०१
विश्वास-प्रस्तुतिः
इहा᳘ ३ ऽइहा ३ ऽइ᳘त्यभि᳘षुणोति॥
(ती᳘) इ᳘न्द्रमे᳘वैतदा᳘च्यावयति बृह᳘द्बृहदिती᳘न्द्रमे᳘वैतदा᳘च्यावयति॥
मूलम् - श्रीधरादि
इहा᳘ ३ ऽइहा ३ ऽइ᳘त्यभि᳘षुणोति॥
(ती᳘) इ᳘न्द्रमे᳘वैतदा᳘च्यावयति बृह᳘द्बृहदिती᳘न्द्रमे᳘वैतदा᳘च्यावयति॥
मूलम् - Weber
इहा᳘ इहा इ᳘त्यभि᳘षुणोति॥
इ᳘न्द्रमेॗवैतदा᳘च्यावयति बृह᳘द्बृहदिती᳘न्द्रमेॗवैतदा᳘च्यावयति॥
मूलम् - विस्वरम्
शुक्रः, मन्थी, आग्रयणः, मरुत्वतीयः, उक्थ्यः ।
“इहा ३ ऽइहा ३ऽ” इत्यभिषुणोति- इन्द्रमेवैतदाच्यावयति । बृहद्बृहदिति- इन्द्रमेवैतदाच्यावयति ॥ १ ॥
सायणः
ऐन्द्राग्नवैश्वदेवग्रहौ विधाय तत्रत्ययोः शस्त्रयोः प्रतिगरापेक्षायां तत्प्रकारो गते ब्राह्मणे ऽभिहितः । वैश्वदेवग्रहानन्तरमुक्थ्ययागो विधातव्यः । स तु ग्रहणप्रसङ्गात्पूर्वमेवा ऽभिहितः । अत उक्थ्यग्रहान्तं प्रातःसवनं सन्तिष्ठते । तत्समाप्य माध्यन्दिनसवनाय सोमाभिषवं विधत्ते- इहा ३ ऽइहा ३ ऽइत्यभिषुणोतीति । अभिषवकाले ‘इहा ३ ऽइहा ३’ इत्युच्चार्य अभिषुणुयात् । तथा च सत्यागच्छेतीन्द्रं प्रत्युक्तत्वादेतेन’ ‘इन्द्रमेव’ ‘आच्यावयति’ आगमयति । आगच्छेत्यस्मिन् पदे ऽध्याहृते सति ‘इहा’ इति एतदेव वाक्यं संपद्यते । एवं च “वाक्यस्य टेः प्लुत उदात्तः” (पा. सू. ८ । २ । ८२) “दूराद्धूते च " (पा. सू. ८ । २ । ८४) इति प्लुतो भवति । तथोत्तरमपि ‘इहा’ इति पदे वाक्यं सम्पादनीयम् । इन्द्रस्य विप्रकृष्टत्वात्तच्छ्रवणार्थं वाक्यं द्विरुच्चार्यते । द्वितीयपर्यायस्योत्तमे ऽभिषवे ‘बृहद्’ ‘बृहत्’ ‘इति’ द्विवारमुच्चारयेत् । ‘एतद्’ बृहच्छब्दोच्चारणेन अभिषवमहत्त्वस्य सूचितत्वादिन्द्र आगमिष्यतीति इन्द्रमेवागमयतीत्यर्थः । अत्र कात्यायनः- “इहा इहा इति प्रथमः पर्यायः । अविलम्बितो द्वितीयस्तूर्णस्तृतीयः । अविलम्बितस्थान उत्तमे बृहद्बृहदिति ।” (का. श्रौ. सू. १० । ६-८) आपस्तम्बस्तु बृहच्छन्दोच्चारणस्य स्थानान्तरमाह- “संराधयन्तश्चाभिषुण्वन्तीहा इहेति उत्तमस्याभिषवस्य मध्यमे पर्याये बृहद्दधाति बृहद्बृहदिति” (आप. श्रौ. सू.) इति ॥ १ ॥
Eggeling
- He presses out (the Soma juice) with ‘Ihā̃! Ihā̃ 1!’ (hither), whereby he draws Indra nigh; and
with ‘Br̥hat! Br̥hat!’ (great), whereby he draws Indra 2 nigh.
०२
विश्वास-प्रस्तुतिः
स᳘ शुक्रा᳘मन्थि᳘नौ प्रथमौ᳘ गृह्णाति॥
शुक्र᳘व᳘द्ध्येतत्स᳘वनम᳘थाग्रयणᳫँ᳭ स᳘र्व्वेषु᳘ ह्येष स᳘वनेषु गृह्यते᳘ ऽथ मरुत्वती᳘यम᳘थो᳘क्थ्यमुक्था᳘नि᳘ ह्यत्रा᳘पि[[!!]] भ᳘वन्ति॥
मूलम् - श्रीधरादि
स᳘ शुक्रा᳘मन्थि᳘नौ प्रथमौ᳘ गृह्णाति॥
शुक्र᳘व᳘द्ध्येतत्स᳘वनम᳘थाग्रयणᳫँ᳭ स᳘र्व्वेषु᳘ ह्येष स᳘वनेषु गृह्यते᳘ ऽथ मरुत्वती᳘यम᳘थो᳘क्थ्यमुक्था᳘नि᳘ ह्यत्रा᳘पि[[!!]] भ᳘वन्ति॥
मूलम् - Weber
स᳘ शुक्रा᳘मन्थि᳘नौ प्रथमौ᳘ गृह्णाति॥
शुक्र᳘वॗद्ध्येतत्स᳘वनम᳘थाग्रयणᳫं स᳘र्वेषुॗ ह्येष स᳘वनेषु गृह्यते᳘ ऽथ मरुत्वती᳘यम᳘थोक्थ्यमुक्था᳘नि ह्य᳘त्रा᳘पि भ᳘वन्ति॥
मूलम् - विस्वरम्
स शुक्रामन्थिनौ प्रथमौ गृह्णाति । शुक्रवद्ध्येतत्सवनम् । अथाग्रयणम् । सर्वेषु ह्येष सवनेषु गृह्यते । अथ मरुत्वतीयम् । अथोक्थ्यम् । उक्थ्यानि ह्यत्रापि भवन्ति ॥ २ ॥
सायणः
अभिषवानन्तरं शुक्रादीनां पञ्चानां ग्रहाणां ग्रहणं क्रमेण विधत्ते- स शुक्रामन्थिनावित्यादि । शुक्रवद्ध्येतत्सवनमिति । ‘एतत्’ माध्यन्दिनं ‘सवनम्’ ‘शुक्रवत्’ सारवत् इति प्रसिद्धम् । तथा च तैत्तिरीयके श्रुतिः- “तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यन्दिनं च”- (तै. सं. ६ । १ । ६ । ४) इति । सर्वेषु ह्येषु सवनेषु गृह्यत इति प्रसिद्धम्- “सवने सवने ऽभिगृह्णाति” (तै. सं. ६ । ६ । ११) इति श्रुतेः । उक्थ्यानि ह्यत्रापि भवन्तीति ‘अत्रापि’ माध्यन्दिनसवने ऽपि ‘उक्थ्यानि’ स्तोत्राणि ‘भवन्ति’ । तस्मादुक्थ्यं गृह्णीयात् ॥ २ ॥
Eggeling
- The Śukra and Manthin grahas he draws first, for thereby the Soma feast comes to be supplied with pure Soma (śukra). Thereupon the Āgrayaṇa, for that (cup) is drawn at all (three) feasts. Then the Marutvatīya cup; then the Ukthya, for here also there are songs of praise (Uktha) 3.
०३
विश्वास-प्रस्तुतिः
तद्धै᳘के॥
(क ऽ) उ᳘क्थ्यं[[!!]] गृहीत्वा᳘ ऽथ मरुत्वती᳘यं गृह्णन्ति त᳘दु त᳘था न᳘ कुर्यान्मरुत्वती᳘यमेव᳘ गृहीत्वा᳘ ऽथो᳘क्थ्यं[[!!]] गृह्णीयात्॥
मूलम् - श्रीधरादि
तद्धै᳘के॥
(क ऽ) उ᳘क्थ्यं[[!!]] गृहीत्वा᳘ ऽथ मरुत्वती᳘यं गृह्णन्ति त᳘दु त᳘था न᳘ कुर्यान्मरुत्वती᳘यमेव᳘ गृहीत्वा᳘ ऽथो᳘क्थ्यं[[!!]] गृह्णीयात्॥
मूलम् - Weber
तद्धै᳘के॥
उक्थ्यं᳘ गृहीत्वा᳘थ मरुत्वती᳘यं गृह्णन्ति त᳘दु तथा न᳘ कुर्यान्मरुत्वती᳘यमेव᳘ गृहीत्वा᳘थोक्थ्यं᳘ गृह्णीयात्॥
मूलम् - विस्वरम्
तद्धैके- उक्थ्यं गृहीत्वा ऽय मरुत्वतीयं गृह्णन्ति । तदु तथा न कुर्यात् । मरुत्वतीयमेव गृहीत्वा ऽथोक्थ्यं गृह्णीयात् ॥ ३ ॥
सायणः
उक्थ्यमरुत्वतीययोः पौर्वापर्ये शाखान्तरमतमनूद्य, निराकृत्य, स्वमतमेव निगमयति- तद्धैक उक्थ्यं गृहीत्वेत्यादि । अत्र प्रातःसवने आग्रयणानन्तरमुक्थ्यग्रहस्य ग्रहणेन तत्समत्वादत्रापि तदनन्तरं ग्रहणं प्रयुक्तमिति शाखान्तरीयाणामभिप्रायः । प्रातःसवनग्रहणकाले तथाविधक्रमाङ्गीकारे ऽपि तत्र माध्यन्दिनसवने मरुत्वतीयस्य ग्रहस्य होमः प्राथमिकः । उक्थ्यग्रहस्य तु पश्चादिति होमानुसारेण ग्रहणमपि मरुत्वतीयस्य प्रथममेव भवितुमर्हतीत्येतद्ब्राह्मणस्याभिप्रायः ॥ ३ ॥
Eggeling
- Now some draw the Marutvatīya after they have drawn the Ukthya; but let him. not do this,–let him rather draw the Ukthya after he has drawn the Marutvatīya.
०४
विश्वास-प्रस्तुतिः
(त्ता) तान्वा᳘ ऽएतान्[[!!]]॥
(न्प᳘) प᳘ञ्च ग्र᳘हान्गृह्णात्येष वै व्व᳘ज्रो यन्मा᳘ध्यन्दिनः प᳘वमानस्त᳘स्मात्पञ्चदशः प᳘ञ्चसामा भवति पञ्चदशो हि व्व᳘ज्रः स᳘ एतैः᳘ पञ्च᳘भिर्ग्र᳘हैः प᳘ञ्च वा᳘ ऽइमा᳘ ऽअङ्गु᳘लयो ऽङ्गु᳘लिभिर्व्वै प्र᳘हरति॥
मूलम् - श्रीधरादि
(त्ता) तान्वा᳘ ऽएतान्[[!!]]॥
(न्प᳘) प᳘ञ्च ग्र᳘हान्गृह्णात्येष वै व्व᳘ज्रो यन्मा᳘ध्यन्दिनः प᳘वमानस्त᳘स्मात्पञ्चदशः प᳘ञ्चसामा भवति पञ्चदशो हि व्व᳘ज्रः स᳘ एतैः᳘ पञ्च᳘भिर्ग्र᳘हैः प᳘ञ्च वा᳘ ऽइमा᳘ ऽअङ्गु᳘लयो ऽङ्गु᳘लिभिर्व्वै प्र᳘हरति॥
मूलम् - Weber
तान्वा᳘ एता᳘न्॥
प᳘ञ्च ग्र᳘हान्गृह्णात्येष वै व᳘ज्रो यन्मा᳘ध्यन्दिनः प᳘वमानस्त᳘स्मात्पञ्चदशः प᳘ञ्चसामा भवति पञ्चदशो हि व᳘ज्रः स᳘ एतैः᳘ पञ्च᳘भिर्ग्र᳘हैः प᳘ञ्च वा᳘ इमा᳘ अङ्गु᳘लयो ऽङ्गु᳘लिभिर्वै प्र᳘हरति॥
मूलम् - विस्वरम्
तान्वा ऽएतान् पञ्च ग्रहान्गृह्णाति । एष वै वज्रो- यन्माध्यन्दिनः पवमानः । तस्मात्पञ्चदशः पञ्चसामा भवति । पञ्चदशो हि वज्रः । स एतैः पञ्चभिर्ग्रहैः । पञ्च वा ऽइमा ऽअङ्गुलयः । अङ्गुलिभिर्वै प्रहरति ॥ ४ ॥
सायणः
सम्भूय पञ्चानां ग्रहाणां ग्रहणमनूद्य प्रशंसति- तान्वा एतानित्यादि । माध्यन्दिनः पवमान इति । ‘यत्’ एषः ‘वज्रो वै’ ‘तस्माद्’ वज्रत्वात् ‘पञ्चदशः’ पञ्चदशस्तोमः । “स्तोमे डविधिः” (पा. सू. ५ । १ । ५८ वा. १ पञ्चदशर्चे)- इति डप्रत्ययः । वज्रो हि पञ्चदशात्मकः । “पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै” (तै. सं. ६ । ३ । ३) इति श्रुतेः । एतैः प्रकृतैः पञ्चभिर्ग्रहैर्हेतुना स माध्यन्दिनः पवमानः ‘पञ्चसामा भवति’ । इमा अङ्गुलय इति । ताभिः ‘प्रहरति’ इति च प्रत्यक्षं प्रसिद्धम् । तस्मात् पञ्चसङ्ख्याका एते ऽपि ग्रहास्तत्प्रहरणसाधनभूताः ‘अङ्गुलयः’ ते च सङ्व्यासामान्यात् सामरूपाः सन्तः वज्रात्मकेन माध्यन्दिनपवमानेन सम्बध्यन्ते ॥ ४ ॥
Eggeling
- These, then, are five grahas he draws; for that midday Pavamāna chant is a thunderbolt: hence it is a fifteenfold five-hymned chant 4, for the thunderbolt is fifteenfold 5. He is so by means of these five grahas (cups of Soma 6): for five are these fingers, and with the fingers he hurls (the thunderbolt).
०५
विश्वास-प्रस्तुतिः
(ती᳘) इ᳘न्द्रो व्वृत्रा᳘य व्व᳘ज्रं प्र᳘जहार॥
स᳘ व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे द᳘क्षिणा निनाय त᳘स्माद᳘प्येत᳘र्हि य᳘दे᳘वैते᳘न मा᳘ध्यन्दिनेन प᳘वमानेन स्तुवते᳘ ऽथ व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे द᳘क्षिणा नीयन्ते त᳘थो ऽए᳘वैष᳘ एतैः᳘ पञ्च᳘भिर्ग्र᳘हैः पाप्म᳘ने द्विषते भ्रातृव्याय व्व᳘ज्रं प्र᳘हरति स᳘ व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे द᳘क्षिणा नयति त᳘स्माद्वा ऽएतान्प᳘ञ्च ग्र᳘हान्गृह्णाति॥
मूलम् - श्रीधरादि
(ती᳘) इ᳘न्द्रो व्वृत्रा᳘य व्व᳘ज्रं प्र᳘जहार॥
स᳘ व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे द᳘क्षिणा निनाय त᳘स्माद᳘प्येत᳘र्हि य᳘दे᳘वैते᳘न मा᳘ध्यन्दिनेन प᳘वमानेन स्तुवते᳘ ऽथ व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे द᳘क्षिणा नीयन्ते त᳘थो ऽए᳘वैष᳘ एतैः᳘ पञ्च᳘भिर्ग्र᳘हैः पाप्म᳘ने द्विषते भ्रातृव्याय व्व᳘ज्रं प्र᳘हरति स᳘ व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे द᳘क्षिणा नयति त᳘स्माद्वा ऽएतान्प᳘ञ्च ग्र᳘हान्गृह्णाति॥
मूलम् - Weber
इ᳘न्द्रो वृत्रा᳘य व᳘ज्रम् प्र᳘जहार॥
स᳘ वृत्र᳘म् पाप्मा᳘नᳫं हत्वा वि᳘जिते᳘ ऽभये ऽनाष्ट्रे द᳘क्षिणा निनाय त᳘स्माद᳘प्येत᳘र्हि यॗदैॗवैते᳘न मा᳘ध्यन्दिनेन प᳘वमानेन स्तुवते᳘ ऽथ वि᳘जिते᳘ ऽभये ऽनाष्ट्रे द᳘क्षिणा नीयन्ते त᳘थो एॗवैष᳘ एतैः᳘ पञ्च᳘भिर्ग्र᳘हैः पाप्म᳘ने द्विषते भ्रातृव्याय व᳘ज्रम् प्र᳘हरति स᳘ वृत्र᳘म् पाप्मा᳘नᳫं हत्वा वि᳘जिते᳘ ऽभये नाष्ट्रे द᳘क्षिणा नयति त᳘स्माद्वा एतान्प᳘ञ्च ग्र᳘हान्गृह्णाति॥
मूलम् - विस्वरम्
इन्द्रो वृत्राय वज्रं प्रजहार । स वृत्रं पाप्मानं हत्वा विजिते ऽभये ऽनाष्ट्रे दक्षिणा निनाय । तस्मादप्येतर्हि यदैवैतेन माध्यन्दिनेन पवमानेन स्तुवते- अथ विजिते ऽभये ऽनाष्ट्रे दक्षिणा नीयन्ते । तथो Sएवैष एतैः पञ्चभिर्ग्रहैः पाप्मने द्विषते भ्रातृव्याय वज्रं प्रहरति । स वृत्रं पाप्मानं हत्वा विजिते ऽभयेनाष्ट्रे दक्षिणा नयति तस्माद्वा ऽएतान्पञ्च ग्रहान् गृह्णाति ॥ ५ ॥
सायणः
इन्द्रो वृत्राय इत्यादिना दक्षिणा नीयन्ते इत्यन्तेन पञ्चसाम्नः पञ्चदशस्तोमकस्य माध्यन्दिनपवमानस्य वज्रत्वमेव प्रदर्श्यते । तथो एवैष इति । ‘तथैव’ ‘एषः’ अध्वर्युः ‘पञ्चभिः’ ग्रहैः ‘अङ्गुलिभिः’ अङ्गुलिस्थानीयैः ‘द्विषते’ द्वेषं कुर्वते भ्रातृव्याय ‘वज्रम्’ माध्यन्दिनपवमानरूपम् वृत्रं ‘हत्वा’ ‘विजिते’ शत्रौ ‘अभये’ ‘अनाष्ट्रे’ नाशकाभावे ‘दक्षिणा नयति’ ‘तस्मात्’ माध्यन्दिनपवमानरूपवज्रप्रक्षेपसाधनाङ्गुलिस्थानत्वेन पापरूपत्वेन पापरूपवृत्रविघातहेतुत्वात्प्रशस्तमेतेषां पञ्चानां ग्रहाणां ग्रहणमित्यर्थः ॥ ५ ॥
Eggeling
- Indra hurled the thunderbolt at Vr̥tra; and having smitten Vr̥tra, the wicked, and safety and peace being secured 7, he led forth the dakshiṇās (gifts to priests). Wherefore now also, when they (the Udgātr̥s) chant the midday Pavamāna, and safety and peace are secured, the dakshiṇās are led forth. And so, forsooth, does he now by means of those five cups of Soma hurl the thunderbolt at the wicked, hateful enemy, and having smitten Vr̥tra, the wicked, and safety and peace being
secured, he leads forth the dakshiṇās. This is why he draws those five cups.
०६
विश्वास-प्रस्तुतिः
तद्य᳘न्मरुत्वती᳘यान्गृह्णा᳘ति॥
(त्ये) एत᳘द्वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यᳫँ᳭ स᳘वनं यन्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं ते᳘न व्वृत्र᳘मजिघाᳫँ᳭सत्ते᳘न᳘[[!!]] व्यजिगीषत[[!!]] मरु᳘तो वा ऽइ᳘त्यश्व᳘त्थे ऽपक्र᳘म्य तस्थुः क्षत्रं वा ऽइ᳘न्द्रो वि᳘शो मरु᳘तो व्विशा वै᳘ क्षत्त्रि᳘यो ब᳘लवान्भवति त᳘स्मादा᳘श्वत्थे ऽऋतुपात्रे᳘ स्यातां कार्ष्मर्यम᳘ये᳘ त्वेव᳘ भवतः॥
मूलम् - श्रीधरादि
तद्य᳘न्मरुत्वती᳘यान्गृह्णा᳘ति॥
(त्ये) एत᳘द्वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यᳫँ᳭ स᳘वनं यन्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं ते᳘न व्वृत्र᳘मजिघाᳫँ᳭सत्ते᳘न᳘[[!!]] व्यजिगीषत[[!!]] मरु᳘तो वा ऽइ᳘त्यश्व᳘त्थे ऽपक्र᳘म्य तस्थुः क्षत्रं वा ऽइ᳘न्द्रो वि᳘शो मरु᳘तो व्विशा वै᳘ क्षत्त्रि᳘यो ब᳘लवान्भवति त᳘स्मादा᳘श्वत्थे ऽऋतुपात्रे᳘ स्यातां कार्ष्मर्यम᳘ये᳘ त्वेव᳘ भवतः॥
मूलम् - Weber
तद्य᳘न्मरुत्वती᳘यान्गृह्णा᳘ति॥
एत᳘द्वा इ᳘न्द्रस्य नि᳘ष्केवल्यᳫं स᳘वनं यन्मा᳘ध्यन्दिनᳫं स᳘वनं ते᳘न वृत्र᳘मजिघा᳘सत्ते᳘न व्य᳘जिगीषत मरु᳘तो वा इ᳘त्यश्वॗत्थे ऽपक्र᳘म्य तस्थुः क्षत्रं वा इ᳘न्द्रो वि᳘शो मरु᳘तो विशा वै᳘ क्षत्रि᳘यो ब᳘लवान्भवति त᳘स्मादा᳘श्वत्थे ऋतुपात्रे᳘ स्यातां कार्ष्मर्यम᳘येॗ त्वेव᳘ भवतः॥
मूलम् - विस्वरम्
तद् यन्मरुत्वतीयान् गृह्णाति । एतद्वा ऽइन्द्रस्य निष्केवल्यं सवनम्- यन्माध्यन्दिनं सवनम् । तेन वृत्रमजिघांसत् । तेन व्यजिगीषत । मरुतो वा ऽइत्यश्वत्थे ऽपक्रम्य तस्थुः । क्षत्रं वा ऽइन्द्रः, विशो मरुतः । विशा वै क्षत्रियो बलवान्भवति । तस्मादाश्वत्थे ऽऋतुपात्रे स्याताम् । कार्ष्मर्यमये त्वेव भवतः ॥ ६ ॥
सायणः
कारणाभिधित्सया मरुत्वतीयानां ग्रहणमनुवदति- तद्यन्मरुत्वतीयान् गृह्णातीति । “तेभ्य एतौ मरुत्वतीयौ ग्रहावगृह्णात्, तेभ्यो वै नस्तृतीयं ग्रहं गृहाण” । (श. प. ४ । ३ । ३ । ७-९) इति वक्ष्यमाणत्वात् ‘त्रीन्मरुत्वतीयान्गृह्णाति’ इति यत्-तत्कारणमुच्यत इत्यर्थः ।
नन्वेकस्यैव मरुत्वतीयस्य ग्रहणमभिहितम्, तत्कथं त्रयाणामप्यनुवादः सम्भवतीति । एवं तर्ह्यनेन सिद्धवत्कृत्यानुवादनेनेतरयोर्ग्रहयोरपि विधिरुन्नेयः । कारणमाह- एतद्वा इन्द्रस्येत्यादिना । ‘निष्केवल्यम्’ निष्कृष्य केवल इन्द्रो देवता यस्य तन्निष्केवल्यम् । मरुतो वा इत्यश्वत्थ इति । ‘इति’ शब्देनापक्रमणप्रकारो ऽभिनयेन प्रदर्श्यते । तस्मादिति । ऋतुपात्राभ्यामेव मरुत्वतीयानां ग्रहणात्, मरुतां चाश्वत्थे स्थितत्वात्, तदवारोधाय ‘आश्वत्थे ऋतुपात्रे स्याताम्’ नैतदादरणीयम्, किन्तु ‘कार्ष्मर्यमये’ ‘एव’ ‘ऋतुपात्रे’ ‘भवतः’ । न त्वाश्वत्थे स्याताम् । कार्ष्मर्यो नाम कश्चिद् वृक्षविशेषः । तत्रायमाशयः- ‘वृत्रमजिघांसत्’ इति वृत्रस्य जिघांसितत्वाद्रक्षोघातकत्वेन कार्ष्मर्यस्य, तन्मये एव पात्रे भवत इति । मरुतामवरोधस्तु “इन्द्राय मरुत्वते” (श. प. ४ । ३ । ३ । १०) इतीन्द्रेण सह मरुतां निर्देशादेव सेत्स्यति । कार्ष्मर्यस्य रक्षोघातकत्वं तैत्तिरीयके श्रूयते- “यत्कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसामपहत्यै” (तै. सं. ६ । २ । १) इति । एतद् ‘आश्वत्थे’ इत्यादिकम् ‘अश्वत्थे ऽपक्रम्य तस्थुः’ इत्यस्य प्रसङ्गादभिहितम् । ‘उपाववृतुः’ इति व्यत्ययेन परस्मैपदम् (पा. सू. ३ । १ । ८५) । स्पष्टार्थमन्यत् । ‘उपावृतन्’ इति “द्युद्भ्यो लुङि” (पा. सू. १ । ३ । ९१) इति परस्मैपदम् । स्पष्टार्थमन्यत् ॥ ६-९ ॥
Eggeling
- Then as to why he draws the Marutvatīya cups. Now this, the midday pressing feast, is Indra’s special (nishkevalya) feast: thereby he strove to smite Vr̥tra, thereby he strove to vanquish him. But the Maruts, having on that account 8 withdrawn, were standing on an Aśvattha tree 9 (Ficus Religiosa). Now Indra is the nobility, and the Maruts are the people, and through the people the noble becomes strong: therefore the two Ritu cups (they say) 10 may be of aśvattha wood; but in reality they are of kārshmarya wood.
०७
विश्वास-प्रस्तुतिः
(स्ता) तानि᳘न्द्र ऽउपमन्त्रयां᳘चक्रे॥
(क्र ऽ) उ᳘प मा᳘ ऽऽवर्तध्वं युष्मा᳘भिर्ब᳘लेन व्वृत्र᳘ᳫं᳘ हनानी᳘ति ते᳘ होचुः किं᳘ नस्त᳘तः स्यादि᳘ति ते᳘भ्य ऽएतौ᳘ मरुत्वती᳘यौ ग्र᳘हावगृह्णात्॥
मूलम् - श्रीधरादि
(स्ता) तानि᳘न्द्र ऽउपमन्त्रयां᳘चक्रे॥
(क्र ऽ) उ᳘प मा᳘ ऽऽवर्तध्वं युष्मा᳘भिर्ब᳘लेन व्वृत्र᳘ᳫं᳘ हनानी᳘ति ते᳘ होचुः किं᳘ नस्त᳘तः स्यादि᳘ति ते᳘भ्य ऽएतौ᳘ मरुत्वती᳘यौ ग्र᳘हावगृह्णात्॥
मूलम् - Weber
तानि᳘न्द्र उपमन्त्रयां᳘ चक्रे॥
उ᳘प मा᳘वर्तध्वं युष्मा᳘भिर्ब᳘लेन वृत्र᳘ᳫं᳘ हनानी᳘ति ते᳘ होचुः किं᳘ नस्त᳘तः स्यादि᳘ति ते᳘भ्य एतौ᳘ मरुत्वती᳘यौ ग्र᳘हावगृह्णात्॥
मूलम् - विस्वरम्
तानिन्द्र ऽउपमन्त्रयांचक्रे- उप मा ऽऽवर्तध्वम्, युष्माभिर्बलेन वृत्रं हनानीति । ते होचुः- किं नस्ततः स्यादिति । तेभ्य एतौ मरुत्वतीयौ ग्रहावगृह्णात् ॥ ७ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- Indra called on them, saying, ‘Do ye join me that with you as my force I may smite Vr̥tra!’ They said, ‘What will be our (reward) then?’ He drew those two Marutvatīya cups for them.
०८
विश्वास-प्रस्तुतिः
(त्ते᳘) ते᳘ होचुः॥
(र) अपनिधा᳘यैनमो᳘ज ऽउपा᳘वर्तामहा ऽइ᳘ति त᳘ ऽएनमपनिधा᳘यैवौ᳘ज ऽउपा᳘ववृतुस्तद्वा ऽइ᳘न्द्रो ऽस्पृणुतापनिधा᳘य वै मौ᳘ज उपा᳘वृतन्नि᳘ति॥
मूलम् - श्रीधरादि
(त्ते᳘) ते᳘ होचुः॥
(र) अपनिधा᳘यैनमो᳘ज ऽउपा᳘वर्तामहा ऽइ᳘ति त᳘ ऽएनमपनिधा᳘यैवौ᳘ज ऽउपा᳘ववृतुस्तद्वा ऽइ᳘न्द्रो ऽस्पृणुतापनिधा᳘य वै मौ᳘ज उपा᳘वृतन्नि᳘ति॥
मूलम् - Weber
ते᳘ होचुः॥
अपनिधा᳘यैनमो᳘ज उपा᳘वर्तामहा इ᳘ति त᳘ एनमपनिधा᳘यैवौ᳘ज उपा᳘ववृतुस्तद्वा इ᳘न्द्रो ऽस्पुणुतापनिधा᳘य वै मौ᳘ज उपा᳘वृतन्नि᳘ति॥
मूलम् - विस्वरम्
ते होचुः- अपनिधायैनमोज उपावर्तामहा ऽइति । त एनमपनिधायैवौज उपाववृतुः । तद्वा ऽइन्द्रो ऽस्पृणुत । अपनिधाय वै मौज उपावृतन्निति ॥ ८ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- They said, ‘Having put aside this one (cup) for our vigour, we will join thee.’ Having accordingly put it aside for their vigour 11, they joined him. But Indra sought to obtain it, thinking, ‘They have come to me after putting aside their vigour.’
०९
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
स᳘हैव मौ᳘जसोपा᳘वर्तध्वमि᳘ति ते᳘भ्यो वै᳘ नस्तृती᳘यं ग्र᳘हं गृहाणे᳘ति ते᳘भ्य ऽएतं᳘ तृती᳘यं ग्र᳘हमगृह्णादुपयाम᳘गृहीतो ऽसि मरु᳘तां त्वौ᳘जस ऽइ᳘ति त᳘ ऽएनᳫँ᳭ स᳘हैवौ᳘जसोपा᳘वर्तन्त तै᳘र्व्यजयत[[!!]] तै᳘र्व्वृत्र᳘महन्क्षत्त्रं वा ऽइ᳘न्द्रो व्वि᳘शो मरु᳘तो व्विशा वै᳘ क्षत्त्रि᳘यो ब᳘लवान्भवति त᳘त्क्षत्त्र᳘ ऽए᳘वैतद्ब᳘लं दधाति त᳘स्मान्मरुत्वती᳘यान्गृह्णा᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
स᳘हैव मौ᳘जसोपा᳘वर्तध्वमि᳘ति ते᳘भ्यो वै᳘ नस्तृती᳘यं ग्र᳘हं गृहाणे᳘ति ते᳘भ्य ऽएतं᳘ तृती᳘यं ग्र᳘हमगृह्णादुपयाम᳘गृहीतो ऽसि मरु᳘तां त्वौ᳘जस ऽइ᳘ति त᳘ ऽएनᳫँ᳭ स᳘हैवौ᳘जसोपा᳘वर्तन्त तै᳘र्व्यजयत[[!!]] तै᳘र्व्वृत्र᳘महन्क्षत्त्रं वा ऽइ᳘न्द्रो व्वि᳘शो मरु᳘तो व्विशा वै᳘ क्षत्त्रि᳘यो ब᳘लवान्भवति त᳘त्क्षत्त्र᳘ ऽए᳘वैतद्ब᳘लं दधाति त᳘स्मान्मरुत्वती᳘यान्गृह्णा᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
सॗहैव मौ᳘जसोपा᳘वर्तध्वमि᳘ति ते᳘भ्यो वै᳘ नस्तृती᳘यं ग्र᳘हं गृहाणे᳘ति ते᳘भ्य एतं᳘ तृती᳘यं ग्र᳘हमगृह्णादुपयाम᳘गृहीतो ऽसि मरु᳘तां त्वौ᳘जस इ᳘ति त᳘ एनᳫं सॗहैवौ᳘जसोपा᳘वर्तन्त तैर्व्य᳘जयत तै᳘र्वृत्र᳘महन्क्षत्रं वा इ᳘न्द्रो वि᳘शो मरु᳘तो विशा वै᳘ क्षत्रि᳘यो ब᳘लवान्भवति त᳘त्क्षत्र᳘ एॗवैतद्ब᳘लं दधाति त᳘स्मान्मरुत्वती᳘यान्गृह्णाति॥
मूलम् - विस्वरम्
स होवाच- सहैव मौजसोपावर्तध्वमिति । तेभ्यो वै नस्तृतीयं ग्रहं गृहाणेति । तेभ्य एतं तृतीयं ग्रहमगृह्णात्- “उपयामगृहीतो ऽसि मरुतां त्वौजसे”- (वा. सं. ७ । ३६) इति । त एनं सहैवौजसोपावर्तन्त । तैर्व्यजयत । तैर्वृत्रमहन् । क्षत्रं वा ऽइन्द्रः, विशो मरुतः । विशा वै क्षत्रियो बलवान्भवति । तत् क्षत्र ऽएवैतद्बलं दधाति । तस्मान्मरुत्वतीयान् गृह्णाति ॥ ९ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- He said, ‘Do ye join me with vigour!’–‘Then draw a third cup for us;’ they said. He drew a third cup for them, with, ‘Thou art taken with a support,–thee for the vigour of the Maruts!’ They then joined him with vigour,–and he conquered with them, and smote Vr̥tra with them;–for Indra is the nobility, and the Maruts are the people, and through the people the noble becomes strong. Hence he now bestows that strength on the nobility, and therefore he draws the Marutvatīya cups.
१०
विश्वास-प्रस्तुतिः
स वा ऽइ᳘द्रायैव᳘ मरु᳘त्वते गृह्णीयात्॥
(न्ना᳘) ना᳘पि मरु᳘द्भ्यः स यद्धा᳘पि मरु᳘द्भ्यो गृह्णीया᳘त्प्रत्युद्यामि᳘नीᳫँ᳭ ह क्षत्रा᳘य व्विशं᳘[[!!]] कुर्याद᳘थैतदि᳘न्द्रमेवा᳘नु मरु᳘त ऽआ᳘भजति त᳘त्क्षत्रा᳘यै᳘वैतद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति त᳘स्मादि᳘न्द्रायैव᳘ मरु᳘त्वते गृह्णीयान्ना᳘पि मरु᳘द्भ्यः॥
मूलम् - श्रीधरादि
स वा ऽइ᳘द्रायैव᳘ मरु᳘त्वते गृह्णीयात्॥
(न्ना᳘) ना᳘पि मरु᳘द्भ्यः स यद्धा᳘पि मरु᳘द्भ्यो गृह्णीया᳘त्प्रत्युद्यामि᳘नीᳫँ᳭ ह क्षत्रा᳘य व्विशं᳘[[!!]] कुर्याद᳘थैतदि᳘न्द्रमेवा᳘नु मरु᳘त ऽआ᳘भजति त᳘त्क्षत्रा᳘यै᳘वैतद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति त᳘स्मादि᳘न्द्रायैव᳘ मरु᳘त्वते गृह्णीयान्ना᳘पि मरु᳘द्भ्यः॥
मूलम् - Weber
स वा इ᳘द्रायैव᳘ मरु᳘त्वते गृह्णीयात्॥
ना᳘पि मरु᳘द्भ्यः स यद्धा᳘पि मरु᳘द्भ्यो गृह्णीया᳘त्प्रत्युद्यामि᳘नीᳫं ह क्षत्रा᳘य वि᳘शं कुर्याद᳘थैतदि᳘न्द्रमेवा᳘नु मरु᳘त आ᳘भजति त᳘त्क्षत्रा᳘यैॗवैतद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति त᳘स्मादि᳘न्द्रायैव᳘ मरु᳘त्वते गृह्णीयान्ना᳘पि मरु᳘द्भ्यः॥
मूलम् - विस्वरम्
स वा ऽइन्द्रायैव मरुत्वते गृह्णीयात् । नापि मरुद्भ्यः । स यद्धापि मरुद्भ्यो गृह्णीयात्- प्रत्युद्यामिनीं ह क्षत्राय विशं कुर्यात् । अथैतदिन्द्रमेवानु मरुत आभजति । तत् क्षत्रायैवैतद्विशं कृतानुकरामनुवर्त्मानं करोति । तस्मादिन्द्रायैव मरुत्वते गृह्णीयात् । नापि मरुद्भ्यः ॥ १० ॥
सायणः
ग्रहाणां मरुदर्थत्वस्य कथितत्वात्तेभ्य एव ग्रहणे प्राप्ते तत्सहितायेन्द्राय गृह्णीयादिति विधत्ते- स वा इन्द्रायैवेति । मरुद्भ्य एव ग्रहणे दोषं- तत्सहितायेन्द्राय ग्रहणे गुणं च प्रदर्श्य तदेव निगमयति- स यद्धापि मरुद्भ्य इत्यादि । ‘क्षत्राय’ ‘प्रत्युद्यामिनीम्’ प्रातिकूल्येनोद्यतां ‘विशम्’ प्रजां ‘कुर्यात्’ । अथेन्द्रमेवानुलक्ष्य ‘मरुतः’ ‘आभजति’ भागिनः करोति । तेन ‘क्षत्त्राय’ ‘विशं’ ‘कृतानुकारम् करोति’ क्षत्त्रायत्तां करोति । तदेतदानुकूल्येन यथा करोति तादृशीम् ‘अनुवर्त्मानम्’ अनुगतवर्त्मानं ‘करोति’ । ‘तस्मात्’ ‘मरुत्वते’ ‘इन्द्राय’ ‘गृह्णीयात्’ ॥ १० ॥
Eggeling
- Let him draw them for Indra Marutvat (accompanied by the Maruts), and not for the Maruts likewise. For were he also to draw cups for the Maruts, he would make the people refractory to the nobility. He thus assigns to the Maruts a share therein after Indra, whereby he makes the people subservient and obedient to the nobility: therefore let him draw the cups for Indra Marutvat, and not for the Maruts likewise.
११
विश्वास-प्रस्तुतिः
(द्भ्यो ऽप) अपक्रमा᳘दु है᳘वैषामेत᳘द्बिभयां᳘चकार॥
य᳘दिमे म᳘न्नापक्रा᳘मेयुर्य᳘न्नान्य᳘द्ध्रिये᳘रन्नि᳘ति ता᳘ने᳘वैतद᳘नपक्रमिणो ऽकुरुत त᳘स्मादि᳘न्द्रायैव᳘ मरु᳘त्वते गृह्णीयान्ना᳘पि मरु᳘द्भ्यः॥
मूलम् - श्रीधरादि
(द्भ्यो ऽप) अपक्रमा᳘दु है᳘वैषामेत᳘द्बिभयां᳘चकार॥
य᳘दिमे म᳘न्नापक्रा᳘मेयुर्य᳘न्नान्य᳘द्ध्रिये᳘रन्नि᳘ति ता᳘ने᳘वैतद᳘नपक्रमिणो ऽकुरुत त᳘स्मादि᳘न्द्रायैव᳘ मरु᳘त्वते गृह्णीयान्ना᳘पि मरु᳘द्भ्यः॥
मूलम् - Weber
अपक्रमा᳘दु हैॗवैषामेत᳘द्बिभयां᳘ चकार॥
य᳘दिमे मॗन्नापक्रा᳘मेयुर्यॗन्नान्य᳘द्ध्रिये᳘रन्नि᳘ति ता᳘नेॗवैतद᳘नपक्रमिणो ऽकुरुत त᳘स्मादि᳘न्द्रायैव᳘ मरु᳘त्वते गृह्णीयान्ना᳘पि मरु᳘द्भ्यः॥
मूलम् - विस्वरम्
अपक्रमादु हैवैषामेतद्विभयाञ्चकार । यदिमे मन्नापक्रामेयुर्यन्नान्यदुध्रियेरन्निति । तानेवैतदनपक्रमिणो ऽकुरुत । तस्मादिन्द्रायैव मरुत्वते गृह्णीयात् । नापि मरुद्भ्यः ॥ ११ ॥
सायणः
कारणान्तरमुपन्यस्योक्तमर्थं द्रढयति- अपक्रमादु हेत्यादि । ‘एषाम्’ मरुताम् ‘अपक्रमादेवेन्द्रो’ ‘बिभयाञ्चकार’ । “भीह्रीभृहुवां श्लुवच्च” (पा. सू. ३ । १ । ३९) इति आम्प्रत्ययः । भीतश्च ‘यत्’ येनोपायेन मत्तः सकाशाद् ‘इमाः’ प्रजाः ‘नापक्रामेयुः’ येनोपायेनान्यत्र ‘न ध्रियेरन्निति’ विचार्य्य; तेनोपायेन ‘तान्’ मरुतः ‘अनपक्रमिणः’ अनपक्रमणशीलानात्मना सङ्गतानेव ‘अकुरुत’ । यत एवम्, ‘तस्माद्’ मरुत्सहिताय ‘इन्द्रायैव’ ‘गृह्णीयात्’ । ‘न’ केवलं ‘मरुद्भ्यः’ ॥ ११ ॥
Eggeling
- But he was afraid of their desertion,–‘Lest they should desert me, lest they should take to some other (party) 12,’ so thinking, he by that (share in the libation) made them unwilling to desert him. This is why he should draw the grahas for Indra Marutvat.
१२
विश्वास-प्रस्तुतिः
(ऽ) ऋतुपात्रा᳘भ्यां गृह्णाति॥
(त्यृ) ऋत᳘वो वै संव्वत्सरो᳘ यज्ञ᳘स्ते ऽदः᳘ प्रातःसवने᳘ प्रत्य᳘क्षम᳘वकल्प्यन्ते य᳘दृतुग्रहा᳘न्गृह्णात्य᳘थैत᳘त्परो᳘ ऽक्षं मा᳘ध्यन्दिने स᳘वने᳘ ऽवकल्प्यन्ते य᳘दृतुपात्रा᳘भ्यां मरुत्वती᳘यान्गृह्णाति[[!!]] व्वि᳘शो वै᳘ मरुतो᳘ ऽन्नं वै व्वि᳘श ऽऋत᳘वो वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमन्ना᳘द्यं पचन्ति त᳘स्मादृतुपात्रा᳘भ्यां मरुत्वती᳘यान्गृह्णाति॥
मूलम् - श्रीधरादि
(ऽ) ऋतुपात्रा᳘भ्यां गृह्णाति॥
(त्यृ) ऋत᳘वो वै संव्वत्सरो᳘ यज्ञ᳘स्ते ऽदः᳘ प्रातःसवने᳘ प्रत्य᳘क्षम᳘वकल्प्यन्ते य᳘दृतुग्रहा᳘न्गृह्णात्य᳘थैत᳘त्परो᳘ ऽक्षं मा᳘ध्यन्दिने स᳘वने᳘ ऽवकल्प्यन्ते य᳘दृतुपात्रा᳘भ्यां मरुत्वती᳘यान्गृह्णाति[[!!]] व्वि᳘शो वै᳘ मरुतो᳘ ऽन्नं वै व्वि᳘श ऽऋत᳘वो वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमन्ना᳘द्यं पचन्ति त᳘स्मादृतुपात्रा᳘भ्यां मरुत्वती᳘यान्गृह्णाति॥
मूलम् - Weber
ऋतुपात्रा᳘भ्यां गृह्णाति॥
ऋत᳘वो वै संवत्सरो यज्ञॗस्ते ऽदः᳘ प्रातःसवने᳘ प्रत्य᳘क्षम᳘वकल्प्यन्ते य᳘दृतुग्रहा᳘न्गृह्णात्य᳘थैत᳘त्परो᳘ ऽक्षम् मा᳘ध्यन्दिने स᳘वने᳘ ऽवकल्पयन्ते यदृतुपात्रा᳘भ्याम् मरुत्वती᳘यान्गृह्णा᳘ति वि᳘शो वै᳘ मरुतो᳘ ऽन्नं वै वि᳘श ऋत᳘वो वा᳘ इदᳫं स᳘र्वमन्ना᳘द्यम् पचन्ति त᳘स्मादृतुपात्रा᳘भ्याम् मरुत्वती᳘यान्गृह्णाति॥
मूलम् - विस्वरम्
ऋतुपात्राभ्यां गृह्णाति । ऋतवो वै संवत्सरो यज्ञः । ते ऽदः प्रातःसवने प्रत्यक्षमवकल्प्यन्ते- यदृतुग्रहान्गृह्णाति । अथैतत्परो ऽक्षं माध्यन्दिने सवने ऽवकल्प्यन्ते- यदृतुपात्राभ्यां मरुत्वतीयान् गृह्णाति । विशो वै मरुतः, अन्नं वै विशः । ऋतवो वा ऽइदं सर्वमन्नाद्यं पचन्ति । तस्मादृतुपात्राभ्यां मरुत्वतीयान् गृह्णाति ॥ १२ ॥
सायणः
प्रकृतग्रहणादृतुपात्राभ्यां ग्रहणं विधत्ते- ऋतुपात्राभ्यां गृह्णातीति 13 । ऋतवो वा इत्यादि । तत्र प्रयोजनमभिधीयते- ‘ते’ यज्ञसंवत्सरात्मकाः ‘ऋतवः’ ‘प्रातःसवने प्रत्यक्षमेवावकल्प्यन्ते’ अवक्लृप्ताः स्वायत्ता भवन्ति । यस्माद् ‘ऋतुग्रहान्गृह्णाति’ । ‘अथ’ ‘माध्यन्दिने सवने’ ‘परोक्षम्’ ‘अवकल्प्यन्ते’ । ‘यदृतुपात्राभ्यां मरुत्वतीयान्गृह्णाति’ । अत्र ऋतुग्रहाभावेन ऋतुपात्रसम्बन्धादृतूनां परोक्षावक्लृप्तिः । तदर्थमृतुपात्राभ्यां ग्रहणम् । किञ्च ‘मरुतः’ ‘विशः’ हि । “मरुतो वै देवानां विशः” (तै. सं. ५ । ४ । ७) इति श्रुतेः । ‘विशश्च’ ‘अन्नम्’ कृष्यादिना तत्सम्पादनात् । ‘ऋतवः’ च ‘इदम्’ पुरोवर्ति ‘अन्नाद्यम्’ अद्यमन्नम् ‘पचन्ति’ उपभोगयोग्यं कुर्वन्ति । ऋतूनां सर्वोत्पत्तिमन्निमित्तकारणत्वात्, अतो मरुतामृतूनां च सम्बन्धादपि ऋतुपात्राभ्याम् ‘मरुत्वतीयान्’ गृह्णीयादित्यर्थः ॥ १२ ॥
Eggeling
- He draws them with the two vessels of the seasons, for the year, the sacrifice, means the seasons. There, at the morning Soma feast, they are overtly attended to, in that he draws the grahas for the seasons 14; and now they are covertly attended
to, in that he draws the Marutvatīya grahas with the two vessels of the seasons.
१३
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वे᳘) इ᳘न्द्र मरुत्व इह᳘ पाहि सो᳘मं य᳘था शार्याते ऽअ᳘पिबः सु᳘तस्य[[!!]]। त᳘व प्र᳘णीती त᳘व शू᳘र श᳘र्मन्ना᳘ विवासन्ति कव᳘यः सुय᳘ज्ञाः[[!!]]॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा मरु᳘त्वत ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा मरु᳘त्वते॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वे᳘) इ᳘न्द्र मरुत्व इह᳘ पाहि सो᳘मं य᳘था शार्याते ऽअ᳘पिबः सु᳘तस्य[[!!]]। त᳘व प्र᳘णीती त᳘व शू᳘र श᳘र्मन्ना᳘ विवासन्ति कव᳘यः सुय᳘ज्ञाः[[!!]]॥ उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा मरु᳘त्वत ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा मरु᳘त्वते॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
इ᳘न्द्र मरुत्व इह᳘ पाहि सो᳘मं य᳘था शार्याते अ᳘पिबः सुत᳘स्य॥
त᳘व प्र᳘णीती त᳘व शूर श᳘र्मन्ना᳘विवासन्ति कव᳘यः सुयज्ञाः᳟॥
उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वामरु᳘त्वत एष᳘ ते यो᳘निरि᳘न्द्राय त्वा मरु᳘त्वते॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “इन्द्र 13 मरुत्व इह पाहि सोमं यथा शार्याते ऽअपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः । उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत ऽएष ते योनिरिन्द्राय त्वा मरुत्वते”- (वा० सं० ७ । ३५) इति ॥ १३ ॥
सायणः
क्रमेण ग्रहाणां ग्रहणसादनमन्त्रानाह- अथा ऽतो गृह्णात्येवेन्द्र मरुत्व इत्यादि । तत्र प्रथममरुत्वतीयग्रहणमन्त्रस्यायमर्थः- हे ‘इन्द्र मरुत्वः’ ! मरुतो ऽस्य सन्ति इति मरुत्वान् तस्य सम्बुद्धौ “मतुवसो रु सम्बुद्धौ छन्दसि” (पा. सू. ८ । ३ । १) इति रुत्वम् । ‘इह’ यज्ञे ‘सोमं’ ‘पाहि’ पिब । “बहुलं छन्दसि” (पा. सू. २ । ४ । ७६) इति शपो लुकि पिबादेशाभावे पिबते रूपम् । कथं पाहीति- शर्यातिर्मानवः, तस्यापत्यं शार्यातः, तस्मिन् ‘यथा’ ‘सुतस्य’ अभिषुतस्य सोमस्यांशम् ‘अपिबः’ पीतवानसि । किञ्च हे शूर ! ‘तव’ ‘प्रणीती’ प्रणीत्या, तृतीयैकवचनस्य ईकारादेशः । त्वत्कर्तृकेन प्रणयनेन ‘सुयज्ञाः’ कल्याणयज्ञाः ‘कवयः’ क्रान्तदर्शनाः । ‘शर्मन्’ शरणे गृहे यज्ञगृहे ‘तव’ ‘आविवासन्ति’ त्वां विवासन्ति । विवासतिः परिचर्यायाम् (निघं० ३ । ५ । १०) । हे ग्रह ! उपयामेन गृहीतो ऽसि ‘इन्द्राय’ मरुत्वते त्वां गृह्णामीति शेषः । खरप्रदेशस्तव ‘योनिः’ स्थानमतो ऽत्र त्वाम् ‘इन्द्राय’ ‘मरुत्वते’ सादयामीति सादनमन्त्रस्यार्थः ॥ १३ ॥
Eggeling
- He draws (the first) from that (stream of Soma) 15, with (Vāj. S. VII, 35; Rig-veda III, 51, 7), ‘O Indra, leader of the Maruts, drink thou the Soma here, as thou drankest of the liquor at (the sacrifice of) the Son of Saryāti: by thy guidance, in thy protection, O Lord, do the wise serve thee with good offerings!–Thou art taken with a support: thee to Indra Marutvat!–This is thy womb: thee to Indra Marutvat!’
१४
विश्वास-प्रस्तुतिः
मरु᳘त्वन्तं वृषभ᳘म्॥
(म्वा) व्वावृधानम᳘कवारिं दिव्य᳘ᳫं᳘ शासमि᳘न्द्रम्। व्विश्वासा᳘हम᳘वसे नू᳘तनायोग्र᳘ᳫं᳘ सहोदा᳘मिह त᳘ᳫं᳘ हुवेम। उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा मरु᳘त्वत ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा मरु᳘त्वते। उपयाम᳘गृहीतो ऽसि मरु᳘तां त्वौ᳘जस ऽइ᳘ति तृती᳘यं ग्र᳘हं गृह्णाति॥
मूलम् - श्रीधरादि
मरु᳘त्वन्तं वृषभ᳘म्॥
(म्वा) व्वावृधानम᳘कवारिं दिव्य᳘ᳫं᳘ शासमि᳘न्द्रम्। व्विश्वासा᳘हम᳘वसे नू᳘तनायोग्र᳘ᳫं᳘ सहोदा᳘मिह त᳘ᳫं᳘ हुवेम। उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा मरु᳘त्वत ऽएष᳘ ते यो᳘निरि᳘न्द्राय त्वा मरु᳘त्वते। उपयाम᳘गृहीतो ऽसि मरु᳘तां त्वौ᳘जस ऽइ᳘ति तृती᳘यं ग्र᳘हं गृह्णाति॥
मूलम् - Weber
मरु᳘त्वन्तं वृषभ᳘म्॥
वावृधानम᳘कवारिं दिव्यं᳘ शासमि᳘न्द्रम् विश्वासा᳘हम᳘वसे नू᳘तनायोग्र᳘ᳫं᳘ सहोदा᳘मिह त᳘ᳫं᳘ हुवेम॥
उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा मरु᳘त्वत एष᳘ ते यो᳘निरि᳘न्द्राय त्वा मरु᳘त्वते उपयाम᳘गृहीतो ऽसि मरु᳘तां त्वौ᳘जस इ᳘ति तृती᳘यं ग्र᳘हं गृह्णाति॥
मूलम् - विस्वरम्
“मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् । विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम । उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते, एष ते योनिरिन्द्राय त्वा मरुत्वते । उपयामगृहीतो ऽसि मरुतां त्वौजसे”- (वा. सं. ७ । ३५) इति तृतीयं ग्रहं गृह्णाति ॥ १४ ॥
सायणः
मरुत्वन्तमित्येष द्वितीयमरुत्वतीयग्रहणस्य मन्त्रस्तस्यायमर्थः- ‘मरुत्वन्तम्’ 16 मरुद्भिः सहितम् ‘वृषभम्’ वर्षितारम्, श्रेष्ठं वा ‘वावृधानम्’ वर्द्धमानञ्च ‘अकवारिम्’ अकुत्सितारातिम्, यस्य शत्रवो ऽप्यकुत्सिताः, ‘दिव्यम्’ दिविभवम्, ‘शासम्’ शासितारम्, ‘विश्वासाहम्’ सहतिरभिभवार्थः । स्वधर्मच्युतस्य सर्वस्याभिभवितारम्, ‘उग्रम्’ उद्गूर्णवज्रम् ‘सहोदाम्’ बलस्य दातारम्, यमित्थंभूतमिन्द्रमाहुः ‘तम्’ इन्द्रम् ‘नूतनाय’ नवीनभूताय ‘अवसे’ अवसानायस्थित्यै ‘इह’ यज्ञगृहे, ‘हुवेम’ आह्वयामः । उपयामगृहीतो ऽसीत्यादि व्याख्यातम् ।
उपयामेत्यादिना मन्त्रेण तृतीयं मरुत्वतीयं गृह्णीयात् 17 । हे ग्रह ! उपयामेन दारुपात्रेण ‘गृहीतो ऽसि’ त्वां मरुतामोजसे गृह्णामीति मन्त्रार्थः ॥ १४ ॥
Eggeling
- [The second he draws 18 with Vāj. S. VII, 36;
Rig-veda III, 47, 5], ‘The mighty bull, followed by the Maruts, the bountiful, divine ruler Indra,–him, the all-subduing, the terrible bestower of victory, do we now invoke for new favour.–Thou art taken with a support: thee to Indra Marutvat!–This is thy womb: thee to Indra Marutvat!’–with Thou art
taken with a support: thee for the strength of the Maruts!’ he draws the third cup.
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ महेन्द्रं ग्र᳘हं गृह्णा᳘ति॥
पाप्म᳘ना वा᳘ ऽएतदि᳘न्द्रः स᳘ᳫं᳘सृष्टो ऽभूद्य᳘द्विशा᳘ मरु᳘द्भिः स य᳘था व्विजय᳘स्य का᳘माय व्विशा᳘ समाने पा᳘त्रे ऽश्नीया᳘देवं तद्य᳘दस्मा ऽएतं᳘ मरु᳘द्भिः समानं ग्र᳘हम᳘गृह्णन्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ महेन्द्रं ग्र᳘हं गृह्णा᳘ति॥
पाप्म᳘ना वा᳘ ऽएतदि᳘न्द्रः स᳘ᳫं᳘सृष्टो ऽभूद्य᳘द्विशा᳘ मरु᳘द्भिः स य᳘था व्विजय᳘स्य का᳘माय व्विशा᳘ समाने पा᳘त्रे ऽश्नीया᳘देवं तद्य᳘दस्मा ऽएतं᳘ मरु᳘द्भिः समानं ग्र᳘हम᳘गृह्णन्॥
मूलम् - Weber
अ᳘थ महेन्द्रं ग्र᳘हं गृह्णाति॥
पाप्म᳘ना वा᳘ एतदि᳘न्द्रः स᳘ᳫं᳘सृष्टो ऽभूद्य᳘द्विशा᳘ मरु᳘द्भिः स य᳘था विजय᳘स्य का᳘माय विशा᳘ समाने पा᳘त्रे ऽश्नीया᳘देवं तद्य᳘दस्मा एत᳘म् मरु᳘द्भिः समानं ग्र᳘हम᳘गृह्णन्॥
मूलम् - विस्वरम्
माहेन्द्रग्रहः ।
अथ माहेन्द्रं ग्रहं गृह्णाति । पाप्मना वा ऽएतदिन्द्रः संसृष्टो ऽभूद्- यद् विशा मरुद्भिः । स यथा विजयस्य कामाय विशा समाने पात्रे ऽश्नीयाद्- एवं तद्- यदस्मा ऽएतं मरुद्भिः समानं ग्रहमगृह्णन् ॥ १५ ॥
सायणः
मरुत्वतीयग्रहानन्तरं माहेन्द्रं ग्रहं विधत्ते- अथ माहेन्द्रमित्यादि । विहितं माहेन्द्रग्रहं पापनिरसनहेतुत्वेन प्रशंसति- पाप्मना वा एतादित्यादि । ‘मरुद्भिः’ ‘विशा’ मरुद्देवतारूपया विशा ‘संसृष्ट’ इति; एतेनेन्द्रः ‘पाप्मना’ पापेन ‘संसृष्टो ऽभूत्’ । यतः ‘अस्मै’ इन्द्राय ‘मरुद्भिः समानम्’ साधारणमेतम् ‘ग्रहम्’ ‘अगृह्णन्’ इति यत्; ‘तद्’ एवंप्रकारो भवति । ‘यथा’ विजयकामार्थं ‘विशा’ सह ‘समाने’ ‘पात्रे’ भोजनम् । तस्मात्पाप संसृष्टो ऽभूदिति ॥ ते ‘देवाः’ ‘सर्वस्मिन्विजिते ऽभये ऽनाष्ट्रे ‘सति’ ‘तम्’ इन्द्रम् ‘मुञ्जाद्’ ‘यथेषीकां’ तद्गताग्रम् ‘विवृहेद्’ उद्धरेद् । ‘एवम्’ माहेन्द्रग्रहग्रहणेन ‘सर्वस्मात्पात्मनो व्यवृहन्’ । तस्मात्तथैव ‘एषः’ यजमानो मुञ्जादुद्धृतेषीकेव माहेन्द्रग्रहणेन सर्वस्मात्पापान्मुच्यत इत्यर्थः ॥ १५ ॥ १६ ॥
Eggeling
- Thereupon he draws the Māhendra cup. For Indra was then bound up with evil, in the shape of the people, the Maruts; as one might, for the sake of victory, eat from the same vessel with the people 19 so it was when they drew a cup for him in common with the Maruts.
१६
विश्वास-प्रस्तुतिः
(ह्णंस्तं᳘) तं᳘ देवाः[[!!]]॥
स᳘र्व्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे य᳘थेषी᳘कां मु᳘ञ्जाद्विवृहे᳘देव᳘ᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो᳘ व्यवृहन्य᳘न्माहेन्द्रं[[!!]] ग्र᳘हम᳘गृह्णंस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्य᳘थेषी᳘का व्वि᳘मुञ्जा स्या᳘देवᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते य᳘न्माहेन्द्रं ग्र᳘हं गृह्णा᳘ति॥
मूलम् - श्रीधरादि
(ह्णंस्तं᳘) तं᳘ देवाः[[!!]]॥
स᳘र्व्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे य᳘थेषी᳘कां मु᳘ञ्जाद्विवृहे᳘देव᳘ᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो᳘ व्यवृहन्य᳘न्माहेन्द्रं[[!!]] ग्र᳘हम᳘गृह्णंस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्य᳘थेषी᳘का व्वि᳘मुञ्जा स्या᳘देवᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते य᳘न्माहेन्द्रं ग्र᳘हं गृह्णा᳘ति॥
मूलम् - Weber
तं᳘ देवाः᳟॥
स᳘र्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे य᳘थेषी᳘काम् मु᳘ञ्जाद्विवृहे᳘देवᳫं स᳘र्वस्मात्पाप्म᳘नो व्य᳘वृहन्य᳘न्माहेन्द्रं ग्र᳘हम᳘गृह्णंस्त᳘थो एॗवैष᳘ एतद्य᳘थेषी᳘का वि᳘मुञ्जा स्या᳘देवᳫं स᳘र्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते य᳘न्माहेन्द्रं ग्र᳘हम् गृह्णा᳘ति॥
मूलम् - विस्वरम्
तं देवाः सर्वस्मिन्विजिते ऽभये ऽनाष्ट्रे यथेषीकां मुञ्जाद्विवृहेद्- एवं सर्वस्मात्पाप्मनो व्यवृहन्- यन्माहेन्द्रं ग्रहमगृह्णन् । तथो ऽएवैष एतद्- यथेषीका विमुञ्जा स्याद्- एवं सर्वस्मात्पाप्मनो निर्मुच्यते- यन्माहेन्द्रं ग्रहं गृह्णाति ॥ १६ ॥
सायणः
[व्याख्यानं पञ्चदशे]
Eggeling
- When all was conquered and free from danger and injury, the gods plucked him from out of all evil–even as one might pluck out a reed from its sheath–when they drew the cup for the Great Indra. And even as the reed becomes leafless, so is he thereby freed from all evil, when one draws the Māhendra cup.
१७
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ माहेन्द्रं ग्र᳘हं गृह्णा᳘ति॥
(ती᳘) इ᳘न्द्रो वा᳘ ऽएष᳘ पुरा᳘ व्वृत्र᳘स्य व्वधाद᳘थ व्वृत्र᳘ᳫं᳘ हत्वा य᳘था महाराजो᳘ व्विजिग्यान᳘ ऽएवं᳘ महे᳘न्द्रो ऽभवत्त᳘स्मान्माहेन्द्रं ग्र᳘हं गृह्णाति महा᳘न्तमु चै᳘वैनमेतत्ख᳘लु करोति व्वृत्र᳘स्य व्वधा᳘य त᳘स्मादेव᳘ माहेन्द्रं ग्र᳘हं गृह्णाति शुक्रपात्रे᳘ण गृह्णात्येष वै᳘ शुक्रो य᳘ एष त᳘पत्येष᳘ उ ऽएव᳘ महांस्त᳘स्माच्छुक्रपात्रे᳘ण गृह्णाति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ माहेन्द्रं ग्र᳘हं गृह्णा᳘ति॥
(ती᳘) इ᳘न्द्रो वा᳘ ऽएष᳘ पुरा᳘ व्वृत्र᳘स्य व्वधाद᳘थ व्वृत्र᳘ᳫं᳘ हत्वा य᳘था महाराजो᳘ व्विजिग्यान᳘ ऽएवं᳘ महे᳘न्द्रो ऽभवत्त᳘स्मान्माहेन्द्रं ग्र᳘हं गृह्णाति महा᳘न्तमु चै᳘वैनमेतत्ख᳘लु करोति व्वृत्र᳘स्य व्वधा᳘य त᳘स्मादेव᳘ माहेन्द्रं ग्र᳘हं गृह्णाति शुक्रपात्रे᳘ण गृह्णात्येष वै᳘ शुक्रो य᳘ एष त᳘पत्येष᳘ उ ऽएव᳘ महांस्त᳘स्माच्छुक्रपात्रे᳘ण गृह्णाति॥
मूलम् - Weber
य᳘द्वेव᳘ माहेन्द्रं ग्र᳘हं गृह्णा᳘ति॥
इ᳘न्द्रो वा᳘ एष᳘ पुरा᳘ वृत्र᳘स्य बधाद᳘थ वृत्र᳘ᳫं᳘ हत्वा य᳘था महाराजो᳘ विजिग्यान᳘ एव᳘म् महेॗन्द्रो ऽभवत्त᳘स्मान्माहेन्द्रं ग्र᳘हं गृह्णाति महा᳘न्तमु चैॗवैनमेतत्ख᳘लु करोति वृत्र᳘स्य बधा᳘य त᳘स्माद्वेव᳘ माहेन्द्रं ग्र᳘हं गृह्णाति शु पात्रे᳘ण गृह्णात्येष वै᳘ शुक्रो य᳘ एष त᳘पत्येष᳘ उ एव᳘ महांस्त᳘स्माछुक्रपात्रे᳘ण गृह्णाति॥
मूलम् - विस्वरम्
यद्वेव माहेन्द्र ग्रहं गृह्णाति । इन्द्रो वा ऽएष पुरा वृत्रस्य वधात् । अथ वृत्रं हत्वा यथा महाराजो विजिग्यानः- एवं महेन्द्रो ऽभवत् । तस्मान्माहेन्द्रं ग्रहं गृह्णाति । महान्तमु चैवैनमेतत्खलु करोति- वृत्रस्य वधाय तस्मादेव माहेन्द्रं ग्रहं गृह्णाति । शुक्रपात्रेण गृह्णाति । एष वै शुक्रो- य एष तपति । एष उ एव महान् । तस्माच्छुक्रपात्रेण गृह्णाति ॥ १७ ॥
सायणः
पुनरपि तमेव माहेन्द्रग्रहं यजमानस्य महत्त्वहेतुत्वेन प्रशंसति- यद्वेव माहेन्द्रमित्यादि । यथा महाराज इति । लोके ‘विजिग्यानः’ विजितवान् राजा ‘यथा महाराजः’ भवति । ‘एवम्’ ‘इन्द्रः’ वृत्रं हत्वा ‘महेन्द्रो ऽभवत्’ ‘तस्मात्’ माहेन्द्रग्रहणेन ‘वृत्रस्य’ पापरूपस्य वधार्थम् ‘एनम्’ यजमानम् ‘महान्तम्’ ‘एव’ करोति । विहितं ग्रहणमनूद्य तत्र शुक्रपात्रं विधत्ते- शुक्रपात्रेणेत्यादि । एष वा इति । शुक्रस्य सर्वात्मकत्वेन महत्त्वात्तत्पात्रेण माहेन्द्रग्रहस्य ग्रहणं युक्तमित्यर्थः ॥ १७ ॥
Eggeling
- And again, why he draws the Māhendra cup. Before the slaughter of Vr̥tra, he was indeed Indra; but when he had slain Vr̥tra, he became the Great–Indra, even as one who has conquered all around, becomes a Great King (mahārāja): therefore he draws the Māhendra cup. And, moreover, he forsooth make’s him great for the slaughter of Vr̥tra therefore also he draws the Māhendra cup. He draws it in the Śukra vessel, for bright (śukra) and great indeed is he (the sun) that burns yonder: therefore he draws it in the Śukra vessel.
१८
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
महा२ँ॥ ऽइ᳘न्द्रो नृवदा᳘चर्षणिप्रा᳘ ऽउत᳘ द्विब᳘र्हा अमिनः स᳘होभिः। अस्मद्र्य᳘ग्वावृधे व्वी᳘र्यायोरुः᳘ पृथुः सु᳘कृतः कर्तृ᳘भिर्भूत्। उपयाम᳘गृहीतो ऽसि महेन्द्रा᳘य त्वैष᳘ ते यो᳘निर्महेन्द्रा᳘य त्वे᳘ति सादयति महेन्द्रा᳘य᳘ ह्येनं गृह्णाति[[!!]]॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
महा२ँ॥ ऽइ᳘न्द्रो नृवदा᳘चर्षणिप्रा᳘ ऽउत᳘ द्विब᳘र्हा अमिनः स᳘होभिः। अस्मद्र्य᳘ग्वावृधे व्वी᳘र्यायोरुः᳘ पृथुः सु᳘कृतः कर्तृ᳘भिर्भूत्। उपयाम᳘गृहीतो ऽसि महेन्द्रा᳘य त्वैष᳘ ते यो᳘निर्महेन्द्रा᳘य त्वे᳘ति सादयति महेन्द्रा᳘य᳘ ह्येनं गृह्णाति[[!!]]॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
महां इ᳘न्द्रो नृवदा᳘ चर्षणिप्रा᳘ उत᳘ द्विब᳘र्हा अमिनः स᳘होभिः अस्मद्र्य᳘ग्वावृधे वीॗर्यायोरुः᳘ पृथुः सु᳘कृतः कर्तृ᳘भिर्भूत् उपयाम᳘गृहीतो ऽसि महेन्द्रा᳘य त्वैष᳘ ते यो᳘निर्महेन्द्रा᳘य त्वे᳘ति सादयति महेन्द्रा᳘यॗ ह्येनं गृह्णा᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “महां२ँ 20 ॥ इन्द्रो नृवदाचर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् । उपयामगृहीतो ऽसि महेन्द्राय त्यैष ते योनिर्महेन्द्राय त्वा”- (वा० सं० ७ । ३९) इति । सादयति महेन्द्राय ह्येनं गृह्णाति ॥ १८ ॥
सायणः
ग्रहणमनूद्य मन्त्रं विधत्ते- अथा ऽतो गृह्णात्येव महान् 20 इन्द्र इत्यादि । ‘महान्’ महत्त्वगुणविशिष्टः । ‘नृवत्’ मनुष्यवत् । ‘आचर्षणिप्राः’ चर्षणयो मनुष्या आगत्य तानीप्सितफलप्रदानेन पूरयतीत्याचर्षणिप्राः । यथा राजामात्यादिर्मनुष्यः सेवकान्फलप्रदानेन पूरयति तद्वत् । ‘उत’ किञ्च ‘द्विबर्हाः’ द्वयोरपि स्थानयोर्मध्यमस्थाने उत्तमे च वर्हाः बृहत्परिवृढः अथवा द्वयोः प्रकृतिविकृतिरूपयोर्बर्हो वृद्धिर्यस्यासौ ‘द्विबर्हाः’ ‘सहोभिः’ बलैः ‘अमिनः’ अमितो ऽपरिमितबल इत्यर्थः । अथ वा शत्रुसम्बन्धिभिर्बलैः । ‘अमिनः’ अहिंसितः । ‘अस्मद्र्यक्’ अस्मदभिमुखतया गन्ता । ‘महानिन्द्रः’ ‘वावृधे’ वर्द्धताम् । किमर्थम् ‘वीर्याय’ वीरकर्मणे । किञ्च अस्मदीयैः ‘कर्तृभिः’ स्तूयमानः ‘उरुः’ विस्तारेण ‘पृथुः’ प्राणेन ‘सुकृतः’ शोभनकृद् ‘भूत्’ (पा. सू. ६ । ४ । ७५) भूयात् । उपयामेत्यादि व्याख्यातम् ॥ १८ ॥
Eggeling
- He thus draws it from that (Droṇakalaśa or Pūtabhr̥t), with (Vāj. S. VII, 39; Rig-veda VI, 19, 1), ‘Great is Indra and hero-like, gladdening the people, of double stature and unimpaired in power. For our sake he waxed strong for heroic deed,–great and broad was he, and
well-shapen by the shapers 21.–Thou art taken with a support: thee to Mahendra!’–with ‘This is thy womb: thee to Mahendra!’ he deposits it; for it is indeed for the Great Indra that he draws it.
१९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोपाकृ᳘त्यैतां व्वा᳘चं व्वदति॥
(त्य᳘) अ᳘भिषोतारो ऽभि᳘षुणुतौलूखलानु᳘द्वादयता᳘ग्नीदाशि᳘रं व्वि᳘नय सौम्य᳘स्य व्वित्तादि᳘ति ते वै᳘ तृतीयसवना᳘यै᳘वाभिषोता᳘रो ऽभिषुण्व᳘न्ति तृतीयसवना᳘यौलूखलानु᳘द्वादयन्ति तृतीयसवना᳘याग्नी᳘दाशि᳘रं व्वि᳘नयति तृतीयसवना᳘य सौम्यं᳘ चरु᳘ᳫं᳘श्रपयत्येते वै᳘ शुक्र᳘वती र᳘सवती स᳘वने य᳘त्प्रातःसवनं᳘ च मा᳘ध्यन्दिनं च स᳘वनम᳘थैतन्नि᳘र्धीतशुक्रं य᳘त्तृतीयसवनं त᳘दे᳘वैत᳘स्मान्माध्यन्दिनात्स᳘वनान्नि᳘र्मिमीते त᳘थो हास्यैत᳘च्छुक्र᳘वद्र᳘सवत्तृतीयसवनं᳘ भवति त᳘स्मादेताम᳘त्र व्वा᳘चं व्वदति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोपाकृ᳘त्यैतां व्वा᳘चं व्वदति॥
(त्य᳘) अ᳘भिषोतारो ऽभि᳘षुणुतौलूखलानु᳘द्वादयता᳘ग्नीदाशि᳘रं व्वि᳘नय सौम्य᳘स्य व्वित्तादि᳘ति ते वै᳘ तृतीयसवना᳘यै᳘वाभिषोता᳘रो ऽभिषुण्व᳘न्ति तृतीयसवना᳘यौलूखलानु᳘द्वादयन्ति तृतीयसवना᳘याग्नी᳘दाशि᳘रं व्वि᳘नयति तृतीयसवना᳘य सौम्यं᳘ चरु᳘ᳫं᳘श्रपयत्येते वै᳘ शुक्र᳘वती र᳘सवती स᳘वने य᳘त्प्रातःसवनं᳘ च मा᳘ध्यन्दिनं च स᳘वनम᳘थैतन्नि᳘र्धीतशुक्रं य᳘त्तृतीयसवनं त᳘दे᳘वैत᳘स्मान्माध्यन्दिनात्स᳘वनान्नि᳘र्मिमीते त᳘थो हास्यैत᳘च्छुक्र᳘वद्र᳘सवत्तृतीयसवनं᳘ भवति त᳘स्मादेताम᳘त्र व्वा᳘चं व्वदति॥
मूलम् - Weber
अ᳘थोपाकृ᳘त्यैतां वा᳘चं वदति॥
अ᳘भिषोतारो ऽभि᳘षुणुतौलूखलानु᳘द्वादयता᳘ग्नीदाशि᳘रं वि᳘नय सौम्य᳘स्य वित्तादि᳘ति ते वै᳘ तृतीयसवना᳘यैॗवाभिषोता᳘रो ऽभिषुण्व᳘न्ति तृतीयसवना᳘यौलूखलानु᳘द्वादयन्ति तृतीयसवना᳘याग्नी᳘दाशि᳘रं वि᳘नयति तृतीयसवना᳘य सौम्यं᳘ चरुं᳘ श्रपयत्येते वै᳘ शुक्र᳘वती र᳘सवती स᳘वने य᳘त्प्रातःसवनं᳘ च मा᳘ध्यन्दिनं च स᳘वनम᳘थैतन्नि᳘र्धीतशुक्रं य᳘त्तृतीयसवनं त᳘देवैत᳘स्मान्माध्यन्दिनात्स᳘वनान्नि᳘र्मिमीते त᳘थो हास्यैत᳘छुक्र᳘वद्र᳘सवत्तृतीयसवन᳘म् भवति त᳘स्मादेताम᳘त्र वा᳘चं वदति॥
मूलम् - विस्वरम्
सायणः
अथोपाकृत्यैतां वाचं वदति- अभिषोतारो ऽभिषुणुत, 22 औलूखलानुद्वादयत, अग्नीदाशिरं विनय, सौम्यस्य वित्तादिति । ते वै तृतीयसवनाथैवाभिषोतारो ऽभिषुण्वन्ति । तृतीयसवनायौलूखलानुद्वादयन्ति । तृतीयसवनायाग्नीदाशिरं विनयति । तृतीयसवनाय सौम्यं चरुं श्रपयति । एते वै शुक्रवती रसवती सवने- यत्प्रातःसवनं च, माध्यन्दिनं च सवनम् । अथैतन्निर्धीतशुक्रं- यत्तृतीयसवनम् । तदेवैतस्मान्माध्यन्दिनात्सवनान्निर्मिमीते । तथो हास्यैतच्छुक्रवद्रसवत्तृतीयसवनं भवति । तस्मादेतामत्र वाचं वदति ॥ १९ ॥
माहेन्द्रग्रहे पृष्ठस्तोत्रोपाकरणानन्तरमध्वर्योः प्रैषरूपां वाचमुत्पादयति- अथोपाकृत्येत्यादि । ‘उपाकृत्य’ “उपावर्तध्वम्” इत्यनेन मन्त्रेण पृष्ठस्तोत्रमुपाकृत्येत्यर्थः । अत एव कात्यायनः- “पृष्ठमुपाकृत्य 22 प्रेष्यत्यभिषोतारो ऽभिषुणुत”- (का. श्रौ. सू. १० । ७५) इति । माध्यन्दिनसवनमध्ये प्रयुक्तत्वादस्य प्रैषस्य तदर्थता स्यात् । अतस्तृतीयसवनार्थो ऽयं प्रैष इति व्याचष्टे- ते वै तृतीयसवनायैवेत्यादि । ‘उलूखलानुद्वादयन्ति’ इत्यनेनैवावहननकालीनोलूखलमुसलोद्वादनस्याभिधानात्सवनीयपुरोडाशसम्पादनं लक्ष्यते । ‘आशिरम्’ विनयति ऋजीषीकृते सोमे ऽवनेतुमाशिरं संस्करोति । “आशिरम्” इति उपवसथदिवसस्य सायङ्काले यजमानस्य व्रतदुहो गोः पयो दुग्ध्वा दधि क्रियते तदुच्यते । माध्यन्दिनसवने तृतीयसवनार्थाभिषवादिसम्पादनार्थस्य प्रैषस्य प्रयोजनमाह- एते वै शुक्रवती इत्यादि । ‘रसवती’ इति, ‘शुक्रवती’ इत्यस्यैव व्याख्यानम् । ‘निर्धीतशुक्रम्’ निष्पीतरसम्, पक्षिरूपा गायत्री तृतीयसवनार्थं सोमं मुखेनाहरन्त्यपिबदिति प्रसिद्धम् । तेन तृतीयसवनं नीरसम् । एतच्च तैत्तिरीयके श्रूयते- “पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात्तदधयत् तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यन्दिनं च तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति धीतमिव हि मन्यन्त आशिरमवनयति सशुक्रत्वाय”- (तै० सं० ६ । १ । ६ । ४, ५) इति । तदेवैतस्मादिति । ‘तत्’ तेनैवाभिषवादिसम्पादनेनैव ‘तस्मात्’ शुक्रवतो रसवतो ‘माध्यन्दिनसवनात्’ ‘तृतीयसवनम्’ ‘निर्मिमीते’ उत्पादयति । सवनोत्पादकस्य सोमाभिषवादेरत्र सम्पादनादित्यर्थः ॥ १९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे तृतीयाध्याये तृतीयं ब्राह्मणम् (४-३-३) ॥
Eggeling
- And having bespoken (the chant 23), he says this speech,–‘Pressers, press ye! make the mortars
resound! Agnīdh, stir the sour milk! be thou mindful of Soma’s (pap)!’ It is for the evening’s press-feast that those pressers press out (the Soma juice), for the evening feast they make the mortars resound, for the evening feast the Agnīdh stirs the sour milk, for the evening feast he boils the pap for Soma. For these two press-feasts, the morning feast and the midday feast, are indeed rich in pure Soma, are rich in juice; but that third press-feast is emptied of the pure Soma. Hence he forms it from out of this midday feast; and thus that third press-feast becomes for him rich in pure Soma, rich in juice: this is why he now speaks that speech.
-
331:2 ‘Iha’ (here, hither) with the last syllable protracted. The Hotr̥’s cup with the Nigrābhyā (vasatīvarī) water having been handed to the sacrificer, and the fillet or band (ushṇīsha) with which the Soma-plants are tied together, to the Grāvastut, the pressing is performed in the same way as the ‘great pressing,’ at the Prātaḥsavana (see p. 256, note 1). Meanwhile the Grāvastut takes the band, and winds it thrice round his head and face from left to right. And whenever Soma-stalks are taken out for pressing he extols the stones by chanting the Grāva-stotra or ‘praise of the stones.’ According to Āśv. Śr. V, 12; Ait. Br. VI, 7, 2, this chant consists of the verses Rig-veda I, 24, 3; V, 81, 1; VIII, 81, 1; VIII, 1, 1, followed by the hymn X, 94, ascribed to the serpent R̥shi Arbuda. Before the last verse of this hymn he inserts the hymns X, 76 and X, 175, (ascribed to the serpents Jaratkarṇa and Arbuda respectively); and either before, or between, or after these two hymns he throws in the pāvamānīḥ (Rig-veda IX) according to requirement, till the pressing is completed, or the libations are to be drawn, when having wound up with the last verse of the first Arbuda hymn, he makes over the band to the sacrificer. The five cups mentioned in paragraph 2 are filled from the stream of Soma flowing from the Hotr̥’s cup into the Droṇakalaśa; the Āgrayaṇa (p. 294, note 2) however being taken (in the Āgrayaṇa sthālī or bowl) from that and two other streams, poured by the Unnetr̥ from the Ādhavanīya, and by the Pratiprasthātr̥ from some vessel containing the Soma previously kept in the Āgrayaṇa sthālī. ↩︎
-
332:1 Probably on account of the connection of the Br̥hat-sāman with Indra; see part i, p.196, note 2. ↩︎
-
332:2 See p. 294, note 2. Sāyaṇa here curiously explains the term by ‘stotrāṇi.’ ↩︎
-
333:1 The Mādhyandina-pavamāna-stotra, Sāmav. II, 22-29, is made up of three hymns (sūkta), consisting of three gāyatrī (22-24), two br̥hatī (and satobr̥hatī, 25, 26), and three trishṭubh verses (27-29) respectively. These are chanted in such a way as to produce five Sāman hymns (i.e. a hymn of three verses), viz. the gāyatrī triplet is chanted twice, in the Gāyatra and Āmahīyava tunes;–the br̥hatī-satobr̥hatī couplet is likewise chanted twice, in the Raurava and Yaudhājaya tunes, the two verses being as usual (by the repetition of certain pādas) made into three. These, with the addition of the trishṭubh hymn, chanted in the Auśana tune, make five Sāman hymns of three verses each, or altogether fifteen verses (pañcadaśastoma). ↩︎
-
333:2 Or consists of the fifteenfold (chant), as Sāyaṇa takes it. Regarding the connection between the pañcadaśa-stoma (the characteristic stoma of the midday pressing) and Indra (the deity of the midday pressing), see part i, introd. p. xviii. ↩︎
-
333:3 Perhaps graha’ has here a double meaning, viz. ’that which is taken, a draught, cup of Soma,’ and ’the taker, seizer.’ ↩︎
-
333:4 See p. 289, note 4. ↩︎
-
334:1 Lit. ’thus;’ ‘itiśabdenāpakramaṇaprakāro ’bhinayena pradarśyate,’ Sāy. ↩︎
-
334:2 This passage would seem to be based on a mistaken interpretation of Rig-veda I, 13 5, 8, where the bard says that ’the victorious (jāyavaḥ) have come nigh to the aśvattha,’ the ‘jāyavaḥ’ here evidently referring (not to the Maruts, as in I, 1 19, 3), but to the powerful draughts of Soma flowing into the aśvattha vessel. The Kāṇva text reads, Sā (i.e. viś, the people or Maruts) hāśvatthe tishṭḥate. ↩︎
-
334:3 The Kāṇva text inserts ‘ity āhuḥ.’ ↩︎
-
334:4 The context seems to be purposely ambiguous, as it may also be construed thus: They said, ‘After putting aside this (cup), we will come (attain) to strength.’ Having accordingly put it aside, they came to strength. ↩︎
-
335:1 For the construction, see p. 33, note 1. ↩︎
-
प्रागुरुक्थ्यान्मरुत्वतीयमृतुपात्रणेन्द्र मरुत्व इति । का. श्रौ. सू. । १० । १२ । ↩︎ ↩︎
-
335:2 See IV, 3, 1, 3 seq. ↩︎
-
336:1 See p. 331, note 2. ↩︎
-
वशिना मरुत्वतीयग्रहणं मरुर्त्वन्तमिति । का. श्रौ. सू. १० । ७० । ↩︎
-
ऋतुपात्रेण मरुत्वतीयग्रहणमुपयामगृहीतो ऽसि मरुतां त्वौजस इति । का. श्रौ. सू. १० । ६६ । ↩︎
-
336:2 Here the author again anticipates, important parts of the performance being not even referred to. On the present occasion only one Marutvatīya cup is drawn and deposited on the mound (khara). The Ukthya cup having then been drawn and deposited, the priests leave the Havirdhāna in the same way as at the morning performance (see IV, 2, 5, 1, with note), and perform the Vipruḍ-homas, or drop-offerings. Thereupon the priests ‘creep’ (sarp), with their upper bodies bent parallel to the ground, to the Sadas, where, near the Udumbara post, the chanting of the midday Pavamāna-stotra now takes place after the necessary preliminaries. If the Pravargya has been performed on the preceding day (see III, 4, 4, 1, with note), the Dadhi-gharma, or libation of hot milk mixed with sour milk, is now made. Then follow the oblations from the Savanīya-puroḍāśa (see IV, 2, 5, 15 seq., and p. 323, note ). Thereupon filling of the cups of the ten Camasins, and the libations from (and drinking of) the Śukra and Manthin cups. After the eating of the Iḍā of the puroḍāśas, the Dākshiṇa-homas and distribution of the sacrificial fees take place, as set forth in the next Brāhmaṇa. Thereupon the Adhvaryu calls on the Maitrāvaruṇa to pronounce the invitatory prayer to Indra Marutvat (viz. Rig-veda III, 51, 7), ‘O Indra, attended by the Maruts, here drink the Soma,’ &c., followed by the order (praisha), ‘Let the Hotr̥ pronounce the offering prayer to Indra Marutvat!’ The Pratiprasthātr̥ now draws a second Marutvatīya cup in the other Ritu-pātra. The offering prayer (Rig-veda III, 47, 2, ‘United with the host of Maruts, O Indra, drink the Soma, O wise hero!’ &c.) having meanwhile been pronounced by the Hotr̥, the Adhvaryu makes libations from the first cup at the Vashaṭ and Anuvashaṭ. Then pouring the remains of the juice into some other vessel, to be taken to the Sadas, he enters the Havirdhāna and draws the third Marutvatīya graha with the cup just emptied. Having deposited it, he betakes himself to. the Sadas to drink with the Hotr̥ the remains of the first libation. Thereupon the Hotr̥ recites the Marutvatīya Śastra. ↩︎
-
338:1 That is, as a chief, or lord, might do so with a clansman (vaiśyena, Kāṇva text); or as the master of a house with his servants. ↩︎
-
माहेन्द्रग्रहग्रहणे मन्त्रद्वयं संहितायां पठ्यते । इह त्वेक एव । ↩︎ ↩︎
-
339:1 Or, according to Ludwig, ‘rendered favourable by the performers (priests).’ ↩︎
-
339:2 That is, the (first) Pr̥shṭḥa-stotra, consisting of the Rathantara-sām an, Sāmav. II, 30-31. For the way in which the two verses are manipulated (by repetition of the last pāda of the first, and of the second pāda of the second verse), so as to yield a three-versed choral, see Haug, Ait. Br. II, p. 198; Weber, Ind. Stud. VIII, p. 25. These chants derive their name from the circumstance that the Sāmans employed in them are capable of being used as ‘pr̥shṭḥas,’ that is, of being chanted twice with another Sāman inserted between them,–or, to speak symbolically, to serve as the womb for the reception of an embryo. For this purpose the Rathantara and Br̥hat Sāmans are chiefly used. See note on IV, 5, 4, 13. Whenever the Pr̥shṭḥas are chanted in this way (which they are not at the ordinary Agnishṭoma), it is chiefly at this very place in the Soma performance, at the midday libation. The chant is succeeded by the recitation, by the Hotr̥, of the Nishkevalya Śastra, consisting of the following parts. The Āhāva (and pratigara) is followed by the Stotriya (Rig-veda VII, 32, 22-23, identical with the Rathantara) and Anurūpa (VIII, 3, 7-8) pragāthas; then a dhāyyā, X, 74,.6; the Sāma-pragātha, VIII, 3, 1, and the hymn (to Indra) I, 32, with the Nivid inserted in the middle (after the eighth verse). Finally the Hotr̥ pronounces the Ukthavīrya, and the offering prayer, VII, 22, 1, after which the Māhendra libation is poured into the fire.Then follows the distribution of the Ukthya graha among the three assistants of the Hotr̥ and the recitation of their (nishkevalya) śastras–each preceded by a Pr̥shṭḥa-stotra [Sāmav. II, 32-34 (chanted to the Vāmadevya-sāman); 35-36 (Naudhasa); 37-38 (Kāleya) respectively]–as at the conclusion of the morning performance; see , note 2. Thereupon he addresses the above summons to the respective priests, for the preparations necessary for the evening pressing. ↩︎