०१

विश्वास-प्रस्तुतिः

म᳘नो ह वा᳘ ऽअस्य सविता[[!!]]॥
तस्मात्सावित्रं᳘ गृह्णाति प्राणो᳘ ह वा᳘ ऽअस्य सविता त᳘मे᳘वास्मिन्नेत᳘त्पुर᳘स्तात्प्राणं᳘ दधाति य᳘दुपाᳫँ᳭शुं᳘ गृह्णा᳘ति त᳘मे᳘वास्मिन्नेत᳘त्पश्चा᳘त्प्राणं᳘ दधाति य᳘त्सावित्रं᳘ गृह्णा᳘ति ता᳘विमा᳘ उभय᳘तः प्राणौ᳘ हितौ य᳘श्चाय᳘मुप᳘रिष्टाद्य᳘श्चाध᳘स्तात्॥

मूलम् - श्रीधरादि

म᳘नो ह वा᳘ ऽअस्य सविता[[!!]]॥
तस्मात्सावित्रं᳘ गृह्णाति प्राणो᳘ ह वा᳘ ऽअस्य सविता त᳘मे᳘वास्मिन्नेत᳘त्पुर᳘स्तात्प्राणं᳘ दधाति य᳘दुपाᳫँ᳭शुं᳘ गृह्णा᳘ति त᳘मे᳘वास्मिन्नेत᳘त्पश्चा᳘त्प्राणं᳘ दधाति य᳘त्सावित्रं᳘ गृह्णा᳘ति ता᳘विमा᳘ उभय᳘तः प्राणौ᳘ हितौ य᳘श्चाय᳘मुप᳘रिष्टाद्य᳘श्चाध᳘स्तात्॥

मूलम् - Weber

म᳘नो ह वा᳘ अस्य सविता᳟॥
तस्मात्सावित्रं᳘ गृह्णाति पाणो᳘ ह वा᳘ अस्य सविता त᳘मेॗवास्मिन्नेत᳘त्पुर᳘स्तात्प्राणं᳘ दधाति य᳘दुपांशु᳘ गृह्णा᳘ति त᳘मेॗवास्मिन्नेत᳘त्पश्चा᳘त्प्राणं᳘ दधाति य᳘त्सावित्रं᳘ गृह्णा᳘ति ता᳘विमा᳘ उभय᳘तः प्राणौ᳘ हितौ य᳘श्चाय᳘मुप᳘रिष्टाद्य᳘श्चाध᳘स्तात्॥

मूलम् - विस्वरम्

सावित्रग्रहः ।

मनो ह वा ऽअस्य सविता । तस्मात्सावित्रं गृह्णाति । प्राणी ह वा ऽअस्य सविता- तमेवास्मिन्नैतत्पुरस्तात्प्राणं दधाति- यदुपांशुं गृह्णाति । तमेवास्मिन्नेतत्पश्चात्प्राणं दधाति- यत् सावित्रं गृह्णाति । ताविमा ऽउभयतः प्राणौ हितौ- यश्चायमुपरिष्टात्, यश्चाधस्तात् ॥ १ ॥

सायणः

हरिस्वामिभाष्यम् । 1

मनो ह वा अस्येति । सप्तभिरेताभिः कण्डिकाभिः सावित्रग्रह उच्यते । ‘मनः’ इत्यत्राध्यवसायात्मिका बुद्धिः परिगृह्यते । सा हि क्रियासु प्रसौतीति ‘सविता’ अनध्यवसिते प्राणवृत्त्यभावात् प्राणानुरूपं मनः ‘सविता’ । तदन्तत्वात्सावित्रो ग्रहः ‘अस्य’ यज्ञपुरुषस्य मन एवेति चावश्यं भावनीयम् । अत आह- यस्मान्मनसा ऽवश्यभाव्यं चमसं सावित्रमित्युत्पत्तिवाक्यम् । प्राणो ह वा अस्येति । दर्शनानन्तरं ‘प्राणः’ अपि वृत्त्यङ्गत्वात्प्रसौतीति सो ऽपि ‘सविता’ । रविमण्डलमपि वायुनैवोह्यमानं जगतः स्वकर्मप्रवृत्तिषु हेतुर्वायुना भवतीति वायुरपि सवितेत्यभिप्रायः । तमेवास्मिन्नेतदिति । उपांशुमिति । अस्य च विपर्य्ययेणानुवचनम् । पुरस्तादिति । मुखतः । पश्चादिति । जवनतः । ताविमौ वायू प्राणौ इत्युक्तम् । नैष दोषः । यो मेहनकर्मा पश्चात्प्राणः स ध्रुवः, यस्त्ववाग्गतिमात्ररूपः स सविता भविष्यतीति ॥ १ ॥

Eggeling
  1. Savitr̥, forsooth, is his 2 mind: therefore he draws the Sāvitra cup. And, forsooth, Savitr̥ is his breath (vital air);–when he draws the Upāṁśu cup, then he puts into him that vital air in front; and when he draws the Sāvitra cup, then he puts into him that vital air behind: thus those two vital airs on both sides are beneficial (or, put into him), both that which is above and that which is below.

०२

विश्वास-प्रस्तुतिः

(दृ) ऋत᳘वो वै᳘ संवत्सरो᳘ यज्ञः᳘॥
(स्ते) ते ऽदः᳘ प्रातःसवने᳘ प्रत्य᳘क्षम᳘वकल्प्यन्ते य᳘दृतुग्रहा᳘न्गृह्णात्य᳘थैत᳘त्परो᳘ ऽक्षं मा᳘ध्यन्दि᳘ने स᳘वने᳘ ऽवकल्प्यन्ते य᳘दृतुपात्रा᳘भ्यां मरुत्वती᳘यान्गृह्णा᳘ति न वा अ᳘त्रर्तु᳘भ्य ऽइ᳘ति कं᳘ चन ग्र᳘हं गृह्ण᳘न्ति᳘ न ऽर्तुपात्रा᳘भ्यां[[!!]] क᳘श्चन ग्र᳘हो गृह्यते॥

मूलम् - श्रीधरादि

(दृ) ऋत᳘वो वै᳘ संवत्सरो᳘ यज्ञः᳘॥
(स्ते) ते ऽदः᳘ प्रातःसवने᳘ प्रत्य᳘क्षम᳘वकल्प्यन्ते य᳘दृतुग्रहा᳘न्गृह्णात्य᳘थैत᳘त्परो᳘ ऽक्षं मा᳘ध्यन्दि᳘ने स᳘वने᳘ ऽवकल्प्यन्ते य᳘दृतुपात्रा᳘भ्यां मरुत्वती᳘यान्गृह्णा᳘ति न वा अ᳘त्रर्तु᳘भ्य ऽइ᳘ति कं᳘ चन ग्र᳘हं गृह्ण᳘न्ति᳘ न ऽर्तुपात्रा᳘भ्यां[[!!]] क᳘श्चन ग्र᳘हो गृह्यते॥

मूलम् - Weber

ऋत᳘वो वै᳘ संवत्सरो᳘ यज्ञः᳟᳟॥
ते ऽदः᳘ प्रातःसवने᳘ प्रत्य᳘क्षम᳘वकल्प्यन्ते य᳘दृतुग्रहा᳘न्गृह्णात्य᳘थैत᳘त्परो᳘ ऽक्षम् मा᳘ध्यन्दिने स᳘वने᳘ ऽवकल्प्यन्ते य᳘दृतुपात्रा᳘भ्याम् मरुत्वती᳘यान्गृह्णा᳘ति न वा अ᳘त्रर्तु᳘भ्य इ᳘ति कं᳘ चन ग्र᳘हं गृह्ण᳘न्ति न᳘र्तुपात्रा᳘भ्यां क᳘श्चन ग्र᳘हो गृह्यते॥

मूलम् - विस्वरम्

ऋतवो वै संवत्सरो यज्ञः । ते ऽदः प्रातःसवने प्रत्यक्षमवकल्प्यन्ते- यदृतुग्रहान्गृह्णाति । अथैतत्परो ऽक्षं माध्यन्दिने सवने ऽवकल्प्यन्ते- यदृतुपात्राभ्यां मरुत्वतीयान्गृह्णाति । न वा ऽअत्र ऽर्तुभ्य इति कञ्चन ग्रहं गृह्णन्ति । न ऽर्तुपात्राभ्यां कश्चन ग्रहो गृह्यते ॥ २ ॥

सायणः

ऋतवो वा इति । दर्शनानन्तरं कण्डिकाद्वयेनाह । ‘ऋतवः’ ‘संवत्सरः’ अवयवेभ्यो ऽवयविनो ऽस्यव्यतिरेकाभावात् संवत्सरश्च यज्ञपूर्वपरिमाणात्मकत्वाद्यज्ञः । संवत्सररूपो यज्ञः प्रतिसवनं दर्शनीयो ऽवयवशून्यस्यानुपपत्तेः । अवयवानाञ्च यज्ञावयवत्वात् । स च सवनयोर्द्वयोर्दर्शितः । ऋतुग्रहैः ‘ऋतुपात्राभ्यां वा’ अत्रापि सावित्रेण दर्शित इति समस्तार्थः । एष उ एव सर्व ऋतव इति । मेषादिक्षेत्रविशेषत्वादेष एव सत्तारूपाण्यभिव्यनक्तीत्यभिप्रायः ॥ २ ॥ ३ ॥

Eggeling
  1. And the sacrifice, forsooth, is the seasons, the year. There, at the morning feast, they are overtly attended to, in that he draws the cups for the seasons; and at the midday feast they are covertly attended to, in that he takes the Marutvatīya libations by means of the two Ritu vessels 3. Now here (at the evening feast) they neither draw any libation expressly for the seasons, nor is any libation taken with the two Ritu vessels.

०३

विश्वास-प्रस्तुतिः

(त ऽ) एष वै᳘ सविता य᳘ एष त᳘पति॥
(त्ये) एष᳘ उ ऽएव स᳘र्व्व ऽऋत᳘वस्त᳘दृत᳘वः संव्वत्सर᳘स्तृतीयसवने᳘ प्रत्य᳘क्षम᳘वकल्प्यन्ते त᳘स्मात्सावित्रं᳘ गृह्णाति॥

मूलम् - श्रीधरादि

(त ऽ) एष वै᳘ सविता य᳘ एष त᳘पति॥
(त्ये) एष᳘ उ ऽएव स᳘र्व्व ऽऋत᳘वस्त᳘दृत᳘वः संव्वत्सर᳘स्तृतीयसवने᳘ प्रत्य᳘क्षम᳘वकल्प्यन्ते त᳘स्मात्सावित्रं᳘ गृह्णाति॥

मूलम् - Weber

एष वै᳘ सविता य᳘ एष त᳘पति॥
एष᳘ उ एव स᳘र्व ऋत᳘वस्त᳘दृत᳘वः संवत्सर᳘स्तृतीयसवने᳘ प्रत्य᳘क्षम᳘वकल्प्यन्ते त᳘स्मात्सावित्रं᳘ गृह्णाति॥

मूलम् - विस्वरम्

एष वै सविता य एष तपति । एष उ ऽएव सर्व ऽऋतवः । तद् ऋतवः संवत्सरस्तृतीयसवने प्रत्यक्षमवकल्प्यन्ते । तस्मात्सावित्रं गृह्णाति ॥ ३॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. But Savitr̥, forsooth, is he that burns yonder (the sun); and he indeed is all the seasons: thus the seasons, the year, are overtly attended to at the evening feast,–for this reason he draws the Sāvitra cup.

०४

विश्वास-प्रस्तुतिः

तं वा᳘ ऽउपाᳫँ᳭शुपात्रे᳘ण गृह्णाति॥
म᳘नो ह वा᳘ ऽअस्य सविता᳘ प्राण᳘ उपाᳫँ᳭शुस्त᳘स्मादुपाᳫँ᳭शुपात्रे᳘ण गृह्णात्यन्तर्यामपात्रे᳘ण वा समान᳘ᳫँ᳘[[!!]] ह्येतद्य᳘दुपाᳫँ᳭श्वन्तर्यामौ᳘ प्राणोदानौ᳘ हि॥ (अर्धप्रपाठकः)॥

मूलम् - श्रीधरादि

तं वा᳘ ऽउपाᳫँ᳭शुपात्रे᳘ण गृह्णाति॥
म᳘नो ह वा᳘ ऽअस्य सविता᳘ प्राण᳘ उपाᳫँ᳭शुस्त᳘स्मादुपाᳫँ᳭शुपात्रे᳘ण गृह्णात्यन्तर्यामपात्रे᳘ण वा समान᳘ᳫँ᳘[[!!]] ह्येतद्य᳘दुपाᳫँ᳭श्वन्तर्यामौ᳘ प्राणोदानौ᳘ हि॥ (अर्धप्रपाठकः)॥

मूलम् - Weber

तं वा᳘ उपांशुपात्रे᳘ण गृह्णाति॥
म᳘नो ह वा᳘ अस्य सविता᳘ प्राण᳘ उपांशुस्त᳘स्मादुपांशुपात्रे᳘ण गृह्णात्यन्तर्यामपात्रे᳘ण वा समाॗनᳫं ह्येतद्य᳘दुपांश्वन्तर्यामौ᳘ प्राणोदानौॗ हि॥

मूलम् - विस्वरम्

तं वा ऽउपांशुपात्रेण गृह्णाति । मनो ह वा ऽअस्य सविता, प्राण उपांशुः । तस्मादुपांशुपात्रेण गृह्णाति, अन्तर्यामपात्रेण वा । समानं ह्येतद्- यदुपांश्वन्तर्यामौ- प्राणोदानौ हि ॥ ४ ॥

सायणः

तं वा उपांशुपात्रेणेति । मनो ह वा अस्येति 4 । यस्मात् ‘मनः’ सावित्रः, ‘प्राण उपांशुः’ प्राणमनसोश्चात्यन्तमव्यभिचारः ‘तस्मात्’ मनसः प्राणेनाविनाभावो यत् ‘उपांशुपात्रेण’ वहतीत्यभिप्रायः । यदपि प्राणः सविता, तदापि पूर्वापरयोः प्राणयोः सातत्ये ‘उपांशुपात्रेण’ गृह्णातीति द्रष्टव्यम् ॥ ४ ॥

Eggeling
  1. He draws it with the Upāṁśu vessel. For Savitr̥ is his mind, and the Upāṁśu is his breath: therefore he draws it with the Upāṁśu vessel; or with the Antaryāma vessel, for that is one and the same, since the Upāṁśu and Antaryāma are the out-breathing and in-breathing 5.

०५

विश्वास-प्रस्तुतिः

(ह्या) आग्रयणा᳘द् गृह्णाति॥
म᳘नो ह वा᳘ ऽअस्य सवि᳘ता᳘ ऽऽत्मा ऽऽग्रयण᳘ ऽआत्म᳘न्ये᳘वैतन्म᳘नो दधाति प्राणो᳘ ह वा᳘ ऽअस्य सवि᳘ता᳘ ऽऽत्मा ऽऽग्रयण᳘ ऽआत्म᳘न्ये᳘वैत᳘त्प्राणं᳘ दधाति॥

मूलम् - श्रीधरादि

(ह्या) आग्रयणा᳘द् गृह्णाति॥
म᳘नो ह वा᳘ ऽअस्य सवि᳘ता᳘ ऽऽत्मा ऽऽग्रयण᳘ ऽआत्म᳘न्ये᳘वैतन्म᳘नो दधाति प्राणो᳘ ह वा᳘ ऽअस्य सवि᳘ता᳘ ऽऽत्मा ऽऽग्रयण᳘ ऽआत्म᳘न्ये᳘वैत᳘त्प्राणं᳘ दधाति॥

मूलम् - Weber

आग्रयणा᳘द्गृह्णाति॥
म᳘नो ह वा अस्य सवि᳘ताॗत्माग्रयण᳘ आत्म᳘न्येॗवैतन्म᳘नो दधाति प्राणो᳘ ह वा᳘ अस्य सवि᳘ताॗत्माग्रयण᳘ आत्म᳘न्येॗवैत᳘त्प्राणं᳘ दधाति॥

मूलम् - विस्वरम्

आग्रयणाद् गृह्णाति । मनो ह वा ऽअस्य सविता । आत्मा ऽऽग्रयणः । आत्मन्येवैतन्मनो दधाति । प्राणो ह वा ऽअस्य सविता, आत्मा ऽऽग्रयणः । आत्मन्येवैतत्प्राणं दधाति ॥ ५ ॥

सायणः

आग्रयणात् इत्यतः प्रसन्नास्तिस्रः 4 ॥ ५-७ ॥

Eggeling
  1. He draws it from the Āgrayaṇa graha; for Savitr̥ is his mind, and the Āgrayaṇa is his body (or self): he thus puts the mind into the body. Savitr̥ is his breath, and the Āgrayaṇa is his body: he thus puts the breath into the body.

०६

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
व्वाम᳘मद्य᳘ सवितर्व्वाम᳘मु श्वो᳘ दिवे᳘दिवे व्वाम᳘मस्म᳘भ्यᳫँ᳭[[!!]] सावीः॥ व्वाम᳘स्य हि क्ष᳘यस्य देव भू᳘रेरया᳘ धिया᳘ व्वामभा᳘जः स्याम॥ उपयाम᳘गृहीतो ऽसि सावि᳘त्रो ऽसि चनोधा᳘श्चनोधा᳘ असि च᳘नो म᳘यि धेहि॥ जि᳘न्व यज्ञं जि᳘न्व यज्ञ᳘पतिं भ᳘गाये᳘ति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
व्वाम᳘मद्य᳘ सवितर्व्वाम᳘मु श्वो᳘ दिवे᳘दिवे व्वाम᳘मस्म᳘भ्यᳫँ᳭[[!!]] सावीः॥ व्वाम᳘स्य हि क्ष᳘यस्य देव भू᳘रेरया᳘ धिया᳘ व्वामभा᳘जः स्याम॥ उपयाम᳘गृहीतो ऽसि सावि᳘त्रो ऽसि चनोधा᳘श्चनोधा᳘ असि च᳘नो म᳘यि धेहि॥ जि᳘न्व यज्ञं जि᳘न्व यज्ञ᳘पतिं भ᳘गाये᳘ति॥

मूलम् - Weber

अथा᳘तो गृह्णा᳘त्येव᳟॥
वाम᳘मद्य᳘ सवितर्वाम᳘मु श्वो᳘ दिवे᳘-दिवे वामम᳘स्म᳘भ्यᳫं सावीः वाम᳘स्य हि क्ष᳘यस्य देव भू᳘रेरया᳘ धिया᳘ वामभा᳘जः स्याम उपयाम᳘गृहीतो ऽसि साविॗत्रो ऽसि चनोधा᳘श्चनोधा᳘ असि च᳘नो म᳘यि धेहि जि᳘न्व यज्ञं जि᳘न्व यज्ञ᳘पतिम् भ᳘गाये᳘ति॥

मूलम् - विस्वरम्

अथातो गृह्णात्येव- “वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः । वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम । उपयामगृहीतो ऽसि सावित्रो ऽसि चनोधाश्चनोधा असि चनो मयि धेहि । जिन्व यज्ञं जिन्व यज्ञपतिं भगाय”- (वा. सं. ८ । ६, ७) इति ॥ ६ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. He thus draws it therefrom with (Vāj. S. VIII, 6; Rig-veda VI, 71, 6), ‘Bring thou forth boons for us this day, O Savitar, boons to-morrow, boons day by day: O God, through this our prayer may we be sharers of boons, of a good and plenteous abode!–Thou art taken with a support!–Thou art Savitr̥’s joy-giver, thou art a joy-giver: give me joy! speed the sacrifice; speed the lord of the sacrifice to (receive) his share!’

०७

विश्वास-प्रस्तुतिः

तं᳘ गृहीत्वा न᳘ सादयति॥
म᳘नो ह वा᳘ ऽअस्य सविता त᳘स्मादिदम᳘सन्नं म᳘नः प्राणो᳘ ह वा᳘ ऽअस्य सविता त᳘स्मादयम᳘सन्नः प्राणः सं᳘चरत्यथा᳘ह[[!!]] देवा᳘य सवित्रे᳘ ऽनुब्रूहीत्याश्रा᳘व्याह[[!!]] देवा᳘य सवित्रे प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति᳘ नानुव᳘षट्करोति म᳘नो ह वा᳘ ऽअस्य सविता नेन्म᳘नो ऽग्नौ᳘ प्रवृण᳘जानी᳘ति प्राणो᳘ ह वा᳘ ऽअस्य सविता ने᳘त्प्राण᳘मग्नौ᳘ प्रवृण᳘जानी᳘ति॥

मूलम् - श्रीधरादि

तं᳘ गृहीत्वा न᳘ सादयति॥
म᳘नो ह वा᳘ ऽअस्य सविता त᳘स्मादिदम᳘सन्नं म᳘नः प्राणो᳘ ह वा᳘ ऽअस्य सविता त᳘स्मादयम᳘सन्नः प्राणः सं᳘चरत्यथा᳘ह[[!!]] देवा᳘य सवित्रे᳘ ऽनुब्रूहीत्याश्रा᳘व्याह[[!!]] देवा᳘य सवित्रे प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति᳘ नानुव᳘षट्करोति म᳘नो ह वा᳘ ऽअस्य सविता नेन्म᳘नो ऽग्नौ᳘ प्रवृण᳘जानी᳘ति प्राणो᳘ ह वा᳘ ऽअस्य सविता ने᳘त्प्राण᳘मग्नौ᳘ प्रवृण᳘जानी᳘ति॥

मूलम् - Weber

तं᳘ गृहीत्वा न᳘ सादयति॥
म᳘नो ह वा᳘ अस्य सविता त᳘स्मादिदम᳘सन्नम् म᳘नः प्राणो᳘ ह वा᳘ अस्य सविता त᳘स्मादयम᳘सन्नः प्राणः सं᳘चरत्य᳘थाह देवा᳘य सवित्रे᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याह देवा᳘य सवित्रे प्रेष्ये᳘ति व᳘षट्कृते जुहोतिॗ नानुव᳘षट्करोति म᳘नो ह वा᳘ अस्य सविता नेन्म᳘नो ऽग्नौ᳘ प्रवृण᳘जानी᳘ति प्राणो ह वा᳘ अस्य सविता ने᳘त्प्राण᳘मग्नौ᳘ प्रवृण᳘जानी᳘ति॥

मूलम् - विस्वरम्

तं गृहीत्वा न सादयति । मनो ह वा ऽअस्य सविता । तस्मादिदमसन्नं मनः । प्राणो ह वा ऽअस्य सविता । तस्मादयमसन्नः प्राणः सञ्चरति । अथाह- “देवाय 6 सवित्रे”- अनुब्रूहि- इति । आश्राव्याह- देवाय सवित्रे प्रेष्येति । वषट्कृते जुहोति । नानुवषट् करोति । मनो ह वा ऽअस्य सवितानेन्मनो ऽग्नौ प्रवृणजानीति । प्राणो ह वा ऽअस्य सविता- नेत्प्राणमग्नौ प्रवृणजानीति ॥ ७ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Having drawn it, he does not deposit it; for Savitr̥ is his (Yajña’s) mind, and hence this mind is restless. And Savitr̥ is his breath: hence this breath passes to and fro unrestingly. He then says (to the Maitrāvaruṇa), ‘Recite (the invitatory prayer) to the god Savitr̥!’ Having called for the

Śraushaṭ, he says, ‘Prompt (the Hotr̥ to recite the offering prayer) to the god Savitr̥!’ The Vashaṭ having been pronounced, he offers. He (the Hotr̥) pronounces no Anuvashaṭ 7,–for Savitr̥ is his mind,–’lest he should consign his mind to the fire;’ and Savitr̥ being his breath,–’lest he should consign his breath to the fire.’

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अथा᳘भक्षितेन पा᳘त्रेण॥
व्वैश्वदेवं ग्र᳘हं गृह्णाति तद्यद᳘भक्षितेन पा᳘त्रेण व्वैश्वदेवं ग्र᳘हं गृह्णा᳘ति न वै᳘ सावित्र᳘स्यानुव᳘षट्करोत्येत᳘स्माद्वै᳘ व्वैश्वदेवं ग्र᳘हं ग्रहीष्य᳘न्भवति त᳘दस्य व्वैश्वदे᳘नै᳘वैवानुव᳘षट्कृतो भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अथा᳘भक्षितेन पा᳘त्रेण॥
व्वैश्वदेवं ग्र᳘हं गृह्णाति तद्यद᳘भक्षितेन पा᳘त्रेण व्वैश्वदेवं ग्र᳘हं गृह्णा᳘ति न वै᳘ सावित्र᳘स्यानुव᳘षट्करोत्येत᳘स्माद्वै᳘ व्वैश्वदेवं ग्र᳘हं ग्रहीष्य᳘न्भवति त᳘दस्य व्वैश्वदे᳘नै᳘वैवानुव᳘षट्कृतो भवति॥

मूलम् - Weber

अथा᳘भक्षितेन पा᳘त्रेण॥
वैश्वदेवं ग्र᳘हं गृह्णाति तद्यद᳘भक्षितेन पा᳘त्रेण वैश्वदेवं ग्र᳘हं गृह्णा᳘ति न वै᳘ सावित्र᳘स्यानुव᳘षट्करोत्येत᳘स्माद्वै᳘ वैश्वदेवं ग्र᳘हं ग्रहीष्य᳘न्भवति त᳘दस्य वैश्वदेवे᳘नैॗवानुव᳘षट्कृतो भवति॥

मूलम् - विस्वरम्

वैश्वदेवग्रहः ।

अथाभक्षितेन पात्रेण वैश्वदेवं ग्रहं गृह्णाति । तद् यदभक्षितेन पात्रेण वैश्वदेवं ग्रहं गृह्णाति । न वै सावित्रस्यानुवषट्करोति । एतस्माद्वै वैश्वदेवं ग्रहं ग्रहीष्यन्भवति । तदस्य वैश्वदेवेनैवानुवषट्कृतो भवति ॥ ८ ॥

सायणः

अथाभक्षितेनेति । सप्तभिरेताभिर्महावैश्वदेवग्रह उच्यते, यस्यार्भवःपवमानस्तोत्रम्, एवं वैश्वदेवं च शस्त्रं भविष्यति । तास्वेताः प्रसन्नाः । एतदुच्यते- ‘सामतः’ सोमास्तु ‘यस्माद् वैश्वदेवं तृतीयसवनम्’ विश्वे हि देवाः स्तूयन्ते, एवमुच्यन्ते । स ‘ऋक्तः’ विश्वे हि देवाः शस्यन्ते । अथैतेनैव कारणेन ‘यजुष्टः’ यजुःषु पुरश्चरन्ति, प्रचरन्ति, प्रथमतरमस्य सामभ्यश्चरन्त्येभिरिति पुरश्चरणं यजूंषि, तत्राप्येतेन कारणेन ‘वैश्वदेवं’ ‘तृतीयसवनम्’ पर्यस्यत् । ‘एतं महावैश्वदेवं ग्रहं 8 गृह्णाति’ ‘अतो’ देवेभ्य उन्नयन्ति । चमसानां पूतभृत उन्नयनं दर्शयत्यनादिष्टानाञ्च । अतो मनुष्येभ्य इति । भक्षितानां पुनर्भक्षणार्थमेवायं पूतभृतो दर्शयति । अतः पितृभ्य इति । त एवाप्यायितानां शंसिताश्चमसाः पितृदेवत्या भवन्ति । ततश्च तदाप्यायनं पितृभ्यो ऽप्युन्नयन्ति ‘पूतभृत’ इति दर्शयति । सर्वं वै विश्वे देवा इति । विश्वेषामेव देवानामृगादीनि शब्दमयानि शरीराणि, ततश्च विश्वेभ्यो देवेभ्यो गृह्यमाणस्तदन्तर्गतया पुरोरुवा युक्त एव भवति । अतः पितृभ्य इत्युक्ते किं तत्र पुरोरुचेत्यर्थः (१) ॥ ८-१३ ॥

Eggeling
  1. Then with the (same) vessel, without drinking therefrom 9, he draws the Vaiśvadeva graha. The reason why he draws the Vaiśvadeva graha with the (same) vessel, without drinking therefrom, is this: on the Sāvitra graha he (the Hotr̥) pronounces no Anuvashaṭ, and it is therefrom that he is about to draw the Vaiśvadeva graha,–thus it is by means of the Vaiśvadeva that it becomes supplied with the Anuvashaṭ for him.

०९

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
म᳘नो ह वा᳘ ऽअस्य स᳘वि᳘ता स᳘र्व्वमिदं व्वि᳘श्वे देवा᳘ इद᳘मे᳘वैतत्स᳘र्वं म᳘नसः कृतानुकरम᳘नुवर्त्म करोति त᳘दिदᳫं᳭ स᳘र्व्वं म᳘नसः कृतानुकरम᳘नुवर्त्म॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
म᳘नो ह वा᳘ ऽअस्य स᳘वि᳘ता स᳘र्व्वमिदं व्वि᳘श्वे देवा᳘ इद᳘मे᳘वैतत्स᳘र्वं म᳘नसः कृतानुकरम᳘नुवर्त्म करोति त᳘दिदᳫं᳭ स᳘र्व्वं म᳘नसः कृतानुकरम᳘नुवर्त्म॥

मूलम् - Weber

य᳘द्वेव᳘ वैश्वदेवं ग्र᳘हं गृह्णाति॥
म᳘नो ह वा᳘ अस्य सविता स᳘र्वमिदं वि᳘श्वे देवा᳘ इद᳘मेॗवैतत्स᳘र्वं म᳘नसः कृतानुकरम᳘नुवर्त्म करोति त᳘दिदᳫं स᳘र्वम् म᳘नसः कृतानुकरम᳘नुवर्त्म॥

मूलम् - विस्वरम्

यद्वेव वैश्वदेवं ग्रहं गृह्णाति । मनो ह वा ऽअस्य सविता । सर्वमिदं विश्वेदेवाः । इदमेवैतत्सर्वं मनसः कृतानुकरमनुवर्त्म करोति । तदिदं सर्वं मनसः कृतानुकरमनुवर्त्म ॥ ९ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. And further why he draws the Vaiśvadeva graha. Savitr̥, forsooth, is his rind, and the Viśve Devāḥ (All-gods, or all the gods 10) are everything here: he thus makes everything here subservient and obedient to the mind, and hence everything here is subservient and obedient to the mind.

१०

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
प्राणो ह वा᳘ ऽअस्य सविता स᳘र्वमिदं व्वि᳘श्वे देवा᳘ ऽअस्मि᳘न्ने᳘वैतत्स᳘र्व्वस्मिन्प्राणोदानौ᳘ दधाति ता᳘विमा᳘वस्मिन्त्स᳘र्व्वस्मिन्प्राणोदानौ᳘ हि तौ[[!!]]॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
प्राणो ह वा᳘ ऽअस्य सविता स᳘र्वमिदं व्वि᳘श्वे देवा᳘ ऽअस्मि᳘न्ने᳘वैतत्स᳘र्व्वस्मिन्प्राणोदानौ᳘ दधाति ता᳘विमा᳘वस्मिन्त्स᳘र्व्वस्मिन्प्राणोदानौ᳘ हि तौ[[!!]]॥

मूलम् - Weber

य᳘द्वेव᳘ वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
प्राणो ह वा᳘ अस्य सविता स᳘र्वमिदं वि᳘श्वे देवा᳘ अस्मि᳘न्नेॗवैतत्स᳘र्वस्मिन्प्राणोदानौ᳘ दधाति ता᳘विमा᳘वस्मिन्त्स᳘र्वस्मिन्प्राणोदानौ हि तौ᳟॥

मूलम् - विस्वरम्

यद्वेव वैश्वदेवं ग्रहं गृह्णाति । प्राणो ह वा ऽअस्य सविता । सर्वमिदं विश्वे देवाः । अस्मिन्नेवैतत् सर्वस्मिन् प्राणोदानौ दधाति । ताविमावस्मिन्त्सर्वस्मिन् प्राणोदानौ हि तौ ॥ १० ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. And again why he draws the Vaiśvadeva graha. Savitr̥, forsooth, is his breath, and the All-gods are everything here: he thereby puts the out-breathing and in-breathing into everything here, and

thus the out-breathing and in-breathing become beneficial (or put) in everything here.

११

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
व्वैश्वदेवं वै᳘ तृतीयसवनं त᳘दुच्यत᳘ ऽएव᳘[[!!]] सामतो य᳘स्माद्वैश्वदेवं᳘ तृतीयसवन᳘मुच्य᳘त ऽऋक्तो ऽथैतदेव᳘[[!!]] यजुष्टः᳘ पुरश्चरणतो य᳘देतं᳘ महा᳘वैश्वदेवं गृह्णा᳘ति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
व्वैश्वदेवं वै᳘ तृतीयसवनं त᳘दुच्यत᳘ ऽएव᳘[[!!]] सामतो य᳘स्माद्वैश्वदेवं᳘ तृतीयसवन᳘मुच्य᳘त ऽऋक्तो ऽथैतदेव᳘[[!!]] यजुष्टः᳘ पुरश्चरणतो य᳘देतं᳘ महा᳘वैश्वदेवं गृह्णा᳘ति॥

मूलम् - Weber

य᳘द्वेव᳘ वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
वैश्वदेवं वै᳘ तृतीयसवनं त᳘दुच्य᳘त एव᳘ सामतो य᳘स्माद्वैश्वदेवं᳘ तृतीयसवन᳘मुच्य᳘त ऋक्तो᳘ ऽथैत᳘देव᳘ यजुष्टः᳘ पुरश्चरणतो य᳘देत᳘म् महा᳘वैश्वदेवं गृह्णा᳘ति॥

मूलम् - विस्वरम्

यद्वेव वैश्वदेवं ग्रहं गृह्णाति । वैश्वदेवं वै तृतीयसवनम् । तदुच्यत ऽएव सामतः । यस्माद्वैश्वदेवं तृतीयसवनम्- उच्यत ऋक्तः । अथैतदेव यजुष्टः पुरश्चरणतो- यदेतं महावैश्वदेवं गृह्णाति ॥ ११ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. And again why he draws the Vaiśvadeva graha. The evening feast belongs to the All-gods: thus indeed it is called on the part of the Sāman, in that the evening feast is called Vaiśvadeva on the part of the R̥c 11, and in the same way on the part of the Yajus, by way of preparatory rite, when he draws that Mahā-vaiśvadeva graha.

१२

विश्वास-प्रस्तुतिः

तं वै᳘ पूतभृ᳘तो गृह्णाति॥
व्वैश्वदेवो वै᳘ पूतभृदे᳘तो हि᳘ देवे᳘भ्य ऽउन्न᳘यन्त्य᳘तो मनु᳘ष्येभ्यो᳘ ऽतः पितृ᳘भ्यस्त᳘स्माद्वैश्वदेवः᳘ पूतभृत्[[!!]]॥

मूलम् - श्रीधरादि

तं वै᳘ पूतभृ᳘तो गृह्णाति॥
व्वैश्वदेवो वै᳘ पूतभृदे᳘तो हि᳘ देवे᳘भ्य ऽउन्न᳘यन्त्य᳘तो मनु᳘ष्येभ्यो᳘ ऽतः पितृ᳘भ्यस्त᳘स्माद्वैश्वदेवः᳘ पूतभृत्[[!!]]॥

मूलम् - Weber

तं वै पूतभृ᳘तो गृह्णाति॥
वैश्वदेवो वै᳘ पूतभृद᳘तो हि᳘ देवे᳘भ्य उन्न᳘यन्त्य᳘तो मनुॗष्येभ्यो ऽतः पितृ᳘भ्यस्त᳘स्माद्वैश्वदेवः᳘ पूतभृ᳘त्॥

मूलम् - विस्वरम्

तं वै पूतभृतो गृह्णाति । वैश्वदेवो वै पूतभृत् । अतो हि देवेभ्य उन्नयन्ति, अतो मनुष्येभ्यः, अतः पितृभ्यः- तस्माद्वैश्वदेवः पूतभृत् ॥ १२ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. He draws it from the Pūtabhr̥t; for the Pūtabhr̥t belongs to the All-gods, because therefrom they draw (Soma juice) for the gods, therefrom for men, therefrom for the Fathers: hence the Pūtabhr̥t belongs to the All-gods.

१३

विश्वास-प्रस्तुतिः

(त्तं) तं वा᳘ ऽअपुरोरु᳘क्कं गृह्णाति॥
व्वि᳘श्वेभ्यो᳘ ह्येनं देवे᳘भ्यो गृह्णा᳘ति स᳘र्व्वं वै व्वि᳘श्वे देवा यदृ᳘चो यद्य᳘जूᳫँ᳭षि यत्सा᳘मानि स य᳘दे᳘वैनं व्वि᳘श्वेभ्यो देवे᳘भ्यो गृह्णा᳘ति ते᳘नो हास्यैष᳘ पुरोरु᳘ङ्मान्भवति त᳘स्मादपुरोरु᳘क्कं गृह्णाति॥

मूलम् - श्रीधरादि

(त्तं) तं वा᳘ ऽअपुरोरु᳘क्कं गृह्णाति॥
व्वि᳘श्वेभ्यो᳘ ह्येनं देवे᳘भ्यो गृह्णा᳘ति स᳘र्व्वं वै व्वि᳘श्वे देवा यदृ᳘चो यद्य᳘जूᳫँ᳭षि यत्सा᳘मानि स य᳘दे᳘वैनं व्वि᳘श्वेभ्यो देवे᳘भ्यो गृह्णा᳘ति ते᳘नो हास्यैष᳘ पुरोरु᳘ङ्मान्भवति त᳘स्मादपुरोरु᳘क्कं गृह्णाति॥

मूलम् - Weber

तं वा᳘ अपुरोरु᳘क्कं गृह्णाति॥
वि᳘श्वेभ्योॗ ह्येनं देवे᳘भ्यो गृह्णा᳘ति स᳘र्वं वै वि᳘श्वे देवा यदृ᳘चो यद्य᳘जूंषि यत्सा᳘मानि स य᳘देॗवैनं वि᳘श्वेभ्यो देवे᳘भ्यो गृह्णा᳘ति ते᳘नो हास्यैष᳘ पुरोरु᳘ङ्मान्भवति त᳘स्मादपुरोरु᳘क्कं गृह्णाति॥

मूलम् - विस्वरम्

तं वा ऽअपुरोरुक्कं गृह्णाति । विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति । सर्वं वै विश्वे देवाः- यद् ऋचो यद्यजूंषि यत् सामानि । स यदेवैनं विश्वेभ्यो देवेभ्यो गृह्णाति- तेनो हास्यैष पुरोरुङ्मान्भवति । तस्मादपुरोरुक्कं गृह्णाति ॥ १३ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. He draws it without a puroruc 12, for he draws it for the All-gods, and the All-gods are everything, the R̥c and Yajus and Sāman; and even in that he draws it for the All-gods, thereby it becomes supplied with a puroruc for him: therefore he draws it without a puroruc.

१४

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वो) उपयाम᳘गृहीतो ऽसि सुश᳘र्मासि सुप्रतिष्ठान इ᳘ति प्राणो वै᳘ सुश᳘र्मा सुप्रतिष्ठानो᳘ बृह᳘दुक्षाय न᳘म इ᳘ति प्रजा᳘पतिर्वै᳘ बृह᳘दुक्षः प्रजा᳘पतये न᳘म इ᳘त्ये᳘वैत᳘दाह व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य एष᳘ ते यो᳘निर्व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य ऽइ᳘ति सादयति व्वि᳘श्वेभ्यो᳘ ह्येनं देवे᳘भ्यो गृह्णात्यथे᳘त्य प्राङु᳘पविशति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वो) उपयाम᳘गृहीतो ऽसि सुश᳘र्मासि सुप्रतिष्ठान इ᳘ति प्राणो वै᳘ सुश᳘र्मा सुप्रतिष्ठानो᳘ बृह᳘दुक्षाय न᳘म इ᳘ति प्रजा᳘पतिर्वै᳘ बृह᳘दुक्षः प्रजा᳘पतये न᳘म इ᳘त्ये᳘वैत᳘दाह व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य एष᳘ ते यो᳘निर्व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य ऽइ᳘ति सादयति व्वि᳘श्वेभ्यो᳘ ह्येनं देवे᳘भ्यो गृह्णात्यथे᳘त्य प्राङु᳘पविशति॥

मूलम् - Weber

अथा᳘तो गृह्णा᳘त्येव᳟॥
उपयाम᳘गृहीतो ऽसि सुश᳘र्मासि सुप्रतिष्ठान इ᳘ति प्राणो वै᳘ सुश᳘र्मा सुप्रतिष्ठानो᳘ बृह᳘दुक्षाय न᳘म इ᳘ति प्रजा᳘पतिर्वै᳘ बृह᳘दुक्षः प्रजा᳘पतये न᳘म इ᳘त्येॗवैत᳘दाह वि᳘श्वेभ्यस्त्वा देवे᳘भ्य एष᳘ ते यो᳘निर्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य इ᳘ति सादयति वि᳘श्वेभ्योॗ ह्येनं देवे᳘भ्यो गृह्णात्यथे᳘त्य प्राङु᳘पविशति॥

मूलम् - विस्वरम्

अथातो गृह्णात्येव- “उपयामगृहीतो ऽसि, सुशर्मासि सुप्रतिष्ठानः”- (वा० सं० ८ । ८) इति । प्राणो वै सुशर्मा सुप्रतिष्ठानः । “बृहदुक्षाय नमः”- (वा० सं० ८ । ८) इति । प्रजापतिर्वै बृहदुक्षः । प्रजापतये नम इत्येवैतदाह । “विश्वेभ्यस्त्वा देवेभ्यः एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः"- (वा० सं० ८ । ८) इति सादयति । विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति । अथेत्य प्राङुपविशति ॥ १४ ॥

सायणः

प्राणो वै सुशर्मेति । स एष ग्रहः । प्राणस्यान्नमिति कृत्वा प्राण इति उच्यते । स एव ‘सुशर्मा’ । ‘सु’ शोभनं प्रतिष्ठानं विश्वेदेवा अस्येति सुप्रतिष्ठानः । प्रजापतिर्वै बृहदुक्ष इति । बृहच्चासावुक्षा च । प्रजानां सेक्तेति ‘प्रजापतिः’ बृहदुक्षाः । एतदन्नं हि प्रजानां भवति न चेत्तथैत उक्षाण इत्यभिप्रायः । “प्रजापतये नमः” इति । यद्विश्वेषां देवानां मतं तदविरोधात्मकाय प्रजापतये भवत्येवान्नमित्यभिप्रायः । ‘प्राङुपविशति’ । वैश्वदेवशस्त्रप्रतिगरम् ॥ १४ ॥

Eggeling
  1. He thus draws it therefrom with (Vāj. S. VIII, 8), ‘Thou art taken with a support: thou art well-guarded, well-established,’–for well-guarded and well-established is the breath,–‘homage to the great bull!’–the great bull is Prajāpati (the lord of creatures): ‘homage to Prajāpati,’ he thereby means to say.–‘Thee to the All-gods! this is thy womb,–thee to the All-gods!’ Therewith he

deposits it; for it is for the All-gods that he draws it. Thereupon he goes (to the Sadas) and sits down (in front of the Hotr̥) with his face to the east 13.

१५

विश्वास-प्रस्तुतिः

स य᳘त्रैताᳫँ᳭ हो᳘ता श᳘ᳫं᳘सति॥
(त्ये᳘) ए᳘कया च दश᳘भिश्च स्वभूते द्वा᳘भ्यामिष्ट᳘ये व्विᳫँ᳭शती᳘ च। तिसृ᳘भिश्च व्व᳘हसे त्रिᳫँ᳭श᳘ता च नियु᳘द्भिर्व्वायविह ता व्वि᳘मुञ्चे᳘ति त᳘देत᳘स्यां व्वाय᳘व्यायामृचि पा᳘त्राणि व्वि᳘मुच्यन्ते व्वायु᳘प्रणेत्रा वै᳘ पश᳘वः प्राणो वै᳘ व्वायुः᳘ प्राणे᳘न हि᳘ पश᳘वश्च᳘रन्ति॥

मूलम् - श्रीधरादि

स य᳘त्रैताᳫँ᳭ हो᳘ता श᳘ᳫं᳘सति॥
(त्ये᳘) ए᳘कया च दश᳘भिश्च स्वभूते द्वा᳘भ्यामिष्ट᳘ये व्विᳫँ᳭शती᳘ च। तिसृ᳘भिश्च व्व᳘हसे त्रिᳫँ᳭श᳘ता च नियु᳘द्भिर्व्वायविह ता व्वि᳘मुञ्चे᳘ति त᳘देत᳘स्यां व्वाय᳘व्यायामृचि पा᳘त्राणि व्वि᳘मुच्यन्ते व्वायु᳘प्रणेत्रा वै᳘ पश᳘वः प्राणो वै᳘ व्वायुः᳘ प्राणे᳘न हि᳘ पश᳘वश्च᳘रन्ति॥

मूलम् - Weber

स य᳘त्रैताᳫं हो᳘ता श᳘ᳫं᳘सति॥
ए᳘कया च दश᳘भिश्च स्वभूते द्वा᳘भ्यामिष्ट᳘ये विंशती᳘ च तिसृ᳘भिश्च व᳘हसे त्रिंश᳘ता च नियु᳘द्भिर्वायविह ता वि᳘मुञ्चे᳘ति त᳘देत᳘स्यां वायॗव्यायामृचि पा᳘त्राणि वि᳘मुच्यन्ते वायु᳘प्रणेत्रा वै᳘ पश᳘वः प्राणो वै᳘ वायुः᳘ प्राणे᳘न हि᳘ पश᳘वश्च᳘रन्ति॥

मूलम् - विस्वरम्

स यत्रैतां होता शंसति- “एकया 14 च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशती च । तिसृभिश्च वहसे त्रिंशता च नियुद्भिर्वायविह ता विमुञ्च”- (वा. सं. २७ । ३३) इति । तदेतस्यां वायव्यायामृचि पात्राणि विमुच्यन्ते । वायुप्रणेत्रा वै पशवः । प्राणो वै वायुः । प्राणेन हि पशवश्चरन्ति ॥ १५ ॥

सायणः

स यत्रैतामिति । एताभिश्चतसृभिर्द्विदैवत्यपात्राणां विमोक्षा उच्यन्ते । ‘यत्र’ काले ‘एताम्’ वक्ष्यमाणात्मकया च दशभिश्चेत्येवं ‘होता’ ‘शँसति’ तस्मिन्नेव काले ‘एतस्याम्’ वायुदेवत्यायाम् ‘ऋचि’ शस्यमानायामिति शेषः । “यस्य च भावेन भावलक्षणम्”- (पा. सू. २ । ३ । ३७) इत्येवं सप्तमी । ‘पात्राणि’ शाखान्तराद् द्विदेवत्यपात्राणि ‘विमुच्यन्ते’ कथं ? प्रक्षाल्य खरे निधीयन्ते । एष हि तेषां विमोकः शाखान्तरादेवावबोद्धव्यः । यागो ऽपि हि तेषां शाखान्तरीय एव । प्रातःसवने भक्षितानां कुतो दक्षिणस्य वर्त्मनि निधाने अध्वर्योश्च प्रतिगरे व्यापृतत्वात् प्रतिप्रस्थात्रा विमुच्यन्ते । किं पुनः कारणं वायव्यायामृचि विमुच्यन्त इत्यत आह- वायुप्रणेत्रा वा इति । वायुः प्रणेता नायको येषां ते ‘वायुप्रणेत्राः’ ‘पशवः’ कथम् ? प्राणो ह्यध्यात्मं वायुः तेन हेतुना ‘पशवः’ गच्छन्ति । यदि हि प्राणो न स्यादरण्येष्वेवार्ता इमाः प्रजाः शयीरन् ॥ १५ ॥

Eggeling
  1. And when he (the Hotr̥) recites this (verse), ‘With one and ten for thine own sake, with two and twenty for offering, with three and thirty for up-bearing (the sacrifice to the gods); with thy teams, O Vāyu, do thou here unloose them!’–during (the recitation of) this verse to Vāyu the drinking-vessels are unyoked 15, for beasts have Vāyu for their leader; and Vāyu

(wind) is breath, since it is by means of the breath that beasts move about.

१६

विश्वास-प्रस्तुतिः

स᳘ ह देवे᳘भ्यः पशु᳘भिर᳘पचक्राम॥
तं᳘ देवाः᳘ प्रातःसवने᳘ ऽन्वमन्त्रयन्त स᳘ नोपा᳘ववर्त तं᳘ मा᳘ध्यन्दिने स᳘वने᳘ ऽन्वमन्त्रयन्त स[[!!]] ह᳘ नै᳘वोपा᳘ववर्त तं᳘ तृतीयसवने᳘ ऽन्वमन्त्रयन्त॥

मूलम् - श्रीधरादि

स᳘ ह देवे᳘भ्यः पशु᳘भिर᳘पचक्राम॥
तं᳘ देवाः᳘ प्रातःसवने᳘ ऽन्वमन्त्रयन्त स᳘ नोपा᳘ववर्त तं᳘ मा᳘ध्यन्दिने स᳘वने᳘ ऽन्वमन्त्रयन्त स[[!!]] ह᳘ नै᳘वोपा᳘ववर्त तं᳘ तृतीयसवने᳘ ऽन्वमन्त्रयन्त॥

मूलम् - Weber

स᳘ ह देवे᳘भ्यः पशु᳘भिर᳘पचक्राम॥
तं᳘ देवाः᳘ प्रातःसवने᳘ ऽन्वमन्त्रयन्त सॗ नोपा᳘ववर्त तम् मा᳘ध्यन्दिने स᳘वने᳘ ऽन्वमन्त्रयन्त स᳘ हॗ नैवोपा᳘ववर्त तं᳘ तृतीयसवने᳘ ऽन्वमन्त्रयन्त॥

मूलम् - विस्वरम्

स ह देवेभ्यः पशुभिरपचक्राम । तं देवाः प्रातःसवने ऽन्वमन्त्रयन्त । स नोपाववर्त । तं माध्यन्दिने सवने ऽन्वमन्त्रयन्त । स ह नैवोपाववर्त । तं तृतीयसवने ऽन्वमन्त्रयन्त ॥ १६ ॥

सायणः

ततः किं- यदि वायुः पशूनां नेतेत्यत आह- स ह देवेभ्य इति । ‘स’ वायुः ‘देवेभ्यः’ अपक्रान्तः पशुभिर्वन्यैः सह तृतीयसवने देवैरेतेन भागेनानीतः ॥ १६ ॥

Eggeling
  1. Now once on a time he went away from the gods with the beasts. The gods called after him at the morning pressing,–he returned not. They called after him at the midday pressing,–but he returned not. They called after him at the evening pressing.

१७

विश्वास-प्रस्तुतिः

स᳘ होपावर्त्स्य᳘न्न᳘वाच॥
य᳘द्व ऽउपाव᳘र्तेय किं᳘ मे त᳘तः स्यादि᳘ति त्व᳘यै᳘वैता᳘नि पा᳘त्राणि युज्ये᳘रंस्त्व᳘या व्वि᳘मुच्येरन्नि᳘ति त᳘देनेनैतत्पा᳘त्राणि युज्यन्ते य᳘दैन्द्रवायवा᳘ग्रान्प्रातःसवने᳘ गृह्णात्य᳘थैनेनैतत्पा᳘त्राणि व्वि᳘मुच्यन्ते यदा᳘ह नियु᳘द्भिर्व्वायविह ता व्वि᳘मुञ्चे᳘ति पश᳘वो वै᳘ नियु᳘तस्त᳘त्पशु᳘भिरे᳘वैतत्पा᳘त्राणि व्वि᳘मुच्यन्ते॥

मूलम् - श्रीधरादि

स᳘ होपावर्त्स्य᳘न्न᳘वाच॥
य᳘द्व ऽउपाव᳘र्तेय किं᳘ मे त᳘तः स्यादि᳘ति त्व᳘यै᳘वैता᳘नि पा᳘त्राणि युज्ये᳘रंस्त्व᳘या व्वि᳘मुच्येरन्नि᳘ति त᳘देनेनैतत्पा᳘त्राणि युज्यन्ते य᳘दैन्द्रवायवा᳘ग्रान्प्रातःसवने᳘ गृह्णात्य᳘थैनेनैतत्पा᳘त्राणि व्वि᳘मुच्यन्ते यदा᳘ह नियु᳘द्भिर्व्वायविह ता व्वि᳘मुञ्चे᳘ति पश᳘वो वै᳘ नियु᳘तस्त᳘त्पशु᳘भिरे᳘वैतत्पा᳘त्राणि व्वि᳘मुच्यन्ते॥

मूलम् - Weber

स᳘ होपावर्त्स्य᳘न्नुवाच॥
य᳘द्व उपाव᳘र्तेय कि᳘म् मे त᳘तः स्यादि᳘ति त्व᳘यैॗवैता᳘नि पा᳘त्राणि युज्ये᳘रंस्त्व᳘या वि᳘मुच्येरन्नि᳘ति त᳘देनेनैतत्पा᳘त्राणि युज्यन्ते य᳘दैन्द्रवायवा᳘ग्रान्प्रातःसवने᳘ गृह्णात्य᳘थैनेनैतत्पात्राणि वि᳘मुच्यन्ते यदा᳘ह नियु᳘द्भिर्वायविह ता वि᳘मुञ्चे᳘ति पश᳘वो वै᳘ नियु᳘तस्त᳘त्पशु᳘भिरेॗवैतत्पा᳘त्राणि॥

मूलम् - विस्वरम्

स होपावर्त्स्यन्नुवाच- यद्व उपावर्तेय- किं मे ततः स्यादिति । त्वयैवैतानि पात्राणि युज्येरन्, त्वया विमुच्येरन्- इति । तद् एनेनैतत्पात्राणि युज्यन्ते, यदैन्द्रवायवाग्रान्प्रातःसवने गृह्णाति । अथैनेनैतत्पात्राणि विमुच्यन्ते- यदाह नियुद्भिर्वायविह ता विमुञ्चेति । पशवो वै नियुतः । तत् पशुभिरेवैतत्पात्राणि विमुच्यन्ते ॥ १७ ॥

सायणः

त्वया वै सहितानि द्विदेवत्यपात्राणि विमुच्यन्ते । ‘यदाह’ होता ‘नियुद्भिः वायो ! इह ता विमुञ्च’ इति । एतेन वायुः शस्यत इत्यभिप्रायः । ‘पशवो वै नियुतः’ इति पशूनामप्येष संविभागो भवति वेत्यर्थः ॥ १७॥

Eggeling
  1. Being about to return, he said, ‘If I were to return to you, what would be my reward? ‘–‘By thee these vessels would be yoked, and by thee they would be unloosed!’–Hence those vessels are yoked by that (Vāyu), when he (the Adhvaryu) draws the (cups) for Indra and Vāyu and so forth 16. And now those vessels are unloosed by him, when he says, ‘with thy teams, O Vāyu, do thou here unloose them;’–teams mean cattle: thus he unlooses those vessels by means of cattle.

१८

विश्वास-प्रस्तुतिः

स य᳘त्प्रातःसवन᳘ ऽउपा᳘वर्त्स्यत्॥
(द्गा) गायत्रं वै᳘ प्रातःसवनं ब्र᳘ह्म गायत्री᳘ ब्राह्मणे᳘षु ह पश᳘वो ऽभविष्यन्न᳘थ यन्मा᳘ध्यन्दिने स᳘वन ऽउपा᳘वर्त्स्यदैन्द्रं वै मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं क्षत्रमि᳘न्द्रः क्षत्रि᳘येषु ह पश᳘वो ऽभविष्यन्न᳘थ य᳘त्तृतीयसवन᳘ उपा᳘वर्तत व्वैश्वदेवं वै᳘ तृतीयसवनᳫँ᳭ स᳘र्व्वमिदं व्वि᳘श्वे देवास्त᳘स्मादिमे᳘ सर्व्व᳘त्रैव᳘ पश᳘वः॥

मूलम् - श्रीधरादि

स य᳘त्प्रातःसवन᳘ ऽउपा᳘वर्त्स्यत्॥
(द्गा) गायत्रं वै᳘ प्रातःसवनं ब्र᳘ह्म गायत्री᳘ ब्राह्मणे᳘षु ह पश᳘वो ऽभविष्यन्न᳘थ यन्मा᳘ध्यन्दिने स᳘वन ऽउपा᳘वर्त्स्यदैन्द्रं वै मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं क्षत्रमि᳘न्द्रः क्षत्रि᳘येषु ह पश᳘वो ऽभविष्यन्न᳘थ य᳘त्तृतीयसवन᳘ उपा᳘वर्तत व्वैश्वदेवं वै᳘ तृतीयसवनᳫँ᳭ स᳘र्व्वमिदं व्वि᳘श्वे देवास्त᳘स्मादिमे᳘ सर्व्व᳘त्रैव᳘ पश᳘वः॥

मूलम् - Weber

स य᳘त्प्रातःसवन᳘ उपा᳘वर्त्स्यत्॥
गायत्रं वै᳘ प्रातःसवनम् ब्र᳘ह्म गायत्री᳘ ब्राह्मणे᳘षु ह पश᳘वो ऽभविष्यन्न᳘थ यन्मा᳘ध्यन्दिने स᳘वन उपा᳘वर्त्स्यदैन्द्रं वै मा᳘ध्यन्दिनᳫं स᳘वनं क्षत्रमि᳘न्द्रः क्षत्रि᳘येषु ह पश᳘वो ऽभविष्यन्न᳘थ य᳘त्तृतीयसवन᳘ उपा᳘वर्तत वैश्वदेवं वै᳘ तृतीयसवनᳫं स᳘र्वमिदं वि᳘श्वे देवास्त᳘स्मादिमे सर्व᳘त्रैव᳘ पश᳘वः ॥

मूलम् - विस्वरम्

स यत्प्रातःसवन ऽउपावर्त्स्यत् । गायत्रं वै प्रातःसवनम् । ब्रह्म गायत्री । ब्राह्मणेषु ह पशवो ऽभविष्यन् । अथ यन्माध्यन्दिने सवन ऽउपावर्त्स्यद् ऐन्द्रं वै माध्यन्दिनं सवनम्, क्षत्रमिन्द्रः, क्षत्रियेषु ह पशवो ऽभविष्यन् । अथ यत्तृतीयसवन ऽउपावर्तत । वैश्वदेवं वै तृतीयसवनम्, सर्वमिदं विश्वे देवाः, तस्मादिमे सर्वत्रैव पशवः ॥ १८ ॥

सायणः

यत्प्रातरिति । प्रसन्ना ॥ १८ ॥

इति आचार्यहरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे चतुर्थाध्याये प्रथमं ब्राह्मणम् ॥ (४-४-१)

Eggeling
  1. Now, had he returned at the morning pressing–the morning pressing belonging to the Gāyatrī, and the Gāyatrī being the priesthood 17–then cattle would have come to be with priests only. And had he returned at the midday pressing–the midday pressing belonging to Indra, and Indra being the nobility–cattle would have come to be with nobles only. But in that he returned at the evening pressing–the evening pressing belonging to the All-gods, and the All-gods being everything here–therefore there are cattle everywhere here.

  1. उपलब्धेषु सर्वेष्वपि पुस्तकेषु शतपथब्राह्मणीयचतुर्थकाण्डरयैतदन्तमेव सायणभाष्यं दृश्यते । एतदारभ्य काण्डसमाप्तिपर्यन्तं हरिस्वामिकृतं भाष्यमेव सर्वत्र विद्यते । अतस्तदेव संगृह्यते । काण्डस्यावशिष्टं सायणीयं भाष्यं लुप्तकल्पतामुपगतमिति मंतव्यम्, तदन्वेषणे च यावच्छक्यं प्रयतनीयं प्राच्यवैदिकवाङ्मयसंशोधकैः ॥ इति ॥ ↩︎

  2. 357:1 Viz. that of Yajña, the sacrificial man, representing the sacrificer himself, with a view to the preparation of a new body in a future existence. ↩︎

  3. 357:2 See IV, 3, 3, 12. ↩︎

  4. भक्षयित्वेडामुपाँ श्वंतर्यामपात्रयोरन्यतरेण सावित्रग्रहणं व्वाममद्येति काले पात्नीवतमितरेण । का० श्रौ० सू० १० । ११४ । ↩︎ ↩︎

  5. 358:1 See IV, 1, 1, 1. ↩︎

  6. इह ‘देवाय त्वा सवित्रे’ इति संहितायां पाठः । ↩︎

  7. 359:1 See p. 351, note 1. ↩︎

  8. अभक्षितेन महावैश्वदेवग्रहणमुपयामगृहीतो ऽसि सुशर्म्मा ऽसीति । का. श्रौ. सू. १० । ११६ । ↩︎

  9. 359:2 Lit. ‘with the not-drunk-from vessel.’ He is not to drink with the Hotr̥ the remains of the Sāvitra graha, which is to be offered up entirely (holocaust). ↩︎

  10. 359:3 In Ait. Br. III, 31 five classes of beings, viz. the gods and men, the Gandharva-Apsaras, the serpents and the manes, are included in the term Viśve Devāḥ. ↩︎

  11. 360:1 The first śastra of the Tr̥tīya-savana, now about to be recited by the Hotr̥ (Rig-veda priest), is the Vaiśvadeva śastra; hence also, he argues, it is Vaiśvadeva on the part of the Sāman, because of the intimate connection of the Sāman chants (here the Tr̥tīya, or Ārbhava, pavamāna stotra; see p. 325, note 2) with the śastras. ↩︎

  12. 360:2 See p. 268, note 1. ↩︎

  13. 361:1 He remains thus seated till the Hotr̥ utters the Āhāva ‘Adhvaryo śośaṁsāvom’ (Adhvaryu, let us sing!), when he turns round and makes his response (pratigara) ‘Śamsāmo daivom.’ See p. 326, note 1. ↩︎

  14. एकया च दशभिश्चेति ऋक् वैश्वदेवशस्त्रे पठ्यते । तत्राश्वलायनानां पाठस्त्वेवम्- एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विंशत्या चों ३ । तिसृभिश्च वहसे त्रिंशता च । नियुद्भिर्वायविहामुंचो ३ इति । शांखायनानां पाठश्चैवम्- एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विंशती चो ३ । तिसृभिश्च वहसे त्रिंशता च । नियुद्भिर्वायविह ता विमुंचो ३ इति । माध्यंदिनसंहितायां २७-३३ शतपथोक्तानुपूर्वीक एव मंत्रः । अत्र- स यत्रेताँ होता शंसति । एकया चेत्युपक्रमे होतुरुपादानात् शांखायनार्ग्वेदिक्या ऋच एव पाठाच्च योगीश्वरमहर्षिणा याज्ञवल्क्येन स्पष्टं निर्णीतम् । वाजसनेयिभिः शांखायनमेव हौत्रमादर्तव्यमिति नाश्वलायनीयमिति । तत्तदृचः पाठाभावादेवावगम्यते । होतुरिति पदेनैव नायं माध्यंदिनसंहितोक्तो मन्त्र इतीयमपि शंका निरस्यते । ↩︎

  15. 361:2 That is, having been rinsed in the Mārjālīya, the three dvidevatya are deposited on the khara by the Pratiprasthātr̥. ↩︎

  16. 362:1 See IV, 1, 3. ↩︎

  17. 362:2 Perhaps we ought to read, with the Kāṇva text, gāyatraṁ vai prātaḥsavanaṁ gāyatraṁ agneś chando brahma vā agnir, brāhmaṇeshu haiva paśavo ’bhavishyan, ’the morning pressing relating to the gāyatrī, and the gāyatrī metre belonging to Agni, and Agni being the priesthood.’ ↩︎