०१
विश्वास-प्रस्तुतिः
भक्षयित्वा᳘ समु᳘पहूताः स्म इ᳘त्युक्त्वो᳘त्तिष्ठति॥
पुरोडाशबृगल᳘मादा᳘य तद्य᳘त्रैतदु᳘पसन्नो ऽच्छावा᳘को ऽन्वा᳘ह त᳘दस्मै पुरोडाशबृगलं᳘ पाणा᳘वाद᳘धदाहा᳘च्छावाक व्व᳘दस्व य᳘त्ते व्वा᳘द्यमित्य᳘हीयत वा᳘ ऽअच्छावाकः[[!!]]॥
मूलम् - श्रीधरादि
भक्षयित्वा᳘ समु᳘पहूताः स्म इ᳘त्युक्त्वो᳘त्तिष्ठति॥
पुरोडाशबृगल᳘मादा᳘य तद्य᳘त्रैतदु᳘पसन्नो ऽच्छावा᳘को ऽन्वा᳘ह त᳘दस्मै पुरोडाशबृगलं᳘ पाणा᳘वाद᳘धदाहा᳘च्छावाक व्व᳘दस्व य᳘त्ते व्वा᳘द्यमित्य᳘हीयत वा᳘ ऽअच्छावाकः[[!!]]॥
मूलम् - Weber
भक्षयित्वा᳘ समु᳘पहूताः स्म इ᳘त्युक्त्वो᳘त्तिष्ठति॥
पुरोडाशबृगल᳘मादा᳘य तद्य᳘त्रैतदु᳘पसन्नो ऽछावाॗको ऽन्वा᳘ह त᳘दस्मै पुरोडाशबृगल᳘म् पाणा᳘वाद᳘धदाहा᳘छावाक व᳘दस्व य᳘त्ते वा᳘द्यमित्य᳘हीयत वा᳘ अछावाकः᳟॥
मूलम् - विस्वरम्
ऋतुग्रहाः ।
भक्षयित्वा ‘समुपहूताः स्मः’- इत्युक्त्वोत्तिष्ठति पुरोडाशबृगलमादाय । तद् यत्रैतदुपसन्नो ऽच्छावाको ऽन्वाह- तदस्मै पुरोडाशबृगलं पाणावादधदाह- ‘अच्छावाक ! वदस्व- यत्ते वाद्यम्’ इति । अहीयत वा ऽअच्छावाकः ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
द्वितीयाध्याये शुक्रामन्थ्यादिग्रहणादिकं प्रयोगजातमभिहितम्, अत्र तृतीयाध्याये सोमशेषभक्षणानन्तरभावि कर्तव्यमुपदिश्यते । तत्र तावदध्वर्युः सवनीयपुरोडाशशकलमच्छावाकस्य पाणौ प्रक्षिपेदिति विधत्ते- भक्षयित्वेत्यादि 1 । ‘पुरोडाशबृगलं’ पुरोडाशस्य शकलम् ‘आदाय’ ‘समुपहूताः स्मः’ इत्युक्त्वोत्तिष्ठेत् । सवनीयपुरोडाशभक्षणावसरे पुरोडाशस्य शकलमच्छावाकार्थं विधातव्यम् । अत एव कात्यायनः- “पुरोडाशमात्रामैन्द्रवायवे प्रास्यति पयस्यां मैत्रावरुण आश्विने धानाः” (का. श्रौ. सू. ९ । २४७) इति । अत्र समुपहूता इत्येतद्वचनं सोमशेषभक्षणार्थे अनुज्ञाते प्रयुज्यते । तथा च सति सोमस्य तृप्तिहेतुत्वात्तत्प्रयोगेण सोमशेषभक्षणानुज्ञानार्थेन त्वेषां सोमशेषभक्षणसूचनान्मनोहर्षप्रकटनं कृतं भवति । सोमभक्षणस्य तृप्त्यर्थत्वं “वाग् जुषाणा सोमस्य तृप्यतु हिन्व मे गात्रा हरिवः” इत्येवमादिना ऽवगम्यते । उत्थितश्च ‘यत्र’ यस्मिन्प्रदेशे ‘उपसन्नो ऽच्छावाकः’ ‘तत्’ ‘एतत्’ निगदस्वरूपमन्वाह । तत्र ‘अस्मै’ अस्य अच्छावाकस्य ‘पाणौ’ पुरोडाशशकलं प्रक्षिपन् ‘अच्छावाक !’ ‘वदस्व’ ‘यत्ते वाद्यम्’ इति ब्रूयादित्यर्थः 2 । पाणौ पुरोडाशशकलप्रक्षेपस्य निगदानुवचनार्थस्य च संप्रैषस्य कारणमाह- अहीयत वा ऽअच्छावाक इत्यादिना । मैत्रावरुणादीनां होत्रकाणां यागसमये अच्छावाकस्याभावात्तेभ्यः ‘अहीयत’ हीनो ऽपच्छिन्नो ऽभूत् ॥ १ ॥
Eggeling
- Having drunk (Soma) 3 and said, ‘We are
invited together 4,’ he (the Adhvaryu) rises. He takes a piece of the cake, and at the place where the Achāvāka, being seated, is now (about to) recite, he puts the piece of cake in his hand and says, ‘O Achāvāka, say what thou hast to say!’ Now, the Achāvāka was excluded (from the Soma) 5.
०२
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘मिन्द्राग्नी᳘ ऽअनुस᳘मतनुताम्॥
(म्प्र) प्रजा᳘नां प्र᳘जात्यै त᳘स्मादैन्द्रा᳘ग्नो ऽच्छावाकः स᳘ ऽएते᳘न च हवि᳘षा य᳘दस्मा ऽएत᳘त्पुरोडाशबृगलं᳘ पाणा᳘वाद᳘धात्येते᳘न चार्षेये᳘ण य᳘देत᳘दन्वा᳘ह ते᳘नानुस᳘मश्नुते॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘मिन्द्राग्नी᳘ ऽअनुस᳘मतनुताम्॥
(म्प्र) प्रजा᳘नां प्र᳘जात्यै त᳘स्मादैन्द्रा᳘ग्नो ऽच्छावाकः स᳘ ऽएते᳘न च हवि᳘षा य᳘दस्मा ऽएत᳘त्पुरोडाशबृगलं᳘ पाणा᳘वाद᳘धात्येते᳘न चार्षेये᳘ण य᳘देत᳘दन्वा᳘ह ते᳘नानुस᳘मश्नुते॥
मूलम् - Weber
त᳘मिन्द्राग्नी᳘ अनुस᳘मतनुताम्॥
प्रजा᳘नाम् प्र᳘जात्यै त᳘स्मादैन्द्राॗग्नो ऽछावाकः स᳘ एते᳘न च हवि᳘षा य᳘दस्मा एत᳘त्पुरोडाशबृगल᳘म् पाणा᳘वाद᳘धात्येते᳘न चार्षेये᳘ण य᳘देत᳘दन्वा᳘ह ते᳘नानुस᳘मश्नुते॥
मूलम् - विस्वरम्
तमिन्द्राग्नी ऽअनुसमतनुतां प्रजानां प्रजात्यै । तस्मादैन्द्राग्नो ऽच्छावाकः । स एतेन च हविषा यदस्मा ऽएतत्पुरोडाशबृगलं पाणावादधाति, एतेन चार्षेयेण- यदेतदन्वाह- तेनानुसमश्नुते ॥ २ ॥
सायणः
तम् अपच्छिन्नमच्छावाकम् ‘इन्द्राग्नी अनुसमतनुताम्’ तैः सह संयोजयामासतुः । तत्र संयोजनमिन्द्राग्निसम्बन्धादच्छावाकस्य मिथुनत्वे ‘प्रजानां’ ‘प्रजात्यै’ उत्पत्त्यै भवति । ‘तस्मात्’ ‘अच्छावाकः’ ‘ऐन्द्राग्नः’ इन्द्राग्निदेवताकः । न केवलं वचनमात्रेणैन्द्राग्नः; किन्तु ‘यत्’ ‘एतत्पुरोडाशबृगलं पाणावादधाति ‘एतेन च’ यदेतदच्छावाकः अग्निमित्यादिनिगदस्वरूपमन्वाह ‘एतेन’ ‘आर्षेयेण’ ऋषिर्वेदस्तत्सम्बन्धिना निगदात्मकेन मन्त्रेण चैन्द्राग्नः । तस्मिन्निगदे “इन्द्राग्निभ्यां सोमं वोचत”- इति श्रूयमाणत्वात् । पुरोडाशशकलं धृत्वा इन्द्राग्निप्रतिपादकस्य निगदस्यानुवचनात् पुरोडाशशकलधारणेनाप्यैन्द्राग्नः । ‘तेन’ ऐन्द्राग्ननिगदानुवचनेन ‘अनुसमश्नुते’ पश्चादपच्छिन्नो ऽपि पुनस्तैर्होत्रकैः सङ्गतो भवतीत्यर्थः ॥ २ ॥
Eggeling
- Indra and Agni preserved him for the production of creatures, whence the Achāvāka priest belongs to Indra and Agni. But it is by means of that sacrificial food, the piece of cake which he now puts in his hand, and by means of that (saying) of the seers which he now recites, it is thereby they (Indra and Agni) preserve him.
०३
विश्वास-प्रस्तुतिः
स वै᳘ स᳘न्ने ऽच्छावाके᳘॥
(क ऽ) ऋतुग्रहै᳘श्चरति तद्य᳘त्स᳘न्ने ऽच्छावाक᳘ ऽऋतुग्रहैश्च᳘रति मिथुनं वा᳘ ऽअच्छावाक᳘ ऽऐन्द्राग्नो᳘ ह्यच्छावाको[[!!]] द्वौ᳘ हीन्द्राग्नी᳘ द्वन्द्वᳫँ᳭ हि᳘ मिथुनं᳘ प्रजननᳫँ᳭[[!!]] स᳘ ऽएत᳘स्मान्मिथुना᳘त्प्रज᳘ननादृतू᳘न्त्संव्वत्सरं प्र᳘जनय᳘ति॥
मूलम् - श्रीधरादि
स वै᳘ स᳘न्ने ऽच्छावाके᳘॥
(क ऽ) ऋतुग्रहै᳘श्चरति तद्य᳘त्स᳘न्ने ऽच्छावाक᳘ ऽऋतुग्रहैश्च᳘रति मिथुनं वा᳘ ऽअच्छावाक᳘ ऽऐन्द्राग्नो᳘ ह्यच्छावाको[[!!]] द्वौ᳘ हीन्द्राग्नी᳘ द्वन्द्वᳫँ᳭ हि᳘ मिथुनं᳘ प्रजननᳫँ᳭[[!!]] स᳘ ऽएत᳘स्मान्मिथुना᳘त्प्रज᳘ननादृतू᳘न्त्संव्वत्सरं प्र᳘जनय᳘ति॥
मूलम् - Weber
स वै᳘ सॗन्ने ऽछावाके᳟॥
ऋतुग्रहै᳘श्चरति तद्य᳘त्सॗन्ने ऽछावाक᳘ ऋतुग्रहैश्च᳘रति मिथुनं वा᳘ अछावाक᳘ ऐन्द्राग्नो ह्य᳘छावाको द्वौॗ हीन्द्राग्नी᳘ द्वन्द्वᳫं हि᳘ मिथुन᳘म् प्रज᳘ननᳫं स एत᳘स्मान्मिथुना᳘त्प्रज᳘ननादृतू᳘न्त्संवत्सरं प्र᳘जनयति॥
मूलम् - विस्वरम्
स वै सन्ने ऽच्छावाके ऋतुग्रहैश्चरति । तद् यत्सन्ने ऽच्छावाक ऽऋतुग्रहैश्चरति । मिथुनं वा ऽअच्छावाकः । ऐन्द्राग्नो ह्यच्छावाकः । द्वौ हीन्द्राग्नी । द्वंद्वं हि मिथुनं प्रजननम् । स एतस्मान्मिथुनात्प्रजननादृतून्त्संवत्सरं प्रजनयति ॥ ३ ॥
सायणः
अच्छावाककर्तृकयागस्यानन्तरकालमृतुग्रहाणां यागं विधत्ते- स वै सन्ने ऽच्छावाक इत्यादि । ‘सन्न’ इति सदनस्य यागार्थत्वात् कृतयाग इत्यर्थः । विहितमृतुग्रहयागकालं संवत्सरोत्पत्तिसाधनत्वेन प्रशंसति- तद्यत्सन्ने ऽच्छावाक इत्यादि । स एतस्मादिति । ‘सः’ अध्वर्युः ‘एतस्मात्’ ‘प्रजननात्’ प्रजोत्पत्तिसाधनाच्छावाकरूपात् ‘मिथुनात्’ ‘ऋतून्’ ‘संवत्सरं’ कृत्वा ऋत्वात्मकं संवत्सरमुत्पादितवान् भवतीत्यर्थः ॥ ३ ॥
Eggeling
- When the Achāvāka has (again) taken his seat
(behind his hearth), he (his Adhvaryu) proceeds with the libations of the seasons (R̥tugraha). The reason why he proceeds with the libations of the seasons when the Achāvāka is seated, is that the Achāvāka represents a sexual union, since the Achāvāka belongs to Indra and Agni, and Indra and Agni are two, and a productive union means a pair: from that same productive union he produces the seasons, the year.
०४
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ स᳘न्ने ऽच्छावाके᳘॥
(क ऽ) ऋतुग्रहै᳘श्च᳘रति स᳘र्व्वं वा᳘ ऽऋत᳘वः संव्वत्सरः स᳘र्व्वमे᳘वैतत्प्र᳘जनयति त᳘स्मात्स᳘न्ने ऽच्छावाक᳘ ऽऋतुग्रहै᳘श्चरति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ स᳘न्ने ऽच्छावाके᳘॥
(क ऽ) ऋतुग्रहै᳘श्च᳘रति स᳘र्व्वं वा᳘ ऽऋत᳘वः संव्वत्सरः स᳘र्व्वमे᳘वैतत्प्र᳘जनयति त᳘स्मात्स᳘न्ने ऽच्छावाक᳘ ऽऋतुग्रहै᳘श्चरति॥
मूलम् - Weber
य᳘द्वेव᳘ सॗन्ने ऽछावाके᳟॥
ऋतुग्रहैश्च᳘रति स᳘र्वं वा᳘ ऋत᳘वः संवत्सरः स᳘र्वमेॗवैतत्प्र᳘जनयति त᳘स्मात्सॗन्ने ऽछावाक᳘ ऋतुग्रहै᳘श्चरति॥
मूलम् - विस्वरम्
यद्वेव सन्ने ऽच्छावाके ऋतुग्रहैश्चरति । सर्वं वा ऽऋतवः संवत्सरः । सर्वमेवैतत्प्रजनयति । तस्मात्सन्ने ऽच्छावाक ऽऋतुग्रहैश्चरति ॥ ४ ॥
सायणः
पुनरपि तमेव कालं सर्वोत्पत्तिहेतुत्वेन प्रशंसति- यद्वेव सन्ने ऽच्छावाक इत्यादि । सर्वं वा ऋतवः संवत्सर इति । ऋत्वात्मकस्य संवत्सरस्य सर्वोत्पत्तिनिमित्तकारणत्वात्सर्वात्मकत्वम् ॥ ४ ॥
Eggeling
- And again why he proceeds with the libations of the seasons, when the Achāvāka is seated. The seasons, the year, are everything; he thus produces everything: this is why he proceeds with the libations of the seasons when the Achāvāka is seated.
०५
विश्वास-प्रस्तुतिः
तान्वै द्वा᳘दश गृह्णीयात्॥
(द्द्वा᳘) द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य त᳘स्माद्द्वा᳘दश गृह्णीयाद᳘थो ऽअ᳘पि त्र᳘योदश गृह्णीयाद᳘स्ति त्रयोदशो मा᳘स इ᳘ति द्वा᳘दश᳘ त्वेव᳘ गृह्णीयादे᳘षैव᳘ सम्प᳘त्॥
मूलम् - श्रीधरादि
तान्वै द्वा᳘दश गृह्णीयात्॥
(द्द्वा᳘) द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य त᳘स्माद्द्वा᳘दश गृह्णीयाद᳘थो ऽअ᳘पि त्र᳘योदश गृह्णीयाद᳘स्ति त्रयोदशो मा᳘स इ᳘ति द्वा᳘दश᳘ त्वेव᳘ गृह्णीयादे᳘षैव᳘ सम्प᳘त्॥
मूलम् - Weber
तान्वै द्वा᳘दश गृह्णीयात्॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य त᳘स्माद्द्वा᳘दश गृह्णीयाद᳘थो अ᳘पि त्र᳘योदश गृह्णीयाद᳘स्ति त्रयोदशो मा᳘स इ᳘ति द्वा᳘दशॗ त्वेव᳘ गृह्णीयादेॗषैव᳘ सम्प᳘त्॥
मूलम् - विस्वरम्
तान्वै द्वादश गृह्णीयात् । द्वादश वै मासाः संवत्सरस्य । तस्माद्द्वादश गृह्णीयात् । अथो ऽअपि त्रयोदश गृह्णीयात्- अस्ति त्रयोदशो मास इति । द्वादश त्वेव गृह्णीयाद्- एषैव सम्पत् ॥ ५ ॥
सायणः
“ऋतुग्रहैश्चरति” इति सङ्ख्याविशेषानुपादानन सामान्येन विधानादत्र ग्रहाणां सङ्ख्याविशेषं विधत्ते- तान्वै द्वादश गृह्णीयादित्यादि 6 । द्वादश वै मासा इति । ऋतुग्रहाणामृतुरूपसंवत्सरात्मकत्वात्संवत्सरावयवभूतमासगतद्वादशत्वसङ्ख्यैतेषां ग्रहाणां युज्यत इत्यर्थः । अत्रैव पक्षान्तरं सोपपत्तिकमाह- अथो अपीति । ‘अथो’ ‘अपि’ इत्ययं निपातसमुदायः पक्षान्तरे । ‘त्रयोदशः’ अधिको मासः ‘अस्ति’ इति हेतोः ‘त्रयोदश’ ग्रहान् ‘गृह्णीयात्’ । अधिकमासलक्षणमप्यत्र दर्शितम्- “असङ्क्रान्तावेकवर्षे द्वौ चत्संसर्प्य आदितः । क्षयमासो द्विसङ्क्रान्तः स बार्हस्पत्यसंज्ञकः ॥” इति । पूर्वमभिहितो द्वादशपक्ष एवानुष्ठेय इत्याह- द्वादश त्वेवेत्यादि । यदेतद् द्वादशानां ग्रहणम् ‘एषैव’ ‘संपत्’ सम्पत्तिः पर्याप्तमित्यर्थः । अत्रायमभिप्रायः- चान्द्रमासपक्षे मासाधिक्यं भवति, सौरमासपक्षे तु मेषादिराशीनां द्वादशत्वाद्द्वादशैव मासा इति तत्रैवाधिको मासो ऽन्तर्भवतीति द्वादशपक्ष एव पर्यात इति, एष च पक्षो लाघवमपेक्षमाणस्य नियम्यते । त्रयोदशमपि ग्रहीतुं यदीच्छेत्तदा त्रयोदशमपि गृह्णीयादेव । अनेनैवाभिप्रायेण कात्यायनेन सूत्रितम्- “त्रयोदशं गृह्णीयादिच्छन्” (का. श्रौ. सू. ९ । २८३) इति ॥ ५ ॥
Eggeling
- Let him draw twelve of them,–twelve months there are. in the year: therefore he should draw twelve (cups of Soma). But he may also draw thirteen, for, they say, there is a thirteenth month 7. Let him nevertheless draw twelve only, for such is completeness.
०६
विश्वास-प्रस्तुतिः
(द्द्रो) द्रोणकलशा᳘द्गृह्णाति॥
प्रजा᳘पतिर्व्वै᳘ द्रोणकलशः स᳘ ऽएत᳘स्मात्प्रजा᳘पतेर्ऋतू᳘न्त्संव्वत्सरं प्र᳘जनयति॥
मूलम् - श्रीधरादि
(द्द्रो) द्रोणकलशा᳘द्गृह्णाति॥
प्रजा᳘पतिर्व्वै᳘ द्रोणकलशः स᳘ ऽएत᳘स्मात्प्रजा᳘पतेर्ऋतू᳘न्त्संव्वत्सरं प्र᳘जनयति॥
मूलम् - Weber
द्रोणकलशा᳘द्गृह्णाति॥
प्रजा᳘पतिर्वै᳘ द्रोणकलशः स᳘ एत᳘स्मात्प्रजा᳘पतेरृतू᳘न्त्संवत्सरम् प्र᳘जनयति॥
मूलम् - विस्वरम्
द्रोणकलशाद् गृह्णाति । प्रजापतिर्वै द्रोणकलशः । स एतस्मात्प्रजापतेर्ऋऋतून्संवत्सरं प्रजनयति ॥ ६ ॥
सायणः
ध्रुवग्रहग्रहणानन्तरं धाराया विरतत्वादुक्तसङ्ख्याकानृतुग्रहान्- द्रोणकलशाद्गृह्णातीति । अधाराग्रहाणां द्रोणकलशाद्ग्रहणमापस्तम्बेन सूत्रितम्- “द्रोणकलशादधारा ग्रहाः परिप्लवेया गृह्यन्ते”- इति । प्रजापतिर्वै द्रोणकलश इति । ‘प्रजापतिः’ समस्तस्य जगतः कारणम् । द्रोणकलशमपि सर्वेषां ग्रहाणां कारणम्, तत एव तेषां ग्रहणात् । तस्माद् ‘द्रोणकलशः’ प्रजापतिरूपः । अतः प्रजापत्यात्मकात् ‘द्रोणकलशात्’ ऋतुग्रहाणां ग्रहणे प्रजापतेः सकाशादेवर्त्वात्मकं ‘संवत्सरम्’ उत्पादितवान्भवतीत्यर्थः ॥ ६ ॥
Eggeling
- He draws them from the Droṇakalaśa (Soma trough), for the Droṇakalaśa is Prajāpati, and from out of that Prajāpati he produces the seasons, the year.
०७
विश्वास-प्रस्तुतिः
(त्यु) उभय᳘तोमुखाभ्यां पा᳘त्राभ्यां गृह्णाति॥
कु᳘तस्त᳘योर᳘न्तो ये᳘ ऽउभय᳘तोमुखे त᳘स्मादय᳘मनन्तः᳘ संव्वत्सरः प᳘रिप्लवते तं᳘ गृहीत्वा न᳘ सादयति त᳘स्मादयम᳘सन्नः संव्वत्सरः᳘॥
मूलम् - श्रीधरादि
(त्यु) उभय᳘तोमुखाभ्यां पा᳘त्राभ्यां गृह्णाति॥
कु᳘तस्त᳘योर᳘न्तो ये᳘ ऽउभय᳘तोमुखे त᳘स्मादय᳘मनन्तः᳘ संव्वत्सरः प᳘रिप्लवते तं᳘ गृहीत्वा न᳘ सादयति त᳘स्मादयम᳘सन्नः संव्वत्सरः᳘॥
मूलम् - Weber
उभय᳘तोमुखाभ्याम् पा᳘त्राभ्यां गृह्णाति॥
कु᳘तस्त᳘योर᳘न्ता ये᳘ उभय᳘तोमुखे त᳘स्मादय᳘मन्तः᳘ संवत्सरः प᳘रिप्लवते तं᳘ गृहीत्वा न᳘ सादयति त᳘स्मादयम᳘सन्नः संवत्सरः॥
मूलम् - विस्वरम्
उभयतोमुखाभ्यां पात्राभ्यां गृह्णाति । कुतस्तयोरन्तो- ये ऽउभयतोमुखे । तस्मादयमनन्तः संवत्सरः परिप्लवते । तं गृहीत्वा न सादयति । तस्मादयमसन्नः संवत्सरः ॥ ७ ॥
सायणः
ग्रहणसाधने पात्रे उभयतोमुखे भवत इत्याह- उभयतोमुखाभ्यां पात्राभ्यां गृह्णातीति । उभयतोमुखत्वस्य प्रयोजनमाह- कुतस्तयोरन्त इत्यादि । ऋतुग्रहणपात्रयोरुभयतोमुखत्वे पृष्ठभागरूपस्यावसानस्याभावादृतुग्रहात्मकः ‘संवत्सरः’ अपि ‘अनन्तः’ अनवसानः सन् पर्यावर्तते । ग्रहणानन्तरं ग्रहवत् प्राप्तं खरे सादनं निषेधति- तं गृहीत्वा न सादयतीति । तस्मादिति । ‘तस्मात्’ असादनात् ‘अयं’ ‘संवत्सरः’ ‘असन्नः’ अविरतो वर्तते ॥ ७ ॥
Eggeling
- He draws them by means of double-mouthed cups 8;–for where is the end of those two (cups) that are double-mouthed? Hence this year revolves without end. When he has drawn this (libation), he does not deposit it: whence this year is ceaseless.
०८
विश्वास-प्रस्तुतिः
(रो᳘) नानुवा᳘क्याम᳘न्वाह॥
ह्व᳘यति वा᳘ ऽअनुवा᳘क्यया᳘ ऽऽगतो᳘[[!!]] ह्ये᳘वाय᳘मृतुर्य᳘दि दि᳘वा य᳘दि[[!!]] न᳘क्तं᳘ नानु व᳘षट्करोति ने᳘दृतू᳘नपवृण᳘जा ऽइ᳘ति स᳘हैव᳘ प्रथ᳘मौ ग्र᳘हौ गृह्णीतः᳘ स᳘होत्तमा᳘विद᳘मे᳘वैतत्स᳘र्व्वᳫँ᳭ संव्वत्सरे᳘ण प᳘रिगृह्णीतस्त᳘दिदᳫं᳭ स᳘र्व्वᳫं᳭ संव्वत्सरे᳘ण प᳘रिगृहीतम्॥
मूलम् - श्रीधरादि
(रो᳘) नानुवा᳘क्याम᳘न्वाह॥
ह्व᳘यति वा᳘ ऽअनुवा᳘क्यया᳘ ऽऽगतो᳘[[!!]] ह्ये᳘वाय᳘मृतुर्य᳘दि दि᳘वा य᳘दि[[!!]] न᳘क्तं᳘ नानु व᳘षट्करोति ने᳘दृतू᳘नपवृण᳘जा ऽइ᳘ति स᳘हैव᳘ प्रथ᳘मौ ग्र᳘हौ गृह्णीतः᳘ स᳘होत्तमा᳘विद᳘मे᳘वैतत्स᳘र्व्वᳫँ᳭ संव्वत्सरे᳘ण प᳘रिगृह्णीतस्त᳘दिदᳫं᳭ स᳘र्व्वᳫं᳭ संव्वत्सरे᳘ण प᳘रिगृहीतम्॥
मूलम् - Weber
नानुवाॗक्याम᳘न्वाह॥
ह्व᳘यति वा᳘ अनुवाक्य᳘या᳘गतोॗ ह्येॗवाय᳘मृतुर्य᳘दि दि᳘वा य᳘दिॗ न᳘क्तं नानुव᳘षट्करोति ने᳘दृतू᳘नववृण᳘जा इ᳘ति सॗहैव᳘ प्रथमौ ग्र᳘हौ गृह्णीतः᳘ सॗहोत्तमा᳘विद᳘मेॗवैतत्स᳘र्वᳫं संवत्सरे᳘ण प᳘रिगृह्णीतस्त᳘दिदᳫं स᳘र्वᳫं संवत्सरे᳘ण प᳘रिगृहीतम्॥
मूलम् - विस्वरम्
नानुवाक्यामन्वाह । ह्वयति वा ऽअनुवाक्यया । आगतो ह्येवायमृतुः । यदि दिवा । यदि नक्तम् । नानु वषट् करोति- नेदृतूनपवृणजा ऽइति । सहैव प्रथम ग्रहौ गृहीतः । सहोत्तमौ । इदमेवैतत्सर्वं संवत्सरेण परिगृह्णीतः । तदिदं सर्वं संवत्सरेण परिगृहीतम् ॥ ८ ॥
सायणः
ग्रहणावसरे कर्तव्यामनुवाक्यां सोपपत्तिकं निषेधति- नानुवाक्यामित्यादि । अनुवाक्या ऽनुवचनं हविः- स्वीकाराय देवताह्वानार्थं भवति, प्रकृतग्रहाणां तु देवता ऋत्वात्मिका, ‘ऋतुः’ च ‘यदि’ ‘दिवा’ ‘यदि’ वा ‘नक्तं’ भवति; तदा सर्वदा ‘आगतः’ ‘एव’ । ऋत्वन्तर्भूतस्याहोरात्रस्याभावात् । तस्मात्तदाह्वानार्थम् ‘अनुवाक्या’ अनुवाचनीयं न करणीयमित्यर्थः ।
सर्वेष्वपि ग्रहेषु वषट्कारानन्तरं “सोमस्याग्नेर्वीही वौषट्”- इत्यनेन पुनरपि स्विष्टकृदर्थं हविःशेषो हूयते सो ऽनुवषट्कारः; तमत्र प्राप्तं निषेधति 9- नानु वषट् करोतीत्यादि । अनुवषट्कारस्याकरणे अयमभिप्रायः ‘नेदृतूनपवृणजै’ अपवर्जयानीति । अनुवषट्कारे कृते देवतान्तरस्य स्विष्टकृतो ऽग्नेः स्वीकारात् प्रकृता ऋत्वात्मिका देवताः परित्यक्ताः स्युः, तथा मा भूदिति । अथवा अनुवषट्कारस्य यागावसानरूपत्वात्तस्मिन्नृतूनामप्यवसानं स्यात्, अतस्तन्मा भूदिति नानुवषट्कारं कुर्यादित्यर्थः । प्रथम द्वितीययोरेकादशद्वादशयोश्च सह ग्रहणं विधत्ते- सहैवेत्यादि 10 । द्वितीयस्यापि प्रथमसन्निकर्षात् प्रथमत्वमुपचर्यते, तथैकादशस्याप्युत्तमत्वम् । अनेन प्रथमोत्तमानां सहग्रहणविधानेनैव मध्यपातिनां ग्रहाणां पर्यायेण ग्रहणमित्यवसीयते । सहग्रहणस्य कारणमाह- इदमेवैतदित्यादि । तदेतेन सहग्रहणेन अध्वर्युप्रतिप्रस्थातारौ ‘इदमेव’ ‘सर्वं’ जगत् संवत्सरेण ‘परिगृह्णीतः’ परितो गृह्णीतः । ‘तत्’ तस्मात् ‘इदं सर्वम्’ ‘संवत्सरेण’ ‘परिगृहीतम्’ परितो व्याप्तं दृश्यते । अत एव तत्सर्वं संवत्सरेण परिगृहीतं परितो व्याप्तं दृश्यते, तस्मात्तत्सिद्धये आदावन्ते च सह गृह्णीयातामित्यर्थः ।
ननु चात्र संवत्सरग्रहणं संवत्सरेण सर्वस्य परिग्रहणे हेतुत्वेनोपन्यस्तम्, तथा परिग्रहणमपि सहग्रहणस्य हेतुत्वेनोपन्यस्तमित्यन्योन्याश्रयणाद्विरोध इति चेत्, न । कारकज्ञापकयोर्हेतुहेतुमद्भाववैपरीत्यमनुकूलमेव न तु प्रतिकूलम्, यथा धूमस्याग्निः कारकहेतुः, अग्नेव धूमो ज्ञापकहेतुरिति । तद्वदत्रापि ग्रहयोः सहग्रहणं कारकहेतुः, संवत्सरेण जगतः परिग्रहणं ज्ञापकहेतुरित्यविरोधः । एवमेतादृशेषु विषयेषु सर्वत्रावगन्तव्यम् ॥ ८ ॥
Eggeling
- He recites no invitatory prayer; since one
invites with an invitatory prayer, and the present season has already come, either by day or by night. Nor does he utter a second Vashaṭ, lest he should turn away the seasons. Simultaneously they (the Adhvaryu and Pratiprasthātr̥) draw the two first and the two last libations: thus they embrace everything here by means of the year, and everything here is embraced within the year.
०९
विश्वास-प्रस्तुतिः
(तन्नि᳘) नि᳘रे᳘वान्यतरः क्रा᳘मति᳘॥
प्रान्यतरः᳘ पद्यते त᳘स्मादि᳘मे ऽन्व᳘ञ्चो मा᳘सा यन्त्य᳘थ य᳘दुभौ᳘ वा सह᳘ निष्क्रा᳘मेतामुभौ᳘ वा सह᳘ प्रप᳘द्येयातां पृ᳘थगु है᳘वेमे मा᳘सा ऽईयुस्त᳘स्मान्नि᳘रे᳘वान्यतरः क्रा᳘मति᳘ प्रान्यतरः᳘ प्रद्यते॥
मूलम् - श्रीधरादि
(तन्नि᳘) नि᳘रे᳘वान्यतरः क्रा᳘मति᳘॥
प्रान्यतरः᳘ पद्यते त᳘स्मादि᳘मे ऽन्व᳘ञ्चो मा᳘सा यन्त्य᳘थ य᳘दुभौ᳘ वा सह᳘ निष्क्रा᳘मेतामुभौ᳘ वा सह᳘ प्रप᳘द्येयातां पृ᳘थगु है᳘वेमे मा᳘सा ऽईयुस्त᳘स्मान्नि᳘रे᳘वान्यतरः क्रा᳘मति᳘ प्रान्यतरः᳘ प्रद्यते॥
मूलम् - Weber
नि᳘रेॗवान्यतरः क्रामति᳟᳟॥
प्रान्यतरः᳘ पद्यते त᳘स्मादिॗमे ऽन्व᳘ञ्चो मा᳘सा यन्त्य᳘थ य᳘दुभौ᳘ वा सह᳘ निष्क्रा᳘मेतामुभौ᳘ वा सह᳘ प्रप᳘द्येयाताम् पृ᳘थगु हैॗवेमे मा᳘सा ईयुस्त᳘स्मान्नि᳘रेॗवान्यतरः क्रा᳘मतिॗ प्रान्यतरः᳘ पद्यते॥
मूलम् - विस्वरम्
निरेवान्यतरः क्रामति, प्रान्यतरः पद्यते । तस्मादिमे ऽन्वञ्चो मासा यन्ति । अथ यदुभौ वा सह निष्क्रामेताम्, उभौ वा सह प्रपद्येयाताम्- पृथगु हैवेमे मासा ईयुः । तस्मान्निरेवान्यतरः क्रामति, प्रान्यतरः पद्यते ॥ ९॥
सायणः
अध्वर्युप्रतिप्रस्थात्रोर्निष्क्रमणं प्रवेशश्च पर्यायेण कर्तव्यावित्याह- निरेवान्यतरः क्रामतीत्यादि 11 । ‘अन्यतरः’ ‘निष्क्रामति’ ‘अन्यतरश्च प्रपद्यते’ प्रविशति । तस्मादिति । यत एवं पर्यायेण ऋतुग्रहणं निष्क्रमणं प्रवेशश्च सम्भवति, ‘तस्मात्’ तदात्मका ‘मासाः’ अपि ‘अन्वञ्चः’ अनु पर्यायेणाञ्चन्ति गच्छन्तीत्यन्वञ्चः तादृशा भवन्ति । विपक्षे बाधं प्रदर्श्योक्तमेव निष्क्रमणप्रवेशप्रकारं द्रढयति- यदुभौ वा सह निष्क्रामेतामित्यादि । पृथगु हैवेति । ‘इमे’ ‘मासाः’ ‘पृथगेव’ ‘ईयुः’ । परस्परमसम्बद्धा ‘एव’ भवेयुरित्यर्थः ॥ ९ ॥
Eggeling
- Out (of the Havirdhāna shed) walks the one, in steps the other, whence these months pass following one another. But were both to walk out together, or were both to enter together, these months would assuredly pass separated one from the other: therefore while out walks the one, in steps the other.
१०
विश्वास-प्रस्तुतिः
तौ वा᳘ ऽऋतुने᳘ति षट् प्र᳘चरतः॥
(स्त᳘) त᳘द्देवा अ᳘हर᳘सृजन्त ऽर्तु᳘भिरि᳘ति चतुस्तद्रा᳘त्रिमसृजन्त स य᳘द्धैता᳘वदेवा᳘भविष्यद्रा᳘त्रिर्है᳘वाभविष्यन्न व्य᳘वत्स्यत्॥
मूलम् - श्रीधरादि
तौ वा᳘ ऽऋतुने᳘ति षट् प्र᳘चरतः॥
(स्त᳘) त᳘द्देवा अ᳘हर᳘सृजन्त ऽर्तु᳘भिरि᳘ति चतुस्तद्रा᳘त्रिमसृजन्त स य᳘द्धैता᳘वदेवा᳘भविष्यद्रा᳘त्रिर्है᳘वाभविष्यन्न व्य᳘वत्स्यत्॥
मूलम् - Weber
तौ वा᳘ ऋतुने᳘ति षट् प्र᳘चरतः॥
त᳘द्देवा अ᳘हर᳘सृजन्तर्तु᳘भिरि᳘ति चतुस्तद्रा᳘त्रिमसृजन्त स य᳘द्धैता᳘वदेवा᳘भविष्यद्रा᳘त्रिर्है᳘वाभविष्यन्न व्य᳘यवत्स्यत्॥
मूलम् - विस्वरम्
तौ वा ऽऋतुनेति षट् प्रचरतः । तद् देवा अहरसृजन्त । ऋतुभिरिति चतुः । तद्रात्रिमसृजन्त । स यद्धैतावदेवाभविष्यद्- रात्रिर्हैवाभविष्यत्- न व्यवत्स्यत् ॥ १० ॥
सायणः
यागकाले अध्वर्युप्रतिप्रस्थात्रोः प्रैषमन्त्रानुत्पादयन्नहोरात्रसृष्टिहेतुत्वेन तान् प्रशंसति- तौ वा ऋतुनेत्यादि 11 । ‘तौ’ अध्वर्युप्रतिप्रस्थातारौ ‘ऋतुना’ प्रेष्येति ‘षट्’ कृत्वः प्रचरतः । अत एव तैत्तिरीयके श्रूयते- “ऋतुना प्रेष्येति षट्कृत्व आह”- (तै. सं. ६ । ५ । ३ । २) इति । अत्र प्रथमतृतीयपञ्चमेष्वध्वर्युः प्रचरेत्, द्वितीयचतुर्थषष्ठेषु प्रतिप्रस्थाता प्रचरेदित्येवं षट्कृत्वः प्रचरणम् । ‘तत्’ तेन ऋतुना प्रेष्येत्यनेन च षट्कृत्वः प्रचरणेन ‘देवाः’ अहःसृष्टिं कृतवन्तः । पुनश्च ‘ऋतुभिः’ प्रेष्येत्यनेन चतुर्वारं प्रचरतः । अत्रापि सप्तमनवमयोरध्वर्युः, अष्टमदशमयोः प्रतिप्रस्थाता । तेन रात्रिसृष्टिं कृतवन्तः । ‘एतावदेव’ ऋतुभिरिति चतुर्वारप्रचरणान्तमेव यदि ‘अभविष्यत्’ तदा ‘रात्रिः’ ‘एव’ अभविष्यत् । तथा च ‘रात्रिः’ ‘न व्यवत्स्यत्’ न व्युष्टा ऽभविष्यत् । पुनरहरुपक्रमो न भवतीत्यर्थः । तस्मात् ‘तौ’ अध्वर्यू ‘ऋतुनेत्युपरिष्टात्’ द्विवारं यजतः । ‘तत्’ तेन ‘देवाः’ ‘परस्तात्’ रात्रेः, उपरिष्टात् ‘अहः’ धारयामासुः । यस्मादह्नो रात्रेः पुनरप्यह्नश्च सृष्टौ कारणम् ऋतुना ऋतुभिः ऋतुनेति क्रमेण यागः सम्पादितः ‘तस्मात्’ ‘अद्य’ इदानीम् ‘इदम्’ ‘अहः’ भवति । ‘अथ’ अहो ऽनन्तरं ‘रात्रिः’ रात्रेरनन्तरं ‘श्वः’ परेद्युः, पुनरपि ‘अहः’ ‘भविता’ । तत उक्ताः प्रैषमन्त्राः प्रशस्ता इत्यर्थः । अत्र कात्यायनः- “निष्क्रामत्येकः प्रविशतीतरः । उत्तर उत्तरः प्रतिप्रस्थाता ऽपरकालत्वात् । उभयतो ऽध्वर्युं पात्रेण परिप्रगृह्णाति, सर्वहुताः प्रागुत्तमाभ्याम् । ऋतुनेति षट् प्रेष्यतः । ऋतुभिरिति चतुरः पात्रमुखे विपर्यस्य । षडुदुत्तमौ”- (का. श्रौ. सू. ९ । २७४-२८०) इति ॥ १० ॥ ११ ॥
Eggeling
- Six times they perform 12 with, ‘With the
season’–thereby the gods created the day; and four times with, ‘With the seasons’–thereby they created the night. And, assuredly, were only this much (used), there would be nothing but night: it would never pass away.
११
विश्वास-प्रस्तुतिः
(त्तौ) तौ᳘ वा᳘ ऽऋतुने᳘त्युप᳘रिष्टाद्द्वि᳘श्चरतः॥
(स्त᳘) त᳘द्देवाः᳘ पर᳘स्ताद᳘हरददुस्त᳘स्मादिद᳘मद्या᳘हर᳘थ रा᳘त्रिर᳘थ श्वो᳘ ऽहर्भवि᳘ता॥
मूलम् - श्रीधरादि
(त्तौ) तौ᳘ वा᳘ ऽऋतुने᳘त्युप᳘रिष्टाद्द्वि᳘श्चरतः॥
(स्त᳘) त᳘द्देवाः᳘ पर᳘स्ताद᳘हरददुस्त᳘स्मादिद᳘मद्या᳘हर᳘थ रा᳘त्रिर᳘थ श्वो᳘ ऽहर्भवि᳘ता॥
मूलम् - Weber
तौ᳘ वा ऋतुने᳘त्युप᳘रिष्टाद्द्वि᳘श्चरतः॥
त᳘द्देवाः᳘ पुर᳘स्ताद᳘हरददुस्त᳘स्मादिद᳘मद्या᳘हर᳘थ रा᳘त्रिर᳘थ श्वो᳘ ऽहर्भविॗता॥
मूलम् - विस्वरम्
तौ वा ऽऋतुनेत्युपरिष्टाद्द्विश्चरतः । तद् देवाः परस्तादहरददुः । तस्मात् इदम् अद्याहः । अथ रात्रिः, अथ श्वो ऽहर्भविता ॥ ११ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- Over and above they perform twice with the formula ‘With the season;’ thereby the gods subsequently gave the day (again), whence it is now day there, then it will be night, and to-morrow day.
१२
विश्वास-प्रस्तुतिः
(तर्तु) ऋतुने᳘ति वै᳘ देवाः᳘॥
(०) मनु᳘ष्यान᳘सृजन्त ऽर्तु᳘भिरि᳘ति पशून्त्स यत्तन्म᳘ध्ये ये᳘न पशून᳘सृजन्त त᳘स्मादिमे᳘ पश᳘व ऽउभय᳘तः प᳘रिगृहीता व्व᳘शमु᳘पेता मनु᳘ष्याणाम्॥
मूलम् - श्रीधरादि
(तर्तु) ऋतुने᳘ति वै᳘ देवाः᳘॥
(०) मनु᳘ष्यान᳘सृजन्त ऽर्तु᳘भिरि᳘ति पशून्त्स यत्तन्म᳘ध्ये ये᳘न पशून᳘सृजन्त त᳘स्मादिमे᳘ पश᳘व ऽउभय᳘तः प᳘रिगृहीता व्व᳘शमु᳘पेता मनु᳘ष्याणाम्॥
मूलम् - Weber
ऋतुने᳘ति वै᳘ देवाः᳟॥
मनुॗष्यान᳘सृजन्तर्तु᳘भिरि᳘ति पशून्त्स यत्तन्म᳘ध्ये ये᳘न पशून᳘सृजन्त त᳘स्मादिमे᳘ पश᳘व उभय᳘तः प᳘रिगृहीता व᳘शमु᳘पेता मनुष्याणाम्॥
मूलम् - विस्वरम्
ऋतुनेति वै देवा मनुष्यानसृजन्त ऋतुभिरिति पशून् । स यत्तन्मध्ये- येन पशूनसृजन्त । तस्मादिमे पशव उभयतः परिगृहीता वशमुपेता मनुष्याणाम् ॥ १२ ॥
सायणः
विहितानुक्तक्रमसहितान्प्रैषमन्त्रान्प्रकारान्तरेण प्रशंसति- ऋतुनेति वै देवा इत्यादि । ‘ऋतुनेति’ ‘मनुष्यानसृजन्त’ ‘ऋतुभिरिति’ ‘पशून्’ असृजन्त । तथा च ऋतुनेत्यस्य मनुष्यसृष्टिहेतोर्मन्त्रस्याद्यन्तयोः प्रयुक्तत्वात्, ऋतुभिरित्यस्य पशुसृष्टिहेतोर्मन्त्रस्य मध्ये प्रयुक्तत्वात् ‘इमे’ ‘पशवः’ मनुष्यैः ‘उभयतः’ ‘परिगृहीताः’ पार्श्वद्वये ऽपि यत्र गच्छन्ति तत्रापि कैश्चित्स्वीक्रियन्त इति । तथाविधाः सन्तः वशमुपेताः भवन्ति ॥ १२ ॥
Eggeling
- By ‘With the season’ the gods forsooth created the men, and by ‘With the seasons’ the beasts; and because they created the beasts in the middle of those (men), therefore these beasts (cattle), being shut in on both sides, have come into the power of men.
१३
विश्वास-प्रस्तुतिः
तौ वा᳘ ऽऋतुने᳘ति ष᳘ट् प्रच᳘र्य॥
(र्ये) इतर᳘था पा᳘त्रे व्विप᳘र्यस्येते ऽऋतु᳘भिरि᳘ति चतु᳘श्चरि᳘त्वेतर᳘था पा᳘त्रे व्विप᳘र्यस्येते ऽन्यतर᳘त एव त᳘द्देवा अ᳘हर᳘सृजन्तान्यतर᳘तो रा᳘त्रिमन्यतर᳘त ऽएव त᳘द्देवा᳘ मनुष्यान᳘सृजन्तान्यतर᳘तः[[!!]] पशून्[[!!]]॥
मूलम् - श्रीधरादि
तौ वा᳘ ऽऋतुने᳘ति ष᳘ट् प्रच᳘र्य॥
(र्ये) इतर᳘था पा᳘त्रे व्विप᳘र्यस्येते ऽऋतु᳘भिरि᳘ति चतु᳘श्चरि᳘त्वेतर᳘था पा᳘त्रे व्विप᳘र्यस्येते ऽन्यतर᳘त एव त᳘द्देवा अ᳘हर᳘सृजन्तान्यतर᳘तो रा᳘त्रिमन्यतर᳘त ऽएव त᳘द्देवा᳘ मनुष्यान᳘सृजन्तान्यतर᳘तः[[!!]] पशून्[[!!]]॥
मूलम् - Weber
तौ वा᳘ ऋतुने᳘ति ष᳘ट् प्रच᳘र्य॥
इतर᳘था पा᳘त्रे विप᳘र्यस्येते ऋतु᳘भिरि᳘ति चतु᳘श्चरिॗत्वेतर᳘था पा᳘त्रे विप᳘र्यस्येते अन्यतर᳘त एव त᳘द्देवा अ᳘हर᳘सृजन्तान्यतर᳘तो रा᳘त्रिमन्यतर᳘त एव त᳘द्देवा᳘ मनुॗष्यान᳘सृजन्तान्यतर᳘तः पशू᳘न्॥
मूलम् - विस्वरम्
तौ वा ऽऋतुनेति षट् प्रचर्य्य, इतरथा पात्रे विपर्यस्येते । ऋतुभिरिति चतुश्चरित्वा- इतरथा पात्रे विपर्यस्येते । अन्यतरत एव तद्देवा अहरसृजन्त, अन्यतरतो रात्रिम् । अन्यतरत एव तद्देवा मनुष्यानसृजन्त, अन्यतरतः पशून् ॥ १३ ॥
सायणः
होममध्ये पात्रमुखयोर्विपर्यासं विधत्ते- तौ वा ऋतुनेत्यादि । अन्यतरत इति । ‘अन्यतरतः’ मुखात् ‘ऋतुनेति’ मन्त्रेण ‘देवाः’ अहःसृष्टिं कृतवन्तः । ततः ‘अन्यतरतः’ च मुखात् ऋतुभिरिति रात्रिसृष्टिं कृतवन्तः । तथा ‘पशून्’ ‘मनुष्यान्’ ‘असृजन्त’ तस्मात्तत्तन्मन्त्रसाधने यागे पात्रमुखे विपर्यस्येदित्यर्थः ॥ १३ ॥
Eggeling
- And having performed six times with, ‘With the season,’ they both turn round their vessels to the other side; and having performed four times with, ‘With the seasons,’ they turn round their vessels to the other side: from the one side (or mouth) indeed the gods created the day, and from the other side the night; from the one side the gods created men, and from the other beasts.
१४
विश्वास-प्रस्तुतिः
(न) अथा᳘तो गृह्णा᳘त्ये᳘व[[!!]]॥
(वो) उपयाम᳘गृहीतो ऽसि म᳘धवे त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि मा᳘धवाय त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव व्वा᳘सन्तिकौ स य᳘द्वसन्त ऽओ᳘षधयो जा᳘यन्ते व्व᳘नस्प᳘तयः पच्य᳘न्ते ते᳘नो हैतौ म᳘धुश्च मा᳘धवश्च॥
मूलम् - श्रीधरादि
(न) अथा᳘तो गृह्णा᳘त्ये᳘व[[!!]]॥
(वो) उपयाम᳘गृहीतो ऽसि म᳘धवे त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि मा᳘धवाय त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव व्वा᳘सन्तिकौ स य᳘द्वसन्त ऽओ᳘षधयो जा᳘यन्ते व्व᳘नस्प᳘तयः पच्य᳘न्ते ते᳘नो हैतौ म᳘धुश्च मा᳘धवश्च॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
उपयाम᳘गृहीतो ऽसि म᳘धवे त्वे᳘त्येॗवाध्वर्यु᳘र्गृह्णा᳘त्युपयामगृहीतो ऽसि मा᳘धवाय त्वे᳘ति प्रतिप्रस्थाॗतैता᳘वेव वा᳘सन्तिकौ स य᳘द्वसन्त ओ᳘षधयो जा᳘यन्ते व᳘नस्प᳘तयः पच्य᳘न्ते ते᳘नो हैतौ म᳘धुश्च मा᳘धवश्च॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “उपयामगृहीतो ऽसि मधवे त्वा”- (वा. सं. ७ । ३०) इत्येवाध्वर्युर्गृह्णाति । “उपयामगृहीतो ऽसि माधवाय त्वा”- (वा. सं. ७ । ३०) इति प्रतिप्रस्थाता । एतावेव वासन्तिकौ । स यद्वसन्त ऽओषधयो जायन्ते, वनस्पतयः पच्यन्ते । तेनो हैतौ मधुश्च माधवश्च ॥ १४ ॥
सायणः
इत्थमृतुग्रहाणां होमकालसङ्ख्याविशेषादिकमभिधायेदानीं प्रथमद्वितीयग्रहयोः कर्तृमन्त्रविशिष्टं ग्रहणं विधत्ते- अथातो गृह्णात्येवेत्यादि (का. श्रौ. सू. ९ । २७०-२७२) । मधुमाधवाविति चैत्रवैशाखौ, ऋतुग्रहाणां चैत्रादयो मासाः देवताः । तस्मादृतुग्रहत्वान्मधुमाधवमासार्थं गृह्णामीति मन्त्रार्थः । एवमुत्तरत्रापि ।
चैत्रवैशाखयोर्मधुमाधवनामधेयप्राप्तिं दर्शयति- एतावेवेति । ‘एतौ’ उक्तौ मासौ ‘वासन्तिकौ’ । “वसन्ताच्च” (पा. सू. ४ । ३ । २०) इति ठक् प्रत्ययः । ‘वसन्ते’ च ‘ओषधयः’ माधुर्यरसहेतुभूता जायन्ते । ‘वनस्पतयः’ च ‘पच्यन्ते’ स्वत एव परिपक्वा भवन्ति । कर्मकर्तरि रूपम् (पा. सू. ३ । १ । ८७) | परिपाके च माधुर्यरसोत्पत्तेरुपभोगयोग्या भवन्ति । तस्मात्तत्संबन्धी मासो ‘मधुः’ । ‘माधवः’ इति । मधुरेव माधव इति स्वार्थिको ऽण् प्रत्ययः । अथवा मधुमासस्यायं माधव इति- “तस्येदम्”- (पा. सू. ४ । ३ । १२०) इत्यण् । मधुमासानन्तरभावीत्यर्थः ॥ १४ ॥
Eggeling
- Now he draws the cups (for the seasons)
therefrom 13, with (Vāj. S. VII, 30), ‘Thou art taken with a support: thee for Madhu!’ the Adhvaryu takes (the first); with ‘Thou art taken with a support: thee for Mādhava!’ the Pratiprasthātr̥ (the second). These two are the spring (months 14): because in spring plants sprout and trees are brought to ripeness, therefore these two are Madhu (sweet) and Mādhava.
१५
विश्वास-प्रस्तुतिः
(श्चो) उपयाम᳘गृहीतो ऽसि॥
शुक्रा᳘य त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि शु᳘चये त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव ग्रै᳘ष्मौ स य᳘देत᳘योर्ब᳘लिष्ठं त᳘पति ते᳘नो हैतौ᳘ शुक्र᳘श्च शु᳘चिश्च॥
मूलम् - श्रीधरादि
(श्चो) उपयाम᳘गृहीतो ऽसि॥
शुक्रा᳘य त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि शु᳘चये त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव ग्रै᳘ष्मौ स य᳘देत᳘योर्ब᳘लिष्ठं त᳘पति ते᳘नो हैतौ᳘ शुक्र᳘श्च शु᳘चिश्च॥
मूलम् - Weber
उपयाम᳘गृहीतो ऽसि॥
शुक्रा᳘य त्वे᳘त्येॗवाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि शु᳘चये त्वे᳘ति प्रतिप्रस्थाॗतैता᳘वेव ग्रै᳘ष्मौ स य᳘देत᳘योर्ब᳘लिष्ठं त᳘पति ते᳘नो हैतौ᳘ शुक्र᳘श्च शु᳘चिश्च॥
मूलम् - विस्वरम्
“उपयामगृहीतो ऽसि शुक्राय त्वा”- (वा. सं. ७ । ३०) इत्येवाध्वर्युर्गृह्णाति । “उपयामगृहीतो ऽसि शुचये त्वा”- (वा. सं. ७ । ३०)- इति प्रतिप्रस्थाता । एतावेव ग्रैष्मौ । स यदेतयोर्बलिष्ठं तपति- तेनो हैतौ शुक्रश्च शुचिश्च ॥ १५ ॥
सायणः
यथोक्तगुणविशिष्टं तृतीयचतुर्थयोर्ग्रहणं विधत्ते- उपयामगृहीतो ऽसीत्यादि । एतावेवेति । ‘एतावेव’ मासौ ‘ग्रैष्मौ’ ग्रीष्मर्तुसम्बन्धिनौ । एतयोर्मासयोः सूर्यो ऽपि ‘बलिष्ठम्’ अत्यन्तं ‘तपति’ शोचते यतः, तस्मादेतयोः ‘शुक्रः’ ‘शुचिः’ इति नामधेयम् ॥ १५ ॥
Eggeling
- With ‘Thou art taken with a support: thee for Śukra!’ the Adhvaryu draws (the third); with ‘Thou art taken with a support: thee for Śuci!’ the Pratiprasthātr̥ (the fourth). These two are the summer (months): because during them it burns fiercest, therefore these two are Śukra (clear) and Śuci (bright).
१६
विश्वास-प्रस्तुतिः
(श्चो) उपयाम᳘गृहीतो ऽसि॥ न᳘भसे त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि नभ᳘स्याय त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव व्वा᳘र्षिकावमु᳘तो वै᳘ दिवो᳘ व्वर्षति ते᳘नो हैतौ न᳘भश्च नभ᳘स्यश्च[[!!]]॥
मूलम् - श्रीधरादि
(श्चो) उपयाम᳘गृहीतो ऽसि॥ न᳘भसे त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि नभ᳘स्याय त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव व्वा᳘र्षिकावमु᳘तो वै᳘ दिवो᳘ व्वर्षति ते᳘नो हैतौ न᳘भश्च नभ᳘स्यश्च[[!!]]॥
मूलम् - Weber
उपयाम᳘गृहीतो ऽसि न᳘भसे त्वे᳘त्येॗवाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि नभॗस्याय त्वे᳘ति प्रतिप्रस्थाॗतैता᳘वेव वा᳘र्षिकावमु᳘तो वै᳘ दिवो᳘ वर्षति ते᳘नो हैतौ न᳘भश्च नभस्य᳘श्च॥
मूलम् - विस्वरम्
“उपयामगृहीतो ऽसि नभसे त्वा”- (वा० सं० ७ । ३०) इत्येवाध्वर्युर्गृह्णाति । “उपयामगृहीतो ऽसि नभस्याय त्वा”- (वा० सं० ७ । ३०) इति प्रतिप्रस्थाता । एतावेव वार्षिकौ, अमुतो वै दिवो वर्षति- तेनो हैतौ नभश्च नभस्यश्च ॥ १६ ॥
सायणः
पञ्चमषष्ठयोर्ग्रहणं विधत्ते- उपयामगृहीतो ऽसीत्यादि । एतावेवेत्यादि । वार्षिकाविति । “वर्षाभ्यष्ठक्”- (पा. सू. ४ । ३ । १८)- इति ठक् प्रत्ययः । अनयोर्मासयोः ‘अमुतः’ ‘दिवः’ नभसः सकाशाद् ‘वर्षति’, ‘तेन’ मासावपि नभोनभस्याविति व्यपदिश्येते । नभस्य इति । नभोमासानन्तरं भवतीति नभस्यः । “भवे छन्दसि”- (पा. सू. ४ । ४ । ११०)- इति यत् । अथवा “वसुशब्दात्स्वार्थे यद् वक्तव्यः” इत्यत्र वसुशब्दस्य नभआदीनामुपलक्षणार्थत्वात्स्वार्थिको यत्प्रत्ययः । एवं सहस्यस्तपस्य इत्यत्राप्यवगन्तव्यम् ॥ १६ ॥
Eggeling
- With ‘Thou art taken with a support: thee for Nabhas!’ the Adhvaryu draws (the fifth); with ‘Thou art taken with a support: thee for Nabhasya!’ the Pratiprasthātr̥ (the sixth). These two are (the months) of the rainy season: it rains from yonder sky, and hence these two are Nabhas (mist, cloud) and Nabhasya.
१७
विश्वास-प्रस्तुतिः
(श्चो) उपयाम᳘गृहीतो ऽसि॥
(सी) इषे त्वे᳘त्ये᳘वाध्वर्युर्गृह्णा᳘त्युपयाम᳘गृहीतो ऽस्यूर्जे[[!!]] त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव᳘ शारदौ स य᳘च्छरद्यूर्ग्र᳘स ऽओ᳘षधयः पच्य᳘न्ते ते᳘नो हैता᳘विष᳘श्चोर्ज᳘श्च॥
मूलम् - श्रीधरादि
(श्चो) उपयाम᳘गृहीतो ऽसि॥
(सी) इषे त्वे᳘त्ये᳘वाध्वर्युर्गृह्णा᳘त्युपयाम᳘गृहीतो ऽस्यूर्जे[[!!]] त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव᳘ शारदौ स य᳘च्छरद्यूर्ग्र᳘स ऽओ᳘षधयः पच्य᳘न्ते ते᳘नो हैता᳘विष᳘श्चोर्ज᳘श्च॥
मूलम् - Weber
उपयाम᳘गृहीतो ऽसि॥
इषे त्वे᳘त्येॗवाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽस्यूर्जे त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव᳘ शारदौ स य᳘छरद्यूर्ग्र᳘स ओ᳘षधयः पच्य᳘न्ते ते᳘नो हैता᳘विष᳘श्चोर्ज᳘श्च॥
मूलम् - विस्वरम्
“उपयामगृहीतो ऽसि इषे त्वा”- (वा० सं० ७ । ३०) इत्येवाध्वर्युर्गृह्णाति । “उपयामगृहीतो ऽस्यूर्जे त्वा”- (वा० सं० ७ । ३०) इति प्रतिप्रस्थाता । एतावेव शारदौ । स यच्छरद्यर्ग्रस ओषधयः पच्यन्ते- तेनो हैताविषश्चोर्जश्च ॥ १७ ॥
सायणः
सप्तमाष्टमयोर्ग्रहणं विधत्ते- उपयामगृहीतो ऽसीषे त्वेति । ऊर्ज्जशब्दस्यैवार्थकथनम्- ओषधयः पच्यन्ते इति अनेनान्नस्योत्पत्तिः सूच्यते । इडन्नं तदस्मिन्नस्तीति इषः । ऊर्क्शब्दाभिधेयो ऽन्नरसश्चास्मिन्नस्तीत्यूर्जः । मत्वर्थीयो ऽकारप्रत्ययः । ग्रहणमन्त्रयोः ‘इषे’ ‘ऊर्जे’ इति यश्चतुर्थ्यन्तनिर्देशः, स तु निमित्तनैमित्तिकप्रभेदाविवक्षायां मत्वर्थीयाकारप्रत्ययाभावादुपपद्यते ॥ १७ ॥
Eggeling
- With ‘Thou art taken with a support: thee for Ish (sap)!’ the Adhvaryu draws (the seventh); with ‘Thou art taken with a support: thee for Ūrj (food)!’ the Pratiprasthātr̥ (the eighth). These two are the autumn (months): because in autumn food (ūrj) and juice, (namely) plants, ripen, therefore these two are Isha and Ūrja.
१८
विश्वास-प्रस्तुतिः
(श्चो) उपयाम᳘गृहीतो ऽसि॥ स᳘हसे त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि सह᳘स्याय त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव है᳘मन्तिकौ स य᳘द्धेमन्त᳘ ऽइमाः᳘ प्रजाः स᳘हसेव स्वं व्व᳘शमुपन᳘यते ते᳘नो हैतौ स᳘हश्च सह᳘स्यश्च[[!!]]॥
मूलम् - श्रीधरादि
(श्चो) उपयाम᳘गृहीतो ऽसि॥ स᳘हसे त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि सह᳘स्याय त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव है᳘मन्तिकौ स य᳘द्धेमन्त᳘ ऽइमाः᳘ प्रजाः स᳘हसेव स्वं 15 व्व᳘शमुपन᳘यते ते᳘नो हैतौ स᳘हश्च सह᳘स्यश्च[[!!]]॥
मूलम् - Weber
उपयाम᳘गृहीतो ऽसि स᳘हसे त्वे᳘त्येॗवाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि सहॗस्याय त्वे᳘ति प्रतिप्रस्थाॗतैता᳘वेव है᳘मन्तिकौ स य᳘द्धेमन्त᳘ इमाः᳘ प्रजाः स᳘हसेव स्वं व᳘शमुपन᳘यते ते᳘नो हैतौ स᳘हश्च सहस्य᳘श्च॥
मूलम् - विस्वरम्
“उपयामगृहीतो ऽसि सहसे त्वा”- (वा० सं० ७ । ३०) इत्येवाध्वर्युर्गृह्णाति । “उपयामगृहीतो ऽसि सहस्याय त्वा”- (वा० सं० ७ । ३०) इति प्रतिप्रस्थाता । एतावेव हैमन्तिकौ । स यद्धेमन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते- तेनो हैतौ सहश्च सहस्यश्च ॥ १८ ॥
सायणः
नवमदशमयोग्रहणं विधत्ते- उपयामगृहीतो ऽसि सहस इत्यादि । हैमन्तिकाविति । “हेमन्ताच्च”- (पा. सू ४ । ३ । २१) इति च्छन्दसि ठञ्प्रत्ययः । स्ववशमुपनयत इति । स्वकीयं वशम् स्ववशं नयतीत्यर्थः ॥ १८ ॥
Eggeling
- With ‘Thou art taken with a support: thee for Sahas!’ the Adhvaryu draws (the ninth); with ‘Thou art taken with a support: thee for
Sahasya!’ the Pratiprasthātr̥ (the tenth). These two are the winter (months): because the winter by force (sahas) brings these creatures into his power, therefore these two are Saha and Sahasya.
१९
विश्वास-प्रस्तुतिः
(श्चो) उपयाम᳘गृहीतो ऽसि॥ त᳘पसे त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि तप᳘स्याय त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव᳘ शैशिरौ स य᳘देत᳘योर्ब᳘लिष्ठᳫँ᳭ श्या᳘यति ते᳘नो हैतौ त᳘पश्च तप᳘स्यश्च[[!!]]॥
मूलम् - श्रीधरादि
(श्चो) उपयाम᳘गृहीतो ऽसि॥ त᳘पसे त्वे᳘त्ये᳘वाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि तप᳘स्याय त्वे᳘ति प्रतिप्रस्था᳘तैता᳘वेव᳘ शैशिरौ स य᳘देत᳘योर्ब᳘लिष्ठᳫँ᳭ श्या᳘यति ते᳘नो हैतौ त᳘पश्च तप᳘स्यश्च[[!!]]॥
मूलम् - Weber
उपयाम᳘गृहीतो ऽसि त᳘पसे त्वे᳘त्येॗवाध्वर्यु᳘र्गृह्णा᳘त्युपयाम᳘गृहीतो ऽसि तपॗस्याय त्वे᳘ति प्रतिप्रस्थाॗतैता᳘वेव᳘ शैशिरौ स य᳘देत᳘योर्ब᳘लिष्ठं श्या᳘यति ते᳘नो हैतौ त᳘पश्च तपस्य᳘श्च॥
मूलम् - विस्वरम्
“उपयामगृहीतो ऽसि तपसे त्वा”- (वा० सं० ७ । ३०) । इत्येवाध्वर्युर्गृह्णाति । “उपयामगृहीतो ऽसि तपस्याय त्वा"- (वा० सं० ७ । ३०) इति प्रतिप्रस्थाता । एतावेव शैशिरौ । स यदेतयोर्बलिष्ठं श्यायति- तेनो हैतौ तपश्च तपस्यश्च ॥ १९ ॥
सायणः
एकादशद्वादशयोर्ग्रहणं विधत्ते- उपयामगृहीतो ऽसि तपस इत्यादि । श्यायतीति । ‘श्यायति’ तपति शुष्यतीत्यर्थः ॥ १९ ॥
Eggeling
- With ‘Thou art taken with a support: thee for Tapas!’ the Adhvaryu draws (the eleventh); with ‘Thou art taken with a support: thee for Tapasya!’ the Pratiprasthātr̥ (the twelfth). These two are (the months) of the dewy season: because during them it freezes most severely, therefore these two are Tapas and Tapasya.
२०
विश्वास-प्रस्तुतिः
(श्चो) उपयाम᳘गृहीतो ऽसि॥
(स्यᳫँ᳭) अᳫँ᳭हसस्पत᳘ये त्वे᳘ति त्रयोदशं ग्र᳘हं गृह्णाति य᳘दि त्रयोदशं᳘ गृह्णीयाद᳘थ प्रतिप्रस्था᳘ता ऽध्वर्योः पा᳘त्रे सᳫं᳭स्रवम᳘वनयत्यध्वर्यु᳘र्वा प्रतिप्रस्थातुः पा᳘त्रे सᳫँ᳭स्रवम᳘वनयत्या᳘हरति भक्षम्[[!!]]॥
मूलम् - श्रीधरादि
(श्चो) उपयाम᳘गृहीतो ऽसि॥
(स्यᳫँ᳭) अᳫँ᳭हसस्पत᳘ये त्वे᳘ति त्रयोदशं ग्र᳘हं गृह्णाति य᳘दि त्रयोदशं᳘ गृह्णीयाद᳘थ प्रतिप्रस्था᳘ता ऽध्वर्योः पा᳘त्रे सᳫं᳭स्रवम᳘वनयत्यध्वर्यु᳘र्वा प्रतिप्रस्थातुः पा᳘त्रे सᳫँ᳭स्रवम᳘वनयत्या᳘हरति भक्षम्[[!!]]॥
मूलम् - Weber
उपयामि᳘गृहीतो ऽसि॥
अंहसस्पत᳘ये त्वे᳘ति त्रयोदशं ग्र᳘हं गृह्णाति य᳘दि त्रयोदशं᳘ गृह्णीयाद᳘थ प्रतिप्रस्थाॗताध्वर्योः पा᳘त्रे संस्रवम᳘वनयत्यध्वर्यु᳘र्वा प्रतिप्रस्थातुः पा᳘त्रे संस्रवम᳘वनयत्या᳘हरति भक्ष᳘म्॥
मूलम् - विस्वरम्
“उपयामगृहीतो ऽसि अंहसस्पतये त्वा”- (वा० सं० ७ । ३०) इति त्रयोदशं ग्रहं गृह्णाति- यदि त्रयोदशं गृह्णीयात् । अथ प्रतिप्रस्थाता ऽध्वर्योः पात्रे संस्रवमवनयति । अध्वर्युर्वा प्रतिप्रस्थातुः पात्रे संस्रवमवनयति । आहरति भक्षम् ॥ २० ॥
सायणः
त्रयोदशग्रहणपक्षे मन्त्रमाह- उपयामगृहीतो ऽस्यंहसस्पतये त्वेति (का. श्रौ. सू. ९ । २८३ ।) होमानन्तरमध्वर्योः पात्रे प्रतिप्रस्थातुर्वा पात्रे शेषमवनयेदित्याह- अथ प्रतिप्रस्थातेति (का. श्रौ. सू. ९ । २८५) । संस्रवशेषमाहरति- भक्षमिति । यस्मिन् ‘पात्रे’ शेषो ऽवनीयते तत्रत्यं भक्षणार्थं सोमं सदः प्रत्याहरतीत्यर्थः ॥ २०॥
Eggeling
- With ‘Thou art taken with a support: thee to Aṁhasaspati (lord of trouble)!’ he (the Adhvaryu) draws the thirteenth libation, if he draw a thirteenth. The Pratiprasthātr̥ then pours his residue into the Adhvaryu’s vessel, or the Adhvaryu pours his residue into the Pratiprasthātr̥’s vessel. He (the Adhvaryu) takes it (to the Sadas) for the purpose of drinking it 16.
२१
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ प्रतिप्रस्थाता᳘ ऽभक्षितेन पा᳘त्रेण॥
(णै) ऐन्द्राग्नं ग्र᳘हं गृह्णा᳘ति तद्यद᳘भक्षितेन पा᳘त्रेणैन्द्राग्नं ग्र᳘हं गृह्णा᳘ति न वा᳘ ऽऋतुग्रहा᳘णामनुव᳘षट्कुर्व्वन्त्येते᳘भ्यो वा᳘ ऽऐन्द्राग्नं ग्र᳘हं ग्रहीष्य᳘न्भवति त᳘दस्यैन्द्राग्ने᳘नै᳘वानुव᳘षट्कृता भवन्ति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ प्रतिप्रस्थाता᳘ ऽभक्षितेन पा᳘त्रेण॥
(णै) ऐन्द्राग्नं ग्र᳘हं गृह्णा᳘ति तद्यद᳘भक्षितेन पा᳘त्रेणैन्द्राग्नं ग्र᳘हं गृह्णा᳘ति न वा᳘ ऽऋतुग्रहा᳘णामनुव᳘षट्कुर्व्वन्त्येते᳘भ्यो वा᳘ ऽऐन्द्राग्नं ग्र᳘हं ग्रहीष्य᳘न्भवति त᳘दस्यैन्द्राग्ने᳘नै᳘वानुव᳘षट्कृता भवन्ति॥
मूलम् - Weber
अ᳘थ प्रतिप्रस्थाता᳘भक्षितेन पा᳘त्रेण॥
ऐन्द्राग्नं ग्र᳘हं गृह्णाति तद्यद᳘भक्षितेन पा᳘त्रेणैन्द्राग्नं ग्र᳘हं गृह्णा᳘ति न वा᳘ ऋतुग्रहा᳘णामनुव᳘षट्कुर्वन्त्येते᳘भ्यो वा᳘ ऐन्द्राग्नं ग्र᳘हं ग्रहीष्य᳘न्भवति त᳘दस्यैन्द्राग्ने᳘नैॗवानुव᳘षट्कृता भवन्ति॥
मूलम् - विस्वरम्
अथ प्रतिप्रस्थाता ऽभक्षितेन पात्रेण ऐन्द्राग्नं ग्रहं गृह्णाति । तद् यदभक्षितेन पात्रेणैन्द्राग्नं ग्रहं गृह्णाति । न वा ऽऋतुग्रहाणामनुवषट्कुर्वन्ति । एतेभ्यो वा ऽऐन्द्राग्नं ग्रहं ग्रहीष्यन्भवति । तदस्यैन्द्राग्नेनैवानुवषट्कृता भवन्ति ॥ २१ ॥
सायणः
भक्षाहरणानन्तरमैन्द्राग्नस्य ग्रहणं विधत्ते- अथ प्रतिप्रस्थातेति 17 । अभक्षितेनेति । पात्रगतस्य सोमशेषस्याभक्षितत्वात्पात्रमप्यभक्षितमित्युपचर्यते । अभक्षितपात्रेणैन्द्राग्नग्रहणे कारणमाह- तद्यदभक्षितेनेत्यादि । अनुवषट्कारे कृते ऋतूनामपवर्गः स्यादिति तद्यागे अनुवषट्कारो न्यषेधि । “नानु वषट् करोति, नेदृतूनपवृणजै” (श. प. ४ । ३ । १ । ८) इति । तस्मादस्य यज्ञस्य सम्बन्धिन ऋतुग्रहा ‘ऐन्द्राग्नेनैव’ ऐन्द्राग्नग्रहस्यानुवषट्कारेणैव ‘अनुवषट्कृता भवन्ति’ इति । ‘एतेभ्यः’ ऋतुग्रहेभ्यः ‘ऐन्द्राग्नं ग्रहं ग्रहीष्यन् भवति’ तत्राभक्षितेन पात्रेणैतस्य ग्रहणमन्तरेण न सम्भवतीति तेन गृह्णीयादित्यर्थः ॥ २१ ॥
Eggeling
- Thereupon the Pratiprasthātr̥ draws the Aindrāgna graha with the vessel not used for the drinking. The reason why he draws the Aindrāgna libation with the vessel not used for drinking is that
no second Vashaṭ is pronounced on the Ritugrahas, and for them he is about to take the Aindrāgna graha: thus they become consecrated for him by a second Vashaṭ through the Aindrāgna.
२२
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैन्द्राग्नं ग्र᳘हं गृह्णा᳘ति॥
स᳘र्व्वं वा᳘ ऽइदं प्रा᳘जीजनद्य᳘ ऽऋतुग्रहान᳘ग्रहीत्स᳘ इदᳫँ᳭ स᳘र्व्वं प्रजन᳘य्येद᳘मे᳘वैतत्स᳘र्व्वं प्राणोदान᳘योः प्र᳘तिष्ठापयति त᳘दिदᳫँ᳭ स᳘र्व्वं प्राणोदान᳘योः प्र᳘तिष्ठितमिन्द्राग्नी हि᳘ प्राणोदाना᳘विमे हि द्या᳘वापृथिवी᳘ प्राणोदाना᳘वन᳘योर्हीदᳫँ᳭ स᳘र्व्वं प्र᳘तिष्ठितम्॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैन्द्राग्नं ग्र᳘हं गृह्णा᳘ति॥
स᳘र्व्वं वा᳘ ऽइदं प्रा᳘जीजनद्य᳘ ऽऋतुग्रहान᳘ग्रहीत्स᳘ इदᳫँ᳭ स᳘र्व्वं प्रजन᳘य्येद᳘मे᳘वैतत्स᳘र्व्वं प्राणोदान᳘योः प्र᳘तिष्ठापयति त᳘दिदᳫँ᳭ स᳘र्व्वं प्राणोदान᳘योः प्र᳘तिष्ठितमिन्द्राग्नी हि᳘ प्राणोदाना᳘विमे हि द्या᳘वापृथिवी᳘ प्राणोदाना᳘वन᳘योर्हीदᳫँ᳭ स᳘र्व्वं प्र᳘तिष्ठितम्॥
मूलम् - Weber
य᳘द्वेॗवैन्द्राग्नं ग्र᳘हं गृह्णा᳘ति॥
स᳘र्वं वा᳘ इदम् प्रा᳘जीजनद्य᳘ ऋतुग्रहान᳘ग्रहीत्स᳘ इदᳫं स᳘र्वम् प्रजन᳘य्येद᳘मेॗवैतत्स᳘र्वम् प्राणोदान᳘योः प्र᳘तिष्ठापयति त᳘दिदᳫं स᳘र्वम् प्राणोदान᳘योः प्र᳘तिष्ठितमिन्द्राग्नी हि प्राणोदाना᳘विमे हि द्या᳘वापृथिवी᳘ प्राणोदाना᳘वन᳘योर्हीदᳫं स᳘र्वम् प्र᳘तिष्ठितम्॥
मूलम् - विस्वरम्
यद्वेवैन्द्राग्नं ग्रहं गृह्णाति । सर्वं वा ऽइदं प्राजीजनत्- य ऋतुग्रहानग्रहीत् । स इदं सर्वं प्रजनय्येदमेवैतत्सर्वं प्राणोदानयोः प्रतिष्ठापयति । तदिदं सर्वं प्राणोदानयोः प्रतिष्ठितम् । इन्द्राग्नी हि प्राणोदानौ । इमे हि द्यावापृथिवी प्राणोदानौ । अनयोर्हीदं सर्वं प्रतिष्ठितम् ॥ २२ ॥
सायणः
ऐन्द्राग्नग्रहस्य ग्रहणं प्रयोजनाभिधानेन प्रशंसति- यद्वेवैन्द्राग्नं ग्रहं गृह्णातीति । ‘यः’ अध्वर्युः ‘ऋतुग्रहानग्रहीत्’ । ‘सः’ ‘इदम्’ ‘सर्वम्’ ‘प्राजीजनत्’ उदपादयत् । ऋतुग्रहाणां कृत्स्नजगदुत्पत्तिसाधनत्वं प्रागुक्तम् । “सर्वमेवैतत्प्रजनयति”- ‘इदं सर्वं प्रजनय्य’ ‘एतत्’ ऐन्द्राग्नग्रहणेन प्राणापानयोः प्रतिष्ठापयति । तस्मादिदानीमपि प्राणापानयोः प्रतिष्ठितं वर्तते ॥
ननु कथं प्राणापानयोर्जगत् प्रतितिष्ठतीति । नात्र प्राणोदानशब्दाभ्यां प्राणवृत्तिभेदौ विवक्षितौ । किन्तु इन्द्राग्नीप्राणोदानात्मकत्वाद् द्यावापृथिव्योरपीन्द्राग्नित्वम् । द्यावापृथिव्योश्चेदं सर्वं प्रतिष्ठितम् । तस्मादैन्द्राग्नस्य ग्रहणं द्यावापृथिव्योः कृत्स्नजगत्प्रतिष्ठाहेतुत्वात्प्रशस्तमित्यर्थः ॥ २२ ॥
Eggeling
- And again, why he draws the Aindrāgna graha. By drawing the libations to the seasons he has generated this All, and having generated this All, he now establishes it on the out-breathing and in-breathing: hence this All is established on the out-breathing and in-breathing, for Indra and Agni are the out-breathing and in-breathing, and these two, heaven and earth, are the out-breathing and in-breathing, and within these two this All is established.
२३
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैन्द्राग्नं ग्र᳘हं गृह्णा᳘ति॥
स᳘र्व्वं वा᳘ ऽइदं प्रा᳘जीजनद्य᳘ ऽऋतुग्रहान᳘ग्रहीत्स᳘ इदᳫँ᳭ स᳘र्व्वं प्रजन᳘य्यास्मि᳘न्ने᳘वैतत्स᳘र्व्वस्मिन्प्राणोदानौ᳘ दधाति ता᳘विमा᳘वस्मिन्त्स᳘र्व्वस्मिन्प्राणोदानौ᳘ हितौ[[!!]]॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैन्द्राग्नं ग्र᳘हं गृह्णा᳘ति॥
स᳘र्व्वं वा᳘ ऽइदं प्रा᳘जीजनद्य᳘ ऽऋतुग्रहान᳘ग्रहीत्स᳘ इदᳫँ᳭ स᳘र्व्वं प्रजन᳘य्यास्मि᳘न्ने᳘वैतत्स᳘र्व्वस्मिन्प्राणोदानौ᳘ दधाति ता᳘विमा᳘वस्मिन्त्स᳘र्व्वस्मिन्प्राणोदानौ᳘ हितौ[[!!]]॥
मूलम् - Weber
य᳘द्वेॗवैन्द्राग्नं ग्र᳘हं गृह्णा᳘ति॥
स᳘र्वं वा᳘ इदम् प्रा᳘जीजनद्य᳘ ऋतुग्रहान᳘ग्रहीत्स᳘ इदᳫं स᳘र्वम् प्रजन᳘य्यास्मि᳘न्नेॗवैतत्स᳘र्वस्मिन्प्राणादानौ᳘ दधाति ता᳘विमा᳘वस्मिन्त्स᳘र्वस्मिन्प्राणोदानौ᳘ हितौ᳟॥
मूलम् - विस्वरम्
यद्वेवैन्द्राग्नं ग्रहं गृह्णाति । सर्वं वा ऽइदं प्राजीजनत्- य ऋतुग्रहानग्रहीत् । स इदं सर्वं प्रजनय्यास्मिन्नेवैतत्सर्वस्मिन्प्राणोदानौ दधाति । ताविमावस्मिन्त्सर्वस्मिन् प्राणोदानौ हितौ ॥ २३ ॥
सायणः
ऐन्द्राग्नग्रहस्य ग्रहणं प्रकारान्तरेण प्रशंसति- यद्वेवैन्द्राग्नमित्यादि । ताविमावस्मिन्निति । इन्द्राग्न्योः प्राणापानात्मकत्वादैन्द्राग्नग्रहणेन प्रजापतेः ‘सर्वस्मिन्’ प्राणापानौ ‘दधाति’ । तस्मात् ‘ताविमौ’ प्राणापानौ ‘अस्मिन्’ ‘सर्वस्मिन्’ निहितौ वर्तते ॥ २३ ॥
Eggeling
- And again, why he draws the Aindrāgna cup. By drawing the libations to the seasons he has generated this All, and having generated this All, he lays the out-breathing and in-breathing into this All: hence these two, the out-breathing anti in-breathing, are laid into (or beneficial, hita, in) this All.
२४
विश्वास-प्रस्तुतिः
(ताव) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वे᳘) इ᳘न्द्राग्नी ऽआ᳘गतᳫँ᳭ सुतं᳘ गीर्भिर्न᳘भो व्व᳘रेण्यम्॥
अस्य᳘ पातं धि᳘येषिता᳘॥
उपयाम᳘गृहीतो ऽसीन्द्राग्नि᳘भ्यां त्वैष᳘ ते यो᳘निरिन्द्राग्नि᳘भ्यां त्वे᳘ति सादयतीन्द्राग्नि᳘भ्या᳘ᳫं᳘ ह्येनं गृह्णाति[[!!]]॥
मूलम् - श्रीधरादि
(ताव) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वे᳘) इ᳘न्द्राग्नी ऽआ᳘गतᳫँ᳭ सुतं᳘ गीर्भिर्न᳘भो व्व᳘रेण्यम्॥
अस्य᳘ पातं धि᳘येषिता᳘॥
उपयाम᳘गृहीतो ऽसीन्द्राग्नि᳘भ्यां त्वैष᳘ ते यो᳘निरिन्द्राग्नि᳘भ्यां त्वे᳘ति सादयतीन्द्राग्नि᳘भ्या᳘ᳫं᳘ ह्येनं गृह्णाति[[!!]]॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
इ᳘न्द्राग्नी आ᳘गतᳫं सुतं᳘ गीर्भिर्न᳘भो व᳘रेण्यम्॥
अस्य᳘ पातं धिॗयेषिता᳟ 18 ॥
उपयाम᳘गृहीतो ऽसीन्द्राग्नि᳘ यां त्वैष᳘ ते यो᳘निरिन्द्राग्नि᳘भ्यां त्वे᳘ति सादयतीन्द्राग्नि᳘भ्याॗᳫंॗ ह्येनं गृह्णा᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “इन्द्राग्नी ऽआगतं 19 सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता"- (वा. सं. ७ । ३१) इति । “उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वा"- (वा. सं. ७ । ३१) इति सादयति । इन्द्राग्निभ्यां ह्येनं गृह्णाति ॥ २४ ॥
सायणः
विहितं ग्रहणमनूद्य मन्त्रं विधत्ते- अथातो गृह्णात्येवेन्द्राग्नी ऽआगतमिति । हे इन्द्राग्नी ! ‘सुतम्’ अभिषुतम् । ‘गीर्भिः’ स्तुतिरूपाभिर्वाग्भिः ‘वरेण्यम्’ वरणीयम् ‘नभः’ लुप्तोपमानञ्चैतत् । नभ इव आदित्यमिव (निरु. २ । ४ । २) गीर्भिर्वरेण्यमिमं सोमं प्रति ‘आगतम्’ आगच्छतम् । “बहुलं छन्दसि”- (पा. सू. ६ । ४ । २६) इति विकरणस्य लुक् । आगत्य च ‘धिया’ अस्मदीयया बुद्ध्या ‘इषिता’ (पा. सू. ७ । १ । ३९) । अध्येषितौ प्रार्थितौ युवाम् ‘अस्य’ सोमस्य ‘पातम्’ सोमं पिबतम् । अत्रापि विकरणस्य लुक् (पा. सू. ६ । ४ । २६) । हे सोम ! उपयामेन दारुपात्रेण गृहीतो ऽसि । त्वाम् ‘इन्द्राग्निभ्याम्’ गृह्णामीति शेषः । गृहीतस्य सोमरसस्य समन्त्रकं खरे सादनं विधत्ते- एष ते योनिरित्यादि । इन्द्राग्निभ्यां हीति । इन्द्राग्नी आगतमित्यादिनेन्द्राग्न्यर्थं गृहीतत्वादेष ते योनिरिन्द्राग्निभ्यामित्यनेन सादनं युज्यत इत्यर्थः ॥ २४ ॥
Eggeling
- He now draws it from that (droṇakalaśa trough) with (Vāj. S. VII, 3, 1; Rig-veda III, 12, 1), ‘O Indra and Agni, through our songs come ye hither to the Soma, to the agreeable fume: drink thereof, urged by our hymn!–Thou art taken with a support: thee to Indra and Agni!’–with ‘This is thy womb: thee to Indra and Agni!’ he deposits it (on the mound), for it is for Indra and Agni that he draws it.
२५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ व्वैश्वदेवं ग्र᳘हं गृह्णाति॥
स᳘र्व्वं वा᳘ ऽइदं प्रा᳘जीजनद्य᳘ ऽऋतुग्रहान᳘ग्रहीत्स य᳘द्धैता᳘वदेवा᳘भविष्यद्या᳘वत्यो हैवा᳘ग्रे प्रजाः᳘ सृष्टास्ता᳘वत्यो है᳘वाभविष्यन्न प्रा᳘जनिष्यन्त॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ व्वैश्वदेवं ग्र᳘हं गृह्णाति॥
स᳘र्व्वं वा᳘ ऽइदं प्रा᳘जीजनद्य᳘ ऽऋतुग्रहान᳘ग्रहीत्स य᳘द्धैता᳘वदेवा᳘भविष्यद्या᳘वत्यो हैवा᳘ग्रे प्रजाः᳘ सृष्टास्ता᳘वत्यो है᳘वाभविष्यन्न प्रा᳘जनिष्यन्त॥
मूलम् - Weber
अ᳘थ वैश्वदेवं ग्र᳘हं गृह्णाति॥
स᳘र्वं वा᳘ इदम् प्रा᳘जीजनद्य᳘ ऋतुग्रहान᳘ग्रहीत्स य᳘द्धैता᳘वदेवा᳘भविष्यद्या᳘वत्या हैवा᳘ग्रे प्रजाः᳘ सृष्टास्ता᳘वत्यो हैॗवाभविष्यन्न प्रा᳘जनिष्यन्त॥
मूलम् - विस्वरम्
वैश्वदेवग्रहः ।
अथ वैश्वदेवं ग्रहं गृह्णाति । सर्वं वा ऽइदं प्राजीजनत्- य ऋतुग्रहानग्रहीत् । स यद्धैतावदेवाभविष्यत्- यावत्यो हैवाग्रे प्रजाः सृष्टाः- तावत्यो हैवाभविष्यन् । न प्राजनिष्यन्त ॥ २५ ॥
सायणः
ऐन्द्राग्नग्रहस्य ग्रहणानन्तरं वैश्वदेवग्रहस्य ग्रहणं सार्थवादं विधत्ते- अथ वैश्वदेवं गृह्णातीत्यादि । स यद्धैतावदिति । ‘एतावद्’ ऋतुग्रहणान्तमेव, यदि ‘अभविष्यत्’ तदा ‘अग्रे’ पूर्वं ‘यावत्यः’ ‘प्रजाः’ ‘सृष्टाः’, ‘तावत्यः’ एवाभविष्यन् ‘न’ तु परम् ‘प्राजनिष्यन्त’ ॥ २५ ॥
Eggeling
- Thereupon he draws the Vaiśvadeva cup 20.
For by drawing the Ritugrahas he has generated this All; but were there nothing but that, there would indeed be only as many, creatures as were created in the beginning: no (more) would be generated.
२६
विश्वास-प्रस्तुतिः
(न्ता᳘) अ᳘थ य᳘द्वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
(ती) इद᳘मे᳘वैतत्स᳘र्व्वमिमाः᳘ प्रजा᳘ यथायथं व्य᳘वसृजति त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते शुक्रपात्रे᳘ण गृह्णात्येष वै᳘ शुक्रो य᳘ एष त᳘पति त᳘स्य ये᳘ रश्म᳘यस्ते व्वि᳘श्वे देवास्त᳘स्माच्छुक्रपात्रे᳘ण गृह्णाति॥
मूलम् - श्रीधरादि
(न्ता᳘) अ᳘थ य᳘द्वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
(ती) इद᳘मे᳘वैतत्स᳘र्व्वमिमाः᳘ प्रजा᳘ यथायथं व्य᳘वसृजति त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते शुक्रपात्रे᳘ण गृह्णात्येष वै᳘ शुक्रो य᳘ एष त᳘पति त᳘स्य ये᳘ रश्म᳘यस्ते व्वि᳘श्वे देवास्त᳘स्माच्छुक्रपात्रे᳘ण गृह्णाति॥
मूलम् - Weber
अ᳘थ य᳘द्वैश्वदेवं ग्र᳘हं गृह्णा᳘ति॥
इद᳘मेॗवैतत्स᳘र्वमिमाः᳘ प्रजा᳘ यथायथं व्य᳘वसृजति त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्यावर्तम् प्र᳘जायन्ते शुक्रपात्रे᳘ण गृह्णात्येष वै᳘ शुक्रो य᳘ एष त᳘पति त᳘स्य ये᳘ रश्म᳘यस्ते वि᳘श्वे देवास्त᳘स्माछुक्रपात्रे᳘ण गृह्णाति॥
मूलम् - विस्वरम्
अथ यद्वैश्वदेवं ग्रहं गृह्णाति- इदमेवैतत्सर्वमिमाः प्रजा यथायथं व्यवसृजति । तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते । शुक्रपात्रेण गृह्णाति । एष वै शुक्रो, य एष तपति । तस्य ये रश्मयः- ते विश्वेदेवाः । तस्माच्छुक्रपात्रेण गृह्णाति ॥ २६ ॥
सायणः
अथ वैश्वदेवग्रहस्य ग्रहणेन ‘इदमेव’ ‘सर्वम्’ ‘यथायथम्’ यथास्वम् ‘व्यवसृजति’ विशेषेण प्रजा उत्पादयति । वैश्वदेवस्य सर्वदेवत्यत्वात्सर्वप्रजासृष्टिहेतुत्वम् । तस्मादिमाः प्रजाः पुनरभ्यावृत्योत्पद्यन्ते ॥
विहिते ग्रहणे साधनतया शुक्रपात्रं विधत्ते- शुक्रपात्रेण गृह्णातीत्यादि । “एष वै शुक्रः” इत्यादिकं निगदव्याख्यानम् ॥ २६ ॥
Eggeling
- Now, in that he draws the Vaiśvadeva graha, thereby he sends forth this All, these creatures in due order: whence these creatures are generated again repeatedly. He draws it with the Śucra cup, for the Śucra (bright) is yonder burning (sun), and
what rays of his there are, they are the All-gods: therefore he draws it with the Śukra cup.
२७
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वौ᳘) ओ᳘मासश्चर्षणीधृतो व्वि᳘श्वेदेवास आ᳘गत। दाश्वा᳘ᳫं᳘सो दाशु᳘षः[[!!]] सुत᳘म्॥ उपयाम᳘गृहीतो ऽसि व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य एष᳘ ते यो᳘निर्व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य ऽइ᳘ति सादयति व्वि᳘श्वेभ्यो᳘ ह्येनं देवे᳘भ्यो गृह्णा᳘ति॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वौ᳘) ओ᳘मासश्चर्षणीधृतो व्वि᳘श्वेदेवास आ᳘गत। दाश्वा᳘ᳫं᳘सो दाशु᳘षः[[!!]] सुत᳘म्॥ उपयाम᳘गृहीतो ऽसि व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य एष᳘ ते यो᳘निर्व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य ऽइ᳘ति सादयति व्वि᳘श्वेभ्यो᳘ ह्येनं देवे᳘भ्यो गृह्णा᳘ति॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
ओ᳘मासश्चर्षणीर्धतो वि᳘श्वे देवास आ᳘गत दाश्वा᳘ᳫं᳘सो दा᳘शुषः सुत᳘म् [^wbr_2] उपयाम᳘गृहीतो ऽसि वि᳘श्वेभ्यस्त्वा देवे᳘भ्य एष᳘ ते यो᳘निर्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य इ᳘ति सादयति वि᳘श्वेभ्योॗ ह्येनं देवे᳘भ्यो गृह्णा᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “ओमासश्चर्षणीधृतो 21 विश्वेदेवास आगत । दाश्वांसो दाशुषः सुतम् । उपयामगृहीतो ऽसि विश्वेभ्यस्त्वा देवेभ्यः, एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः”- (वा. सं. ७ । ३३ ।) इति सादयति । विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति ॥ २७ ॥
सायणः
ग्रहणानुवादेन मन्त्रं विधत्ते- अथातो गृह्णात्येव आभासश्चर्षणीधृत इति 21 । मन्त्रस्यायमर्थः- ‘ओमासः’ अवतेर्मन्प्रत्यये “ज्वरत्वर”- (पा. सू. ६ । ४ । २०) इत्यादिना ऊठादेशे गुणे असुकि (पा. सू. ७ । १ । ५०) च कृते जसि “ओमासः” इति । निपातनात् कस्वन्तस्य रूपम् “दाशुष” इति । दानशीलास्तादृशाः ‘विश्वे देवाः’ यूयं ‘दाशुषः’ यागदानादिकरणशीलस्य यजमानस्य ‘सुतम्’ अभिषुतं सोमं प्रति ‘आगत’ आगच्छत “बहुलं छन्दसि” (पा. सू. २ । ४ । ७६) इति विकरणस्य लुक् । हे सोम ! त्वम् ‘उपयामगृहीतो ऽसि’- इति त्वाम् ‘विश्वेभ्यः’ ‘देवेभ्यः’ गृह्णामि । गृहीतस्य सोमस्य खरे सादनं समन्त्रकमाह- एष ते योनिरित्यादि ॥ २७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे तृतीयाध्याये प्रथमं ब्राह्मणम् ॥ (४-३-१)
Eggeling
- He draws it from that (Soma in the Droṇakalaśa) with (Vāj. S. VII, 33; Rig-veda I, 3, 7), ‘Ye protectors and supporters of men, O All-gods, come hither, ye givers, to the giver’s liquor!–Thou art taken with a support: thee to the All-gods!’ with ‘This is thy womb: thee to the All-gods!’ he deposits it 22, for it is for the All-gods that he draws it.
-
पुरोडाशशकलमादाय समुपहूताः स्म इत्युक्त्वोत्तिष्ठति का. श्रौ. सू. ९-२६० । ↩︎
-
अच्छावाकायैनत्प्रयच्छन्नाहाच्छावाक व्वदस्व येत्त व्वाद्यमिति । का. श्रौ. सू. ९-२६१ । ↩︎
-
316:1 The Puroḍāśa offerings, described in the preceding paragraphs, are followed by libations from the dvidevatya cups, viz. the Aindravāyava, Maitrāvaruṇa, and Aśvina. Each time the Adhvaryu is about to make a libation, the Pratiprasthātr̥ draws Soma-juice into the Āditya cup (pātra) and makes libations therefrom immediately after the Adhvaryu on the north side of the fire. And each time he pours the remains from the Āditya cup into the Āditya sthālī with, ‘Thee to the Ādityas!’ finally covering the latter with the former (see IV, 3, 5, 6). Then follows the filling of the cups of the Camasins (see p. 287, note 2), and the libations from the Śukra and Manthin grahas (already anticipated in IV, 2, 1, 13 -31) and from the cups of the Camasins. Thereupon the Adhvaryu goes to the Sadas and sits down opposite the Hotr̥; and in alternate draughts and with mutual ‘invitations’ they empty the dvidevatya cups. The remains are poured into the Hotr̥’s cup, and portions of the puroḍāśas having then been put into those cups, they are deposited in the left track of the southern cart. The Adhvaryu and Pratiprasthātr̥ then drink the remains of the Śukra and Manthin cups; the other priests also drinking from their cups, without, however, quite emptying them, after which the cup-bearers deposit them in the Havirdhāna, behind the axle of the southern cart. Henceforward, till the Vaiśvadeva cup is drawn (IV, 3, 1, 25), those cups are called nārāśaṁsa. The Adhvaryu then takes a piece of the sacrificial cake and rises, calling out, ‘We are invited together;’ after which follows the rehabilitation of the Achāvāka, referred to above. Being called upon by the Adhvaryu, he recites the verse Rig-veda V, 25, 1 (beginning with ‘achā,’ whence perhaps his name), ‘Hither will I sing Agni the god for your protection,’ &c., and then says, ‘Ye Brāhmans, invite us Brāhmans also!’ whereupon the Adhvaryu says, ‘This Brāhman desires an invitation: invite him, Hotr̥!’ Being then invited, he pronounces an anuvākyā, and his cup-bearer fills his cup, which henceforth ranks last but one, thus preceding that of the Āgnīdhra. He now drinks from his cup, and the latter is then deposited along with the other Camasas; whereupon the priests, who have taken part in the offering of the puroḍāśas, and the sacrificer eat the Iḍā in the Āgnīdhra fire-house. ↩︎
-
317:1 Or rather, we have been mutually invited. ↩︎
-
317:2 See III, 6, 2, 12. ↩︎
-
ऋतुग्रहैश्चरतो द्रोणकलशादुपयामगृहीतो ऽसि मघवे त्वेति द्वादश प्रातमत्रम् । चरत इति द्विवचनोपदेशात्प्रतिप्रस्थाता च । द्रोणकलशादिति नियमो वचनात् । द्वादशग्रहणाच्च द्वादशानामुत्तमयोर्यौगपद्यम् । न तु त्रयोदशस्येति कर्कः । अध्वर्योः पूर्व्वः पूर्व्वो मंत्रः । उत्तर उत्तरः प्रतिप्रस्थातुः । का. श्रौ. सू. ९ । २७०-२७२ । ↩︎
-
318:1 See part i, p. 321, note 6. ↩︎
-
318:2 The two R̥tu vessels are made of kārshmarya or aśvattha wood, of the shape of spoon-bowls, with spouts on both sides. Kāty. IX, 2, 13. ↩︎
-
यज्ञपार्श्वे कात्यायनः “ऋतुग्रहा द्विदैवत्या ये च पात्नीवतग्रहाः । आदित्यग्रहसावित्रा एते नानुवषट्कृताः ॥” इति । ↩︎
-
युगपत्प्रथमौ गृह्णीत उत्तमौ च व्यत्यासम् । मध्ये प्रचरणं च सर्व्वेषाम् । का. श्रौ. सू. ९ । २७३ । ↩︎
-
निष्कामत्येकः प्रविशतोत्तरः । उत्तरः उत्तरः प्रतिप्रस्थाता ऽपरकालत्वात् । का० श्रौ० सू० ९ । २७४, २७५ । ↩︎ ↩︎
-
319:1 The twelve R̥tugrahas are drawn alternately by the Adhvaryu and Pratiprasthātr̥–the first two and the last two simultaneously, the others singly, so that the one enters the cart-shed while the other leaves. Both in entering and leaving the Pratiprasthātr̥ passes by the Adhvaryu on the north side, and for a moment encircles him by passing his arms round him and holding his own vessel south of him. With the exception of the last two libations, the libations are offered up entire (holocausts). When either of them is about to offer one of the first six libations, he calls on the Maitrāvaruṇa to ‘Prompt (the Hotr̥, &c.) by the season!’–and at the four succeeding ones (after turning round the vessels so as to put the other mouth in front) to ‘Prompt by the seasons!’ For the last two libations they again reverse the vessels to the previous position and call on him to ‘Prompt by the season!’ The Maitrāvaruṇa’s formula runs thus: ‘Let the Hotr̥ pronounce the offering prayer to Indra!–From the Hotr̥’s cup, from heaven to earth, may he drink Soma together with the season (or, seasons)! O Hotr̥, pronounce the offering prayer!’ Whereupon the Hotr̥ (Potr̥, &c.) recites–‘We who worship,–From the Hotr̥’s cup, from heaven to earth, may he drink Soma together with the season (or, seasons)! Vaushaṭ!’ These formulas are slightly varied according to the deity to whom the libation is offered, and the priest who pronounces the offering prayer and Vaushaṭ. The deities and offering priests of the twelve libations are: 1. Indra–the Hotr̥; 2. the Maruts–the Potr̥; 3. Tvashṭr̥ and the wives of the gods–the Neshṭr̥; 4. Agni–the Āgnīdhra; 5. Indra-Brahman–the Brāhmaṇāchaṁsin; 6. Mitra-Varuṇa–the Maitrā-varuṇa; 7-10. Deva Draviṇodas–the Hotr̥ Potr̥; Neshṭr̥, and Achāvāka respectively; 11. the Aśvins–the Hotr̥; 12. Agni Gr̥hapati–the Hotr̥. For this last libation, the Maitrāvaruṇa in the first place calls on the sacrificer with, ‘O lord of the house, pronounce the offering prayer!’ and the sacrificer then again on the Hotr̥ with, ‘O Hotr̥; pronounce the offering prayer upon this!’ whereupon the Hotr̥ pronounces the (sacrificer’s) offering prayer. Kāty. IX, 13; Śāṅkhāyana Sr. VII, 8; Haug, Transl. Ait. Br. p. 135. ↩︎
-
321:1 Viz. from the Droṇakalaśa trough; see paragraph 6. ↩︎
-
321:2 The Kāṇva text adds r̥tū in each case. ↩︎
-
स्ववशमिति भाष्यपाठः । ↩︎
-
322:1 The Kāṇva text has ‘bhakshyam’ instead of ‘bhaksham.’ Each of the priests who have pronounced the offering prayer and Vaushaṭ partakes of this Soma in his respective order,–the Hotr̥ thus taking four draughts; and the Adhvaryu and Pratiprasthātr̥ (who, after drawing the Aindrāgna cup, join them in the Sadas) drinking alternately from the same vessel with those Hotr̥ priests, who pronounced the Vashaṭ at their libations. As at the drawing of the libations, the vessel is turned round after the sixth and tenth offering priests have drank. The vessel having been emptied, the Adhvaryu takes it outside the Sadas, and then sits down in front of the Hotr̥’s hearth, with his face to the east, till the recitation of the Śastra (IV, 3, 2, 2). ↩︎
-
अन्यतरस्मिच्छेषौ कृत्वा व्वशिनैन्द्राग्नं गृह्णाति प्रतिप्रस्थातेंद्राग्नी इति । का. श्रौ. सू. ९ । २८५ । ↩︎
-
षिता । AB. ↩︎
-
एष मन्त्र इन्द्राग्निदैवत्ये विहितः । यदि तु अग्नीन्द्रदैवत्यो ग्रहो विधीयते तदा “आघा ये अग्निमिन्धते” इत्यादिमन्त्रः प्रयोज्यतया संहितायां पठ्यते । ↩︎
-
323:1 According to Kāty. IX, 13, 33 seq. the order of performance is as follows. In the first place the first Ājya-śastra is recited. Thereupon the Adhvaryu fetches the Aindrāgna cup from the Havirdhāna (where it was deposited by the Pratiprasthātr̥), makes a libation from it–after calling on the Hotr̥, as at all libations accompanied by a śastra, ‘Singer of praises, recite Soma’s offering prayer;’ the nārāśaṁsa cups being shaken by the cup-bearers at the same time–and then drinks the remaining Soma with the Hotr̥. Thereupon he draws the Vaiśvadeva cup from the Droṇakalaśa, pours the remaining juice from the latter into the Pūtabhr̥t, and spreads the straining-cloth over the empty vessels for the midday pressing. He also prepares the Savanīya purodāśas (see p. 315, note 4), for the midday feast, omitting however the dish of clotted curds (payasyā). Then follows the chanting of the first Ājya stotra by the Udgātr̥s, and the recitation of the Praüga-śastra by the Hotr̥, after which takes place the Vaiśvadeva libation (and emptying of the cup) in the same way as with the Aindrāgna–the camasas being also drained of their contents by the respective priests. Then follows the distribution–already referred to IV, 2, 3, 11 seq.–of the Soma in the Ukthya bowl into three parts for the three Hotrakas, now about to recite their śastras (preceded by their respective stotras). The Adhvaryu takes one portion of the Soma, calls on the Udgātr̥s to chant the stotra, and afterwards on the Praśāstr̥ (Maitrāvaruṇa) to recite his śastra; after which he makes a libation from the portion of Soma, and pours the remainder into the Praśāstr̥’s cup, to be drunk by that priest. In the same way the Pratiprasthātr̥ then proceeds with the portions of the two other Hotrakas, viz. the Brāhmaṇāchaṁsin and Achāvāka. Each time also the ten camasas are filled, and after libations therefrom, are emptied by the Camasins. See also p. 287, note 2. At the end of the performance the priests pass silently out (niḥsarp, see p. 299, note 1) of the Sadas by the back-door and out of the Vedi; the midday performance afterwards beginning with the pratisarpaṇa, or ‘creeping back’ to the Sadas, with homage to the dhishṇya hearths, &c. ↩︎
-
वैश्वदेवग्रहे विकल्पेन प्रयोज्यौ द्वौ मन्त्रौ संहितायामाम्नायेते । इह तु ब्राह्मणे तयोरेक एवाम्नायते न द्वितीयः । स च मन्त्रः ‘विश्वे देवास आगत’ इत्येवमादिर्द्रष्टव्यः । ↩︎ ↩︎
-
325:1 Viz. in the place of the Śukra cup, on the south-east corner of the khara or mound. ↩︎