये᳘कामेव गां᳘ दद्याद᳘थावभृथा᳘देॗवोदे᳘त्य पु᳘नर्दीक्षेत पुनर्यज्ञोॗ ह्येव त᳘त्र प्रा᳘यश्चित्तिरि᳘ति नु᳘ सोमापहृता᳘नाम्॥
मूलम् - विस्वरम्
यद्यरुणदूर्वा न विन्देयुः- अपि यानेव कांश्च हरितान्कुशानभिषुणुयात् । तत्राप्येकामेव गां दद्यात् । अथावभृथादेवोदेत्य पुनर्दीक्षेत । पुनर्यज्ञो ह्येव तत्र प्रायश्चित्तिः- इति नु सोमापहृतानाम् ॥ ६ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- If they cannot get brown Dūb plants, he may also press any kind of yellow Kuśa plants. In that case let him also give one cow; and, when he comes out of the purificatory bath, let him again become consecrated, for the atonement for that (use of plants other than Soma) is a second sacrifice. So much then as to those robbed of their Soma.
०७
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ कलशदि᳘राम्॥
य᳘दि कल᳘शो दीर्येता᳘नुलिप्सध्वमि᳘ति ब्रूयात्स य᳘द्यनुल᳘भेरन्प्रसृतमात्रं᳘ वा ऽञ्जलिमात्रं᳘ वा तद᳘न्यैरे᳘कधनैरभ्युन्नी᳘य[[!!]] यथाप्रभा᳘वं प्र᳘चरेयुर्य᳘द्यु᳘ नानुल᳘भेरन्नाग्रयण᳘स्यैव᳘ प्रस्क᳘न्द्यान्यैरे᳘कधनैरभ्युन्नी᳘य यथाप्रभा᳘वं प्र᳘चरेयुः स यद्य᳘नीतासु द᳘क्षिणासु कल᳘शो दीर्ये᳘त तत्राप्ये᳘कामेव गां᳘ दद्याद᳘थावभृथा᳘दे᳘वोदे᳘त्य पु᳘नर्दीक्षेत पुनर्यज्ञो᳘ ह्येव त᳘त्र प्रा᳘यश्चित्तिरि᳘ति नु᳘ कलशदि᳘राम्॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ कलशदि᳘राम्॥
य᳘दि कल᳘शो दीर्येता᳘नुलिप्सध्वमि᳘ति ब्रूयात्स य᳘द्यनुल᳘भेरन्प्रसृतमात्रं᳘ वा ऽञ्जलिमात्रं᳘ वा तद᳘न्यैरे᳘कधनैरभ्युन्नी᳘य[[!!]] यथाप्रभा᳘वं प्र᳘चरेयुर्य᳘द्यु᳘ नानुल᳘भेरन्नाग्रयण᳘स्यैव᳘ प्रस्क᳘न्द्यान्यैरे᳘कधनैरभ्युन्नी᳘य यथाप्रभा᳘वं प्र᳘चरेयुः स यद्य᳘नीतासु द᳘क्षिणासु कल᳘शो दीर्ये᳘त तत्राप्ये᳘कामेव गां᳘ दद्याद᳘थावभृथा᳘दे᳘वोदे᳘त्य पु᳘नर्दीक्षेत पुनर्यज्ञो᳘ ह्येव त᳘त्र प्रा᳘यश्चित्तिरि᳘ति नु᳘ कलशदि᳘राम्॥
मूलम् - Weber
अ᳘थ कलशदि᳘राम्॥
य᳘दि कल᳘शो दीर्येता᳘नुलिप्सध्वमि᳘ति ब्रूयात्स य᳘द्यनुल᳘भेरन्प्रसृतमात्रं᳘ वाञ्जलिमात्रं᳘ वा त᳘दन्यैरेकधनैरभ्युन्नी᳘य यथाप्रभा᳘वम् प्र᳘चरेयुर्य᳘द्युॗ नानुल᳘भेरन्नाग्रयण᳘स्यैव᳘ प्रस्क᳘न्द्यान्यैरे᳘कधनैरभ्युन्नी᳘य यथाप्रभा᳘वम् प्र᳘चरेयुः स यद्य᳘नीतासु द᳘क्षिणासु कल᳘शो दीर्ये᳘त तत्राप्ये᳘कामेव गां᳘ दद्याद᳘थावभृथा᳘देॗवोदे᳘त्य पु᳘नर्दीक्षेत पुनर्यज्ञोॗ ह्येव त᳘त्र प्रा᳘यश्चित्तिरि᳘ति नु᳘ कलशदि᳘राम्॥
मूलम् - विस्वरम्
अथ कलशदिराम् । यदि कलशो दीर्येत- अनुलिप्सध्वमिति ब्रूयात् । स यद्यनुलभेरन् प्रसृतमात्रं वा ऽञ्जलिमात्रं वा- तदन्यैरेकधनैरभ्युन्नीय- यथाप्रभावं प्रचरेयुः । यद्यु नानुलभेरन्- आग्रयणस्यैव प्रस्कन्द्य, अन्यैरेकधनैरभ्युन्नीय यथाप्रभावं प्रचरेयुः । स यद्यनीतासु दक्षिणासु कलशो दीर्येत- तत्राप्येकामेव गां दद्यात् । अथावभृथादेवोदेत्य पुनर्दीक्षेत पुनर्यज्ञो ह्येव तत्र प्रायश्चित्तिः- इति नु कलशदिराम् ॥ ७ ॥
सायणः
अथ कलशदिरामिति । ‘कलशो’ द्रोणकलशः तत्रैव नित्यं कलशशब्दस्य प्रयोगाद् “आजिघ्र कलशे” त्यादौ ‘कलशदिराम्’ (इति दारुनिथयदांदि) “कलशो दीर्णो येषां कर्तॄणां ते कलशदिरस्तेषां कर्म वक्ष्यते इति शेषः 3 ‘अनुलिप्सध्वम्’ अनुलब्धुमिच्छतेत्यर्थः । अन्यैरिति (पूर्वसवनांता यज्ञे योत्तरसवनार्थं) ये स्थापितास्तेभ्यो ‘यथाप्रभावं’ प्रभावनं प्रभाव आप्यायनमित्यर्थः । यथा यथा प्रभावस्तथा तथा इत्येतस्मिन्नर्थे समासः । तावतैव सोमेन यथा सर्वेषु प्रभावनं भवति तथा प्रचरेयुः । आग्रयणस्यैकदेशमिति शेषः । प्रस्कन्द्य “स्कन्दिर् गतिशोषणयोः”- (धा. पा. भ्वा. पं. १००४) । प्रपात्येत्यर्थः । ‘यद्यनीतासु’ इत्यनुवादमात्रम् । एकामेवेत्यस्यानेकनिवृत्तिपरत्वात्; (नीताद्येव तानेकनिवृत्तेः सप्तवत्) । अथावभृथादित्येतद्यथाप्रभावं प्रचरेयुरित्येतेन संबध्यते । ततश्च नीतास्वपि दक्षिणासु कलशे दीर्णे पुनर्यज्ञः स्यादेव; एवमिहापरेष्वपि द्रष्टव्यम् ॥ ७ ॥
Eggeling
- Now as to those who burst their Soma-trough (kalaśa). If the trough bursts, let him say, ‘Try to catch it!’ If they catch a handful or a goupenful 4 (of Soma), let them perform, as far as is in their power 5,
after pouring (water) to it from other ekadhana pitchers. But if they do not catch any, let them perform, as far as is in their power, after pouring out some of the Āgrayaṇa and pouring (water) thereto from other ekadhana pitchers. And if the trough bursts before the dakshiṇā (cows) have been led up, let him then give one cow; and after coming out from the purificatory bath, let him be consecrated again; for the atonement for that (mishap) is a second sacrifice. So much then as to those who burst the trough.
०८
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ सोमातिरिक्ता᳘नाम्॥
य᳘द्यग्निष्टोम᳘मतिरिच्ये᳘त पूतभृ᳘त ए᳘वो᳘क्थ्यं[[!!]] गृह्णीयाद्यद्यु᳘क्थ्यमतिरिच्ये᳘त षोडशि᳘नमु᳘पेयुर्य᳘दि षोडशि᳘नमतिरिच्ये᳘त रा᳘त्रिमु᳘पेयुर्य᳘दि रा᳘त्रिमतिरिच्येता᳘हरु᳘पेयुर्ने᳘त्त्वे᳘वातीरे᳘को ऽस्ति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ सोमातिरिक्ता᳘नाम्॥
य᳘द्यग्निष्टोम᳘मतिरिच्ये᳘त पूतभृ᳘त ए᳘वो᳘क्थ्यं[[!!]] गृह्णीयाद्यद्यु᳘क्थ्यमतिरिच्ये᳘त षोडशि᳘नमु᳘पेयुर्य᳘दि षोडशि᳘नमतिरिच्ये᳘त रा᳘त्रिमु᳘पेयुर्य᳘दि रा᳘त्रिमतिरिच्येता᳘हरु᳘पेयुर्ने᳘त्त्वे᳘वातीरे᳘को ऽस्ति॥
मूलम् - Weber
अ᳘थ सोमातिरिक्ता᳘नाम्॥
य᳘द्यग्निष्टोम᳘मतिरिच्ये᳘त पूतभृ᳘त एॗवोक्थ्यं᳘ गृह्णीयाद्य᳘द्युक्थ्य᳘मतिरिच्ये᳘त षोडशि᳘नमु᳘पेयुर्य᳘दि षोडशि᳘नमतिरिच्ये᳘त रा᳘त्रिमु᳘पेयुर्य᳘दि रा᳘त्रिमतिरिच्येता᳘हरु᳘पेयुर्नेॗत्त्वेॗवातीरेॗको ऽस्ति॥
मूलम् - विस्वरम्
अथ सोमातिरिक्तानाम् । यद्यग्निष्टोममतिरिच्येत- पूतभृत एवोक्थ्यं गृह्णीयात् । यद्युक्थ्यमतिरिच्येत- षोडशिनमुपेयुः । यदि षोडशिनमतिरिच्येत- रात्रिमुपेयुः । यदि रात्रिमतिरिच्येत- अहरुपेयुः । नेत्त्वेवातीरेको ऽस्ति ॥ ८ ॥
सायणः
अथ सोमातिरिक्तानामिति । सोमो ऽतिरिक्तो येषां ते सोमातिरिक्तास्तेषां कर्म प्रवक्ष्यत इति शेषः 6 । यदि तावदग्निष्टोमसंस्थः प्रक्रान्तः सोमो ऽतिरिच्यते न सर्वस्तोत्रोपयुक्तः स्यादित्यर्थः । तत्रोक्थ्यं तदुपयोगाय गृह्णीयात् । तत्रापि विगृह्यमाणे दशचमसा हूयन्ते तेन सर्वः सोमान्वयः उपयोक्ष्यत इत्यभिप्रायः । तत्र चोक्थ्यस्यान्तःपवित्राद्ग्रहणं प्राप्तमत आह- ‘पूतभृत एवोक्थ्यं गृह्णीयात्’ नान्तःपवित्रादिति । अत्र चोक्थ्यग्रहणचोदनायैव विग्रहाणां स्तोत्रशस्त्रं चमसोन्नयनहोमादि चोदितमित्यभिप्रायः । यदि तु उक्थ्यसंस्थं क्रतुमारब्धं सोमो ऽतिरिच्यत्येव ततः षोडशिनं ग्रहमुपगच्छेयुः । तस्यापि हि चमसेष्वतिरिक्तः सोम उपयोक्ष्यते । यदि षोडशिनं ऋतुमारब्धं सोमो ऽतिरिच्येत ततो ऽतिरात्रमुपगच्छेयुः । रात्रिरिति श्रुत्यन्तरप्रसिद्धानि द्वादशप्रदानानि रात्र्यां पूर्वं तानि गृह्यन्ते तेषां चैकं दशभिर्दशभिश्चमसैस्तथैव च [ग्रहोद्यांतिरोह्णीय] चमसप्रदानंसन्धिस्तोत्रमाश्विनं शस्त्रमेनामीदृशीं रात्रिमुपेयुः । यदि तु रात्रिप्रक्रान्त्या सोमो ऽतिरिच्येत ततो ऽहरूपेषु स्तब्धपूर्वस्मादेवोक्थ्याद्यनुक्रमणादप्तोर्यामात्मकमहरिति गम्यते ततश्च तिरोह्णीयेभ्य ऊर्ध्वं रात्रिपर्याय उत्तमः कार्यः । (स तु भृष्ट च स्वमास) प्रायणीये नेत्त्वेव अतीरेको ऽस्तीति सामान्यवचनमेतदुक्तं भवति न क्वचिदपि सोमस्यातिरेकः स्वीकार्यः सर्वस्यातिरिक्तप्रदानविधेर्वृद्ध्या वा श्रुत्यन्तरोक्तेन चोपायेन प्रदेयत्वमिति । ते च श्रुत्यन्तरोक्ताः प्रदानोपायाः प्रातःसवनत्वात्सोमो ऽतिरिच्येतेत्युपक्रम्य दर्शिताः सर्वेषु सोमापहारादिषु परमेष्ठ्यादिहोमो ऽप्यस्ति कलशभेदने स्कन्नप्रायश्चित्तमित्यपरोविशेषः ॥ ८ ॥
इति श्रीहरिस्वामिनः कृतौ माध्यान्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमे ऽध्याये दशमं ब्राह्मणम् ॥ (४-५-१०) इति पञ्चमो ऽध्यायः समाप्तः ॥ (४-५) ॥
Eggeling
- Then as to those by whom any Soma is left over. If any (Soma) be left after the Agnishṭoma, let him draw the Ukthya cup from the Pūtabhr̥t. If any be left after the Ukthya, let him undertake the Shoḍaśin. If any be left after the Shoḍaśin, let them undertake a night (performance) 7. If any be left after the night (performance), let them undertake a day (performance) 8. But nothing, surely, remains after that 9.
-
सोमापहरणे व्विधावतेच्छयेति ब्रूयात् । अध्वर्युः । बहुविषयत्वात्प्रेषणस्येति कर्कः । शत्रुणा सोमापहरणे कृते यजमानः पुरुषान् प्रेष्येत् । त्वरया गच्छत, अन्वेषयत, इति प्रैषद्वयार्थः । अदर्शने ऽरुणपुष्पाण्यर्जुनान्यभिषुणुयात् । अर्जुनशब्दस्तृणवाचकः । शष्पं बालतृणं घासो यवसं तृणमर्जुनमित्यभिधानात् । श्रुतप्रतिनिधिरयं । ततश्च सोमशब्देनोपलक्षणं, इति कर्कः । श्येनहृतं पूतीकानादारानरुणदूर्व्वाहरितकुशान् पूर्व्वालाभे पूर्व्वालाभ उत्तरान् । खदिरादेर्बहुकालीनवृक्षस्य ये वल्लीरूपा अंकुरा उत्पद्यंते ते श्येनहृतमित्युच्यते । पूतीकाः रोहिततृणं । आदार इतिपूतिकानां नामांतरं । एकां गां दत्वा समाप्य पुनर्यज्ञः । अपहृतसोमद्रव्ये यज्ञे गोशतस्थाने एका गौर्दक्षिणेत्यर्थः । अत्रच गोः संख्यासंबंधः । ततश्च हिरण्यादीनामनिवृत्तिः, इति कर्कः । अवभृथांते वा श्रुतिसामर्थ्यात् । उदयनीयाद्यकृत्वैव अवभृथांत एव वा पुनर्यज्ञो भवतीत्यर्थः । का. श्रौ. सू. २५ । ३००-३०४ । ↩︎
-
422:1 That is, the plant ‘carried away by the falcon (or eagle).’ ↩︎
-
कलशभेदने व्वषट्कारनिधनं ब्रह्म साम । द्रोणकलशभेद एवेदं प्रायश्चित्तम् । वसतीवर्येकधनादिकलशभेदे तु अभिमर्शनादि अनुलिप्सध्वमिति प्रेष्यति । अध्वर्युरिति शेषः । प्रतिप्रस्थात्रादीन् प्रति । कलशभेदने सति स्कन्नं सोमं ग्रहीतुमिच्छतेति प्रैषार्थः । यदनुलभेरंस्तदेकधनैरभ्युन्नीय प्रभावयंतः प्रचरेयुः । अभ्युन्नीय बहुलं कृत्वा प्रभावयंतः द्रोणकलशसंबंधि कर्म कुर्वंतः प्रचरेयुः द्रोणकलशसंबंधि सर्वं सोमकर्म तेन सोमेन कुर्युरित्यर्थः । आग्रयणाद्वा ऽनुपलभमानेषु पूर्व्ववत् । अनुपलभमाने सोमे आग्रयणादादाय एकघनैरभ्युन्नीय पूर्ववत् प्रचरेयुरिति सूत्रार्थः । आनीतासु चेद्दक्षिणासु भेदनं पूर्व्ववद्दत्वा तथैव यज्ञः । आनीतासु परं अदत्तासु । भेदनं द्रोणकलशभेदनं चेत् पूर्ववद्दत्वेति एकस्या गोर्दानं तथैव यज्ञः अवभृथानंतरमेव पुनर्यज्ञः आदित आरभ्य आदीप्य प्रवेशनांत इति सूत्रार्थः । का० श्रौ० सू० २५ । ३०५-३०९ । ↩︎
-
422:2 Scotch for the measure of both hands placed side by side; Ags. geap, Low Germ. göpse. ↩︎
-
422:3 Yathāprabhāvam: Kāty. XXV, 12, 24 seems to take it in the sense of ‘abundantly,’ as he circumscribes it by ‘prabhāvayantaḥ (which the commentator explains by ‘distributing over the several vessels’). ↩︎
-
प्रातःसवनाच्चेत्सोमो ऽतिरिच्येत तमुन्नीयोपाकरणमस्ति सोमो अयमिति । उक्थ्यग्रहोन्नयनानंतरं चमसेष्वपि पूर्णेषु सोमः पूतभृत्येवावशिष्येत चेत् तमतिरिक्तं सोमं विभागेन दशसु चमसेषून्नीय तृणाभ्यां होतृचमसमुपस्पृश्य अस्ति सोमो अयमिति मंत्रेण स्तोत्रोपाकारणं कुर्यादिति सूत्रार्थः । मरुत्वतीषु गायत्रेण स्तुवीरन् । मरुत्वतीषु मरुल्लिंगास्वृक्षु गायत्रेण साम्ना स्तुवीरन्नुद्गातार इति सूत्रार्थः । ऐंद्रावैष्णवँ होता शँसति । ऐंद्रावैष्णवं शस्त्रं यस्मात्स्तोमादतिरिच्येत स एव कार्यः सर्वत्र । यस्मात्त्रिवृत्पंचदशसप्तदशैकविंशादेः स्तोमात् सोमो अतिरिच्येत स एव स्तोम प्रायश्चित्तार्थं स्तोत्रे ऽपि कार्यः । सर्वत्र त्रिष्वपि सवनेषु । इति सूत्रार्थः । माध्यंदिनाच्चेत्पूर्ववदुपाकरणम् । माध्यंदिनसवने अंतिमोक्थ्यचमसोन्नयनानंतरं पूतभृत्सोमातिरेके होमादि दशसु चमसेष्वित्यादिप्रातःसवनवत् कुर्यादिति सूत्रार्थः । बण्महां२असीति बृहतीष्वादित्यवतीषु गौरीवीतेन स्तुवीरन् । गौरीवतिं साम । पूर्व्ववद्धोता । ऐंद्रावैष्णवँ शस्त्रं शंसतीत्यर्थः । तृतीयसवनाच्चेद्विष्णोः शिपिविष्टवतीषु गौरीवीतेन । तृतीयसवने अंतिमचमसोन्नयनांनंतरं पूतभृति सोमातिरेके तमतिरिक्तं सोमं दशसु चमसेषु विभज्य अस्ति सोमो अयमिति स्तोत्रोपाकरणं तत उद्गातारः शिपिविष्टविष्णुलिंगासु ऋक्षु गौरीवीतेन स्तुवीरन्निति सूत्रार्थः । एतत्कृत्वोक्थ्यं वा गृह्णीयात् । एतत् प्रायश्चित्तं कृत्वा पूतभृति सोमातिरेके पूतभृत एव उक्थ्यस्थाल्यामुक्थ्यं गृहीत्वा आसाद्य ततो विगृह्णीयाद्वा । इति सूत्रार्थः । उक्थ्याच्चेत्षोडशी कार्यः । उक्थ्यसंस्था चेत् तृतीयसवने सोमो ऽतिरिच्येत तदा सोमस्योपयोगाय षोडशी कार्य उक्थ्यसंस्थः प्रारब्धो ऽपि निमित्तवशात् षोडशीसंस्थः कार्यः । इति सूत्रार्थः । षोडशिनश्चेदतिरात्रः । षोडशीसंस्थाकक्रतोः तृतीयसवने सोमातिरेके षोडशीसंस्थः प्रारब्धो ऽपि अतिरात्रसंस्थः कार्य इति सूत्रार्थः । अतिरात्राच्चेद्बृहत् । अतिरात्रसंस्था चेत् आश्विनार्थं चमसेषून्नीतेषु पूतभृति सोमातिरेके तदुपयोगाय शिपिविष्टविष्णुलिंगास्वृक्षु बृहत्साम कुर्वीरन्नुद्गातार इति सूत्रार्थः । महाव्व्रतमेके यथोक्तम् । अतिरात्रातिरिक्ते सोमे महाव्रतं साम । यथोक्तं प्रदेशांतरे । यथा गवामयने उक्तं तथा ऽत्र कुर्वंत्येके । इति सूत्रार्थः । अप्तोर्यामो वेति पक्षांतरम् । अतिरात्रे सोमातिरेके अतिरात्रसंस्थः प्रारब्धो ऽपि अप्तोर्यामसंस्थाकः कार्यः । अंत्याच्चेत्तस्यैवावृत्तिर्नातिरेको ऽस्तीति श्रुतेः । अप्तोर्यामे सोमातिरेके तस्याप्तोर्यामस्यैवावृत्तिः कार्या । नह्यप्तोर्यामात्परं संस्थांतरमस्ति अतिरिक्तसोमोपयोगाय । इति सूत्रार्थः । पूर्व्वात्सवनादतिरिक्तस्योत्तरे संपावनमेके । सर्वेषु सवनेषु सोमातिरेके पक्षांतरमिदम् । तं निकामयमानो ऽभ्यतिरिच्यत इति श्रुतेः । एके आचार्याः पूर्वसवनातिरिक्तसोमं उत्तरे सोमे संपातयंति प्रक्षिपंतिं कुत एतत् श्रुतेः । इति सूत्रद्वयार्थः । तृतीयसवनाच्चेद्धारियोजने ऽवनीयहोमः अस्मिन् पक्षांतर एव तृतीयसवने । अस्मृताव्वृजषिश्रस्याप्स्ववहरणम् । सोमातिरेके उत्तरस्य सवनस्याभावात् कथं क्रियतामितीतिकर्तव्यताकांक्षायां द्रोणकलशस्थं सोमं हारियोजनमध्ये अवनीय प्रक्षिप्य जुहुयात् । हारियोजनमध्ये प्रक्षेपस्यास्मृतौ अतिरिक्तं सोमं ऋजीषमध्ये प्रक्षिप्य अवभृथमञ्जनसमये अप्सु अवहरणं प्रक्षेपणं विदधीत इति सूत्रार्थः । इति सौत्राणि सोमातिरेकप्रायश्चित्तानि । का० श्रौ० सू० २५ । ३१०-३२८ । ↩︎
-
423:1 That is, he is to perform an Atirātra, see p. 397, note 2. ↩︎
-
423:2 Kāty. XXV, 13, 52-14, in that emergency, prescribes either the Br̥hat-sāman (by which a seventeenth stotra is obtained at the Vājapeya sacrifice, for which see more in Kāṇḍa V), or the Mahāvrata (see IV, 6, 4, 1, with note 2), or the Aptoryāma (see p. 398, note 2). ↩︎
-
423:3 The meaning of this seems to be, that after the Aptoryāma, no other sacrifice remains at which he could dispose of any Soma that might be left (and hence one must finish it at that sacrifice). According to Kāty. ib. 15, he is to repeat the Aptoryāma, if any Soma remains after the first performance. ↩︎