०१

विश्वास-प्रस्तुतिः

घ्न᳘न्ति वा᳘ ऽएत᳘द्यज्ञम्[[!!]]॥
य᳘देनं तन्व᳘ते य᳘न्न्वेव रा᳘जानमभिषुण्व᳘न्ति तत्तं᳘ घ्नन्ति य᳘त्पशु᳘ᳫं᳘ संज्ञप᳘यन्ति व्विशा᳘सति तत्तं᳘ घ्नन्त्युलूखलमुसला᳘भ्यां दृषदुपला᳘भ्याᳫँ᳭ हविर्य᳘ज्ञं[[!!]] घ्नन्ति॥

मूलम् - श्रीधरादि

घ्न᳘न्ति वा᳘ ऽएत᳘द्यज्ञम्[[!!]]॥
य᳘देनं तन्व᳘ते य᳘न्न्वेव रा᳘जानमभिषुण्व᳘न्ति तत्तं᳘ घ्नन्ति य᳘त्पशु᳘ᳫं᳘ संज्ञप᳘यन्ति व्विशा᳘सति तत्तं᳘ घ्नन्त्युलूखलमुसला᳘भ्यां दृषदुपला᳘भ्याᳫँ᳭ हविर्य᳘ज्ञं[[!!]] घ्नन्ति॥

मूलम् - Weber

घ्न᳘न्ति वा᳘ एत᳘द्यज्ञ᳘म्॥
य᳘देनं तन्व᳘ते यॗन्न्वेव रा᳘जानमभिषुण्व᳘न्ति तत्तं᳘ 1 घ्नन्ति य᳘त्पशु᳘ᳫं᳘ संज्ञप᳘यन्ति विशा᳘सति तत्तं᳘ घ्नन्त्युलूखलमुसला᳘भ्यां दृषदुपला᳘भ्याᳫं हविर्यज्ञं᳘ घ्नन्ति॥

मूलम् - विस्वरम्

दक्षिणादानम् ।

घ्नन्ति वा ऽएतद्यज्ञम्- यदेनं तन्वते । यन्न्वेव राजानमभिषुण्वन्ति- तत् तं घ्नन्ति, यत्पशुं संज्ञपयन्ति, विशासति- तत् तं घ्नन्ति, उलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति ॥ १ ॥

सायणः

शुक्रामन्थ्यादिग्रहणप्रसङ्गाद्द्वितीयतृतीयमरुत्वतीयमाहेन्द्रग्रहाणां ग्रहणमभिधाय तत्र शुक्रामन्थिग्रहयागानन्तरं कर्तव्यं दक्षिणादानादिकं विधीयते, तत्रादावुपयोगमभिदधानः प्रसङ्गाद्दक्षिणापदनिर्वचनं च प्रदर्शयन् दक्षिणादानं विधत्ते- घ्नन्ति वा एतद्यज्ञमित्यादिना । ‘एनम्’ यज्ञं ‘तन्वते’ विस्तारयन्तीति यत्, एतेन ‘यज्ञं घ्नन्ति’ ‘वै’ कथं विस्तारेण हननमित्याह- यन्न्वेवेति । ‘पशुं संज्ञपयन्ति’ मारयन्तीति यत्, तत् ‘विशासति’ छन्दन्ति । अतस्तदपि हननम् ‘उलूखलमुसलाभ्यां दृषदुपलाभ्याम्’ वा हननपेषणयोः सम्पादनात् ‘हविर्यज्ञम्’ अपहन्ति । तस्मात् ‘स’ ‘एषः’ ‘यज्ञः’ हतत्वात् ‘न ददक्षे’ न समृद्धो ऽभूदिति ‘देवा दक्षिणाभिरदक्षयन्’ । अतो दक्षणसाधनत्वाद् ‘दक्षिणा’ इति नामधेयम् । “द्रुदक्षिभ्यामिनन्”- (उणा. सू. २ । ५० ।) इत्यौणादिक इनन्प्रत्ययः । ततः ‘अत्र’ ‘हतस्य’ ‘यज्ञस्य’ ‘यद्’ अङ्गम् ‘व्यथते’ पीडां प्राप्नोति ‘तत्’ ‘दक्षिणाभिर्दक्षयति’ समर्धयति । तथा च ‘यज्ञः’ ‘एव’ ‘समृद्धो भवति’ । ‘तस्माद्’ यज्ञस्य समृद्धये दक्षिणां दद्यादित्यर्थः ॥ १ ॥ २ ॥

Eggeling
  1. Now, they slay the sacrifice, when they spread (perform) it:–to wit, when they press out the king (Soma), they slay him; when they quiet the victim, they slay it; and with mortar and pestle, with the upper and nether millstone, they slay the havis offering.

०२

विश्वास-प्रस्तुतिः

स᳘ एष᳘ यज्ञो᳘ हतो न᳘ ददक्षे॥
तं᳘ देवा द᳘क्षिणाभिरदक्षयंस्तद्य᳘देनं द᳘क्षिणाभिर᳘दक्षयंस्त᳘स्माद्द᳘क्षिणा ना᳘म तद्य᳘देवा᳘त्र यज्ञ᳘स्य हत᳘स्य व्य᳘थते त᳘दे᳘वास्यैतद्द᳘क्षिणाभिर्दक्षयत्य᳘थ स᳘मृद्ध ऽएव᳘ यज्ञो᳘ भवति त᳘स्माद्द᳘क्षिणा ददाति॥

मूलम् - श्रीधरादि

स᳘ एष᳘ यज्ञो᳘ हतो न᳘ ददक्षे॥
तं᳘ देवा द᳘क्षिणाभिरदक्षयंस्तद्य᳘देनं द᳘क्षिणाभिर᳘दक्षयंस्त᳘स्माद्द᳘क्षिणा ना᳘म तद्य᳘देवा᳘त्र यज्ञ᳘स्य हत᳘स्य व्य᳘थते त᳘दे᳘वास्यैतद्द᳘क्षिणाभिर्दक्षयत्य᳘थ स᳘मृद्ध ऽएव᳘ यज्ञो᳘ भवति त᳘स्माद्द᳘क्षिणा ददाति॥

मूलम् - Weber

स᳘ एष᳘ यज्ञो᳘ हतो न᳘ ददक्षे॥
तं᳘ देवा द᳘क्षिणाभिरदक्षयंस्तद्य᳘देनं द᳘क्षिणाभिर᳘दक्षयंस्त᳘स्माद्द᳘क्षिणा ना᳘म तद्य᳘देवा᳘त्र यज्ञ᳘स्य हत᳘स्य व्य᳘थते त᳘देॗवास्यैतद्द᳘क्षिणाभिर्दक्षयत्य᳘थ स᳘मृद्ध एव᳘ यज्ञो᳘ भवति त᳘स्माद्द᳘क्षिणा ददाति॥

मूलम् - विस्वरम्

स एष यज्ञो हतो न ददक्षे । तं देवा दक्षिणाभिरदक्षयन् । तद् यदेनं दक्षिणाभिरदक्षयंस्तस्माद् दक्षिणा नाम । तद् यदेवात्र यज्ञस्य हतस्य व्यथते- तदेवास्यैतद्दक्षिणाभिर्दक्षयति- अथ समृद्ध एव यज्ञो भवति । तस्माद्दक्षिणा ददाति ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. When slain, that sacrifice was no longer vigorous. By means of dakshiṇās (gifts to the priests) the gods invigorated it: hence the name dakshiṇā, because thereby they invigorated (dakshay) it. Whatever, therefore, fails in this sacrifice, when slain, that he now invigorates by means of gifts to the priests; then the sacrifice becomes indeed successful: for this reason he makes gifts to the priests.

०३

विश्वास-प्रस्तुतिः

तद्वै षड्द्वा᳘दशे᳘त्येव᳘ हविर्यज्ञे᳘ ददति॥
न᳘ ह᳘ त्वेवा᳘शतदक्षिणः सौ᳘म्यो ऽध्वरः᳘ स्यादेष वै᳘ प्रत्य᳘क्षं य᳘ज्ञो यत्प्रजा᳘पतिः[[!!]] पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दिष्ठ᳘ᳫं᳘ सो ऽय᳘ᳫं᳘ ऽशता᳘युः शत᳘तेजाः शत᳘वीर्यस्त᳘ᳫं᳘ शते᳘नैव᳘ दक्ष᳘यति ना᳘शतेन[[!!]] त᳘स्मान्ना᳘शतदक्षिणः सौ᳘म्यो ऽध्वरः᳘ स्या᳘न्नो हैवा᳘शतदक्षिणेन य᳘जमानस्य ऽर्त्वि᳘क्स्यान्ने᳘दस्याक्षिभूर᳘सानि य᳘मिमे᳘ हनिष्य᳘न्त्येव न᳘ दक्षयिष्यन्ती᳘ति॥

मूलम् - श्रीधरादि

तद्वै षड्द्वा᳘दशे᳘त्येव᳘ हविर्यज्ञे᳘ ददति॥
न᳘ ह᳘ त्वेवा᳘शतदक्षिणः सौ᳘म्यो ऽध्वरः᳘ स्यादेष वै᳘ प्रत्य᳘क्षं य᳘ज्ञो यत्प्रजा᳘पतिः[[!!]] पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दिष्ठ᳘ᳫं᳘ सो ऽय᳘ᳫं᳘ ऽशता᳘युः शत᳘तेजाः शत᳘वीर्यस्त᳘ᳫं᳘ शते᳘नैव᳘ दक्ष᳘यति ना᳘शतेन[[!!]] त᳘स्मान्ना᳘शतदक्षिणः सौ᳘म्यो ऽध्वरः᳘ स्या᳘न्नो हैवा᳘शतदक्षिणेन य᳘जमानस्य ऽर्त्वि᳘क्स्यान्ने᳘दस्याक्षिभूर᳘सानि य᳘मिमे᳘ हनिष्य᳘न्त्येव न᳘ दक्षयिष्यन्ती᳘ति॥

मूलम् - Weber

तद्वै षड्द्वा᳘दशे᳘त्येव᳘ हविर्यज्ञे᳘ ददति॥
न᳘ हॗ त्वेवा᳘शतदक्षिणः सौ᳘म्यो ऽध्वरः᳘ स्यादेष वै᳘ प्रत्य᳘क्षं यज्ञो य᳘त्प्रजा᳘पतिः पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दिॗष्ठᳫं सो ऽयं᳘ शता᳘युः शत᳘तेजाः शत᳘वीर्यस्तं᳘ शते᳘नैव᳘ दक्ष᳘यति ना᳘शते᳘न त᳘स्मान्ना᳘शतदक्षिणः सौॗम्यो ऽध्वरः᳘ स्याॗन्नो हैवा᳘शतदक्षिणेन य᳘जमानस्यर्त्वि᳘क्स्यान्ने᳘दस्याक्षिभूर᳘सानि य᳘मिमे᳘ हनिष्य᳘न्त्येव न᳘ दक्षयिष्यन्ती᳘ति॥

मूलम् - विस्वरम्

तद्वै षड् द्वादशेत्येव हविर्यज्ञे ददति । न ह त्वेवाशतदक्षिणः सौम्यो ऽध्वरः स्यात् । एष वै प्रत्यक्षं यज्ञो- यत्प्रजापतिः । पुरुषो वै प्रजापतेर्नेदिष्ठम् । सो ऽयं शतायुः शततेजाः शतवीर्यः । तं शतेनैव दक्षयति- नाशतेन । तस्मान्नाशतदक्षिणः सौम्यो ऽध्वरः स्यात् । नो हैवांशतदक्षिणेन यजमानस्य ऽर्त्विक्स्यात् । नेदस्याक्षिभूरसानि यमिमे हनिष्यन्त्येव- न दक्षयिष्यन्तीति ॥ ३ ॥

सायणः

प्रसङ्गाद्धविर्यज्ञे हविर्यज्ञदक्षिणाकॢप्तिं दर्शयन् प्रकृते सोमयागे दक्षिणाकॢप्तिमाह- तद्वा इत्यादिना । न ह त्वेवेति । ‘सौम्यो ऽध्वरः’ ‘अशतदक्षिणः’ ‘न’ ‘एव’ ‘स्यात्’ । किन्तु शतदक्षिण इत्यर्थः । तत्र शतमिति गवां शतं विवक्ष्यते “गवां शतं द्वादशं वा” 2 (का. श्रौ. सू. १० । ३५)- इति कात्यायनवचनात् । “गवां सङ्ख्या भवति”- इत्यापस्तम्बवचनाच्च ।

शतदक्षिणत्वेन यज्ञस्य समृद्धिर्भवतीत्यत्रोपपत्तिमाह- एष वै प्रत्यक्षमित्यादि । ‘प्रजापतेर्नेदिष्ठम्’ इति नेदिष्ठं यथा भवति तथा वर्तते । तत एवोत्पन्नत्वादित्यर्थः । ‘शततेजाः’, ‘शतवीर्यः’ इति आयुरनुसारेण तेजोवीर्ययोरपि शतत्व द्रष्टव्यम् ।

उक्तसङ्ख्याया न्यूनत्वेनार्त्विज्यं न कुर्यादित्याह- नो हैवेत्यादि । ‘अशतदक्षिणेन’ यज्ञेन हेतुना ‘यजमानस्य’ ‘न’ ‘ऋत्विक्’ स्यात् । आर्त्विज्यं कुर्वतो ऽयमाशयः- ‘इमे’ यजमानसम्बन्धिनः पुरुषाः ‘यं’ यज्ञम् ‘हनिष्यन्त्येव’ हतं च तं न समर्द्धयन्ति । ‘अस्य’ ‘यज्ञस्य अक्षिभूः’ अक्षिगतो द्वेष्यो नैव भवानीति । अभिषवादिसम्पादनाद्धतस्य यज्ञस्य शतसङ्ख्याभिर्दक्षिणाभिः समृद्धिर्भवतीत्युक्तम्, तथा च सति शतदक्षिणाभावे ऽसमृद्धो यज्ञो भवतीति तत्रार्त्विज्यं कुर्वतो यज्ञवैकल्येन बाधा स्यात् । तस्माच्छतदक्षिण एव ऋत्विक् स्यादिति भावः ॥ ३ ॥

Eggeling
  1. Now at the Haviryajña, indeed, they give as little as six or twelve (cows 3), but no Soma-sacrifice should have dakshiṇās of less than a hundred. For

he, Prajāpati 4, forsooth, is the visible sacrifice; and man is nearest to Prajāpati, and he has a life of a hundred years, a hundred powers, a hundred energies. Only by a hundred he invigorates him, and not by less than a hundred: wherefore no Soma-sacrifice should have dakshiṇās of less than a hundred; nor should any one officiate as a priest for a sacrificer at a (Soma-sacrifice) where less than a hundred are given,–’lest he should be an eyewitness when they will but slay and not invigorate him (Soma).’

०४

विश्वास-प्रस्तुतिः

द्वया वै᳘ देवा᳘ देवाः᳘॥
(ऽ) अ᳘हैव᳘ देवा ऽअ᳘थ ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचानास्ते᳘ मनुष्यदेवास्ते᳘षां द्वेधा विभक्त᳘ ऽएव᳘ यज्ञ ऽआ᳘हुतय ऽएव᳘ देवा᳘नां द᳘क्षिणा मनुष्यदेवा᳘नां ब्राह्मणा᳘नाᳫँ᳭ शुश्रुवु᳘षामनूचाना᳘नामा᳘हुतिभिरेव᳘ देवा᳘न्प्रीणा᳘ति द᳘क्षिणाभिर्मनुष्यदेवा᳘न्ब्राह्मणा᳘ञ्छुश्रुवु᳘षो ऽनूचानांस्त᳘ ऽएनमुभ᳘ये देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति॥

मूलम् - श्रीधरादि

द्वया वै᳘ देवा᳘ देवाः᳘॥
(ऽ) अ᳘हैव᳘ देवा ऽअ᳘थ ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचानास्ते᳘ मनुष्यदेवास्ते᳘षां द्वेधा विभक्त᳘ ऽएव᳘ यज्ञ ऽआ᳘हुतय ऽएव᳘ देवा᳘नां द᳘क्षिणा मनुष्यदेवा᳘नां ब्राह्मणा᳘नाᳫँ᳭ शुश्रुवु᳘षामनूचाना᳘नामा᳘हुतिभिरेव᳘ देवा᳘न्प्रीणा᳘ति द᳘क्षिणाभिर्मनुष्यदेवा᳘न्ब्राह्मणा᳘ञ्छुश्रुवु᳘षो ऽनूचानांस्त᳘ ऽएनमुभ᳘ये देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति॥

मूलम् - Weber

द्वया वै᳘ देवा᳘ देवाः᳟॥
अ᳘हैव᳘ देवा अ᳘थ ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचानास्ते᳘ मनुष्यदेवास्ते᳘षां द्वेधाविभक्त᳘ एव᳘ यज्ञ आ᳘हुतय एव᳘ देवा᳘नां द᳘क्षिणा मनुष्यदेवा᳘नाम् ब्राह्मणा᳘नां शुश्रुवु᳘षामनूचाना᳘नामा᳘हुतिभिरेव᳘ देवा᳘न्प्रीणा᳘ति द᳘क्षिणाभिर्मनुष्यदेवा᳘न्ब्राह्मणा᳘ञ्छुश्रुवु᳘षो ऽनूचानांस्त᳘ एनमुभ᳘ये देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति॥

मूलम् - विस्वरम्

द्वया वै देवाः । देवा ऽअहैव देवाः, अथ ये ब्राह्मणाः शुश्रुवांसो ऽनूचानाः- ते मनुष्यदेवाः । तेषां द्वेधा विभक्त एव यज्ञः । आहुतय एव देवानाम्, दक्षिणा मनुष्यदेवानां ब्राह्मणानां शुश्रुवुषामनूचानानाम् । आहुतिभिरेव देवान्प्रीणाति, दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणाञ्छुश्रुवुषो ऽनूचानान् । त ऽएनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति ॥ ४ ॥

सायणः

विहितदक्षिणां प्रकारान्तरेण प्रशंसति- द्वया वै देवा इत्यादिना । ‘देवाः’ ‘द्वया वै’ द्विविधाः प्रसिद्धाः । “प्रथमचरमतया०”- इत्यादिना (पा. सू. १ । १ । ३३) जसि सर्वनामसंज्ञाया विकल्पेन विधानात्तदभावपक्षे रूपम् । द्वैविध्यमेव प्रदर्श्यते- अहैव देवा इति । ‘देवाः’ ‘अहेव’ स्वत एव स्वर्गे विद्यमाना ये देवास्ते एकविधा देवाः । ‘अथ ये ब्राह्मणाः’ कीदृशाः ‘अनूचानाः’ साङ्गे वेदे अधीतिनः । “उपेयिवाननाश्वाननूचानश्च” (पा. सू. ३ । २ । १०९) इति अनूचानशब्दो निपातितः । ‘शुश्रवांसः’ श्रवणवन्तो ज्ञानवन्तः । “क्वसुश्च”- (पा. सू. ३ । २ । १०७) इति क्वसुः । ‘ते मनुष्यदेवाः’ इति द्विविधा देवा दत्यर्थः । ‘तेषां द्वेधा विभक्तः’ इत्यादिकं तु निगदव्याख्यातम् ॥ ४ ॥

Eggeling
  1. Now, truly, there are two kinds of gods; for the gods, forsooth, are the gods; and the learned Brāhmans versed in sacred lore are the human gods. And the sacrifice to them is twofold, oblations (being the sacrifice) to the gods, and gifts to the priests being that to the human gods, to the learned Brāhmans versed in sacred lore. With oblations, forsooth, one gratifies the gods, and with gifts to the priests the human gods, the learned Brāhmans versed in sacred lore. These two kinds of gods, when gratified, convey him to the heavenly world.

०५

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएताः᳘॥
(ऽ) ऋत्वि᳘जामेव द᳘क्षिणा ऽअन्यं वा᳘ ऽएत᳘ ऽएत᳘स्यात्मा᳘नᳫँ᳭ सं᳘स्कुर्वन्त्येतं᳘ यज्ञ᳘मृङ्म᳘यं यजुर्म᳘यᳫँ᳭ सामम᳘यमाहुति᳘म᳘य᳘ᳫँ᳘ सो ऽस्यामु᳘ष्मिल्ँ लोक᳘ ऽआत्मा᳘ भवति तद्ये मा᳘ ऽजीजनन्ते᳘ति त᳘स्मादृत्वि᳘ग्भ्य एव द᳘क्षिणा दद्यान्ना᳘नृत्विग्भ्यः॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः᳘॥
(ऽ) ऋत्वि᳘जामेव द᳘क्षिणा ऽअन्यं वा᳘ ऽएत᳘ ऽएत᳘स्यात्मा᳘नᳫँ᳭ सं᳘स्कुर्वन्त्येतं᳘ यज्ञ᳘मृङ्म᳘यं यजुर्म᳘यᳫँ᳭ सामम᳘यमाहुति᳘म᳘य᳘ᳫँ᳘ सो ऽस्यामु᳘ष्मिल्ँ लोक᳘ ऽआत्मा᳘ भवति तद्ये मा᳘ ऽजीजनन्ते᳘ति त᳘स्मादृत्वि᳘ग्भ्य एव द᳘क्षिणा दद्यान्ना᳘नृत्विग्भ्यः॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
ऋत्वि᳘जामेव द᳘क्षिणा अन्यं वा᳘ एत᳘ एत᳘स्यात्मा᳘नᳫं स᳘ᳫं᳘स्कुर्वन्त्येतं᳘ यज्ञ᳘मृङ्म᳘यं यजुर्म᳘यᳫं सामम᳘यमाहुतिॗम᳘यᳫं सो ऽस्यामु᳘ष्मिंलोक᳘ आत्मा᳘ भवति तद्ये मा᳘जीजनन्ते᳘ति त᳘स्मादृत्वि᳘ग्भ्य एव द᳘क्षिणा दद्यान्ना᳘नृत्विग्भ्यः॥

मूलम् - विस्वरम्

ता वा ऽएता ऋत्विजामेव दक्षिणाः । अन्यं वा ऽएत ऽएतस्यात्मानं संस्कुर्वन्ति- एतं यज्ञमृङ्मयं यजुर्मयं साममयमाहुतिमयम् । सो ऽस्यामुष्मिंल्लोक ऽआत्मा भवति । तद् ये मा ऽजीजनन्तेति- तस्मादृत्विग्भ्य एव दक्षिणा दद्यात्, नानृत्विग्भ्यः ॥ ५ ॥

सायणः

उक्ताया दक्षिणाया ऋत्विक्सम्बन्धं सहोतृकं विधत्ते- ता वा इत्यादि । अन्यं वा इति । यत ऋत्विजः ‘एतस्य’ यजमानस्य ‘अन्यम्’ ‘आत्मानम्’ दृश्यमानशरीरव्यतिरिक्तं शरीरं ‘संस्कुर्वन्ति’ । एतं यज्ञमृङ्मयमिति । तद्ये मेति । ‘तत्’ तस्माद्यज्ञरूपशरीरान्तरोत्पादनाद्यजमान इमे ऋत्विजो माम् ‘अजीजनन्त इति’ मन्यते । ‘तस्मादृत्विग्भ्य एव’ ‘दद्यात्’ तद्व्यतिरिक्तेभ्यो न दद्यादित्यर्थः ॥ ५ ॥

Eggeling
  1. But it is to the officiating priests, forsooth, that these gifts of his belong, for they prepare him another self,–to wit, this sacrifice, consisting of R̥c and Yajus and Sāman and oblations,–that becomes his self in yonder world: ‘It is they that have generated me,’ from this (consideration) he should give the gifts to officiating priests and not to non-officiating.

०६

विश्वास-प्रस्तुतिः

(ग्भ्यो᳘ ऽथ) अ᳘थ प्रतिपरे᳘त्य गा᳘र्हपत्यम्॥
(न्दा) दक्षिणा᳘नि जुहोति स᳘ दशाहोमी᳘ये व्वा᳘ससि हि᳘रण्यं प्रब᳘ध्यावधा᳘य जुहोति देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते᳘ सो ऽस्यैष᳘ यज्ञो᳘ देवलोक᳘मे᳘वाभिप्रै᳘ति त᳘दनू᳘ची द᳘क्षिणा यां द᳘दाति᳘ सैति द᳘क्षिणामन्वार᳘भ्य य᳘जमानः॥

मूलम् - श्रीधरादि

(ग्भ्यो᳘ ऽथ) अ᳘थ प्रतिपरे᳘त्य गा᳘र्हपत्यम्॥
(न्दा) दक्षिणा᳘नि जुहोति स᳘ दशाहोमी᳘ये व्वा᳘ससि हि᳘रण्यं प्रब᳘ध्यावधा᳘य जुहोति देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते᳘ सो ऽस्यैष᳘ यज्ञो᳘ देवलोक᳘मे᳘वाभिप्रै᳘ति त᳘दनू᳘ची द᳘क्षिणा यां द᳘दाति᳘ सैति द᳘क्षिणामन्वार᳘भ्य य᳘जमानः॥

मूलम् - Weber

अ᳘थ प्रतिपरे᳘त्य गा᳘र्हपत्यम्॥
दक्षिणा᳘नि जुहोति स᳘ दशाहोमी᳘ये वा᳘ससि हि᳘रण्यम् प्रब᳘ध्यावधा᳘य जुहोति देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जतेॗ सो ऽस्यैष᳘ यज्ञो᳘ देवलोक᳘मेॗवाभिप्रै᳘ति त᳘दनू᳘ची द᳘क्षिणा यां द᳘दातिॗ सैति द᳘क्षिणामन्वार᳘भ्य य᳘जमानः॥

मूलम् - विस्वरम्

अथ प्रतिपरेत्य गार्हपत्यं दाक्षिणानि जुहोति । स दशाहोमीये वाससि हिरण्यं प्रवध्यावधाय जुहोति । देवलोके मे ऽप्यसदिति वै यजते- यो यजते । सो ऽस्यैष यज्ञो देवलोकमेवाभिप्रैति । तत् अनूची दक्षिणा । यां ददाति सैति । दक्षिणामन्वारभ्य यजमानः ॥ ६ ॥

सायणः

दाक्षिणहोमं विधत्ते- अथेत्यादि 5 । दक्षिणां दित्सुना कर्तव्यानि ‘दाक्षिणानि’ । होमे विशेषमाह- स दशाहोमीय इति । वाससि हिरण्यबन्धनस्य कारणमाह- देवलोक इत्यादि । तदनूची दक्षिणेति । तं यज्ञमनु अञ्चति गच्छतीति ‘अनूची’ तादृशी भवति । तस्माद् ‘याम्’ दक्षिणाम् ‘ददाति’ ‘सा’ स्वर्गं प्राप्नोति । ‘दक्षिणामन्वारभ्य’ अवलम्ब्य ‘यजमानः’ अपि स्वर्गं प्राप्नोति ॥ ६ ॥

Eggeling
  1. Having gone back to the Gārhapatya fire 6, he

offers the gift offerings. Having tied a piece of gold in a fringed cloth 7, and laid it (into the spoon), he offers. ‘May there be a place for me in the world of the gods!’ With this hope he offers whoever offers: that same sacrifice of his goes to the world of the gods; and behind it goes the gift he gives to the priests, and holding on to the gift follows the sacrificer.

०७

विश्वास-प्रस्तुतिः

(श्च᳘) च᳘तस्रो वै द᳘क्षिणाः॥
(०) हि᳘रण्यं गौर्व्वासो᳘ ऽश्वो न वै तद᳘वकल्पते यद᳘श्वस्य पा᳘दमवध्याद्य᳘द्वा गोः पा᳘दमवदध्यात्त᳘स्माद्दशाहोमी᳘ये व्वा᳘ससि हि᳘रण्यं प्रब᳘ध्यावधा᳘य जुहोति॥

मूलम् - श्रीधरादि

(श्च᳘) च᳘तस्रो वै द᳘क्षिणाः॥
(०) हि᳘रण्यं गौर्व्वासो᳘ ऽश्वो न वै तद᳘वकल्पते यद᳘श्वस्य पा᳘दमवध्याद्य᳘द्वा गोः पा᳘दमवदध्यात्त᳘स्माद्दशाहोमी᳘ये व्वा᳘ससि हि᳘रण्यं प्रब᳘ध्यावधा᳘य जुहोति॥

मूलम् - Weber

च᳘तस्रो वै द᳘क्षिणाः॥
हि᳘रण्यं गौर्वासो᳘ ऽश्वो न वै तद᳘वकल्पते यद᳘श्वस्य पा᳘दमवध्याद्य᳘द्वा गौः पा᳘दमवदध्यात्त᳘स्माद्दशाहोमी᳘ये वा᳘ससि हि᳘रण्यम् प्रब᳘ध्यावधा᳘य जुहोति॥

मूलम् - विस्वरम्

चतस्रो वै दक्षिणाः- हिरण्यम्, गौः, वासः, अश्वः । न वै तदवकल्पते यदश्वस्य पादमवदध्याद्, यद्वा गोः पादमवदध्यात् । तस्माद्दशाहोमीये वाससि हिरण्यं प्रवध्यावधाय जुहोति ॥ ७ ॥

सायणः

यज्ञे हिरण्यादयः ‘चतस्रः’ ‘दक्षिणाः’ दातव्या हि । तत्र यदि ‘अश्वस्य’ ‘गोः’ वा पादे ‘हिरण्यम्’ ‘अवदध्यात्’ तदा तदसम्बन्धात्स्वर्गं प्राप्तुं न शक्नोति । वाससि तु प्रबद्धं सहैव गन्तुं शक्नोति । ‘तस्माद्’ ‘हिरण्यम्’ स्वर्गगमनार्थम् ‘वाससि’ प्रवध्य’ जुहुयात् ॥ ७ ॥

Eggeling
  1. Now, there are four (kinds of) gifts to priests,–gold, the cow, cloth, and the horse. But it is not proper that he should lay a horse’s foot or a cow’s foot (into the spoon): hence he ties up a piece of gold in a fringed cloth, and having laid it (into the spoon) he offers.

०८

विश्वास-प्रस्तुतिः

सौरी᳘भ्यामृग्भ्यां᳘ जुहोति॥
त᳘मसा वा᳘ ऽअसौ᳘ लो᳘को ऽन्त᳘र्हितः स᳘ एते᳘न ज्यो᳘तिषा त᳘मो ऽपह᳘त्य स्वर्गं᳘ लोक᳘मुपसं᳘क्रामति त᳘स्मात्सौरी᳘भ्यामृग्भ्यां जुहोति॥

मूलम् - श्रीधरादि

सौरी᳘भ्यामृग्भ्यां᳘ जुहोति॥
त᳘मसा वा᳘ ऽअसौ᳘ लो᳘को ऽन्त᳘र्हितः स᳘ एते᳘न ज्यो᳘तिषा त᳘मो ऽपह᳘त्य स्वर्गं᳘ लोक᳘मुपसं᳘क्रामति त᳘स्मात्सौरी᳘भ्यामृग्भ्यां जुहोति॥

मूलम् - Weber

सौरी᳘भ्यामृग्भ्यां᳘ जुहोति॥
त᳘मसा वा᳘ असौ᳘ लोॗको ऽन्त᳘र्हितः स᳘ एते᳘न ज्यो᳘तिषा त᳘मो ऽपह᳘त्य स्वर्गं᳘ लोक᳘मुपसं᳘क्रामति त᳘स्मात्सौरी᳘भ्यामृग्भ्यां जुहोति॥

मूलम् - विस्वरम्

सौरीभ्यामृग्भ्यां जुहोति । तमसा वा ऽअसौ लोको ऽन्तर्हितः । स एतेन ज्योतिषा तमो ऽपहत्य स्वर्गं लोकमुपसंक्रामति । तस्मात्सौरीभ्यामृग्भ्यां जुहोति ॥ ८ ॥

सायणः

विहिते गार्हपत्याधिकरणे होमे मन्त्रौ विधत्ते- सौरीभ्यामिति । “सूर्यतिष्य०”- (पा. सू. ६ । ४ । १४९) इत्यादिना यकारलोपः । ‘तमसा वै’ इत्यादिनोक्तयोर्मन्त्रयोः सूर्यदेवत्यत्वे हेतुरुपन्यस्यते ॥ ८ ॥

Eggeling
  1. He offers with two verses to the Sun. For yonder world is shut off by darkness; and dispelling the darkness by that light he reaches the heavenly world: therefore he offers with two verses to the Sun.

०९

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
उ᳘दु त्यं᳘ जात᳘वेदसं देवं᳘ व्वहन्ति केत᳘वः॥
दृशे व्वि᳘श्वाय सू᳘र्यᳫँ᳭ स्वाहे᳘त्येत᳘या गायत्र्या᳘ गायत्री वा᳘ ऽइयं᳘ पृथिवी᳘ सेयं᳘ प्रतिष्ठा त᳘दस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
उ᳘दु त्यं᳘ जात᳘वेदसं देवं᳘ व्वहन्ति केत᳘वः॥
दृशे व्वि᳘श्वाय सू᳘र्यᳫँ᳭ स्वाहे᳘त्येत᳘या गायत्र्या᳘ गायत्री वा᳘ ऽइयं᳘ पृथिवी᳘ सेयं᳘ प्रतिष्ठा त᳘दस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥

मूलम् - Weber

स᳘ जुहोति॥
उ᳘दु त्यं᳘ जातॗवेदसं देवं᳘ वहन्ति केत᳘वः॥
दृशे वि᳘श्वाय सू᳘र्यᳫं स्वाहे᳘त्यत᳘या गायत्र्या᳘ गायत्री वा᳘ इय᳘म् पृथिवीॗ सेय᳘म् प्रतिष्ठा त᳘दस्या᳘मेॗवैत᳘त्प्रतिष्ठा᳘याम् प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

स जुहोति- “उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यं स्वाहा” (वा. सं. ७ । ४१) इत्येतया गायत्र्या । गायत्री वा ऽइयं पृथिवी । सेयं प्रतिष्ठा । तदस्यामेव प्रतिष्ठायां प्रतितिष्ठति ॥ ९ ॥

सायणः

विहितयोर्मन्त्रयोः प्रथमं दर्शयति- स जुहोतिउदु त्यं जातवेदसमिति (का. श्रौ. सू. । १० ।२९) । उत्तरत्र एतन्मन्त्रगतस्य गायत्रीछन्दसः प्रयोजनं दर्शयितुम् ‘एतया गायत्र्या’ इति वर्णितम् । मन्त्रस्यायमर्थः- ‘केतवः’ रश्मयः ‘त्यम्’ तम्, त्यच्छब्दस्यैतद्रूपम् । ‘जातवेदसम्’ जातं वेत्ति, वेदयति वा जातवेदास्तं सर्वज्ञम् ‘देवम्’ दानादिगुणयुक्तम् ‘सूर्यम्’ ‘विश्वाय’ विश्वस्य जगतः ‘दृशे’ दर्शनाय समस्तस्य लोकस्य दर्शनादिव्यवहारसिद्ध्यर्थम् ‘उद्-वहन्ति’ ऊर्ध्वदेशं प्रापयन्ति । उक्तमन्त्रगतस्य गायत्रीछन्दसः प्रयोजनं दर्शयति- गायत्री वा इत्यादि । गायत्र्या अग्निना सहोत्पत्तिराम्नाता- “स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवता ऽन्वसृज्यत गायत्री छन्दः” (तै. सं. ७ । १ । १) इति । अग्निश्च पृथिव्यभिमानिनी देवता, अतस्तत्सम्बन्धाद्गायत्र्याः पृथिवीत्वम् । अत एव श्रूयते- “गायत्री वै पृथिवी” इति ॥ ९ ॥

Eggeling
  1. He offers with this gāyatrī verse (Vāj. S. VII, 41; Rig-veda I, 50, 1), ‘The lights bear on high that divine knower of beings, Sūrya, that all may see him,–Hail!’–for the gāyatrī is this earth, and she is a safe resting-place hence he thereby stands firmly on this safe resting-place.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ द्विती᳘यां जुहोति॥
चित्रं᳘ देवा᳘नामु᳘दगाद᳘नीकं च᳘क्षुर्मित्र᳘स्य व्व᳘रुणस्याग्नेः[[!!]]॥
आ᳘प्रा द्या᳘वापृथिवी᳘ ऽअन्त᳘रिक्षᳫँ᳭ सू᳘र्य आत्मा ज᳘गतस्तस्थु᳘षश्च स्वाहे᳘त्येत᳘या त्रिष्टु᳘भा लोक᳘मे᳘वैत᳘योपप्रै᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ द्विती᳘यां जुहोति॥
चित्रं᳘ देवा᳘नामु᳘दगाद᳘नीकं च᳘क्षुर्मित्र᳘स्य व्व᳘रुणस्याग्नेः[[!!]]॥
आ᳘प्रा द्या᳘वापृथिवी᳘ ऽअन्त᳘रिक्षᳫँ᳭ सू᳘र्य आत्मा ज᳘गतस्तस्थु᳘षश्च स्वाहे᳘त्येत᳘या त्रिष्टु᳘भा लोक᳘मे᳘वैत᳘योपप्रै᳘ति॥

मूलम् - Weber

अ᳘थ द्विती᳘यां जुहोति॥
चित्रं᳘ देवा᳘नामु᳘दगाद᳘नीकं च᳘क्षुर्मित्र᳘स्य व᳘रुणस्याग्नेः᳟॥
आ᳘प्रा द्या᳘वापृथिवी᳘ अन्त᳘रिक्षᳫं सू᳘र्य आत्मा ज᳘गतस्तस्थु᳘षश्च स्वाहे᳘त्येत᳘या त्रिष्टु᳘भा लोक᳘मेॗवैत᳘योपप्रै᳘ति॥

मूलम् - विस्वरम्

अथ द्वितीयां जुहोति- “चित्रं देवानामुदगादनीकं । चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी ऽअन्तरिक्षं । सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा”- (वा. सं. ७ । ४२) इत्येतया त्रिष्टुभा लोकमेवैतयोपप्रैति ॥ १० ॥

सायणः

द्वितीयाहुतेर्मन्त्रं दर्शयति- अथ द्वितीयां जुहोति चित्रं देवानामित्यादि 8 । अत्रापि पूर्ववत्प्रयोजनाभिधित्सया ‘एतया त्रिष्टुभा’ इत्युक्तम् । ‘चित्रम्’ 9 चयनीयं पूजनीयम् ‘देवानाम्’ ‘अनीकम्’ संघातरूपं मण्डलम् ‘उदगात्’ । उदगादिति “छन्दसि लुङ्लङ्लिटः” (पा. सू. ३ । ४ । ६) इति लुङ् । “गातिस्था”- (पा. सू. २ । ४ । ७७) इत्यादिना सिचो लुक् । कीदृशं मण्डलम् ‘मित्रस्य वरुणस्याग्नेः’ चक्षुःस्थानीयम् । उपलक्षणं चैतत् । सर्वेषां देवानां चक्षूरूपम् । किञ्चैतन्मण्डलान्तर्गतः ‘सूर्यः’ कीदृशः ‘जगतः’ जङ्गमस्य ‘तस्थुषः’ स्थावरस्य च ‘आत्मा’ । ‘द्यावापृथिवी’ । द्यावापृथिव्यौ । “वा च्छन्दसि”- (पा. सू. ६ । १ । १०६) इति पूर्वसवर्णदीर्घः । ‘अन्तरिक्षम्’ च ‘आप्राः’ आपूरयति । पुरुषव्यत्ययः (पा. सू. ३ । १ । ८५) । अदादित्वाच्छपो लुक् (पा. सू. २ । ४ । ७२) । मन्त्रगतस्य त्रिष्टुप्छन्दसः प्रयोजनं दर्शयति- लोकमेवेति । ‘एतया त्रिष्टुभा’ ‘लोकम्’ ऊर्ध्वलोकमभिलक्ष्य प्रगच्छति । त्रिष्टुप्छन्दसोर्ध्वलोकसम्बन्धः क्वचिदाम्नायते- “त्रिष्टुभमन्तरिक्षम्” इति ॥ १० ॥

Eggeling
  1. He then makes the second offering with this trishṭubh verse (Vāj. S. VII, 42; Rig-veda I, 115, I), ‘The brilliant front 10 of the gods hath risen,

the eye of Mitra, Varuṇa, and Agni: Sūrya, the soul of the movable and immovable, hath filled the heaven and the earth and the air,–Hail!’ whereby he approaches the world (of the gods).

११

विश्वास-प्रस्तुतिः

(त्य) अथा᳘ग्नीध्रे॥
द्वे वै᳘कां वा जुहोति तद्य᳘दग्नावा᳘ग्नीध्रे द्वे वै᳘कां वा जुहो᳘त्यग्निर्व्वै᳘ पशूना᳘मीष्टे त᳘ ऽएनमभि᳘तः परिणि᳘विशन्ते त᳘मेतया᳘ ऽऽहुत्या प्रीणाति᳘ सो ऽस्मै प्रीतो᳘ ऽनुमन्यते तेना᳘नुमतान्ददाति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘ग्नीध्रे॥
द्वे वै᳘कां वा जुहोति तद्य᳘दग्नावा᳘ग्नीध्रे द्वे वै᳘कां वा जुहो᳘त्यग्निर्व्वै᳘ पशूना᳘मीष्टे त᳘ ऽएनमभि᳘तः परिणि᳘विशन्ते त᳘मेतया᳘ ऽऽहुत्या प्रीणाति᳘ सो ऽस्मै प्रीतो᳘ ऽनुमन्यते तेना᳘नुमतान्ददाति॥

मूलम् - Weber

अथा᳘ग्नीध्रे॥
द्वे वै᳘कां वा जुहोति तद्य᳘दग्नावा᳘ग्नीध्रे द्वे वै᳘कां वा जुहो᳘त्यग्निर्वै᳘ पशूना᳘मीष्टे त᳘ एनमभि᳘तः परिणि᳘विशन्ते त᳘मेतया᳘हुत्या प्रीणातिॗ सो ऽस्मै प्रीतोॗ ऽनुमन्यते तेना᳘नुमतां ददाति॥

मूलम् - विस्वरम्

अथाग्नीध्रे द्वे वैकां वा जुहोति । तद् यदग्नावाग्नीध्रे द्वे वैकां वा जुहोति । अग्निर्वै पशूनामीष्टे । त ऽएनमभितः परिणिविशन्ते । तमेतया ऽऽहुत्या प्रीणाति । सो ऽस्मै प्रीतो ऽनुमन्यते । तेनानुमतान् ददाति ॥ ११ ॥

सायणः

विधत्ते- अथाग्नीध्र इत्यादि । आग्नीध्रमग्नीधो गृहम् । “अग्नीधः शरणे रण् भं च इति-” (पा. सू. ४ । ३ । १२० । वा. २) इति रण् प्रत्ययः । तत्रत्ये अग्नौ ‘द्वे वा एकां वा’ आहुतिं जुहुयात् । विहितमर्थमनूद्य तत्र कारणमाह- तद्यदग्नावित्यादि । अग्निर्वै पशूनामीष्ट इति । अग्निरिति रुद्रः । एतच्च तैत्तिरीयके श्रूयते- “देवासुराः संयत्ता आसन् ते देवा विजयमुपयन्तो ऽग्नौ वामं वसु संन्यदधतेदमु नो भविष्यति यदि नो जेष्यन्तीति । तदग्निर्न्यकामयत तेनापक्रामत्तद्देवा विजित्यावरुरुत्समाना अन्वायन् तदस्य सहसा ऽदित्सन्त सो ऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्” (तै. सं. १ । ५ । १) इति । रुद्रश्च पशूनामधिपतिः । “रुद्रः पशूनामधिपतिः” (तै. सं. ६ । २ । ४) इति श्रुतेः । तस्मादग्निः पशूनामिति “अधीगर्थदयेशां कर्मणि” (पा. सू २ । ३ । ५२) इति षष्ठी । ‘ते’ पशवः ‘एनम्’ स्वामिनमग्निम् ‘अभितः’ ‘परिणिविशन्ते’ परिवेष्टन्ते । “नेर्विशः” (पा. सू. १ । ३ । १७) इति आत्मनेपदम् । परं च ‘एतया ऽऽहुत्या’ प्रीणितो ऽग्निः स्वकीयान् पशून् ‘अस्मै’ यजमानायानुजानाति । पश्चात्तदनुज्ञातानेव ‘ददाति’ ॥ ११ ॥

Eggeling
  1. He then makes either one or two oblations on the Āgnīdhra (fire). The reason why he makes one or two oblations on the Āgnīdhra fire is that Agni rules over beasts (cattle) 11, and they lie round about him on every side: it is him he pleases by this oblation, and thus pleased he is gracious unto this (sacrificer), and the latter offers (to the priests a cow) graciously given up by him (Agni).

१२

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
(त्य᳘) अ᳘ग्ने न᳘य सुप᳘था राये᳘ ऽअस्मान्वि᳘श्वानि देव व्वयु᳘नानि व्विद्वान्[[!!]]॥
युयो᳘ध्यस्म᳘ज्जुहुराणमे᳘नो[[!!]] भू᳘यिष्ठां ते न᳘मउक्तिं व्विधेम स्वाहेत्य᳘थ यद्य᳘श्वं युक्तं वा᳘ ऽयुक्तं वा दास्यन्त्स्याद᳘थ द्विती᳘यां जुहुयाद्य᳘द्यु न ना᳘द्रियेत॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
(त्य᳘) अ᳘ग्ने न᳘य सुप᳘था राये᳘ ऽअस्मान्वि᳘श्वानि देव व्वयु᳘नानि व्विद्वान्[[!!]]॥
युयो᳘ध्यस्म᳘ज्जुहुराणमे᳘नो[[!!]] भू᳘यिष्ठां ते न᳘मउक्तिं व्विधेम स्वाहेत्य᳘थ यद्य᳘श्वं युक्तं वा᳘ ऽयुक्तं वा दास्यन्त्स्याद᳘थ द्विती᳘यां जुहुयाद्य᳘द्यु न ना᳘द्रियेत॥

मूलम् - Weber

स᳘ जुहोति॥
अ᳘ग्ने न᳘य मुप᳘था राये᳘ अस्मान्वि᳘श्वानि देव वयु᳘नानि विद्वा᳘न्॥
युयोध्य᳘स्म᳘ज्जुहुराणमे᳘नो भू᳘यिष्ठां ते न᳘मौक्तिं विधेम स्वाहेत्य᳘थ यद्य᳘श्वं युक्तं वा᳘युक्तं वा दास्यन्त्स्याद᳘थ द्विती᳘यां जुहुयाद्य᳘द्यु न ना᳘द्रियेत॥

मूलम् - विस्वरम्

स जुहोति- “अग्ने नय सुपथा राये ऽअस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम स्वाहा”- (वा. सं. ७ । ४३) इति । अथ यद्यश्वं युक्तं वा ऽयुक्तं वा दास्यन्त्स्यात्- अथ द्वितीयां जुहुयाद्- यद्यु न नाद्रियेत ॥ १२ ॥

सायणः

विहिते होममनूद्य मन्त्रं विधत्ते- स जुहोत्यग्ने नयेत्यादि 12 । हे ‘अग्ने !’ ‘विश्वानि’ ‘वयुनानि’ ज्ञानानि ‘विद्वान्’ त्वम् ‘अस्मान्’ ‘राये’ धनाय ‘सुपथा’ शोभनेन मार्गेण । “न पूजनात्”- (पा. सू. ५ । ४ । ६९) इति समासान्तो निषिध्यते । ‘नय’ प्रापय । किंच ‘जुहुराणम्’ कुटिलम् ‘एनः’ पापम् ‘अस्मत्’ अस्मत्तः ‘युयोधि’ पृथक् कुरु । “वा छन्दसि”- (पा. सू. ३ । ४ । ८८) इति सिबादेशस्य हेरपित्त्वं विकल्पितम् । तथा च पित्त्वपक्षे अङित्त्वाद् “अङितश्च”- (पा. सू. ६ । ४ । १०३) इति धिरादेशः । वयं च ‘ते’ ‘भूयिष्ठाम्’ ‘नमउक्तिम्’ नमस्कारम् ‘विधेम’ कुर्याम । ‘विध विधाने’ (धा. पा. तु. प. ३४) इति । ‘स्वाहा’ इदं हविः स्वाहुतमस्तु ।

द्वितीयाहुतेर्नैमित्तिकत्वमाह- अथ यद्यश्वमित्यादि । ‘युक्तम्’ रथे विनियुक्तम् ‘अयुक्तम्’ अविनियुक्तम् ॥ १२ ॥

Eggeling
  1. He offers with (Vāj. S. VII, 43; Rig-veda I, 189, 1), ‘O Agni, lead us on a good path unto wealth; thou, O god, that knowest all works! keep thou from us the sin that leadeth astray, and we will offer unto thee most ample adoration,–‘Hail!’ Thereupon, if he intends to give away a horse, harnessed or unharnessed, let him make a second oblation; but if not, he need not attend to this.

१३

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
(त्य) अयं᳘ नो ऽअग्निर्व्व᳘रिवस्कृणोत्वयं मृ᳘धः पुर᳘ ऽएतु प्रभिन्दन्[[!!]]॥ अयं व्वा᳘जाञ्जयतु व्वा᳘जसातावयᳫँ᳭ श᳘त्रूञ्जयतु ज᳘र्हृषाणः स्वाहे᳘ति व्वाजसा ह्यश्वः᳘[[!!]]॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
(त्य) अयं᳘ नो ऽअग्निर्व्व᳘रिवस्कृणोत्वयं मृ᳘धः पुर᳘ ऽएतु प्रभिन्दन्[[!!]]॥ अयं व्वा᳘जाञ्जयतु व्वा᳘जसातावयᳫँ᳭ श᳘त्रूञ्जयतु ज᳘र्हृषाणः स्वाहे᳘ति व्वाजसा ह्यश्वः᳘[[!!]]॥

मूलम् - Weber

स᳘ जुहोति॥
अयं᳘ नो अग्निर्व᳘रिवस्कृणोत्वयम् मृ᳘धः पुर᳘ एतु प्रभिन्द᳘न् अयं वा᳘जान्जयतु वा᳘जसातावयं श᳘त्रून्जयतु ज᳘र्हृषाणः स्वाहे᳘ति वाजसा ह्य᳘श्वः॥

मूलम् - विस्वरम्

स जुहोति- “अयं नो ऽअग्निर्वरिवस्कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयं वाजाञ्जयतु वाजसातावयं शत्रूञ्जयतु जर्हृषाणः स्वाहा”- (वा. सं. ७ । ४४) इति । वाजसा ह्यश्वः ॥ १३ ॥

सायणः

द्वितीयाहुतेः कर्तव्यपक्षे मन्त्रमाह- स जुहोत्ययं नो अग्निरित्यादि 12 । आग्नीध्रीयः ‘अग्निः’ ‘नः’ अस्माकम् ‘वरिवः’ धनम् ‘कुणोतु’ सम्पादयतु । “कृवि हिंसाकरणयोः”- (धा. पा. भ्वा. प. ९४) “विन्विकृण्व्योर च” (पा. सू. ३ । १ । ८०) इति उप्रत्ययः, अकारश्चान्तादेशः । तस्य स्थानिषद्भावाल्लघूपधगुणो न भवति । न केवलमयं धनमेव करोतु किन्तु ‘मृधः’ संग्रामान् ‘प्रभिन्दन्’ पुरस्ताद् ‘एतु’ गच्छतु । किंच ‘अयम्’ ‘वाजसातौ’ वाजो ऽन्नं (निघं० २ । ७ । २) सो ऽस्मिन् सायते सम्भज्यत इति वाजसातिः संग्रामस्तस्मिन्, ‘वाजान्’ अन्नानि ‘जयतु’ स्वाधीनं करोतु । ‘जर्हृषाणः’ अतिशयेन हृष्यन् ‘शत्रूंश्च जयतु’ । मन्त्रे वाजशब्दप्रयोगस्य तात्पर्यमाह- वाजसा ह्यश्व इति । ‘अश्वः’ वाजमन्नं सनोति सम्भजतीति ‘वाजसाः’ “जनसनखनक्रमगमो विट्”- (पा. सू. ३ । २ । ६७) इति विट्प्रत्ययः । “विड्वनोरनुनासिकस्यात्”- (पा. सू. ६ । ४ । ४१) इति आत्वम् । अस्य जयसिद्धिसाधकत्वादन्नसम्पादकत्वम् । अनेनैवाभिप्रायेण साध्यसाधनभेदाविवक्षया ऽश्वस्यान्नरूपत्वं क्वचिदाम्नायते- “अश्वो वै बृहद्वयः” (तै. शा. ३ । ९ । ५) इति । वय इत्यन्ननामधयेम् (निघं. २ । ७ । ७) यतो ऽश्वो ऽस्य वाजसाः तस्मात्तद्दानाङ्गभूतस्य साधने मन्त्रे वाजशब्दप्रयोग इत्यर्थः ॥ १३ ॥

Eggeling
  1. He offers with (Vāj. S. VII, 44), ‘May this Agni make wide room for us: may he march in front smiting the haters! May he gain riches in the winning of riches: may he, fiercely rushing, conquer the enemies! Hail!’ for the horse is a winner of riches (spoils, prizes).

१४

विश्वास-प्रस्तुतिः

(श्वो᳘ ऽथ) अ᳘थ हि᳘रण्यमादा᳘य शा᳘लामभ्यै᳘ति॥
द᳘क्षिणेन व्वे᳘दिं द᳘क्षिणा उ᳘पतिष्ठन्ते सो᳘ ऽग्रेण शा᳘लां ति᳘ष्ठन्नभि᳘मन्त्रयते रूपे᳘ण वो रूप᳘मभ्या᳘गामि᳘ति न᳘ ह वा ऽअ᳘ग्रे पश᳘वो दा᳘नाय चक्षमिरे᳘ ते ऽपनिधा᳘य स्वा᳘नि रुपा᳘णि श᳘रीरैः प्रत्यु᳘पातिष्ठन्त ता᳘नेत᳘द्देवाः स्वै᳘रेव᳘ रूपै᳘र्यज्ञस्या᳘र्धादु᳘पायंस्ते स्वा᳘नि रूपा᳘णि जानाना᳘ अभ्य᳘वायंस्ते᳘ रात᳘मनसो᳘ ऽलं दा᳘नायाभवंस्त᳘थो ऽए᳘वैनानेष᳘ एतत्स्वै᳘रेव᳘ रूपै᳘र्यज्ञस्या᳘र्धादु᳘पैति ते स्वा᳘नि रूपा᳘णि जानाना᳘ ऽअभ्य᳘वायन्ति ते᳘ रात᳘मनसो᳘ ऽलं दा᳘नाय भवन्ति॥

मूलम् - श्रीधरादि

(श्वो᳘ ऽथ) अ᳘थ हि᳘रण्यमादा᳘य शा᳘लामभ्यै᳘ति॥
द᳘क्षिणेन व्वे᳘दिं द᳘क्षिणा उ᳘पतिष्ठन्ते सो᳘ ऽग्रेण शा᳘लां ति᳘ष्ठन्नभि᳘मन्त्रयते रूपे᳘ण वो रूप᳘मभ्या᳘गामि᳘ति न᳘ ह वा ऽअ᳘ग्रे पश᳘वो दा᳘नाय चक्षमिरे᳘ ते ऽपनिधा᳘य स्वा᳘नि रुपा᳘णि श᳘रीरैः प्रत्यु᳘पातिष्ठन्त ता᳘नेत᳘द्देवाः स्वै᳘रेव᳘ रूपै᳘र्यज्ञस्या᳘र्धादु᳘पायंस्ते स्वा᳘नि रूपा᳘णि जानाना᳘ अभ्य᳘वायंस्ते᳘ रात᳘मनसो᳘ ऽलं दा᳘नायाभवंस्त᳘थो ऽए᳘वैनानेष᳘ एतत्स्वै᳘रेव᳘ रूपै᳘र्यज्ञस्या᳘र्धादु᳘पैति ते स्वा᳘नि रूपा᳘णि जानाना᳘ ऽअभ्य᳘वायन्ति ते᳘ रात᳘मनसो᳘ ऽलं दा᳘नाय भवन्ति॥

मूलम् - Weber

अ᳘थ हि᳘रण्यमादा᳘य शा᳘लामभ्यै᳘ति॥
द᳘क्षिणेन वे᳘दिं द᳘क्षिणा उ᳘पतिष्ठन्ते सो᳘ ऽग्रेण शा᳘लां ति᳘ष्ठन्नभि᳘मन्त्रयते रूपे᳘ण वो रूपमभ्या᳘गामि᳘ति न᳘ ह वा अ᳘ग्रे पश᳘वो दा᳘नाय चक्षमिरेॗ ते ऽपनिधा᳘य स्वा᳘नि रुपा᳘णि श᳘रीरैः प्रत्यु᳘पातिष्ठन्त ता᳘नेत᳘द्देवाः स्वै᳘रेव᳘ रूपै᳘र्यज्ञस्या᳘र्धादु᳘पायंस्ते स्वा᳘नि रूपा᳘णि जानाना᳘ अभ्य᳘वायंस्ते᳘ रात᳘मनसो᳘ ऽलं दा᳘नायाभवंस्त᳘थो एॗवैनानेष᳘ एतत्स्वै᳘रेव᳘ रूपै᳘र्यज्ञस्या᳘र्धादु᳘पैति ते स्वा᳘नि रूपा᳘णि जानाना᳘ अभ्य᳘वायन्ति ते᳘ रात᳘मनसो᳘ ऽलं दा᳘नाय भवन्ति॥

मूलम् - विस्वरम्

अथ हिरण्यमादाय शालामभ्यैति- दक्षिणेन वेदिम्- दक्षिणा उपतिष्ठन्ते । सो ऽग्रेण शालां तिष्ठन्नभिमन्त्रयते- “रूपेण वो रूपमभ्यागाम्”- (वा. सं. ७ । ४५) इति । न ह वा अग्रे पशवो दानाय चक्षमिरे । ते ऽपनिधाय स्वानि रूपाणि शरीरैः प्रत्युपातिष्ठन्त । तानेतद्देवाः स्वैरेव रूपैर्यज्ञस्यार्धादुपायन् । ते स्वानि रूपाणि जानाना अभ्यवायन् । वे रातमनसो ऽलं दानायाभवन् । तथो ऽएवैनानेष एतत्स्वैरेव रूपैर्यज्ञस्यार्धादुपैति । ते स्वानि रूपाणि जानाना अभ्यवायन्ति । ते रातमनसो ऽलं दानाय भवन्ति ॥ १४ ॥

सायणः

विधत्ते- अथ हिरण्यमादायेत्यादि 13दक्षिणेन वेदिमिति । “एनपा द्वितीया” (पा. सू. २ । ३ । ३१) इति द्वितीया । दक्षिणा इति । दक्षिणार्था गावः । सो ऽग्रेणेति । शालाया अग्रभागे तिष्ठन्- “रूपेण वः” इत्यादिना मन्त्रेण दक्षिणार्धा गाः ‘अभिमन्त्रयते’ इत्यर्थः ॥

मन्त्रस्य प्रथमभागं व्याचष्टे- न ह वा इति । ‘अग्रे’ पूर्वम् ‘पशवो दानाय’ ‘न’ समर्था बभूवुः किल यतः ‘ते’ पशवः ‘स्वानि रूपाणि’ सामर्थ्यानि ‘अपनिधाय’ शरीरमात्रेणैवोपस्थिताः; ‘एतत्’ एतेन रूपेण व इत्यादि मन्त्रभागस्योच्चारणेन ‘देवाः’ ‘तान्’ दानसमर्थान्पशून् ‘स्वैरेव रूपैः’ सहिताः ‘यज्ञस्यार्द्धात्’ मध्यात् ‘उपायन्’ यज्ञमध्यं माध्यन्दिनसवनमाश्रित्य प्राप्नुवन्नित्यर्थः । अर्द्धादिति कर्मणि ल्यब्लोपे पञ्चमी (पा. सू. १ । ४ । ३१ वा. १) । ततश्चैते ‘स्वानि’ सामर्थ्यानि ‘जानानाः’ अभिमुखमागताः पश्चात् स्वसामर्थ्योपेतत्वात् ‘रातमनसः’ सन्तो दानाय समर्था बभूवुः । एतन्मन्त्रभागोच्चारणेन तथैव भवतीत्यर्थः ॥ १४ ॥

Eggeling
  1. Thereupon, taking some gold, (the sacrificer)

goes to the hall. South of the altar stand the Dakshiṇā (cows). Standing in front of the hall, he respectfully addresses them 14 with (Vāj. S. VII, 45), ‘By your beauty have I come to beauty.’ Now at first cattle did not submit to being given away. Laying aside their own beauteous forms 15 they approached with their (bare) bodies. The gods then went up to them from the offering ground with their (the animals’) own forms; and they, knowing their own forms, resigned themselves and became well-disposed to being given away. And in like manner does he now go up to them from the offering ground with their own forms; and they, knowing their own forms, resign themselves and become well-disposed to being given away.

१५

विश्वास-प्रस्तुतिः

तथो᳘ वो व्विश्व᳘वेदा व्वि᳘भजत्वि᳘ति॥
ब्र᳘ह्म वै᳘ तुथस्त᳘देना ब्र᳘ह्मणा व्वि᳘भजति ब्र᳘ह्म वै᳘ दक्षिणी᳘यं चादक्षिणीयं᳘ च व्वेद त᳘थो हास्यैता᳘ दक्षिणी᳘यायैव᳘ दत्ता᳘ भ᳘वन्ति᳘ नादक्षिणीया᳘य॥

मूलम् - श्रीधरादि

तथो᳘ वो व्विश्व᳘वेदा व्वि᳘भजत्वि᳘ति॥
ब्र᳘ह्म वै᳘ तुथस्त᳘देना ब्र᳘ह्मणा व्वि᳘भजति ब्र᳘ह्म वै᳘ दक्षिणी᳘यं चादक्षिणीयं᳘ च व्वेद त᳘थो हास्यैता᳘ दक्षिणी᳘यायैव᳘ दत्ता᳘ भ᳘वन्ति᳘ नादक्षिणीया᳘य॥

मूलम् - Weber

तथो᳘ वो विश्व᳘वेदा वि᳘भजत्वि᳘ति॥
ब्र᳘ह्म वै᳘ तुथस्त᳘देना ब्र᳘ह्मणा वि᳘भजति ब्र᳘ह्म वै᳘ दक्षिणी᳘यं चादक्षिणियं᳘ च वेद त᳘थो हास्यैता᳘ दक्षिणी᳘यायैव᳘ दत्ता᳘ भवन्ति नादक्षिणीया᳘य॥

मूलम् - विस्वरम्

“तुथो वो विश्ववेदा विभजतु”- (वा० सं० ७ । ४५) इति । ब्रह्म वै तुथः । तद् एना ब्रह्मणा विभजति । ब्रह्म वै दक्षिणीयं चादक्षिणीयं च वेद । तथो हास्येता दक्षिणीयायैव दत्ता भवन्ति, नादक्षिणीयाय ॥ १५ ॥

सायणः

द्वितीयं भागं व्याचष्टे- तुथो व इत्यादि । तुथ इति साक्षात् परब्रह्म ‘दक्षिणीयम्’ दक्षिणार्हम् ‘अदक्षिणीयम्’ दक्षिणानर्हम् ‘च’ जानाति “कडङ्करदक्षिणाच्छ च”- (पा. सू. ५ । १ । ६९) इति । अर्हार्थे छप्रत्ययः । अतः ‘तुथो’ ‘विभजतु’ इत्युक्ते ऽनेनैवादिभागः कृतो भवतीति । प्रमादाददक्षिणीयाय दत्तापि दक्षिणीयायैव दत्ता भवतीति भावः ॥ १५ ॥

Eggeling
  1. ‘May the all-knowing Tutha distribute you!’–Now, Tutha is the Brahman: he thus distributes them by means of the Brahman. And the Brahman knows who is fit to receive a dakshiṇā and who is unfit: thus these (cows) of his are given away only to him who is fit to receive a dakshiṇā and not to him who is unfit.

१६

विश्वास-प्रस्तुतिः

(यर्त᳘) ऋत᳘स्य पथा प्रेते᳘ति॥
यो वै᳘ देवा᳘नां पथै᳘ति स᳘ ऽऋत᳘स्य प᳘थैति चन्द्र᳘दक्षिणा इ᳘ति त᳘देते᳘न ज्यो᳘तिषा यन्ति॥

मूलम् - श्रीधरादि

(यर्त᳘) ऋत᳘स्य पथा प्रेते᳘ति॥
यो वै᳘ देवा᳘नां पथै᳘ति स᳘ ऽऋत᳘स्य प᳘थैति चन्द्र᳘दक्षिणा इ᳘ति त᳘देते᳘न ज्यो᳘तिषा यन्ति॥

मूलम् - Weber

ऋत᳘स्य पथा प्रेते᳘ति॥
यो वै᳘ देवा᳘नाम् पथै᳘ति स᳘ ऋत᳘स्य पॗथैति चन्द्र᳘दक्षिणा इ᳘ति त᳘देते᳘न ज्यो᳘तिषा यन्ति॥

मूलम् - विस्वरम्

“ऋतस्य पथा प्रेत”- (वा० सं० ७ । ४५) इति । यो वै देवानां पथैति- स ऋतस्य पथैति । “चन्द्रदक्षिणाः”- (वा. सं. ७ । ४५) इति । तदेतेन ज्योतिषा यन्ति ॥ १६ ॥

सायणः

तृतीयं भागं व्याचष्टे-** ऋतस्ये**त्यादि । देवानां मार्गेण गच्छतेत्यनेनाभिप्रायेण ‘ऋतस्य’ यज्ञस्य ‘पथा’ प्रगच्छतेत्युक्तम् । यज्ञमार्गस्य देवसम्बन्धादित्यर्थः ।

चतुर्थं भागं व्याचष्टे- चन्द्रदक्षिणा इति । चन्द्रं हिरण्यमध्वर्युहस्तगतं तद् दक्षिणा समर्धकं यासां तास्तथोक्ताः । अनेन चन्द्ररूपेण ‘ज्योतिषा’ सदैव गच्छेयुः । हे दक्षिणार्था गावः ‘रूपेण’ सामर्थ्येन पूर्वं भवतीभिरग्रनिहितेन सह वो ‘रूपम्’ स्वरूपम् ‘अभ्यागाम्’ आभिमुख्येन प्राप्तो ऽस्मि । “गातिस्था”- (पा. सू. २ । ४ । ७७) इत्यादिना सिचो लुक् । ‘वो विश्ववेदाः’ सर्वज्ञः ‘तुथः’ ब्रह्म विभजतु । यूयं च चन्द्रदक्षिणाः सत्यः यज्ञसम्बन्धिना मार्गेण गच्छतेति कृत्स्नमन्त्रस्यार्थः ॥ १६ ॥

Eggeling
  1. ‘Go ye forward in the way of truth,’–for whosoever walks in the way of the gods, walks in the way of truth;–‘ye of shining (candra) gifts!’ whereby they walk with that light (candra, the moon).

१७

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ स᳘दो ऽभ्यै᳘ति॥
व्वि᳘ स्वः[[!!]] प᳘श्य᳘ व्यन्त᳘रिक्षमि᳘ति[[!!]] व्वि त्व᳘या द᳘क्षिणया लोकं᳘ ख्येषमि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ स᳘दो ऽभ्यै᳘ति॥
व्वि᳘ स्वः[[!!]] प᳘श्य᳘ व्यन्त᳘रिक्षमि᳘ति[[!!]] व्वि त्व᳘या द᳘क्षिणया लोकं᳘ ख्येषमि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ स᳘दो ऽभ्यै᳘ति॥
वि स्वः᳘ प᳘श्य व्य᳘न्तरिक्षमि᳘ति वि त्व᳘या द᳘क्षिणया लोकं᳘ ख्येषमि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ सदो ऽभ्यैति- “वि स्वः पश्य व्यन्तरिक्षम्”- (वा० सं० ७ । ४५) इति । वि त्वया दक्षिणया लोकं ख्येषत्येवैतदाह ॥ १७ ॥

सायणः

समन्त्रकं सदोगमनं विधाय मन्त्रस्य तात्पर्यमाह- अथेत्यादि 16वि स्वः इति । हे सदः ! त्वदीयया ‘दक्षिणया स्वर्लोकमन्तरिक्षलोकं च’ ‘वि’ ‘ख्येषम्’ समीक्षिषीयेत्येवमर्थम् ‘एतत्’ मन्त्रवाक्यम् ‘आह’ अस्ति च दक्षिणायाः सदसश्च सम्बन्धः सदस्यासीनेभ्य ऋत्विग्भ्यो दक्षिणाया दातव्यत्वात् । मन्त्रे ‘पश्य’ इति पुरुषव्यत्ययः- (पा. सू. ३ । १ । ८५) पश्यामीत्यर्थः । एवं च ‘वि ख्येषम्’ इति व्याख्यानमुपपद्यते ॥ १७ ॥

Eggeling
  1. He then goes to the Sadas, saying, ‘Behold thou the heaven, behold the air!’ whereby he means to say, ‘May I through thee, the dakshiṇā, see the (heavenly) world.’

१८

विश्वास-प्रस्तुतिः

(हा᳘थ) अ᳘थ स᳘दः प्रे᳘क्षते॥
य᳘तस्व सद᳘स्यैरि᳘ति मा᳘ त्वा सद᳘स्या ऽअ᳘तिरिक्षते᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(हा᳘थ) अ᳘थ स᳘दः प्रे᳘क्षते॥
य᳘तस्व सद᳘स्यैरि᳘ति मा᳘ त्वा सद᳘स्या ऽअ᳘तिरिक्षते᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ स᳘दः प्रे᳘क्षते॥
य᳘तस्व सदॗस्यैरि᳘ति मा᳘ त्वा सदॗस्या अ᳘तिरिक्षते᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ सदः प्रेक्षते- “यतस्व सदस्यैः”- (वा० सं० ७ । ४५) इति । मा त्वा सदस्या अतिरिक्षतेत्येवैतदाह ॥ १८ ॥

सायणः

विधत्ते- अथेत्यादि 17 । हे ‘सदः’ ! त्वम् ‘सदस्यैः’ सहितमेव यज्ञकार्ये प्रयतस्वेति मन्त्रस्यार्थः । मन्त्रस्य, सदसः सर्वदा सदस्यैः सह सम्बन्धो ऽभिप्रेत इति व्याचष्टे- मा त्वेत्यादि । तथा च तैत्तिरीयके- “यतस्व सदस्यैरित्याह मित्रत्वाय”- (तै. सं. ६ । ६ । १ । ४)- इति । अतिरिक्षतेति । “रिचिर् विरेचने” (धा. पा. रु. उ. ४) इत्यस्माल्लुङि च्लेर्व्यत्ययेन (पा. सू. ३ । १ । ८५) क्सादेशे रूपम् ॥ १८ ॥

Eggeling
  1. Thereupon he looks on the Sadas, with, ‘Unite with the Sadas-priests!’ whereby he means to say, ‘May the Sadas-priests not go beyond thee!’

१९

विश्वास-प्रस्तुतिः

(हा᳘थ) अ᳘थ हि᳘रण्यमादाया᳘ग्नीध्रमभ्यै᳘ति॥
ब्राह्मण᳘मद्य᳘ व्विदेयं पितृम᳘न्तं पैतृमत्यमि᳘ति यो वै᳘ ज्ञातो᳘ ज्ञातकुली᳘नः स᳘ पितृमा᳘न्पैतृमत्यो या वै᳘ ज्ञाताया᳘पि कतिपयीर्द᳘क्षिणा द᳘दाति ता᳘भिर्मह᳘ज्जयत्यृ᳘षिमार्षेयमि᳘ति यो वै᳘ ज्ञा᳘तो ऽनूचानः स ऋ᳘षिरार्षेयः᳘ सुधा᳘तुदक्षिणामि᳘ति स हि᳘ सुधा᳘तुदक्षिणः॥

मूलम् - श्रीधरादि

(हा᳘थ) अ᳘थ हि᳘रण्यमादाया᳘ग्नीध्रमभ्यै᳘ति॥
ब्राह्मण᳘मद्य᳘ व्विदेयं पितृम᳘न्तं पैतृमत्यमि᳘ति यो वै᳘ ज्ञातो᳘ ज्ञातकुली᳘नः स᳘ पितृमा᳘न्पैतृमत्यो या वै᳘ ज्ञाताया᳘पि कतिपयीर्द᳘क्षिणा द᳘दाति ता᳘भिर्मह᳘ज्जयत्यृ᳘षिमार्षेयमि᳘ति यो वै᳘ ज्ञा᳘तो ऽनूचानः स ऋ᳘षिरार्षेयः᳘ सुधा᳘तुदक्षिणामि᳘ति स हि᳘ सुधा᳘तुदक्षिणः॥

मूलम् - Weber

अ᳘थ हि᳘रण्यमादाया᳘ग्नीध्रमभ्यै᳘ति॥
ब्राह्मण᳘मद्य᳘ विदेयम् पितृम᳘न्तम् पैतृमत्यमि᳘ति यो वै᳘ ज्ञातो᳘ ज्ञातकुली᳘नः स᳘ पितृमा᳘न्पैतृमत्यो या वै᳘ ज्ञाताया᳘पि कतिपयीर्द᳘क्षिणा द᳘दाति ता᳘भिर्मह᳘ज्जयत्यृ᳘षिमार्षेयमि᳘ति यो वै᳘ ज्ञाॗतो ऽनूचानः स ऋ᳘षिरार्षेयः᳘ सुधा᳘तुदक्षिणामि᳘ति स हि᳘ सुधा᳘तुदक्षिणः॥

मूलम् - विस्वरम्

अथ हिरण्यमादायाग्नीध्रमभ्यैति- “ब्राह्मणमद्य विदेयं पितृमन्तं पैतृमत्यम्”- (वा० सं० ७ । ४६) इति । यो वै ज्ञातो ज्ञातकुलीनः स पितृमान् पैतृमत्यः । या वै ज्ञातायापि कतिपयीर्दक्षिणा ददाति, ताभिर्महज्जयति । “ऋषिमार्षेयम्” (वा० सं० ७ । ४६) इति । यो वै ज्ञातो ऽनूचानः स ऋषिरार्षेयः । “सुधातुदक्षिणम्”- (वा० सं० ७ । ४६) इति । स हि सुधातुदक्षिणः ॥ १९॥

सायणः

सहिरण्यमाग्नीध्रं प्रति गमनं विधत्ते- अथ हिरण्यमित्यादि 17 । दातव्यम् ‘हिरण्यम्’ स्वीकृत्य ‘ब्राह्मणम्’ ‘अद्य’- इत्यादिना मन्त्रेण ‘आग्नीध्रम्’ अभिगच्छेत् । मन्त्रे पितृमत्पैतृमत्यशब्दयोस्तात्पर्यमाह- यो वै ज्ञात इत्यादि । ‘पितृमन्तं पैतृमत्यम्’ इत्येताभ्यां शब्दाभ्याम् ‘ज्ञातः’ ‘ज्ञातकुलीनः’ च विवक्षितः । ज्ञातः प्रसिद्धः । तत्रायमभिप्रायः- ‘पितृमान्’ इति प्रशंसायां मतुप् इति प्रशस्तपितृमान्, प्रशस्तपितृमत्त्वेन च प्रसिद्धिर्लभ्यते । ‘पैतृमत्यः’ इति पितृमति कुले भवः । “भवे छन्दसि”- (पा. सू. ४ । ४ । ११०) इति यत् । कुलस्य ज्ञातत्वं प्रशस्तपुरुषसम्बन्धनिबन्धनम् । एवं च प्रशस्तपितृयुक्ते कुले जात इत्यनेन प्रशस्तकुलोत्पत्तिर्लभ्यते । तादृशाय ‘ज्ञाताय’ ‘याः’ ‘कतिपयीः’ ‘अपि’ ‘दक्षिणाः ददाति ताभिर्महत्’ फलम् ‘जयति’ स्वाधीनीकरोति । तस्मादनेनाभिप्रायेण पितृमन्तं पैतृमत्यमिति शब्दप्रयोग इत्यर्थः । ऋष्यार्षेयशब्दयोरर्थमाह- यो वा इति । ‘अनूचानः’ साङ्गे प्रवचने ऽधीती । ‘आर्षेयः’ “इतश्चानिञः”- (पा. सू. ४ । १ । १२२) इति डक्प्रत्ययः । स हीति । प्रकृतत्वात् ‘स’ ज्ञातः ‘अनूचानः’ ‘सुधातुदक्षिणः’ सुधातुर्हिरण्यं तद् दक्षिणा यस्य स तथोक्तः । प्रसिद्धाय खलु हिरण्यं दीयते ॥ १९ ॥

Eggeling
  1. He then takes the gold and goes up to the Āgnīdhra (fire-house), saying (Vāj. S. VII, 46), ‘May I this day obtain a Brāhman who has a father and forefathers!’–for he who is renowned and of renowned family, is one who has a father and forefathers; and by the gifts which he gives to a renowned (priest), though they be but few, he gains great things.–‘A R̥shi, the scion of R̥shis,’ for he who is renowned as learned in sacred lore, is a R̥shi, the scion of R̥shis;–‘of well-bestowed gifts,’ for he indeed is one on whom gifts are well-bestowed.

२०

विश्वास-प्रस्तुतिः

(णो᳘ ऽथै) अ᳘थैव᳘मुपस᳘द्य॥
(द्या) अग्नी᳘धे हि᳘रण्यं ददात्यस्म᳘द्राता देवत्रा᳘ गच्छते᳘ति यां वै᳘ रात᳘मना ऽअ᳘विचिकित्सन्द᳘क्षिणां द᳘दाति त᳘या मह᳘ज्जयति देवत्रा᳘ गच्छते᳘ति देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते त᳘द्देवलोक᳘ ऽए᳘वैनमेत᳘दपित्वि᳘नं करोति प्रदाता᳘रमा᳘विशते᳘ति मा᳘माविशते᳘त्ये᳘वैत᳘दाह[[!!]] त᳘थो हास्मादेताः प᳘राच्यो न प्र᳘णश्यन्ति तद्य᳘दग्नी᳘धे प्रथमा᳘य द᳘क्षिणां द᳘दात्य᳘तो हि व्वि᳘श्वे देवा᳘ अमृतत्व᳘मपा᳘जयंस्त᳘स्मादग्नी᳘धे प्रथमा᳘य द᳘क्षिणां ददाति॥

मूलम् - श्रीधरादि

(णो᳘ ऽथै) अ᳘थैव᳘मुपस᳘द्य॥
(द्या) अग्नी᳘धे हि᳘रण्यं ददात्यस्म᳘द्राता देवत्रा᳘ गच्छते᳘ति यां वै᳘ रात᳘मना ऽअ᳘विचिकित्सन्द᳘क्षिणां द᳘दाति त᳘या मह᳘ज्जयति देवत्रा᳘ गच्छते᳘ति देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते त᳘द्देवलोक᳘ ऽए᳘वैनमेत᳘दपित्वि᳘नं करोति प्रदाता᳘रमा᳘विशते᳘ति मा᳘माविशते᳘त्ये᳘वैत᳘दाह[[!!]] त᳘थो हास्मादेताः प᳘राच्यो न प्र᳘णश्यन्ति तद्य᳘दग्नी᳘धे प्रथमा᳘य द᳘क्षिणां द᳘दात्य᳘तो हि व्वि᳘श्वे देवा᳘ अमृतत्व᳘मपा᳘जयंस्त᳘स्मादग्नी᳘धे प्रथमा᳘य द᳘क्षिणां ददाति॥

मूलम् - Weber

अ᳘थैव᳘मुपस᳘द्य॥
अग्नी᳘धे हि᳘रण्यं ददात्यस्म᳘द्राता देवत्रा᳘ गछते᳘ति यां वै᳘ रात᳘मना अ᳘विचिकित्सन्द᳘क्षिणां द᳘दाति त᳘या मह᳘ज्जयति देवत्रा᳘ गछते᳘ति देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते त᳘द्देवलोक᳘ एॗवैनमेत᳘दपित्वि᳘नं करोति प्रदाता᳘रमा᳘विशते᳘ति मामा᳘विशते᳘त्येॗवैत᳘दाह त᳘थो हास्मादेताः प᳘राच्यो न प्र᳘णश्यन्ति तद्य᳘दग्नी᳘धे प्रथमा᳘य द᳘क्षिणां द᳘दात्य᳘तो हि वि᳘श्वे देवा᳘ अमृतत्व᳘मपा᳘जयंस्त᳘स्मादग्नी᳘धे प्रथमा᳘य द᳘क्षिणां ददाति॥

मूलम् - विस्वरम्

अथैवमुपसद्याग्नीध्रे (१) हिरण्यं ददाति- “अस्मद्राता देवत्रा गच्छत”- (वा. सं. ७ । ४६ ।) इति । यां वै रातमना अविचिकित्सन्दक्षिणां ददाति, तथा महज्जयति । देवत्रा गच्छत इति । देवलोके मे ऽप्यसदिति वै यजते- यो यजते तद्देवलोक ऽएवैनमेतदपित्विनं करोति । “प्रदातारमाविशत”- (वा. सं. ७ । ४६ ।) इति । मामाविशतेत्येवैतदाह तथो हास्मादेताः पराच्यो न प्रणश्यन्ति । तद् यदग्नीधे प्रथमाय दक्षिणां ददाति । अतो हि विश्वदेवा अमृतत्वमपाजयन् । तस्मादग्नीधे प्रथमाय दक्षिणां ददाति ॥ २० ॥

सायणः

उपसदनानन्तरमग्नीधे समन्त्रकं हिरण्यदानं विधत्ते- अथैवमित्यादि 17 । मन्त्रार्थस्तु हिरण्यरूपा दक्षिणाः ‘अस्मद्राताः’ अस्माभिर्दत्ताः ‘देवत्रा’ “देवमनुष्य”- (पा. सू. ५ । ४ । ५६) इत्यादिना द्वितीयार्थे त्राप्रत्ययः । देवान् गच्छतेत्यर्थः । किञ्च ‘प्रदातारम्’ मां च ‘आविशत’ प्रविशत । बहुवचनं पूजार्थम् । मन्त्रपदानामभिप्रायमाह- यां वा इत्यादि । ‘रातमनाः’ दानमनाः ‘अविचिकित्सन्’ सन्देहमकुर्वन् ‘याम्’ ‘दक्षिणां ददाति’ तादृश्या ‘तया’ दक्षिणया ‘महत्’ फलम् ‘जयति’ तस्मादस्मद्राता इति मन्त्रम् आह- यजमानो न केवलमस्मिंल्लोक एव भवत्विति यजते, किन्तु स्वर्गे ऽपि । तस्माद्देवत्रा गच्छतेत्युक्तम् । एवञ्च ‘एतत्’ हिरण्यम् ‘देवलोक एव’ ‘अपित्विनम्’ गमनयुक्तं कृतवान्भवति । अपित्विनमिति लिङ्गव्यत्ययः (पा. सू. ३ । १ । ८५) । प्रदातारमिति । यद्येतन्न प्रयुज्येत, तदा ‘अस्माद्’ यजमानाद् ‘एताः’ दक्षिणाः पराच्य एव सत्यः प्रणश्येयुः । ‘प्रदातारमाविशतेति’ प्रयुङ्क्ते ‘मामा विशत’ इत्युक्तत्वात् तथा न प्रणश्येयुरित्यर्थः ।

दक्षिणादाने प्राप्तमाग्नीध्रस्य प्राथमिकत्वमनूद्य तत्र कारणमुपन्यस्यति- तद्यदित्यादिना । अतो हीति । ‘अतः’ आग्नीध्रात् सकाशाद् ‘देवाः’ ‘अमृतत्वम्’ अविनश्वरत्वं प्राप्नुवन्नित्ति प्रसिद्धम् । देवानां यज्ञे अग्निरेवाग्नीध्रः- अत एव “अग्नय आग्नीध्रङ्कुर्वते” (शत. ४ । ३ । ४ । २४) । इत्युत्तरत्र वक्ष्यते “अग्निनैव साधनेन देवा असुरानभिभूय निर्बाधा अभवन् । अग्निमेव वरूथङ्कृत्वा ऽसुरानभ्यभवन्” (तै. सं. ६ । २ । २)- इत्यादिश्रुतेः । ‘तस्माद्’ आग्नीध्रस्याग्न्यात्मकत्वात्, ततो देवा अमृतत्वमापुरिति प्रसिद्धमित्यर्थः ॥ २० ॥

Eggeling
  1. Having thus respectfully sat down by the Agnīdh, he gives him the gold, with ‘Given (rāta) by us, go ye to the gods!’–for whatever sacrificial gift he gives unhesitatingly, with a liberal (rāta) mind, thereby he gains great things, ‘Go ye to the gods,’ he says, for he who sacrifices, sacrifices with the hope, ‘May there be a place for me in the world of the gods;’ and he thus makes him a sharer in the world of the gods.–‘Enter ye to the Giver!’ whereby he means to say, ‘Enter ye into me!’ and thus those (cows) 18 do not get lost to him. And as to his giving

a dakshiṇā first to the Agnīdh, it was from thence (from the Āgnīdhra) 19 that all the gods gained immortality: therefore he gives the dakshiṇā first to the Agnīdh.

२१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैव᳘मे᳘वोपस᳘द्य॥
(द्या) आत्रेया᳘य हि᳘रण्यं ददाति य᳘त्र वा᳘ ऽअदः᳘ प्रातरनुवाक᳘मन्वाहुस्त᳘द्ध स्मैत᳘त्पुरा᳘ शᳫँ᳭सन्त्य᳘त्रिर्वा ऽऋ᳘षीणाᳫँ᳭ हो᳘ता ऽऽसा᳘थैतत्स᳘दो ऽसुरतमस᳘मभि᳘पुप्रुवे त ऽऋ᳘षयो᳘ ऽत्रिमब्रुवन्ने᳘हि प्रत्य᳘ङ्ङिदं तमो᳘ ऽपजही᳘ति स᳘ ऽएतत्तमो᳘ ऽपाहन्नयं वै ज्यो᳘तिर्य᳘ इदं त᳘मो ऽपावधीदि᳘ति त᳘स्मा ऽएतज्ज्यो᳘तिर्हि᳘रण्यं द᳘क्षिणामनयञ्ज्यो᳘तिर्हि हि᳘रण्यं त᳘द्वै स तत्तेजसा[[!!]] व्वी᳘र्येण᳘ ऽर्षिस्तमो᳘ ऽपजघाना᳘थैष᳘ एते᳘नै᳘वैतज्ज्यो᳘तिषा तमो᳘ ऽपहन्ति त᳘स्मादात्रेया᳘य हि᳘रण्यं ददाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैव᳘मे᳘वोपस᳘द्य॥
(द्या) आत्रेया᳘य हि᳘रण्यं ददाति य᳘त्र वा᳘ ऽअदः᳘ प्रातरनुवाक᳘मन्वाहुस्त᳘द्ध स्मैत᳘त्पुरा᳘ शᳫँ᳭सन्त्य᳘त्रिर्वा ऽऋ᳘षीणाᳫँ᳭ हो᳘ता ऽऽसा᳘थैतत्स᳘दो ऽसुरतमस᳘मभि᳘पुप्रुवे त ऽऋ᳘षयो᳘ ऽत्रिमब्रुवन्ने᳘हि प्रत्य᳘ङ्ङिदं तमो᳘ ऽपजही᳘ति स᳘ ऽएतत्तमो᳘ ऽपाहन्नयं वै ज्यो᳘तिर्य᳘ इदं त᳘मो ऽपावधीदि᳘ति त᳘स्मा ऽएतज्ज्यो᳘तिर्हि᳘रण्यं द᳘क्षिणामनयञ्ज्यो᳘तिर्हि हि᳘रण्यं त᳘द्वै स तत्तेजसा[[!!]] व्वी᳘र्येण᳘ ऽर्षिस्तमो᳘ ऽपजघाना᳘थैष᳘ एते᳘नै᳘वैतज्ज्यो᳘तिषा तमो᳘ ऽपहन्ति त᳘स्मादात्रेया᳘य हि᳘रण्यं ददाति॥

मूलम् - Weber

अ᳘थैव᳘मेॗवोपस᳘द्य॥
आत्रेया᳘य हि᳘रण्यं ददाति य᳘त्र वा᳘ अदः᳘ प्रातरनुवाक᳘मन्वाहुस्त᳘द्ध स्मैत᳘त्पुरा᳘ शंसन्त्य᳘त्रिर्वा ऋ᳘षीणाᳫं हो᳘तासा᳘थैतत्स᳘दो ऽसुरतमस᳘मभि᳘पुप्रुवे त ऋ᳘षयो᳘ त्रिमब्रुवन्ने᳘हि प्रत्य᳘ङ्ङिदं तमो᳘ ऽपजही᳘ति स᳘ एतत्तमो᳘ ऽपाहन्नयं वै ज्यो᳘तिर्य᳘ इदं त᳘मो ऽपाबधीदि᳘ति त᳘स्मा एतज्ज्यो᳘तिर्हि᳘रण्यं द᳘क्षिणामनयज्ज्यो᳘तिर्हि हि᳘रण्यं तद्वै स तत्ते᳘जसा वीॗर्येण᳘र्षिस्तमो᳘ ऽपजघाना᳘थैष᳘ एते᳘नैॗवैतज्ज्यो᳘तिषा तमो᳘ ऽपहन्ति त᳘स्मादात्रेया᳘य हि᳘रण्यं दधाति॥

मूलम् - विस्वरम्

अथैवमेवोपसद्य आत्रेयाय (२) । हिरण्यं ददाति । यत्र वा ऽअदः प्रातरनुवाकमन्वाहुः- तद्ध स्मैतत पुरा शंसन्ति । अत्रिर्वा ऽऋषीणां होतास । अथैतत्सदो ऽसुरतमसमभिपुप्रुवे । त ऽऋषयो ऽत्रिमब्रुवन्- एहि प्रत्यङ्ङिदं तमो ऽपजहीति । स एतत्तमो ऽपाहन् । अयं वै ज्योतिर्य इदं तमो ऽपावधीदिति । तस्मा ऽएतज्ज्योतिर्हिरण्यं दक्षिणामनयन् । ज्योतिर्हि हिरण्यम् । तद्वै स तत्तेजसा वीर्येण ऽर्षिस्तमो ऽपजघान । अथैष एतेनैवैतज्ज्योतिषा तमो ऽपहन्ति । तस्मादात्रेयाय हिरण्यं ददाति ॥ २१ ॥

सायणः

आग्नीध्राय हिरण्यं दत्त्वा अथात्रेयाय हिरण्यं दद्यादिति विधत्ते- अथैवमेवेत्यादि । ‘एवमेव’ अनेनैव प्रकारेण येन प्रकारेणोपसद्याग्नीध्राय हिरण्यं दत्तं तेनैव प्रकारेणोपसद्यात्रेयाय हिरण्यं दद्यात् । ‘ब्राह्मणमद्य’ इत्यादिना मन्त्रेणोपसद्य दद्यादित्यर्थः । अत एव कात्यायनः- “आत्रेयायाग्नीध्रवत्” (का. श्रौ. सू. १० । ४५) इत्यादि 20 । आत्रेयाय हिरण्यदाने हेतुमाह- यत्र वा अद इत्यादिना । पुरा शंसन्तीति । पूर्वस्मिन्प्रदेशे आहवनीयस्य समीपे ‘शंसन्ति’ । सो ऽथैतदिति । अत्रिः स्वयं पूर्वभागे शंसन् ‘एतत्सदो ऽसुरतमसम्’ असुररूपं तमः । अमो लुगभावश्छान्दसः । तम् ‘अभिपुप्रुवे’ ‘प्रुङ् गतौ’ (धा. पा. भ्वा. आ. ९८२) अन्तर्भावितण्यर्थः । अभ्यप्रावयत् । पूर्वभागे शंसतः स्थितत्वात् तत्र प्राप्तुमशक्ता असुराः पश्चात्सदः प्राप्नुवन्नित्यर्थः । तद्वै स तदिति । ‘तत्’ तदा हिरण्यदानानन्तरकाले ‘तत्तेजसा’ तस्य हिरण्यस्य तेजसा स्वकार्येण पश्चात् ‘तमो ऽपजघान’ स्पष्टार्थमन्यत् ॥ २१ ॥

Eggeling
  1. Then, approaching in the same way, he gives some gold to an Ātreya 21. For, at the time 22 when they recite the morning prayer, they were once upon a time singing praises here in front 23. Now Atri was the Hotr̥ of the R̥shis. Then the darkness of the Asuras came rushing into the Sadas. The R̥shis said to Atri, ‘Come back here, and dispel this darkness!’ He dispelled that darkness; and thinking, ‘He indeed is the light who has dispelled this darkness,’ they brought him this light, gold, for a sacrificial gift,–for gold is indeed light; and by that same splendour and energy the R̥shi dispelled the darkness. And so does he now also dispel the darkness by that light: therefore he bestows gold on an Ātreya.

२२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ब्रह्म᳘णे॥
ब्रह्मा हि᳘ यज्ञं᳘ दक्षिण᳘तो ऽभिगोपायत्य᳘थोद्गात्रे᳘ ऽथ होत्रे᳘ ऽथाध्वर्यु᳘भ्याᳫँ᳭ हविर्धा᳘न ऽआ᳘सीनाभ्याम᳘थ पु᳘नरे᳘त्य प्रस्तोत्रे᳘ ऽथ मैत्रावरुणाया᳘थ ब्राह्मणाच्ᳫँ᳭सिने᳘ ऽथ पोत्रे᳘ ऽथ नेष्ट्रे᳘ ऽथाच्छावाकाया᳘थोन्नेत्रे᳘ ऽथ ग्रावस्तुते᳘ ऽथ सुब्रह्मण्या᳘यै प्रतिहर्त्र᳘ उत्तमा᳘य ददाति प्रतिहर्ता वा᳘ ऽएष᳘ सो ऽस्मा ऽएत᳘दन्ततः प्र᳘तिहरति त᳘थो हास्मादेताः प᳘राच्यो न प्र᳘णश्यन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ब्रह्म᳘णे॥
ब्रह्मा हि᳘ यज्ञं᳘ दक्षिण᳘तो ऽभिगोपायत्य᳘थोद्गात्रे᳘ ऽथ होत्रे᳘ ऽथाध्वर्यु᳘भ्याᳫँ᳭ हविर्धा᳘न ऽआ᳘सीनाभ्याम᳘थ पु᳘नरे᳘त्य प्रस्तोत्रे᳘ ऽथ मैत्रावरुणाया᳘थ ब्राह्मणाच्ᳫँ᳭सिने᳘ ऽथ पोत्रे᳘ ऽथ नेष्ट्रे᳘ ऽथाच्छावाकाया᳘थोन्नेत्रे᳘ ऽथ ग्रावस्तुते᳘ ऽथ सुब्रह्मण्या᳘यै प्रतिहर्त्र᳘ उत्तमा᳘य ददाति प्रतिहर्ता वा᳘ ऽएष᳘ सो ऽस्मा ऽएत᳘दन्ततः प्र᳘तिहरति त᳘थो हास्मादेताः प᳘राच्यो न प्र᳘णश्यन्ति॥

मूलम् - Weber

अ᳘थ ब्रह्म᳘णे॥
ब्रह्मा हि᳘ यज्ञं᳘ दक्षिणॗतो ऽभिगोपायत्य᳘थोद्गात्रे᳘ ऽथ होत्रे᳘ ऽथाध्वर्यु᳘भ्याᳫं हविर्धा᳘न आ᳘सीनाभ्याम᳘थ पु᳘नरे᳘त्य प्रस्तोत्रे᳘ ऽथ मैत्रावरुणाया᳘थ ब्राह्मणाछंसीने᳘ ऽथ पोत्रे᳘ ऽथ नेष्ट्रे᳘ ऽथाछावाकाया᳘थोन्नेत्रे᳘ ऽथ ग्रावस्तु᳘ते ऽथ सुब्रह्मण्या᳘यै प्रतिहर्त्र᳘ उत्तमा᳘य ददाति प्रतिहर्ता वा᳘ एषॗ सो ऽस्मा एत᳘दन्ततः प्र᳘तिहरति त᳘थो हास्मादेताः प᳘राच्यो न प्र᳘णश्यन्ति॥

मूलम् - विस्वरम्

अथ ब्रह्मणे (३) । ब्रह्मा हि यज्ञं दक्षिणतो ऽभिगोपायति । अथोद्गात्रे (४) । अथ होत्रे (५) । अथाध्वर्युभ्यां (६-७) । हविर्धान आसीनाभ्याम् । अथ पुनरेत्य प्रस्तोत्रे (८) । अथ मैत्रावरुणाय (९) । अथ ब्राह्मणाच्छंसिने (१०) । अथ पोत्रे (११) । अथ नेष्ट्रे (१२) । अथाच्छावाकाय (१३) । अथोन्नेत्रे (१४) । अथ ग्रावस्तुते (१५) । अथ सुब्रह्मण्यायै प्रतिहर्त्रे (१६) उत्तमाय ददाति । प्रतिहर्ता वा ऽएषः । सो ऽस्मा ऽएतदन्ततः प्रतिहरति । तथो हास्मादेताः पराच्यो न प्रणश्यन्ति ॥ २२ ॥

सायणः

आत्रेयहिरण्यप्रदानानन्तरं ब्रह्मादिभ्यः क्रमेण दानं विधत्ते- अथ ब्रह्मण इत्यादिना 20 । यज्ञसंरक्षकत्वेन ब्रह्मणः प्राधान्यसूचनाद्दाने प्राथमिकत्वमुचितमिति प्रदर्शितम् । अथ पुनरेत्येति 24 । पुनरपि सदो गत्वेत्यर्थः । ‘प्रतिहर्त्रे’ ‘उत्तमाय’ अन्तिमाय ‘ददाति’ ‘एषः’ ‘प्रतिहर्ता’ समाप्तिरूपस्य प्रतिहारभागस्य कर्ता खलु, अतः ‘सो ऽस्मै’ यजमानाय ‘अन्ततः’ दक्षिणाः समापयति । ‘तथा’ च सति ‘एताः’ दक्षिणाः पराग्भूता एव न प्रणश्येयुः । अन्यथा समाप्त्यभावात् ‘पराच्यः’ सत्यः प्रणश्येयुरिति भावः । “न ह त्वेवाशतदक्षिणः सौम्यो ऽध्वरः स्यात्” (श. प. ४ । ३ । ४ । ३) इति । प्रकृतसोमयागे शतसङ्ख्याका गावो दक्षिणा विहितास्ताः प्रविभज्योक्तक्रमेण ब्रह्मादिभ्यो दद्यात् । विभागप्रकारस्तु कात्यायनेन दर्शितः- “यथारम्भं द्वादश द्वादशाद्येभ्यः षट्षट् द्वितीयेभ्यश्चतस्रश्चतस्रस्तृतीयेभ्यतिस्रस्तिस्र इतरेभ्यः”- इति 25 । आपस्तम्बेनाप्येवमेवोक्तम्- “यावदध्वर्यवे ददाति तस्यार्द्धं प्रतिप्रस्थात्रे तृतीयं नेष्ट्रे चतुर्थमुन्नेत्रे” । एतेनेतरेषां दानमुक्तमिति ॥ २२ ॥

Eggeling
  1. Then to the Brahman, for the Brahman watches over the sacrifice from the south. Then to the Udgātr̥ (chanter); then to the Hotr̥; then to the two Adhvaryus, seated in the cart-shed. Then, having returned (to the Sadas he presents gold) to the Prastotr̥; then to the Maitrāvaruṇa; then to the Brāhmaṇāchaṁsin; then to the Potr̥; then to the Neshṭr̥; then to the Achāvāka; then to the Unnetr̥; then to the Grāvastut; then to the Subrahmaṇyā. To the Pratihartr̥ he presents it last, since he is the restrainer(pratihartr̥) 26: he thus in the end restrains (the cows) for him, and so they do not become lost to him.

२३

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थाहे᳘न्द्राय मरु᳘त्वते᳘ ऽनुब्रूही᳘ति॥
य᳘त्र वै᳘ प्रजा᳘पतिर᳘ग्रे ददौ तद्धे᳘न्द्र ईक्षां᳘चक्रे स᳘र्व्वं वा᳘ ऽअय᳘मिदं᳘ दास्यति᳘ नास्म᳘भ्यं किं᳘चन प᳘रिशेक्ष्यती᳘ति स᳘ एतं व्व᳘ज्रमु᳘दयच्छदि᳘न्द्राय मरु᳘त्वते᳘ ऽनुब्रूहीत्य᳘दानाय[[!!]] त᳘तो᳘ नाददात्स᳘ एषो᳘ ऽप्येत᳘र्हि त᳘थैव व्व᳘ज्र उ᳘द्यम्यत ऽइ᳘न्द्राय मरु᳘त्वते᳘ ऽनुब्रूहीत्य᳘दानाय त᳘तो न᳘ ददाति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थाहे᳘न्द्राय मरु᳘त्वते᳘ ऽनुब्रूही᳘ति॥
य᳘त्र वै᳘ प्रजा᳘पतिर᳘ग्रे ददौ तद्धे᳘न्द्र ईक्षां᳘चक्रे स᳘र्व्वं वा᳘ ऽअय᳘मिदं᳘ दास्यति᳘ नास्म᳘भ्यं किं᳘चन प᳘रिशेक्ष्यती᳘ति स᳘ एतं व्व᳘ज्रमु᳘दयच्छदि᳘न्द्राय मरु᳘त्वते᳘ ऽनुब्रूहीत्य᳘दानाय[[!!]] त᳘तो᳘ नाददात्स᳘ एषो᳘ ऽप्येत᳘र्हि त᳘थैव व्व᳘ज्र उ᳘द्यम्यत ऽइ᳘न्द्राय मरु᳘त्वते᳘ ऽनुब्रूहीत्य᳘दानाय त᳘तो न᳘ ददाति॥

मूलम् - Weber

अ᳘थाहे᳘न्द्राय मरु᳘त्वते᳘ ऽनुब्रूही᳘ति॥
य᳘त्र वै᳘ प्रजा᳘पतिर᳘ग्रे ददौ तद्धे᳘न्द्र ईक्षां᳘ चक्रे स᳘र्वं वा᳘ अय᳘मिदं᳘ दास्यतिॗ नास्म᳘भ्यं किं᳘ चन प᳘रिशेक्ष्यती᳘ति स᳘ एतं व᳘ज्रमु᳘दयछदि᳘न्द्राय मरु᳘त्व᳘ते᳘ ऽनुब्रूहीत्य᳘दानाय त᳘तोॗ नाददात्स᳘ एषो᳘ ऽप्येत᳘र्हि त᳘थैव व᳘ज्र उ᳘द्यम्यत इ᳘न्द्राय मरु᳘त्वते᳘ ऽनुब्रूहीत्य᳘दानाय त᳘तो न᳘ ददाति॥

मूलम् - विस्वरम्

अथाह- इन्द्राय मरुत्वते ऽनुब्रूहीति । यत्र वै प्रजापतिरग्रे ददौ । तद्धेन्द्र ईक्षाञ्चक्रे- सर्वं वा ऽअयमिदं दास्यति, नास्मभ्यं किंचन परिशेक्ष्यतीति । स एतं वज्रमुदयच्छत्- ‘इन्द्राय मरुत्वते ऽनुब्रूहि’ इत्यदानाय । ततो नाददात् । स एषो ऽथैतर्हि तथैव वज्र उद्यम्यते- ‘इन्द्राय मरुत्वते ऽनुब्रूहि’ इत्यदानाय । ततो न ददाति ॥ २३ ॥

सायणः

दक्षिणादानानन्तरं मरुत्वद्ग्रहस्यानुवाक्यासम्प्रैषं विधत्ते- अथाहेत्यादि 27 । उक्तसम्प्रैषोच्चारणानन्तर न दद्यादिति विधातुमाख्यायिकामाह- यत्र वा इत्यादि 28 । पुरा खलु ‘यत्र’ यस्मिन् काले ‘प्रजापतिः’ स्वसम्बन्धिनि यज्ञे दक्षिणाः ‘ददौ’ तदा प्रजापतिपुत्रः ‘इन्द्रः’ विचारयामास- ‘अयम्’ मम ‘इदम्’ ‘सर्वम्’ अपि धनम् ‘दास्यति’ तदा ‘अस्मभ्यम्’ तु किमवशेक्ष्यतीति । एवं विचार्याप्रदानाय ‘इन्द्राय मरुत्वते ऽनुब्रूहि’ ‘इति’ एतद्वाक्यरूपं (‘वज्रं’) चक्षुः ‘उदयच्छत्’ । पश्चात् ‘सः’ प्रजापतिः नो ‘अददात्’ । विधत्ते- तथैवेति । ‘तथैव’ इदानीमपि ‘अदानाय’ ‘इन्द्राय’ इत्यादिवाक्यरूपः ‘वज्र उद्यम्यते’ । तस्मान्न दद्यादित्यर्थः ॥ २३ ॥

Eggeling
  1. Thereupon he (the Adhvaryu) says (to the Maitrāvaruṇa), ‘Recite (the invitatory prayer) to Indra, followed by the Maruts!’ Now when, in the beginning, Prajāpati gave gifts, Indra thought within himself, ‘Everything here, forsooth, he will give away, and not anything will he leave for us.’ He then, to stop the giving, raised up that thunderbolt ‘Recite to Indra Marutvat!’ and thereafter he (Prajāpati) gave no more. And in like manner is that thunderbolt ‘Recite to Indra Marutvat!’ now raised up to stop the giving, and thereafter he (the sacrificer) gives no more.

२४

विश्वास-प्रस्तुतिः

च᳘तस्रो वै द᳘क्षिणाः॥
(०) हि᳘रण्यमा᳘युरे᳘वैते᳘नात्म᳘नस्त्रायत ऽआ᳘युर्हि हि᳘रण्यं त᳘दग्न᳘य ऽआ᳘ग्नीध्रं कुर्व्व᳘ते ऽददात्त᳘स्माद᳘प्येत᳘र्ह्यग्नी᳘धे हि᳘रण्यं दीयते॥

मूलम् - श्रीधरादि

च᳘तस्रो वै द᳘क्षिणाः॥
(०) हि᳘रण्यमा᳘युरे᳘वैते᳘नात्म᳘नस्त्रायत ऽआ᳘युर्हि हि᳘रण्यं त᳘दग्न᳘य ऽआ᳘ग्नीध्रं कुर्व्व᳘ते ऽददात्त᳘स्माद᳘प्येत᳘र्ह्यग्नी᳘धे हि᳘रण्यं दीयते॥

मूलम् - Weber

च᳘तस्रो वै द᳘क्षिणाः॥
हि᳘रण्यमा᳘युरेॗवैते᳘नात्म᳘नस्त्रायत आ᳘युर्हि हि᳘रण्यं त᳘दग्न᳘य आ᳘ग्नीध्रं कुर्वॗते ऽददात्त᳘स्माद᳘प्येत᳘र्ह्यग्नी᳘धे हि᳘रण्यं दीयते॥

मूलम् - विस्वरम्

चतस्रो वै दक्षिणाः । हिरण्यम्, आयुरेवैतेनात्मनस्त्रायते । आयुर्हि हिरण्यम् । तदग्नये ऽआग्नीध्रे कुर्वते ऽददात् । तस्मादप्येतर्ह्यग्नीधे हिरण्यं दीयते ॥ २४ ॥

सायणः

विहितंशतदक्षिणातिरिक्तानां चतुर्णां द्रव्याणां प्रयोजनाभिधानपूर्वकमृत्विग्विशेषेषु दानमाह- चतस्रो वै दक्षिणा इत्यादिना 29 । यज्ञे उक्तशतदक्षिणातिरिक्ताः ‘दक्षिणाः’ ‘चतस्रः’ हि । तत्र ‘हिरण्यम्’ प्रथमा दक्षिणा “आयुर्हि हिरण्यम्” (शत. ४ । ३ । ४ । २४)- इत्यादिश्रुतेः “हिरण्यमायुः”- इति प्रसिद्धम् । अत एतेन यजमानः स्वात्मन आयुरेव रक्षति । ‘तत्’ च हिरण्यं प्रजापतिः ‘आग्नीध्रम्’ अग्नीधः कर्म्म ‘कुर्वते’ अग्नये ‘अददात्’ । ‘तस्माद्’ एतस्मिन् काले ऽपि ‘अग्नीधे हिरण्यं दीयते’ ॥ २४ ॥

२५

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ गौः᳘॥
प्राण᳘मे᳘वैत᳘या ऽऽत्म᳘नस्त्रायते प्राणो हि गौर᳘न्नᳫं᳭ हि गौर᳘न्नᳫँ᳭ हि᳘ प्राणस्ता᳘ᳫं᳘ रुद्रा᳘य हो᳘त्रे ऽददात्॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ गौः᳘॥
प्राण᳘मे᳘वैत᳘या ऽऽत्म᳘नस्त्रायते प्राणो हि गौर᳘न्नᳫं᳭ हि गौर᳘न्नᳫँ᳭ हि᳘ प्राणस्ता᳘ᳫं᳘ रुद्रा᳘य हो᳘त्रे ऽददात्॥

मूलम् - Weber

अ᳘थ गौः᳟॥
प्राण᳘मेॗवैत᳘यात्म᳘नस्त्रायते प्राणो हि गौर᳘न्नᳫं हि गौर᳘न्नᳫं हि᳘ प्राणस्तां᳘ रुद्रा᳘य हो᳘त्रे ऽददात्॥

मूलम् - विस्वरम्

अथ गौः । प्राणमेवैतया ऽऽत्मनस्त्रायते । प्राणो हि गौः । अन्नं हि गौः । अन्नं हि प्राणः तां रुद्राय होत्रे ऽददात् ॥ २५ ॥

सायणः

अथ गौरित्यादिकं तु स्पष्टार्थम् । तामिति । ‘ताम्’ गाम् प्रजापतिर्होतृभूताय ‘रुद्राय’ ‘अददात्’ तस्माद् होत्रे गां दद्यादित्यर्थः । एवमुत्तरत्रापि विधिवाक्यमध्याहार्यम् ॥ २५ ॥

Eggeling
  1. Then the Cow–thereby he preserves his own breath, for the cow is breath, since the cow is food, and breath also is food: her he gave to Rudra, the Hotr̥.

२६

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ व्वा᳘सः॥
(स्त्व᳘) त्व᳘चमे᳘वैते᳘नात्म᳘नस्त्रायते त्वग्घि व्वा᳘सस्तद्बृ᳘हस्प᳘तय ऽउद्गा᳘यते ऽददात्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ व्वा᳘सः॥
(स्त्व᳘) त्व᳘चमे᳘वैते᳘नात्म᳘नस्त्रायते त्वग्घि व्वा᳘सस्तद्बृ᳘हस्प᳘तय ऽउद्गा᳘यते ऽददात्॥

मूलम् - Weber

अ᳘थ वा᳘सः॥
त्व᳘चमेॗवैते᳘नात्म᳘नस्त्रायते त्वग्घि वा᳘सस्तद्बृ᳘हस्प᳘तय उद्गा᳘यते ऽददात्॥

मूलम् - विस्वरम्

अथ वासः । त्वचमेवैतेनात्मनस्त्रायते । त्वग्घि वासः । तद् बृहस्पतय ऽउद्गायते ऽददात् ॥ २६ ॥

सायणः

त्वग्घि वास इति । ‘हि’ शब्दः प्रसिद्धिद्योतकः । तृतीयकाण्डे दीक्षाप्रकरणे “अथ वासः परिधत्ते” (श. प. ३ । १ । २ । १३-१६) इत्युपक्रम्याम्नातम् । “तस्मिन्नेतामस्मिंस्त्वचमदधुः, वास एव । तस्मान्नान्यः पुरुषाद्वासो बिभर्ति"- इति ॥ २६ ॥

Eggeling
  1. Then Cloth–thereby he preserves his own skin, for the cloth is skin: this he gave to Br̥haspati, who chanted.

२७

विश्वास-प्रस्तुतिः

(द) अथा᳘श्वः॥
(श्वो) व्व᳘ज्रो वा ऽअ᳘श्वो व्व᳘ज्रमे᳘वैत᳘त्पुरो गां᳘कुरुते यमलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते त᳘द्यमलोक᳘ ऽए᳘वैनमेत᳘दपित्वि᳘नं करोति तं᳘ यमा᳘य ब्रह्म᳘णे ऽददात्॥

मूलम् - श्रीधरादि

(द) अथा᳘श्वः॥
(श्वो) व्व᳘ज्रो वा ऽअ᳘श्वो व्व᳘ज्रमे᳘वैत᳘त्पुरो गां᳘कुरुते यमलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते त᳘द्यमलोक᳘ ऽए᳘वैनमेत᳘दपित्वि᳘नं करोति तं᳘ यमा᳘य ब्रह्म᳘णे ऽददात्॥

मूलम् - Weber

अथा᳘श्वः॥
व᳘ज्रो वा अ᳘श्वो व᳘ज्रमेॗवैत᳘त्पुरोगां᳘ कुरुते यमलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते त᳘द्यमलोक᳘ एॗवैनमेत᳘दपित्वि᳘नं करोति तं᳘ यमा᳘य ब्रह्म᳘णे ऽददात्॥

मूलम् - विस्वरम्

अथाश्वः । वज्रो वा ऽअश्वः । वज्रमेवैतत् पुरोगां कुरुते । यमलोके मे ऽप्यसादिति वै यजते- यो यजते । तद् यमलोक ऽएवैनमेतदपित्विनं करोति । तं यमाय ब्रह्मणे ऽददात् ॥ २७ ॥

सायणः

“वज्रो वा आपः” इत्यपां वज्रत्वं श्रूयते । अश्वश्चाद्भ्यः सम्भूतः “अप्सुयोनिर्वा अश्वः” (तै. सं. ५ । ३ । १२)इति श्रुतेः । तस्मात् कारणभूतानामपां वज्रत्वात्कार्यभूतः ‘अश्वः’ अपि ‘वज्रः’ इत्यर्थः । ‘पुरोगां कुरुते’ यमलोकबाधपरिहारत्वेन पुरोगामिनं कुरुते ॥ २७ ॥

Eggeling
  1. Then the Horse–for the horse is a thunderbolt: he thereby makes the thunderbolt the leader. And, moreover, he who sacrifices, sacrifices with the hope ‘May there be a place for me in Yama’s world!’ He thus makes him a sharer in Yama’s world. This he gave to Yama, the Brahman.

२८

विश्वास-प्रस्तुतिः

(त्स) स हि᳘रण्यं प्र᳘त्येति॥
(त्य) अग्न᳘ये त्वा म᳘ह्यं व्व᳘रुणो ददात्वि᳘त्यग्न᳘ये᳘ ह्येतद्व᳘रुणो᳘ ऽददा᳘त्सो ऽमृतत्व᳘मशीया᳘युर्दात्र᳘ ऽएधि म᳘यो म᳘ह्यं प्रतिग्रहीत्र ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्स) स हि᳘रण्यं प्र᳘त्येति॥
(त्य) अग्न᳘ये त्वा म᳘ह्यं व्व᳘रुणो ददात्वि᳘त्यग्न᳘ये᳘ ह्येतद्व᳘रुणो᳘ ऽददा᳘त्सो ऽमृतत्व᳘मशीया᳘युर्दात्र᳘ ऽएधि म᳘यो म᳘ह्यं प्रतिग्रहीत्र ऽइ᳘ति॥

मूलम् - Weber

स हि᳘रण्यम् प्र᳘त्येति॥
अग्न᳘ये त्वा म᳘ह्यं व᳘रुणो ददात्वि᳘त्यग्न᳘येॗ ह्येतद्व᳘रुणो᳘ ऽदधात्सो ऽमृतत्व᳘मशीया᳘युर्दात्र᳘ एधि म᳘यो म᳘ह्यम् प्रतिग्रहीत्र इ᳘ति॥

मूलम् - विस्वरम्

स हिरण्यं प्रत्येति- “अग्नये त्वा मह्यं वरुणो ददातु”- (वा० सं० ७ । ४७) इति । अग्नये ह्येतद्वरुणो ऽददात् । “सो ऽमृतत्वमशीयायुर्दात्र ऽएधि मयो मह्यं प्रतिग्रहीत्रे”- (वा० सं० ७ । ४७) इति ॥ २८ ॥

सायणः

क्रमेण विहितानां हिरण्यादीनां चतुर्णां प्रतिग्रहमन्त्रान्दर्शयति- स हिरण्यं प्रत्येत्यग्नये त्वेत्यादि 29 । ‘प्रत्येति’ प्रतिगृह्णीयात् । ‘अग्नये ह्येतद्वरुणो ऽददात्’ इति ब्राह्मणवाक्यम् । अनेन च मन्त्रगतस्याग्निपदस्य प्रयोगे उपपत्तिरभिधीयते । सर्वमपि वृणोति व्याप्नोतीति ‘वरुणः’ प्रजापतिः । वृणोतेः (धा. पा. स्वा. उ. ८) नित्यौणादिकः (उ. सू. ३ । ५३) उनन्प्रत्ययः । ‘स’ च ‘अग्नये’ ‘एतद्’ हिरण्यम् ‘अददात्’ इति प्रसिद्धम् । अनन्तरमेव “आयुर्हि हिरण्यं तदग्नये अग्नीध्रङ्कुर्वते ऽददात्” (श. प. ४ । ३ । ४ । २४) इत्युक्तत्वात् तस्मान्मन्त्रे अग्निपदप्रयोगः । एवमुत्तरत्रापि मन्त्रमध्यगतानां ब्राह्मणवाक्यानां मन्त्रेषु तत्तद्देवतापदप्रयोगोपपत्तिप्रतिपादनार्थत्वमवगन्तव्यम् । मन्त्रस्यायमर्थः- हे हिरण्य ! अग्निरूपाय ‘मह्यम्’ ‘वरुणः’ प्रजापतिरूपस्त्वां ‘ददातु’ । ‘सः’ अहं त्वां प्रतिगृह्णन् ‘अमृतत्वम्’ अविनश्वरताम् ‘अशीय’ प्राप्नुयाम् । आशिषि लिङ्प्रत्ययः (पा. सू. ३ । ३ । १७३) । किञ्च त्वम् ‘दात्रे’ यजमानाय ‘आयुः’ ‘एधि’ भव । अस्तेः (धा. पा. अ. प. ५५) लोटि मध्यमपुरुषैकवचने “ध्वसोरेद्धावभ्यासलोपश्च" (पा० सू० ६ । ४ । ११९) इत्येत्वम् । “असिद्धवदत्राभात्” (पा० सू० ६ । ४ । २२) इत्यसिद्धवद्भावाद् “हुझल्भ्यो हेर्द्धिः" (पा० सू० ६ । ४ । १०१) इति । धित्वम् । ‘प्रतिग्रहीत्रे’ ‘मह्यम्’ च ‘मयः’ सुखं भव । ‘मयः’ इति सुखनामधेयम् (निघं ० ३ । ६ । ७) । श्रूयते च तैत्तिरीयके- “मयो मह्यमस्तु प्रतिग्रहीत्र इत्याह । यद्वै शिवं तन्मयः” (तै. शा. २ । २ । ५) इति । एवमेवोपरितना अपि मन्त्रा व्याख्येयाः ॥ २८-३१ ॥

Eggeling
  1. The (proffered) gold he (the Adhvaryu) goes to meet (accepts) with (Vāj. S. VII, 47), ‘Let Varuṇa give thee to me (who am) Agni!’ for to Agni Varuṇa gave it. ‘May I obtain immortality! be thou life to the giver, joy (mayas) to me, the receiver!’

२९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ गां प्र᳘त्येति॥
रुद्रा᳘य त्वा म᳘ह्यं व्व᳘रुणो ददात्वि᳘ति रुद्रा᳘य᳘ ह्येतां व्व᳘रुणो᳘ ऽददा᳘त्सो ऽमृतत्व᳘मशीय प्राणो᳘ दात्र᳘ ऽएधि व्व᳘यो म᳘ह्यं प्रतिग्रहीत्र इति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ गां प्र᳘त्येति॥
रुद्रा᳘य त्वा म᳘ह्यं व्व᳘रुणो ददात्वि᳘ति रुद्रा᳘य᳘ ह्येतां व्व᳘रुणो᳘ ऽददा᳘त्सो ऽमृतत्व᳘मशीय प्राणो᳘ दात्र᳘ ऽएधि व्व᳘यो म᳘ह्यं प्रतिग्रहीत्र इति[[!!]]॥

मूलम् - Weber

अ᳘थ गाम् प्र᳘त्येति॥
रुद्रा᳘य त्वा म᳘ह्यं व᳘रुणो ददात्वि᳘ति रुद्रा᳘य ह्येतां व᳘रुणो᳘ ऽददाॗत्सो ऽमृतत्व᳘मशीय प्राणो᳘ दात्र᳘ एधि व᳘यो म᳘ह्यम् प्रतिग्रहीत्र इ᳘ति॥

मूलम् - विस्वरम्

अथ गां प्रत्येति- “रुद्राय त्वा मह्यं वरुणो ददातु”- (वा० सं० ७ । ४७) इति । रुद्राय ह्येतां वरुणो ऽददात् । “सो ऽमृतत्वमशीय प्राणो दात्र ऽएधि वयो मह्यं प्रतिग्रहीत्रे”- (वा० सं० ७ । ४७) इति ॥ २९ ॥

सायणः

[व्याख्यानं अष्टाविंशतितमे]

Eggeling
  1. And the cow he accepts with, ‘Let Varuṇa give thee to me, Rudra!’ for to Rudra Varuṇa gave her. ‘May I obtain immortality! be thou breath to the giver, strength (vayas) to me, the receiver!’

३०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वा᳘सः प्र᳘त्येति॥
बृ᳘हस्प᳘तये त्वा म᳘ह्यं व्व᳘रुणो ददात्वि᳘ति बृ᳘हस्प᳘तये᳘ ह्येतद्व᳘रुणो᳘ ऽददा᳘त्सो ऽमृतत्व᳘मशीय त्व᳘ग्दात्र᳘ ऽएधि म᳘यो म᳘ह्यं प्रतिग्रहीत्र ऽइति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वा᳘सः प्र᳘त्येति॥
बृ᳘हस्प᳘तये त्वा म᳘ह्यं व्व᳘रुणो ददात्वि᳘ति बृ᳘हस्प᳘तये᳘ ह्येतद्व᳘रुणो᳘ ऽददा᳘त्सो ऽमृतत्व᳘मशीय त्व᳘ग्दात्र᳘ ऽएधि म᳘यो म᳘ह्यं प्रतिग्रहीत्र ऽइति[[!!]]॥

मूलम् - Weber

अ᳘थ वा᳘सः प्र᳘त्येति॥
बृ᳘हस्प᳘तये त्वा म᳘ह्यं व᳘रुणो ददात्वि᳘ति बृ᳘हस्प᳘तयेॗ ह्येतद्व᳘रुणो ऽददाॗत्सो ऽमृतत्व᳘मशीय त्व᳘ग्दात्र᳘ एधि म᳘यो म᳘ह्यम् प्रतिग्रहीत्र इ᳘ति॥

मूलम् - विस्वरम्

अथ वासः प्रत्येति- “बृहस्पतये त्वा मह्यं वरुणो ददातु”- (वा० सं० ७ । ४७) इति । बृहस्पतये ह्येतद्वरुणो ऽददात् । “सो ऽमृतत्वमशीय त्वग्दात्र ऽएधि मयो मह्यं प्रतिग्रहोत्रे”- (वा० सं० ७ । ४७) इति ॥ ३० ॥

सायणः

[व्याख्यानं अष्टाविंशतितमे]

Eggeling
  1. And the cloth he accepts with, ‘Let Varuṇa give thee to me, Br̥haspati!’ for to Br̥haspati Varuṇa gave it. ‘May I obtain immortality! be thou a skin to the giver, joy to me, the receiver!’

३१

विश्वास-प्रस्तुतिः

(त्य) अथा᳘श्वं प्र᳘त्येति॥
यमा᳘य त्वा म᳘ह्यं व्व᳘रुणो ददात्वि᳘ति यमा᳘य᳘ ह्येतं व्व᳘रुणो᳘ ऽददा᳘त्सो ऽमृतत्व᳘मशीय ह᳘यो दात्र᳘ ऽएधि व्व᳘यो म᳘ह्यं प्रतिग्रहीत्र ऽइति[[!!]]॥

मूलम् - श्रीधरादि

(त्य) अथा᳘श्वं प्र᳘त्येति॥
यमा᳘य त्वा म᳘ह्यं व्व᳘रुणो ददात्वि᳘ति यमा᳘य᳘ ह्येतं व्व᳘रुणो᳘ ऽददा᳘त्सो ऽमृतत्व᳘मशीय ह᳘यो दात्र᳘ ऽएधि व्व᳘यो म᳘ह्यं प्रतिग्रहीत्र ऽइति[[!!]]॥

मूलम् - Weber

अथा᳘श्वम् प्र᳘त्येति॥
यमा᳘य त्वा म᳘ह्यं व᳘रुणो ददात्वि᳘ति यमा᳘यॗ ह्येतं व᳘रुणो᳘ ऽददाॗत्सो ऽमृतत्व᳘मशीय ह᳘यो दात्र᳘ एधि व᳘यो म᳘ह्यम् प्रतिग्रहीत्र इ᳘ति॥

मूलम् - विस्वरम्

अथाश्वं प्रत्येति- “यमाय त्वा मह्यं वरुणो ददातु”- (वा० सं० ७ । ४७) इति । यमाय ह्येतं वरुणो ऽददात् । “सो ऽमृतत्वमशीय हयो दात्र ऽएधि वयो मह्यं प्रतिग्रहीत्रे”- (वा० सं० ७ । ४७) इति ॥ ३१ ॥

सायणः

[व्याख्यानं अष्टाविंशतितमे]

Eggeling
  1. And the horse he accepts with, ‘Let Varuṇa give thee to me, Yama!’ for to Yama Varuṇa

gave it. ‘May I obtain immortality! be thou a steed (hayaḥ) to the giver, strength (vayas) to me, the receiver!’

३२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दन्यद्द᳘दाति॥
का᳘मेनैव त᳘द्ददातीदं मे᳘ ऽप्यमु᳘त्रासदि᳘ति तत्प्र᳘त्येति᳘ को ऽदात्क᳘स्मा ऽअदात्का᳘मो ऽदात्का᳘मायादात्॥ का᳘मो दाता का᳘मः प्रतिग्रहीता का᳘मैत᳘त्त ऽइ᳘ति त᳘द्देव᳘ताया ऽअ᳘तिदिशति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दन्यद्द᳘दाति॥
का᳘मेनैव त᳘द्ददातीदं मे᳘ ऽप्यमु᳘त्रासदि᳘ति तत्प्र᳘त्येति᳘ को ऽदात्क᳘स्मा ऽअदात्का᳘मो ऽदात्का᳘मायादात्॥ का᳘मो दाता का᳘मः प्रतिग्रहीता का᳘मैत᳘त्त ऽइ᳘ति त᳘द्देव᳘ताया ऽअ᳘तिदिशति॥

मूलम् - Weber

अ᳘थ य᳘दन्यद्द᳘दाति॥
का᳘मेनैव त᳘द्ददातीदम् मे᳘ ऽप्यमु᳘त्रासादि᳘ति तत्प्र᳘त्येतिॗ को ऽदात्क᳘स्मा अदात्का᳘मो ऽदात्का᳘मायादात् का᳘मो दाता का᳘मः प्रतिग्रहीता का᳘मैत᳘त्त इ᳘ति त᳘द्देव᳘ताया अ᳘तिदिशति॥

मूलम् - विस्वरम्

अथ यदन्यद्ददाति- कामेनैव तद्ददाति- इदं मे ऽप्यमुत्रासदिति । तत्प्रत्येति- “को ऽदात्कस्मा अदात्कामो ऽदात्कामायादात् । कामो दाता कामः प्रतिग्रहीता कामैतत्ते”- (वा० सं० ७ । ४८) इति । तद्देवताया ऽअतिदिशति ॥ ३२ ॥

सायणः

हिरण्यादिदानानंतरं यत्किंचिन्मन्थादिदानं विधत्ते- अथेत्यादि । ‘अथ’ उक्तदक्षिणादानानन्तरम् अन्यद्वस्तु यदि दद्यात् तदा कामेनैव यथैवामुष्मिल्ँ लोके स्वर्गे ऽप्यस्त्विति दद्यात् । न पुनरिज्यायामपि पूर्वोक्तदक्षिणाद्रव्यवदवश्यं दातव्यमित्यर्थः । इच्छया दत्तस्य वस्तुनः प्रतिग्रहमन्त्रमाह- तत्प्रत्येति को ऽदादिति 30 । मन्त्रस्तु प्रश्नोत्तररूपमर्थमाह । तत्र ‘को ऽदात्, करमा अदात्’ इत्यनेन प्रश्नो ऽभिधीयते । ‘कामो ऽदात्’ इत्यादिनोत्तरम् । दाता च स्वर्गादिफलं प्रेच्छन् ददाति, प्रतिग्रहीता च भोगेच्छया प्रतिगृह्णातीति सर्वस्यापि ‘काम’ एव कर्तेत्युच्यते । कामैतत्त इति । हे काम ! यतः सर्वस्यापि त्वमेव कर्त्ता; तस्मादेतत् प्रतिगृहीतं वस्तु ‘ते’ त्वदीयमेव; न पुनरस्मदीयमित्यर्थः ।

प्रतिग्रहणमन्त्रेषु तत्तद्देवतावाचकशब्दोच्चारणस्य प्रयोजनमाह- तद्देवताया अतिदिशतीति । ‘तत्’ तेन मन्त्रेषु देवतावाचकशब्दोच्चारणेन ‘देवतायै’ देवतार्थम् ‘अतिदिशति’ स्वकीयं प्रतिग्रहीतृत्वमारोपयति । देवतामेव प्रतिग्रहस्य कर्त्री करोति । प्रतिग्रहीतुरात्मनः प्रतिग्रहीतृत्वे दोषम्, देवतारूपेण प्रतिग्रहीतृत्वे गुणं च तैत्तिरीयकश्रुतिराह- “देवा वै वरुणमयाजयन् । स यस्यै यस्यै देवतायै दक्षिणामनयत् । तामव्लीनात् । ते ऽब्रुवन् । व्यावृत्य प्रतिगृह्णाम । तथानो दक्षिणा न व्लेष्यतीति । ते व्यावृत्य प्रत्यगृह्णन् । ततो वै तान् दक्षिणानाव्लीनात् । य एवं विद्वान् व्यावृत्य दक्षिणां प्रतिगृह्णाति । नैनं दक्षिणाव्लीनाति " (तै. शा. २ । २ । ५) इति । तस्माद्देवतायै प्रतिग्रहीतृत्वे निर्दिष्टे स्वात्मनो न कश्चिद्दोषो भवतीत्यर्थः ॥ ३२ ॥

Eggeling
  1. And whatever other gift he gives that he gives with the hope, ‘May I also have this in yonder world!’ That he accepts with (Vāj. S. VII, 48), ‘Who hath given it? to whom hath he given it? Hope hath given it, for Hope hath he given it: Hope is the giver, Hope the receiver. This to thee, O Hope!’ Thus he assigns it to a deity.

३३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्न᳘) न᳘ देव᳘ताया ऽअ᳘तिदिशेदिदं वै यां᳘ देव᳘ताᳫँ᳭ समिन्द्धे सा दी᳘प्यमाना श्वः᳘श्वः श्रे᳘यसी भवतीदं वै य᳘स्मिन्नग्ना᳘वभ्याद᳘धति स दी᳘प्यमान ऽएव श्वः᳘श्वः श्रे᳘यान्भवति श्वः᳘श्वो ह वै श्रे᳘यान्भवति य᳘ एवं᳘ विद्वा᳘न्प्रतिगृह्णा᳘ति तद्य᳘था स᳘मिद्धे जुहुया᳘देव᳘मेतां᳘ जुहोति या᳘मधीयते द᳘दाति त᳘स्मादधीयन्ना᳘तिदिशेत्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्न᳘) न᳘ देव᳘ताया ऽअ᳘तिदिशेदिदं वै यां᳘ देव᳘ताᳫँ᳭ समिन्द्धे सा दी᳘प्यमाना श्वः᳘श्वः श्रे᳘यसी भवतीदं वै य᳘स्मिन्नग्ना᳘वभ्याद᳘धति स दी᳘प्यमान ऽएव श्वः᳘श्वः श्रे᳘यान्भवति श्वः᳘श्वो ह वै श्रे᳘यान्भवति य᳘ एवं᳘ विद्वा᳘न्प्रतिगृह्णा᳘ति तद्य᳘था स᳘मिद्धे जुहुया᳘देव᳘मेतां᳘ जुहोति या᳘मधीयते द᳘दाति त᳘स्मादधीयन्ना᳘तिदिशेत्॥

मूलम् - Weber

त᳘दाहुः॥
न᳘ देव᳘ताया अ᳘तिदिशेदिदं वै यां᳘ देव᳘ताᳫं समिन्द्धे 31 सा दी᳘प्यमाना श्वः᳘-श्वः श्रे᳘यसी भवतीदं वै य᳘स्मिन्नग्ना᳘वभ्याद᳘धति स दी᳘प्यमान एव श्वः᳘-श्वः श्रे᳘यान्भवति श्वः᳘-श्वो ह वै श्रे᳘यान्भवति य᳘ एवं᳘ विद्वा᳘न्प्रतिगृह्णा᳘ति तद्य᳘था स᳘मिद्धे जुहुया᳘देव᳘मेतां᳘ जुहोति या᳘मधीयते द᳘दाति त᳘स्मादधीयन्ना᳘तिदिशेत्॥

मूलम् - विस्वरम्

तदाहुः- न देवताया ऽअतिदिशेत् । इदं वै यां देवतां समिन्द्धे । सा दीप्यमाना श्वःश्वः श्रेयसी भवति । इदं वै यस्मिन्नग्नावभ्यादधति- स दीप्यमान एव श्वःश्वः श्रेयान्भवति । श्वःश्वो ह वै श्रेया भवति- य एवं विद्वान्प्रतिगृह्णाति । तद् यथा समिद्धे जुहुयाद्- एवमेतां जुहोति । यामधीयते ददाति । तस्मादधीयन्नातिदिशेत् ॥ ३३ ॥

सायणः

अत्रैव केषांचिन्मतमाह- तदाहुरित्यादि । ‘तत्’ तस्मिन्प्रतिग्रहे केचिदाहुः । किमिति ? ‘देवतायै’ ‘मा, अतिदिशेत्’ किन्तु स्वयमेव प्रतिगृह्णीयादिति । तथा वदतां च तेषामयमाशयः- ‘इदम्’ इदानीं च ‘यां देवताम्’ हविःप्रदानात् ‘समिन्द्धे’ दीपयति, ‘सा दीप्यमाना’ सत्युत्तरोत्तरं श्रेयस्करी ‘भवति’ । सामान्येनैव तदुक्तम् । ‘इदं वै यस्मिन्नग्नौ’ इत्यादिना विशेषविषयः प्रदर्श्यते । ‘य एवं विद्वान्’ प्रतिग्रहीता स्वयमेव ‘प्रतिगृह्णीयात्’ तदुत्तरोत्तरम् ‘श्रेयान्’ एव ‘भवति’ । ‘अधीयते’ अधीयानाय । व्यत्ययेन परस्मैपदम् (पा. सू. ३ । १ । ८५) । ‘याम्’ दक्षिणाम् ‘ददाति’ सा ‘समिद्धे’ अग्नौ प्रक्षिप्तं हविरिव भवति । तस्मादधीयानो देवतायै नातिदिशेत् । अयमर्थः- दाता यस्मै ददाति तस्मै देवतारूपायैव ददामीति ददाति । तथा च सति तस्य साद्गुण्यसम्भवादुत्तरोत्तरं श्रेय एव भवति । तस्माद्दातुः साद्गुण्यसम्पादनेन श्रेयोनिमित्तं देवताया अतिदिश्यन् न प्रतिगृह्णीयात् । किन्तु स्वयमेव प्रतिगृह्णामीत्येवोच्चार्य गृह्णीयादित्यर्थः ॥ ३३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे तृतीयाध्याये चतुर्थं ब्राह्मणम् ॥ ४-३-४ ॥

Eggeling
  1. Here they say 32,–Let him not assign it to any deity; for whatsoever deity he here kindles, that deity, being kindled, becomes ever more glorious from one day to the morrow; and to whatever fire he here adds fuel, that fire, being kindled, becomes ever more glorious from one day to the morrow; and ever more glorious does he become, whosoever, knowing this, accepts (a gift): even as one offers in kindled fire, so does he offer that (gift) which he gives to one learned in the scriptures. Therefore he who is learned in the scriptures need not assign (the gift to a deity).
Eggeling

24; There are, then, four (kinds of) sacrificial gifts: Gold–thereby indeed he preserves his own life, for gold is life. That he (Prajāpati or Varuṇa) gave

to Agni, performing the office of the Agnīdh (fire-kindler): wherefore now also gold is given to the Agnīdh.


  1. तत्तँ᳘ AB. सँज्ञ AB. ↩︎

  2. “वा ऽति क्रामति” इति सूत्र शेषः । ↩︎

  3. 340:1 See II, 2, 2, 3-5. ↩︎

  4. 341:1 ‘For he, Soma, doubtless is the visible Prajāpati (pratyakshaṁ prajāpatiḥ).’ Kāṇva text. ↩︎

  5. इडां भक्षयित्वा शालाद्वार्ये दाक्षिणहोमः व्यासःप्रबद्धँ हिरण्यँ हवन्यामवधाय चतुर्गृहीतमुदु त्यमिति का. श्रौ. सू. १० । २९ । ↩︎

  6. 341:2 That is, the fire at the front door of the hall (the old Āhavanīya fire). Each priest has to perform two such dākshiṇa-homas of ghee. For the Hotr̥’s formulas, see Āśv. Sr. V, 13, 14. For the proper place of these offerings in the performance, see p. 336, note 2. ↩︎

  7. 342:1 Or rather, in a cloth such as is used at a daśāhoma, or oblation at which the fringe (or unwoven end) of a cloth is used (daśāhomīya). ↩︎

  8. चित्रं देवानामिति द्वितीयाम् । का. श्रौ. सू. १० । ३० । ↩︎

  9. “आश्चर्ये यथा तथोदगात् । उदयन्नेव स्वतेजसा नैशं तमो हन्ति, अन्येषां ज्योतींष्यादत्त इत्याश्चर्यम्” इति महीधरः । ↩︎

  10. 342:2 That is, either ‘face’ or ‘van-guard,’ anīka. ↩︎

  11. 343:1 For this usurpation, on the part of Agni, of one of Rudra’s functions, Sāyaṇa refers to a legend in the Taittirīyaka (Taitt. S. I, 5, 1), where Agni is identified with Rudra, Agni being so called because he roared (rud). See also Śat. Br, I, 7, 3, 8. ↩︎

  12. अग्नीध्रीये ऽग्ने नयेति । का. श्रौ. सू. १० । ३१ । ↩︎ ↩︎

  13. सहिरण्यो यजमानः शालां पूर्वेण तिष्ठन्नभिमंत्रयत दक्षिणा बहिर्व्वेदि तिष्ठतीर्दक्षिणतो रूपेण व इति । का० श्रौ० सू० १० । ३४ । ↩︎

  14. 344:1 The cows are driven past him along the back of the altar, between the hall and Sadas, and then along the north side of the altar, south of the Āgnīdhra and between the pit (cātvāla) and heap of rubbish (utkara), the sacrificer following them as far as the Āgnīdhra. At the same time the Subrahmaṇyā litany (see III, 3, 4, 17 seq.) may be recited. ↩︎

  15. 344:2 Sāyaṇa explains ‘rūpāṇi’ by ‘sāmarthyāni,’ capabilities, powers. ↩︎

  16. सदो गच्छति व्वि स्वरिति । का. श्रौ. सू. १० । ४१ । ↩︎

  17. प्रेक्षते यतस्व सदस्यैरिति सदस्यान् । का. श्रौ. सू. १० । ४२ । ↩︎ ↩︎ ↩︎

  18. 345:1 The cows (and other gifts) are presented at the same time. viz. either a hundred to each officiating priest, or to each his proportionate share of an aggregate of a hundred cows, viz. twelve cows to each of the first four priests, six to each of the second four (Brāhmaṇāchaṁsin, &c., see § 22), four to each of the third four, and three cows to each of the remaining four priests. ↩︎

  19. 346:1 See III, 6, 1, 27-28. ↩︎

  20. सदसः पुरस्तादुपविष्टाय के आत्रेयं क आत्रेयमिति त्रिरुक्त्वासकृच्छेषमहालेयमवालेयमकौद्रेयमशौभ्रेयमवामग्थ्यमगौपवनमिति । ऋत्विग्भ्यो दक्षिणां ददाति । ऋत्विग्ग्रहणं चमसाध्वर्युव्युदासार्थम् । तेषामनृक्त्विक्त्वात् इति तत्रकर्कः का. श्रौ. सू. १० । ४५-४६ सूत्रशेषः । ↩︎ ↩︎

  21. 346:2 That is, one of Ātreya descent, who does not officiate as a priest, and who is seated in front of the Sadas. According to the Kāṇva text (and Kāty. X, 2, 21) the Adhvaryu approaches him with ‘Ka Ātreyam’–who (? sees) the Ātreya?–thrice repeated. Kātyāyana specifies some subdivision of the (female line of) the Ātreya race–also mentioned in the same order in the Pravarādhyāya–as excluded from this privilege. On this legend cf. V, 3, 2, 2; Taitt. S. II, i, 2, 2; Tāṇḍya Br. VI, 6, 8; Ind. Stud. III, p. 464. ↩︎

  22. 346:3 Viz. early in the morning of the sutyā day, when the Prātar-anuvāka is recited. See p. 229, note 2. ↩︎

  23. 346:4 I take ‘purā’ in the sense of ‘in front’ (cf. III, 9, 1, 12), that in the havirdhāna shed, and not in that of ‘formerly’ (Ind. Stud. X, 558). The Kāṇva text brings out the meaning still more clearly: Sa yad ātreyāya hiraṇyaṁ dadāty, atrir hi vā r̥shīṇāṁ hotā sa yatro ha vā ada āsīnaḥ prātaranuvākam anvāha tad dha smaitat purāsīno hotā śaṁsaty atha paścāt tamaḥ sado ’bhipupluve. Te hocus tamo vā idaṁ sado ’bhyaproshṭeti pratyaṅ prehīti pratyaṅ prehīti sa pratyaṅ prait sa tat tamo ’pāhan, &c. Sāyaṇa also interprets it by ‘pūrvasmin pradeśe āhavanīyasya samīpe.’ ↩︎

  24. प्रत्येत्य प्रस्तोतृप्रशास्तृब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकोन्नेतृग्रावस्तुत्सुब्रह्मण्येभ्यः । प्रसृप्तेभ्यश्च न्यत् । कण्वकश्यपयाचमानवर्जम् । ज्ञातये चाश्रोत्रियाय । न रजतं दद्याद्बर्हिषि पुरा ऽप्य संवत्सराद्गृहेरुदंतीति श्रुतेः । पत्नी च ददाति । सर्व्वेभ्यो दत्वा प्रतिहर्त्रे पश्चात् । का. श्रौ. सू. १० । ५७-६३ । ↩︎

  25. षट् द्वितीयेभ्यश्चतस्रस्तृतीयेभ्यस्तिस्र इतरेभ्यः- इति क्व. का० श्रौ० सू० पु. पा. । ↩︎

  26. 347:1 For the part taken by the Pratihartr̥ in the chanting of stotras, see p. 310, note 1. ↩︎

  27. इंद्राय मरुत्वते ऽनुवाचयति । का. श्रौ. सू. १० । ६४ । ↩︎

  28. अदानमतः का. श्रौ. सू. १० । ६५ । ↩︎

  29. व्वासोहिरण्ये ददाति । का. श्रौ. सू. १० । ३३ । ↩︎ ↩︎

  30. को ऽदादित्यन्यत् । इच्छतो मंत्रवचनम् । का. श्रौ. सू. । १० । ५५ । ५६ । ↩︎

  31. स᳘मिन्द्धे AB. ↩︎

  32. 349:1 The Kāṇva text of this paragraph seems more correct: Thus he assigns it to deities; for when he bestows (abhyādhā) anything on a deity, that deity thereby shines ever more brilliantly; and whatever (fuel) he adds to the fire, thereby it shines ever more brilliantly: and more glorious does he become from day to day whosoever, knowing it, accepts it thus. Here now Āsuri said, ‘But he who is learned in the scriptures need not regard this; for as one puts fuel on kindled fire, and offers on kindled fire, thus he gives who gives gifts to one learned in the scriptures.’ ↩︎