०१
विश्वास-प्रस्तुतिः
गृणा᳘ति ह वा᳘ ऽएतद्धो᳘ता यच्छ᳘ᳫं᳘सति॥
त᳘स्मा ऽएत᳘द्गृणते प्र᳘त्ये᳘वाध्वर्युरा᳘गृणाति त᳘स्मात्प्रतिगरो ना᳘म॥
मूलम् - श्रीधरादि
गृणा᳘ति ह वा᳘ ऽएतद्धो᳘ता यच्छ᳘ᳫं᳘सति॥
त᳘स्मा ऽएत᳘द्गृणते प्र᳘त्ये᳘वाध्वर्युरा᳘गृणाति त᳘स्मात्प्रतिगरो ना᳘म॥
मूलम् - Weber
गृणा᳘ति ह वा᳘ एतद्धो᳘ता यछ᳘ᳫं᳘सति॥
त᳘स्मा एत᳘द्गृणते प्र᳘त्येॗवाध्वर्युरा᳘गृणाति त᳘स्मात्प्रतिगरो ना᳘म॥
मूलम् - विस्वरम्
अथ माध्यन्दिनसवनग्रहाः ।
गृणाति ह वा ऽएतद्धोता - यच्छंसति । तस्मा ऽएतत् - गृणते प्रत्येवाध्वर्युरागृणाति । तस्मात् प्रतिगरो नाम ॥ १ ॥
सायणः
प्रथमे ब्राह्मणे ऋतुग्रहैन्द्राग्नवैश्वदेवग्रहा विहिताः । तत्रैन्द्राग्नवैश्वदेवयोः होत्रा शस्त्रं पठनीयम् । तत्रैवाध्वर्युणा शंसनकाले प्रतिगरः कर्तव्यः । स्तोत्रं द्वितीये ब्राह्मणे ऽभिधीयते । तत्र तावदादौ प्रतिगरं विदधानस्तच्छब्दं निर्वक्ति- गृह्णाति ह वा इत्यादि । होता शंसतीति । ‘यत्’ एतत् ‘गृणाति’ ‘ह’ ‘वै’ शब्दायते । ‘तस्मै’ होत्रे ‘अध्वर्युः’ ‘एतत्’ प्रत्यागृणीयात् प्रतिशब्दायेत । अतः प्रतिगरशब्दो व्युत्पन्न इत्यर्थः॥ १॥
Eggeling
- Now truly when the Hotr̥ praises (recites the śastra 1), he sings, and to him thus singing the
Adhvaryu responds (prati-ā-gar), whence the name response (pratigara).
०२
विश्वास-प्रस्तुतिः
तं वै प्रा᳘ञ्चमासीनमा᳘ह्वयते॥
स᳘र्व्वे वा᳘ ऽअन्य᳘ ऽउद्गातुः प्रा᳘ञ्च ऽआ᳘र्त्विज्यं कुर्व्वन्ति त᳘थो हास्यैतत्प्रा᳘गेवा᳘र्त्विज्यं कृतं᳘ भवति॥
मूलम् - श्रीधरादि
तं वै प्रा᳘ञ्चमासीनमा᳘ह्वयते॥
स᳘र्व्वे वा᳘ ऽअन्य᳘ ऽउद्गातुः प्रा᳘ञ्च ऽआ᳘र्त्विज्यं कुर्व्वन्ति त᳘थो हास्यैतत्प्रा᳘गेवा᳘र्त्विज्यं कृतं᳘ भवति॥
मूलम् - Weber
तं वै प्रा᳘ञ्चमासीनमा᳘ह्वयते॥
स᳘र्वे वा᳘ अन्य᳘ उद्गातुः प्रा᳘ञ्च आ᳘र्त्विज्यं कुर्वन्ति त᳘थो हास्यैतत्प्रा᳘गेवा᳘र्त्विज्यं कृत᳘म् भवति॥
मूलम् - विस्वरम्
तं वै प्राञ्चमासीनमाह्वयते । सर्वे वा ऽअन्य ऽउद्गातुः प्राञ्च आर्त्विज्यं कुर्वन्ति, तथो हास्यैतत् प्रागेवार्त्विज्यं कृतं भवति ॥ २ ॥
सायणः
प्राञ्चमासीनमध्वर्युं प्रति शस्त्रमुपक्रमेतेत्याह- तं वै प्राञ्चमित्यादि । आहूयत इति । शोँसावोमित्येष आहावः शस्त्रस्योपक्रमे प्रयुज्यते तमुच्चारयेदित्यर्थः । सर्वे वा इति । उद्गातृव्यतिरिक्ताः ‘सर्वे’ ‘प्राञ्चः’ एव ‘आर्त्विज्यम्’ ऋत्विक्कर्म ‘कुर्वन्ति’ । ‘तथा’ च सत्यत्रोपक्रमकाले ‘प्राक्’ आसनेनोपरिष्टात् प्रतिगरे प्रत्यङ्मुखे ऽपि तेन ‘प्रागेव’ ऋत्विक्कर्म ‘कृतं’ ‘भवति’ । अत्र कात्यायनः- “निर्हृत्य पात्रं होतुः पुरस्तात्प्राङास्ते, अभिहुतः शोँसावोमित्यावृत्त्योथामो दैवेति प्रतिगृणाति प्रणवावसानयोः, ओमिति वा”- (का० श्रौ० सू० ९ । २९३-२९४) इति । आश्वलायनो ऽपि- “पराङध्वर्यावावृत्ते” इत्युपक्रम्य “अनभिहिङ्कृत्य शोँसावोमित्युच्चैराहूय-” इति ॥ २ ॥
Eggeling
- [The Hotr̥] calls upon that (Adhvaryu) seated (before him) with his face towards the east 2. For all
others except the Udgātr̥ perform their priestly duties while facing the east, and in this manner that priestly duty of his is performed towards the east.
०३
विश्वास-प्रस्तुतिः
प्रजा᳘पतिर्व्वा᳘ ऽउद्गाताः[[!!]]॥
योष ऽर्ग्घो᳘ता स᳘ ऽएत᳘त्प्रजा᳘पतिरुद्गाता यो᳘षायामृचि हो᳘तरि रे᳘तः सिञ्चति य᳘त्स्तुते तद्धो᳘ता शस्त्रे᳘ण प्र᳘जनयति त᳘च्छ्यति य᳘था ऽयं पु᳘रुषः शितस्तद्य᳘देनच्छ्य᳘ति स्त᳘स्माच्छस्त्रं ना᳘म॥
मूलम् - श्रीधरादि
प्रजा᳘पतिर्व्वा᳘ ऽउद्गाताः[[!!]]॥
योष ऽर्ग्घो᳘ता स᳘ ऽएत᳘त्प्रजा᳘पतिरुद्गाता यो᳘षायामृचि हो᳘तरि रे᳘तः सिञ्चति य᳘त्स्तुते तद्धो᳘ता शस्त्रे᳘ण प्र᳘जनयति त᳘च्छ्यति य᳘था ऽयं पु᳘रुषः शितस्तद्य᳘देनच्छ्य᳘ति स्त᳘स्माच्छस्त्रं ना᳘म॥
मूलम् - Weber
प्रजा᳘पतिर्वा᳘ उद्गाताः᳟॥
योषर्ग्घो᳘ता स᳘ एत᳘त्प्रजापतिरुद्गाता यो᳘षायामृचि हो᳘तरि रे᳘तः सिञ्चति य᳘त्स्तुते तद्धो᳘ता शस्त्रे᳘ण प्र᳘जनयति त᳘छ्यति य᳘थायम् पु᳘रुषः शितस्तद्य᳘देनछ्य᳘ति त᳘स्माछस्त्रं ना᳘म॥
मूलम् - विस्वरम्
प्रजापतिर्वा ऽउद्गाता, योष ऽर्ग्घोता । स एतत्प्रजापतिरुद्गाता योषायामृचि होतरि रेतः सिञ्चति । यत्स्तुते तद्धोता- शस्त्रेण प्रजनयति । तच्छ्यति- यथा ऽयं पुरुषः शितः । तद् यदेनच्छ्यति- तस्माच्छस्त्रं नाम ॥ ३ ॥
सायणः
प्रसङ्गात्स्तोत्रशस्त्रयोः पौर्वापर्य्यमुपजीव्य शस्त्रशब्दं निर्वक्ति- प्रजापतिर्वा इत्यादि । ‘उद्गाता’ इत्यनेन गाननिष्पाद्यं साम लक्ष्यते । तच्च प्रजापत्यात्मकमिति प्रसिद्धम् । “प्रजापतिः साम बृहस्पतिरुद्वाता" (तै. सं. ३ । ३ । २)- इति श्रुतेः । प्रजापतेश्च सर्वसृष्टिहेतुत्वात्पतिरिति तदात्मकं सामापि पतिः । ‘होता’ ‘ऋक्’ ‘योषा’ । निष्पाद्यनिष्पादकभावभेदाविवक्षया ऋचो होत्रात्मकत्वम् । ऋक्सामयोर्जायापतित्वमैतरेयके श्रूयते- “ऋक्त्वा वा इदमग्रे साम चास्तां सैव नाम ऋगासीदमो नाम साम सा वा ऋक् सामोपावदन्मिथुनं सम्भवाव प्रजात्यै” इत्युपक्रम्य “ते द्वे भूत्वोपावदताम्” इति । तच्छ्यतीत्यस्यैव व्याख्यानम्- ‘यथा ऽयम्’ पुरोवर्ती ‘पुरुषः’ ‘शितः’ तीक्ष्णीकृतो ऽवयवभागेन स्पष्टीकृतः । तथा शस्त्रेण ‘तद्’ रेतः ‘श्यति’ स्पष्टीकरोति । यत एवम् ‘तस्मात्’ श्यत्यनेनेति शस्त्रमिति ऋक्समुदायस्य नामधेयम् । “शो तनूकरणे” (धा. पा. दि. प. ३९) इत्यस्मात् त्रप्रत्यये टिलोपे असुगागमे च कृते ‘शस्त्रम्’ इति भवति ॥ ३ ॥
Eggeling
- Now the Udgātr̥ is Prajāpati, and the Hotr̥, (being) the R̥k (fem.), is a female. And when he chants, then the Udgātr̥, Prajāpati, implants seed in the female Hotr̥, the R̥k; this the Hotr̥ brings forth by means of the śastra (recitation), he sharpens
it even as this man is sharpened 3, and because he thereby sharpens (śo) therefore it is called sastra.
०४
विश्वास-प्रस्तुतिः
त᳘दुपपल्य᳘य्य प्र᳘तिगृणाति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्त᳘मुपनि᳘मदत्य᳘थ यत्प᳘राङ्ति᳘ष्ठन्प्रतिगृणीयात्प᳘रागु है᳘वैतद्रे᳘तः सिक्तं प्र᳘णश्येत्तन्न प्र᳘जायेत सम्य᳘ञ्चा ऽउ चै᳘वैत᳘द्भू᳘त्वैतद्रे᳘तः सिक्तं प्र᳘जनयतः॥
मूलम् - श्रीधरादि
त᳘दुपपल्य᳘य्य प्र᳘तिगृणाति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्त᳘मुपनि᳘मदत्य᳘थ यत्प᳘राङ्ति᳘ष्ठन्प्रतिगृणीयात्प᳘रागु है᳘वैतद्रे᳘तः सिक्तं प्र᳘णश्येत्तन्न प्र᳘जायेत सम्य᳘ञ्चा ऽउ चै᳘वैत᳘द्भू᳘त्वैतद्रे᳘तः सिक्तं प्र᳘जनयतः॥
मूलम् - Weber
त᳘दुपपल्य᳘य्य प्र᳘तिगृणाति॥
इद᳘मेॗवैतद्रे᳘तः सिक्त᳘मुपनि᳘मदत्य᳘थ यत्प᳘राङ् ति᳘ष्ठन्प्रतिगृणीयात्प᳘रागु हैॗवैतद्रे᳘तः सिक्तम् प्र᳘णश्येत्तन्न प्र᳘जायेत सम्य᳘ञ्चा उ चैॗवैत᳘द्भूॗत्वैतद्रे᳘तः सिक्तम् प्र᳘जनयतः॥
मूलम् - विस्वरम्
तदुपपल्यय्य प्रतिगृणाति । इदमेवैतद्रेतः सिक्तमुपनिमदति । अथ यत् पराङ्तिष्ठन्प्रतिगृणीयात् । परागु हैवैतद्रेतः सिक्तं प्रणश्येत् । तन्न प्रजायेत । सम्यञ्चा ऽउ चैवैतद् भूत्यैतद्रेतः सिक्तं प्रजनयतः ॥ ४ ॥
सायणः
प्रतिगरावसरे ऽध्वर्योः पर्यावृत्तिं विधत्ते तदुपपल्यय्येति । प्रागासीनो ऽध्वर्युः पर्यावृत्य प्रतिगृणीयात् । “उपसर्गस्यायतौ”- (पा. सू. ८ । २ । १९) इति रेफस्य लत्वम् । ‘एतत्’ एतेन ‘इदम्’ समासिक्तं ‘रेतः’ एव ‘उपनिमदति’ तर्पयति समर्द्धयति । ‘मद तृप्तियोगे’ (धा. पा. चु. आ. १७२) । होतृकर्तृकं शंसनं रेतसः समर्थने कारणमित्युक्तम् । प्रतिगरस्यापि प्रतिशंसनत्वात्सो ऽपि रेतसः समर्थने कारणमिति भावः ।
प्रतिगरे ऽध्वर्योः पराक्त्वे बाधमुपन्यस्योक्तां पर्यावृत्तिं द्रढयति- अथ यत्पराङित्यादि । सम्यञ्चा उ इति । पर्याप्तौ सत्यां ‘सम्यञ्चौ’ परस्परं साम्मुख्ये वर्तमानौ ‘एव’ ‘रेतः’ ‘प्रजनयतः’ । सम्यञ्चा उ चैवेति “लोपः शाकल्यस्य” (पा. सू. ८ । ३ । १९) इति वकारलोपः । “पूर्वत्रासिद्धम्” (पा. सू. ८ । २ । १) इति वकारलोपस्यासिद्धत्वादाद्गुणो न भवति ॥ ४ ॥
Eggeling
- Having turned round (so as to face the Hotr̥, the Adhvaryu) then responds: thereby he quickens 4 that implanted seed. On the other hand, were he to respond while standing with his face turned away (from the Hotr̥), that implanted seed would assuredly perish away, and would not be brought forth; but thus facing each other (the male and female) bring forth the implanted seed.
०५
विश्वास-प्रस्तुतिः
(तो) यात᳘यामानि वै᳘ देवैश्छ᳘न्दाᳫँ᳭सि॥
च्छ᳘न्दोभिर्हि᳘ देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवत म᳘दो वै᳘ प्रतिगरो यो वा᳘ ऽऋचि म᳘दो यः सा᳘मन्र᳘सो वै स तच्छ᳘न्दःस्वे᳘वैतद्र᳘सं दधात्य᳘यातयामानि करोति तैर᳘यातयामैर्यज्ञं᳘ तन्वते᳘॥
मूलम् - श्रीधरादि
(तो) यात᳘यामानि वै᳘ देवैश्छ᳘न्दाᳫँ᳭सि॥
च्छ᳘न्दोभिर्हि᳘ देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवत म᳘दो वै᳘ प्रतिगरो यो वा᳘ ऽऋचि म᳘दो यः सा᳘मन्र᳘सो वै स तच्छ᳘न्दःस्वे᳘वैतद्र᳘सं दधात्य᳘यातयामानि करोति तैर᳘यातयामैर्यज्ञं᳘ तन्वते᳘॥
मूलम् - Weber
यात᳘यामानि वै᳘ देवैश्छ᳘न्दांसि॥
छ᳘न्दोभिर्हि᳘ देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवत म᳘दो वै᳘ प्रतिगरो यो वा᳘ ऋचि म᳘दो यः सा᳘मन्रसो वै स तच्छ᳘न्दःस्वेॗवैतद्र᳘सं दधात्य᳘यातयामानि करोति तैर᳘यातयामैर्यज्ञं᳘ तन्वते॥
मूलम् - विस्वरम्
यातयामानि वै देवैश्छन्दांसि । छन्दोभिर्हि देवाः स्वर्गं लोकं समाश्नुवत । मदो वै प्रतिगरः । यो वा ऽऋचि मदः, यः सामन् । रसो वै सः । तच्छन्दःस्वेवैतद्रसं दधाति- अयातयामानि करोति । तैरयातयामैर्यज्ञं तन्वते ॥ ५ ॥
सायणः
विहितं प्रतिगरं छन्दःसम्बन्धिरसरूपेण प्रशंसति- यातयामानि वा इत्यादि । छन्दोभिर्हीति । ‘छन्दोभिः’ साधनैः ‘देवाः’ ‘स्वर्गं लोकम्’ प्राप्नुवन्निति प्रसिद्धम् । “छन्दोभिर्वै देवाः स्वर्गं लोकमायन्"- (तै. सं. ५ । २ । ३) इति श्रुतेः । सामन्निति- “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इत्यादिना सप्तम्या लुक् । ‘रसो वै सः’ इति मदशब्दस्यार्थकथनम् ॥ ५ ॥
Eggeling
- Now the strength of the metres was exhausted by the gods, for it was by the metres that the gods attained the world of heaven. And the response (song) is ecstasy (mada 5)–what ecstasy there is in the r̥c and that which there is in the Sāman, that is sap: this sap he now lays into the metres, and thus makes the metres of restored strength; and with them of restored strength they perform the sacrifice.
०६
विश्वास-प्रस्तुतिः
त᳘स्माद्य᳘द्यर्धर्चशः श᳘ᳫं᳘सेत्॥
(द) अर्ध᳘र्चे ऽर्धर्चे प्र᳘तिगृणीयाद्य᳘दि पच्छः श᳘ᳫं᳘सेत्पदे᳘पदे प्र᳘तिगृणीयाद्य᳘त्र वै श᳘ᳫं᳘सन्नवा᳘निति त᳘दसुररक्षसा᳘नि यज्ञ᳘मन्व᳘वचरन्ति त᳘त्प्रतिगरे᳘ण सं᳘दधाति नाष्ट्रा᳘णाᳫं᳭ र᳘क्षसाम᳘नन्ववचाराय य᳘जमानस्यो चै᳘वैत᳘द्भ्रातृव्यलोकं᳘ छिनत्ति॥
मूलम् - श्रीधरादि
त᳘स्माद्य᳘द्यर्धर्चशः श᳘ᳫं᳘सेत्॥
(द) अर्ध᳘र्चे ऽर्धर्चे प्र᳘तिगृणीयाद्य᳘दि पच्छः श᳘ᳫं᳘सेत्पदे᳘पदे प्र᳘तिगृणीयाद्य᳘त्र वै श᳘ᳫं᳘सन्नवा᳘निति त᳘दसुररक्षसा᳘नि यज्ञ᳘मन्व᳘वचरन्ति त᳘त्प्रतिगरे᳘ण सं᳘दधाति नाष्ट्रा᳘णाᳫं᳭ र᳘क्षसाम᳘नन्ववचाराय य᳘जमानस्यो चै᳘वैत᳘द्भ्रातृव्यलोकं᳘ छिनत्ति॥
मूलम् - Weber
त᳘स्माद्य᳘द्यर्धर्चशः श᳘ᳫं᳘सेत्॥
अर्धॗर्चे ऽर्धर्चे प्र᳘तिगृणीयाद्य᳘दि पछः श᳘ᳫं᳘सेत्पदे᳘-पदे प्र᳘तिगृणीयाद्य᳘त्र वै श᳘ᳫं᳘सन्नवा᳘निति त᳘दसुररक्षसा᳘नि यज्ञ᳘मन्व᳘वचरन्ति त᳘त्प्रतिगरे᳘ण सं᳘दधाति नाष्ट्रा᳘णां र᳘क्षसाम᳘नन्ववचाराय य᳘जमानस्यो चैॗवैत᳘द्भ्रातृव्यलोकं᳘ छिनत्ति॥
मूलम् - विस्वरम्
तस्माद्यद्यर्धर्चशः शंसेत्- अर्धर्चे ऽर्धर्चे प्रतिगृणीयात् । यदि पच्छः शंसेत्- पदे पदे प्रतिगृणीयात् । यत्र वै शंसन्नवानिति- तदसुररक्षसानि यज्ञमन्ववचरन्ति । तत् प्रतिगरेण सन्दधाति- नाष्ट्राणां रक्षसामनन्ववचाराय । यजमानस्यो चैवैतद्भ्रातृव्यलोकं छिनत्ति ॥ ६ ॥
सायणः
प्रतिगरस्य कालं विधत्ते- तस्मादित्यादि । ‘यद्यर्द्धर्चशः’ अर्द्धर्चमर्द्धर्चं शंसेत् । तदा अर्द्धर्चं प्रतिगृणीयात् । ‘यदि पच्छः’ पदं ‘शंसेत्’ तदा ‘पदे पदे प्रतिगृणीयात्’ । अर्द्धर्चशः पच्छ इति “सङ्ख्यैकवचनाच्च वीप्सायाम्” (पा. सू. ५ । ४ । ४३) इति शस्प्रत्ययः । अवसानेषु प्रतिगरोच्चारणस्य कारणमाह- यत्र वै शंसन्निति । ‘यत्र’ च ‘चरन्ति’ अनुप्रविशन्ति । नाष्ट्राणामिति । नाशकानां ‘रक्षसाम्’ अननुप्रवेशाय । एवम् ‘यजमानस्य’ ‘एव’ शत्रुजनप्रवेशनिवारणादपहन्ति । तस्माद्धोता यत्रावस्येत् तत्र प्रतिगृणीयादित्यर्थः ॥ ६ ॥
Eggeling
- Hence if (the Hotr̥) recites by half-verses, let (the Adhvaryu) respond at each half-verse; and if he recites by pādas (hemistichs), let him respond at each pāda. For whenever, in reciting, he (the Hotr̥) draws breath, there the Asura-Rakshas rush into the sacrifice: there he (the Adhvaryu) closes it up by means of the response, so that the evil spirits, the Rakshas, cannot rush in; and thus he destroys the world of the sacrificer’s enemies.
०७
विश्वास-प्रस्तुतिः
च᳘तुरक्षराणि ह वा ऽअ᳘ग्रे च्छ᳘न्दाᳫँ᳭स्यासुः॥
(स्त᳘) त᳘तो ज᳘गती सो᳘मम᳘च्छापतत्सा त्री᳘ण्यक्ष᳘राणि हित्वा᳘ ऽऽजगाम त᳘तस्त्रिष्टुप्सो᳘मम᳘च्छापतत्सै᳘कमक्ष᳘रᳫं᳭ हित्वा᳘ ऽऽजगाम त᳘तो गायत्री सो᳘मम᳘च्छापत᳘त्सैता᳘नि चाक्ष᳘राणि ह᳘रन्त्या᳘गच्छत्सो᳘मं च त᳘तो ऽष्टा᳘क्षरा गाय᳘त्र्यभवत्त᳘स्मादाहुरष्टा᳘क्षरा[[!!]] गायत्री᳘ति॥
मूलम् - श्रीधरादि
च᳘तुरक्षराणि ह वा ऽअ᳘ग्रे च्छ᳘न्दाᳫँ᳭स्यासुः॥
(स्त᳘) त᳘तो ज᳘गती सो᳘मम᳘च्छापतत्सा त्री᳘ण्यक्ष᳘राणि हित्वा᳘ ऽऽजगाम त᳘तस्त्रिष्टुप्सो᳘मम᳘च्छापतत्सै᳘कमक्ष᳘रᳫं᳭ हित्वा᳘ ऽऽजगाम त᳘तो गायत्री सो᳘मम᳘च्छापत᳘त्सैता᳘नि चाक्ष᳘राणि ह᳘रन्त्या᳘गच्छत्सो᳘मं च त᳘तो ऽष्टा᳘क्षरा गाय᳘त्र्यभवत्त᳘स्मादाहुरष्टा᳘क्षरा[[!!]] गायत्री᳘ति॥
मूलम् - Weber
च᳘तुरक्षराणि ह वा अ᳘ग्रे छ᳘न्दांस्यासुः॥
त᳘तो ज᳘गती सो᳘मम᳘छापतत्सा त्री᳘ण्य्क्ष᳘राणि हित्वा᳘जगाम त᳘तस्त्रिष्टुप्सो᳘मम᳘छापतत्सै᳘कमक्ष᳘रᳫं हित्वा᳘जगाम त᳘तो गायत्री सो᳘मम᳘छापतॗत्सैता᳘नि चाक्ष᳘राणि ह᳘रन्त्या᳘गछत्सो᳘मं च त᳘तो ऽष्टा᳘क्षरा गायत्र्य᳘भवत्त᳘स्मादाहुरष्टा᳘क्षरा गायत्री᳘ति॥
मूलम् - विस्वरम्
चतुरक्षराणि ह वा ऽअग्रे छन्दांस्यासुः । ततो जगती सोममच्छापतत् । सा त्रीण्यक्षराणि हित्वा ऽऽजगाम । ततस्त्रिष्टुप्सोममच्छापतत् । सैकमक्षरं हित्वा ऽऽजगाम । ततो गायत्री सोममच्छापतत् । सैतानि चाक्षराणि हरन्त्यागच्छत् सोमं च । ततो ऽष्टाक्षरा गायत्र्यभवत् । तस्मादाहुरष्टाक्षरा गायत्रीति ॥ ७ ॥
सायणः
प्रसङ्गात्प्रातःसवनादीनां क्रमेण गायत्रत्रैष्टुभजागतत्वानि प्रदर्शयन् सवनत्रये ऽपि प्रतिगरे विशेषं वक्तुं प्रस्तौति- चतुरक्षराणि ह वा इत्यादि । सोममच्छापतदिति । ‘सोमम्’ अभिलक्ष्या ऽऽगच्छत् । उप त्वा ऽहमिति । ‘अहम्’ त्वाम् ‘उपायानि’ त्वत्समीपम् आगमिष्यामि ‘त्रिभिरक्षरैः’ युक्तां माम् ‘उपाह्वयस्व’ आमन्त्रयस्व । ‘मा’ माम् ‘यज्ञात्’ ‘मा’ ‘अन्तर्गाः’ यज्ञादन्तरितां मा कार्षीरित्यर्थः । ‘ततः’ त्रिष्टुबाह्वानानन्तरम् ‘गायत्री’ त्रिष्टुप्सम्बन्धिभिस्त्रिभिरक्षरैयुक्ता सती ‘त्रिष्टुबभवत्’ । ‘तस्माद्’ ‘माध्यन्दिनम्’ ‘सवनम्’ ‘त्रैष्टुभम्’- इत्याहुः । यद्यप्यत्र गायत्र्याः प्राधान्यात्तथैव व्यपदेशो युज्यते । तथापि त्रिष्टुबक्षरसम्बन्धाद्गायत्र्यास्त्रिष्टुप्त्वे सति विशेषेण व्यपदेशो भवतीति त्रैष्टुभमिति व्यपदिश्यते । एवमेव ‘जागतं तृतीयसवनम्’ इत्यत्रापि ॥ ७-९ ॥
Eggeling
- Now, in the beginning the metres consisted of four syllables. Then Jagatī flew up for Soma and came back, leaving behind three syllables. Then Trishṭubh flew up for Soma and came back, leaving behind one syllable. Then Gāyatrī flew up for Soma, and she came back bringing with her those syllables as well as Soma. Thus she came to consist of eight syllables: wherefore they say, ‘Gāyatrī is octosyllabic.’
०८
विश्वास-प्रस्तुतिः
त᳘या प्रातःसवन᳘मतन्वत॥
त᳘स्माद्गायत्रं᳘ प्रातःसवनं त᳘यैव मा᳘ध्यन्दिनᳫँ᳭ स᳘वनमतन्वत ता᳘ᳫँ᳘ ह त्रि᳘ष्टु᳘बुवाचो᳘प त्वा ऽहमा᳘यानि त्रिभि᳘रक्ष᳘रैरु᳘प मा ऽऽह्वयस्व मा᳘ मा यज्ञा᳘दन्त᳘र्गा इ᳘ति तथे᳘ति तामु᳘पाह्वयत᳘ त᳘त ऽए᳘कादशाक्षरा त्रिष्टु᳘बभवत्त᳘स्मादाहुस्त्रै᳘ष्टुभं मा᳘ध्यन्दिनᳫँ᳭ स᳘वनमि᳘ति॥
मूलम् - श्रीधरादि
त᳘या प्रातःसवन᳘मतन्वत॥
त᳘स्माद्गायत्रं᳘ प्रातःसवनं त᳘यैव मा᳘ध्यन्दिनᳫँ᳭ स᳘वनमतन्वत ता᳘ᳫँ᳘ ह त्रि᳘ष्टु᳘बुवाचो᳘प त्वा ऽहमा᳘यानि त्रिभि᳘रक्ष᳘रैरु᳘प मा ऽऽह्वयस्व मा᳘ मा यज्ञा᳘दन्त᳘र्गा इ᳘ति तथे᳘ति तामु᳘पाह्वयत᳘ त᳘त ऽए᳘कादशाक्षरा त्रिष्टु᳘बभवत्त᳘स्मादाहुस्त्रै᳘ष्टुभं मा᳘ध्यन्दिनᳫँ᳭ स᳘वनमि᳘ति॥
मूलम् - Weber
त᳘या प्रातःसवन᳘मतन्वत॥
त᳘स्माद्गायत्रं᳘ प्रातःसवनं त᳘यैव मा᳘ध्यन्दिनᳫं स᳘वनमतन्वत ता᳘ᳫं᳘ ह त्रिष्टु᳘बुवाचो᳘प त्वाहमा᳘यानि त्रिभि᳘रक्ष᳘रैरु᳘प मा ह्वयस्व मा᳘ मा यज्ञा᳘दन्त᳘र्गा इ᳘ति तथे᳘ति तामु᳘पाह्वयत त᳘त ए᳘कादशाक्षरा त्रिष्टु᳘बभवत्तस्मादाहुस्त्रै᳘ष्टुभम् मा᳘ध्यन्दिनᳫं स᳘वनमि᳘ति॥
मूलम् - विस्वरम्
तया प्रातःसवनमतन्वत । तस्माद् गायत्रं प्रातःसवनम् । तथैव माध्यन्दिनं सवनमतन्वत । तां ह त्रिष्टुबुवाच- उप त्वा ऽहमायानि त्रिभिरक्षरैः, उप मा ऽऽह्वयस्व, मा मा यज्ञादन्तर्गा इति । तथेति तामुपाह्वयत । तत एकादशाक्षरा त्रिष्टुबभवत् । तस्मादाहुः- त्रैष्टुभं माध्यन्दिनं सवनमिति ॥ ८ ॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- With her they performed the morning feast of the Soma-sacrifice,–whence the morning feast pertains to Gāyatrī. With her they performed the midday feast. Trishṭubh then said to her, ‘To thee will I come with three syllables: invite me, and exclude me not from the sacrifice!’–‘So be it!’ she said and invited her. Thus the Trishṭubh came to consist of eleven syllables, and therefore they say, ‘The midday Soma feast pertains to Trishṭubh.’
०९
विश्वास-प्रस्तुतिः
त᳘यैव᳘ तृतीयसवन᳘मतन्वत॥
ता᳘ᳫं᳘ ह ज᳘गत्युवाचो᳘प त्वा ऽहमा᳘यान्ये᳘केनाक्ष᳘रेणो᳘प मा ऽऽह्वयस्व मा᳘ मा यज्ञा᳘दन्त᳘र्गा ऽइ᳘ति तथे᳘ति तामु᳘पाह्वयत त᳘तो द्वा᳘दशाक्षरा ज᳘गत्यभवत्त᳘स्मादाहुर्जा᳘गतं तृतीयसवनमि᳘ति॥
मूलम् - श्रीधरादि
त᳘यैव᳘ तृतीयसवन᳘मतन्वत॥
ता᳘ᳫं᳘ ह ज᳘गत्युवाचो᳘प त्वा ऽहमा᳘यान्ये᳘केनाक्ष᳘रेणो᳘प मा ऽऽह्वयस्व मा᳘ मा यज्ञा᳘दन्त᳘र्गा ऽइ᳘ति तथे᳘ति तामु᳘पाह्वयत त᳘तो द्वा᳘दशाक्षरा ज᳘गत्यभवत्त᳘स्मादाहुर्जा᳘गतं तृतीयसवनमि᳘ति॥
मूलम् - Weber
त᳘यैव᳘ तृतीयसवन᳘मतन्वत॥
ता᳘ᳫं᳘ ह ज᳘गत्युवाचो᳘प त्वाहमा᳘यान्ये᳘केनाक्ष᳘रेणो᳘प सा ह्वयस्व मा᳘ मा यज्ञा᳘दन्त᳘र्गा इ᳘ति तथे᳘ति तामु᳘पाह्वयत त᳘तो द्वा᳘दशाक्षरा ज᳘गत्यभवत्त᳘स्मादाहुर्जा᳘गतं तृतीयसवनमि᳘ति॥
मूलम् - विस्वरम्
तयैव तृतीयसवनमतन्वत । तां ह जगत्युवाच- उप त्वा ऽहमायान्येकेनाक्षरेण, उप मा ऽऽह्वयस्व । मा मा यज्ञादन्तर्गा इति । तथेति तामुपाह्वयत ततो द्वादशाक्षरा जगत्यभवत् । तस्मादाहुर्जागतं तृतीयसवनमिति ॥ ९ ॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- With her (Gāyatrī) indeed they performed the evening feast. Jagatī then said to her, ‘To thee will I come with one syllable: invite me, and exclude me not from the sacrifice!’–‘So be it!’ she said and invited her. Thus the Jagatī came to consist of twelve syllables; and therefore they say, ‘The evening Soma feast pertains to Jagatī.’
१०
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्गा) गायत्रा᳘णि वै स᳘र्व्वाणि स᳘वनानि गायत्री᳘ ह्ये᳘वैत᳘दुपसृ᳘जमानैदि᳘ति[[!!]] त᳘स्मात्स᳘ᳫँ᳘सिद्धं प्रातःसवने प्र᳘तिगृणीयात्स᳘ᳫँ᳘सिद्धा हि᳘ गायत्र्या᳘गच्छत्सकृ᳘न्मद्वन्मा᳘ध्यन्दिने स᳘वन ऽए᳘कᳫँ᳭हि᳘ सा ऽक्ष᳘रᳫँ᳭हित्वा᳘ ऽऽगच्छत्ते᳘नै᳘वैनामेतत्स᳘मर्धयति [[!!]] कृत्स्नां᳘ करोति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्गा) गायत्रा᳘णि वै स᳘र्व्वाणि स᳘वनानि गायत्री᳘ ह्ये᳘वैत᳘दुपसृ᳘जमानैदि᳘ति[[!!]] त᳘स्मात्स᳘ᳫँ᳘सिद्धं प्रातःसवने प्र᳘तिगृणीयात्स᳘ᳫँ᳘सिद्धा हि᳘ गायत्र्या᳘गच्छत्सकृ᳘न्मद्वन्मा᳘ध्यन्दिने स᳘वन ऽए᳘कᳫँ᳭हि᳘ सा ऽक्ष᳘रᳫँ᳭हित्वा᳘ ऽऽगच्छत्ते᳘नै᳘वैनामेतत्स᳘मर्धयति [[!!]] कृत्स्नां᳘ करोति॥
मूलम् - Weber
त᳘दाहुः॥
गायत्रा᳘णि वै स᳘र्वाणि स᳘वनानि गायत्रीॗ ह्येॗवैत᳘दुपसृज᳘मानैदि᳘ति त᳘स्मात्स᳘ᳫं᳘सिद्धम् प्रातःसवने प्र᳘तिगृणीयात्स᳘ᳫं᳘सिद्धा हि᳘ गायत्र्या᳘गछत्सकृ᳘न्मद्वन्मा᳘ध्यन्दिने स᳘वन ए᳘कᳫं हिॗ साक्ष᳘रᳫं हिॗत्वागछत्ते᳘नैॗवैनामेतत्स᳘मर्धयति कृत्स्नां᳘ करोति॥
मूलम् - विस्वरम्
तदाहु:- गायत्राणि वै सर्वाणि सवनानि । गायत्री ह्येवैतदुपसृजमानैदिति । तस्मात्संसिद्धं प्रातःसवने प्रतिगृणीयात् । संसिद्धा हि गायत्र्यागच्छत् । सकृन्मद्वन्माध्यन्दिने सवने । एकं हि सा ऽक्षरं हित्वा ऽऽगच्छत् । तेनैवैनामेतत्समर्धयति- कृत्स्नां करोति ॥ १० ॥
सायणः
तदाहुरिति । यतो ‘गायत्री’ ‘एव’ छन्दो ऽन्तरसंबन्धिभिरक्षरैरुपसृष्टा सती ‘ऐत्’ सवनान्तरं प्राप्नोत् । तस्मात्सर्वाणि सवनानि संभूय गायत्राणीत्यप्याहुरित्यर्थः । इत्थमुपोद्धातमुक्त्वा प्रकृते प्रतिगरसवनत्रये ऽपि विशेषमाह- तस्मादित्यादि । यतो ‘गायत्री’ ‘संसिद्धा’ सोमाहरणार्थं गत्वा स्वकीयान्यक्षराण्यपरित्यज्याविकृता सती ‘आगच्छत्’ । ‘तस्मात्’ कारणाद् गायत्रे ‘प्रातःसवने’ ‘संसिद्धम्’ अविकृतं विधास्यमानम् “ओ३म्” इत्येव ‘प्रतिगृणीयात्’ । माध्यन्दिने सवने तु प्रतिगरस्थाने ‘सकृत्’ एकवारम् ‘मद्वत्’ मदिधातुयुक्तं मदामो दैवेति प्रतिगरः । ‘एतत्’ एतेन ‘एव’ हीनेनाक्षरेण ‘एनाम्’ त्रिष्टुभम् ‘समर्द्धयति’ । अस्यैव व्याख्यानम् ‘कृत्स्नां करोति’- इति ॥ १० ॥
Eggeling
- As to this they say, ‘Surely all the Soma feasts pertain to Gāyatrī, since Gāyatrī alone went on increasing.’ At the morning feast he should therefore respond with a complete (formula), for complete 6 Gāyatrī returned. At the midday feast
(he responds with a formula) containing once (the verb) ’to rejoice (mad) 7,’ for she (Trishṭubh) came back, leaving one syllable behind; and with that same (formula) he then completes her, makes her whole,
११
विश्वास-प्रस्तुतिः
य᳘त्र त्रिष्टु᳘भः शस्य᳘न्ते॥
त्रि᳘मद्वत्तृतीयसवने त्री᳘णि हि᳘ सा ऽक्ष᳘राणि हित्वा᳘ ऽऽगच्छत्तै᳘रे᳘वैनामेतत्स᳘मर्धयति कृत्स्नां᳘ करोति॥ [शतम् २५००॥]]
मूलम् - श्रीधरादि
य᳘त्र त्रिष्टु᳘भः शस्य᳘न्ते॥
त्रि᳘मद्वत्तृतीयसवने त्री᳘णि हि᳘ सा ऽक्ष᳘राणि हित्वा᳘ ऽऽगच्छत्तै᳘रे᳘वैनामेतत्स᳘मर्धयति कृत्स्नां᳘ करोति॥ [शतम् २५००॥]]
मूलम् - Weber
य᳘त्र त्रिष्टु᳘भः शस्य᳘न्ते॥
त्रि᳘मद्वत्तृतीयसवने त्री᳘णि हिॗ साक्ष᳘राणि हित्वा᳘गछत्तै᳘रेॗवैनामेतत्स᳘मर्धयति कृत्स्नां᳘ करोति॥
मूलम् - विस्वरम्
यत्र त्रिष्टुभः शस्यन्ते । त्रिमद्वत्तृतीयसवने । त्रीणि हि सा ऽक्षराणि हित्वा ऽगच्छत् । तैरेवैनामेतत्समर्धयति कृत्स्नां करोति ॥ ११ ॥
सायणः
यत्र त्रिष्टुभः शस्यन्त इति । अनेनोक्तस्य प्रतिगरस्य कालः प्रदर्श्यते । अत्र कात्यायनः- “जनिष्ठा उग्र इत्येतस्यां मदामो दैवेति प्रतिगरः सकृत्,” “तत्स्थाने विकृतौ”- (का. श्रौ. सू. १० । ७२-७३) इति । “जनिष्ठा उग्र” इत्येषा त्रिष्टुप् (वा. सं. ३३ । ६४)- ‘त्रिमद्वद्’ इत्यादिकं विस्पष्टार्थम् ॥ ११ ॥
Eggeling
- When trishṭubh verses were recited. At the evening Soma feast (the Adhvaryu responds with a formula) containing thrice (the verb) ’to rejoice 8,’ for she (Jagatī) came back leaving three syllables behind; and with these (formulas) he then completes her, makes her whole,–
१२
विश्वास-प्रस्तुतिः
य᳘त्र द्यावापृथि᳘व्यᳫँ᳭[[!!]] शस्य᳘ते॥
(त ऽ) इमे᳘ ह वै द्या᳘वापृथि᳘वी ऽइमाः᳘[[!!]] प्रजा ऽउ᳘पजीवन्ति त᳘दन᳘योरे᳘वैतद्द्या᳘वापृथिव्यो र᳘सं दधाति ते र᳘सवत्या ऽउपजीवनी᳘ये ऽइमाः᳘ प्रजा ऽउ᳘पजीवन्ति स वा ऽओ ३ मि᳘त्येव प्र᳘तिगृणीयात्तद्धि᳘ सत्यं त᳘द्देवा᳘ व्विदुः॥
मूलम् - श्रीधरादि
य᳘त्र द्यावापृथि᳘व्यᳫँ᳭[[!!]] शस्य᳘ते॥
(त ऽ) इमे᳘ ह वै द्या᳘वापृथि᳘वी ऽइमाः᳘[[!!]] प्रजा ऽउ᳘पजीवन्ति त᳘दन᳘योरे᳘वैतद्द्या᳘वापृथिव्यो र᳘सं दधाति ते र᳘सवत्या ऽउपजीवनी᳘ये ऽइमाः᳘ प्रजा ऽउ᳘पजीवन्ति स वा ऽओ ३ मि᳘त्येव प्र᳘तिगृणीयात्तद्धि᳘ सत्यं त᳘द्देवा᳘ व्विदुः॥
मूलम् - Weber
य᳘त्र द्यावापृथिव्यं᳘ शस्य᳘ते॥
इमे᳘ ह वै द्या᳘वापृथिवी᳘ इमाः᳘ प्रजा उ᳘पजीवन्ति त᳘दन᳘योरेॗवैतद्द्या᳘वापृथिव्यो र᳘सं दधाति ते र᳘सवत्या उपजीवनी᳘ये इमाः᳘ प्रजा उ᳘पजीवन्ति स वा ओमि᳘त्येव प्र᳘तिगृणीयात्तद्धि᳘ सत्यं त᳘द्देवा᳘ विदुः 9 ॥
मूलम् - विस्वरम्
यत्र द्यावापृथिव्यं शस्यते । इमे ह वै द्यावापृथिवी इमाः प्रजा उपजीवन्ति । तदनयोरेवैतद् द्यावापृथिव्यो रसं दधाति । ते रसवत्या ऽउपजीवनीये ऽइमाः प्रजा उपजीवन्ति । स वै “ओ३म्” इत्येव प्रतिगृणीयात् । तद्धि सत्यम् । तद्देवा विदुः ॥ १२ ॥
यत्रेति । ‘यत्र’ ‘द्यावापृथिव्यां शस्यते’ तत्र मदामो दैवेति त्रिः प्रतिगृणीयादित्यर्थः । अत एव कात्यायनः- “प्र द्यावा यज्ञैरित्येतासु मदामो दैवेति त्रिः प्रतिगरः”- (का. श्रौ. सू. १० । ११९) इति ।
सायणः
इत्थं प्रतिगरस्य कालादिकं विधाय तत्स्वरूपं विधत्ते- स वा ओमित्येवेति । तद्धि सत्यमिति । ‘तद्’ ‘ओम्’- इत्येतदक्षरं ‘सत्यम्’ अविनश्वरं ब्रह्मेति प्रसिद्धम् । ‘तद्’ ब्रह्म ‘देवाः’ ‘विदुः’ जानन्ति । तस्माद्ब्रह्मरूपत्वेन प्रशस्तत्वादोमिति तत्प्रतिगृणीयादित्यर्थः । अत एव तैत्तिरीयके उपासनाकाण्डे श्रूयते- “ओमिति ब्रह्म, ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति” (तै. आ. शी. व.) ॥ १२ ॥
Eggeling
- When (the hymn) to Heaven and Earth is recited 10. Now these creatures subsist on those two,
the heaven and the earth–he thereby imbues those two, heaven and earth, with vigour; and upon those two, thus vigorous and affording the means of subsistence, these creatures subsist. Let him respond with ‘Om!’ only, for that is truth, that the gods know.
१३
विश्वास-प्रस्तुतिः
(स्त) तद्धै᳘के॥
(क ऽओ᳘) ओ᳘थामो᳘ दैव व्वागि᳘ति प्र᳘तिगृणन्ति व्वा᳘क्प्रतिगर᳘ ऽएतद्वा᳘चमुपाप्नुम ऽइ᳘ति[[!!]] व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद्य᳘था वै क᳘था च प्रतिगृणात्यु᳘पाप्तै᳘वास्य व्वा᳘ग्भवति व्वाचा हि᳘ प्रतिगृणा᳘ति त᳘स्मादो ३ मि᳘त्येव प्र᳘तिगृणीयात्तद्धि᳘ सत्यं त᳘द्देवा᳘ व्विदुः॥
मूलम् - श्रीधरादि
(स्त) तद्धै᳘के॥
(क ऽओ᳘) ओ᳘थामो᳘ दैव व्वागि᳘ति प्र᳘तिगृणन्ति व्वा᳘क्प्रतिगर᳘ ऽएतद्वा᳘चमुपाप्नुम ऽइ᳘ति[[!!]] व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद्य᳘था वै क᳘था च प्रतिगृणात्यु᳘पाप्तै᳘वास्य व्वा᳘ग्भवति व्वाचा हि᳘ प्रतिगृणा᳘ति त᳘स्मादो ३ मि᳘त्येव प्र᳘तिगृणीयात्तद्धि᳘ सत्यं त᳘द्देवा᳘ व्विदुः॥
मूलम् - Weber
तद्धै᳘के॥
ओ᳘थामो᳘दैव वागि᳘ति प्र᳘तिगृणन्ति वा᳘क्प्रतिगर᳘ एतद्वा᳘चमु᳘पाप्नुम इ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद्य᳘था वै क᳘था च प्रतिगृणात्यु᳘पाप्तैॗवास्य वा᳘ग्भवति वाचा हि᳘ प्रतिगृणा᳘ति त᳘स्मादोमि᳘त्येव प्र᳘तिगृणीयात्तद्धि᳘ सत्यं त᳘द्देवा᳘ विदुः॥
मूलम् - विस्वरम्
तद्धैके- ओथामो दैव वागिति प्रतिगृणन्ति । वाक्प्रतिगरः । एतद्वाचमुपाप्नुम इति वदन्तः । तदु तथा न कुर्यात् । यथा वै कथा च प्रतिगृणाति- उपाप्तैवास्य वाग्भवति । वाचा हि प्रतिगृणाति । तस्माद् “ओ३म्” इत्येव प्रतिगृणीयात् । तद्धि सत्यम् । तद्देवा विदुः ॥ १३ ॥
प्रतिगरे केषाञ्चिच्छाखिनां सोपपत्तिकं मतं निराकर्तुमनुवदति- तद्धैक इत्यादि । एतत्तस्मिन्प्रतिगरे ‘ओथामो दैव वागिति प्रतिगृणन्ति’ ते चात्रेमामुपपत्तिं वदन्ति । ‘एतद्’ओथामो दैवेत्येतद्वाक्यं वाक् शब्दयुक्तत्वाद् ‘वाक्प्रतिगरः’ अतो ‘वाचम्’ प्राप्नुम इति ॥
सायणः
उपन्यस्तं मतं निराकृत्य स्वमतं निगमयति- तदु तथा न कुर्यादित्यादि । यथा वै कथा च । ‘यथा’ ‘कथा’ येन केन प्रकारेण प्रतिगृणीयात् । न तु वाक्छब्दयुक्तः प्रतिगर एवेति नियमः । यतो वाचैव प्रतिगरः कर्तव्यः । वाचमन्तरेण प्रतिगरयितुमशक्यत्वात् अतस्तेनैव ‘अस्य’ अध्वर्योः ‘वाक्’ ‘उपाप्ता’ ‘भवति’ । ‘तस्माद्’ ब्रह्मात्मकत्वेन प्रशस्तत्वाद् ‘ओ३म्’ इत्येव प्रतिगृणीयात् । कात्यायनस्तु अत्र निराकृतं वाक्प्रतिगरपक्षं शाखान्तरीयत्वाद्विकल्पेन सूत्रयामास- “ओथामो 11 दैवेति प्रतिगृणाति प्रणवावसानयोः, ओमिति वा, शस्त्रान्ते नित्यम्, वागन्तो वा पूर्वः- (का. श्रौ. सू. ९।२९४-२९७ ।) इति ॥ १३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे तृतीयाध्याये द्वितीयं ब्राह्मणम् ॥ (४-३-२) ॥
Eggeling
- Now some respond with ‘Othāmo daiva vāk,’ saying, ‘The response is speech (vāk): thus we obtain speech.’ But let him not do this; for surely, in whichsoever way he may respond, speech is obtained by him, since he responds by speech. Let him therefore respond with ‘Om 12!’ only, for that is truth, that the gods know.
-
325:2 Every chant or hymn (stotra) of the Udgātr̥s is followed by a ‘song of praise’ (śastra) recited by the Hotr̥ or one of his three assistants (Maitrāvaruṇa, Brāhmaṇāchaṁsin, and Achāvāka); the first two śastras at each savana being recited by the Hotr̥, and the three additional ones at the morning and midday feast by his assistants (Hotrakas). The exact correlation between the stotras and śastras at the three savanas will appear from the following table:– ↩︎
-
326:1 While the Adhvaryu sits before the Sadas, with his back to the Hotr̥ (p. 322, note 1), the latter performs the (tūshṇīm-) japa–i.e. the muttering of the formula ‘May Father Mātariśvan grant flawless (verse-) feet! may the bards sing flawless hymns!’ &c. Ait. Br. II, 38; Āśv. Śr. V, 9, 1–after which he addresses to the Adhvaryu his call (āhāva), ‘śõṁsāvõm (let us two recite, Om)!’–which formula is used at all śastras, except that, at the midday and evening libations, it is preceded by ‘Adhvaryo’ (O Adhvaryu); while at the evening savana the first syllable of the verb is repeated, thus ‘śośoṁsāvo.’–The Adhvaryu rises, turns round so as to face the Hotr̥, and responds by ‘śoṁsāmo daiva (we recite, O divine one)!’ According to Ait. Br. III, 12, the Āhāva and Pratigara together are to consist of the number of syllables corresponding to the metre of the respective libation, viz. 8, 11, 12 respectively. Then follows the Hotr̥s Tūshṇīṁ-śaṁsa or ‘silent praise;’ viz. ‘Earth! Agni is the light, the light is Agni, Om!–Indra is the light, Ether! the light is Indra, Om! Sūrya is the light, the light, Heaven! is Sūrya, Om!’–This is followed by a Puroruc, or preliminary invocation of a deity, recited in a loud voice, (and consisting of twelve short formulas resembling the Nivid part i, p. 114, note 2; ib. I, 4, 2, 5 seq.), which, indeed, takes its place in the śastras of the midday and evening libations, being inserted in the middle or before the last verse of the hymn of the śastra; viz. Agni kindled by the gods, Agni kindled by man, Agni the well-kindling, the Hotr̥ chosen by the gods, the Hotr̥ chosen by men, the carrier of offerings, the leader of sacrifices, the irresistible Hotr̥, the swift carrier of oblations: may he, the god, bring hither the gods! may Agni, the god, worship the gods! may (Agni), the knower of beings, perform the sacrificial rites!’ (Ait. Br. II, 34.) Then follows the hymn, the Ājya-sūkta, the chief part of the śastra, viz. Rig-veda III, 13, ‘To him, your god Agni, will I sing with loudest voice; may he come hither to us with the gods; may he, the best offerer, sit down on our sacred grass!’ &c. the seven (anushṭubh) verses of which are recited in the order 1, 5, 4, 6, 3, 2, 7. The first and last verses being, however, repeated thrice, the number is thus raised to eleven. The recitation of the hymn is followed by the so-called ukthavīrya (’the strength of the praise’), consisting of the formula ukthaṁ vāci, ‘praise hath been sung,’ with some words added to it differing at different śastras,–at the present śastra ‘ghoshāya tvā,’ ’thee (I have recited) for sound (praise)!’ [for school-differences as to these formulas, see Haug, Transl. Ait. Br. p. 177],–to which the Adhvaryu responds, ‘Om ukthasāḥ,’ ‘yea, singer of praise!’ The Ukthavīrya, together with the response, is again to consist of as many syllables as the characteristic metre of the respective libation. Then follows the recitation, by the Āgnīdhra (Ait. Br. VI, 14), of the yājyā or offering prayer, viz. Rig-veda III, 25, 4.–As regards the term ‘ājya,’ the Pañc. Br. VII, 2, 1, 2, derives it from āji, a race, in accordance with the following legend: When Prajāpati offered himself as a sacrifice to the gods, the latter could not agree as to which of them should have the first share. Prajāpati then proposed that they should run a race for it. In this race Agni came off first, then Mitravaruna, then Indra. To each of these three divinities an ājya was thereupon assigned; and, by a secret understanding between Indra and Agni, these two divided the fourth ājya between them. Hence the āgneya, maitrāvaruṇa, aindra, and aindrāgna śastra (and stotra), belonging to the Hotr̥, Maitrāvaruṇa, Brāhmaṇāchaṁsin, and Achāvāka priests respectively. ↩︎
-
328:1 That is, fashions him, or makes him slender. A fanciful derivation of śastra (śaṁs, to recite, praise, cf. carmen), from the root śā (śo), to sharpen (? or from śas, to cut, carve). ‘Yathāyam purovartī purushas tīkshṇakr̥taḥ, avaya(va)vibhāgena spashṭīkr̥tas tathā śastreṇaitad retaḥ śyati spashṭaṁ karoti,’ Sāy. ↩︎
-
328:2 Upanimadati, ‘cheers;’ the Kāṇva text (W.) has ‘upanivadati.’ ↩︎
-
328:3 Or, intoxication, intoxicating drink. See paragraph 10, and p. 330, note 1 ↩︎
-
329:1 Or perhaps, successful, saṁsiddhā [svakīyāny aksharāṇy aparityajyāvikr̥tā (? avikr̥ttā), Sāy.]. The response (pratigara) here alluded to, is probably the one ordinarily used by the Adhvaryu, whenever the Hotr̥ pauses in his recitation, at the end of half-verses (or pādas), nivids, &c., viz. ‘Othamo daiva,’–or, Othāvo daivom, whenever the Hotr̥ puts in the sacred syllable ‘om.’ ‘Tasmāt kāraṇād gāyatra-prātaḥsavane saṁsiddham avikr̥taṁ vidhāsyamānam omantam prati-gr̥hṇīyāt,’ Sāy. For the Adhvaryu’s response, ‘śaṁsāmo daiva,’ to the Hotr̥’s summons (āhāva), see p. 326, note 1. ↩︎
-
330:1 When the first verse of the trishṭubh hymn, Rig-veda X, 73, is recited by the Hotr̥ in the Marutvatīya Sastra at the midday feast, the Adhvaryu’s response is ‘madāmo daiva’ (we rejoice, O divine one). Kāty. X, 3, 8; cf. Weber, Ind. Stud. X, p. 37. ↩︎
-
330:2 According to Kāty. X, 6, 6 ‘madāmo daiva’ is optionally the Adhvaryu’s response at the recitation in the Āgnimārutra Śastra of three of the so-called Anupānīya (or Svādushkilīya) trishṭubh verses VI, 47, 1-4 (see note on IV, 4, 2, 18). Possibly the present paragraph may refer to those verses, in which case the words ‘when trishṭubh verses are recited’ would begin a fresh paragraph. Sāyaṇa, however, seems to take it in the same way as above; cf. also the Kāṇva reading in next note. ↩︎
-
see Kâtyây. ९. १३. २९. ↩︎
-
330:3 This is the (Jagatī) hymn I, 159 recited in the Vaiśvadeva Sastra. According to Kāty. X, 6, 5, the response is to be thrice (after each of the three first verses) ‘madāmo daiva.’ The Kāṇva has for paragraphs 10-12, ‘At the morning feast he responds by a complete (formula), for complete Gāyatrī returned. At the midday feast he responds once with one containing “mad,” when he recites trishṭubh verses, for she (Trishṭubh) returned leaving one syllable behind: hereby now he completes her, makes her whole. At the evening feast with something containing thrice “mad,” for she (Jagatī) returned leaving three syllables behind: hereby now he completes her, makes her whole. At the (hymn) to Heaven and Earth he responds with one that contains “mad;” when he recites (the hymn) Heaven and Earth–these creatures subsisting on those two, Heaven and Earth–he thereby puts juice into them, and upon those two, thus rendered juiceful, these creatures subsist. He responds with “Om,” for that is truth, that the gods know.’ ↩︎
-
“अभिहुतः शोँ सावेत्यावृत्त्य” इति सूत्रस्यादिः । ↩︎
-
331:1 That is, instead of ‘vāk,’ hence ‘Othāmo daivom.’ ‘Om’ pure and simple is the response at the end of the śastra. ↩︎