०१

विश्वास-प्रस्तुतिः

सौम्ये᳘न चरु᳘णा प्र᳘चरति॥
सो᳘मो वै᳘ देवा᳘नाᳫँ᳭ हविर᳘थैतत्सो᳘मायैव᳘ हवि᳘ष्क्रियते तथा᳘ ऽतः सोमो᳘ ऽनन्तर्हितो भवति चरु᳘र्भवति चरु᳘र्व्वै᳘ देवा᳘नाम᳘न्नमोदनो हि᳘ चरु᳘रोदनो हि᳘ प्रत्य᳘क्षम᳘न्नं त᳘स्माच्चरु᳘र्भवति॥

मूलम् - श्रीधरादि

सौम्ये᳘न चरु᳘णा प्र᳘चरति॥
सो᳘मो वै᳘ देवा᳘नाᳫँ᳭ हविर᳘थैतत्सो᳘मायैव᳘ हवि᳘ष्क्रियते तथा᳘ ऽतः सोमो᳘ ऽनन्तर्हितो भवति चरु᳘र्भवति चरु᳘र्व्वै᳘ देवा᳘नाम᳘न्नमोदनो हि᳘ चरु᳘रोदनो हि᳘ प्रत्य᳘क्षम᳘न्नं त᳘स्माच्चरु᳘र्भवति॥

मूलम् - Weber

सौम्ये᳘न चरु᳘णा प्र᳘चरति॥
सो᳘मो वै᳘ देवा᳘नाᳫं हविर᳘थैतत्सो᳘मायैव᳘ हवि᳘ष्क्रियते तथा᳘तः सोमो᳘ ऽनन्तर्हितो भवति चरु᳘र्भवति चरु᳘र्वै देवा᳘नाम᳘न्नमोदनो हि᳘ चरु᳘रोदनो हि᳘ प्रत्य᳘क्षम᳘न्नं त᳘स्माच्चरु᳘र्भवति॥

मूलम् - विस्वरम्

सौम्यश्चरुः ।

सौम्येन चरुणा प्रचरति । सोमो वै देवानां हविः । अथैतत्सोमायैव हविष्क्रियते । तथा ऽतः सोमो ऽनन्तर्हितो भवति । चरुर्भवति । चरुर्वै देवानामन्नम् । ओदनो हि चरुः । ओदनो हि प्रत्यक्षमन्नम् । तस्माच्चरुर्भवति ॥ १ ॥

सायणः

सौम्येनेति । एताभिः षड्भिः कण्डिकाभिः ‘सौम्येन चरुणा’ चर्वणमुच्यते । ओदनो हि प्रत्यक्षमन्नमिति । चर्वणीयो ह्योदन इत्यभिप्रायः ॥ १ ॥

Eggeling
  1. He proceeds with (the offering of) Soma’s rice-pap; for Soma is the sacrificial food of the gods; and here now sacrificial food is prepared for Soma on his part; and thus Soma is not excluded therefrom. It is a rice-pap (caru), for rice-pap is food for the gods, since rice-pap is boiled rice, and boiled rice is clearly food: therefore it is a rice-pap.

०२

विश्वास-प्रस्तुतिः

ते᳘न न᳘ प्रातःसवने᳘ प्रच᳘रति॥
न मा᳘ध्यन्दिने स᳘वन ऽएते वै᳘ देवा᳘नां नि᳘ष्केवल्ये स᳘वने य᳘त्प्रातःसवनं᳘ च मा᳘ध्यन्दिनं च स᳘वनं पितृदेव᳘त्यो वै सो᳘मः॥

मूलम् - श्रीधरादि

ते᳘न न᳘ प्रातःसवने᳘ प्रच᳘रति॥
न मा᳘ध्यन्दिने स᳘वन ऽएते वै᳘ देवा᳘नां नि᳘ष्केवल्ये स᳘वने य᳘त्प्रातःसवनं᳘ च मा᳘ध्यन्दिनं च स᳘वनं पितृदेव᳘त्यो वै सो᳘मः॥

मूलम् - Weber

ते᳘न न᳘ प्रातःसवने᳘ प्रच᳘रति॥
न मा᳘ध्यन्दिने स᳘वन एते वै᳘ देवा᳘नां नि᳘ष्केवल्ये स᳘वने य᳘त्प्रातःसवनं᳘ च मा᳘ध्यन्दिनं च स᳘वनम् पितृदेव᳘त्यो वै सो᳘मः॥

मूलम् - विस्वरम्

तेन न प्रातःसवने प्रचरति, न माध्यन्दिने सवने । एते वै देवानां निष्केवल्ये सवने- यत्प्रातः-सवनञ्च, माध्यन्दिनश्च सवनम् । पितृदेवत्यो वै सोमः ॥ २ ॥

सायणः

‘पितृदेवत्यः’ पितरो देवता अस्येति पितृदेवत्यः । “देवतान्तात्तादर्थे यत्” (पा. सू. ५ । ४ । २४) । पितृप्रधानः सोम इत्यर्थः । पितॄणां ज्योतिरन्नम् ॥ २ ॥

Eggeling
  1. Neither at the morning feast, nor at the midday feast does he offer it, for those two press-feasts, the morning feast and the midday feast, are the exclusive feasts of the gods; and Soma is sacred to the Fathers 1.

०३

विश्वास-प्रस्तुतिः

स य᳘त्प्रातःसवने᳘ वा प्रच᳘रेत्॥
(न्मा᳘) मा᳘ध्यन्दिने वा स᳘वने सम᳘दᳫँ᳭ ह कुर्याद्देवे᳘भ्यश्च पितृ᳘भ्यश्च ते᳘न तृतीयसवने प्र᳘चरति व्वैश्वदेवं वै᳘ तृतीयसवनं त᳘था हा᳘समदं करोति᳘ नानुवा᳘क्याम᳘न्वाह सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मा᳘न्नानुवा᳘क्याम᳘न्वाह॥

मूलम् - श्रीधरादि

स य᳘त्प्रातःसवने᳘ वा प्रच᳘रेत्॥
(न्मा᳘) मा᳘ध्यन्दिने वा स᳘वने सम᳘दᳫँ᳭ ह कुर्याद्देवे᳘भ्यश्च पितृ᳘भ्यश्च ते᳘न तृतीयसवने प्र᳘चरति व्वैश्वदेवं वै᳘ तृतीयसवनं त᳘था हा᳘समदं करोति᳘ नानुवा᳘क्याम᳘न्वाह सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मा᳘न्नानुवा᳘क्याम᳘न्वाह॥

मूलम् - Weber

स य᳘त्प्रातःसवने᳘ वा प्रच᳘रेत्॥
मा᳘ध्यन्दिने वा स᳘वने सम᳘दᳫं ह कुर्याद्देवे᳘भ्यश्च पितृ᳘भ्यश्च ते᳘न तृतीयसवने प्र᳘चरति वैश्वदेवं वै᳘ तृतीयसवनं त᳘था हा᳘समदं करोतिॗ नानुवाॗक्याम᳘न्वाह सकृ᳘दुॗह्येव प᳘राञ्चः पित᳘रस्त᳘स्माॗन्नानुवाॗक्याम᳘न्वाह॥

मूलम् - विस्वरम्

स यत्प्रातःसवने वा प्रचरेत्, माध्यन्दिने वा सवने- समदं ह कुर्यात् देवेभ्यश्च, पितृभ्यश्च । तेन तृतीयसवने प्रचरति । वैश्वदेवं वै तृतीयसवनम् । तथा हासमदं करोति । नानुवाक्यामन्वाह । सकृदु ह्येव पराञ्चः पितरः । तस्मान्नानुवाक्यामन्वाह ॥ ३ ॥

सायणः

‘समदं’ विरोधं कुर्यात् । देवानां पितॄणां षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा. १) । नानुवाक्यामन्वाहेति । अनुवाद एव । यावदुक्तत्वात् ॥ ३ ॥

Eggeling
  1. But were he to offer it at the morning feast, or at the midday feast, he would cause discord between the gods and Fathers. He offers it at the evening feast, because the evening feast belongs to the All-gods 2: thus he does not cause discord. He recites no invitatory prayer (but only an offering prayer), for the Fathers have passed away once for all: hence he recites no invitatory prayer.

०४

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा॥
(त्वाश्रा᳘) आश्रा᳘व्याह घृत᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोति तद्या ऽअ᳘तः प्रा᳘च्य ऽआ᳘हुतयो हुता भ᳘वन्ति ता᳘भ्य ऽए᳘वैत᳘दन्त᳘र्दधाति त᳘था हा᳘समदं करोति॥(शतम् २६००)

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा॥
(त्वाश्रा᳘) आश्रा᳘व्याह घृत᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोति तद्या ऽअ᳘तः प्रा᳘च्य ऽआ᳘हुतयो हुता भ᳘वन्ति ता᳘भ्य ऽए᳘वैत᳘दन्त᳘र्दधाति त᳘था हा᳘समदं करोति॥(शतम् २६००)

मूलम् - Weber

अ᳘थ चतुर्गृहीतमा᳘ज्यं गृहीॗत्वा॥
आश्रा᳘व्याह घृत᳘स्य यजेति व᳘षट्कृते जुहोति तद्या अ᳘तः प्रा᳘च्य आ᳘हुतयो हुता भ᳘वन्ति ता᳘भ्य एॗवैत᳘दन्त᳘र्दधाति त᳘था हा᳘समदं करोति॥

मूलम् - विस्वरम्

अथ चतुर्गृहीतमाज्यं गृहीत्वा, आश्राव्याह- वृतस्य यजेति । वषट्कृते जुहोति । तद् या अतः प्राच्य आहुतयो हुता भवन्ति- ताभ्य एवैतदन्तर्दधाति, तथा हासमदं करोति ॥ ४ ॥

सायणः

अथ चतुर्गृहीतमित्यत्राप्याज्ये यावदुक्तमेव आश्रावणादिषु पुनर्वचनात् ॥ ४ ॥

Eggeling
  1. Having, in the first place, taken ghee in four ladlings, and having called (on the Agnīdh) for the Śraushaṭ, he says, ‘Recite the offering prayer of the ghee!’ and offers as the Vashaṭ is uttered. Whatever oblations have been offered previous to this (caru), therefrom he separates this one (to Soma), and thus he causes no discord.

०५

विश्वास-प्रस्तुतिः

स आ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘श्चरोर᳘वद्यत्य᳘थोपरिष्टादा᳘ज्यस्याभि᳘घारयत्याश्रा᳘व्याह[[!!]] सौम्य᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

स आ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘श्चरोर᳘वद्यत्य᳘थोपरिष्टादा᳘ज्यस्याभि᳘घारयत्याश्रा᳘व्याह[[!!]] सौम्य᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

स आ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘श्चरोर᳘वद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयत्याश्रा᳘व्याह सौम्य᳘स्य यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

स आज्यस्योपस्तीर्य द्विश्चरोरवद्यति । अथोपरिष्टादाज्यस्याभिघारयति । आश्राव्याह- सौम्यस्य यजेति । वषट्कृते जुहोति ॥ ५ ॥

सायणः

स आज्यस्योपस्तीर्येति 3 । उपस्तरणादीनां प्रकृतित एव प्राप्तत्वात् पुनर्वचनाद्यावदुत्तमः । ततश्च स्विष्टकृदिडाद्यकृत्वैवायं चरुरुद्गात्रे हर्तव्यः 4 । शाखान्तरात् ॥ ५ ॥

Eggeling
  1. Having poured (into the spoon) an ‘underlayer’ of ghee, he makes two cuttings from the rice-pap; and bastes them with ghee above. Having called for the Śraushaṭ, he says, ‘Recite the offering prayer of the Saumya (rice-pap)!’ and offers as the Vashaṭ is uttered.

०६

विश्वास-प्रस्तुतिः

(त्य) अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा॥
(त्वाश्रा᳘) आश्रा᳘व्याह घृत᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोति तद्या ऽअ᳘त ऽऊर्ध्वा ऽआ᳘हुतीर्होष्यन्भ᳘वति ता᳘भ्य ऽए᳘वैत᳘दन्त᳘र्दधाति त᳘था हास᳘मदं करोति स य᳘दि काम᳘येतोभय᳘तः प᳘रियजेद्य᳘द्यु काम᳘येतान्यत᳘रतः[[!!]] प᳘रियजेत्॥

मूलम् - श्रीधरादि

(त्य) अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा॥
(त्वाश्रा᳘) आश्रा᳘व्याह घृत᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोति तद्या ऽअ᳘त ऽऊर्ध्वा ऽआ᳘हुतीर्होष्यन्भ᳘वति ता᳘भ्य ऽए᳘वैत᳘दन्त᳘र्दधाति त᳘था हास᳘मदं करोति स य᳘दि काम᳘येतोभय᳘तः प᳘रियजेद्य᳘द्यु काम᳘येतान्यत᳘रतः[[!!]] प᳘रियजेत्॥

मूलम् - Weber

अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृहीॗत्वा॥
आश्रा᳘व्याह घृत᳘स्य यजे᳘ति व᳘षट्कृते जुहोति तद्या अ᳘त ऊर्ध्वा आ᳘हुतीर्होष्यन्भ᳘वति ता᳘भ्य एॗवैत᳘दन्त᳘र्दधाति त᳘था हास᳘मदं करोति स य᳘दि काम᳘येतोभय᳘तः प᳘रियजेद्य᳘द्यु काम᳘येतान्यतर᳘तः प᳘रियजेत्॥

मूलम् - विस्वरम्

अथापरं चतुर्गृहीतमाज्यं गृहीत्वा आश्राव्याह- घृतस्य यजेति । वषट्कृते जुहोति । तद् या अत ऊर्ध्वा आहुतीर्होष्यन्भवति- ताभ्य एवैतदन्तर्दधाति । तथा हासमदं करोति । स यदि कामयेत- उभयतः परियजेत् । यद्यु कामयेत- अन्यतरतः परियजेत् ॥ ६ ॥

सायणः

‘परियजेत्’ सौम्यमाज्यभागं न परिगृह्णीयादित्यर्थः ॥ ६ ॥

Eggeling
  1. He then takes ghee a second time by four ladlings, and having called for the Śraushaṭ, he says, ‘Recite the offering prayer of the ghee!’ and offers as the Vashaṭ is uttered. From whatever oblations he intends to offer hereafter, he thereby separates this one (to Soma), and thus he causes no discord. If he chooses, he may offer (ghee) on both sides (before and after the Soma’s rice-pap); or, if he chooses, he may offer on one side only 5.

०७

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ प्रचरणी᳘ति स्रु᳘ग्भवति॥
त᳘स्यां चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा ऽध्वर्युः[[!!]] शालाकैर्धि᳘ष्ण्यान्व्या᳘घारयति तद्य᳘च्छालाकैर्धि᳘ष्ण्यान्व्याघार᳘यति य᳘दे᳘वैनानदो᳘ देवा ऽअ᳘ब्रुवंस्तृतीयसवने᳘ वो घृत्या᳘ ऽऽहुतिः प्रा᳘प्स्यति न᳘ सौम्या᳘ ऽपहृतो हि᳘ युष्म᳘त्सोमपीथस्ते᳘न सोमाहुतिं᳘ नार्हथे᳘ति᳘ सैनानेषा᳘ तृतीयसवन᳘ ऽएव घृत्या᳘ ऽऽहुतिः प्रा᳘प्नोति न᳘ सौम्या य᳘च्छालाकैर्धि᳘ष्ण्यान्व्याघार᳘यति ता᳘नेतै᳘रेव य᳘जुर्भिर्यथोपकीर्णं᳘ यथापूर्व्वं व्या᳘घारयति मार्जा᳘लीय ऽए᳘वोत्तमम्[[!!]]॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ प्रचरणी᳘ति स्रु᳘ग्भवति॥
त᳘स्यां चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा ऽध्वर्युः[[!!]] शालाकैर्धि᳘ष्ण्यान्व्या᳘घारयति तद्य᳘च्छालाकैर्धि᳘ष्ण्यान्व्याघार᳘यति य᳘दे᳘वैनानदो᳘ देवा ऽअ᳘ब्रुवंस्तृतीयसवने᳘ वो घृत्या᳘ ऽऽहुतिः प्रा᳘प्स्यति न᳘ सौम्या᳘ ऽपहृतो हि᳘ युष्म᳘त्सोमपीथस्ते᳘न सोमाहुतिं᳘ नार्हथे᳘ति᳘ सैनानेषा᳘ तृतीयसवन᳘ ऽएव घृत्या᳘ ऽऽहुतिः प्रा᳘प्नोति न᳘ सौम्या य᳘च्छालाकैर्धि᳘ष्ण्यान्व्याघार᳘यति ता᳘नेतै᳘रेव य᳘जुर्भिर्यथोपकीर्णं᳘ यथापूर्व्वं व्या᳘घारयति मार्जा᳘लीय ऽए᳘वोत्तमम्[[!!]]॥

मूलम् - Weber

अ᳘थ प्रचरणी᳘ति स्रु᳘ग्भवति॥
त᳘स्यां चतुर्गृहीतमा᳘ज्यं गृहीॗत्वाध्वर्युः᳘ शालाकैर्धि᳘ष्ण्यान्व्या᳘घारयति तद्य᳘छालाकैर्धि᳘ष्ण्यान्व्याघार᳘यति य᳘देॗवैनानदो᳘ देवा अ᳘ब्रुवंस्तृतीयसवने᳘ वो घृत्या᳘हुतिः प्रा᳘प्स्यति न᳘ सौम्या᳘पहृतो हि᳘ युष्म᳘त्सोमपीथस्ते᳘न सोमाहुतिॗᳫंॗ सैनानेषा᳘ तृतीयसवन᳘ एव घृत्या᳘हुतिः प्रा᳘प्नोति न᳘ सौम्या य᳘छालाकैर्धि᳘ष्ण्यान्व्याघार᳘यति ता᳘नेतै᳘रेव य᳘जुर्भिर्यथोपकीर्णं᳘ यथापूर्वं व्या᳘घारयति मार्जाली᳘य एॗवोत्तम᳘म्॥

मूलम् - विस्वरम्

पात्नीवतग्रहः ।

अथ प्रचरणीति स्रुग्भवति । तस्यां चतुर्गृहीतमाज्यं गृहीत्वा ऽध्वर्युः शालाकैर्धिष्ण्यान्व्याघारयति । तद् यच्छालाकैर्धिष्ण्यान्व्याघारयति । यदेवैनानदो देवा अब्रुवन्- तृतीयसवने वो घृत्या ऽऽहुतिः प्राप्स्यति । न सौम्या ऽपहृतो हि युष्मत्सोमपीथः । तेन सोमाहुतिं नार्हथ इति । सैनानेषा तृतीयसवन ऽएव घृत्या ऽऽहुतिः प्राप्नोति, न सौम्या । यच्छालाकैर्धिष्ण्यान्व्याघारयति- तानेतैरेव यजुर्भिर्यथोपकीर्णं यथापूर्वं व्याघारयति । मार्जालीय ऽएवोत्तमम् ॥ ७ ॥

सायणः

अथ प्रचरणीति । द्वाभ्यामेताभ्यां धिष्ण्यानां व्याघारणमुच्यते 6 । ‘शालाकैः’ शलाकावयवैः । “प्रदीप्यविष्ण्यानिति” शाखान्तरात् । धिष्ण्यानाग्नीध्रीयादीन् विभज्य तदेवैकमजं तेनाभिघारयति । अभिजुहोति । घृतमयी ‘घृत्या’ । सोममयी ‘सौम्या’ । तानेतैरेवेति । “विभूरसि प्रवाहणः” इत्यादिभिर्यथोक्तमन्त्रवर्णैरिति । यो धिष्ण्यो येन यजुषोपकीर्णस्तं तेनाभिघारयेदित्यर्थः । यथापूर्वमिति । यः पूर्वमुपकीर्णस्तं पूर्वमेवाभिघारयेत् । यो द्वितीयस्तं द्वितीयमित्यादि क्रमवचनम् । मार्जालीय एवोत्तममित्यनुदेश्यानामाहवनीयादीनां निवृत्त्यर्थम् ॥ ७ ॥ ८ ॥

Eggeling
  1. Now there is an offering-spoon called ‘pracaraṇī.’ Therein the Adhvaryu takes ghee by four ladlings (with the dipping-spoon) and pours it on the Dhishṇya hearths by means of fagots (held over them). The reason why he pours ghee on the hearths by means of fagots is this. Because, on a former occasion 7, the gods said to those (Gandharva

Soma-wardens), ‘At the third pressing an offering of ghee shall fall to your share, but not one of Soma, for the Soma-draught has been taken from you, wherefore ye are not worthy of a Soma-offering,’ that same offering of ghee now falls to their share at the evening pressing, but not one of Soma, in that he pours ghee on the hearths by means of fagots. One after another, in the order in which they were thrown up, and with the same formulas 8, he pours ghee upon them; on the Mārjālīya last of all.

०८

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
(क ऽ) आग्नीध्री᳘ये पु᳘नरा᳘घारयन्त्यु᳘दग्न ऽइदं क᳘र्मानुसं᳘तिष्ठाता ऽइ᳘ति त᳘दु त᳘था न᳘ कुर्यान्मार्जाली᳘य ऽए᳘वोत्तमम्[[!!]]॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
(क ऽ) आग्नीध्री᳘ये पु᳘नरा᳘घारयन्त्यु᳘दग्न ऽइदं क᳘र्मानुसं᳘तिष्ठाता ऽइ᳘ति त᳘दु त᳘था न᳘ कुर्यान्मार्जाली᳘य ऽए᳘वोत्तमम्[[!!]]॥

मूलम् - Weber

तद्धै᳘के॥
आग्नीध्री᳘ये पु᳘नरा᳘घारयन्त्यु᳘दग्न इदं क᳘र्मानुसं᳘तिष्ठाता इ᳘ति त᳘दु त᳘था न᳘ कुर्यान्मार्जाली᳘य एॗवोत्त᳘मम्॥

मूलम् - विस्वरम्

तद्धैके आग्नीध्रीये पुनराघारयन्ति- उदग्न ऽइदं कर्मानुसन्तिष्ठाता ऽइति । तदु तथा न कुर्यात् । मार्जालीय ऽएवोत्तमम् ॥ ८ ॥

सायणः

[व्याख्यानं सप्तमे]

Eggeling
  1. Now some make a second pouring on the Āgnīdhrīya hearth, thinking, ‘In the North (or upwards) shall this sacred work of ours be accomplished!’ but let him not do it in this way, but rather the Mārjālīya last 9.

०९

विश्वास-प्रस्तुतिः

(मᳫँ᳭) स य᳘त्राध्वर्युः᳘॥
शालाकैर्धिष्ण्या᳘न्व्याघार᳘यति[[!!]] त᳘त्प्रतिप्रस्थाता᳘ पात्नीवतं ग्र᳘हं गृ᳘ह्णाति यज्ञाद्वै᳘ प्र᳘जाः प्रजायन्ते[[!!]] यज्ञा᳘त्प्रजा᳘यमाना मिथुनात्प्र᳘जायन्ते मिथुना᳘त्प्रजा᳘यमाना ऽअन्ततो᳘ यज्ञ᳘स्य प्र᳘जायन्ते त᳘देना ऽएत᳘दन्ततो᳘ यज्ञ᳘स्य मिथुना᳘त्प्रज᳘ननात्प्र᳘जनयति त᳘स्मान्मिथुना᳘त्प्रज᳘ननादन्ततो᳘ यज्ञ᳘स्येमाः᳘ प्रजाः प्र᳘जायन्ते त᳘स्मात्पात्नीवतं᳘ गृह्णाति॥

मूलम् - श्रीधरादि

(मᳫँ᳭) स य᳘त्राध्वर्युः᳘॥
शालाकैर्धिष्ण्या᳘न्व्याघार᳘यति[[!!]] त᳘त्प्रतिप्रस्थाता᳘ पात्नीवतं ग्र᳘हं गृ᳘ह्णाति यज्ञाद्वै᳘ प्र᳘जाः प्रजायन्ते[[!!]] यज्ञा᳘त्प्रजा᳘यमाना मिथुनात्प्र᳘जायन्ते मिथुना᳘त्प्रजा᳘यमाना ऽअन्ततो᳘ यज्ञ᳘स्य प्र᳘जायन्ते त᳘देना ऽएत᳘दन्ततो᳘ यज्ञ᳘स्य मिथुना᳘त्प्रज᳘ननात्प्र᳘जनयति त᳘स्मान्मिथुना᳘त्प्रज᳘ननादन्ततो᳘ यज्ञ᳘स्येमाः᳘ प्रजाः प्र᳘जायन्ते त᳘स्मात्पात्नीवतं᳘ गृह्णाति॥

मूलम् - Weber

स य᳘त्राध्वर्युः᳟॥
शालाकैर्धि᳘ष्ण्यान्व्याघार᳘यति त᳘त्प्रतिप्रस्थाता᳘ पात्नीवतं ग्र᳘हं गृह्णाति यज्ञाद्वै᳘ प्रजाः प्र᳘जायन्ते यज्ञा᳘त्प्रजा᳘यमाना मिथुनात्प्र᳘जायन्ते मिथुना᳘त्प्रजा᳘यमाना अन्ततो᳘ यज्ञ᳘स्य प्र᳘जायन्ते त᳘देना एत᳘दन्ततो᳘ यज्ञ᳘स्य मिथुना᳘त्प्रज᳘ननात्प्र᳘जनयति त᳘स्मान्मिथुना᳘त्प्रज᳘ननादन्ततो᳘ यज्ञ᳘स्येमाः᳘ प्रजाः प्र᳘जायन्ते त᳘स्मात्पात्नीवतं᳘ गृह्णाति॥

मूलम् - विस्वरम्

स यत्राध्वर्युः । शालाकैर्धिष्ण्यान्व्याघारयति । तत् प्रतिप्रस्थाता पात्नीवतं ग्रहं गृह्णाति । यज्ञाद्वै प्रजाः प्रजायन्ते, यज्ञात्प्रजायमाना मिथुनात्प्रजायन्ते, मिथुनात्प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते । तदेना एतदन्ततो यज्ञस्य मिथुनात्प्रजननात्प्रजनयति । तस्मान्मिथुनात्प्रजननादन्ततो यज्ञस्येमाः प्रजाः प्रजायन्ते । तस्मात्पात्नीवतं गृह्णाति ॥ ९ ॥

सायणः

अतः परं पात्नीवतमुच्यते- प्रागन्त्याभ्यां कण्डिकाभ्याम् । न सम्प्रति साक्षात् पत्नीभ्यो गृह्णाति इति । कथं तर्हि परोक्षवृत्त्या सोम उच्यते । हे सोम ! तव ‘पत्नीवतः’ सतो ‘ग्रहान्’ अहम् ‘ऋध्यासम्’ । कथं च सोमः पत्नीवान् भवति । यदि पत्न्यस्तस्य देवता भवन्ति । एवं परोक्षं पत्नीभ्यो गृह्णाति तद्देवान्तरवद्विस्पष्टम् ॥ ९-११ ॥

Eggeling
  1. Now, while the Adhvaryu pours ghee on the hearths by means of fagots, the Pratiprasthātr̥ draws the Pātnīvata 10 cup. For from the sacrifice creatures are produced; and being produced from the sacrifice, they are produced from union; and being produced from union, they are produced from the hind part of the sacrifice;–hence he thereby produces them from a productive union, from the hind part of the sacrifice: therefore he draws the Pātnīvata cup.

१०

विश्वास-प्रस्तुतिः

तं वा᳘ ऽउपाᳫँ᳭शुपात्रे᳘ण गृह्णाति॥
य᳘दि सावित्र᳘मुपाᳫँ᳭शुपात्रे᳘ण गृह्णीया᳘दन्तर्यामपात्रे᳘णैतं य᳘दि सावित्र᳘मन्तर्यामपात्रे᳘ण गृह्णीया᳘दुपᳫँ᳭शुपात्रे᳘णैत᳘ᳫँ᳭ समान᳘ᳫं᳘[[!!]] ह्येतद्य᳘दुपाᳫँ᳭श्वन्तर्यामौ᳘ प्राणो हि यो वै᳘ प्राणः स᳘ ऽउदानो व्वृ᳘षा वै᳘ प्राणो यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - श्रीधरादि

तं वा᳘ ऽउपाᳫँ᳭शुपात्रे᳘ण गृह्णाति॥
य᳘दि सावित्र᳘मुपाᳫँ᳭शुपात्रे᳘ण गृह्णीया᳘दन्तर्यामपात्रे᳘णैतं य᳘दि सावित्र᳘मन्तर्यामपात्रे᳘ण गृह्णीया᳘दुपᳫँ᳭शुपात्रे᳘णैत᳘ᳫँ᳭ समान᳘ᳫं᳘[[!!]] ह्येतद्य᳘दुपाᳫँ᳭श्वन्तर्यामौ᳘ प्राणो हि यो वै᳘ प्राणः स᳘ ऽउदानो व्वृ᳘षा वै᳘ प्राणो यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - Weber

तं वा᳘ उपांशुपात्रे᳘ण गृह्णाति॥
य᳘दि सावित्र᳘मुपांशुपात्रे᳘ण गृह्णीया᳘दन्तर्यामपात्रे᳘णैतं य᳘दि सावित्र᳘मन्तर्यामपात्रे᳘ण गृह्णीया᳘दुपांशुपात्रे᳘णैत᳘ᳫं᳘ समाॗनᳫं ह्येतद्य᳘दुपांश्वन्तर्यामौ᳘ प्राणो हि यो वै᳘ प्राणः स᳘ उदानो वृषा वै᳘ प्राणो यो᳘षा प᳘त्नी मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - विस्वरम्

तं वा ऽउपांशुपात्रेण गृह्णाति- यदि सावित्रमुपांशुपात्रेण गृह्णीयात्- अन्तर्यामपात्रेणैतम् । यदि सावित्रमन्तर्यामपात्रेण गृह्णीयाद्- उपांशुपात्रेणैतम् । समानं ह्येतत्- यदुपांश्वन्तर्यामौ । प्राणो हि । यो वै प्राणः स उदानः । वृषा वै प्राणः, योषा पत्नी । मिथुनमेवैतत्प्रजननं क्रियते ॥ १० ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He draws it with the Upāṁśu vessel. If he

draws the Sāvitra libation with the Upāṁśu vessel, (he draws) this one with the Antaryāma vessel; and if he draws the Sāvitra with the Antaryāma vessel (he draws) this one with the Upāṁśu vessel;–for one and the same indeed are the Upāṁśu and Antaryāma, being breath, and that which is the out-breathing is also the in-breathing. Now the breath (prāṇa, masc.) is male, and the wife is female: a productive union is thus brought about.

११

विश्वास-प्रस्तुतिः

तं वा᳘ ऽअपुरोरु᳘क्कं गृह्णाति॥
व्वीर्यं᳘ वै᳘ पुरोरुङ्ने᳘त्स्त्रीषु᳘ व्वीर्यं᳘ द᳘धानी᳘ति त᳘स्मादपुरोरु᳘क्कं गृह्णाति॥

मूलम् - श्रीधरादि

तं वा᳘ ऽअपुरोरु᳘क्कं गृह्णाति॥
व्वीर्यं᳘ वै᳘ पुरोरुङ्ने᳘त्स्त्रीषु᳘ व्वीर्यं᳘ द᳘धानी᳘ति त᳘स्मादपुरोरु᳘क्कं गृह्णाति॥

मूलम् - Weber

तं वा᳘ अपुरोरु᳘क्कं गृह्णाति॥
वीर्यं᳘ वै᳘ पुरोरुङ्ने᳘त्स्त्रीषु᳘ वीर्यं᳘ द᳘धानी᳘ति त᳘स्मादपुरोरु᳘क्कं गृह्णाति॥

मूलम् - विस्वरम्

तं वा ऽअपुरोरुक्कं गृह्णाति । ‘वीर्यं वै पुरोरुगू- नेत् स्त्रीषु वीर्यं दधानीति । तस्मादपुरोरुक्कं गृह्णाति ॥ ११ ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. He draws it without a puroruc 11,—the puroruc being manhood,–lest he should bestow manhood on women: therefore he draws it without a puroruc.

१२

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वो) उपयाम᳘गृहीतो ऽसि बृ᳘हस्प᳘तिसुतस्य देव सोम त ऽइ᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मप्रसूतस्य देव सोम त ऽइत्ये᳘वैत᳘दाहे᳘न्दोरिन्द्रिया᳘वत इ᳘ति व्वीर्य᳘वत ऽइ᳘त्ये᳘वैत᳘दाह यदाहे᳘न्दोरिन्द्रिया᳘वत इ᳘ति पत्नीवतो[[!!]] ग्र᳘हा२ँ॥ ऽऋध्यासमि᳘ति न᳘ संप्रति प᳘त्नीभ्यो गृह्णाति ने᳘त्स्त्रीषु व्वी᳘र्यं[[!!]] द᳘धानी᳘ति त᳘स्मान्न᳘ सम्प्रति प᳘त्नीभ्यो गृह्णाति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वो) उपयाम᳘गृहीतो ऽसि बृ᳘हस्प᳘तिसुतस्य देव सोम त ऽइ᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मप्रसूतस्य देव सोम त ऽइत्ये᳘वैत᳘दाहे᳘न्दोरिन्द्रिया᳘वत इ᳘ति व्वीर्य᳘वत ऽइ᳘त्ये᳘वैत᳘दाह यदाहे᳘न्दोरिन्द्रिया᳘वत इ᳘ति पत्नीवतो[[!!]] ग्र᳘हा२ँ॥ ऽऋध्यासमि᳘ति न᳘ संप्रति प᳘त्नीभ्यो गृह्णाति ने᳘त्स्त्रीषु व्वी᳘र्यं[[!!]] द᳘धानी᳘ति त᳘स्मान्न᳘ सम्प्रति प᳘त्नीभ्यो गृह्णाति॥

मूलम् - Weber

अथा᳘तो गृह्णा᳘त्येव᳟॥
उपयाम᳘गृहीतो ऽसि बृ᳘हस्प᳘तिसुतस्य देव सोम त इ᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मप्रसूतस्य देव सोम त इत्येॗवैत᳘दाहे᳘न्दोरिन्द्रिया᳘वत इ᳘ति वीर्य᳘वत इ᳘त्येॗवैत᳘दाह यदाहे᳘न्दोरिन्द्रिया᳘वत इ᳘ति प᳘त्नीवतो ग्र᳘हां ऋध्यासमि᳘ति न᳘ सम्प्रति प᳘त्नीभ्यो गृह्णाति ने᳘त्स्त्रीषु वीर्यं᳘ द᳘धानी᳘ति त᳘स्मान्न᳘ सम्प्रति प᳘त्नीभ्यो गृह्णाति॥

मूलम् - विस्वरम्

अथातो गृह्णात्येव- “उपयामगृहीतो ऽसि बृहस्पतिसुतस्य देव सोम ते”- (वा० सं० ८ । ९) इति । ब्रह्म वै बृहस्पतिः । ब्रह्मप्रसूतस्य देव सोम त इत्येवैतदाह । “इन्दोरिन्द्रियावतः”- (वा० सं० ८ । ९) इति । वीर्यवत इत्येवैतदाह- यदाह- इन्दोरिन्द्रियावत इति । “पत्नीवतो ग्रहां २ ॥ ऋध्यासम्”- (वा० सं० ८ । ९) इति । न सम्प्रति पत्नीभ्यो गृह्णाति- नेत्स्त्रीषु वीर्ये दधानीति । तस्मान्न सम्प्रति पत्नीभ्यो गृह्णाति ॥ १२ ॥

सायणः

उपयामगृहीतो ऽसीति 12 । पत्नीभ्यः- इत्येवम् । नेत्स्त्रीषु वीर्यमिति । देवपत्नीषु किल देवैस्तुल्या सुकृतास्तदनुकरणान्मानुष्यो ऽपि स्त्रियो वीर्यवत्यः पुंसि तुल्याः कृताः स्युः । तच्चायुक्तं व्यवहारस्यानवक्लृप्तेरित्यभिप्रायः ॥ १२ ॥

Eggeling
  1. He thus draws it from that (Āgrayaṇa graha) with (Vāj. S. VIII, 9), ‘Thou art taken with a support: Of thee, divine Soma, begotten by Br̥haspati’–Br̥haspati is the priesthood: of thee, divine Soma, the priest-begotten’ he thereby means to say–‘Of thee, the potent juice of the powerful (manly) juice’ he means to say when he says ‘of thee, the potent juice’–‘May I prosper the draughts of thee, the mated one 13!’ he does not now draw it for the wives, lest he should bestow manhood on women: therefore he does not now draw it for the wives.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यः᳘ प्रचरण्या᳘ᳫँ᳘ सᳫँ᳭स्रवः प᳘रिशिष्टो भ᳘वति॥
ते᳘नैनᳫँ᳭ श्रीणाति स᳘मर्धयति वा᳘ ऽअन्यान्ग्र᳘हाञ्छ्रीणन्न᳘थैतं᳘ व्यर्धयति[[!!]] व्व᳘ज्रो वा ऽआ᳘ज्यमेते᳘न वै᳘ देवा व्व᳘ज्रेणा᳘ज्येना᳘घ्नन्नेव प᳘त्नीर्नि᳘राक्ष्णुवंस्ता᳘ हता नि᳘रष्टा᳘ नात्म᳘नश्च᳘नैशत न᳘ दाय᳘स्य च᳘नैशत त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येन ह᳘न्त्येव प᳘त्नीर्नि᳘रक्ष्णोति ता᳘ हता नि᳘रष्टा᳘ नात्म᳘नश्च᳘नेशते न᳘ दाय᳘स्य च᳘नेशते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यः᳘ प्रचरण्या᳘ᳫँ᳘ सᳫँ᳭स्रवः प᳘रिशिष्टो भ᳘वति॥
ते᳘नैनᳫँ᳭ श्रीणाति स᳘मर्धयति वा᳘ ऽअन्यान्ग्र᳘हाञ्छ्रीणन्न᳘थैतं᳘ व्यर्धयति[[!!]] व्व᳘ज्रो वा ऽआ᳘ज्यमेते᳘न वै᳘ देवा व्व᳘ज्रेणा᳘ज्येना᳘घ्नन्नेव प᳘त्नीर्नि᳘राक्ष्णुवंस्ता᳘ हता नि᳘रष्टा᳘ नात्म᳘नश्च᳘नैशत न᳘ दाय᳘स्य च᳘नैशत त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येन ह᳘न्त्येव प᳘त्नीर्नि᳘रक्ष्णोति ता᳘ हता नि᳘रष्टा᳘ नात्म᳘नश्च᳘नेशते न᳘ दाय᳘स्य च᳘नेशते॥

मूलम् - Weber

अ᳘थ यः᳘ प्रचरण्या᳘ᳫं᳘ संस्रवः प᳘रिशिष्टो भ᳘वति॥
ते᳘नैनं श्रीणाति स᳘मर्धयति वा᳘ अन्यान्ग्र᳘हाञ्छ्रीणान्न᳘थैतं᳘ व्य᳘र्धयति व᳘ज्रो वा आ᳘ज्यमेते᳘न वै᳘ देवा व᳘ज्रेणा᳘ज्येन :!घ्नन्नेव प᳘त्नीर्नि᳘राक्ष्णुवंस्ता᳘ हता नि᳘रष्टाॗ नात्म᳘नश्चॗनैशत न दाय᳘स्य चॗनैशत त᳘थो एॗवैष᳘ एते᳘न व᳘ज्रेणा᳘ज्येन ह᳘न्त्येव प᳘त्नीर्नि᳘रक्ष्णोति ता᳘ हता नि᳘रष्टाॗ नात्म᳘नश्चॗनेशते न᳘ दाय᳘स्य चॗनेशते॥

मूलम् - विस्वरम्

अथ यः प्रचरण्यां संस्रवः परिशिष्टो भवति- तेनैनं श्रीणाति । समर्धयति वा ऽअन्यान्ग्रहाञ्छ्रीणन् । अथैतं व्यर्धयति । वज्रो वा ऽआज्यम् । एतेन वै देवा वज्रेणाज्येनाघ्नन्नेव पत्नीर्निराक्ष्णुवन् । ता हता निरष्टा नात्मनश्चनैशत, न दायस्य चनैशत । तथो ऽएवैष एतेन वज्रेणाज्येन हन्त्येव पत्नीर्निरक्ष्णोति । ता हता निरष्टा नात्मनश्चनेशते, न दायस्य चनेशते ॥ १३ ॥

सायणः

अथ यः प्रचरणीशेषेणैव पात्नीवतं ‘श्रीणाति’ अध्वर्युरेव 14 । ‘एतेन’ ‘चाज्येन’ ‘देवाः’ ‘पत्नीं’ हतवन्तः ताडितवन्तः । ताडयित्वा च ‘निराक्ष्णुवन्’ ऐश्वर्यान्निर्भक्तवन्तः । “अक्षु व्याप्तौ”- (धा. पा. भ्वा. आ. ८७) इत्येष भौवादिकस्तस्य व्यत्ययेन श्नुविकरणः । पत्न्यः ‘हताः’ वाग्वज्रेण ताडिताः । ‘निरष्टाः’ ऐश्वर्याद्बहिर्भूताः सत्यः आत्मनो ऽपि स्वशरीरस्यापि न ईशितवत्यः । तथा चाहुः- “न स्त्री स्वातन्त्र्यमर्हति”- इति । ‘न दायस्य चन’ दायस्य अपि पित्र्यस्य धनस्य ईशते; स्त्रीधनं वा षड्विधं दायस्तस्यापि नैवेशत इति । तदनुकारेणायमध्वर्युस्तथैव करोति । स्त्रियश्चाद्यापि तथैव नेशते ॥ १३ ॥

Eggeling
  1. He (the Adhvaryu) then mixes it with the residue (of ghee) which is left in the pracaraṇī spoon. Now other libations he completes by mixing, but this one he diminishes; for ghee is a thunderbolt,

and by that thunderbolt, the ghee, the gods smote the wives and unmanned them, and thus smitten and unmanned they neither owned any self nor did they own any heritage. And in like manner does he now, by that thunderbolt, the ghee, smite the wives and unman them; and thus smitten and unmanned, they neither own 15 any self nor do they own any heritage.

१४

विश्वास-प्रस्तुतिः

स᳘ श्रीणाति॥
(त्य) अहं᳘ पर᳘स्तादह᳘मव᳘स्ताद्य᳘दन्त᳘रिक्षं[[!!]] त᳘दु मे पि᳘ता ऽभूत्। अहᳫँ᳭ सू᳘र्यमुभय᳘तो ददर्शाहं᳘ देवा᳘नां परमं गु᳘हा यदि᳘ति स य᳘दह᳘महमि᳘ति श्रीणा᳘ति पु᳘ᳫं᳘स्वे᳘वैत᳘द्वी᳘र्यं[[!!]] दधाति॥

मूलम् - श्रीधरादि

स᳘ श्रीणाति॥
(त्य) अहं᳘ पर᳘स्तादह᳘मव᳘स्ताद्य᳘दन्त᳘रिक्षं[[!!]] त᳘दु मे पि᳘ता ऽभूत्। अहᳫँ᳭ सू᳘र्यमुभय᳘तो ददर्शाहं᳘ देवा᳘नां परमं गु᳘हा यदि᳘ति स य᳘दह᳘महमि᳘ति श्रीणा᳘ति पु᳘ᳫं᳘स्वे᳘वैत᳘द्वी᳘र्यं[[!!]] दधाति॥

मूलम् - Weber

स᳘ श्रीणाति॥
अह᳘म् पर᳘स्तादह᳘मव᳘स्ता᳘द्य᳘दन्त᳘रिक्षं त᳘दु मे पि᳘ताभूत् अहᳫं सू᳘र्यमुभय᳘तो ददर्शाहं᳘ देवा᳘नाम् परमम् गु᳘हा यदि᳘ति स य᳘दह᳘महमि᳘ति श्रीणा᳘ति पुॗᳫंॗस्वेॗवैत᳘द्वीर्यं᳘ दधाति॥

मूलम् - विस्वरम्

स श्रीणाति- “अहं परस्तादहमवस्ताद्यदन्तरिक्षं तदु मे पिता ऽभूत् । अहं सूर्यमुभयतो ददर्शाहं देवानां परमं गुहा यद्”- (वा० सं० ८ । ९) इति । स यदहमहमिति श्रीणाति-पुंस्वेवैतद्वीर्यं दधाति ॥ १४ ॥

सायणः

पुँस्वेवैतद्वीर्यं दधातीति । अध्वर्युः किल पुमांसं वा तमुच्चारयन् पुंस्त्वसामान्यात् सर्वेष्वेवं सर्वं दधाति येन स्वतन्त्राः पुमांसः सर्वस्येशते ॥ १४ ॥

Eggeling
  1. He mixes it, with (Vāj. S. VIII, 9), ‘I am above, I am below; and what space there is between, that was my father;–I saw the sun on both sides: I am what is highest to the gods in secret.’ In that he mixes with ‘I–I,’ thereby he bestows manhood on men.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाहा᳘ग्नीत्पात्नीवत᳘स्य यजे᳘ति॥
वृ᳘षा वा᳘ ऽअग्नीद्यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते स᳘ जुहोत्यग्ना ३ऽइ प᳘त्नीवन्नि᳘ति व्वृ᳘षा वा᳘ अग्निर्यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाहा᳘ग्नीत्पात्नीवत᳘स्य यजे᳘ति॥
वृ᳘षा वा᳘ ऽअग्नीद्यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते स᳘ जुहोत्यग्ना ३ऽइ प᳘त्नीवन्नि᳘ति व्वृ᳘षा वा᳘ अग्निर्यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - Weber

अ᳘थाहा᳘ग्नीत्पात्नीवत᳘स्य यजे᳘ति॥
वृ᳘षा वा᳘ अग्नीद्यो᳘षा प᳘त्नी मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते स᳘ जुहोत्यग्ना इ प᳘त्नीव्न्नि᳘ति वृ᳘षा वा᳘ अग्निर्यो᳘षा प᳘त्नी मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - विस्वरम्

अथाह- अग्नीत् । पात्नीवतस्य यजेति । वृषा वा ऽअग्नीद्, योषा पत्नी, मिथुनमेवैतत्प्रजननं क्रियते । स जुहोति- “अग्ना ३ ऽइ पत्नीवन्”- (वा० सं० ८ । १०) इति । वृषा वा ऽअग्निः, योषा पत्नी । मिथुनमेवैतत्प्रजननं क्रियते ॥ १५ ॥

सायणः

अथाहाग्नीदिति 16 । प्रतिप्रस्थातुर्हस्तादादायाध्वर्युराग्नीध्रमाह । “अग्नीत् पात्नीवतस्य यजेति” आश्रावणमप्यत्र द्रष्टव्यमेव । प्रैषाङ्गत्त्वात् । पुरोनुवाचनप्रभृति स्तुतशस्त्रं, तेनापि प्रैषस्याङ्गं ग्रहः ‘अग्नीत् पात्नीवतस्य यजेति’ ॥ १५ ॥

Eggeling
  1. He then says, ‘Agnīdh, pronounce the offering prayer of the Pātnīvata!’ The Agnīdh is male, and the wife is female: thus a productive union is brought about. He offers with (Vāj. S. VIII, 10), ‘O Agni, wife-leader 17!’–Agni is male, and the wife is female: thus a productive union is brought about.

१६

विश्वास-प्रस्तुतिः

सजू᳘र्देवे᳘न त्वष्ट्रे᳘ति॥
त्व᳘ष्टा वै᳘ सिक्तᳫँ᳭ रे᳘तो व्वि᳘करोति त᳘देष᳘ ऽए᳘वैतत्सिक्त᳘ᳫँ᳘ रे᳘तो व्वि᳘करोति सो᳘मं पिब स्वाहे᳘त्युत्तरार्द्धे᳘ जुहोति या इ᳘तरा आ᳘हुतयस्ते᳘ देवा ऽअ᳘थैताः प᳘त्न्य ऽए᳘वमिव[[!!]] हि᳘ मिथुनं᳘ कॢप्त᳘मुत्तरतो हि स्त्री पु᳘माᳫँ᳭समुपशे᳘त ऽआ᳘हरत्यध्वर्यु᳘रग्नी᳘धे भक्षᳫँ᳭ स᳘ ऽआहा᳘ध्वर्य ऽउ᳘प मा ऽऽह्वयस्वे᳘ति तं न᳘ प्रत्यु᳘पह्वयेत को हि᳘ हत᳘स्य नि᳘रष्टस्य प्रत्युपहवस्तं वै प्र᳘त्येवो᳘पह्वयेत जु᳘ह्वत्यस्याग्नौ व्व᳘षट्कुर्वन्ति त᳘स्मात्प्र᳘त्येवो᳘पह्वयेत॥

मूलम् - श्रीधरादि

सजू᳘र्देवे᳘न त्वष्ट्रे᳘ति॥
त्व᳘ष्टा वै᳘ सिक्तᳫँ᳭ रे᳘तो व्वि᳘करोति त᳘देष᳘ ऽए᳘वैतत्सिक्त᳘ᳫँ᳘ रे᳘तो व्वि᳘करोति सो᳘मं पिब स्वाहे᳘त्युत्तरार्द्धे᳘ जुहोति या इ᳘तरा आ᳘हुतयस्ते᳘ देवा ऽअ᳘थैताः प᳘त्न्य ऽए᳘वमिव[[!!]] हि᳘ मिथुनं᳘ कॢप्त᳘मुत्तरतो हि स्त्री पु᳘माᳫँ᳭समुपशे᳘त ऽआ᳘हरत्यध्वर्यु᳘रग्नी᳘धे भक्षᳫँ᳭ स᳘ ऽआहा᳘ध्वर्य ऽउ᳘प मा ऽऽह्वयस्वे᳘ति तं न᳘ प्रत्यु᳘पह्वयेत को हि᳘ हत᳘स्य नि᳘रष्टस्य प्रत्युपहवस्तं वै प्र᳘त्येवो᳘पह्वयेत जु᳘ह्वत्यस्याग्नौ व्व᳘षट्कुर्वन्ति त᳘स्मात्प्र᳘त्येवो᳘पह्वयेत॥

मूलम् - Weber

सजू᳘र्देवे᳘न त्वष्ट्रे᳘ति॥
त्व᳘ष्टा वै᳘ सिक्तं रे᳘तो वि᳘करोति त᳘देष᳘ एॗवैत᳘त्सिक्तं रे᳘तो वि᳘करोति सो᳘मम् पिब स्वाहे᳘त्युत्तरार्धे᳘ जुहोति या इ᳘तरा आ᳘हुतयस्ते᳘ देवा अ᳘थैताः प᳘त्न्य एव᳘मिव हि᳘ मिथुनं᳘ कॢप्त᳘मुत्तरतो हि स्त्री पु᳘मांसमुपशे᳘त आ᳘हरत्यध्वर्यु᳘रग्नी᳘धे भक्षᳫं स᳘ आहा᳘ध्वर्य उ᳘प मा ह्वयस्वे᳘ति तं न᳘ प्रत्यु᳘पह्वयेत को हि᳘ हत᳘स्य नि᳘रष्टस्य प्रत्युपहवस्तं वै प्र᳘त्येवो᳘पह्वयेत जु᳘ह्वत्यस्याग्नौ व᳘षट्कुर्वन्ति त᳘स्मात्प्र᳘त्येवो᳘पह्वयेत॥

मूलम् - विस्वरम्

“सजूर्देवेन त्वष्ट्रा”- (वा० सं० ८ । १०) इति । त्वष्टा वै सिक्तं रेतो विकरोति । तदेष एवैतत् सिक्तं रेतो विकरोति । “सोमं पिब स्वाहा” (वा० सं० ८ । १०) इति । उत्तरार्द्धे जुहोति । या इतरा आहुतयस्ते देवाः, अथैताः पत्न्यः । एवमिव हि मिथुनं क्लृप्तम् । उत्तरतो हि स्त्री पुमांसमुपशेते । आहरत्यध्वर्युरग्नीधे भक्षम् । स आह-अध्वर्य ऽउप मा ऽऽह्वयस्वेति । तं न प्रत्युपह्वयेत । को हि हतस्य निरष्टस्य प्रत्युपहवः । तं वै प्रत्येवोपह्वयेत जुह्वत्यस्याग्नौ वषट् कुर्वन्ति । तस्मात्प्रत्येवोपह्वयेत ॥ १६ ॥

सायणः

‘या इतरा’ उपांश्वाज्या ‘आहुतयः’ ‘ते देवाः’ देवान्नत्वाद्देवास्तद्वन्तः । ‘अथैताः पत्न्यः’ पत्नीदेवत्यत्वात् पात्नीवतस्येति । पत्नीनां चोत्तरतः स्थानमतस्तदन्तर्गताया अप्याहुतेरुत्तरत एव स्थानं युक्तमित्यभिप्रायः 16आहरत्यध्वर्युरिति । प्रतिप्रस्थातृशङ्कानिवृत्त्यर्थमध्वर्युग्रहणम् । ‘को हि हतस्य’ इत्यनादरप्रकाशनार्थम् । प्रतिवचनमपि न देयम् । एवं हि पत्न्यः सुतरामवीर्याः कृता भवन्तीत्यभिप्रायः । तत्र प्रत्युपह्वयेत ‘उपह्वय’ इत्येवमनुजानीतेत्यर्थः । किं कारणं यस्माज्जुहोति । अस्यैकदेशे ‘अग्नौ वषट्कुर्वन्ति’ न वैतदनादरणीये प्रयुज्येत । तस्मात् उपह्वयेतैव ॥ १६ ॥

Eggeling
  1. ‘Together with the divine Tvashṭr̥’–for Tvashṭr̥ transforms the cast seed: thus he thereby transforms the cast seed;–‘drink the Soma, Hail!’ therewith he offers on the north (left) part (of the fire); what other offerings there are, they are the gods, and these are the wives: thus alone it is a proper union, since the woman lies on the left (north) side of the man. The Adhvaryu takes a draught of Soma to the Agnīdh, and the latter says, ‘Adhvaryu, invite me!’ [It might be said

that] he should not invite him, since how can there be an invitation of one smitten and unmanned? He should nevertheless invite him: they offer in his fire, and utter the Vashaṭ,–therefore he should invite him.

१७

विश्वास-प्रस्तुतिः

(ता᳘) अ᳘थ सम्प्रे᳘ष्यति॥
(त्य᳘) अ᳘ग्नीन्ने᳘ष्टुरुप᳘स्थमा᳘सीद ने᳘ष्टः प᳘त्नीमुदा᳘नयोद्गात्रा सं᳘ख्यापयो᳘न्नेतर्हो᳘तुश्चमस᳘मनू᳘न्नय सो᳘मं मा᳘ ऽतिरीरिच इ᳘ति य᳘द्यग्निष्टोमः स्यात्[[!!]]॥

मूलम् - श्रीधरादि

(ता᳘) अ᳘थ सम्प्रे᳘ष्यति॥
(त्य᳘) अ᳘ग्नीन्ने᳘ष्टुरुप᳘स्थमा᳘सीद ने᳘ष्टः प᳘त्नीमुदा᳘नयोद्गात्रा सं᳘ख्यापयो᳘न्नेतर्हो᳘तुश्चमस᳘मनू᳘न्नय सो᳘मं मा᳘ ऽतिरीरिच इ᳘ति य᳘द्यग्निष्टोमः स्यात्[[!!]]॥

मूलम् - Weber

अ᳘थ स᳘म्प्रेष्यति॥
अ᳘ग्नीन्ने᳘ष्टुरुप᳘स्थमा᳘सीद ने᳘ष्टः प᳘त्नीमुदा᳘नयोद्गात्रा सं᳘ख्यापयो᳘न्नेतर्हो᳘तुश्चमस᳘मनू᳘न्नय सो᳘मम् मातिरीरिच इ᳘ति य᳘द्यग्निष्टोमः स्या᳘त्॥

मूलम् - विस्वरम्

अथ सम्प्रेष्यति- अग्नीन्नेष्टुरुपस्थमासीद, नेष्टः पत्नीमुदानय । उद्गात्रा सङ्ख्यापय, उन्नेतर्होतुश्चमसमनून्नय, सोमं मा ऽतिरीरिच इति । यद्यग्निष्टोमः स्यात् ॥ १७ ॥

सायणः

अथ सम्प्रेष्यतीति 18 । सङ्ख्यायाः प्रदेशा ‘उन्नेतर्होतुश्चमसमनु सर्वांश्चमसानुनून्नय सोमं मा ऽतिरीरिचः’ सर्वमेव पूतभृतः ‘सोमम्’ उन्नयन्ति । होमप्रदानमित्यभिप्रायः । ‘यद्यग्निष्टोमः स्यात्’ अग्निष्टोमसंस्थाक्रतुः स्यादित्यर्थः ॥ १७ ॥

Eggeling
  1. He then gives orders, ‘Agnīdh, sit in the Neshṭr̥’s lap! Neshṭr̥, lead up the lady, and make her exchange looks with the Udgātr̥! Unnetr̥, fill up the Hotr̥’s cup, and let no Soma-juice remain!’ Thus, if it be an Agnishṭoma sacrifice.

१८

विश्वास-प्रस्तुतिः

(द्य) य᳘द्यु᳘क्थ्यः[[!!]] स्या᳘त्॥
(त्सो᳘) सो᳘मं प्रभा᳘वये᳘ति[[!!]] ब्रूयात्स बि᳘भ्रदे᳘वैतत्पा᳘त्रमग्नीन्ने᳘ष्टुरुप᳘स्थमा᳘सीदत्यग्निर्व्वा᳘ ऽएष᳘ निदा᳘नेन यदा᳘ग्नीध्रो यो᳘षा ने᳘ष्टा व्वृ᳘षा वा᳘ ऽअग्नीद्यो᳘षा ने᳘ष्टा मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियत ऽउदा᳘नयति ने᳘ष्टा प᳘त्नीं ता᳘मुद्गात्रा सं᳘ख्यापयति प्रजा᳘पतिर्व्वृ᳘षा ऽसि रे᳘तोधा रे᳘तो म᳘यि धेही᳘ति प्रजा᳘पतिर्व्वा᳘ ऽउद्गाता यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - श्रीधरादि

(द्य) य᳘द्यु᳘क्थ्यः[[!!]] स्या᳘त्॥
(त्सो᳘) सो᳘मं प्रभा᳘वये᳘ति[[!!]] ब्रूयात्स बि᳘भ्रदे᳘वैतत्पा᳘त्रमग्नीन्ने᳘ष्टुरुप᳘स्थमा᳘सीदत्यग्निर्व्वा᳘ ऽएष᳘ निदा᳘नेन यदा᳘ग्नीध्रो यो᳘षा ने᳘ष्टा व्वृ᳘षा वा᳘ ऽअग्नीद्यो᳘षा ने᳘ष्टा मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियत ऽउदा᳘नयति ने᳘ष्टा प᳘त्नीं ता᳘मुद्गात्रा सं᳘ख्यापयति प्रजा᳘पतिर्व्वृ᳘षा ऽसि रे᳘तोधा रे᳘तो म᳘यि धेही᳘ति प्रजा᳘पतिर्व्वा᳘ ऽउद्गाता यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - Weber

य᳘द्युक्थ्यः᳘ स्या᳘त्॥
सो᳘मम् प्र᳘भावये᳘ति ब्रूयात्स बि᳘भ्रदेॗवैतत्पा᳘त्रमग्नीन्ने᳘ष्टुरुप᳘स्थमा᳘सीदत्यग्निर्वा᳘ एष᳘ निदा᳘नेन यदा᳘ग्नीध्रो यो᳘षा ने᳘ष्टा वृ᳘षा वा᳘ अग्नीद्यो᳘षा ने᳘ष्टा मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियत उदा᳘नयति ने᳘ष्टा प᳘त्नीं ता᳘मुद्गात्रा सं᳘ख्यापयति प्रजा᳘पतिर्वृ᳘षासि रेतोधा रे᳘तो म᳘यि धेही᳘ति प्रजा᳘पतिर्वा᳘ उद्गाता यो᳘षा प᳘त्नी मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - विस्वरम्

यद्युक्थ्यः स्यात्- सोमं प्रभावयेति ब्रूयात् । स बिभ्रदेवैतत्पात्रमग्नीन्नेष्टुरुपस्थमासीदति । अग्निर्वा ऽएष निदानेन- यदाग्नीध्रः, योषा नेष्टा, वृषा वा ऽअग्नीद् । योषा नेष्टा । मिथुनमेवैतत्प्रजननं क्रियते । उदानयति नेष्टा पत्नीम् । तामुद्गात्रा सङ्ख्यापयति । “प्रजापतिर्वृषासि रेतोधा रेतो मयि धेहि” 19- (वा० सं० ८ । १०) इति । प्रजापतिर्वा ऽउद्गाता, योषा पत्नी । मिथुनमेवैतत्प्रजननं क्रियते ॥ १८ ॥

सायणः

एते च ते ऽग्निष्टोमचमसा येषु द्वादशं स्तोत्रं यज्ञायज्ञियमाग्निमारुतं च शस्त्रं शस्यते । यद्युक्थ्यः स्यादिति 18 । उक्थ्यग्रहणमुत्तराणां संस्थानां लक्षणार्थम् । उक्थ्यादिषु संस्थासु ‘सोमं प्रभावय’ प्रभूतं कुरु । यथोत्तराण्यपि प्रदानानि सिध्यन्तीत्यर्थः । सो ऽग्नीदेतत् पात्नीवतपात्रं हस्ते धारयन्नेव नेष्टुरुत्सङ्गमध्यास्ते । ‘योषा नेष्टा’ स हि ‘पत्नी’ भवति वाचयति च ॥ १८ ॥

इति आचार्यहरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे चतुर्था ऽध्याये द्वितीयं ब्राह्मणम् ॥ ४-४-२॥

Eggeling
  1. But if it be an Ukthya 20, let him say, ‘Lengthen out the Soma!’–Holding the same vessel (from which the Pātnīvata libation was made, the Agnīdh) sits down in the Neshṭr̥’s lap,–for he, the Agnīdh, is in reality Agni, and the Neshṭr̥ is female: the Agnīdh is male, and the Neshṭr̥ female,–a productive union is thus brought about. The Neshṭr̥ leads up the lady and makes her exchange looks with the Udgātr̥ 21, with ‘Thou art Prajāpati, the

male, the bestower of seed: lay thou seed into me!’ The Udgātr̥ is Prajāpati, and the lady is a woman: a productive union is thus brought about.


  1. 363:1 Probably, because Soma is slain in being sacrificed (see IV, 3, 4, 1), and therefore belongs to the Fathers or Departed Spirits. ↩︎

  2. 363:2 And the All-gods (or all he gods) mean everything. See IV, 4, 1, 4. ↩︎

  3. आपात्रप्रक्षालनात् कृत्वा सौम्येन चरति । आज्येनोभयतः परियजति । अन्यतरतो वा । घृतस्य यजेत्याह घृतशब्द उपाँशु । सौम्यस्य यजेति सौम्येन चरन् । यावदुक्तँ सौम्यस्य पुनर्ग्रहणात् । का. श्रौ. सू. १० । १२१-१२६ । ↩︎

  4. आज्यमासिच्योद्गात्रे सौम्यं प्रयच्छति चतुर्गृहीतं प्रचरण्या धिष्ण्येषु जुहोति यथान्युप्तं प्रभावयञ्छालाकान् प्रदीप्य प्रदीप्य व्विभूरसीति प्रतिमंत्रम् । का. श्रौ. सू. १० । १२७ । ↩︎

  5. 364:1 The homa of ghee, made-before the rice-pap oblation to Soma, belongs to Agni, and the one made after the oblation, to Vishṇu. If only one homa be made, it belongs to Agni and Vishṇu. The Kāṇva text reads, ‘Tad vā āhur anyatarata eva pariyajet purastād eveti,’ now they say, ‘He should offer on one side only, and that in front (previously to the caru).’ For the offering formulas, see Āśv. V, 19, 3; Ait. Br. III, 32. After the completion of these offerings, the Adhvaryu pours ordinary ghee on the rice-pap and presents it to the Hotr̥, who looks at it while pronouncing some formulas (Āśv. V, 19, 4, 5), and he smears his eyes with the ghee on the pap, after which the latter is handed to the chanters (udgātr̥) to be eaten by them. ↩︎

  6. आग्नीध्रीये पुनः पश्चादिच्छन् । अत्र कर्कः- जुहोति तच्च तूष्णीं, काण्वशाखापाठादिति । तथा चात्र काण्वश्रुतिपाठः तदाहुस्तूष्णीमुतममाग्नीध्र आघारयेदिति । उदग्नः कर्मानुसंतिष्ठाता इति । तदुपरांगे वा ऽऽभिघारयेदिति । का० श्रौ० सू० १०। १२८ । ↩︎

  7. 364:2 See III, 6, 2, 19. ↩︎

  8. 365:1 Viz., Vāj. S. V, 31, 32. The Āgnīdhra hearth is prepared first, and the Mārjālīya last of the eight dhishṇyas. See p. 148, note 4. ↩︎

  9. 365:2 Or, uppermost (uttamam; the Kāṇvas read ‘antamām’). ↩︎

  10. 365:3 The meaning of the term pātnīvata is ‘relating to the patnīvant (i.e. wived or mated one),’ the ‘patnīvant’ being probably Soma with the water mixed with it; or Agni with the wives of the gods, (with special reference to the sacrificer’s wife); cf. Taitt. S. VI, 5, 8, I, 2. According to the Kāṇva text, Agni associated with the goddess Speech (Vāc patnī) seems to be understood. ↩︎

  11. 366:1 See p. 268, note 1. ↩︎

  12. उपयामगृहीतोसि बृहस्पतिसुतस्येति प्रतिप्रस्थाता पात्नीवतं गृह्णाति । का. श्रौ. सू. १० । १२९ । ↩︎

  13. 366:2 In the St. Petersburg Dictionary ‘patnīvataḥ’ seems to be taken as qualifying ‘grahān;’ but cp. Rig-veda VIII, 82, 22, ‘United with their wives (i.e. the water mixed with the Soma-juice?) these Soma-draughts (sutāḥ) go longing to the rejoicing.’ ↩︎

  14. प्रवरणीशेषेण श्रीणात्येनमहं परस्तादिति । का. श्रौ. सू. १० । १३० । ↩︎

  15. 367:1 ‘īś,’ etymologically connected with ‘own.’ ↩︎

  16. अग्नीत्पात्नीवतस्य यजेत्याह । का. श्रौ. सू. १० । १३१ । ↩︎ ↩︎

  17. 367:2 Or, wived, mated one, ‘patnīvan;’ the Kāṇva text reads ‘Agne Vāc patni.’ See preceding page, note 2. ↩︎

  18. प्रेष्यति चाग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा संख्यापयोन्नेतर्होतुश्चमसमुन्नय सोमं मा ऽतिरीरिच इति । का. श्रौ. सू. १० । १३३ । ↩︎ ↩︎

  19. इह धेहीत्यनन्तरं संहितायां- ‘प्रजापतेस्ते वृष्णो रेतोधसो रेतोधामशीय’ इत्यधिको भागः पठ्यते । ↩︎

  20. 368:1 But if it be an Ukthya, or Shodaśin, or Atirātra, or Vājapeya, Kāṇva text. See towards the end of next note. ↩︎

  21. 368:2 Kāty. X, 7 and schol. supply the following details. The Unnetr̥ puts down the camasa cups behind the high altar, and pours into them the entire Soma-juice remaining in the Pūtabhr̥t, putting but little into the Hotr̥’s cup, to leave room in it for the dhruva libation. Besides this the Āgrayaṇa is the only Soma that remains. The Adhvaryu then, by touching the Soma in the Hotr̥’s cup with two stalks of grass, gives the signal for the chanting of the Agnishṭoma Sāman (viz. the Yajñāyajñīya, Sāmav. II, 53, 54), wrapping up his head, if he chooses, in the same way as the Udgātr̥s. Meanwhile the Neshṭr̥ leads up the lady through the back door into the Sadas, makes her sit down north of the Udgātr̥ and exchange looks with the latter three times (at the ‘Hiṁ,’ see p. 308, note 2). Three times also (at every Nidhana) she uncovers her right leg and pours on it some of the pānnejanī water fetched by her in the morning (see III, 9, 3, 27), whereupon she returns to her own tent. Then follows the recitation of the Āgnimāruta śastra, consisting of the following parts:–At the Ukthya (and other Soma-sacrifices) the Ukthya graha is drawn immediately after the drawing of the Āgrayaṇa (see , with note). Previous to the after-offerings the Ukthya graha is divided, as at the morning and midday performances (see p. 293, note 2), between the three Hotrakas, with a view to the recitation of their śastras which form the distinctive feature of the Ukthya sacrifice, bringing up the number of śastras (and stotras) from twelve (of the Agnishṭoma) to fifteen. Besides, the Ukthya requires the immolation of at least two victims on the Soma-day, viz. a he-goat to Indra and Agni, besides the one to Agni. ↩︎