०१

विश्वास-प्रस्तुतिः

आदित्ये᳘न चरु᳘णोदयनी᳘येन प्र᳘चरति॥
तद्य᳘दादित्य᳘श्चरुर्भ᳘वति य᳘दे᳘वैनामदो᳘ देवा ऽअ᳘ब्रुवंस्त᳘वैव᳘ प्रायणी᳘यस्त᳘वोदयनी᳘य ऽइ᳘ति त᳘मे᳘वास्या ऽएत᳘दुभय᳘त्र भागं᳘ करोति॥

मूलम् - श्रीधरादि

आदित्ये᳘न चरु᳘णोदयनी᳘येन प्र᳘चरति॥
तद्य᳘दादित्य᳘श्चरुर्भ᳘वति य᳘दे᳘वैनामदो᳘ देवा ऽअ᳘ब्रुवंस्त᳘वैव᳘ प्रायणी᳘यस्त᳘वोदयनी᳘य ऽइ᳘ति त᳘मे᳘वास्या ऽएत᳘दुभय᳘त्र भागं᳘ करोति॥

मूलम् - Weber

आदित्ये᳘न चरु᳘णोदयनी᳘येन प्र᳘चरति॥
तद्य᳘दादित्य᳘श्चरुर्भ᳘वति य᳘देॗवैनामदो᳘ देवा अ᳘ब्रुवंस्त᳘वैव᳘ प्रायणी᳘यस्त᳘वोदयनी᳘य इ᳘ति त᳘मेॗवास्या एत᳘दुभय᳘त्र भागं᳘ करोति॥

मूलम् - विस्वरम्

उदयनीयेष्टिः ।

आदित्येन चरुणोदयनीयेन प्रचरति । तद् यदादित्यश्चरुर्भवति- यदेवैनामदो देवा अब्रुवन्- तवैव प्रायणीयः, तवोदयनीय इति । तमेवास्या ऽएतदुभयत्र भागं करोति ॥ १ ॥

सायणः

आदित्येनेति 1 । उदयनीयब्राह्मणमेतत् । आदित्यश्चरुः । तत्र- ‘आदित्येन’ इत्युत्पत्तिवाक्यम् । यदेवैनामद इति । प्रायणीयायां य इतिहासस्तस्येहातिदेशः ॥ १ ॥

Eggeling
  1. He proceeds with the rice-pap to Aditi, as the concluding oblation. The reason why there is a rice-pap for Aditi is this. Because, on that former occasion 2, the gods said to her, ‘Thine forsooth shall be the opening, and thine the concluding oblation,’ therefore he prepares that share for her at both ends (of the Soma-sacrifice).

०२

विश्वास-प्रस्तुतिः

स य᳘दमु᳘त्र रा᳘जानं क्रेष्य᳘न्नुपप्रैष्यन्य᳘जते॥
त᳘स्मात्त᳘त्प्रायणी᳘यं नामा᳘थ यद᳘त्रावभृथा᳘दुदे᳘त्य य᳘जते त᳘स्मादेत᳘दुदयनी᳘यं ना᳘म तद्वा᳘ ऽएत᳘त्समान᳘मेव᳘ हविर᳘दित्या ऽएव᳘ प्रायणी᳘यम᳘दित्या ऽउदयनी᳘यमिय᳘ᳫँ᳘[[!!]] ह्येवा᳘दितिः॥

मूलम् - श्रीधरादि

स य᳘दमु᳘त्र रा᳘जानं क्रेष्य᳘न्नुपप्रैष्यन्य᳘जते॥
त᳘स्मात्त᳘त्प्रायणी᳘यं नामा᳘थ यद᳘त्रावभृथा᳘दुदे᳘त्य य᳘जते त᳘स्मादेत᳘दुदयनी᳘यं ना᳘म तद्वा᳘ ऽएत᳘त्समान᳘मेव᳘ हविर᳘दित्या ऽएव᳘ प्रायणी᳘यम᳘दित्या ऽउदयनी᳘यमिय᳘ᳫँ᳘[[!!]] ह्येवा᳘दितिः॥

मूलम् - Weber

स य᳘दमु᳘त्र रा᳘जानं क्रेष्य᳘न्नुपप्रैष्यन्य᳘जते॥
त᳘स्मात्त᳘त्प्रायणी᳘यं नामा᳘थ यद᳘त्रावभृथा᳘दुदे᳘त्य य᳘जते त᳘स्मादेत᳘दुदयनी᳘यं ना᳘म तद्वा᳘ एत᳘त्समान᳘मेव᳘ हविर᳘दित्या एव᳘ प्रायणी᳘यम᳘दित्या उदयनी᳘यमिॗयᳫं ह्येवा᳘दितिः॥

मूलम् - विस्वरम्

स यदमुत्र राजानं क्रेष्यन्नुपप्रैष्यन्यजते- तस्मात्प्रायणीयं नाम । अथ यदत्रावभृथादुदेत्य यजते- तस्मादेतदुदयनीयं नाम । तद्वा ऽएतत् समानमेव हविः- अदित्या ऽएव प्रायणीयम्- अदित्या ऽऽउदयनीयम् । इयं ह्येवादितिः ॥ २ ॥

सायणः

स यदमुत्रेति । द्वयोरप्यर्थवचनम्- तद्वा एतत्समानमेव हविरिति । समानधर्मकं समानम् । यदेव प्रायणीये क्रियेत, तदुदयनीये क्रियेतेत्यस्यायमनुवादः । इयं ह्येवादितिरिति । यदि किल पृथिव्यां भागः कल्पितस्ततो ऽदितेः किमापतितमित्यत आह- इयं ह्येवादितिरिति ॥ २ ॥

Eggeling
  1. And because, on that occasion, he offers when about to go forth (upa-pra-i) to buy the king (Soma), therefore that (opening oblation) is called Prāyaṇīya. And because he now offers after coming out (ud-ā-i) from the expiatory bath, therefore this (concluding oblation) is called Udayaṇīya 3. For this indeed is one and the same oblation: to Aditi belongs the opening, to Aditi the concluding (oblation); for Aditi is this (earth).

०३

विश्वास-प्रस्तुतिः

स वै᳘ प᳘थ्यामेवा᳘ग्रे स्वस्तिं᳘ यजति॥
त᳘द्देवा ऽअ᳘प्रज्ञायमाने व्वा᳘चैव प्र᳘त्यपद्यन्त व्वाचा हि᳘ मुग्धं प्रज्ञायते ऽथा᳘त्र प्र᳘ज्ञाते यथापूर्व्वं᳘ करोति᳘॥

मूलम् - श्रीधरादि

स वै᳘ प᳘थ्यामेवा᳘ग्रे स्वस्तिं᳘ यजति॥
त᳘द्देवा ऽअ᳘प्रज्ञायमाने व्वा᳘चैव प्र᳘त्यपद्यन्त व्वाचा हि᳘ मुग्धं प्रज्ञायते ऽथा᳘त्र प्र᳘ज्ञाते यथापूर्व्वं᳘ करोति᳘॥

मूलम् - Weber

स वै᳘ पॗथ्यामेवा᳘ग्रे स्वस्तिं᳘ यजति॥
त᳘द्देवा अ᳘प्रज्ञायमाने वाॗचैव प्र᳘त्यपद्यन्त वाचा हि᳘ मुग्धम् प्रज्ञायते ऽथा᳘त्र प्र᳘ज्ञाते यथापूर्वं᳘ करोति॥

मूलम् - विस्वरम्

स वै पथ्यामेवाग्रे स्वस्ति यजति । तद्देवा अप्रज्ञायमाने वाचैव प्रत्यपद्यन्त । वाचा हि मुग्धं प्रज्ञायते । अथात्र प्रज्ञाते यथापूर्वं करोति ॥ ३ ॥

सायणः

स वै पथ्यामिति 1 । प्रायणीये ‘पथ्यामेवाग्रे स्वस्ति यजति’ तदिह मुग्धो यज्ञो ऽप्रज्ञात एव । यज्ञे सति यथापूर्वं करोति या प्रथमा देवता तां प्रथमां यजेति या द्वितीया तां द्वितीयामित्यादि ॥ ३ ॥

Eggeling
  1. To Pathyā Svasti he offers first (at the opening sacrifice): then the gods, through speech, saw their way in what was unknown to them, for by speech the confused becomes known. But now that it is known, he performs in the proper order.

०४

विश्वास-प्रस्तुतिः

सो ऽग्नि᳘मेव᳘ प्रथमं᳘ यजति॥
(त्य᳘) अ᳘थ सो᳘मम᳘थ सविता᳘रम᳘थ प᳘थ्याᳫँ᳭ स्वस्तिमथा᳘दितिं व्वाग्वै᳘ प᳘थ्या स्वस्ति᳘रियम᳘दितिरस्या᳘मेव त᳘द्देवा व्वा᳘चं प्र᳘त्यष्ठापय᳘न्त्सेयं व्वा᳘गस्यां प्र᳘तिष्ठिता व्वदति॥

मूलम् - श्रीधरादि

सो ऽग्नि᳘मेव᳘ प्रथमं᳘ यजति॥
(त्य᳘) अ᳘थ सो᳘मम᳘थ सविता᳘रम᳘थ प᳘थ्याᳫँ᳭ स्वस्तिमथा᳘दितिं व्वाग्वै᳘ प᳘थ्या स्वस्ति᳘रियम᳘दितिरस्या᳘मेव त᳘द्देवा व्वा᳘चं प्र᳘त्यष्ठापय᳘न्त्सेयं व्वा᳘गस्यां प्र᳘तिष्ठिता व्वदति॥

मूलम् - Weber

सो ऽग्नि᳘मेव᳘ प्रथमं᳘ यजति॥
अ᳘थ सो᳘मम᳘थ सविता᳘रम᳘थ पॗथ्याᳫं स्वस्तिमथा᳘दितिं वाग्वै᳘ पॗथ्या स्वस्ति᳘रियम᳘दितिरस्या᳘मेव त᳘द्देवा वा᳘चम् प्र᳘त्यष्ठापयॗन्त्सेयं वा᳘गस्याम् प्र᳘तिष्ठिता वदति॥

मूलम् - विस्वरम्

सो ऽग्निमेव प्रथमं यजति, अथ सोमम्, अथ सवितारम्, अथ पथ्यां स्वस्तिम्, अथादितिम् । वाग्वै पथ्या स्वस्तिः इयमदितिः । अस्यामेव तद् देवा वाचं प्रत्यष्ठापयन् । सेयं वागस्यां प्रतिष्ठिता वदति ॥ ४ ॥

सायणः

तत् कथमित्यत आह- सो ऽग्निमेवेति । अग्निः प्राच्यां दिशि, सा च प्रथमा ततः प्रदक्षिणं गण्यमाने पथ्यास्वस्तिरुत्तरतः सा चतुर्थी भवतीत्यभिप्रायः । सेयं वागस्यां प्रतिष्ठितेति । देवतादयो ऽपि यद्वदन्ति तदुपस्तम्भिकां पृथिवीमेवाश्रित्येत्यभिप्रायः ॥ ४ ॥

Eggeling
  1. To Agni he offers first, then to Soma, then to Savitr̥, then to Pathyā Svasti, then to Aditi, Now Pathyā Svasti (the wishing of a ‘happy journey’)

is speech, and Aditi is this (earth): on her the gods thereby established speech, and thus established thereon speech speaks here.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मैत्रावरुणीं᳘ व्वशा᳘मनुब᳘न्ध्यामा᳘लभते॥
स᳘ ऽए᳘षो ऽन्य᳘ एव᳘ यज्ञ᳘स्तायते पशुबन्ध᳘ ऽएव᳘ समिष्टयजू᳘ᳫं᳘षि᳘ ह्येवा᳘न्तो यज्ञ᳘स्य॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मैत्रावरुणीं᳘ व्वशा᳘मनुब᳘न्ध्यामा᳘लभते॥
स᳘ ऽए᳘षो ऽन्य᳘ एव᳘ यज्ञ᳘स्तायते पशुबन्ध᳘ ऽएव᳘ समिष्टयजू᳘ᳫं᳘षि᳘ ह्येवा᳘न्तो यज्ञ᳘स्य॥

मूलम् - Weber

अ᳘थ मैत्रावरुणीं᳘ वशा᳘मनूब᳘न्ध्यामा᳘लभते॥
स᳘ एॗषो ऽन्य᳘ एव᳘ यज्ञ᳘स्तायते पशुबन्ध᳘ एव᳘ समिष्टयजूं᳘षिॗ ह्येवा᳘न्तो यज्ञ᳘स्य॥

मूलम् - विस्वरम्

अनुबन्ध्यायागः ।

अथ मैत्रावरुणीं वशामनुबन्ध्यामालभते । स एषो ऽन्य एव यज्ञस्तायते- पशुबन्ध एव समिष्टयजूंषि ह्येवान्तो यज्ञस्य ॥ ५ ॥

सायणः

अथ मैत्रावरुणीमिति 4 । पञ्चभिः कण्डिकाभिर्मैत्रावरुणी वशोच्यते । ‘मैत्रावरुणीम्’ मित्रावरुणदेवत्यां ‘वशां’ वत्सरिक्तां बन्ध्यां (ऋ. २ । ७ । ५ । सा. भा.) यज्ञे समाप्ते पश्चाद् ‘अनुबन्ध्याम् तृतीयामालभते स्मृतीति यागविधिः संपृष्यन् यज्ञ एव पूर्वस्मात् सवनसावने सवनीयसम्बन्धात् रूपादयम् । ‘अन्य एव’ भिन्नमतः सवनीयादित्यर्थः । पशुबन्ध एव सवनीयरहितः । अथ सवनीयपुरोडाशावर्त्तगतः एवं कस्मान्न भवतीत्याह- समिष्टयजूंषि ह्येवान्तो यज्ञस्य । तस्मिन् समाप्ते यदा गच्छति पृथक् न भवतीत्यभिप्रायः ॥ ५ ॥

Eggeling
  1. Thereupon he slaughters a barren anūbandhyā 5 cow for Mitra and Varuṇa. And this indeed is performed as a different sacrifice, and that an animal offering; for the Samishṭayajus form the end of the sacrifice.

०६

विश्वास-प्रस्तुतिः

तद्य᳘न्मैत्रावरुणी᳘ व्वशा भ᳘वति॥
यद्वा᳘ ऽईजान᳘स्य᳘ स्विष्टं भ᳘वति मि᳘त्रो ऽस्य त᳘द्गृह्णाति य᳘द्वस्य दु᳘रिष्टं भ᳘वति व्व᳘रुणो ऽस्य त᳘द्गृह्णाति॥

मूलम् - श्रीधरादि

तद्य᳘न्मैत्रावरुणी᳘ व्वशा भ᳘वति॥
यद्वा᳘ ऽईजान᳘स्य᳘ स्विष्टं भ᳘वति मि᳘त्रो ऽस्य त᳘द्गृह्णाति य᳘द्वस्य दु᳘रिष्टं भ᳘वति व्व᳘रुणो ऽस्य त᳘द्गृह्णाति॥

मूलम् - Weber

तद्य᳘न्मैत्रावरुणी᳘ वशा भ᳘वति॥
यद्वा᳘ ईजान᳘स्यॗ स्विष्टम् भ᳘वति मिॗत्रो ऽस्य त᳘द्गृह्णाति य᳘द्वस्य दु᳘रिष्टम् भ᳘वति व᳘रुणो ऽस्य त᳘द्गृह्णाति॥

मूलम् - विस्वरम्

तद् यन्मैत्रावरुणी वशा भवति । यद्वा ऽईजानस्य स्विष्टं भवति- मित्रो ऽस्य तद् गृह्णाति । यद्वस्य दुरिष्टं भवति- वरुणो ऽस्य तद् गृह्णाति ॥ ६ ॥

सायणः

तन्मैत्रावरुणीयत्वे यत् कारणं तद्वक्ष्यते- ‘यद्’ अस्य ‘ईजानस्य’ इष्टवतः ‘स्विष्टं’ सम्यगविगुणं ‘भवति’ ‘तन्मित्रः’ तावत् अस्य एतद् ‘गृह्णाति’ अवितथाप्तिफलदानाय प्रवर्त्तमानः प्रतिबध्नाति, मन्यमानः ॥ ६ ॥

Eggeling
  1. The reason why there is a barren cow for Mitra and Varuṇa is this. Whatever part of his (sacrifice) 6 who has offered is well-offered that part of his Mitra takes, and whatever is ill-offered that Varuṇa takes.

०७

विश्वास-प्रस्तुतिः

त᳘दाहुः᳘॥
क्वेजा᳘नो ऽभूदि᳘ति तद्य᳘दे᳘वास्या᳘त्र मित्रः᳘[[!!]] स्विष्टं गृह्णा᳘ति त᳘दे᳘वास्मा ऽएत᳘या प्रीतः᳘ प्रत्य᳘वसृजति य᳘दु चास्य व्व᳘रुणो दु᳘रिष्टं गृह्णा᳘ति त᳘च्चै᳘वास्मा ऽएत᳘या प्री᳘तः स्विष्टं करो᳘ति त᳘दु चास्मै प्रत्य᳘वसृजति᳘ सो ऽस्यैष स्व᳘ ऽएव᳘ यज्ञो᳘ भवति स्व᳘ᳫं᳘ सुकृतम्[[!!]]॥

मूलम् - श्रीधरादि

त᳘दाहुः᳘॥
क्वेजा᳘नो ऽभूदि᳘ति तद्य᳘दे᳘वास्या᳘त्र मित्रः᳘[[!!]] स्विष्टं गृह्णा᳘ति त᳘दे᳘वास्मा ऽएत᳘या प्रीतः᳘ प्रत्य᳘वसृजति य᳘दु चास्य व्व᳘रुणो दु᳘रिष्टं गृह्णा᳘ति त᳘च्चै᳘वास्मा ऽएत᳘या प्री᳘तः स्विष्टं करो᳘ति त᳘दु चास्मै प्रत्य᳘वसृजति᳘ सो ऽस्यैष स्व᳘ ऽएव᳘ यज्ञो᳘ भवति स्व᳘ᳫं᳘ सुकृतम्[[!!]]॥

मूलम् - Weber

त᳘दाहुः᳟᳟॥
क्वे जाॗनो ऽभूदि᳘ति तद्य᳘देॗवास्या᳘त्र मिॗत्रः स्विष्टं गृह्णा᳘ति त᳘देॗवास्मा एत᳘या प्रीतः᳘ प्रत्य᳘वसृजति य᳘दु चास्य व᳘रुणो दु᳘रिष्टं गृह्णा᳘ति त᳘च्चैॗवास्मा एत᳘या प्रीॗतः स्विष्टं करो᳘ति त᳘दु चास्मै प्रत्य᳘वसृजतिॗ सो ऽस्यैष स्व᳘ एव᳘ यज्ञो᳘ भवति स्व᳘ᳫं᳘ सुकृत᳘म्॥

मूलम् - विस्वरम्

तदाहुः- क्वेजानो ऽभूदिति । तद् यदेवास्यात्र मित्रः स्विष्टं गृह्णाति- तदेवास्मा ऽएतया प्रीतः प्रत्यवसृजति, यदु चास्य वरुणो दुरिष्टं गृह्णाति- तच्चैवास्मा ऽएतया प्रीतः स्विष्टं करोति । तद् चास्मै प्रत्यवसृजति । सो ऽस्यैष स्व एव यज्ञो भवति, स्वं सुकृतम् ॥ ७ ॥

सायणः

तदाहुरिति । के तत्र चोदका आहुः- स इदानीमिष्टवान् क अन्तरिदुत्पुरुषयोः स्विष्टदुरिष्टयोः द्यूफलं सौविष्टत इति प्रस्तुतं (?) तत्तद्दिवस्पतिवचनम् ॥ ७ ॥

Eggeling
  1. Then they say, ‘What has become of the sacrificer?’–whatever well-offered part of his (sacrifice) Mitra here takes, that he now again surrenders to him, being pleased with this (cow); and whatever ill-offered part of his Varuṇa takes, that indeed he makes well-offered for him, being pleased with this (cow), and surrenders it again to him. This forsooth is his own sacrifice 7, his own merit.

०८

विश्वास-प्रस्तुतिः

(न्त) तद्य᳘न्मैत्रावरुणी᳘ व्वशा भ᳘वति॥
य᳘त्र वै᳘ देवा रे᳘तः सिक्तं प्रा᳘जनयंस्त᳘दाग्निमारुतमि᳘त्युक्थं᳘ त᳘स्मिंस्तद्व्या᳘ख्यायते य᳘था त᳘द्देवा रे᳘तः सिक्तं प्रा᳘जनयंस्ततो᳘ ऽङ्गाराः स᳘मभवन्न᳘ङ्गारेभ्यो᳘ ऽङ्गिरसस्तद᳘न्वन्ये᳘ पशवः[[!!]]॥

मूलम् - श्रीधरादि

(न्त) तद्य᳘न्मैत्रावरुणी᳘ व्वशा भ᳘वति॥
य᳘त्र वै᳘ देवा रे᳘तः सिक्तं प्रा᳘जनयंस्त᳘दाग्निमारुतमि᳘त्युक्थं᳘ त᳘स्मिंस्तद्व्या᳘ख्यायते य᳘था त᳘द्देवा रे᳘तः सिक्तं प्रा᳘जनयंस्ततो᳘ ऽङ्गाराः स᳘मभवन्न᳘ङ्गारेभ्यो᳘ ऽङ्गिरसस्तद᳘न्वन्ये᳘ पशवः[[!!]]॥

मूलम् - Weber

तद्य᳘न्मैत्रावरुणी᳘ वशा भ᳘वति॥
य᳘त्र वै᳘ देवा रे᳘तः सिक्तम् प्रा᳘जनयंस्त᳘दाग्निमारुतमि᳘त्युक्थं त᳘स्मिंस्तद्व्या᳘ख्यायते य᳘था त᳘द्देवा रे᳘तः प्रा᳘जनयंस्ततो᳘ ऽङ्गाराः स᳘मभवन्न᳘ङ्गारेभ्यो᳘ ऽङ्गिरसस्तद᳘न्वन्ये᳘ पश᳘वः॥

मूलम् - विस्वरम्

तद् यन्मैत्रावरुणी वशा भवति । यत्र वै देवा रेतः सिक्तं प्राजनयन्- तदाग्निमारुतमित्युक्थम् । तस्मिंस्तद्व्याख्यायते- यथा तद्देवा रेतः प्राजनयन्, ततो ऽङ्गाराः समभवन्, अङ्गारेभ्यो ऽङ्गिरसः, तदन्वन्ये पशवः ॥ ८ ॥

सायणः

तथा ‘मैत्रावरुणी वशा’ वक्तव्यान्तर्वर्त्तित्वस्य चेत् कण्डिकाद्वयेन कारणमुच्यते- ‘यत्र’ काले प्रजापतिना स्वस्यां दुहितरि ‘रेतः सिक्तम्’ ‘देवाः’ ‘प्राजनयन्’ । तस्मिन् काले रेतसः प्रजन्यमानादङ्गाराः सम्भूतास्तेभ्यश्चाङ्गिरस इत्यङ्गारेभ्यो ऽङ्गिरास्तस्माद् ‘अङ्गिरसः’ इत्यनेन क्रमेण द्रष्टव्यम् । एषामङ्गिरसामुत्पत्तिरत्र नोपयुज्यत इति कृत्वा ऽङ्गिरसामयनमित्यादौ योजनीया । तदन्वन्ये पशव इति । एषां च पशूनामुत्पत्तिं पश्वन्तरेषु ‘अन्ये’ वत्सा गर्दभादयः ‘पशवः’ तेषामङ्गिरसो ऽनुसमभवंस्ततस्तमपि प्रजापतिप्रभावान्महात्मानो ऽग्नीषोमीयादय इति ॥ ८ ॥

Eggeling
  1. And again, why there is a barren cow for Mitra and Varuṇa. Now, when the gods caused the cast seed to spring,–there is that śastra called Āgnimāruta 8: in connection therewith it is explained how

the gods caused that seed to spring. From it the coals (aṅgāra) sprung, and from the coals the Aṅgiras; and after that the other animals 9.

०९

विश्वास-प्रस्तुतिः

(वो᳘ ऽथ) अ᳘थ यदा᳘साः पाᳫं᳭स᳘वः पर्य᳘शिष्यन्त॥
त᳘तो गर्दभः स᳘मभवत्त᳘स्माद्य᳘त्र पाᳫं᳭सुलं भ᳘वति गर्दभस्था᳘नमिव बते᳘त्याहुर᳘थ यदा न क᳘श्चन र᳘सः पर्य᳘शिष्यत त᳘त ऽएषा᳘ मैत्रावरुणी᳘ व्वशा स᳘मभवत्त᳘स्मादेषा न प्र᳘जायते र᳘साद्धि रे᳘तः सम्भ᳘व᳘ति रे᳘तसः पश᳘वस्तद्य᳘दन्ततः᳘ सम᳘भवत्त᳘स्माद᳘न्तं यज्ञस्या᳘नुवर्तते त᳘स्माद्वा᳘ ऽएषा᳘ ऽत्र मैत्रावरुणी᳘ व्वशा᳘ ऽवकॢप्ततमा भ᳘वति य᳘दि व्वशां न᳘ व्विन्देद᳘प्युक्षवश᳘ एव᳘ स्यात्॥

मूलम् - श्रीधरादि

(वो᳘ ऽथ) अ᳘थ यदा᳘साः पाᳫं᳭स᳘वः पर्य᳘शिष्यन्त॥
त᳘तो गर्दभः स᳘मभवत्त᳘स्माद्य᳘त्र पाᳫं᳭सुलं भ᳘वति गर्दभस्था᳘नमिव बते᳘त्याहुर᳘थ यदा न क᳘श्चन र᳘सः पर्य᳘शिष्यत त᳘त ऽएषा᳘ मैत्रावरुणी᳘ व्वशा स᳘मभवत्त᳘स्मादेषा न प्र᳘जायते र᳘साद्धि रे᳘तः सम्भ᳘व᳘ति रे᳘तसः पश᳘वस्तद्य᳘दन्ततः᳘ सम᳘भवत्त᳘स्माद᳘न्तं यज्ञस्या᳘नुवर्तते त᳘स्माद्वा᳘ ऽएषा᳘ ऽत्र मैत्रावरुणी᳘ व्वशा᳘ ऽवकॢप्ततमा भ᳘वति य᳘दि व्वशां न᳘ व्विन्देद᳘प्युक्षवश᳘ एव᳘ स्यात्॥

मूलम् - Weber

अ᳘थ यदा᳘साः 10 पांस᳘वः पर्य᳘शिष्यन्त॥
त᳘तो गर्दभः स᳘मभवत्त᳘स्माद्य᳘त्र पांसुलम् भ᳘वति गर्दभस्था᳘नमिव बते᳘त्याहुर᳘थ यदा न क᳘श्चन र᳘सः पर्य᳘शिष्यत त᳘त एषा᳘ मैत्रावरुणी᳘ वशा स᳘मभवत्त᳘स्मादेषा न प्र᳘जायते र᳘साद्धि रे᳘तः सम्भ᳘वति रे᳘तसः पश᳘वस्तद्य᳘दन्ततः᳘ सम᳘भवत्त᳘स्माद᳘न्तं यज्ञस्या᳘नुवर्तते त᳘स्माद्वा᳘ एषा᳘त्र मैत्रावरुणी᳘ वशा᳘वकॢप्ततमा भवति य᳘दि वशां न᳘ विन्देद᳘प्युक्षवश᳘ एव᳘ स्यात्॥

मूलम् - विस्वरम्

अथ यदासाः पांसवः पर्यशिष्यन्त- ततो गर्दभः समभवत् । तस्माद्यत्र पांसुलं भवति- गर्दभस्थानमिव बतेत्याहुः । अथ यदा न कश्चन रसः पर्यशिष्यत- तत एषा मैत्रावरुणी वशा समभवत् । तस्मादेषा न प्रजायते । रसाद्धि रेतः सम्भवति । रेतसः पशवः । तद् यदन्ततः समभवत्- तस्मादन्तं यज्ञस्यानुवर्त्तते । तस्माद्वा ऽएषा ऽत्र मैत्रावरुणी वशा ऽवक्लृप्ततमा भवति । यदि वशां न विन्देदप्युक्षवश एव स्यात् ॥ ९ ॥

सायणः

अथ यदिति । यस्मिन् काले ‘आसाः’ भस्माः ‘पांसवः’ परिशिष्टास्तदा ‘ततः’ तेभ्यः पांसुभ्यो गर्दभः सम्भूत इति प्रासङ्गिकं गर्द्दभस्य ब्राह्मणम् । तस्मादेव ‘यत्र’ तत्स्थानं ‘पांसुलं भवति’ । पांसवो विद्यन्ते यस्मिन्निति पांसुमदित्यध्याहारः । तद्गर्दभस्थानमिवेत्याहुः । ‘इव बत’ इत्यनुकम्पायां निपातः । यस्य तत्स्थानं सो ऽनुकम्प्यते । ‘अथ यदा न’ कश्चिदपि रससारो रेतसः परिशिष्टस्तदा ‘ततः’ ‘एषा’ वशा सम्भूता सा च ‘मैत्रावरुणी’ यस्माच्च क्षीणे रसे सूता तस्मादेषा ‘न प्रजायते’ । कथम् ? ‘रसाद्धि रेतः’ ‘सम्भवति’ । ‘रेतसः’ च ‘पशवः’ गर्भे न रसो ऽस्या अस्तीत्यभिप्रायः । ‘तद्यदन्ततः’ तदन्त्यत्वे कारणम् ‘अवक्लृप्ततमा’ (?) उक्तम् । वशायाः स्वातिशयेनावक्लृप्तये दितुं वशां न लभते । अपि उक्षवशः 11 । उक्षा सेचनसमर्थो बलीवर्दो वशश्चेत्युक्षवश इत्यनुवादे वा । स उक्षवशो मैत्रावरुणः स्यात्तत्साहचर्याद्वशापि गौरेवेति गम्यते ॥ ९ ॥

Eggeling
  1. Then the dust of the ashes which remained: therefrom the ass was produced,–hence when it is dusty anywhere, people say, ‘A very place for asses, forsooth 12!’ And when no sap whatever remained,–thence was produced that barren cow belonging to Mitra and Varuṇa; wherefore that (cow) does not bring forth, for from sap seed is produced, and from seed cattle. And because she was produced at the end, therefore she comes after the end of the sacrifice. Hence also a barren cow for Mitra and Varuṇa is the most proper here: if he cannot obtain a barren cow, it may also be a bullock 13.

१०

विश्वास-प्रस्तुतिः

(द) अथे᳘तरं व्वि᳘श्वे देवा᳘ ऽअमरीमृश्यन्त॥
त᳘तो व्वैश्वदेवी स᳘मभवद᳘थ बार्हस्पत्या सो ऽन्तो᳘ ऽन्तो हि बृ᳘हस्प᳘तिः॥

मूलम् - श्रीधरादि

(द) अथे᳘तरं व्वि᳘श्वे देवा᳘ ऽअमरीमृश्यन्त॥
त᳘तो व्वैश्वदेवी स᳘मभवद᳘थ बार्हस्पत्या सो ऽन्तो᳘ ऽन्तो हि बृ᳘हस्प᳘तिः॥

मूलम् - Weber

अथे᳘तरं वि᳘श्वे देवा᳘ अमरीमृत्स्यन्त॥
त᳘तो वैश्वदेवी स᳘मभवद᳘थ बार्हस्पत्या सो ऽन्तो᳘ ऽन्तो हि बृ᳘हस्प᳘तिः॥

मूलम् - विस्वरम्

अथेतरं विश्वेदेवा अमरीमृश्यन्त । ततो वैश्वदेवी समभवत् । अथ बार्हस्पत्या । सो ऽन्तः । अन्तो हि बृहस्पतिः ॥ १० ॥

सायणः

अथेतरमिति । ‘अथ’ मैत्रावरुण्यां वशायां भस्मपांसुभ्यो यदितरदवशिष्टं तद्विश्वेदेवा अत्यर्थं पाणिभिः पिष्टवन्तस्तदा वैश्वदेवी वशा संभूता । यैव ततः संभूता सैव विश्वेदेवत्यवद्वैश्वदेवी ‘अभवत्’ । ‘ततो’ ऽप्यनन्तरं ‘बार्हस्पत्या’ सापि तथैव साप्यसंभूततयैवेति गण्यते । मैत्रावरुणीभ्यां मृश्यमाने भस्मनि जाता मित्रावरुणासम्बन्धस्यावचनादप्यस्य सन्निधानात् । सोन्तः पशूनाम् । ततो रेतस उत्पन्नः । ‘अन्तो हि बृहस्पतिः’ ब्राह्मणानां प्रकृष्टतमत्वात् ॥ १० ॥

Eggeling
  1. Then the Viśve Devāḥ applied themselves 14 a second time: thence the Vaiśvadevī (cow) was produced; then the Bārhaspatyā: that is the end, for Br̥haspati is the end.

११

विश्वास-प्रस्तुतिः

स यः᳘ सह᳘स्रं वा भू᳘यो वा दद्यात्[[!!]]॥
(त्स᳘) स᳘ ऽएनाः स᳘र्व्वा आ᳘लभेत स᳘र्व्व वै त᳘स्याप्तं᳘ भवति स᳘र्व्वं जितं यः᳘ सह᳘स्रं वा भू᳘यो वा द᳘दाति स᳘र्व्वमेता᳘ ऽएव᳘मेव᳘ यथापूर्व्वं᳘ मैत्रावरुणी᳘मेवाग्रे᳘ ऽथ व्वैश्वदेवीम᳘थ बार्हस्पत्यम्[[!!]]॥

मूलम् - श्रीधरादि

स यः᳘ सह᳘स्रं वा भू᳘यो वा दद्यात्[[!!]]॥
(त्स᳘) स᳘ ऽएनाः स᳘र्व्वा आ᳘लभेत स᳘र्व्व वै त᳘स्याप्तं᳘ भवति स᳘र्व्वं जितं यः᳘ सह᳘स्रं वा भू᳘यो वा द᳘दाति स᳘र्व्वमेता᳘ ऽएव᳘मेव᳘ यथापूर्व्वं᳘ मैत्रावरुणी᳘मेवाग्रे᳘ ऽथ व्वैश्वदेवीम᳘थ बार्हस्पत्यम्[[!!]]॥

मूलम् - Weber

स यः᳘ सह᳘स्रं वा भू᳘यो वा दद्या᳘त्॥
स᳘ एनाः स᳘र्वा आ᳘लभेत स᳘र्वं वै त᳘स्याप्त᳘म् भवति स᳘र्वं जितं यः᳘ सह᳘स्रं वा भूयो वा द᳘दाति स᳘र्वमेता᳘ एव᳘मेव᳘ यथापूर्व᳘म् मैत्रावरुणी᳘मेवाग्रे᳘ ऽथ वैश्वदेवीम᳘थ बार्हस्पत्य᳘म्॥

मूलम् - विस्वरम्

स यः सहस्रं वा भूयो वा दद्यात्- स एनाः सर्वा आलभेत । सर्वं वै तस्याप्तं भवति, सर्वं जितम्- यः सहस्रं वा भूयो वा ददाति । सर्वमेताः । एवमेव यथापूर्वं मैत्रावरुणीमेवाग्रे, अथ वैश्वदेवीम्, अथ बार्हस्पत्यम् ॥ ११ ॥

सायणः

स यः सहस्रमिति । विकृतौ कस्यां विधौ सहस्रादि ‘दद्यात्’ । प्रकृतावपि वा प्रतिहर्तुरपच्छेदे सर्वस्वमददत् । कदाचित्सहस्रं दद्यात् । सर्वसंख्याव्याप्तिरित्यागमिकम् । सर्वमेता इति व्यानसंभूता इति देवता सर्वमैत्रावरुणानु तस्यान्त्यस्यैकदेशः । एवमेवेत्युत्पत्तिक्रमेणेत्यर्थः ॥ ११ ॥

Eggeling
  1. And whosoever gives a thousand or more

(cows to the priests), he will slaughter all these;–indeed, everything is obtained, everything conquered by him who gives a thousand or more. Those (three) cows are everything, (when offered) thus in the proper order: first one to Mitra and Varuṇa, then one to the All-gods, then one to Br̥haspati.

१२

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थो ये᳘ दीर्घसत्रमा᳘सीरन्॥
(न्त्सं) संव्वत्सरं᳘ वा भू᳘यो वा त᳘ ऽएनाः स᳘र्व्वा आ᳘लभेरन्त्स᳘र्व्वं वै ते᳘षामाप्तं᳘ भवति स᳘र्व्वं जितं ये दीर्घसत्रमा᳘सते संव्वत्सरं᳘ वा भू᳘यो वा सर्व्व᳘मेता᳘[[!!]] एव᳘मेव᳘ यथापूर्वम्[[!!]]॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थो ये᳘ दीर्घसत्रमा᳘सीरन्॥
(न्त्सं) संव्वत्सरं᳘ वा भू᳘यो वा त᳘ ऽएनाः स᳘र्व्वा आ᳘लभेरन्त्स᳘र्व्वं वै ते᳘षामाप्तं᳘ भवति स᳘र्व्वं जितं ये दीर्घसत्रमा᳘सते संव्वत्सरं᳘ वा भू᳘यो वा सर्व्व᳘मेता᳘[[!!]] एव᳘मेव᳘ यथापूर्वम्[[!!]]॥

मूलम् - Weber

अ᳘थो ये᳘ दीर्घसत्त्रमा᳘सीरन् 15
संवत्सरं᳘ वा भू᳘यो वा त᳘ एनाः स᳘र्वा आ᳘लभेरन्त्स᳘र्वं वै ते᳘षामाप्त᳘म् भवति स᳘र्वं जितं ये दीर्घसत्त्रमा᳘सते संवत्सरं᳘ वा भू᳘यो वा स᳘र्वमेता᳘ एव᳘मेव᳘ यथापूर्व᳘म्॥

मूलम् - विस्वरम्

अथो ये दीर्घसत्रमासीरन् । सवंत्सरं वा भूयो वा । त एनाः सर्वा आलभेरन् । सर्वं वै तेषामाप्तं भवति, सर्वं जितम्- ये दीर्घसत्रमासते- सवंत्सरं वा भूयो वा, सर्वमेता एवमेव यथापूर्वम् ॥ १२॥

सायणः

अथो य इति । प्रसन्ना ॥ १२ ॥

Eggeling
  1. And those who perform a long sacrificial session, for a year or more, they will slaughter all these 16;–indeed everything is obtained, everything conquered by those who perform a long sacrificial session, for a year or more: those (cows) are everything, (when offered) thus in the proper order.

१३

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थोदवसानी᳘यये᳘ष्ट्या यजते॥
स᳘ ऽआग्नेयं प᳘ञ्चकपालं पुरोडा᳘शं नि᳘र्व्वपति त᳘स्य प᳘ञ्चपदाः पङ्क्त᳘यो याज्यानुवा᳘क्या भवन्ति यात᳘यामेव वा᳘ ऽएत᳘दीजान᳘स्य यज्ञो᳘ भवति᳘ सो ऽस्मात्प᳘राङिव भवत्यग्निर्वै स᳘र्व्वे यज्ञा᳘ अग्नौ हि स᳘र्व्वान्यज्ञां᳘स्तन्व᳘ते ये᳘ च पाकयज्ञा ये चे᳘तरे त᳘द्यज्ञ᳘मे᳘वैतत्पु᳘नरा᳘रभते त᳘था ऽस्या᳘यातयामा यज्ञो भ᳘वति त᳘थो ऽअस्मान्न प᳘राङ्भवति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थोदवसानी᳘यये᳘ष्ट्या यजते॥
स᳘ ऽआग्नेयं प᳘ञ्चकपालं पुरोडा᳘शं नि᳘र्व्वपति त᳘स्य प᳘ञ्चपदाः पङ्क्त᳘यो याज्यानुवा᳘क्या भवन्ति यात᳘यामेव वा᳘ ऽएत᳘दीजान᳘स्य यज्ञो᳘ भवति᳘ सो ऽस्मात्प᳘राङिव भवत्यग्निर्वै स᳘र्व्वे यज्ञा᳘ अग्नौ हि स᳘र्व्वान्यज्ञां᳘स्तन्व᳘ते ये᳘ च पाकयज्ञा ये चे᳘तरे त᳘द्यज्ञ᳘मे᳘वैतत्पु᳘नरा᳘रभते त᳘था ऽस्या᳘यातयामा यज्ञो भ᳘वति त᳘थो ऽअस्मान्न प᳘राङ्भवति॥

मूलम् - Weber

अ᳘थोदवसानी᳘यये᳘ष्ट्या यजते॥
स᳘ आग्नेयम् प᳘ञ्चकपालम् पुरोडा᳘शं नि᳘र्वपति त᳘स्य प᳘ञ्चपदाः पङ्क्त᳘यो याज्यानुवाॗक्या भवन्ति यात᳘यामेव वा᳘ एत᳘दीजान᳘स्य यज्ञो᳘ भवतिॗ सो ऽस्मात्प᳘राङिव भवत्यग्निर्वै स᳘र्वे यज्ञा᳘ अग्नौ हि स᳘र्वान्यज्ञा᳘ᳫं᳘स्तन्व᳘ते ये᳘ च पाकयज्ञा ये चे᳘तरे त᳘द्यज्ञ᳘मेॗवैतत्पु᳘नरा᳘रभते त᳘थास्या᳘यातयामा यज्ञो भ᳘वति त᳘थो अस्मान्न प᳘राङ् भवति॥

मूलम् - विस्वरम्

उदवसानीयेष्टिः ।

अथोदवसानीययेष्ट्या यजते । स आग्नेयं पञ्चकपालं पुरोडाशं निर्वपति । तस्य पञ्चपदाः पङ्क्तयो याज्यानुवाक्या भवन्ति । यातयामेव वा ऽएतदीजानस्य यज्ञो भवति । सो ऽस्मात्पराङिव भवति । अग्निर्वै सर्वे यज्ञाः । अग्नौ हि सर्वान्यज्ञांस्तन्वते- ये च पाकयज्ञाः, ये चेतरे । तद् यज्ञमेवैतत्पुनरारभते- तथा ऽस्यायातयामा यज्ञो भवति- तथो ऽअस्मान्न पराङ् भवति ॥ १३ ॥

सायणः

अथोदवसानीययेति 17 । एतानि तिसृभिस्तिसृभिः ‘उदवसानीयेष्टिः’ ज्योतिष्टोमाङ्गभूतैवोच्यते । अथोच्यते । आहुतिरत्रोदवसानीयस्थाने विधीयते वैकल्पिकीति । तथो इति । तथा चेत्यर्थः ॥ १३-१५ ॥

Eggeling
  1. Thereupon he performs the Udavasānīyā ishṭi (completing oblation). He prepares a cake on five potsherds for Agni. Its invitatory and offering prayers are five-footed paṅktis 18. For at this time the sacrifice of him who has sacrificed is, as it were, exhausted in strength: it, as it were, passes away from him. Now all sacrifices are Agni, since all sacrifices are performed in him, the domestic sacrifices as well as others. He thus takes hold again of the sacrifice, and thus that sacrifice of his is

not exhausted in strength, and does not pass away from him.

१४

विश्वास-प्रस्तुतिः

तद्यत्प᳘ञ्चकपालः पुरोडा᳘शो भ᳘वति॥
प᳘ञ्चपदाः पङ्क्त᳘यो याज्यानुवा᳘क्याः पा᳘ङ्क्तो वै᳘ यज्ञस्त᳘द्यज्ञ᳘मे᳘वैतत्पु᳘नरा᳘रभते त᳘था ऽस्या᳘यातयामा यज्ञो भ᳘वति त᳘थो ऽअस्मान्न प᳘राङ्भवति॥

मूलम् - श्रीधरादि

तद्यत्प᳘ञ्चकपालः पुरोडा᳘शो भ᳘वति॥
प᳘ञ्चपदाः पङ्क्त᳘यो याज्यानुवा᳘क्याः पा᳘ङ्क्तो वै᳘ यज्ञस्त᳘द्यज्ञ᳘मे᳘वैतत्पु᳘नरा᳘रभते त᳘था ऽस्या᳘यातयामा यज्ञो भ᳘वति त᳘थो ऽअस्मान्न प᳘राङ्भवति॥

मूलम् - Weber

तद्यत्प᳘ञ्चकपालः पुरोडा᳘शो भ᳘वति॥
प᳘ञ्चपदाः पङ्क्त᳘यो याज्यानुवाॗक्याः पा᳘ङ्क्तो वै᳘ यज्ञस्त᳘द्यज्ञ᳘मेॗवैतत्पु᳘नरा᳘रभते त᳘थास्या᳘यातयामा यज्ञो भ᳘वति त᳘थो अस्मान्न प᳘राङ् भवति॥

मूलम् - विस्वरम्

तद् यत्पञ्चकपालः पुरोडाशो भवति । पञ्चपदाः पङ्क्तयो याज्यानुवाक्याः । पाङ्क्तो वै यज्ञः । तद्यज्ञमेवैतत्पुनरारभते- तथा ऽस्यायातयामा यज्ञो भवति- तथो ऽअस्मान्न पराङ् भवति ॥ १४ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. The reason why the cake is one on five potsherds, and the invitatory and offering prayers are paṅktis (verses of five feet), is that the sacrifice is fivefold. He thus takes hold again of the sacrifice, and thus that sacrifice of his is not exhausted in strength, and does not pass away from him.

१५

विश्वास-प्रस्तुतिः

त᳘स्य हि᳘रण्यं द᳘क्षिणा॥
(णा ऽऽग्ने) आग्नेयो वा᳘ ऽएष᳘ यज्ञो᳘ भवत्यग्ने रे᳘तो हि᳘रण्यं त᳘स्माद्धि᳘रण्यं द᳘क्षिणा ऽनड्वा᳘न्वा स हि व्व᳘हेनाग्ने᳘यो ऽग्नि᳘दग्धमिव᳘ ह्यस्य[[!!]] व्व᳘हं भ᳘वति॥

मूलम् - श्रीधरादि

त᳘स्य हि᳘रण्यं द᳘क्षिणा॥
(णा ऽऽग्ने) आग्नेयो वा᳘ ऽएष᳘ यज्ञो᳘ भवत्यग्ने रे᳘तो हि᳘रण्यं त᳘स्माद्धि᳘रण्यं द᳘क्षिणा ऽनड्वा᳘न्वा स हि व्व᳘हेनाग्ने᳘यो ऽग्नि᳘दग्धमिव᳘ ह्यस्य[[!!]] व्व᳘हं भ᳘वति॥

मूलम् - Weber

त᳘स्य हि᳘रण्यं द᳘क्षिणा॥
आग्नेयो वा᳘ एष᳘ यज्ञो᳘ भवत्यग्ने रे᳘तो हि᳘रण्यं त᳘स्माद्धि᳘रण्यं द᳘क्षिणानड्वा᳘न्वा स हि व᳘हेनाग्नेॗयो ऽग्नि᳘दग्धमिव ह्य᳘स्य व᳘हम् भ᳘वति॥

मूलम् - विस्वरम्

तस्य हिरण्यं दक्षिणा । आग्नेयो वा ऽएव यज्ञो भवति । अग्ने रेतो हिरण्यम् । तस्माद्धिरण्यं दक्षिणा । अनड्वान्वा । स वहेनाग्नेयः । अग्निदग्धमिव ह्यस्य वहं भवति ॥ १५ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. The priests’ fee for it is gold; for this is a sacrifice to Agni, and gold is Agni’s seed: therefore the priests’ fee is gold. Or an ox, for such a one is of Agni’s nature as regards its shoulder, since its shoulder (bearing the yoke) is as if burnt by fire.

१६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थो चतुर्गृहीत᳘मेवा᳘ज्यं गृहीत्वा᳘॥
व्वैष्ण᳘व्य ऽर्चा᳘[[!!]] जुहोत्युरु᳘ व्विष्णो वि᳘क्रमस्वोरु क्ष᳘याय नस्कृधि। घृतं᳘ घृतयोने पिब प्र᳘प्र यज्ञ᳘पतिं तिर स्वाहे᳘ति यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञ᳘मे᳘वैतत्पु᳘नरा᳘रभते त᳘था ऽस्या᳘यातयामा यज्ञो भ᳘वति त᳘थो ऽअस्मान्न प᳘राङ्भवति त᳘त्रो य᳘च्छक्नुयात्त᳘द्दद्या᳘न्नादक्षिण᳘ᳫं᳘ हविः᳘ स्यादि᳘ति᳘ ह्याहुर᳘थ य᳘दे᳘वै᳘षोदवसानीये᳘ष्टिः संति᳘ष्ठते᳘ ऽथ सायमाहुतिं᳘ जुहो᳘ति काल᳘ ऽएव᳘ प्रातराहुतिम्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थो चतुर्गृहीत᳘मेवा᳘ज्यं गृहीत्वा᳘॥
व्वैष्ण᳘व्य ऽर्चा᳘[[!!]] जुहोत्युरु᳘ व्विष्णो वि᳘क्रमस्वोरु क्ष᳘याय नस्कृधि। घृतं᳘ घृतयोने पिब प्र᳘प्र यज्ञ᳘पतिं तिर स्वाहे᳘ति यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञ᳘मे᳘वैतत्पु᳘नरा᳘रभते त᳘था ऽस्या᳘यातयामा यज्ञो भ᳘वति त᳘थो ऽअस्मान्न प᳘राङ्भवति त᳘त्रो य᳘च्छक्नुयात्त᳘द्दद्या᳘न्नादक्षिण᳘ᳫं᳘ हविः᳘ स्यादि᳘ति᳘ ह्याहुर᳘थ य᳘दे᳘वै᳘षोदवसानीये᳘ष्टिः संति᳘ष्ठते᳘ ऽथ सायमाहुतिं᳘ जुहो᳘ति काल᳘ ऽएव᳘ प्रातराहुतिम्[[!!]]॥

मूलम् - Weber

अ᳘थो चतुर्गृहीत᳘मेवा᳘ज्यं गृहीत्वा᳟॥
वैष्णव्य᳘र्चा᳘ जुहोत्युरु᳘ विष्णो वि᳘क्रमस्वोरु क्ष᳘याय नस्कृधि घृतं᳘ घृतयोने पिब प्र᳘-प्र यज्ञ᳘पतिं तिर स्वाहे᳘ति यज्ञो वै वि᳘ष्णुस्त᳘द्यज्ञ᳘मेॗवैतत्पु᳘नरा᳘रभते त᳘थास्या᳘यातयामा यज्ञो भ᳘वति त᳘थो अस्मान्न प᳘राङ् भवति त᳘त्रो य᳘छक्नुयात्त᳘द्दद्याॗन्नादक्षिण᳘ᳫं᳘ हविः᳘ स्यादि᳘तिॗ ह्याहुर᳘थ य᳘देॗवैॗषोदवसानीये᳘ष्टिः संति᳘ष्ठते᳘ ऽथ सायमाहुतिं᳘ जुहो᳘ति काल᳘ एव᳘ प्रातराहुति᳘म्॥

मूलम् - विस्वरम्

अथ चतुर्गृहीतमेवाज्यं गृहीत्वा वैष्णव्यर्चा जुहोति- “उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहा”- (वा. सं. ५ । ३८) इति । यज्ञो वै विष्णुः । तद् यज्ञमेवैतत्पुनरारभते- तथा ऽप्त्यायातयामा यज्ञो भवति- तथो ऽअस्मान्न पराङ् भवति । तत्रो यच्छक्नुयात्- तद्दद्यात् । नादक्षिणं हविः स्यादिति ह्याहुः । अथ यदेवैषोदवसानीयेष्टिः सन्तिष्ठते- अथ सायमाहुतिं जुहोति । काल ऽएव प्रातराहुतिम् ॥ १६ ॥

सायणः

कुत एतत् चतुर्गृहीतमेव 19 नाग्नेयपञ्चकपालमित्यवधारणान्नयज्ञमेवैतदिति च तुल्यार्थत्ववचनात् ‘यदेवैषा सन्तिष्ठते, अथ सायमाहुतिं जुहोति’ इत्येतावदत्र; तत्र ‘उदवसायनीयेष्टिः’ इत्येतत्प्रदर्शनार्थम् । नित्यायाः सायमाहुतेरनित्येष्टिकालेन संयोगस्य विरोधात् कार्यस्य लक्षणमात्रेष्टः कालः स च एक एव ततस्ततश्चाहुतिपक्षे नाहुतेरनन्तरं सायमाहुतिं जुहोतीति सिद्धम् । नित्याया एव सायमाहुतेरपकर्षवचनमेतत् । ज्योतिष्टोमगतया विधानं कुत एतत् । काल एव प्रातराहुतिरिति वाक्यशेषात्सायमाहुतौ ह्यपकृष्टायां प्रातराहुतेरप्यपकर्षशङ्कायां युक्तम् । अवधारणे काल एव प्रातराहुतिमिति । यदि तु सायमाहुतिः सोमाङ्गत्वेन विहितां स्यात्ततः सायमाहुतिरपि काल एव क्रियते । अथ नित्या तत्र केवलायाः प्रातराहुतेः काल एव । वचनं नोपपद्यते । अथोच्यते काल इत्येतदपि प्रातराहुतेः सोमाङ्गत्वेन निमित्तं न प्राप्तत्वाद्दीक्षितस्याप्यग्निहोत्रं निषिद्धम् । दीक्षा चावभृथ एवोक्ता । वाक्यशेषात् । ततश्च नित्यत्वादत एव काले प्रातराहुतिः प्राप्तेत्यनुवाद एवायं विज्ञायते । तत्प्रसङ्गाद्वातिग्राह्या साहस्रीग्रहव्यूहानि (?) च ॥ १६ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे पञ्चमाध्याये प्रथमं त्राह्मणम् (४-५-१) ॥

Eggeling
  1. Or 20, he takes ghee in five ladlings, and offers it with the verse to Vishṇu (Vāj. S. V, 38), ‘Stride thou widely, O Vishṇu, make wide room for our abode! drink the ghee, thou born of ghee, and speed the lord of the sacrifice ever onwards, Hail!’ For Vishṇu is the sacrifice: he thus takes hold again of the sacrifice, and thus his sacrifice is not exhausted in strength, and does not pass away from him. And let him on this occasion give as much as he can afford, for no offering, they say, should be without a Dakshiṇā. When this Udavasānīyā-ishṭi is completed, he offers the (ordinary) evening (milk) offering 21,–but the morning offering at its proper time.

  1. कृष्णाजिनं निधायोदयनीया प्रायणीयावत् । का० श्रौ० सू० १० । १९३ । ↩︎ ↩︎

  2. 386:2 See III, 2, 3, 6. ↩︎

  3. 386:3 See p. 48, note 1. ↩︎

  4. पात्रप्रोक्षणाद्याज्यासादनात्सवनीयवत्परिव्ययणादि मैत्रावरुणी व्वशा ऽनूवंध्यां । अत्र कर्कः । पात्रप्रोक्षणं शालाद्धार्ये श्रपणनियमव्युदासार्थम् । सवनीये हि पात्रासादनविधानेन शालाद्वार्ये श्रपणनियमो ज्ञापितः । तद्वदत्रापि मा भूदिति पात्रप्रोक्षणादीत्युक्तम् । सा च सवनीयवदिति परिव्ययणं यदुक्तं भवति । सकृत्प्रोक्षितमिध्ममाग्नीध्र उत्पवनं एकवृत्स्तरणमिति । परिव्ययणस्य पश्वंगत्वेन विधानात्तदपवर्गे चापवर्ग्यगाशंक्य परिव्ययणादीत्युक्तम् । इति । स्वर्व्ववगूहनादि वा कृतत्वात् । अत्र कर्कः । स्वर्ववगूहनादि वा कर्तव्यं । न परिव्ययणादीति । कुत एतत् । कृतत्वात्परिव्ययणसंस्कारस्य । यूपसंस्कारो ह्ययम् । स च यूपः सर्वपश्वर्थः । संस्कारो ऽपि तद्वदेवेति । अत एव स्वर्ववगूहनादि इत्युत्तरपदप्रधानो बहुव्रीहिः । स्वर्ववगूहनं यस्यादौ तदादि । तच्चोपाकरणम् । एवं सति । उपाकरणमंथनयोरत्र नियम इति । का० श्रौ० सू० १० । १९५-१९६ ॥ ↩︎

  5. 387:1 The meaning of this technical term would seem to be ’to be bound (or immolated) after’ the sacrifice. ↩︎

  6. 387:2 Or, of him, the sacrificer. ↩︎

  7. 387:3 That is, the sacrifice of his own self. ↩︎

  8. 387:4 The same passage occurs at I, 7, 4, 4, where I erroneously supplied ‘samabhavat.’ It is a broken, incoherent construction. The explanation, referred to in these two passages, may be Ait. Br. III, 34, though in that case one might have expected a somewhat closer adherence to the order of production there proposed; see part i, p. 210, note 1. Regarding the Āgnimāruta śastra, see above, p. 369 note . ↩︎

  9. 388:1 ? Or, the others, the animals (tad any anye paśavaḥ). Cp. the French idiom, ‘Les femmes et nous autres hommes.’ The Kāṇva text reads, tad anu paśavaḥ. ↩︎

  10. आसाः भस्माः marginal gloss in A. ↩︎

  11. व्वशाभाव उक्षा । उभयाभावे पयस्या । आसाद्यैतामाज्यभागप्रभृतीडांतामेके । एके आदितो ब्राह्मणतर्पणांताम् । विकल्प एवायमिति कर्कः । का. श्रौ. सू. १० । १९७-१९९ । ↩︎

  12. 388:2 The Kāṇva reads, And when they (the coals) became dust of ashes, the ass was produced therefrom: hence they call ‘asses’ place’ where the dust of the ashes (lies). ↩︎

  13. 388:3 Kāty. X, 9,15 allows, in lieu of the animal offering, an oblation of clotted curds (payasyā or āmikshā). See also II, 4, 2, 1 4. ↩︎

  14. 388:4 ? They applied their minds, or, they took hold (amarīmr̥śanta): Tad u viśve devā marimr̥śāṁ cakrire tato dvitīyā vaiśvadevī samabhavat.’ Kāṇva text. Perhaps the verb has here the same meaning as ‘dhū’ in the passage of the Ait. Br. referred to, tad (reto) maruto ’dhunvan. ↩︎

  15. (and whereever the word occurs) सत्र AB.: the reading सत्त्र is given on account of the etymology. ↩︎

  16. 389:1 The immolation of the three anubandhyā cows is prescribed at the end of the Gavāmayana (see note on IV, 5, 4, 14), and at other Sattras (sacrificial session) lasting at least a year, and endowed with fees of at least a thousand cows, except the Sārasvata Sattra. Kāty. XIII, 4, 4, 5. ↩︎

  17. उदवसानीया ऽग्नेयः पंचकपालः समारूढनिर्मथिते । अत्र कर्कः । समारोपश्च प्राजहिते कर्तव्यः । गार्हपत्यो हि स इति । का० श्रौ० सू० १० । २०० ॥ हिरण्यं दक्षिणा ऽनड्वान्वा । वेति विकल्प इति कर्कः । का० श्रौ० सू० १० । २०१ ॥ ↩︎

  18. 389:2 The Udavasānīyā ishṭi is performed, with certain modifications, on the model of the Paunarādheyikī ishṭi, or offering for the re-establishment of the sacred fire; for which see II, 2, 3, 4 seq., and especially the notes on part i, p. 317 seq. It is to be performed somewhere north of the sacrificial ground on a fire produced by the churning of the araṇis or (pairs of) churning-sticks, with which the priests have previously ’lifted’ their several fires. See p. 90, notes 4 and 5; and part i, p. 396, note 1. ↩︎

  19. पशुवद्वा ऽऽहुतिः । चतुर्गृहीतेनैवेत्यर्थः । तदंते सायमाहुतिः । सोमाङ्गँ सन्निधिविरोधाभ्यां । नित्या वा प्रातराहुतिश्रुतेः । नित्यक्रिया ऽतः । अत्र कर्कः । अतः परं नित्यानां क्रिया । न प्रागतः । उन्मुक्तदीक्षत्वे ऽपि अवभृथादूर्ध्वमिति । का. श्रौ. सू. १० । २०२-२०६ ॥ ↩︎

  20. 390:1 According to Kāty. X, 9, 20 (as interpreted by the commentator) this (Vaishṇavī) āhuti may optionally take the place of the Udavasānīyā ishṭi. ‘Atho’ has evidently the force of ‘or’ here, as in IV, 6, 4, 5. The Kāṇva text has atho apy āhutim eva juhuyāt; with the same meaning, cf. I, 1, 3, 3; also ‘uto,’ note to IV, 5, 2, 13. ↩︎

  21. 390:2 For the Agnihotra, or morning and evening libation of milk, see II, 2, 4; 3, 4. The performance being completed, the temporary erections, as the Sadas, cart-shed, Āgnīdhra fire-house, &c., are set on fire, and the sacrificer and priests go home. ↩︎