०१

विश्वास-प्रस्तुतिः

त्रया वै᳘ देवाः[[!!]]॥
(०) व्व᳘सवो रुद्रा᳘ ऽआदित्यास्ते᳘षां व्वि᳘भक्तानि स᳘वनानि व्व᳘सूनामेव᳘ प्रातःसवन᳘ᳫं᳘ रुद्रा᳘णां मा᳘ध्यन्दिनᳫँ᳭ स᳘वनमादित्या᳘नां तृतीयसवनं तद्वा ऽअ᳘मिश्रमेव व्व᳘सूनां प्रातःसवनम᳘मिश्रᳫँ᳭ रुद्रा᳘णां मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं मिश्र᳘मादित्या᳘नां तृतीयसवनम्[[!!]]॥

मूलम् - श्रीधरादि

त्रया वै᳘ देवाः[[!!]]॥
(०) व्व᳘सवो रुद्रा᳘ ऽआदित्यास्ते᳘षां व्वि᳘भक्तानि स᳘वनानि व्व᳘सूनामेव᳘ प्रातःसवन᳘ᳫं᳘ रुद्रा᳘णां मा᳘ध्यन्दिनᳫँ᳭ स᳘वनमादित्या᳘नां तृतीयसवनं तद्वा ऽअ᳘मिश्रमेव व्व᳘सूनां प्रातःसवनम᳘मिश्रᳫँ᳭ रुद्रा᳘णां मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं मिश्र᳘मादित्या᳘नां तृतीयसवनम्[[!!]]॥

मूलम् - Weber

त्रया वै᳘ देवाः᳟॥
व᳘सवो रुद्रा᳘ आदित्यास्ते᳘षां वि᳘भक्तानि स᳘वनानि व᳘सूनामेव᳘ प्रातःसवनं᳘ रुद्रा᳘णाम् मा᳘ध्यन्दिनᳫं स᳘वनमादित्यानां तृतीयसवनं तद्वा अ᳘मिश्रमेव व᳘सूनाम् प्रातःसवनम᳘मिश्रं रुद्रा᳘णाम् मा᳘ध्यन्दिनᳫं स᳘वनम् मिश्र᳘मादित्या᳘नां तृतीयसवन᳘म्॥

मूलम् - विस्वरम्

अथ तृतीयसवनग्रहाः ।

आदित्यग्रहः ।

त्रया वै देवाः- वसवो, रुद्रा, आदित्याः । तेषां विभक्तानि सवनानि । वसूनामेव प्रातःसवनम् । रुद्राणाम्माध्यन्दिनं सवनम् । आदित्यानां तृतीयसवनम् । तद्वा ऽअमिश्रमेव वसूनां प्रातःसवनम् । अमिश्रं रुद्राणां माध्यन्दिनं सवनम् । मिश्रमादित्यानां तृतीयसवनम् ॥ १ ॥

सायणः

दक्षिणादानानन्तरं मरुत्वतीयमाहेन्द्रोक्थ्यग्रहाणां यागे कृते माध्यन्दिनं सवनं सन्तिष्ठते । ततस्तृतीयसवनस्योपक्रमे आदित्यग्रहयागः क्रियते । तमेतमादित्यग्रहयागं तृतीयसवनादौ विधातुं प्रस्तौति- त्रया वै देवा इत्यादिना । वसूनामेवेति । ‘प्रातःसवनम्’ गायत्रीछन्दस्कम् । गायत्रीपादश्चाष्टाक्षरः सा चाक्षरगताष्टत्वसंख्या वसुष्वपि विद्यते । “अष्टौ वसवः” इति वसूनामप्यष्टत्वात् । अतः संङ्ख्याद्वारा गायत्रीसम्बन्धाद् गायत्रं प्रातःसवनं वसूनामेव विभक्तम् । एवमुत्तरयोरपि सवनयोः क्रमेण त्रैष्टुभजागतत्वादुक्तप्रकारेण ‘रुद्राणां माध्यन्दिनं सवनम्, आदित्यानां तृतीयसवनम्’ इत्यवगन्तव्यम् । तद्वा अश्रिममिति । प्रातःसवनं केवलं गायत्रमतश्छन्दो ऽन्तरसम्बन्धविरहादमिश्रम् । माध्यन्दिनं सवनं छन्दो ऽन्तरसम्बन्धसहितमपि केवलमिन्द्रदेवत्यमिति तदप्यमिश्रम् । माध्यन्दिनं सवनं केवलमिन्द्रदेवत्यमिति क्वचिच्छ्रूयते । “प्रातःसुतमपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते”- इति । तृतीयसवनं तु छन्दो ऽन्तरसङ्गतत्वान्नानादेवत्यत्वाच्च मिश्रमित्येवं द्रष्टव्यम् । पुरा मिश्रादिति । ‘मिश्रात्’ तृतीयसवनात् पूर्वमित्यर्थः । विधत्ते- स एषो ऽपीत्यादि । ‘संस्थित एव’ इत्येवकारेण माध्यन्दिनसवनसमाप्त्यनन्तरमविलम्ब्याभिधीयते । नन्वादित्यग्रहस्तृतीयसवनस्योपक्रमरूपः, तत्कथम् ? पुरा तृतीयसवनमादित्यात् । नादित्यग्रहस्य प्राक् तृतीयसवनाद्विभेदेन निर्देशः । एवं तर्ह्यनेनैव “पुरा तृतीयसवनात्”- इति वचनेनादित्यग्रहस्तृतीयसवनाद्बहिर्भूत इत्यवगम्यते । अत एव कात्यायनः- “माध्यन्दिनसवनसमाप्तौ प्रसूतीनं भवति” इत्युक्त्वा ऽऽदित्यग्रहं विधाय तत्समाप्तौ प्रसूतान्तं भवति “अत्र सर्पणम्”- इति सर्पणमभिधाय “आदित्यग्रहस्य प्राक् तृतीयसवनश्रुतेः”- (का. श्रौ. सू. १० । ९८)। इति सूत्रयामास ।

प्रकृतादित्यग्रहोपयोगिनीमाख्यायिकामाह- ते हादित्या ऊचुरित्यादिना । यद्वा इति । येनोपायेन मा ‘रक्षांसि न हिंस्युः’ इति विचार्य्येत्यर्थः । ‘वै’ शब्दः स्मरणे ॥ १-५ ॥

Eggeling
  1. Now there are three kinds of gods,–the Vasus, the Rudras, and the Ādityas. Between them the press-feasts are divided: the morning pressing belongs to the Vasus, the midday pressing to the Rudras, and the third pressing to the Ādityas. But the morning pressing belonged to the Vasus exclusively, and the midday pressing to the Rudras exclusively, and the third pressing to the Ādityas conjointly (with others).

०२

विश्वास-प्रस्तुतिः

(न्ते᳘) ते᳘ हादित्या᳘ ऊचुः॥
(र्य᳘) य᳘थेदम᳘मिश्रं व्व᳘सूनां प्रातःसवनम᳘मिश्रᳫँ᳭ रुद्रा᳘णां मा᳘ध्यन्दिनᳫँ᳭स᳘वनमेवं᳘ न इमं᳘ पुरा᳘ मिश्राद्ग्र᳘हं जुहुथे᳘ति तथे᳘ति देवा᳘ अब्रुवंस्ते स᳘ᳫं᳘स्थित ऽएव मा᳘ध्यन्दिने स᳘वने पुरा᳘ तृतीयसवना᳘देत᳘मजुहवुः स᳘ एषो᳘ ऽप्येत᳘र्हि त᳘थैव ग्र᳘हो हूयते स᳘ᳫँ᳘स्थित ऽएव मा᳘ध्यन्दिने स᳘वने पुरा᳘ तृतीयसवनात्[[!!]]॥

मूलम् - श्रीधरादि

(न्ते᳘) ते᳘ हादित्या᳘ ऊचुः॥
(र्य᳘) य᳘थेदम᳘मिश्रं व्व᳘सूनां प्रातःसवनम᳘मिश्रᳫँ᳭ रुद्रा᳘णां मा᳘ध्यन्दिनᳫँ᳭स᳘वनमेवं᳘ न इमं᳘ पुरा᳘ मिश्राद्ग्र᳘हं जुहुथे᳘ति तथे᳘ति देवा᳘ अब्रुवंस्ते स᳘ᳫं᳘स्थित ऽएव मा᳘ध्यन्दिने स᳘वने पुरा᳘ तृतीयसवना᳘देत᳘मजुहवुः स᳘ एषो᳘ ऽप्येत᳘र्हि त᳘थैव ग्र᳘हो हूयते स᳘ᳫँ᳘स्थित ऽएव मा᳘ध्यन्दिने स᳘वने पुरा᳘ तृतीयसवनात्[[!!]]॥

मूलम् - Weber

ते᳘ हादित्या᳘ ऊचुः॥
य᳘थेदम᳘मिश्रं व᳘सूनां प्रातःसवनम᳘मिश्रं रुद्रा᳘णाम् मा᳘ध्यन्दिनᳫं स᳘वनमेवं᳘ न इम᳘म् पुरा᳘ मिश्राद्ग्र᳘हं जुहुथे᳘ति तथे᳘ति देवा᳘ अब्रुवंस्ते स᳘ᳫं᳘स्थित एव मा᳘ध्यन्दिने स᳘वने पुरा᳘ तृतीयसवना᳘देत᳘मजुहवुः स᳘ एषो᳘ ऽप्येत᳘र्हि त᳘थैव ग्र᳘हो हूयते स᳘ᳫं᳘स्थित एव मा᳘ध्यन्दिने स᳘वने पुरा᳘ तृतीयसवना᳘त्॥

मूलम् - विस्वरम्

ते हादित्या ऊचुः- यथेदममिश्रं वसूनां प्रातःसवनम्, अमिश्रं रुद्राणां माध्यन्दिनं सवनम्, एवं न इमं पुरा मिश्राद्ग्रहं जुहुथेति । तथेति देवा अब्रुवन् । ते संस्थित ऽएव माध्यन्दिने सवने पुरा तृतीयसवनादेतमजुहवुः । स एषो ऽप्येतर्हि तथैव ग्रहो हूयते- संस्थित ऽएव माध्यन्दिने सवने पुरा तृतीयसवनात् ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. The Ādityas then said, ‘As that morning pressing belongs exclusively to the Vasus, and that midday pressing exclusively to the Rudras, so offer ye now to us a libation before the common (pressing).’ The gods said, ‘So be it!’ After the completion of the midday pressing, they offered that (libation) previous to the third pressing 1. And in like manner is that libation offered to this day after the completion of the midday pressing and previous to the third pressing.

०३

विश्वास-प्रस्तुतिः

(त्ते᳘) ते᳘ हादित्या᳘ ऊचुः᳘॥
(र्ने) नेव वा ऽइ᳘तरस्मिन्त्स᳘वने स्मो᳘ नेवे᳘तरस्मिन्यद्वै᳘ नो र᳘क्षाᳫँ᳭सि न᳘ हिᳫँ᳭ स्युरि᳘ति॥

मूलम् - श्रीधरादि

(त्ते᳘) ते᳘ हादित्या᳘ ऊचुः᳘॥
(र्ने) नेव वा ऽइ᳘तरस्मिन्त्स᳘वने स्मो᳘ नेवे᳘तरस्मिन्यद्वै᳘ नो र᳘क्षाᳫँ᳭सि न᳘ हिᳫँ᳭ स्युरि᳘ति॥

मूलम् - Weber

ते᳘ हादित्या᳘ ऊचुः᳟᳟॥
नेव वा इ᳘तरस्मिन्त्स᳘वने स्मोॗ नेवेतरस्मिन्यद्वै᳘ नो र᳘क्षांसि न᳘ हिंस्युरि᳘ति॥

मूलम् - विस्वरम्

ते हादित्या ऊचुः- नेव वा ऽइतरस्मिन्त्सवने स्मो, नेवेतरस्मिन् । यद्वै नो रक्षांसि न हिंस्युरिति ॥ ३ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. The Ādityas said, ‘Neither in the one pressing have we a share nor in the other: we fear lest the Rakshas might injure us!’

०४

विश्वास-प्रस्तुतिः

ते᳘ ह द्विदेव᳘त्यानूचुः॥
(चू) र᳘क्षोभ्यो वै᳘ बिभीमो ह᳘न्त युष्मा᳘न् प्रविशामे᳘ति॥

मूलम् - श्रीधरादि

ते᳘ ह द्विदेव᳘त्यानूचुः॥
(चू) र᳘क्षोभ्यो वै᳘ बिभीमो ह᳘न्त युष्मा᳘न् प्रविशामे᳘ति॥

मूलम् - Weber

ते᳘ ह द्विदेव᳘त्यानूचुः॥
र᳘क्षोभ्यो वै᳘ बिभीमो ह᳘न्त युष्मा᳘न्प्रविशामे᳘ति॥

मूलम् - विस्वरम्

ते ह द्विदेवत्यानूचुः- रक्षोभ्यो वै बिभीमो, हन्त युष्मान्प्रविशामेति ॥ ४ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. They said to the (cups) belonging to two deities (dvidevatya 2), ‘We are afraid of the Rakshas: pray, let us enter into you!’

०५

विश्वास-प्रस्तुतिः

ते᳘ ह द्विदेव᳘त्या ऊचुः॥
कि᳘मस्मा᳘कं त᳘तः स्यादि᳘त्यस्मा᳘भिरनुव᳘षट्कृता भविष्यथे᳘त्यु᳘ हादित्या᳘ ऽऊचुस्तथे᳘ति ते᳘ द्विदेव᳘त्यान्प्रा᳘विशन्॥

मूलम् - श्रीधरादि

ते᳘ ह द्विदेव᳘त्या ऊचुः॥
कि᳘मस्मा᳘कं त᳘तः स्यादि᳘त्यस्मा᳘भिरनुव᳘षट्कृता भविष्यथे᳘त्यु᳘ हादित्या᳘ ऽऊचुस्तथे᳘ति ते᳘ द्विदेव᳘त्यान्प्रा᳘विशन्॥

मूलम् - Weber

ते᳘ ह द्विदेव᳘त्या ऊचुः॥
कि᳘मस्मा᳘कं त᳘तः स्यादि᳘त्यस्मा᳘भिरनुव᳘षट्कृता भविष्यथेत्यु हादित्या᳘ 3 ऊचुस्तथे᳘ति ते᳘ द्विदेव᳘त्यान्प्राविशन्॥

मूलम् - विस्वरम्

ते ह द्विदेवत्या ऊचुः- किमस्माकं ततः स्यादिति । अस्माभिरनुवषट्कृता भविष्यथ- इत्यु हादित्या ऊचुः । तथेति ते द्विदेवत्यान् प्राविशन् ॥ ५ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. The Dvidevatyas said, ‘What will be our reward then?’–‘By us ye shall be supplied with the Anuvashaṭ 4!’, said the Ādityas.–‘So be it!’–They entered into the dvidevatya cups.

०६

विश्वास-प्रस्तुतिः

(न्त्स) स य᳘त्र प्रातःसवने᳘॥
द्विदेव᳘त्यैः प्रच᳘रति त᳘त्प्रतिप्रस्था᳘ता ऽऽदित्यपात्रे᳘ण द्रोणकलशा᳘त्प्रतिनि᳘गृह्णीत ऽउपयाम᳘गृहीतो ऽसी᳘त्येता᳘वताध्वर्यु᳘रे᳘वाश्राव᳘यत्यध्वर्योर᳘नु हो᳘मं जुहोति प्रतिप्रस्था᳘ता ऽऽदित्ये᳘भ्यस्त्वे᳘ति सᳫँ᳭स्रवम᳘वनयत्येता᳘वतैव᳘मेव स᳘र्व्वेषु॥

मूलम् - श्रीधरादि

(न्त्स) स य᳘त्र प्रातःसवने᳘॥
द्विदेव᳘त्यैः प्रच᳘रति त᳘त्प्रतिप्रस्था᳘ता ऽऽदित्यपात्रे᳘ण द्रोणकलशा᳘त्प्रतिनि᳘गृह्णीत ऽउपयाम᳘गृहीतो ऽसी᳘त्येता᳘वताध्वर्यु᳘रे᳘वाश्राव᳘यत्यध्वर्योर᳘नु हो᳘मं जुहोति प्रतिप्रस्था᳘ता ऽऽदित्ये᳘भ्यस्त्वे᳘ति सᳫँ᳭स्रवम᳘वनयत्येता᳘वतैव᳘मेव स᳘र्व्वेषु॥

मूलम् - Weber

स य᳘त्र प्रातःससवने᳟॥
द्विदेव᳘त्यैः प्रच᳘रति त᳘त्प्रतिप्रस्थाॗतादित्यपात्रे᳘ण द्रोणकलशा᳘त्प्रतिनि᳘गृह्णीत उपयाम᳘गृहीतो ऽसी᳘त्येता᳘वताध्वर्यु᳘रेॗवाश्राव᳘यत्यध्वर्योर᳘नु हो᳘मं जुहोति प्रतिप्रस्थाॗतादित्ये᳘भ्यस्त्वे᳘ति संस्रवम᳘वनयत्येता᳘वतैव᳘मेव स᳘र्वेषु॥

मूलम् - विस्वरम्

स यत्र प्रातःसवने द्विदेवत्यैः प्रचरति- तत् प्रतिप्रस्थाता ऽऽदित्यपात्रेण द्रोणकलशात्प्रतिनिगृह्णीते । “उपयामगृहीतो ऽसि”- (वा० सं० ८ । १) इति । एतावता ऽध्वर्युरेवाश्रावयति । अध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता । “आदित्येभ्यस्त्वा”- (वा० सं० ८ । १) इति । संस्रवमवनयत्येतावता । एवमेव सर्वेषु ॥ ६ ॥

सायणः

अस्माभिरनुवषट्कृता भविष्यथ इति प्रतिश्रुतं द्विदेवत्यानामनुवषट्कारं दर्शयितुं द्विदेवत्ययागकाले तदुपयुक्तं प्रयोगमाह- स यत्रेत्यादि 5 । ‘सः’ अध्वर्युः प्रातःसवने यदा ‘द्विदेवत्यैः प्रचरति’ । तदा ‘प्रतिप्रस्थाता’ ‘आदित्यपात्रेण’ ‘द्रोणकलशात् प्रतिनिगृह्णीते’ द्विदेवत्यग्रहस्य द्वितीयत्वेन गृह्णीते । तत्र “उपयामगृहीतो ऽसि”- इति एतावन्मन्त्रः । अध्वर्युरेवाश्रावयेत् । न पुनः प्रतिप्रस्थाता । अध्वर्युणा कृतं होममनुलक्ष्य जुहुयात् । आदित्यस्थाल्यामासिञ्चति 6 । “आदित्येभ्यस्त्वा”- इति ‘सर्वेषु’ ऐन्द्रवायवमैत्रावरुणाश्विनेषु एवमेव उक्तप्रकारेणैव प्रतिनिग्रहणादिकं कुर्यादित्यर्थः ॥ ६ ॥

Eggeling
  1. Hence, when at the morning pressing he (the Adhvaryu) proceeds with the dvidevatya cups, the Pratiprasthātr̥ draws Soma juice from the Droṇakalaśa into the Āditya vessel, with this much (of the formula, Vāj. S. VIII, I), ‘Thou art taken with a support!’ The Adhvaryu calls for the (Agnīdh’s) Śraushaṭ, and after the Adhvaryu’s libation the Pratiprasthātr̥ pours (his juice into the fire), and with this much ‘Thee to the Ādityas!’ he pours the remains (into the Āditya-sthālī). In the same way at all (three dvidevatya libations).

०७

विश्वास-प्रस्तुतिः

तद्य᳘त्प्रतिप्रस्थाता᳘ प्रतिनिगृह्णीते᳘॥
द्विदेव᳘त्यान्वै प्रा᳘विशन्नस्मा᳘भिरनुव᳘षट्कृता भविष्यथे᳘त्यु᳘ हादित्या ऊचुर्यां वा᳘ ऽअमूं᳘ द्विती᳘यामा᳘हुतिं जुहो᳘ति स्विष्टकृ᳘ते वै तां᳘ जुहोति स्विष्टकृ᳘तो वा᳘ ऽए᳘ते ऽनुव᳘षट्क्रियन्ते त᳘थो हास्यै᳘ते ऽनुव᳘षट्कृता ऽइष्ट᳘स्विष्टकृतो भवन्त्युत्तरार्द्धे᳘ जुहोत्येषा᳘ ह्येत᳘स्य देव᳘स्य दिक्त᳘स्मादुत्तरार्द्धे᳘ जुहोति॥

मूलम् - श्रीधरादि

तद्य᳘त्प्रतिप्रस्थाता᳘ प्रतिनिगृह्णीते᳘॥
द्विदेव᳘त्यान्वै प्रा᳘विशन्नस्मा᳘भिरनुव᳘षट्कृता भविष्यथे᳘त्यु᳘ हादित्या ऊचुर्यां वा᳘ ऽअमूं᳘ द्विती᳘यामा᳘हुतिं जुहो᳘ति स्विष्टकृ᳘ते वै तां᳘ जुहोति स्विष्टकृ᳘तो वा᳘ ऽए᳘ते ऽनुव᳘षट्क्रियन्ते त᳘थो हास्यै᳘ते ऽनुव᳘षट्कृता ऽइष्ट᳘स्विष्टकृतो भवन्त्युत्तरार्द्धे᳘ जुहोत्येषा᳘ ह्येत᳘स्य देव᳘स्य दिक्त᳘स्मादुत्तरार्द्धे᳘ जुहोति॥

मूलम् - Weber

तद्य᳘त्प्रतिप्रस्थाता᳘ प्रतिनिगृह्णीते᳟॥
द्विदेव᳘त्यान्वै प्रा᳘विशन्नस्मा᳘भिरनुव᳘षट्कृता भविष्यथे᳘त्यु हादित्या 7 ऊचुर्यां वा᳘ अमूं᳘ द्विती᳘यामा᳘हुतिं जुहो᳘ति स्विष्टकृ᳘ते वै तां᳘ जुहोति स्विष्टकृ᳘तो वा᳘ एॗते ऽनुव᳘षट्क्रियन्ते त᳘थो हास्यैॗते ऽनुव᳘षट्कृता इष्ट᳘स्विष्टकृतो भवन्त्युत्तरार्धे᳘ जुहोत्येषाॗ ह्येत᳘स्य देव᳘स्य दिक्त᳘स्मादुत्तरार्धे᳘ जुहोति॥

मूलम् - विस्वरम्

तद् यत्प्रतिप्रस्थाता प्रतिनिगृह्णीते । द्विदेवत्यान्वै प्राविशन् । अस्माभिरनुवषट्कृता भविष्यथ- इत्यु हादित्या ऊचुः । यां वा अमूं द्वितीयामाहुतिं जुहोति- स्विष्टकृते वै तां जुहोति । स्विष्टकृतो वा एते ऽनुवषट्क्रियन्ते । तथो हास्यैते ऽनुवषट्कृता इष्टस्विष्टकृतो भवन्ति । उत्तरार्द्धे जुहोति । एषा ह्येतस्य देवस्य दिक् । तस्मादुत्तरार्द्धे जुहोति ॥ ७ ॥

सायणः

प्रतिप्रस्थातृकृतया द्वितीयाहुत्या द्विदेवत्यानामनुवषट्कारसिद्धिमाह- यां वा अमूमिति । ‘याम्’ ‘अमूम्’ ‘द्वितीयामाहुतिं जुहोति’ स्विष्टकृदर्थं हि तां करोति । यतः ‘एते’ सर्वे ऽपि ग्रहाः ‘स्विष्टकृतः’ अर्थे ऽनुवषट्क्रियन्ते । सोमस्याग्रे “वीही वौषट्” इत्यनेन क्रियमाणो होमो ऽनुवषट्कारः । ‘तथो ह’ तथैवेतरग्रहवद् ‘अस्य’ यज्ञस्य सम्बन्धिनः ‘एते’ द्विदेवत्या अपि प्रतिप्रस्थातृकृतया ऽऽहुत्या ऽनुवषट्कृताः । अत एव ‘स्विष्टकृतो भवन्ति’ । उक्तहोमस्योत्तरार्द्धं देशं विधत्ते- उत्तरार्द्धे जुहोतीत्यादि । एषा हीति । ‘एतस्य देवस्य’ स्विष्टकृतो ऽग्नेः सम्बन्धिनी ‘एषा’ उत्तरा ‘दिक्’ । अग्निरिति । रुद्रस्य तूत्तरा दिगिति श्रुतिषु प्रसिद्धम् । “एषा वै रुद्रस्य दिक्” (तै. सं. ५ । ४ । ३) इत्यादिश्रुतेः ॥ ७ ॥

Eggeling
  1. Thus, the reason why the Pratiprasthātr̥ draws the Soma-juice, is that they entered into the dvidevatya cups. And the Ādityas then said, ‘By us ye shall be supplied with the Anuvashaṭ!’ For, that second libation which he (the Pratiprasthātr̥) makes, he makes to (Agni) Svishṭakr̥t, and by means of the Svishṭakr̥t these (dvidevatyas) are supplied with the Anuvashaṭ; and thus those (libations) of

his are supplied with the Anuvashaṭ, having the (oblation to Agni) Svishṭakr̥t performed for them. He offers on the north part (of the fire), for that is the region of that god 8: hence he offers on the north part.

०८

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ प्रतिप्रस्थाता᳘ प्रतिनिगृह्णीते᳘॥
द्विदेव᳘त्यान्वै प्रा᳘विशन्त्स या᳘नेव प्रा᳘विशंस्ते᳘भ्य ए᳘वैतन्नि᳘र्मिमीते ऽथा᳘पि दधाति र᳘क्षोभ्यो ह्य᳘बिभयुर्व्वि᳘ष्ण ऽउरुगायैष᳘ ते सो᳘मस्त᳘ᳫँ᳘ रक्षस्व मा᳘ त्वा दभन्नि᳘ति यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञा᳘यै᳘वैतत्प᳘रिददाति गु᳘प्त्या ऽअ᳘थाह स᳘ᳫँ᳘स्थित ऽएव मा᳘ध्यन्दिने स᳘वने पुरा᳘ तृतीयसवनादे᳘हि यजमाने᳘ति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ प्रतिप्रस्थाता᳘ प्रतिनिगृह्णीते᳘॥
द्विदेव᳘त्यान्वै प्रा᳘विशन्त्स या᳘नेव प्रा᳘विशंस्ते᳘भ्य ए᳘वैतन्नि᳘र्मिमीते ऽथा᳘पि दधाति र᳘क्षोभ्यो ह्य᳘बिभयुर्व्वि᳘ष्ण ऽउरुगायैष᳘ ते सो᳘मस्त᳘ᳫँ᳘ रक्षस्व मा᳘ त्वा दभन्नि᳘ति यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञा᳘यै᳘वैतत्प᳘रिददाति गु᳘प्त्या ऽअ᳘थाह स᳘ᳫँ᳘स्थित ऽएव मा᳘ध्यन्दिने स᳘वने पुरा᳘ तृतीयसवनादे᳘हि यजमाने᳘ति॥

मूलम् - Weber

य᳘द्वेव᳘ प्रतिप्रस्थाता᳘ प्रतिनिगृह्णीते᳟॥
द्विदेव᳘त्यान्वै प्रा᳘विशन्त्स या᳘नेव प्रा᳘विशंस्ते᳘भ्य एॗवैतन्नि᳘र्मिमीते ऽथा᳘पिदधाति र᳘क्षोभ्यो ह्य᳘बिभयुर्वि᳘ष्ण उरुगायैष᳘ ते सो᳘मस्तं᳘ रक्षस्व मा᳘ त्वा दभन्नि᳘ति यज्ञो वै वि᳘ष्णुस्त᳘द्यज्ञा᳘यैॗवैतत्प᳘रिददाति गु᳘प्त्या अ᳘थाह स᳘ᳫं᳘स्थित एव मा᳘ध्यन्दिने स᳘वने पुरा᳘ तृतीयसवनादे᳘हि यजमाने᳘ति॥

मूलम् - विस्वरम्

यद्वेव प्रतिप्रस्थाता प्रतिनिगृह्णीते । द्विदेवत्यान्वै प्राविशन् । स यानेव प्राविशन्- तेभ्य एवैतन्निर्मिमीते । अथापिदधाति रक्षोभ्यो ह्यबिभयुः । “विष्ण ऽउरुगायैष ते सोमस्तं रक्षस्व मा त्वा दभन्”- (वा. सं. ८ । १) इति । यज्ञो वै विष्णुः । तद् यज्ञायैवैतत् परिददाति गुप्त्यै । अथाह- संस्थिते एव माध्यन्दिने सवने पुरा तृतीयसवनाद् एहि यजमान इति ॥ ८ ॥

सायणः

विहितं प्रतिनिग्रहणं द्विदेवत्यसंसृष्टादित्योत्पादकत्वेन च प्रशंसति- यद्वेवेति । द्विदेवत्यग्रहयागानन्तरमादित्यपात्रेणादित्यस्थाल्याच्छादनं समन्त्रकं विधत्ते- अथेत्यादि । अत्र कात्यायनः- “समासिच्य तेनापिदधाति विष्ण उरुगाय”- (का. श्रौ. सू. ९ । २०७) इति । तेनेति । प्रकृतत्वादादित्यपात्रेण स्थालीमपिदध्यादित्युदाहृतसूत्रस्यार्थः । रक्षोभ्यो हीति । पिधानस्य प्रयोजनाभिधानम् । हे ‘विष्णो !’ यज्ञ ‘उरुगाय’ विस्तीर्णव्याप्ते । ‘एषः’ सोमः तव सम्बन्धी, अतः त्वं ‘रक्षस्व’ गोपाय ‘त्वा’ त्वां ‘रक्षांसि’ ‘मा दभन्’ मा हिंसिषुः इति मन्त्रस्यार्थः । ‘यज्ञो वै विष्णुः’ इत्यादिना मन्त्रोच्चारणस्य प्रयोजनमभिधीयते । द्विदेवत्यग्रहशेषैरादित्यग्रहो गृह्यते; अतः “ते हादित्या ऊचुः”- (श. प. ४ । ३ । ५ । २) इत्यादिना । ‘अथापिदधाति यज्ञायैवैतत् परिददाति गुप्त्यै’ इत्यन्तेन तच्छेषप्राप्तिप्रचारः प्रदर्शितः ।

अथ विहिते काले ग्रहस्य ग्रहणात् प्राक्कर्तव्यमनुष्ठानविशेषं विधत्ते- अथाह संस्थित एवेत्यादिना । यो ऽन्यः परिचरो भवतीति । ‘यः’ च ‘अन्यः’ जनः परिचरवर्ती ‘भवति’ अत्र परिचर इत्यनेन पत्नी विवक्ष्यते, सा हि हविर्द्धानं प्रपद्यते । तथा च कात्यायनः- “हविर्द्धानं प्रविशन्ति अध्वर्युयजमानप्रतिप्रस्थात्रग्नीदुन्नेतारः । पत्नी चापरेण”- (का. श्रौ. सू. १० । ८८, ८९) इति । स उपर्युपरीति । ‘पूतभृतमुपर्युपरि’ पूतभृतः समीप उपरिप्रदेशे । “उपर्यध्यधसः सामीप्ये”- (पा. सू. ८ । १ । ७) इति द्विर्भावः । “धिगुपर्यादिषु त्रिषु । द्वितीया ऽऽम्रेडितान्तेषु” (पा. सू. १ । ४ । ४८ वा. २) इति द्वितीया । तच्च नैव भूमौ सोमबिन्दुः क्षरत्वित्यभिप्रायेण गृह्णीयादित्यर्थः ॥ ८ ॥ ९ ॥

Eggeling
  1. And again, why the Pratiprasthātr̥ draws the Soma. They entered into the Dvidevatyas; and from those which they entered he thereby draws them out. He then covers it 9–for they were afraid of the Rakshas–with ‘O Vishṇu, Far-strider, here is thy Soma, protect it lest they should injure it!’ For Vishṇu is the sacrifice: to the sacrifice he thus makes it over for protection. Now, after the completion of the midday Soma feast and before the evening feast he says, ‘Come hither, Sacrificer!’

०९

विश्वास-प्रस्तुतिः

ते᳘ संप्रप᳘द्यन्ते॥
(न्ते ऽध्व) अध्वर्यु᳘श्च य᳘जमानश्चा᳘ग्नीध्रश्च प्रतिप्रस्थाता᳘ चोन्नेता᳘ ऽथ᳘ यो ऽन्यः᳘ परिचरो भ᳘वत्युभे द्वा᳘रे ऽअ᳘पिदधति र᳘क्षोभ्यो ह्य᳘बिभयुर᳘थाध्वर्यु᳘रादित्यस्थालीं᳘ चादित्यपात्रं चा᳘दत्ते स᳘ उप᳘र्युपरि पूतभृ᳘तं व्वि᳘गृह्णाति ने᳘द्व्यवश्चो᳘तदिति[[!!]]॥

मूलम् - श्रीधरादि

ते᳘ संप्रप᳘द्यन्ते॥
(न्ते ऽध्व) अध्वर्यु᳘श्च य᳘जमानश्चा᳘ग्नीध्रश्च प्रतिप्रस्थाता᳘ चोन्नेता᳘ ऽथ᳘ यो ऽन्यः᳘ परिचरो भ᳘वत्युभे द्वा᳘रे ऽअ᳘पिदधति र᳘क्षोभ्यो ह्य᳘बिभयुर᳘थाध्वर्यु᳘रादित्यस्थालीं᳘ चादित्यपात्रं चा᳘दत्ते स᳘ उप᳘र्युपरि पूतभृ᳘तं व्वि᳘गृह्णाति ने᳘द्व्यवश्चो᳘तदिति[[!!]]॥

मूलम् - Weber

सम्प्र᳘पद्यन्ते॥
अध्वर्यु᳘श्च य᳘जमानश्चा᳘ग्नीध्रश्च प्रतिप्रस्थाता᳘ चोन्नेता᳘थॗ यो ऽन्यः᳘ परिचरो भ᳘वत्युभे द्वा᳘रे अ᳘पिदधति र᳘क्षोभ्यो ह्य᳘बिभयुर᳘थाध्वर्यु᳘रादित्यस्थालीं᳘ चादित्यपात्रं चा᳘दत्ते स᳘ उप᳘र्युपरि पूतभृ᳘तं वि᳘गृह्णाति ने᳘द्व्यवश्चो᳘तदि᳘ति॥

मूलम् - विस्वरम्

ते सम्प्रपद्यन्ते- अध्वर्युश्च, यजमानश्च, आग्नीध्रश्च, प्रतिप्रस्थाता च, उन्नेता । अथ यो ऽन्यः परिचरो भवति । उभे द्वारे ऽअपिदधाति । रक्षोभ्यो ह्यविभयुः । अथाध्वर्युरादित्यस्थालीं चादित्यपात्रं चादत्ते । स उपर्युपरि पूतभृतं विगृह्णाति- नेद्व्यवश्चोतदिति ॥ ९ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. They enter (the Havirdhāna) together,–the Adhvaryu, Sacrificer, Āgnīdhra, Pratiprasthātr̥, Unnetr̥, and whatever other attendant (of the Adhvaryu) there is 10. They close both doors,–for they (the Ādityas) were afraid of the Rakshas. He (the Adhvaryu) takes up the Āditya-sthālī and Āditya-pātra, and holds them close over the Pūtabhr̥t, ’lest (any Soma juice) should be spilt.’

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ गृह्णाति॥
कदा᳘ चन᳘ स्तरी᳘रसि[[!!]] नेन्द्र᳘ सश्चसि दाशु᳘षे॥ उ᳘पोपेन्नु᳘ मघवन्भू᳘य[[!!]] इन्नु᳘ ते दा᳘नं देव᳘स्य पृच्यत ऽआदित्ये᳘भ्यस्त्वे᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ गृह्णाति॥
कदा᳘ चन᳘ स्तरी᳘रसि[[!!]] नेन्द्र᳘ सश्चसि दाशु᳘षे॥ उ᳘पोपेन्नु᳘ मघवन्भू᳘य[[!!]] इन्नु᳘ ते दा᳘नं देव᳘स्य पृच्यत ऽआदित्ये᳘भ्यस्त्वे᳘ति॥

मूलम् - Weber

अ᳘थ गृह्णाति॥
कदा᳘ चन᳘ स्तरी᳘रसिॗ नेन्द्र सश्चासि दाशु᳘षे उ᳘पोपेन्नु᳘ मघवन्भूय᳘ इन्नु᳘ ते दा᳘नं देव᳘स्य पृच्यत आदित्ये᳘भ्यस्त्वे᳘ति॥

मूलम् - विस्वरम्

अथ गृह्णाति- “कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते, आदित्येभ्यस्त्वा”- (वा. सं. ८ । २) इति ॥ १० ॥

सायणः

समन्त्रकग्रहणं विधत्ते- अथ गृह्णाति कदा 11 चनेत्यादि । हे इन्द्र ! ‘कदा चन’ कदाचिदपि ‘स्तरीः’ हिंसको न भवसि । अथवा स्तरीराच्छादकः स तु विस्तृतं वितत्य धनानामाच्छादको न वितरसि । किंतु ‘दाशुषे’ हविर्दत्तवते यजमानाय फलदानार्थम् ‘सश्चसि’ गच्छसि । ‘उप’ शब्दः पादपूरणे । “प्रसमुपोदः पादपूरणे” (पा. सू. ८ । १ । ६) इति द्विर्वचनम् । ‘इत्’ इत्यवधारणम् । ‘नु’ शब्दः क्षिप्रवचनः । हे मघवन् ! ‘इन्नु’ क्षिप्रमेव ‘देवस्य’ ‘ते’ तव ‘दानन्’ देयं हविः ‘भूय इन्नु’ पुनरेव ‘पृच्यते’ सम्बध्यते । यजमानेन हविर्द्दीयत इत्यर्थः । हे सोमग्रह ! ‘उपयामेन’ गृहीतो ऽसि त्वाम् ‘आदित्येभ्यः’ गृह्णामीति शेषः ॥ १० ॥

Eggeling
  1. He then draws (the juice from the sthālī into the pātra) with (Vāj. S. VIII, 2; Rig-veda VIII, 51, 7), ‘At no time art thou barren, and never failest thou the worshipper, O Indra; but

more and ever more is thy divine gift increased, O mighty lord!–Thee to the Ādityas!’

११

विश्वास-प्रस्तुतिः

तं वै᳘ नोपयामे᳘न गृह्णीयात्॥
(द᳘) अ᳘ग्रे᳘ ह्ये᳘वैष᳘ ऽउपयामे᳘न गृहीतो भ᳘वत्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘देनमत्रा᳘प्युपयामे᳘न गृह्णीयात्[[!!]]॥

मूलम् - श्रीधरादि

तं वै᳘ नोपयामे᳘न गृह्णीयात्॥
(द᳘) अ᳘ग्रे᳘ ह्ये᳘वैष᳘ ऽउपयामे᳘न गृहीतो भ᳘वत्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘देनमत्रा᳘प्युपयामे᳘न गृह्णीयात्[[!!]]॥

मूलम् - Weber

तं वैॗ नोपयामे᳘न गृह्णीयात्॥
अ᳘ग्रेॗ ह्येॗवैष᳘ उपयामे᳘न गृहीतो भ᳘वत्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘देनमत्रा᳘प्युपयामे᳘न गृह्णीया᳘त्॥

मूलम् - विस्वरम्

तं वै नोपयामेन गृह्णीयात् । अग्रे ह्येवैष उपयामेन गृहीतो भवति- अजामितायै । जामि ह कुर्याद् । यदेनमत्राप्युपयामेन गृह्णीयात् ॥ ११ ॥

सायणः

अत्र इन्द्रनामभिरादित्य एव स्तूयते मन्त्रान्ते “उपयामगृहीतो ऽसि”- इत्यस्य निषेधं सकारणमाह- तं वै नोपयामेनेत्यादि । अग्रे हीति । द्विदेवत्यानां यागकाले प्रतिप्रस्थाता उपयामगृहीतो ऽसि गृहीतः खलु । तस्मात्तस्यैतन्मन्त्रशेषत्वादत्र तन्न प्रयोक्तव्यम् । अत एव तत्र उपयामगृहीतो ऽसीत्येतावत्त्यक्तम् । स्पष्टमन्यत् ॥ ११ ॥

Eggeling
  1. Let him not draw it with a ‘support’–for it was originally drawn with a support–to avoid a repetition (of sacrificial performance); but were he now also to draw it with a support, he would certainly commit a repetition.

१२

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थापगृह्य[[!!]] पु᳘नरा᳘नयति॥
कदा᳘ चन प्र᳘युच्छस्युभे नि᳘पासि ज᳘न्मनी॥ तु᳘रीयादित्य स᳘वनं त इन्द्रियमा᳘तस्थावमृ᳘तं दि᳘व्यादित्ये᳘भ्यस्त्वे᳘ति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थापगृह्य[[!!]] पु᳘नरा᳘नयति॥
कदा᳘ चन प्र᳘युच्छस्युभे नि᳘पासि ज᳘न्मनी॥ तु᳘रीयादित्य स᳘वनं त इन्द्रियमा᳘तस्थावमृ᳘तं दि᳘व्यादित्ये᳘भ्यस्त्वे᳘ति॥

मूलम् - Weber

अ᳘थापगृ᳘ह्य पु᳘नरा᳘नयति॥
कदा᳘ चन प्र᳘युछस्युभे नि᳘पासि ज᳘न्मनी तु᳘रीयादित्य स᳘वनं त इन्द्रियमा᳘तस्थावमृ᳘तं दिॗव्यादित्ये᳘भ्यस्त्वे᳘ति॥

मूलम् - विस्वरम्

अथापगृह्य पुनरानयति- “कदा चन प्रयुच्छस्युभे निपासि जन्मनी । तुरीयादित्य सवनं त ऽइन्द्रियमातस्थावमृतं दिव्यादित्येभ्यस्त्वा”- (वा. सं. ८ । ३) इति ॥ १२ ॥

सायणः

उक्तमन्त्रविशिष्टग्रहणानन्तरं पात्रमपगृह्य पुनरपि च समन्त्रकं ग्रहणं विधत्ते- अथापगृह्येत्यादि 12 । अत्र आदित्यग्रह एवामन्त्र्यते । हे ग्रह ! ‘कदा चन’ कदाचिदपि ‘प्रयुच्छसि’ न प्रमाद्यसि । ‘युच्छ प्रमादे’ (धा. पा. भ्वा. प. २१४) इति धातुः । प्रशब्दो ऽत्र धात्वर्थनिवृत्तिवचनः । यथास्मरणमिति यागनिष्पादनरूपं स्वकार्यं प्रति न कदाचिदपि प्रमादं गच्छसीत्यर्थः । तदेवावधानं दर्शयितुमाह- उभे निपासि जन्मनी इति । यजमानस्य वर्तमानभविष्यल्लक्षणे ‘उभे’ ‘जन्मनी’ ‘निपासि’ नियमेन पाहि 13 । अधुना आदित्यमेव चतुर्थसवनत्वेन रूपयन्नामन्त्रयते- हे आदित्यग्रह ! “दित्यदित्या-” (पा. सू. ४ । १ । ८५)- इत्यादिना देवतार्थे ण्यप्रत्ययः । ‘तुरीय’ चतुर्थसवनात्मक, स एको ऽप्येतर्हि तथैव ग्रहो हूयते । संस्थित एव माध्यन्दिने सवने पुरा तृतीयसवनात्पूर्वकालस्य विहितत्वादादित्यग्रहस्य चतुर्थसवनात्मकत्वम् । ‘ते’ तव सम्बन्धि चतुर्थसवनम् ‘इन्द्रियम्’ इन्द्रस्य प्रीतिकरम् ‘दिवि’ द्युलोके ‘अमृतम्’ नास्मिन् मृतमस्तीत्यमृतम्, अमरणहेतुः ‘आतस्थौ’ आस्थितम् । हे सोम ! ‘त्वाम्’ ‘आदित्येभ्यः’ गृह्णामि ॥ १२ ॥

Eggeling
  1. Having withdrawn (the cup for a moment from the flowing juice), he again pours it in with (Vāj. S. VIII, 3; Rig-veda VIII, 52, 7), ‘At no time art thou heedless, but watchest over both generations; the Soma feast 14 is thy strength, O fourth Āditya: the ambrosia is ready for thee in the heavens!–Thee to the Ādityas!’

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ द᳘धि गृह्णाति॥
(त्या) आदित्या᳘नां वै᳘ तृतीयसवन᳘मादित्यान्वा ऽअ᳘नु पश᳘वस्त᳘त्पशु᳘ष्वे᳘वैतत्प᳘यो दधाति त᳘दिदं᳘ पशु᳘षु प᳘यो हितं᳘ मध्यत᳘ ऽइव गृह्णीयादि᳘त्याहुर्मध्यत᳘ ऽइव᳘ हीदं᳘ प᳘शूनां पय[[!!]] इ᳘ति पश्चा᳘दिव᳘ त्वेव᳘ गृह्णीयात्पश्चा᳘दिव᳘ हीदं᳘ पशूनां प᳘यः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ द᳘धि गृह्णाति॥
(त्या) आदित्या᳘नां वै᳘ तृतीयसवन᳘मादित्यान्वा ऽअ᳘नु पश᳘वस्त᳘त्पशु᳘ष्वे᳘वैतत्प᳘यो दधाति त᳘दिदं᳘ पशु᳘षु प᳘यो हितं᳘ मध्यत᳘ ऽइव गृह्णीयादि᳘त्याहुर्मध्यत᳘ ऽइव᳘ हीदं᳘ प᳘शूनां पय[[!!]] इ᳘ति पश्चा᳘दिव᳘ त्वेव᳘ गृह्णीयात्पश्चा᳘दिव᳘ हीदं᳘ पशूनां प᳘यः॥

मूलम् - Weber

अ᳘थ द᳘धि गृह्णाति॥
आदित्या᳘नां वै᳘ तृतीयसवन᳘मादित्यान्वा अ᳘नु पश᳘वस्त᳘त्पशु᳘ष्वेॗवैतत्प᳘यो दधाति त᳘दिद᳘म् पशु᳘षु प᳘यो हित᳘म् मध्यत᳘ इव गृह्णीयादि᳘त्याहुर्मध्यत᳘ इव हीद᳘म् पशूनाम् प᳘य इ᳘ति पश्चा᳘दिवॗ त्वेव᳘ गृह्णीयात्पश्चा᳘दिवॗ हीद᳘म् पशूनाम् प᳘यः॥

मूलम् - विस्वरम्

दधिग्रहः ।

अथ दधि गृह्णाति । आदित्यानां वै तृतीयसवनम्, आदित्यान्वा ऽअनु पशवः । तत् पशुष्वेवैतत्पयो दधाति । तदिदं पशुषु पयो हितम् । मध्यत इव गृह्णीयादित्याहुः । मध्यत इव हीदं पशूनां पय इति । पश्चादिव त्वेव गृह्णीयात् । पश्चादिव हीदं पशूनां पयः ॥ १३ ॥

सायणः

गृहीते सोमरसे दधिग्रहणं सार्थवादं विधत्ते 12- अथ दधि गृह्णातीति । आदित्यान्वा ऽअनु पशवः इति । ‘अनु’- शब्दो ऽत्र “हीने” (पा. सू. १ । ४ । ८६) इति हीनार्थे कर्मप्रवचनीयत्वात् “कर्मप्रवचनीययुक्ते द्वितीया” (पा. सू. १ । ४ । ८३) इति द्वितीया । अत्रादित्यानां वृष्टिप्रदानद्वारा पशूपकारित्वात् प्राधान्यम्, पशूनामुपकार्यत्वाद्धीनत्वम् । अनेनैवाभिप्रायेण तैत्तिरीयके पश्वादित्यानामभेदः श्रूयते- “पशवो वा एते यदादित्यः”- (तै० सं० ६ । ५ । ६ । ४) इति ॥

दधिग्रहणस्य स्थानविषये केषाञ्चिन्मतमुपन्यस्य स्वमतमेव निगमयति- मध्यत इवेत्यादि । ‘इव’- शब्दो वाक्यालङ्कारे । मध्यस्थाने । “सार्वविभक्तिकस्तसिः”- (पा. सू. ५ । ४ । ४४ । वा. १) इति सप्तम्यर्थे तसिः “कदा चन” इत्यादिमन्त्रद्वयसाध्ये द्वे ग्रहणे, तयोर्मध्ये दधि ‘गृह्णीयात्’ । एवं च पशूनां मध्यभागे पयसो ऽवस्थानान्मध्य एव पयो निहितं भवतीति केचिच्छाखिन आहुः । एतच्च तैत्तिरीयकशाखामतम् । तत्र- “दध्ना मध्यतः श्रीणात्यूर्जमेव पशूनां मध्यतो दधाति”- (तै० सं० ६ । ५ । ६ । ४) इत्याम्नातत्वात् । नैतदादरणीयम् । किन्तु प्रग्रहणादनन्तरमेव ‘गृह्णीयात्’ । यतः ‘पशूनां पयः’ पश्चाद्भाग एवावतिष्ठत इत्यर्थः । अत्र पयसो मध्यभागावस्थानमात्रमभिप्रेत्य शाखान्तरीयैर्मध्यतो ग्रहणमभिहितम् । पशूनां मध्यशरीरे पयो नावतिष्ठते, किंतु शरीरस्य पश्चाद्भागे ऽवतिष्ठते । अतः पश्चादेव ग्रहणं युक्तमित्येतद्ब्राह्मणस्याभिप्रायः ॥ १३ ॥

Eggeling
  1. Thereupon he takes sour milk; for the evening pressing belongs to the Ādityas, and cattle are after (the manner of) the Ādityas 15: he thereby puts milk into the cattle, and thus that milk in cattle is beneficial 16. ‘He should put it right in the centre (of the Āditya cup),’ they say, ‘for that milk is right in the centre of cattle.’ But let him rather put it in the back part (of the cup), for that milk is in the hind part of cattle.

१४

विश्वास-प्रस्तुतिः

(यो) य᳘द्वेव द᳘धि गृह्णा᳘ति॥
हुतोच्छिष्टा वा᳘ ऽएते᳘ सᳫँ᳭स्रवा᳘ भवन्ति ना᳘लमा᳘हुत्यै ता᳘ने᳘वैतत्पु᳘नरा᳘प्याययति तथा᳘ ऽलमा᳘हुत्यै भवन्ति त᳘स्माद्दधि[[!!]] गृह्णाति॥

मूलम् - श्रीधरादि

(यो) य᳘द्वेव द᳘धि गृह्णा᳘ति॥
हुतोच्छिष्टा वा᳘ ऽएते᳘ सᳫँ᳭स्रवा᳘ भवन्ति ना᳘लमा᳘हुत्यै ता᳘ने᳘वैतत्पु᳘नरा᳘प्याययति तथा᳘ ऽलमा᳘हुत्यै भवन्ति त᳘स्माद्दधि[[!!]] गृह्णाति॥

मूलम् - Weber

य᳘द्वेव द᳘धि गृह्णा᳘ति॥
हुतोछिष्टा वा᳘ एते᳘ संस्रवा᳘ भवन्ति ना᳘लमा᳘हुत्यै ता᳘नेॗवैतत्पु᳘नरा᳘प्याययति तथा᳘लमा᳘हुत्यै भवन्ति त᳘स्माद्द᳘धि गृह्णाति॥

मूलम् - विस्वरम्

यद्वेव दधि गृह्णाति । हुतोच्छिष्टा वा ऽएते संस्रवा भवन्ति- नालमाहुत्यै । तानेवैतत्पुनराप्याययति । तथा ऽलमाहुत्यै भवन्ति । तस्माद्दधि गृह्णाति ॥ १४ ॥

सायणः

दधिग्रहणमादित्यग्रहस्य सम्पूर्णताहेतुत्वेन प्रशंसति- यद्वेव दधि गृह्णातीत्यादि । ‘एते’ आदित्यग्रहार्थाः सोमाः हुतोच्छिष्टत्वात् संस्रावणीयाः प्रतिपत्त्यर्हाः सन्त आहुत्यर्थं ‘न’ पर्याप्ताः ‘भवन्ति’ । एत इति बहुवचनं द्विदेवत्यग्रहगतसोमापेक्षम् । तस्मात् ‘तानेव’ सोमानेतेन दधिग्रहणेन समर्द्धयति । समर्द्धिताः ‘आहुत्यै’ पर्याप्ताः ‘भवन्ति’ इति ‘दधि गृह्णीयात्’ इत्यर्थः ॥ १४ ॥

Eggeling
  1. And the reason why he takes sour milk is that those remains (of Soma) poured together are the leavings of offerings, and insufficient for an oblation: he now increases those (remains), and thus they

become sufficient for an oblation. This is why he takes sour milk.

१५

विश्वास-प्रस्तुतिः

स᳘ गृह्णाति॥
यज्ञो᳘ देवा᳘नां प्र᳘त्येति सुम्नमा᳘दित्यासो भ᳘वता मृडय᳘न्तः। आ᳘ वो ऽर्व्वा᳘ची सुमति᳘र्व्ववृत्यादᳫँ᳭हो᳘श्चिद्या᳘ व्वरिवोवि᳘त्तरा᳘ ऽसदादित्ये᳘भ्यस्त्वे᳘ति॥

मूलम् - श्रीधरादि

स᳘ गृह्णाति॥
यज्ञो᳘ देवा᳘नां प्र᳘त्येति सुम्नमा᳘दित्यासो भ᳘वता मृडय᳘न्तः। आ᳘ वो ऽर्व्वा᳘ची सुमति᳘र्व्ववृत्यादᳫँ᳭हो᳘श्चिद्या᳘ व्वरिवोवि᳘त्तरा᳘ ऽसदादित्ये᳘भ्यस्त्वे᳘ति॥

मूलम् - Weber

स᳘ गृह्णाति॥
यज्ञो᳘ देवा᳘नाम् प्र᳘त्येति सुम्नमा᳘दित्यासो भ᳘वता मृडय᳘न्तः आ᳘ वो ऽर्वा᳘ची सुमति᳘र्ववृत्यादंहो᳘श्चिद्या᳘ वरिवोवि᳘त्तरा᳘सदादित्ये᳘भ्यस्त्वे᳘ति॥

मूलम् - विस्वरम्

स गृह्णाति- “यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरा ऽसद् । आदित्येभ्यस्त्वा”- (वा० सं० ८ । ४) इति ॥ १५ ॥

सायणः

विहिते दधिग्रहणे मन्त्रं विनियुङ्क्ते- स गृह्णाति यज्ञो देवानामित्यादि (का. श्रौ. सू. १० । ९१) । यो ऽस्मदीयो ‘यज्ञो’ ‘देवानाम्’ आदित्यानाम् ‘सुम्नम्’ सुखं (निघं० ३ । ६ । १६) सम्पादयितुम् ‘प्रत्येति’ प्राप्नोति । यज्ञे हविःप्रदानेन देवानां तृप्तिसम्पादनसुखमुत्पद्यते । तस्माद् हे ‘आदित्यासः’ आदित्याः ! “आज्जसेरसुक्"- (पा० सू० ७ । १ । ५०) इति असुगागमः । ‘मृडयन्तः’ अस्मान्सुखयन्तो ‘भवता’ सांहितो दीर्घः । किंच ‘वः’ युष्माकम् ‘सुमतिः’ शोभना भक्तानुग्रहपरा मतिः सा ‘अर्वाची’ अर्वागञ्चनशीला अस्मदभिमुखी ‘आ’ ‘ववृत्यात्’ आवर्तताम् । पुनरपि मतिर्विशेष्यते ‘अंहोश्चिद्या वरिवोवित्तरा ऽसत्’ । या सुमतिः ‘अंहोश्चित्’ “अहि गतौ” (धा. पा. भ्वा. आ. ६३६) इत्यस्मादौणादिक उत्प्रत्ययः । सर्वे गत्यर्था ज्ञानार्था भवन्तीति ‘अंहु’ शब्दो विद्वांसमाचष्टे, स चात्र यजमानः । चिदिति निपातो ऽपिशब्दार्थे । विदुषो यजमानस्यापि ‘वरिवोवित्तरा’ वरिवो धनम् (निघं०-२ । १० । ५) तद् विन्दति वेदयति लम्भयतीति वरिवोवित् । अतिशयेन वरिवोविद् वरिवोवित्तरा, तादृशी ‘असत्’ स्यात् । आ सुमतिः अस्मदभिमुखी सत्यावर्त्ततामिति संबन्धः । हे दधि ! आदित्येभ्यस्त्वां गृह्णामीति शेषः ॥ १५ ॥

Eggeling
  1. He takes it with (Vāj. S. VIII, 4; Rig-veda I, 107, I), ‘The sacrifice draweth nigh to the glory of the gods: be ye merciful, O Ādityas! Let your favour incline unto us, that it may set us free from all trouble!–Thee to the Ādityas!’

१६

विश्वास-प्रस्तुतिः

त᳘मुपाᳫं᳭शुस᳘वनेन मेक्षयति॥
व्वि᳘वस्वान्वा᳘ ऽएष᳘ ऽआदित्यो᳘ निदा᳘नेन य᳘दुपाᳫं᳭शुस᳘वन ऽआदित्यग्रहो वा᳘ ऽएष᳘ भवति त᳘देनᳫं᳭ स्व᳘ ऽएव᳘ भागे᳘ प्रीणाति॥

मूलम् - श्रीधरादि

त᳘मुपाᳫं᳭शुस᳘वनेन मेक्षयति॥
व्वि᳘वस्वान्वा᳘ ऽएष᳘ ऽआदित्यो᳘ निदा᳘नेन य᳘दुपाᳫं᳭शुस᳘वन ऽआदित्यग्रहो वा᳘ ऽएष᳘ भवति त᳘देनᳫं᳭ स्व᳘ ऽएव᳘ भागे᳘ प्रीणाति॥

मूलम् - Weber

त᳘मुपांशुस᳘वनेन मेक्षयति॥
वि᳘वस्वान्वा᳘ एष᳘ आदित्यो᳘ निदा᳘नेन य᳘दुपांशुस᳘वन आदित्यग्रहो वा᳘ एष᳘ भवति त᳘देनᳫं स्व᳘ एव᳘ भागे᳘ प्रीणाति॥

मूलम् - विस्वरम्

तमुपांशुसवनेन मेक्षयति । विवस्वान्वा ऽएष आदित्यो निदानेन, यदुपांशुसवनः । आदित्यग्रहो वा एष भवति । तदेनं स्व ऽएव भागे प्रीणाति ॥ १६ ॥

सायणः

आदित्यग्रहस्योपांशुसवनाख्येन ग्राव्णा ऽऽलोडनं विधत्ते 17- तमुपांशुसवनेन मेक्षयतीति । ‘मेक्षयति’ आलोडयेत् । विवस्वान्वा इति । ‘उपांशुसवनः’ इति यत् ‘एषः’ ‘निदानेन’ कारणात्मना ‘विवस्वान्’ नामकः ‘आदित्यः’ एव । अत एव तैत्तरीयकश्रुतिः- “एष वै विवस्वानादित्यो यदुपांशुसवनः”- (तै० सं० ६ । ५ । ६ । ५) इति । अतस्तेनादित्यग्रहस्यालोडने स्वकीये भाग आदित्यमेव प्रीणितवान् भवतीत्यर्थः ॥ १६ ॥

Eggeling
  1. He mixes it by means of the Upāṁśusavana stone 18. For, indeed, that Āditya Vivasvat (the sun) is really the same as the Upāṁśusavana, and this is the Āditya libation: thus he makes him delight in his own share.

१७

विश्वास-प्रस्तुतिः

तं न᳘ दशा᳘भिर्न᳘ पवि᳘त्रेणो᳘पस्पृशति॥ (त्ये) एते वै᳘ शुक्र᳘वती र᳘सवती स᳘वने य᳘त्प्रातःसवनं᳘ च मा᳘ध्यन्दिनं च स᳘वनम᳘थैतन्नि᳘र्धीतशुक्रं य᳘त्तृतीयसवनᳫँ᳭ स यन्न᳘ दशा᳘भिर्न᳘ पवि᳘त्रेणोपस्पृश᳘ति ते᳘नो हास्यैत᳘च्छुक्र᳘वद्र᳘सवत्तृतीयसवनं᳘ भवति त᳘स्मान्न᳘ दशा᳘भिर्न᳘ पवि᳘त्रेणो᳘पस्पृशति॥

मूलम् - श्रीधरादि

तं न᳘ दशा᳘भिर्न᳘ पवि᳘त्रेणो᳘पस्पृशति॥ (त्ये) एते वै᳘ शुक्र᳘वती र᳘सवती स᳘वने य᳘त्प्रातःसवनं᳘ च मा᳘ध्यन्दिनं च स᳘वनम᳘थैतन्नि᳘र्धीतशुक्रं य᳘त्तृतीयसवनᳫँ᳭ स यन्न᳘ दशा᳘भिर्न᳘ पवि᳘त्रेणोपस्पृश᳘ति ते᳘नो हास्यैत᳘च्छुक्र᳘वद्र᳘सवत्तृतीयसवनं᳘ भवति त᳘स्मान्न᳘ दशा᳘भिर्न᳘ पवि᳘त्रेणो᳘पस्पृशति॥

मूलम् - Weber

तं न᳘ दशा᳘भिर्न पवि᳘त्रेणो᳘पस्पृशति एते वै᳘ शुक्र᳘वती र᳘सवती स᳘वने य᳘त्प्रातःसवनं᳘ च मा᳘ध्यन्दिनं च सवनम᳘थैतन्नि᳘र्धीतशुक्रं य᳘त्तृतीयसवनᳫं स यन्न᳘ दशा᳘भिर्न᳘ पवि᳘त्रेणोपस्पृश᳘ति ते᳘नो हास्यैत᳘छुक्र᳘वद्र᳘सवत्तृतीयसवन᳘म् भवति त᳘स्मान्न दशा᳘भिर्न पवि᳘त्रेणोपस्पृशति॥

मूलम् - विस्वरम्

तं न दशाभिर्न पवित्रेणोपस्पृशति । एते वै शुक्रवती रसवती सवने- यत्प्रातःसवनं च माध्यंदिनं च सवनम् । अथैतन्निर्धीतशुक्रं तृतीयसवनम् । स यन्न दशाभिर्न पवित्रेणोपस्पृशति- तेनो हास्यैतच्छुक्रवद्रसवत्तृतीयसवनं भवति । तस्मान्न दशाभिर्न पवित्रेणोपस्पृशति ॥ १७ ॥

सायणः

ग्रहान्तरसाधारण्येन ग्रहणानन्तरं प्राप्तं दशापवित्रेण परिमार्जनं निषेधति- तं न दशाभिरिति । ‘दशाभिः’ स्वाञ्चलैः ‘पवित्रेण’ पावनार्थेन वस्त्रेण ‘तम्’ आदित्यग्रहम् ‘नोपस्पृशति’ न परिमृज्यात् । उक्तपरिमार्जननिषेधस्य प्रयोजनमाह- एते वै शुक्रवती इति । प्रातर्माध्यन्दिनसवनयोः रसवत्त्वेन तृतीयसवनस्य नीरसत्वे हेतुरस्यैवाध्यायस्य तृतीयब्राह्मणे प्रदर्शितः (श. प. ४ । ३ । ३ । १९) अतो दशापवित्रेण परिमार्जनस्याकरणे तृतीयसवनस्य रसवत्त्वं भवतीति दशाभिः पवित्रेण च न परिमृज्यात् ॥ १७ ॥

Eggeling
  1. He touches it neither with the fringe nor with (the woven part of) the straining-cloth; for those two pressings, the morning pressing and midday pressing, forsooth are rich in pure Soma, rich in juice, but this, the third pressing, is emptied of its pure Soma. Now, in that he does not touch it either with the fringe or the straining-cloth, thereby that third pressing of his also becomes rich in pure Soma and juice: therefore he touches it neither with the fringe nor with the straining-cloth.

१८

विश्वास-प्रस्तुतिः

स᳘ मेक्षयति॥
व्वि᳘वस्वन्नादित्यैष᳘ ते सोमपीथस्त᳘स्मिन्मत्स्वेत्य᳘थोन्नेत्र᳘ ऽउपाᳫं᳭शुस᳘वनं प्र᳘यच्छत्य᳘थाहोन्नेता᳘रमा᳘सृज ग्रा᳘व्ण इ᳘ति ता᳘नाधवनी᳘ये वा सृज᳘ति चमसे᳘ वा॥

मूलम् - श्रीधरादि

स᳘ मेक्षयति॥
व्वि᳘वस्वन्नादित्यैष᳘ ते सोमपीथस्त᳘स्मिन्मत्स्वेत्य᳘थोन्नेत्र᳘ ऽउपाᳫं᳭शुस᳘वनं प्र᳘यच्छत्य᳘थाहोन्नेता᳘रमा᳘सृज ग्रा᳘व्ण इ᳘ति ता᳘नाधवनी᳘ये वा सृज᳘ति चमसे᳘ वा॥

मूलम् - Weber

स᳘ मेक्षयति॥
वि᳘वस्वन्नादित्यैष᳘ ते सोमपीथस्त᳘स्मिन्मत्स्वेत्य᳘थोन्नेत्र᳘ उपांशुस᳘वनम् प्र᳘यछत्य᳘थाहोन्नेता᳘रमा᳘सृज ग्रा᳘व्ण इ᳘ति ता᳘नाधवनी᳘ये वासृज᳘ति चमसे᳘ वा॥

मूलम् - विस्वरम्

स मेक्षयति- “विवस्वन्नादित्यैष ते सोमपीथः, तस्मिन्मत्स्व”- (वा. सं. ८ । ५) इति । अथोन्नेत्र ऽउपांशुसवनं प्रयच्छति । अथाहोन्नेतारम्- आसृज ग्राव्णा इति । तानाधवनीये वा सृजति चमसे 19 वा ॥ १८ ॥

सायणः

उपांशुसवनेन ग्रहस्य यन्मेक्षणं विहितं तदनूद्य तत्र मन्त्रं विनियुङ्क्ते- स मेक्षयति विवस्वन्निति । “विवस्वान्वा एष ऽआदित्यो निदानेन यदुपांशुसवनः” (अस्मिन्नेव ब्राह्मणे १६ कं.) इति उपांशुसवनस्यादित्यत्वविधानादादित्यात्मक उपांशुसवनः सम्बोध्यते । हे विवस्वन्नामक आदित्यात्मक उपांशुसवन ! ‘ते’ तव ‘एषः’ ‘सोमपीथः’ सोमपानम् । अतः ‘तस्मिन्’ सोमपाने ‘मत्स्व’ तृप्तिं प्राप्नुहि । “मद तृप्तियोगे” (धा. पा. चु. आ. १७२) अस्माल्लोण्मध्यमपुरुषैकवचने “बहुलं छन्दसि” (पा. सू. २ । ४ । ७६) इति विकरणस्य लुकि सति हि मत्स्वेति भवति ।

ग्रहणानन्तरं कर्तव्यमाह- अथेत्यादिना 19ग्राव्ण इति । अभिषवार्थान् पाषाणान् । राजानमुन्नीयेति । सोममापूर्य ‘चमसे वा’ ‘विसृजति’ मिदध्यादिति सम्बन्धः । तथा हि कात्यायनः- “चमसे वा सोमवति” [^२_१५०] इति । “आदित्यानां वा” इत्यादिना ग्राव्णां निधानस्य प्रयोजनमाख्यायते- आदित्यान्वा अनुग्रावाण इति । अत्रापि अनुः “हीने” (पा. सू. १ । ४ । ८६) इति कर्मप्रवचनीयः; तेन ‘आदित्यान्’ इति “कर्मप्रवचनीययुक्ते द्वितीया” (पा. सू. २ । ३ । ८) इति द्वितीया । आदित्यानामत्र ग्रावाभिमानिदेवतात्वाम्नानात्तेषां प्राधान्यम् । ग्राव्णां च हीनत्वमनेनानुशब्देन द्योत्यते । अपोर्णुवन्तीति । उभे ‘द्वारे’ अपिदधाति इति हविर्धानस्य द्वारयोरपिधानं विहितम् । तदिदानीमपनयेयुरित्यर्थः ॥ १८ ॥ १९ ॥

Eggeling
  1. He mixes it with (Vāj. S. VIII, 5), ‘O Āditya Vivasvat, this is thy draught of Soma: feast thou upon it!’ Thereupon he hands the Upāṁśusavana to the Unnetr̥. Then he says to the Unnetr̥, ‘Drop in the pressing-stones!’ He drops them either into the Ādhavanīya or into a cup 20.

१९

विश्वास-प्रस्तुतिः

रा᳘जानमुन्नी᳘य॥
(या) आदित्या᳘नां वै᳘ तृतीयसवन᳘मादित्यान्वा ऽअ᳘नु ग्रा᳘वाणस्त᳘देनान्त्स्व᳘ ऽएव᳘ भागे᳘ प्रीणात्य᳘पोर्णुवन्ति द्वा᳘रे॥

मूलम् - श्रीधरादि

रा᳘जानमुन्नी᳘य॥
(या) आदित्या᳘नां वै᳘ तृतीयसवन᳘मादित्यान्वा ऽअ᳘नु ग्रा᳘वाणस्त᳘देनान्त्स्व᳘ ऽएव᳘ भागे᳘ प्रीणात्य᳘पोर्णुवन्ति द्वा᳘रे॥

मूलम् - Weber

रा᳘जानमुन्नी᳘य॥
आदित्या᳘नां वै᳘ तृतीयसवन᳘मादित्यान्वा अ᳘नु ग्रा᳘वाणस्त᳘देनान्त्स्व᳘ एव᳘ भागे᳘ प्रीणात्य᳘पोर्णुवन्ति द्वा᳘रे॥

मूलम् - विस्वरम्

राजानमुन्नीय । आदित्यानां वै तृतीयसवनम्, आदित्यान्वा ऽअनु ग्रावाणः । तदेनान्त्स्व ऽएव भागे प्रीणाति । अपोर्णुवन्ति द्वारे ॥ १९ ॥

सायणः

[व्याख्यानं अष्टादशे]

Eggeling
  1. After drawing the king (Soma)–the third press-feast belonging to the Ādityas, and the pressing-stones being after (the manner of 21) the Ādityas, he thus makes them delight in their own share–they open the doors.

२०

विश्वास-प्रस्तुतिः

(रे᳘ ऽअ᳘) अ᳘थापिधा᳘योपनि᳘ष्क्रामति॥
र᳘क्षोभ्यो ह्य᳘बिभयुर᳘थाहादित्येभ्यो᳘ ऽनुब्रूहीत्य᳘त्र सं᳘पश्येद्य᳘दि काम᳘येताश्रा᳘व्य᳘ त्वेव सं᳘पश्येदादित्ये᳘भ्यः प्रे᳘ष्य प्रिये᳘भ्यः प्रिय᳘धामभ्यः प्रिय᳘व्रतेभ्यो महस्व᳘सरस्य प᳘तिभ्य उरो᳘रन्त᳘रिक्षस्या᳘ध्यक्षेभ्य इ᳘ति व्व᳘षट्कृते जुहोति᳘ नानुव᳘षट्करोति ने᳘त्पशूनग्नौ᳘ प्रवृण᳘जानी᳘ति प्र᳘यच्छति प्रतिप्रस्थात्रे᳘ सᳫं᳭स्रवौ[[!!]]॥

मूलम् - श्रीधरादि

(रे᳘ ऽअ᳘) अ᳘थापिधा᳘योपनि᳘ष्क्रामति॥
र᳘क्षोभ्यो ह्य᳘बिभयुर᳘थाहादित्येभ्यो᳘ ऽनुब्रूहीत्य᳘त्र सं᳘पश्येद्य᳘दि काम᳘येताश्रा᳘व्य᳘ त्वेव सं᳘पश्येदादित्ये᳘भ्यः प्रे᳘ष्य प्रिये᳘भ्यः प्रिय᳘धामभ्यः प्रिय᳘व्रतेभ्यो महस्व᳘सरस्य प᳘तिभ्य उरो᳘रन्त᳘रिक्षस्या᳘ध्यक्षेभ्य इ᳘ति व्व᳘षट्कृते जुहोति᳘ नानुव᳘षट्करोति ने᳘त्पशूनग्नौ᳘ प्रवृण᳘जानी᳘ति प्र᳘यच्छति प्रतिप्रस्थात्रे᳘ सᳫं᳭स्रवौ[[!!]]॥

मूलम् - Weber

अ᳘थापिधा᳘योपनि᳘ष्क्रामति॥
र᳘क्षोभ्यो ह्य᳘बिभयुर᳘थाहादित्येभ्यो᳘ ऽनुब्रूहीत्य᳘त्र स᳘म्पश्येद्य᳘दि काम᳘येताश्रा᳘व्यॗ त्वेव स᳘म्पश्येदादित्ये᳘भ्यः प्रे᳘श्य प्रिये᳘भ्यः प्रिय᳘धामभ्यः प्रियव्रतेभ्यो महस्व᳘सरस्य 22 प᳘तिभ्य उरो᳘रन्त᳘रिक्षस्या᳘ध्यक्षेभ्य इ᳘ति व᳘षट्कृते जुहोतिॗ नानुव᳘षट्करोति ने᳘त्पशू᳘नग्नौ᳘ प्रवृण᳘जानी᳘ति प्र᳘यछति प्रतिप्रस्थात्रे᳘ संस्रवौ᳟॥

मूलम् - विस्वरम्

अथापिधायोपनिष्क्रामति । रक्षोभ्यो ह्यबिभयुः । अथाह- आदिभ्यो ऽनुब्रूहि इत्यत्र संपश्येत्- यदि कामयेत आश्राव्य त्वेव संपश्येत् । आदित्येभ्यः प्रेष्य, प्रियेभ्यः प्रियधामभ्यः प्रितव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति । वषट्कृते जुहोति । नानुवषट्करोति- नेत् पशूनग्नौ प्रवृणजानीति । प्रयच्छति प्रतिप्रस्थात्रे संस्रवौ ॥ २० ॥

सायणः

द्वारपिधानापनयनानन्तरं निष्क्रमणादिकं विधत्ते- अथेत्यादि 19 । अपिधाय ग्रहं स्वकीयेन- पाणिना ऽऽदित्यस्थाल्या वा आच्छाद्य हविर्द्धानान्निष्क्रामेत् । अत एव कात्यायनः- “ग्रहमपिधाय पाणिना स्थाल्या वा” (का. श्रौ. सू. १० । ९५) इति । रक्षोभ्यो हीति । ‘हि’ यस्मात्कारणादादित्याः ‘रक्षोभ्यः’ ‘अविभयुः’ भीता बभूवुः । “सिजभ्यस्तविदिभ्यश्च” (पा. सू. ३ । ४ । १०९) इति झेर्जुस् । तस्मात्तदीयस्य ग्रहस्यापिधानं युक्तमिति भावः । आश्राव्य त्वेवेति । यदि ग्रहं द्रष्टुमिच्छेत्तर्हि आश्रावणानन्तरमेव सम्पश्येत् न पुनः पूर्वोक्तानुवचनानन्तरमित्यर्थः । सम्पश्येदित्यत्र “समो गम्यृच्छि” इत्यादिके सूत्रे “दृशिभ्यश्चेति वक्तव्यम्” (पा. सू० १ । ३ । २९ वा० १) इत्यनेनात्मनेपदं न भवति, तत्राकर्मकादित्यधिकारात् । अनेनोपरि होमकाले ग्रहो नावेक्षणीय इति दर्शितम् । अत एवापस्तम्बः “अन्यत्रे (न्ने) क्षमाण आदित्यं जुहोति”- इति आ० स्तं० श्रौ० सू०) अध्वर्योः प्रैषमुत्पाद्य कालविशिष्टं होमं विधत्ते- आदित्येभ्यः प्रेष्येत्यादि 23 । आदित्येभ्यः इत्यादिकं प्रैषमुच्चार्य होत्रा वषट्कारे ‘कृते’ ग्रहमग्नौ जुहुयात् । प्रैषस्यायमर्थः- ‘प्रियेभ्यः’ प्रीतिकारेभ्यः । “इगुपधज्ञाप्रीकिरः कः” (पा० सू० ३ । १ । १३५) ‘धाम’ स्थानं तच्च प्रियं धाम येषां ते प्रियधामानस्तेभ्यः ‘प्रियव्रतेभ्यः’ व्रतमिति कर्म्मनामधेयम् । प्रियं कर्म यज्ञरूपं येषां तेभ्यः । ‘महस्वसरस्य पतिभ्यः’ स्वसरमित्यहर्विधीयते । (निघ० १ । ९ । ५) महसां विशिष्टं स्वसरं महःस्वसरम् तस्य पतिभ्यः अहर्पतिभ्यः ‘उरोः’ विस्तीर्णस्य ‘अन्तरिक्षस्य’ ‘अध्यक्षेभ्यः’ साक्षिभ्यः । तत्रैव सर्वदा वर्तमानत्वात् । एवंविधेभ्य आदित्येभ्यो हविर्द्दातुं मैत्रावरुणयाज्यापाठार्थं होतारं प्रेरयेदित्यर्थः ।

ग्रहान्तरसाधारण्येन प्राप्तमनुवषट्कारं निषेधति- नानुवषट्करोतीति । नेत्पशूनिति । अनुवषट्कारो हि स्विष्टकृदग्न्यर्थं क्रियते । “स्विष्टकृतो वा एते ऽनुवषट्क्रियन्ते” इत्युक्तत्वात् । तथा च सत्यनुवषट्कारे कृते “पशवो वा एते यदादित्यः” (तै. सं. का. ६ । ५ । ६) इति आदित्यग्रहस्य पश्वात्मकत्वात् पशव एवाग्नौ परित्यक्ताः स्युः । तस्मान्नैव ‘पशूनग्नौ’ ‘प्रवृणजानि’ परित्यजानीति च नानुवषट्कुर्यादिति ।

यथावत् प्रतिप्रस्थात्रे विशेषप्रदानमाह- प्रयच्छति प्रतिप्रस्थात्रे संस्रवाविति 24 । आदित्यपात्रस्थालीगतसोमशेषापेक्षया ‘संस्रवौ’ इति द्विवचनम् ॥ २० ॥

Eggeling
  1. He now walks out, covering (the cup with his hand or the sthālī); for they (the Ādityas) were afraid of the Rakshas. He then says (to the Maitrāvaruṇa), ‘Recite (the invitatory prayer) to the Ādityas!’ If he likes, he may now enumerate (their qualities); but let him rather enumerate them, after he has called for the Śraushaṭ,–‘Prompt (the Hotr̥ to recite the offering prayer) to the Ādityas, the beloved, rite-loving, law-loving lords of the great abode, the rulers of the wide air.’ He offers, as the Vashaṭ is pronounced. He (the Hotr̥) pronounces no Anuvashaṭ, lest he should consign the cattle to the fire. The remains (of juice in the sthālī and graha) he (the Adhvaryu) hands to the Pratiprasthātr̥.

२१

विश्वास-प्रस्तुतिः

(वाव᳘) अ᳘थ पु᳘नः प्रप᳘द्य॥
(द्या) आग्रयणमा᳘दत्त ऽउदीची᳘नदशं पवि᳘त्रं व्वि᳘तन्वन्ति प्र᳘स्कन्दयत्यध्वर्यु᳘राग्रयण᳘स्य[[!!]] संप्र᳘गृह्णाति प्रतिप्रस्थाता᳘ सᳫं᳭स्रवावा᳘नयत्युन्नेता᳘ चमसे᳘न वोद᳘ञ्चनेन वा॥

मूलम् - श्रीधरादि

(वाव᳘) अ᳘थ पु᳘नः प्रप᳘द्य॥
(द्या) आग्रयणमा᳘दत्त ऽउदीची᳘नदशं पवि᳘त्रं व्वि᳘तन्वन्ति प्र᳘स्कन्दयत्यध्वर्यु᳘राग्रयण᳘स्य[[!!]] संप्र᳘गृह्णाति प्रतिप्रस्थाता᳘ सᳫं᳭स्रवावा᳘नयत्युन्नेता᳘ चमसे᳘न वोद᳘ञ्चनेन वा॥

मूलम् - Weber

अ᳘थ पु᳘नः प्रप᳘द्य॥
आग्रयणमादत्त उदीची᳘नदशम् पवि᳘त्रं वि᳘तन्वन्ति प्र᳘स्कन्दयत्यध्वर्यु᳘राग्रयण᳘स्य᳘प्रतिप्रस्थाता᳘ सम्प्र᳘गृह्णाति संस्रवावा᳘नयत्युन्नेता᳘ चमसे᳘न वोद᳘ञ्चनेन वा॥

मूलम् - विस्वरम्

अथ पुनः प्रपद्याग्रयणमादत्ते । उदीचीनदशं पवित्रं वितन्वन्ति । प्रस्कन्दयत्यध्वर्युः आग्रयणस्य संप्रगृह्णाति प्रतिप्रस्थाता । संस्रवावानयत्युन्नेता चमसेन वोदञ्चनेन वा ॥ २१ ॥

सायणः

आदित्यग्रहयागानन्तरं हविर्द्धानगमनपूर्वकमाग्रयणस्य ग्रहणप्रकारं विधत्ते- अथ पुनः प्रपद्येत्यादि । उदीचीनदशमिति । तृतीयसवनार्थाभिषवानन्तरं पूतभृत उपरि उदङ्मुखाञ्चलम् ‘पवित्रम्’ पवनार्थं ‘वितन्वन्ति’ विस्तारयन्ति उद्गातारः । तस्मिन्पवित्रे ‘अध्वर्युः’ ‘आग्रयणस्य’ इति कर्मणि षष्ठी (पा. सू. २ । ३ । ५०) । ‘प्रस्कन्दयति’ आसिञ्चेत् । तदा ‘प्रतिप्रस्थाता’ अपि पवित्रे आदित्यपात्रस्थालीगतौ संस्रवौ ‘संप्रगृह्णाति’ ‘सम्’ इत्येकीभावे । सह सिञ्चेत् । ‘उन्नेता’ वा ऽऽधवनीयाद् ‘उदञ्चनेन’ ‘चमसेन’ वितत आग्रयणं गृह्णातीति । आपस्तम्बस्तु आग्रयणस्य ग्रहणे किञ्चित्प्रकारान्तरमाह- “ग्रहकाल आग्रयणमेव चतसृभ्यो धाराभ्य आग्रयणादुत्सिच्य द्वितीयां धारां करोति । आदित्यस्थाल्यास्तृतीयाम् । आदित्यग्रहसम्पाताच्चतुर्थीम्” (आप. श्रौ. सू.) इति । यद्यप्यत्रादित्यग्रहयागानन्तरं तृतीयसवनार्थमभिषवमभिधाय पश्चादाग्रयणस्य ग्रहणमभिधातव्यम्, तथापि माध्यन्दिनसवने माहेन्द्रग्रहस्य स्तोत्रोपाकरणानन्तरमेवाभिषवो विहितः- “अथोपाकृत्यैतां वाचं वदत्यभिषोतारो ऽभिषुणुत” इत्युपक्रम्य; “ते वै तृतीयसवनायैवाभिषोतारो ऽभिषुण्वन्ति” इति । तस्मादत्राभिषवानन्तरकर्तव्यमाग्रयणग्रहणमेवाभिहितम् । अत एव कात्यायनो ऽप्यत्राभिषवं नाभिदधौ किंतु तत्रैवाभिदधौ । तत्रेदं सूत्रम्- “पृष्टमुपाकृत्य प्रेष्यत्यभिषोतारो ऽभिषुणुत” इत्युपक्रम्य “ऋजीषमिश्रमंशुमभिषुण्वन्ति यथा कथा चानुदकम्, आधवनीये करोति, त्रिपर्यायान्वा ऽभिषवोपदेशात्, मानाभिमर्शनवर्ज्जं कृतत्वात्, पूतभृति पावन‍ँ शुक्राभावात्”- (का. श्रौ. सू. १० । ७६-८०) इति । सारसं वस्तु (?) शाखान्तरानुसारेणादित्यग्रहयागानन्तरमेव महाभिषवमभ्यधात् । तद्वदादित्यपात्रमायतने सादयित्वा शुक्रमुपांशुपावनौ यश्चोपांशुपात्रें ऽशुस्तानृजीषे विसृज्य प्रातःसवनवन्महाभिषवः ऋजीषं त्वेताभिषुण्वन्तीति ॥ २१ ॥

Eggeling
  1. Thereupon he again enters (the Havirdhāna) and draws the Āgrayaṇa graha 25. They spread (over the Pūtabhr̥t) a straining-cloth with the fringe towards the north. The Adhvaryu pours out (the

juice) of the Āgrayaṇa; the Pratiprasthātr̥ holds out (and pours in) the two residues (of the Āditya graha 26); the Unnetr̥ adds thereto (some juice from the Ādhavanīya) by means of a camasa cup or a dipping-vessel (udañcana).

२२

विश्वास-प्रस्तुतिः

तं᳘ चतसृणां धा᳘राणामाग्रयणं᳘ गृह्णाति॥
(त्या) आदित्या᳘नां वै᳘ तृतीयसवन᳘मादित्यान्वा ऽअ᳘नु गा᳘वस्त᳘स्मादिदं ग᳘वां चतुर्धा विहितं प᳘यस्त᳘स्माच्चतसृणां धा᳘राणामाग्रयणं᳘ गृह्णाति॥

मूलम् - श्रीधरादि

तं᳘ चतसृणां धा᳘राणामाग्रयणं᳘ गृह्णाति॥
(त्या) आदित्या᳘नां वै᳘ तृतीयसवन᳘मादित्यान्वा ऽअ᳘नु गा᳘वस्त᳘स्मादिदं ग᳘वां चतुर्धा विहितं प᳘यस्त᳘स्माच्चतसृणां धा᳘राणामाग्रयणं᳘ गृह्णाति॥

मूलम् - Weber

तं᳘ चतसृणां धा᳘राणामाग्रयणं᳘ गृह्णाति॥
आदित्या᳘नां वै᳘ तृतीयसवन᳘मादित्यान्वा अ᳘नु गा᳘वस्त᳘स्मादिदं ग᳘वां चतुर्धाविहितं प᳘यस्त᳘स्माच्चतसृणां धा᳘राणामाग्रयणं᳘ गृह्णाति॥

मूलम् - विस्वरम्

तं चतसृणां धाराणामाग्रयणं गृह्णाति । आदित्यानां वै तृतीयसवनम् आदित्यान्वा ऽअनु गावः । तस्मादिदं गवां चतुर्धा विहितं पयः । तस्माच्चतसृणां धाराणामाग्रयणं गृह्णाति ॥ २२ ॥

सायणः

धाराचतुष्टयाद्ग्रहणं प्रशंसति- आदित्यानां वै तृतीयसवनमित्यादि । “सङ्ख्याद्वारा जगतीसम्बन्धित्वाज्जागतं तृतीयसवनम्” “आदित्यानां विभक्तं सवनम्”- इति अस्यैव ब्राह्मणस्यादौ व्याख्यातम् । गावश्च वृष्टिप्रदानेनादित्यानुपजीव्य वर्तन्ते । तस्मादादित्यसम्बन्धितृतीयसवनगतस्याग्रयणस्य चतसृभ्यो धाराभ्यो गृहीतत्वादिदानीमादित्यसम्बन्धिनीनां गवां पयश्चतुर्धा विहितं दृश्यते । चतुर्भिः स्तनमुखैः पयस उद्गमात् । अतश्चतसृभ्यो ग्रहणं प्रशस्तमित्यर्थः ॥ २२ ॥

Eggeling
  1. Thus he draws the Āgrayaṇa graha from four streams; for the evening pressing belongs to the .Ādityas, and cows are after the manner of the Ādityas; whence this milk of cows is of a fourfold nature: therefore he draws the Āgrayaṇa from four streams 27.

२३

विश्वास-प्रस्तुतिः

तद्य᳘त्प्रतिप्रस्थाता᳘ सᳫं᳭स्रवौ᳘ सम्प्रगृह्णा᳘ति॥
(त्या) आदित्यग्रहो वा᳘ ऽएष᳘ भवति न वा᳘ ऽआदित्यग्रह᳘स्यानुव᳘षट्करोत्येत᳘स्माद्वै᳘ सावित्रं ग्र᳘हं ग्रहीष्य᳘न्भवति त᳘दस्य सावित्रे᳘णै᳘वानुव᳘षट्कृतो भवति॥

मूलम् - श्रीधरादि

तद्य᳘त्प्रतिप्रस्थाता᳘ सᳫं᳭स्रवौ᳘ सम्प्रगृह्णा᳘ति॥
(त्या) आदित्यग्रहो वा᳘ ऽएष᳘ भवति न वा᳘ ऽआदित्यग्रह᳘स्यानुव᳘षट्करोत्येत᳘स्माद्वै᳘ सावित्रं ग्र᳘हं ग्रहीष्य᳘न्भवति त᳘दस्य सावित्रे᳘णै᳘वानुव᳘षट्कृतो भवति॥

मूलम् - Weber

तद्य᳘त्प्रतिप्रस्थाता᳘ संस्रवौ᳘ सम्प्रगृह्णा᳘ति॥
आदित्यग्रहो वा᳘ एष᳘ भवति न वा᳘ आदित्यग्रह᳘स्यानुव᳘षट्करोत्येत᳘स्माद्वै᳘ सावित्रं ग्र᳘हं ग्रहीष्य᳘न्भवति त᳘दस्य सावित्रे᳘णैॗवानुव᳘षट्कृतो भवति॥

मूलम् - विस्वरम्

तद् यत्प्रतिप्रस्थाता संस्रवौ सम्प्रगृह्णाति । आदित्यग्रहो वा एष भवति । न वा ऽआदित्यग्रहस्यानुवषट्करोति । एतस्माद्वै सावित्रं ग्रहं ग्रहीष्यन्भवति । तद् अस्य सावित्रेणैवानुवषट्कृतो भवति ॥ २३ ॥

सायणः

आग्रयणस्य ग्रहणे प्रतिप्रस्थातृकृतं संस्रवासेचनमादित्यग्रहस्यानुवषट्कारलाभहेतुत्वेन प्रशंसति- तद्यत्प्रतिप्रस्थातेत्यादि । ‘एषः’ संस्रवरूपः सोमः ‘आदित्यग्रहः’ खलु तच्छेषत्वात् ‘आदित्यग्रहस्य’ तु ‘अनुवषट्करोति’ इति तस्य निषिद्धत्वात् । अत आग्रयणे तच्छेषावनयने सत्येतत्सावित्रग्रहस्य ग्रहीष्यमाणत्वात्, सावित्रस्य चानुवषट्कारसम्भवात्तेनैवायमादित्यग्रहः ‘अनुवषट्कृतो भवति’ ॥ २३ ॥

Eggeling
  1. And as to why the Pratiprasthātr̥ holds out the two residues: this is (the remains of) the Āditya libation, and for the Āditya libation he pronounces no Anuvashaṭ; and from that (Āgrayaṇa graha) he intends to draw the Sāvitra graha,–so that the Anuvashaṭ is performed for it by means of the Sāvitra graha.

२४

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ प्रतिप्रस्थाता᳘ सᳫं᳭स्रवौ᳘ सम्प्रगृह्णा᳘ति॥
पुरा वा᳘ ऽएभ्य एत᳘न्मिश्राद्ग्र᳘हमहौषुः पुरा᳘ तृतीयसवना᳘त्तृतीयसवना᳘य वा᳘ ऽएष ग्र᳘हो गृह्यते त᳘दादित्या᳘स्तृतीयसवनम᳘पियन्ति त᳘था न᳘ बहिर्धा᳘ यज्ञा᳘द्भवन्ति त᳘स्मात्प्रतिप्रस्थाता᳘ सᳫं᳭स्रवौ᳘ सम्प्र᳘गृह्णाति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ प्रतिप्रस्थाता᳘ सᳫं᳭स्रवौ᳘ सम्प्रगृह्णा᳘ति॥
पुरा वा᳘ ऽएभ्य एत᳘न्मिश्राद्ग्र᳘हमहौषुः पुरा᳘ तृतीयसवना᳘त्तृतीयसवना᳘य वा᳘ ऽएष ग्र᳘हो गृह्यते त᳘दादित्या᳘स्तृतीयसवनम᳘पियन्ति त᳘था न᳘ बहिर्धा᳘ यज्ञा᳘द्भवन्ति त᳘स्मात्प्रतिप्रस्थाता᳘ सᳫं᳭स्रवौ᳘ सम्प्र᳘गृह्णाति॥

मूलम् - Weber

य᳘द्वेव᳘ प्रतिप्रस्थाता᳘ संस्रवौ᳘ सम्प्रगृह्णा᳘ति॥
पुरा वा᳘ एभ्य एत᳘न्मिश्राद्ग्र᳘हमहौषुः पुरा᳘ तृतीयसवना᳘त्तृतीयसवना᳘य वा᳘ एष ग्र᳘हो गृह्यते त᳘दादित्या᳘स्तृतीयसवनम᳘पियन्ति त᳘था न᳘ बहिर्धा᳘ यज्ञा᳘द्भवन्ति त᳘स्मात्प्रतिप्रस्थाता᳘ संस्रवौ᳘ सम्प्र᳘गृह्णाति॥

मूलम् - विस्वरम्

यद्वेव प्रतिप्रस्थाता संस्रवौ सम्प्रगृह्णाति । पुरा वा ऽएभ्य एतन्मिश्राद्ग्रहमहौषुः- पुरा तृतीयसवनात् । तृतीयसवनाय वा ऽएष ग्रहो गृह्यते । तद् आदित्यास्तृतीयसवनमपियन्ति । तथा न बहिर्धा यज्ञाद्भवन्ति । तस्मात्प्रतिप्रस्थाता संस्रवौ सम्प्रगृह्णाति ॥ २४ ॥

सायणः

प्रकारान्तरेणापि तदेव प्रशंसति- यद्वेव प्रतिप्रस्थातेत्यादि । पुरा ‘तृतीयसवनाद्’ इत्यादित्यस्य व्याख्यानम् । ‘एष ग्रहः’ इति, आदित्यग्रह इत्यर्थः । स्पष्टमन्यत् ॥ २४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे तृतीयाध्याये पञ्चमं ब्राह्मणम् ॥ (४-३-५) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ १ ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ २ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे तृतीयो ऽध्यायः समाप्तः ॥ ४-३ ॥

Eggeling
  1. And again why the Pratiprasthātr̥ holds out the two residues. Previous to that mixed (press-feast), previous to the evening feast, they have offered that (unmixed or special) libation to those (Ādityas); but this libation is taken for the evening feast: thereby the Ādityas take part in the evening feast, and thus they are not excluded from the sacrifice. This is why the Pratiprasthātr̥ holds out the two residues 28.

  1. 350:1 The Āditya-graha, with which the succeeding paragraphs deal, is considered as not belonging to the Tr̥tīya Savana proper, but as a preliminary ceremony. ↩︎

  2. 350:2 For the three dvidevatya grahas (Aindravāyava, Maitrāvaruṇa, and Āśvina), see Brāhmaṇas IV, 1, 3-5. ↩︎

  3. भविष्यथे᳘त्यु᳘ हादित्या᳘ AB. हादित्या᳘. ↩︎

  4. 351:1 At the three dvidevatya libations no Anuvashaṭkāra is permitted; that is to say, the Hotr̥ is not to pronounce the words, ‘O Agni, accept of the Soma!’ after the Vashaṭ, with which the offering prayer (yājyā) concludes. But as the libation, ordinarily made at the Anuvashaṭ, corresponds to the oblation to Agni Svishṭakr̥t made after each chief oblation at the haviryajña (see I, 7,3; Ait. Br. III, 5), there is apparently no such Svishṭakr̥t oblation at the dvidevatya libations. Now, as each of these chief libations, made by the Adhvaryu, is followed by one made by the Pratiprasthātr̥ from the Āditya vessel (see p. 316, note 1), these latter libations are here, as it were, identified with the Svishṭakr̥t and the Anuvashaṭkāra. ↩︎

  5. द्विदेवत्यैश्चरति । व्वायव इंद्रवायुभ्यामनुवाचयति प्रतिप्रस्थाता ऽऽदित्यपात्रेण द्रोणकलशादुपयामगृहीतो ऽसीति गृहीत्वा गृहीत्वा द्विदेवत्याननुजुहोत्युत्तरार्द्धे । का. श्रौ. सू. ९ । २०० । २०१ । ↩︎

  6. शेष ँ शेषमादित्यस्थाल्यामासिंचत्यादित्येभ्यस्त्वेति । का. श्रौ. सू. ९ । २०६ । ↩︎

  7. भविष्यथे᳘त्यु᳘ हादित्या᳘ AB. हादित्या᳘. ↩︎

  8. 352:1 See I, 7, 3, 20. ↩︎

  9. 352:2 The remains of Soma-juice he pours after each libation from the Āditya-pātra into the Āditya-sthālī, and finally puts the former on the latter by way of a lid. See p. 326, note 1. ↩︎

  10. 352:3 While they enter by the front door, the mistress of the house enters by the back (west) door. Kāty. X, 4, 2. ↩︎

  11. अपिहितद्वार आदित्यं पात्रमादाय सँ स्रवश्चोपरि पूतभृतस्तत आदित्यग्रहं गृह्णाति सँ स्रवेभ्यः कदा चनेति । का. श्रौ. सू. १० । ९० । ↩︎

  12. अपगृह्य पुनः कदा चनेति का. श्रौ. सू. १० । ९१ कर्कभाष्यम् । ↩︎ ↩︎

  13. महीधरस्तु ‘नितरां पालयसि’ इति वर्तमानानुसारिणी क्रियामाह । ↩︎

  14. 353:1 The Rig-veda reads ‘havanam’ (invocation) instead of ‘savanam.’ ↩︎

  15. 353:2 Or, cattle correspond, stand in relation, to the Ādityas. Sāyaṇa takes ‘anu’ in the sense of ‘behind, inferior to, dependent upon (hīna).’ The cattle are inferior to, or dependent upon, the Ādityas, inasmuch as the Ādityas give the rain on which the cattle depend for their food. ↩︎

  16. 353:3 Or, ‘put’ (hita) into them. ↩︎

  17. उपाँशुसवनेन मिश्रयति व्विवस्वन्नादित्येति । का. श्रौ. सू. । १० । ९२ । ↩︎

  18. 354:1 See p. 238, note 2. ↩︎

  19. ‘श्रदस्मै नरो वचसे’ दधातनेइत्यादिरेको मन्त्र इहाधिकः संहितायाम् । ↩︎ ↩︎ ↩︎

  20. 354:2 ‘Into the Ādhavanīya trough or into a camasa cup containing Soma-juice,’ Kāty. X, 4, 10; ‘into the Ādhavanīya or the Sambharaṇī,’ Kāṇva text; ‘into the Ādhavanīya or into the graha,’ Weber, Ind. Stud. X, 386. Perhaps the next paragraph has to be taken along with this: ‘Or into a camasa, after drawing Soma (into it).’ According to Kāty., the stones are taken out again immediately and laid down in their places on the pressing-skin. ↩︎

  21. 355:1 See p. 353, note 2. Sāyaṇa again takes ‘anu’ in the sense of ‘after, behind,’ apparently on the ground that, in the above formulas, the stones are mentioned after the Āditya. The text of my manuscript is, however, rather corrupt at this place. ↩︎

  22. महस्व᳘सरस्य is either महः स्व᳘सरस्य with elision of the visarga or it contains the obsolete मह = महा. The mss. at Kâty. १०. ४. १३ read महस्वसदस्य. ↩︎

  23. अन्वारब्ध आदित्येभ्यो ऽनुब्रू ३ हीत्याह प्रैषानुवाचनयोरन्यतरस्मिन्नाह प्रियेभ्यः प्रियधामभ्यः प्रियव्व्रतेभ्यो महस्वसरस्य पतिभ्य उरोरंतरिक्षस्याध्यक्षेभ्य इति । का० श्रौ० सू० १० । ९६ । ↩︎

  24. हुत्वा प्रतिप्रस्थात्रे प्रयच्छति शेषौ । का० श्रौ० सू० । १० । ९७ । ↩︎

  25. 355:2 The Āgrayaṇa Soma was originally drawn into the Āgrayaṇa bowl (sthālī) and deposited in its place in the centre of the khara. It is now poured from the bowl into some other vessel, and thence through a straining-cloth into the Pūtabhr̥t. ↩︎

  26. 356:1 ‘Sampraskandayati pratiprasthātādityapātrayoḥ saṁsravam,’ Kāṇva text. ↩︎

  27. 356:2 In drawing the Āgrayaṇa cup he uses the same formula as at the morning pressing. See IV, 2, 2, 9 seq. ↩︎

  28. 356:3 In the actual performance of the Agnishṭoma the drawing of the Āgrayaṇa graha is followed by sour milk being poured to the Soma-juice left in the Pūtabhr̥t, the compound being consecrated by the lady eying it with an appropriate mantra. Thereupon they leave the Havirdhāna shed in the same way as at the morning feast (see IV, 2, 5, 1, with notes), and perform the Viprud-homas, followed by the Sarpaṇa and chanting of the Ārbhava, or Tr̥tīya Pavamāna stotra (for an account of which, see p. 315, note 2). Then follow the oblations from the victim (which has been cooking since the morning, see IV, 2, 5, 13), &c., up to the eating of the paśviḍā (see III, 8, 3, 4 seq.); and offering of the four Savanīya-puroḍāśas, likewise up to the eating of the iḍā. Previous to the eating, small pieces of rice-cake are thrown into the camasa cups, as an oblation to the sacrificer’s deceased ancestors, with naming of his father, grandfather, and great-grandfather (as at the Piṇḍapitr̥yajña, II, 4, 2, 19 seq.); whereupon the pieces are eaten along with the iḍā. ↩︎