०१
विश्वास-प्रस्तुतिः
ग्र᳘हान्गृही᳘त्वा॥
(त्वो) उपनिष्क्र᳘म्य व्विप्रु᳘षाᳫँ᳭ हो᳘मं जुहोति तद्य᳘द्विप्रु᳘षाᳫँ᳭ हो᳘मं जुहो᳘ति या᳘ ऽए᳘वास्या᳘त्र व्विप्रु᳘ष स्क᳘न्दन्ति ता᳘ ऽए᳘वैत᳘दाहवनी᳘ये स्वगा᳘ करोत्याहवनी᳘यो ह्या᳘हुतीनां प्रतिष्ठा त᳘स्माद्विप्रु᳘षाᳫँ᳭हो᳘मं जुहोति॥
मूलम् - श्रीधरादि
ग्र᳘हान्गृही᳘त्वा॥
(त्वो) उपनिष्क्र᳘म्य व्विप्रु᳘षाᳫँ᳭ हो᳘मं जुहोति तद्य᳘द्विप्रु᳘षाᳫँ᳭ हो᳘मं जुहो᳘ति या᳘ ऽए᳘वास्या᳘त्र व्विप्रु᳘ष स्क᳘न्दन्ति ता᳘ ऽए᳘वैत᳘दाहवनी᳘ये स्वगा᳘ करोत्याहवनी᳘यो ह्या᳘हुतीनां प्रतिष्ठा त᳘स्माद्विप्रु᳘षाᳫँ᳭हो᳘मं जुहोति॥
मूलम् - Weber
ग्र᳘हान्गृहीॗत्वा॥
उपनिष्क्र᳘म्य विप्रु᳘षाᳫं हो᳘मं जुहोति तद्य᳘द्विप्रु᳘षाᳫं हो᳘मं जुहो᳘ति या᳘ एॗवास्या᳘त्र विप्रु᳘ष स्क᳘न्दन्ति ता एॗवैतदाहवनी᳘ये स्वगा᳘करोत्याहवनीयो ह्या᳘हुतीनाम् प्रतिष्ठा त᳘स्माद्विप्रु᳘षाᳫं हो᳘मं जुहोति॥
मूलम् - विस्वरम्
ग्रहान्गृहीत्वा उपनिष्क्रम्य विप्रुषां होमं जुहोति । तद् यद्विप्रुषां होमं जुहोति । या एवास्यात्र विप्रुषः स्कन्दन्ति- ता एवैतदाहवनीये स्वगा करोति । आहवनीयो ह्याहुतीनां प्रतिष्ठा । तस्माद् विप्रुषां होमं जुहोति ॥ १ ॥
सायणः
गतेषु ब्राह्मणेषु प्रातःसवनिकानामुपांश्वादीनां ग्रहाणां ग्रहणं विहितम् । तदनन्तरकर्त्तव्यं बहिष्पवमानस्तोत्रादिकमस्मिन् ब्राह्मणे ऽभिधीयते । तत्र तावदभिषवकाले ग्रहणकाले च स्कन्नानां सोमबिन्दूनां स्कन्दनप्रत्यवायपरिहाराय विप्रुषां होमं विधत्ते- ग्रहान्गृहीत्वोपनिष्क्रम्य विप्रुषां होमं जुहोति इति 1 । ‘उपनिष्क्रम्य’ हविर्द्धानान्निर्गत्य ‘विप्रुषाम्’ अर्थे तत्र स्कन्दनप्रायश्चित्तत्वेन होमं कुर्यादित्यर्थः । यद्यप्यत्र ‘जुहोति’ इत्यनेनैव होमं कुर्यादित्ययमर्थो लभ्यते । तथाप्यत्र ‘होमम्’ इति पृथगुपात्तत्वाज्जुहोतिनैकदेशलक्षणया करोत्यर्थो लक्ष्यते । यथा “वाचमवोचत्” इत्यत्र । विहितस्य होमस्योपयोगमाह- तद्यद्विप्रुषां होममित्यादि । ‘विप्रुषां होमं जुहोति’ इति यत्, तत्कारणमुच्यते । ‘अस्य’ सोमस्य ‘विप्रुषः’ ‘अत्र’ ‘स्कन्दन्ति’ विशीर्णा भवन्ति । ‘ताः’ एतेन विप्रुड्ढोमेन ‘आहवनीये’ ‘स्वगा करोति’ स्वस्थानमाहवनीयं गच्छन्तीति स्वगाः, तादृशीः कृतवान् भवति । यत आहवनीयः सर्वासाम् ‘आहुतीनाम्’ ‘प्रतिष्ठा’ आधारः । अत उक्तेन होमेन विप्रुषामाहवनीयम्प्रति प्रापणात् स्कन्दनप्रत्यवायो न भवतीत्यर्थः । ‘स्वगा’ इति “अन्येष्वपि दृश्यते” (पा. सू. ३ । २ । १०१) इति डप्रत्ययः । ततः स्त्रीलिङ्गाद् द्वितीयाबहुवचनस्य “सुपां सुलुक्” (पा. सू. ७ । १ । ३९) इत्याकारादेशः ॥ १ ॥
Eggeling
- Having drawn the cups of Soma, and gone out (of the cart-shed to the high altar) 2, he offers the oblation of drops 3. The reason why he offers the oblation of drops is this. Whatever drops of that (Soma) are spilt here, to them he now wishes a safe journey to the Āhavanīya, for the Āhavanīya is the resting-place of offerings: this is why he offers the oblation of drops.
०२
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
य᳘स्ते द्रप्स स्क᳘न्दति य᳘स्ते ऽअᳫँ᳭शुरि᳘ति यो᳘ वै᳘ स्तोकः स्क᳘न्दति स᳘ द्रप्सस्तत्त᳘माह य᳘स्ते ऽअᳫँ᳭शुरि᳘ति त᳘दᳫँ᳭शु᳘माह ग्रा᳘वच्युतो धिष᳘णयोरुप᳘स्थादि᳘ति ग्रा᳘व्णा हि᳘ च्यु᳘तो ऽधिष᳘वणाभ्याᳫँ᳭स्क᳘न्दत्यध्वर्यो᳘र्व्वा प᳘रि वा यः᳘ पवि᳘त्रादि᳘त्यध्वर्यो᳘र्वा हि᳘ पाणिभ्याᳫँ᳭स्क᳘न्दति पवि᳘त्राद्वा तं᳘ ते जुहोमि म᳘नसा व्व᳘षट्कृतᳫँ᳭स्वाहे᳘ति तद्य᳘था व्व᳘षट्कृतᳫँ᳭हुत᳘मेव᳘मस्यैत᳘द्भवति॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
य᳘स्ते द्रप्स स्क᳘न्दति य᳘स्ते ऽअᳫँ᳭शुरि᳘ति यो᳘ वै᳘ स्तोकः स्क᳘न्दति स᳘ द्रप्सस्तत्त᳘माह य᳘स्ते ऽअᳫँ᳭शुरि᳘ति त᳘दᳫँ᳭शु᳘माह ग्रा᳘वच्युतो धिष᳘णयोरुप᳘स्थादि᳘ति ग्रा᳘व्णा हि᳘ च्यु᳘तो ऽधिष᳘वणाभ्याᳫँ᳭स्क᳘न्दत्यध्वर्यो᳘र्व्वा प᳘रि वा यः᳘ पवि᳘त्रादि᳘त्यध्वर्यो᳘र्वा हि᳘ पाणिभ्याᳫँ᳭स्क᳘न्दति पवि᳘त्राद्वा तं᳘ ते जुहोमि म᳘नसा व्व᳘षट्कृतᳫँ᳭स्वाहे᳘ति तद्य᳘था व्व᳘षट्कृतᳫँ᳭हुत᳘मेव᳘मस्यैत᳘द्भवति॥
मूलम् - Weber
स᳘ जुहोति॥
य᳘स्ते द्रप्स स्क᳘न्दति य᳘स्ते अंशुरि᳘ति यो वै᳘ स्तोक स्क᳘न्दति स᳘ द्रप्सस्तत्त᳘माह य᳘स्ते अंशुरि᳘ति त᳘दंशु᳘माह ग्रा᳘वच्युतो धिष᳘णयोरुप᳘स्थादि᳘ति ग्रा᳘व्णा हि᳘ च्युॗतो ऽधिष᳘वणाभ्याᳫं स्क᳘न्दत्यध्वर्यो᳘र्वा प᳘रि वा यः᳘ पवि᳘त्रादि᳘त्यध्वर्यो᳘र्वा हि᳘ पाणि᳘भ्याᳫं स्क᳘न्दति पवि᳘त्राद्वा तं ते जुहोमि म᳘नसा व᳘षट्कृतᳫं स्वाहे᳘ति तद्य᳘था व᳘षट्कृतᳫं हुत᳘मेव᳘मस्यैत᳘द्भवति॥
मूलम् - विस्वरम्
स जुहोति- “यस्ते द्रप्स स्कन्दति यस्ते ऽअंशुः”- (वा. सं. ७ । २६) इति । यो वै स्तोकः स्कन्दति स द्रप्सस्तत्- तमाह । यस्ते ऽअंशुरिति । तदंशुमाह । “ग्रावच्युतो धिषणयोरुपस्थात्”- (वा० सं० ७ । २६) इति । ग्राव्णा हि च्युतो ऽधिषवणाभ्यां स्कन्दति । “अध्वर्योर्वा परि वा यः पवित्रात्”- (वा० सं० ७ । २६) इति । अध्वर्योर्वा हि पाणिभ्यां स्कन्दति, पवित्राद्वा । “तं ते जुहोमि मनसा वषट्कृतं स्वाहा” (वा. सं. ७ । २६)- इति । तद्यथा वषट्कृतं हुतम्- एवमस्यैतद्भवति ॥ २ ॥
सायणः
विहितहोमे मन्त्रं चतुर्द्धा विभज्य विनियुञ्जानो मन्त्रस्य प्रथमभागे द्रप्सपदस्यार्थमाह-स जुहोति यस्ते द्रप्स इत्यादि 1 । यो वै स्तोक इत्यादि । ‘स्तोकः’ लग्नो बिन्दुः स द्रप्सशब्दार्थः । अतो ऽत्र ‘तत्’ द्रप्सपदं ‘तम्’ स्तोकम् ‘आह’ इत्यर्थः ॥
द्वितीयं भागं व्याचष्टे- ग्रावच्युत इत्यादि । अभिषवार्थेन ग्रा (व्णा) वा ऽधिषवणयोरभिषवफलकयोश्च्युतस्ततो ऽपि सोमसम्बन्धी द्रप्सों ऽशुश्च पतति यतः, अतो ऽस्य मन्त्रस्योच्चारणम् ।
तृतीयं भागं व्याचष्टे- अध्वर्योर्वेत्यादि । ‘अध्वयोः’ इत्यनेनाभिप्रायेणाध्वर्योर्वेत्यादि प्रयुक्तम् ।
चतुर्थं व्याचष्टे- तं ते जुहोमीत्यादि । अत्र ‘वषट्कृतम्’ इत्येतदुच्चारणेन सवषट्कारो होम एव भवतीत्यर्थः । हे सोम ! ग्राव्णश्च्युतः अधिषवणयोरुपस्थाच्च च्युतः । अध्वर्योर्वा पवित्राद्वा च्युतो ‘यस्तें ऽशुर्द्रप्सश्च’ ‘ते’ तव सम्बन्धिनं तमंशुं द्रप्सं च मनसा ‘वषट्कृतं’ सन्तं जुहोमि । इदं द्रव्यं स्वाहुतमस्तु । इति मन्त्रार्थः ॥ २ ॥
Eggeling
- He offers with (Vāj. S. VII, 26; Rig-veda X, 17, 12), ‘Whatever drop of thine leapeth
away, whatever stalk of thine,’–whatever particle (of Soma) is spilt, that is a drop, that indeed he means; and by ‘whatever stalk of thine’ he mentions the stalk;–‘stone-pressed, from the lap of the press-bowls;’ for pressed by the stone 4 it leaps away from the two press-bowls;–‘be it from the Adhvaryu or from the strainer,’–for it leaps away either from the Adhvaryu’s hands or from the strainer,–’that I offer unto thee in my mind consecrated by Vashaṭ, Hail!’ whereby it becomes for him as an offering consecrated by Vashaṭ.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ स्तीर्णा᳘यै व्वे᳘देः॥
(र्द्वे) द्वे तृ᳘णे ऽअध्वर्युरा᳘दत्ते ता᳘वध्वर्यू᳘ प्र᳘थमौ प्रतिपद्येते[[!!]] प्राणोदानौ᳘ यज्ञस्या᳘थ प्रस्तोता व्वा᳘गेव᳘ यज्ञस्या᳘थोद्गा᳘ता᳘त्मैव᳘ प्रजा᳘पतिर्यज्ञस्या᳘थ प्रतिहर्ता᳘ भिष᳘ग्वा व्यानो᳘ वा॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ स्तीर्णा᳘यै व्वे᳘देः॥
(र्द्वे) द्वे तृ᳘णे ऽअध्वर्युरा᳘दत्ते ता᳘वध्वर्यू᳘ प्र᳘थमौ प्रतिपद्येते[[!!]] प्राणोदानौ᳘ यज्ञस्या᳘थ प्रस्तोता व्वा᳘गेव᳘ यज्ञस्या᳘थोद्गा᳘ता᳘त्मैव᳘ प्रजा᳘पतिर्यज्ञस्या᳘थ प्रतिहर्ता᳘ भिष᳘ग्वा व्यानो᳘ वा॥
मूलम् - Weber
अ᳘थ स्तीर्णा᳘यै वे᳘देः॥
द्वे तृ᳘णे अध्वर्युरा᳘दत्ते ता᳘वध्वर्यू᳘ प्रथमौ प्र᳘तिपद्ये᳘ते प्राणोदानौ᳘ यज्ञस्या᳘थ प्रस्तोता वा᳘गेव᳘ यज्ञस्या᳘थोद्गाॗताॗत्मैव᳘ प्रजा᳘पतिर्यज्ञस्या᳘थ प्रतिहर्ता᳘ भिष᳘ग्वा व्यानो᳘ वा॥
मूलम् - विस्वरम्
अथ स्तीर्णायै वेदेः द्वे तृणे ऽअध्वर्युरादत्ते । तावध्वर्यू प्रथमौ प्रतिप्रद्येते प्राणोदानौ यज्ञस्य । अथ प्रस्तोता वागेव यज्ञस्य । अथोद्गाता आत्मैव प्रजापतिर्यज्ञस्य । अथ प्रतिहर्ता भिषग्वा व्यानो वा ॥ ३ ॥
सायणः
वैप्रुषहोमानन्तरं बहिष्पवमानार्थमध्वर्युणा तृणयोरादानं प्रथमं विधत्ते- अथेत्यादि । (व्वेदितृणे ऽध्वर्युरादत्ते प्रह्वा उदंचो गच्छन्ति । का० श्रौ० सू० ९ । १५४ ।) ‘स्तीर्णायै’ इति षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ६ । ६२ । वा. १) स्तीर्णायाः ‘वेदेः’ सकाशात् ‘तृणे’ आददीतेत्यर्थः । बहिष्पवमानायाध्वर्युप्रभृतीनां गमनम्, तेषां (तच्च) चानन्तर्यं विधत्ते- तावध्वर्यू प्रथमावित्यादि । ‘तौ’ यज्ञस्य प्राणापानात्मकावध्वर्युप्रतिप्रस्थातारौ ‘प्रथमौ’ ‘प्रतिपद्येते’ गन्तुमुपक्रामतः । एवमुत्तरत्र वाक्येष्वपि योजना । अथोद्गातेति, यज्ञस्योच्यते । उद्गाता च यज्ञाङ्गत्वात् ‘प्रजापतिः’ । स च ‘यज्ञस्य’ ‘आत्मा’ मध्यशरीरम् । अत्राध्वर्युप्रभृतीनां यज्ञसम्बन्धिप्राणाद्यात्मकत्वकथनेन यज्ञस्य मुख्याङ्गं बहिष्पवमानंप्रति गन्तृत्वे योग्यता प्रदर्शिता ॥ ३ ॥
Eggeling
- Thereupon the Adhvaryu takes two stalks of grass from the covered altar. The two Adhvaryus 5 proceed first (to the chanting-place beside the pit), as the out-breathing and in-breathing of the sacrifice; then the Prastotr̥, as the voice of the sacrifice; then the Udgātr̥, as the self (or body), the Prajāpati, of the sacrifice; then the Pratihartr̥, either as the physician or the through-breathing 6.
०४
विश्वास-प्रस्तुतिः
तान्वा᳘ ऽएतान्[[!!]]॥
प᳘ञ्च ऽर्त्वि᳘जो य᳘जमानो ऽन्वा᳘रभत ऽएता᳘वान्वै[[!!]] स᳘र्व्वो यज्ञो या᳘वन्त ऽएते प᳘ञ्चर्त्वि᳘जो भ᳘वन्ति पा᳘ङ्क्तो वै᳘ यज्ञस्त᳘द्यज्ञ᳘मे᳘वैतद्य᳘जमानो ऽन्वा᳘रभते॥
मूलम् - श्रीधरादि
तान्वा᳘ ऽएतान्[[!!]]॥
प᳘ञ्च ऽर्त्वि᳘जो य᳘जमानो ऽन्वा᳘रभत ऽएता᳘वान्वै[[!!]] स᳘र्व्वो यज्ञो या᳘वन्त ऽएते प᳘ञ्चर्त्वि᳘जो भ᳘वन्ति पा᳘ङ्क्तो वै᳘ यज्ञस्त᳘द्यज्ञ᳘मे᳘वैतद्य᳘जमानो ऽन्वा᳘रभते॥
मूलम् - Weber
तान्वा एता᳘न्॥
प᳘ञ्चर्त्वि᳘जो य᳘जमानो ऽन्वा᳘रभत एता᳘वान्वै᳘स᳘र्वो यज्ञो या᳘वन्त एते प᳘ञ्चर्त्विजो भ᳘वन्ति पा᳘ङ्क्तो वै᳘ यज्ञस्त᳘द्यज्ञ᳘मेॗवैतद्य᳘जमानो ऽन्वा᳘रभते॥
मूलम् - विस्वरम्
तान्वा ऽएतान् पञ्च ऽर्त्विजो, यजमानो ऽन्वारभते । एतावान्वै सर्वो यज्ञो- यावन्त एते पञ्चर्त्विजो भवन्ति । पाङ्क्तो वै यज्ञः । तद् यज्ञमेवैतद्यजमानो ऽन्वारभते ॥ ४ ॥
सायणः
यजमानेनाध्वर्युप्रभृतीनां स्पर्शनं सोपपत्तिकं विधत्ते- तान्वा एतानित्यादि । ‘एते’ ‘पञ्चर्त्विजो’ ‘यावन्तो’ यावत्परिमाणयुक्ताः । ‘सर्वो यज्ञः’ अपि ‘एतावान्’ एतत्परिमाणयुक्तः । एते पञ्चर्त्विज एव सकलो यज्ञः, तेषां यज्ञसम्बन्धिप्राणाद्यात्मकत्वेनाभिधानादित्यर्थः ॥ ४ ॥
Eggeling
- The Sacrificer holds on to those five priests from behind 7, for as much as those five priests are, so much is the whole sacrifice, the sacrifice being fivefold: hence the Sacrificer thereby holds on to the sacrifice.
०५
विश्वास-प्रस्तुतिः
(ते᳘ ऽथा) अ᳘थान्यतरत्तृ᳘णम्॥
(ञ्चा᳘) चा᳘त्वालमभिप्रा᳘स्यति देवा᳘नामुत्क्र᳘मणमसी᳘ति य᳘त्र वै᳘ देवा᳘ यज्ञे᳘न स्वर्गं᳘ लोक᳘ᳫँ᳘समा᳘श्नुवत त᳘ ऽएत᳘स्माच्चा᳘त्वालादूर्ध्वाः᳘ स्वर्गं᳘ लोक᳘मुपो᳘दक्रामंस्तद्य᳘जमानमे᳘वैत᳘त्स्व᳘र्ग्यं[[!!]] प᳘न्थानमनुसं᳘ख्यापयति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथा) अ᳘थान्यतरत्तृ᳘णम्॥
(ञ्चा᳘) चा᳘त्वालमभिप्रा᳘स्यति देवा᳘नामुत्क्र᳘मणमसी᳘ति य᳘त्र वै᳘ देवा᳘ यज्ञे᳘न स्वर्गं᳘ लोक᳘ᳫँ᳘समा᳘श्नुवत त᳘ ऽएत᳘स्माच्चा᳘त्वालादूर्ध्वाः᳘ स्वर्गं᳘ लोक᳘मुपो᳘दक्रामंस्तद्य᳘जमानमे᳘वैत᳘त्स्व᳘र्ग्यं[[!!]] प᳘न्थानमनुसं᳘ख्यापयति॥
मूलम् - Weber
अ᳘थान्यतरत्तृ᳘णम्॥
चा᳘त्वालमभिप्रा᳘स्यति देवा᳘नामुत्क्र᳘मणमसी᳘ति य᳘त्र वै᳘ देवा᳘ यज्ञे᳘न स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवत त᳘ एत᳘स्माच्चा᳘त्वालादूर्ध्वाः᳘ स्वर्गं᳘ लोक᳘मुपो᳘दक्रामंस्तद्य᳘जमानमेॗवैत᳘त्स्वर्ग्य᳘म् प᳘न्थानमनुसं᳘ख्यापयति॥
मूलम् - विस्वरम्
अथान्यतरत्तृणं चात्वालमभि प्रास्यति- “देवानामुत्क्रमणमसि” (वा. सं. ७ । २६) इति । यत्र वै देवा यज्ञेन स्वर्गं लोकं समाश्नुवत, त ऽएतस्माच्चात्वालादूर्ध्वाः स्वर्गं लोकमुपोदक्रामन् । तद्यजमानमेवैतत् स्वर्ग्यं पन्थानमनुसङ्ख्यापयति ॥ ५ ॥
सायणः
विधत्ते- अथेत्यादि । (“अन्यतरत्तृणं चात्वाले प्रास्यति देवानामिति” का० श्रौ० सू० ९ । १५५ ।) ‘अथ’ अध्वर्य्वादिगमनानन्तरमुपात्तयोस्तृणयोरन्यतरं ‘चात्वालमभि’ चात्वाले “देवानाम्” इत्यादिना मन्त्रेण ‘प्रास्यति’ प्रक्षिपेत् । हे चात्वाल ! त्वम् ‘देवानामुत्क्रमणमसि’ स्वर्गं प्रत्युत्क्रमणसमये ऽधिकरणमास । चात्वाले तृणप्रक्षेपस्योपयोगमाह- यत्र वा इत्यादि । तद्यजमानमिति । ‘तत्’ तेन “देवानामुत्क्रमणमसि” इति मन्त्रं समुच्चार्य चात्वाले तृणप्रक्षेपेण ‘यजमानमेव’ ‘स्वर्ग्यम्’ स्वर्गप्राप्तिहेतुभूतम् ‘पन्थानमनुसंख्यापयति’ ज्ञापयति । सङ्ख्यातेरत्र ज्ञानार्थत्वाद् “गतिबुद्धि-” (पा. सू. १ । ४ । ५२) इत्यादिना द्विकर्मकत्वम् ॥ ५ ॥
Eggeling
- He (the Adhvaryu) then throws one of the two
stalks of grass forward towards the pit 8, with, ‘Thou art the ascent of the gods!’ for when the gods through the sacrifice attained to the heavenly world, it was from that pit that they went upwards to the heavenly world: he thus makes the sacrificer look along the road to heaven.
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थान्यतरत्तृ᳘णम्॥
(म्पु) पुर᳘स्तादुद्गातॄणामु᳘पास्यति तूष्णी᳘मेव स्तो᳘मो वा᳘ ऽएष᳘ प्रजा᳘पतिर्य᳘दुद्गाता᳘रः स᳘ इदᳫं᳭स᳘र्व्वं युत᳘ ऽइदᳫं᳭ स᳘र्व्वᳫं᳭ सं᳘भवति त᳘स्मा ऽए᳘वैतत्तृ᳘णम᳘पिदधाति त᳘थो हाध्वर्युं न᳘ युते᳘ नैनᳫं᳭ स᳘म्भवत्य᳘थ यदा ज᳘पन्ति ज᳘पन्ति ह्य᳘त्रोद्गातारः[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थान्यतरत्तृ᳘णम्॥
(म्पु) पुर᳘स्तादुद्गातॄणामु᳘पास्यति तूष्णी᳘मेव स्तो᳘मो वा᳘ ऽएष᳘ प्रजा᳘पतिर्य᳘दुद्गाता᳘रः स᳘ इदᳫं᳭स᳘र्व्वं युत᳘ ऽइदᳫं᳭ स᳘र्व्वᳫं᳭ सं᳘भवति त᳘स्मा ऽए᳘वैतत्तृ᳘णम᳘पिदधाति त᳘थो हाध्वर्युं न᳘ युते᳘ नैनᳫं᳭ स᳘म्भवत्य᳘थ यदा ज᳘पन्ति ज᳘पन्ति ह्य᳘त्रोद्गातारः[[!!]]॥
मूलम् - Weber
अ᳘थान्यतरत्तृ᳘णम्॥
पुर᳘स्तादुद्गातॄणामुपास्यति तूष्णि᳘मेव स्तो᳘मो वा᳘ एष᳘ प्रजा᳘पतिर्य᳘दुद्गाता᳘रः स᳘ इदᳫं स᳘र्वं युत᳘ इदᳫं स᳘र्वᳫं स᳘म्भवति त᳘स्मा एॗवैतत्तृ᳘णम᳘पिदधाति त᳘थो हाध्वर्युं न᳘ युतेॗ नैनᳫं स᳘म्भवत्य᳘थ यदा ज᳘पन्ति-जपन्ति ह्य᳘त्रोद्गाता᳘रः॥
मूलम् - विस्वरम्
अथान्यतरत्तृणं पुरस्तादुद्गातॄणामुपास्यति- तूष्णीमेव । स्तोमो वा ऽएष प्रजापतिः- यदुद्गातारः । स इदं सर्व युते, इदं सर्वं सम्भवति । तस्मा ऽएवैतत्तृणमपिदधाति । तथो हाध्वर्युर्न युते, नैनं सम्भवति । अथ यदा जपन्ति । जपन्ति ह्यत्रोद्गातारः ॥ ६ ॥
सायणः
अवशिष्टस्य तृणस्य विनियोगं दर्शयति- अथान्यतरदित्यादि 9 । स्तोमो वा, इति । स्तोत्रसाधनभूतानामृचां सङ्घः ‘स्तोमः’ । तेन च यज्ञो निष्पद्यत इति ‘स्तोमः’ एव ‘एषः’ प्रजापतिः यज्ञः । स्तोमनिष्पादकानामुद्गातॄणामपि कार्यकारणाभेदविवक्षया स्तोमत्वम् । तेन प्रजापत्यात्मकत्वम् । प्रजापतिः स इदं ‘सर्वम्’ प्रपञ्चम् ‘युते’ मिश्रयति एकीकरोति । “यु मिश्रणामिश्रणयोः” (धा. पा. अ. प. २३) इति धातुः । एकीकृत्य च ‘इदम्’ एव ‘सर्वम्’ स्वयं ‘सम्भवति’ । एतत् सर्वमात्मन्येव निधाय कारणात्मना ऽवतिष्ठत इत्यर्थः । ‘तस्मात्’ कारणादेतत्तृणप्रक्षेपेण प्रजापत्यात्मकानामुद्गतॄणामात्मनश्च मध्ये व्यवधानं सम्पादयति । एवञ्च प्रजापतिः ‘अध्वर्युम्’ ‘न’ मिश्रयति । ‘न’ अपि ‘एनम्’ ‘सम्भवति’ । तेन सह नैकी भवति, तस्य स्वरूपनाशो न भवतीत्यर्थः । कालविशेषे स्तोत्रोपाकरणं समन्त्रकं विधत्ते- अथ यदा जपन्तीत्यादि 10 । ‘यदा’ यस्मिन् काले ‘जपन्ति’ तदा “सोमः पवते” (वा. सं. ७ । २१) इत्यनेन स्तोत्रमुपाकुर्यात् आरम्भयेत् । ‘जपन्ति’ ह्यत्रोद्गातारः इत्यनेन बहिष्पवमानप्रदेशे जपः प्रसिद्ध इति दर्शितम् । यतो ब्रह्मक्षत्राद्यर्थं सोमः पवते, अतस्तं पवमानं सोमस्तुत्या समर्द्धयितुमुपक्रमध्वमित्यर्थः । अत एव “उपास्मै गायता नरः पवमानायेन्दवे” (वा. सं. ३३ । ६२)- इति श्रूयते । मन्त्रश्चाग्रयणब्राह्मण एव (श. प. ४ । २ । २ । १२) व्याख्यातः ॥ ६ ॥
Eggeling
- He then throws down the other stalk in front of the chanters, silently, for those chanters represent the hymn of praise (stotra), Prajāpati (the sacrifice),–he (Prajāpati) draws to himself everything here, and takes possession of everything here: it is to him that that stalk is offered, and thus he does not draw the Adhvaryu to himself, and take possession of him. And when they mutter 11,–for the chanters mutter now 12,–
०७
विश्वास-प्रस्तुतिः
(रो᳘ ऽथ) अ᳘थ स्तोत्र᳘मुपा᳘करोति॥
सो᳘मः पवत ऽइ᳘ति स वै प᳘रागेव᳘ स्तोत्र᳘मुपाकरो᳘ति प᳘राञ्च स्तुवते देवान्वा᳘ ऽएता᳘नि स्तोत्रा᳘ण्यभ्युपा᳘वृत्तानि यत्प᳘वमानाः प᳘राञ्चो᳘ ह्येतै᳘र्देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवत त᳘स्मात्प᳘रागेव᳘ स्तोत्र᳘मुपाकरो᳘ति प᳘राञ्च स्तुवते॥
मूलम् - श्रीधरादि
(रो᳘ ऽथ) अ᳘थ स्तोत्र᳘मुपा᳘करोति॥
सो᳘मः पवत ऽइ᳘ति स वै प᳘रागेव᳘ स्तोत्र᳘मुपाकरो᳘ति प᳘राञ्च स्तुवते देवान्वा᳘ ऽएता᳘नि स्तोत्रा᳘ण्यभ्युपा᳘वृत्तानि यत्प᳘वमानाः प᳘राञ्चो᳘ ह्येतै᳘र्देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवत त᳘स्मात्प᳘रागेव᳘ स्तोत्र᳘मुपाकरो᳘ति प᳘राञ्च स्तुवते॥
मूलम् - Weber
अ᳘थ स्तोत्र᳘मुपा᳘करोति॥
सो᳘मः पवत इ᳘ति स वै प᳘रागेव᳘ स्तोत्र᳘मुपाकरो᳘ति प᳘राञ्च स्तुवते देवान्वा᳘ एता᳘नि स्तोत्रा᳘ण्यभ्युपा᳘वृत्तानि यत्प᳘वमानाः प᳘राञ्चो ह्येतैॗर्देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवत त᳘स्मात्प᳘रागेव᳘ स्तोत्र᳘मुपाकरो᳘ति प᳘राञ्च स्तुवते॥
मूलम् - विस्वरम्
अथ स्तोत्रमुपाकरोति । “सोमः पवते”- (वा० सं० ७ । २४) इति । स वै परागेव स्तोत्रमुपाकरोति, पराञ्चः स्तुवते । देवान्वा ऽएतानि स्तोत्राण्यभ्युपावृत्तानि- यत् पवमानाः । पराञ्चो ह्येतैर्देवाः स्वर्गं लोकं समाश्नुवत । तस्मात्परागेव स्तोत्रमुपाकरोति, पराञ्च स्तुवते ॥ ७ ॥
सायणः
उक्ते उपाकरणमन्त्रे पवमानस्तोत्रेषु चानावृत्तिं विधत्ते- स वै परागेवेत्यादि । ‘परागेव’ अनावृत्त्यैव ‘स्तोत्रम्’ उपाकुर्यात्, स्तोत्रोपाकरणार्थं मन्त्रमुच्चारयेत् । तथा ऽनावृत्त्यैव पवमानस्तोत्राणि निष्पादयेयुः । नन्वत्र पराञ्चो ऽनावृत्ता एव चात्वालं गत्वा स्तुवत इति पराक्त्वं स्तोतॄणामेव विधीयते, तदनुपपन्नम् । उक्तं स्तोत्रय पराक्त्वमिति । नत्वत्र पराञ्च इति स्तोतॄणां पराक्त्वविधानेनैतन्निष्पाद्यस्तोत्रस्यापि पराक्त्वं विहितम्भवतीति । अत एव तैत्तिरियके श्रूयते- “पराञ्चो हि यन्ति पराचीभिः स्तुवते” (तै. सं. ३ । १ । १०) इति ना ऽनावृत्तिप्रसक्तावनावृत्तिर्विधातुं शक्यते, कथमत्र तत्प्रसक्तिरिति । उच्यते- तत्र च तावत् “सोमः पवते सोमः पवते ऽस्मै ब्रह्मणे” (वा. सं. ७ । २१) इत्यादिरत्रोपाकरणमन्त्र आम्नायते- अयञ्च मन्त्र आग्रयणग्रहग्रहानन्तरं वाग्विसर्ज्जने विनियुक्तः । “अथाह सोमः पवते” (श. प. ४ । २ । २ । १२) इति । तद्वदेवात्रापि “सोमः पवत”- इत्येतस्य पदस्यावृत्तिः प्राप्तेत्यनावृत्तिरनुविधीयते । पवमानस्तोत्राणामपि स्तोत्रसाधारण्येनेतरस्तोत्रवदावृत्त्या गानं प्राप्तमित्यत्रानावृत्तिर्विधीयते यतः, अत एव बहिष्पवमाने त्रिवृत्स्तोमस्य विधायकं ब्राह्मणवाक्यमेवमाम्नायते । “तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिः” (साम. तां. ब्रा.) इति । विहिते पराक्त्वे कारणमाह- देवान्वा इत्यादि । पवमानस्तोत्राणि देवानभिलक्ष्याभ्युपावृत्तत्वादितः परागग्भूतानि यतश्च ‘देवाः’ ‘एतैः’ स्तोत्रैः ‘पराञ्चः’ अनावृत्ता एव ‘स्वर्गं लोकम्’ प्राप्नुवन् ‘तस्मात्’ उपाकरणमन्त्रे पवमानस्तोत्रेषु च पराक्त्वमित्यर्थः ॥ ७ ॥
Eggeling
- Then he bespeaks the chant, saying, ‘Soma becometh pure!’ He bespeaks the chant right off 13, and they chant right off; for these chants, the Pavamānāḥ 14, are directed towards the gods, since
the gods thereby attained to the heavenly world right off (straightway): therefore he bespeaks the chant right off, and right off they chant.
०८
विश्वास-प्रस्तुतिः
(त ऽउ) उपा᳘वर्तध्वमि᳘ति वा᳘ ऽअन्या᳘नि स्तोत्रा᳘णि॥
(ण्य) अभ्याव᳘र्तं धु᳘र्यै स्तुवत इमा ऽवै᳘ प्रजा᳘ एता᳘नि स्तोत्रा᳘ण्यभ्युपा᳘वृत्तास्त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते॥
मूलम् - श्रीधरादि
(त ऽउ) उपा᳘वर्तध्वमि᳘ति वा᳘ ऽअन्या᳘नि स्तोत्रा᳘णि॥
(ण्य) अभ्याव᳘र्तं धु᳘र्यै स्तुवत इमा ऽवै᳘ प्रजा᳘ एता᳘नि स्तोत्रा᳘ण्यभ्युपा᳘वृत्तास्त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते॥
मूलम् - Weber
उपा᳘वर्तध्वमि᳘ति वा᳘ अन्या᳘नि स्तोत्रा᳘णि॥
अभ्याव᳘र्तं धु᳘र्यै स्तुवत इमा वै᳘ प्रजा᳘ एता᳘नि स्तोत्रा᳘ण्यभ्युपा᳘वृत्तास्त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तम् प्र᳘जायन्ते॥
मूलम् - विस्वरम्
उपावर्तध्वम् इति वा ऽअन्यानि स्तोत्राणि, अभ्यावर्तं धुर्यै स्तुवते । इमा वै प्रजा एतानि स्तोत्राण्यभ्युपावृत्ताः । तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ॥ ८ ॥
सायणः
प्रसङ्गात् पवमानव्यतिरिक्तानां स्तोत्राणामुपाकरणे मन्त्रान्तरं सोपपत्तिकं दर्शयति- उपावर्त्तध्वमिति वा, इत्यादि । धुर्यशब्देनात्र पवमानव्यतिरिक्तानि स्तोत्राप्यभिधीयन्ते । तेषां यज्ञनिर्वाहकत्वात् । पुनःपुनरावृत्तिं कृत्वा स्तुवते । यतः ण्यन्ताद् “आभीक्ष्ण्ये णमुल् च”- (पा. सू. ३ । ४ । २२) इति णमुल्प्रत्ययः । द्विर्वचनाभावश्छान्दसः । अतस्तेषां स्तोत्राणामुपाकरणे “उपावर्त्तध्वम्”- इति मन्त्रः । “उपावर्त्तध्वम्” इत्यत्र अन्तर्भावितण्यर्थस्य व्यवहृतत्वात् पुनःपुनरावृत्तिं कृत्वा स्तुध्वमित्यर्थः । अत्र कात्यायनः- “स्तोत्रमुपाकरोति तृणाभ्यां ग्रहमुपस्पृश्योपावर्त्तध्वमिति । एवं धुर्येषु सर्वत्र”- (का. श्रौ. सू. ९ । ३०६, ३०७) इति । अस्तु तैरभ्यावृत्तिं कृत्वा स्तवने “उपावर्त्तध्वम्”- इति मन्त्रेणोपाकरणम्, सा चाभ्यावृत्तिस्तेषां कुत इत्यत आह- इमा वै प्रजा इत्यादि । ‘एतानि’ पवमानव्यतिरिक्तानि ‘स्तोत्राणि’ अभिलक्ष्य ‘इमाः’ ‘प्रजाः’ आवृत्ताः, यत एवम् ‘तस्माद्’ इदानीं ‘प्रजाः’ मृत्वापि पुनरभ्यावृत्य ‘प्रजायन्ते’ तस्मात् प्रजानां तथोत्पत्तिसिद्ध्यर्थं धुर्यस्तोत्राणामावृत्तिः कार्येत्यर्थः ॥ ८ ॥
Eggeling
- With ‘Turn ye back 15!’ (he bespeaks) the other chants (viz. the Dhuryas), and turning back (or repeating) they chant the Dhuryas 16, for the latter
are directed towards these creatures: whence creatures are produced here repeatedly.
०९
विश्वास-प्रस्तुतिः
(न्ते᳘ ऽथ) अ᳘थ यद᳘त्र बहिष्पवमाने᳘न स्तुवते॥
(ते᳘ ऽत्र) अ᳘त्र ह वा᳘ ऽअसाव᳘ग्र ऽआदित्य᳘ ऽआस त᳘मृत᳘वः परिगृ᳘ह्यैवा᳘त ऽऊर्ध्वाः᳘ स्वर्गं᳘ लोक᳘मुपो᳘दक्रामन्त्स᳘ ऽएष᳘ ऋतु᳘षु प्र᳘तिष्ठित᳘स्तपति त᳘थो ए᳘वैत᳘दृत्वि᳘जो य᳘जमानं परिगृ᳘ह्यैवा᳘त ऊर्ध्वाः᳘ स्वर्गं᳘ लोक᳘मुपो᳘त्क्रामन्ति त᳘स्माद᳘त्र बहिष्पवमाने᳘न स्तुवते॥
मूलम् - श्रीधरादि
(न्ते᳘ ऽथ) अ᳘थ यद᳘त्र बहिष्पवमाने᳘न स्तुवते॥
(ते᳘ ऽत्र) अ᳘त्र ह वा᳘ ऽअसाव᳘ग्र ऽआदित्य᳘ ऽआस त᳘मृत᳘वः परिगृ᳘ह्यैवा᳘त ऽऊर्ध्वाः᳘ स्वर्गं᳘ लोक᳘मुपो᳘दक्रामन्त्स᳘ ऽएष᳘ ऋतु᳘षु प्र᳘तिष्ठित᳘स्तपति त᳘थो ए᳘वैत᳘दृत्वि᳘जो य᳘जमानं परिगृ᳘ह्यैवा᳘त ऊर्ध्वाः᳘ स्वर्गं᳘ लोक᳘मुपो᳘त्क्रामन्ति त᳘स्माद᳘त्र बहिष्पवमाने᳘न स्तुवते॥
मूलम् - Weber
अ᳘थ यद᳘त्र बहिष्पवमाने᳘न स्तुवते॥
अ᳘त्र ह वा᳘ असाव᳘ग्र आदित्य᳘ आस त᳘मृत᳘वः परिगृ᳘ह्यैवा᳘त ऊर्ध्वाः᳘ स्वर्गं᳘ लोक᳘मुपो᳘दक्रामन्त्स᳘ एष᳘ ऋतु᳘षु प्र᳘तिष्ठितस्तपति त᳘थो एॗवैत᳘दृत्वि᳘जो य᳘जमानम् परिगृ᳘ह्यैवा᳘त ऊर्ध्वाः᳘ स्वर्गं᳘ लोक᳘मुपो᳘त्क्रामन्ति त᳘स्माद᳘त्र बहिष्पवमाने᳘न स्तुवते॥
मूलम् - विस्वरम्
अथ यदत्र बहिष्पवमानेन स्तुवते । अत्र ह वा ऽअसावग्र ऽआदित्य आस । तमृतवः परिगृह्यैवात ऊर्ध्वाः स्वर्गं लोकमुपोदक्रामन् । स एष ऋतुषु प्रतिष्ठितस्तपति । तथो ऽएवैतदृत्विजो यजमानं परिगृह्यैवात ऊर्ध्वाः स्वर्गं लोकमुपोत्क्रामन्ति । तस्मादत्र बहिष्पवमानेन स्तुवते ॥ ९ ॥
सायणः
चात्वालप्रदेशे बहिष्पवमानस्तोत्रसम्पादनस्य कारणमाह- अथ यदत्रेत्यादि । ‘अत्र’ प्रदेशे ‘बहिष्पवमानेन’ ‘स्तुवते’ इति यत्, तत्कारणमुच्यते- असाविति । अदःशब्दो विप्रकृष्टपदार्थवाची । द्युलोकगतो ऽसावादित्यः पूर्वस्मिन् प्रदेशे ऽभूत् । तमादित्यमृतवः स्वीकृत्यैतस्माद् भूदेशादूर्ध्वाः ‘स्वर्गं’ ‘लोकम्’ आरोहन्त । अतः एष आदित्य इदानीमृतुष्वेव प्रतिष्ठितस्तपति तस्मादत्र प्रदेशे बहिष्पवमानसम्पादनेन ऋत्विजो यजमानमादाय स्वर्गं लोकमारोहन्तीत्यर्थः ॥ ९ ॥
Eggeling
- And as to why they chant the Bahishpavamāna here (near the cātvāla). In the beginning, forsooth, yonder sun was here on earth 17. The seasons embraced him and ascended from hence to the heavenly world: there he burns firmly established
in the seasons. And in like manner do the priests thereby embrace the sacrificer and ascend from hence to the heavenly world: this is why they chant the Bahishpavamāna h ere.
१०
विश्वास-प्रस्तुतिः
नौ᳘र्ह वा᳘ ऽएषा᳘ स्व᳘र्ग्या॥
य᳘द्बहिष्पवमानं त᳘स्या ऋत्वि᳘ज ऽएव स्फ्या᳘श्चारि᳘त्राश्च स्वर्ग᳘स्य लोक᳘स्य सम्पा᳘रणास्त᳘स्या ऽए᳘क ऽएव᳘ मज्जयिता य᳘ एव᳘ नि᳘न्द्यः[[!!]] स य᳘था पूर्णा᳘मभ्यारु᳘ह्य मज्ज᳘येदेव᳘ᳫं᳘ हैनाᳫं᳭ स᳘ मज्जयति तद्वै स᳘र्व एव᳘ यज्ञो नौः᳘ स्व᳘र्ग्या त᳘स्मादु स᳘र्व्वस्मादेव᳘ यज्ञा᳘न्नि᳘न्द्यं प᳘रिबिबाधिषेत॥
मूलम् - श्रीधरादि
नौ᳘र्ह वा᳘ ऽएषा᳘ स्व᳘र्ग्या॥
य᳘द्बहिष्पवमानं त᳘स्या ऋत्वि᳘ज ऽएव स्फ्या᳘श्चारि᳘त्राश्च स्वर्ग᳘स्य लोक᳘स्य सम्पा᳘रणास्त᳘स्या ऽए᳘क ऽएव᳘ मज्जयिता य᳘ एव᳘ नि᳘न्द्यः[[!!]] स य᳘था पूर्णा᳘मभ्यारु᳘ह्य मज्ज᳘येदेव᳘ᳫं᳘ हैनाᳫं᳭ स᳘ मज्जयति तद्वै स᳘र्व एव᳘ यज्ञो नौः᳘ स्व᳘र्ग्या त᳘स्मादु स᳘र्व्वस्मादेव᳘ यज्ञा᳘न्नि᳘न्द्यं प᳘रिबिबाधिषेत॥
मूलम् - Weber
नौ᳘र्ह वा᳘ एषा᳘ स्वॗर्ग्या॥
य᳘द्बहिष्पवमानं त᳘स्या ऋत्वि᳘ज एव स्फ्या᳘श्चारि᳘त्राश्च स्वर्ग᳘स्य लोक᳘स्य सम्पा᳘रणास्त᳘स्या ए᳘क एव᳘ मज्जयिता य᳘ एव᳘ निन्द्यः᳘ स य᳘था पूर्णा᳘मभ्यारु᳘ह्य मज्ज᳘येदेव᳘ᳫं᳘ हैनाᳫं स᳘ मज्जयति तद्वै स᳘र्व एव᳘ यज्ञो नौः᳘ स्वॗर्ग्या त᳘स्मादु स᳘र्वस्मादेव᳘ यज्ञा᳘न्निन्द्य᳘म् प᳘रिबिबाधिषेत॥
मूलम् - विस्वरम्
नौर्ह वा ऽएषा स्वर्ग्या- यद्बहिष्पवमानम् । तस्या ऋत्विज एव स्फ्याश्च अरित्राश्च स्वर्गस्य लोकस्य सम्पारणाः । तस्या एक एव मज्जयिता- य एव निन्द्यः । स यथा पूर्णामभ्यारुह्य मज्जयेद्- एवं हैनां स मज्जयति । तद्वै सर्व एव यज्ञो नौः स्वर्ग्या । तस्मादु सर्वस्मादेव यज्ञान्निन्द्यं परिबिबाधिषेत ॥ १० ॥
सायणः
प्रकृतं बहिष्पवमानस्तोत्रं नौरूपत्वसम्पादनेन प्रशंसति- नौर्ह वा इत्यादि । ‘बहिष्पवमानम्’ एव ‘स्वर्ग्या’ स्वर्गप्राप्त्यर्हा ‘नौः। “छन्दसि च”- (पा. सू. ५ । १ । ६७) इत्यर्हार्थे यत्प्रत्ययः । नावश्च कैश्चित्साधनैर्भवितव्यम् । अतो बहिष्पवमानात्मिकाया नावः ‘ऋत्विज एव’ ‘स्फ्याश्च’ ‘अरित्राश्च’ भवन्ति । ‘स्फ्याः’ इति स्फ्याकाराः केचन तरणसाधनविशेषाः । ‘अरित्राः’ इति तरणसाधनभूता वंशाः । ते च ‘स्वर्गस्य’ ‘लोकस्य’ ‘संपारणाः’ स्वर्गलोकस्य प्रापकाः । “पार तीर कर्मसमाप्तौ” (धा. पा. चु. उ. ३७८) इत्यस्मात्करणे (पा. सू. ३ । ३ । ११७) ल्युट् प्रत्ययः । अतो बहिष्पवमानस्तोत्रं स्वर्गप्राप्तिहेतुत्वात् प्रशस्तमित्यर्थः ॥
उक्तं नौरूपत्वमुपजीव्य सर्वस्मिन् यज्ञे ऽपि निन्दितः परिहरणीय इत्याह- तस्या एक एवेत्यादि । ‘यः’ जनः कुतश्चित्कारणात् ‘निन्द्यः’ ‘सः’ ‘एव’ ‘तस्याः’ बहिष्पवमानात्मिकाया नावः ‘मज्जयिता’ नाशयितेत्यर्थः । ‘यथा’ लोके ऽनिन्द्यैः ‘पूर्णाम्’ नावम् ‘आरुह्य’ निन्द्यो’ ‘मज्जयेद्’ अवगाहयेज्जलस्याधः प्रापयेत् । रजस्वलादिभिर्निन्द्यैरारूढा नौर्मज्जतीति प्रसिद्धम् । तद्वदत्रापि निन्दितो मज्जयेत् । न केवलं बहिष्पवमानस्तोत्रे निन्द्यस्य परिहरणम्, किन्तु कृत्स्नस्यापि यज्ञस्य प्राप्तौ नौरूपत्वात् ‘सर्वस्माद्’ ‘यज्ञात्’ ‘निन्द्यम्’ ‘परिबिबाधिषेत’ इति परिबाधितुमपसारयितुमिच्छेत् । अपसारणेच्छाया अपसारणप्रयोजनत्वादपसारयेदित्यर्थः ॥ १० ॥
Eggeling
- The Bahishpavamāna 18 chant truly is a ship
bound heavenwards: the priests are its spars and oars, the means of reaching the heavenly world. If there be a blameworthy one, even that one (priest) would make it sink: he makes it sink, even as one who ascends a ship that is full would make it sink. And, indeed, every sacrifice is a ship bound heavenwards: hence one should seek to keep a blameworthy (priest) away from every sacrifice.
११
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ स्तुत᳘ ऽएतां व्वा᳘चं व्वदति॥
(त्य᳘) अ᳘ग्नीदग्नीन्वि᳘हर बर्हि᳘स्तृणीहि पुरोडा᳘शा२ँ॥ अ᳘लंकुरु पशुनेही᳘ति व्वि᳘हरत्यग्नी᳘दग्नीन्त्स᳘मिन्द्ध ए᳘वैनानेत᳘त्स्तृणा᳘ति बर्हिः᳘ स्तीर्णे᳘ बर्हि᳘षि स᳘मिन्द्धे देवे᳘भ्यो जुहवानी᳘ति पुरोडा᳘शा२ँ॥ अ᳘लंकुर्व्वि᳘ति पुरोडा᳘शैर्हि᳘ प्रचरिष्यन्भ᳘वति पशुनेही᳘ति पशु᳘ᳫं᳘ ह्युपाकरिष्यन्भ᳘वति॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ स्तुत᳘ ऽएतां व्वा᳘चं व्वदति॥
(त्य᳘) अ᳘ग्नीदग्नीन्वि᳘हर बर्हि᳘स्तृणीहि पुरोडा᳘शा२ँ॥ अ᳘लंकुरु पशुनेही᳘ति व्वि᳘हरत्यग्नी᳘दग्नीन्त्स᳘मिन्द्ध ए᳘वैनानेत᳘त्स्तृणा᳘ति बर्हिः᳘ स्तीर्णे᳘ बर्हि᳘षि स᳘मिन्द्धे देवे᳘भ्यो जुहवानी᳘ति पुरोडा᳘शा२ँ॥ अ᳘लंकुर्व्वि᳘ति पुरोडा᳘शैर्हि᳘ प्रचरिष्यन्भ᳘वति पशुनेही᳘ति पशु᳘ᳫं᳘ ह्युपाकरिष्यन्भ᳘वति॥
मूलम् - Weber
अ᳘थ स्तुत᳘ एतां वा᳘चं वदति॥
अ᳘ग्नीदग्नीन्वि᳘हर बर्हि᳘ स्तृणीहि पुरोडा᳘शां अ᳘लंकुरु पशुनेही᳘ति वि᳘हरत्यग्नी᳘दग्नीन्त्स᳘मिन्द्ध एॗवैनानेत᳘त्स्तृणा᳘ति बर्हि᳘ स्तीर्णे᳘ बर्हि᳘षि स᳘मिन्द्धे देवे᳘भ्यो जुहवानी᳘ति पुरोडा᳘शां अ᳘लंकुर्वि᳘ते पुरोडा᳘शैर्हि᳘ प्रचरिष्यन्भ᳘वति पशुनेही᳘ति पशुॗᳫंॗ ह्युपाकरीष्यन्भ᳘वति॥
मूलम् - विस्वरम्
अथ स्तुत ऽएतां वाचं वदति- “अग्नीदग्नीन्विहर । बर्हिस्तृणीहि । पुरोडाशाँ २ ॥ ऽअलङ्कुरु । पशुनेहि”- इति । विहरत्यग्नीदग्नीन्, समिन्ध एवैनानेतत्, स्तृणाति बर्हिः । स्तीर्णे बर्हिषि, समिद्धे देवेभ्यो जुहवानीति । पुरोडाशाँ २ ॥ ऽअलंकुर्विति । पुरोडाशैर्हि प्रचरिष्यन्भवति । पशुनेहीति । पशुं ह्युपाकरिष्यन्भवति ॥ ११ ॥
सायणः
बहिष्पवमानस्तोत्रसमाप्त्यनन्तरमध्वर्योः कर्त्तव्यं प्रैषमन्त्रमुत्साद्य व्याचष्टे- अथ स्तुत एतां वाचं वदतीति 19 । अग्नीदग्नीन्विहरेति । ‘अग्नीत्’ इति आग्नीधीयात् सकाशादग्नीन् विभज्य होत्रियादिषु धिष्ण्येषु यथाक्रमं निवपेत् । एतेन निवपनेनैतानग्निरूपान् ‘समिन्धे’ प्रज्वालितवान् भवति । धिष्ण्यानामग्न्यात्मकत्वं तैत्तिरीयके श्रूयते- “अग्नयो वा अथ धिष्णियाः” (तै. सं. ६ । ३ । १) इति । आग्नीध्र एव ‘बर्हिः’ पृष्ठ्याया उपरि स्तृणीयात् । महावेदेर्मध्ये वितायमाना रज्जुः पृष्ठ्या । अत्र कात्यायनः- “यथा न्युप्तं धिष्ण्येष्वाग्नीध्रादङ्गारान्निवपति, अनुष्पृष्ठ्यां बर्हिस्तृणाति”- (का० श्रौ० सू० ९ । १६३, १६४) इति । ‘स्तीर्णे बर्हिषि’- इत्यादिना ‘अग्नीदग्नीन्विहर बर्हिस्तृणीहि’ इति सम्प्रेष्यतो ऽध्वर्योरभिप्रायः प्रदर्श्यते । पुरोडाशानलंकुर्वित्यादि । स्पष्टार्थम् ॥ ११ ॥
Eggeling
- Thereupon, when the chanting is over 20, he
utters this speech,–‘Agnīdh, spread the fires! strew the barhis! Prepare the cakes! go on with the victim!’ The Agnīdh spreads the fires, that is to say, kindles them 21; he strews that barhis 22, thinking, ‘When the barhis is strewn, I will offer to the gods on the kindled (fire).’–‘Prepare the cakes,’ he says, because he is about to proceed with the cakes; and, ‘Go on with the victim,’ because he is about to get ready the victim 23.
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ पु᳘नः प्रप᳘द्य॥
(द्या) आश्विनं ग्र᳘हं गृह्णात्याश्विनं ग्र᳘हं गृही᳘त्वोपनिष्क्र᳘म्य यू᳘पं प᳘रिव्ययति परिवी᳘य यू᳘पं पशु᳘मुपा᳘करोति र᳘समे᳘वास्मिन्नेत᳘द्दधाति॥ [अर्धप्रपाठकः]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ पु᳘नः प्रप᳘द्य॥
(द्या) आश्विनं ग्र᳘हं गृह्णात्याश्विनं ग्र᳘हं गृही᳘त्वोपनिष्क्र᳘म्य यू᳘पं प᳘रिव्ययति परिवी᳘य यू᳘पं पशु᳘मुपा᳘करोति र᳘समे᳘वास्मिन्नेत᳘द्दधाति॥ [अर्धप्रपाठकः]॥
मूलम् - Weber
अ᳘थ पु᳘नः प्रप᳘द्य॥
आश्विनं ग्र᳘हं गृह्णात्याश्विनं ग्र᳘हं गृहीॗत्वोपनिष्क्र᳘म्य यू᳘पम् प᳘रिव्ययति परिवी᳘य यू᳘पम् पशु᳘मुपा᳘करोति र᳘समेॗवास्मिन्नेत᳘द्दधाति॥
मूलम् - विस्वरम्
अथ पुनः प्रपद्य आश्विनं ग्रहं गृह्णाति । आश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपं परिव्ययति । परिवीय यूपं पशुमुपाकरोति । रसमेवास्मिन्नेतद्दधाति ॥ १२ ॥
सायणः
प्रथमाध्यायस्य पञ्चमब्राह्मणे आश्विनग्रहस्य ग्रहणकालविशेषो ऽपि विहितः- “अथातो गृह्णाति या वाङ्कशेति”- (श. प. ४ । १ । १ । १७) । “स्तुते बहिष्पवमाने ग्रहो गृह्यते”- इति च (श. प. ४ । १ । ५ । १५) । तदवसरप्राप्तं विशेषविधित्सया ऽनुवदति- अथ पुनः प्रपद्येत्यादि 24 । अनूद्य तदुत्तरकाले यूपस्य परिव्ययणं विधत्ते- आश्विनं ग्रहं गृहीत्वेत्यादि । यूपं परिव्ययतीति । रशनया यूपं परितो वेष्टयेत् । यूपपरिव्ययणानन्तरं पशूपाकरणं विधत्ते- परिवीय यूपं पशुमुपाकरोतीति । विहितमुपाकरणं प्रशंसति- रसमेवेत्यादि । ‘अस्मिन्’ पशौ ‘रसमेव’ स्वादमेव ‘एतद्’ उपाकरणेन कृतवान् भवति । अत्रायमभिप्रायः- उपाकरणमिति देवतार्थं निर्देशः । तेन पशोर्देवतायोग्यत्वसूचनात्तद्योग्यतायाश्च रसवत्त्वमन्तरेणानुपपत्तेरुपाकरणमेव रसनिधानहेतुरिति । अत एवोपाकरणमन्त्रे- “हव्या ते स्वदन्ताम्” (वा. सं. ६ । ७) इत्याम्नायते ॥ १२ ॥
Eggeling
१३
विश्वास-प्रस्तुतिः
स᳘ प्रातःसवन ऽआ᳘लब्धः॥
(ऽ) आ᳘तृतीयसवना᳘च्छ्रप्य᳘माण ऽउ᳘पशेते स᳘र्व्वस्मिन्ने᳘वैत᳘द्यज्ञे र᳘सं दधाति स᳘र्व्वं यज्ञᳫं᳭ र᳘सेन प्र᳘सजति॥
मूलम् - श्रीधरादि
स᳘ प्रातःसवन ऽआ᳘लब्धः॥
(ऽ) आ᳘तृतीयसवना᳘च्छ्रप्य᳘माण ऽउ᳘पशेते स᳘र्व्वस्मिन्ने᳘वैत᳘द्यज्ञे र᳘सं दधाति स᳘र्व्वं यज्ञᳫं᳭ र᳘सेन प्र᳘सजति॥
मूलम् - Weber
स᳘ प्रातःसवन आ᳘लब्धः॥
आ᳘ तृतीयसवना᳘छ्रप्य᳘माण उ᳘पशेते स᳘र्वस्मिन्नेॗवैत᳘द्यज्ञे र᳘सं दधाति स᳘र्वं यज्ञं र᳘सेन प्र᳘सजति॥
मूलम् - विस्वरम्
स प्रातःसवन ऽआलब्धः, आ तृतीयसवनाच्छ्रप्यमाण उपशेते । सर्वस्मिन्नेवैतद् यज्ञे रसं दधाति । सर्वं यज्ञं रसेन प्रसजति ॥ १३ ॥
सायणः
आलब्धस्य पशोः सवनत्रयव्यापित्वमाह- स प्रातःसवन इत्यादि । सर्वं यज्ञमित्यादि । सवनत्रयमेव सर्वो यज्ञः । तत्र पशोरवस्थानेन पशोश्च रसात्मकत्वात्, तेन ‘रसेन’ सकलम् ‘यज्ञम्’ ‘प्रसजति’ प्रसज्जयति मिश्रयतीत्यर्थः ॥ १३ ॥
Eggeling
- Having been slain at the morning feast, it continues being cooked till the evening feast; whereby he puts flavour (juice) into the whole sacrifice, imbues it with flavour.
१४
विश्वास-प्रस्तुतिः
त᳘स्मादाग्नेय᳘मग्निष्टोम ऽआ᳘लभते॥
तद्धि स᳘लोम य᳘दाग्नेय᳘मग्निष्टोम᳘ ऽआल᳘भेत य᳘द्यु᳘क्थ्यः स्या᳘दैन्द्राग्नं᳘ द्विती᳘यमा᳘लभेतैन्द्रा᳘ग्नानि᳘[[!!]] ह्युक्था᳘नि य᳘दि षोडशी स्या᳘दैन्द्रं᳘ तृती᳘यमा᳘लभेते᳘न्द्रो हि᳘ षोडशी य᳘द्यतिरात्रः स्या᳘त्सारस्वतं᳘ चतुर्थमा᳘लभेत व्वाग्वै स᳘रस्वती यो᳘षा वै व्वाग्यो᳘षा रा᳘त्रिस्त᳘द्यथायथं᳘ यज्ञक्रतून्व्या᳘वर्तयति॥
मूलम् - श्रीधरादि
त᳘स्मादाग्नेय᳘मग्निष्टोम ऽआ᳘लभते॥
तद्धि स᳘लोम य᳘दाग्नेय᳘मग्निष्टोम᳘ ऽआल᳘भेत य᳘द्यु᳘क्थ्यः स्या᳘दैन्द्राग्नं᳘ द्विती᳘यमा᳘लभेतैन्द्रा᳘ग्नानि᳘[[!!]] ह्युक्था᳘नि य᳘दि षोडशी स्या᳘दैन्द्रं᳘ तृती᳘यमा᳘लभेते᳘न्द्रो हि᳘ षोडशी य᳘द्यतिरात्रः स्या᳘त्सारस्वतं᳘ चतुर्थमा᳘लभेत व्वाग्वै स᳘रस्वती यो᳘षा वै व्वाग्यो᳘षा रा᳘त्रिस्त᳘द्यथायथं᳘ यज्ञक्रतून्व्या᳘वर्तयति॥
मूलम् - Weber
त᳘स्मादाग्नेय᳘मग्निष्टोम आ᳘लभते॥
तद्धि स᳘लोम य᳘दाग्नेय᳘मग्निष्टोम᳘ आल᳘भेत य᳘द्युक्थ्यः स्या᳘दैन्द्राग्नं᳘ द्विती᳘यमा᳘लभेतैन्द्राग्ना᳘निॗ ह्युक्था᳘नि य᳘दि षोडशी स्या᳘दैन्द्रं᳘ तृती᳘यमा᳘लभेते᳘न्द्रो हि᳘ षोडशी य᳘द्यतीरात्रः स्या᳘त्सारस्वतं᳘ चतुर्थमा᳘लभेत वाग्वै स᳘रस्वती यो᳘षा वै वाग्यो᳘षा रा᳘त्रिस्त᳘द्यथायथं᳘ यज्ञक्रतून्व्या᳘वर्तयति॥
मूलम् - विस्वरम्
तस्मादाग्नेयमग्निष्टोम ऽआलभेत । तद्धि सलोम- यदाग्नेयम्; अग्निष्टोम ऽआलभेत । यद्युक्थ्यः स्यात्- ऐन्द्राग्नं द्वितीयमालभेत । ऐन्द्राग्नानि ह्युक्थानि । यदि षोडशी स्यात्- ऐन्द्रं तृतीयमालभेत । इन्द्रो हि षोडशी । यद्यतिरात्रः स्यात्- सारस्वतं चतुर्थमालभेत, वाग्वै सरस्वती । योषा वै वाक्, योषा रात्रिः । तद् यथायथं यज्ञक्रतून् व्यावर्तयति ॥ १४ ॥
सायणः
प्रकृतस्य पशुद्रव्याय देवतासम्बन्धं सोपपत्तिकमाह- तस्मादाग्नेयमिति 27 । अग्निष्टोम इति । अग्निष्टोमस्तोत्रं “यज्ञा यज्ञा वो अग्नये” (वा० सं० २७ । ४) (ऋ० सं० ४ । ८ । १)- इत्यादिकम् । तेन समाप्यत्वाद्यज्ञो ऽपि ‘अग्निष्टोम’ इति व्यपदिश्यते । तस्मिन् “आग्नेयं पशुमालभेत”- इति यत्, ‘तद्’ अग्निदेवत्यपश्वालम्भनम् ‘सलोम’ अनुलोममुचितम् । अग्निष्टोमसाम्ना क्रतोर्व्यपदेशादिति भावः । ‘तस्मादाग्नेयमालभेत’ । प्रसङ्गादुक्थ्यादिक्रतूनां पशुक्लृप्तिमाह- यद्युक्थ्यः स्यादित्यादि । आग्नेयमालभ्य तस्य ‘द्वितीयमैन्द्राग्नमालभेत’ । ऐन्द्राग्नानि ह्युक्थानीत्यनेनैन्द्राग्नपश्वालम्भने कारणमभिधीयते । ‘उक्थानि’ शस्त्राणि तेषाञ्चैन्द्राग्नत्वम् “एह्युपब्रवाणि ते” (वा० सं० २६ । १३)- इत्यादिष्विन्द्राग्निसम्बन्धात् इति द्रष्टव्यम् । इन्द्रो हि षोडशीति । “असावि सोम इन्द्र ते” (ऋ० सं० १ । ६ । ५)- इत्यादिकं षोडशिशस्त्रम्, तत्रेन्द्रसम्बन्धात् । षोडशिसंस्थायाम् ‘ऐन्द्रम्’ पशुमाग्नेयैन्द्रानयोः ‘तृतीयमालभेत’ । वाग्वा इति । सरस्वत्या रात्रेश्च स्त्रीसम्बन्धादिति द्रष्टव्यम् । रात्रेः सरस्वतीदेवत्यं पशुम् उक्तानां पशूनाम् ‘चतुर्थमालभेत’ । एवं च ‘यज्ञक्रतून्’ इज्यन्ते देवा एभिरिति यज्ञाः, यज्ञाश्च ते क्रतवश्च यज्ञक्रतवः । तानग्निष्टोमादीन् ‘यथायथम्’ यथास्वम् । यस्य यो यो विशेषस्तमनतिक्रम्य ‘व्यावर्त्तयति’ व्यावृत्तान् परस्परविलक्षणान् करोति । अत एव तैत्तिरीयके वाजपेये ऽग्निष्टोमादियज्ञक्रत्ववरोधः स तद्व्यावर्तकपशुसम्बन्धात्- इति श्रूयते । “ब्रह्मवादिनो वदन्ति- नाग्निष्टोमो नोक्थ्यः, न षोडशी नातिरात्रः, अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवो ऽवरुध्यन्त इति, पशुभिरिति ब्रूयात् । आग्नेयं पशुमालभते । अग्निष्टोममेव तेनावरुन्धे । ऐन्द्राग्नेनोक्थ्यम् । ऐन्द्रेण षोडशिनस्तोत्रम् । सारस्वतेनातिरात्रम्”- (तै. ब्रा. १ । ३ । ४ । १) इति ॥ १४ ॥
Eggeling
- Let him therefore, at the Agnishṭoma, slay a (victim) sacred to Agni, for there is harmony when, at the Agnishṭoma, he slays a (victim) for Agni. If
it be an Ukthya sacrifice, let him slay one to Indra and Agni in the second place, for songs of praise (uktha) 28 refer to Indra and Agni. If it be a Shoḍaśin sacrifice, let him slay one to Indra in the third place, for the sixteenfold chant (shoḍaśin) 29 means Indra. If it be an Atirātra, let him slay one to Sarasvatī in the fourth place, for Sarasvatī is speech, and speech (vāc, fem.) is female, as the night (rātri, fem.) is female: he thus duly distinguishes the forms of sacrifice 30.
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ सवनी᳘यैः पुरोडा᳘शैः प्र᳘चरति॥
देवो वै सो᳘मो दिवि हि सो᳘मो व्वृत्रो वै सो᳘म ऽआसीत्त᳘स्यैतच्छ᳘रीरं य᳘द्गिर᳘यो यद᳘श्मानस्त᳘दे᳘षोशानानामौ᳘षधिर्जायत इ᳘ति ह स्माह श्वेत᳘केतुरौ᳘द्दालकिस्ता᳘मेत᳘दाहृ᳘त्याभि᳘षुण्वन्ती᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ सवनी᳘यैः पुरोडा᳘शैः प्र᳘चरति॥
देवो वै सो᳘मो दिवि हि सो᳘मो व्वृत्रो वै सो᳘म ऽआसीत्त᳘स्यैतच्छ᳘रीरं य᳘द्गिर᳘यो यद᳘श्मानस्त᳘दे᳘षोशानानामौ᳘षधिर्जायत इ᳘ति ह स्माह श्वेत᳘केतुरौ᳘द्दालकिस्ता᳘मेत᳘दाहृ᳘त्याभि᳘षुण्वन्ती᳘ति॥
मूलम् - Weber
अ᳘थ सवनी᳘यैः पुरोडा᳘शैः प्र᳘चरति॥
देवो वै सो᳘मो दिवि हि सो᳘मो वृत्रो वै सो᳘म आसीत्त᳘स्यैतछ᳘रीरं य᳘द्गिरयो यद᳘श्मानस्त᳘देॗषोशाना नामौ᳘षधिर्जायत इ᳘ति ह स्माह श्वेत᳘केतुरौद्दालकिस्ता᳘मेत᳘दाहृ᳘त्याभि᳘षुण्वन्ती᳘ति॥
मूलम् - विस्वरम्
अथ सवनीयैः पुरोडाशैः प्रचरति । देवो वै सोमः । दिवि हि सोमः । वृत्रो वै सोम आसीत् । तस्यैतच्छरीरं यद्गिरयो, यदश्मानः । तदेषोशानानामौषधिर्जायते- इति ह स्माह श्वेतकेतुरौद्दालकिः । तामेतदाहृत्याभिषुण्वन्तीति ॥ १५ ॥
सायणः
पश्वालम्भनादुपरितनं सदःसर्पणान्तं प्रयोगमुपेक्ष्य तदनन्तरं सवनीयपुरोडाशहोमं विधते- अथ सवनीयैरित्यादि । अत्र पुरोडाशो धानाः करम्भो दध्यामिक्षेति सवनीयानि पञ्च हवींषि तेषां पुरोडाशलिङ्गसमवायात् प्राणभृन्न्यायेन पुरोडाशैरिति व्यपदेशः । तथा चोक्तम्- “तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमिभिः । षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता ॥” इति । सवनीयपुरोडाशानां होमं प्रशंसितुं तत्प्रयोजनाभिधित्सयोपोद्धातमाह- देवो वै सोम इत्यादिना । ‘दिवि’ स्वर्गे ‘सोमः’ ‘आसीत्’ इति प्रसिद्धम् । “तृतीयस्यामितो दिवि सोम आसीत्”- (तै. सं. ३ । ५ । ७) इत्यादिश्रुतेः । अतो द्युलोकसम्बन्धात् ‘सोमः’ ‘देवः’ । अनेन सोमस्य ग्रहत्वमभिहितम् । स एव सोमो वृत्रासुर ‘आसीत्’ । सोमस्य वृत्रात्मनोत्पत्तिस्त्वष्टुर्यज्ञे श्रूयते- “तस्य यदत्यशिष्यत तत्त्वष्टा ऽहवनीयमुपप्रावर्त्तयत्स्वाहेन्द्रशत्रुर्वर्धस्व इति यदवर्त्तयत् । तद्वृत्रस्य वृत्रत्वम्” (तै. सं. २-५-२) इति । तस्य वृत्रासुरस्य पर्वताः पाषाणाश्च ‘शरीरम्’ ‘तत्’ तत्र ‘उशानानाम’ ‘एषा’ इदानीं यज्ञे उपयुज्यमाना ‘ओषधिर्जायते’ । तत्र वसतीति तस्या ओषधेरुषाणेति नामधेयम् । “वस निवासे”- (धा. पा. भ्वा. प. १०३०) इत्यस्मात् कानजन्तः (पा. सू. २ । ३ । १०६) ‘उषाणा’ शब्दः । ‘एतद्’ एतस्मिन् काले ‘ताम्’ ‘आहृत्याभिषुण्वन्तीति’ उद्दालकस्यापत्यम् ‘औद्दालकिः’ ‘श्वेतकेतुः’ उवाच । अनेनेदानीन्तनस्य सोमस्य सोमरूपवृत्रशरीरं गिरिपाषाणजातत्वात् परम्परया सोमत्वमित्यभिप्रायः ॥ १५ ॥
Eggeling
- Thereupon he proceeds with (the offering of) the cakes of the Soma feast. Now Soma is a god, for Soma was in the heaven;–‘Soma, forsooth, was Vr̥tra; the mountains and stones are his body: thereon grows that plant called Uśānā,’ said Śvetaketu Auddālaki; that they bring hither and press.’
१६
विश्वास-प्रस्तुतिः
स य᳘त्पशु᳘माल᳘भते॥
र᳘समे᳘वास्मिन्नेत᳘द्दधात्य᳘थ य᳘त्सवनी᳘यैः पुरोडा᳘शैः प्रच᳘रति मे᳘धमे᳘वास्मिन्नेत᳘द्दधाति त᳘थो हास्यैष सो᳘म एव᳘ भवति॥
मूलम् - श्रीधरादि
स य᳘त्पशु᳘माल᳘भते॥
र᳘समे᳘वास्मिन्नेत᳘द्दधात्य᳘थ य᳘त्सवनी᳘यैः पुरोडा᳘शैः प्रच᳘रति मे᳘धमे᳘वास्मिन्नेत᳘द्दधाति त᳘थो हास्यैष सो᳘म एव᳘ भवति॥
मूलम् - Weber
स य᳘त्पशु᳘माल᳘भते॥
र᳘समेॗवास्मिन्नेत᳘द्दधात्य᳘थ य᳘त्सवनी᳘यैः पुरोडा᳘शैः प्रच᳘रति मे᳘धमेॗवास्मिन्नेत᳘द्दधाति त᳘थो हास्यैष सो᳘म एव᳘ भवति॥
मूलम् - विस्वरम्
स यत्पशुमालभते- रसमेवास्मिन्नेतद्दधाति । अथ यत्सवनीयैः पुरोडाशैः प्रचरति- मेघमेवास्मिन्नेतद्दधाति । तथो हास्यैष सोम एव भवति ॥ १६॥
सायणः
एवमुपोद्धातमभिधाय प्रसङ्गात्पश्वालम्भनसवनीयहविषां होमस्य च प्रयोजनमभिधत्ते- स यत्पशुमालभत इत्यादि । ‘रसम्’ स्वादं रुचिमित्यर्थः । मेघ इति सारांशः । तथो हेति । ‘तथो’ ‘एव’ रुचिसारयोरेव निधाने कृते ऽस्य यजमानस्य पर्वतसकाशादाहृता ओषधिः ‘एष’ “देवो वै सोमो दिवि हि सोमः”- इत्युक्तः साक्षात् सोम एव भवति । ‘एष’ इति विधेयसोमापेक्षया पुल्ँलिङ्गत्वम् ॥ १६ ॥
Eggeling
- Now when he slays the victim, he thereby puts flavour into it; and when he proceeds with (the offering of) the Soma feast cakes, he puts sap into it: thus it becomes Soma for him.
१७
विश्वास-प्रस्तुतिः
स᳘र्व्व ऽऐन्द्रा᳘ भवन्ति॥
(न्ती᳘) इ᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मात्स᳘र्व्व ऽऐन्द्रा᳘ भवन्ति॥
मूलम् - श्रीधरादि
स᳘र्व्व ऽऐन्द्रा᳘ भवन्ति॥
(न्ती᳘) इ᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मात्स᳘र्व्व ऽऐन्द्रा᳘ भवन्ति॥
मूलम् - Weber
स᳘र्व ऐन्द्रा᳘ भवन्ति॥
इ᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मात्स᳘र्व ऐन्द्रा᳘ भवन्ति॥
मूलम् - विस्वरम्
सर्व ऽऐन्द्रा भवन्ति । इन्द्रो वै यज्ञस्य देवता । तस्मात्सर्व ऽऐन्द्रा भवन्ति ॥ १७ ॥
सायणः
सवनीयानां हविषां होमकाले देवताविशेषसम्बन्धमाह- सर्व ऐन्द्रा भवन्तीति । इन्द्रो वै यज्ञस्य देवतेति । इन्द्रस्य प्राधान्यादित्यर्थः । अत एव सुब्रह्मण्याह्वाने- “त्र्यहे सुत्यामागच्छ मघवन्” (साम. तां. ब्रा.)- इत्येवमिन्द्र एवाहूयते ॥ १७ ॥
Eggeling
- They all belong to Indra; for Indra is the deity of the sacrifice: that is why they all belong to Indra.
१८
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘त्पुरोडा᳘शः॥ धानाः᳘ करम्भो द᳘ध्यामिक्षे᳘ति भ᳘वति या᳘ यज्ञ᳘स्य देव᳘तास्ताः सु᳘प्रीता असन्नि᳘ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘त्पुरोडा᳘शः॥ धानाः᳘ करम्भो द᳘ध्यामिक्षे᳘ति भ᳘वति या᳘ यज्ञ᳘स्य देव᳘तास्ताः सु᳘प्रीता असन्नि᳘ति॥
मूलम् - Weber
अ᳘थ य᳘त्पुरोडा᳘शः धानाः᳘ करम्भो द᳘ध्यामिक्षे᳘ति भ᳘वति या᳘ यज्ञ᳘स्य देव᳘तास्ताः सु᳘प्रीता असन्नि᳘ति॥
मूलम् - विस्वरम्
अथ यत्- पुरोडाशः, धानाः, करम्भो, दधि, आमिक्षेति भवति- या यज्ञस्य देवताः- ताः सुप्रीता असन्निति ॥ १८ ॥
सायणः
पुरोडाशादीनां नानात्वे कारणमाह- अथ यत्पुरोडाशो धाना इत्यादि । ‘याः यज्ञस्य’ सवनीयपुरोडाशैः कर्त्तव्यस्य यज्ञस्य ‘या’ देवता निर्वापकाले निर्द्दिष्टा इन्द्रादयः । ‘ताः’ ‘सुप्रीताः’ सुष्ठु तृप्ताः सन्त्विति पुरोडाशादयो निरूप्यन्त इत्यर्थः । ‘असन्’ इति लेट् । “लेटो ऽडाटौ”- (पा. सू. ३ । ४ । ९४) इत्यडागमः । “इतश्च लोपः परस्मैपदेषु”- (पा. सू. ३ । ४ । ९७) इतीकारलोपः ॥ १८ ॥
Eggeling
- And as to why there are a cake, parched barley-grain, a porridge, sour curds, and clotted curds,–it is that those who are the deities of the sacrifice shall be well-pleased.
१९
विश्वास-प्रस्तुतिः
(ती) इदं वा᳘ ऽअपू᳘पमशित्वा᳘[[!!]] कामयते॥
धानाः᳘ खादेयं करम्भ᳘मश्नीयां द᳘ध्यश्नीयामामि᳘क्षामश्नीयामि᳘ति ते स᳘र्व्वे का᳘मा या᳘ यज्ञ᳘स्य देव᳘तास्ताः सु᳘प्रीता असन्नित्य᳘थ य᳘देषा᳘ प्रातःसवन᳘ ऽएव᳘ मैत्रावरुणी᳘ पयस्या᳘ ऽवकॢप्ता भ᳘वति ने᳘तरयोः स᳘वनयोः॥
मूलम् - श्रीधरादि
(ती) इदं वा᳘ ऽअपू᳘पमशित्वा᳘[[!!]] कामयते॥
धानाः᳘ खादेयं करम्भ᳘मश्नीयां द᳘ध्यश्नीयामामि᳘क्षामश्नीयामि᳘ति ते स᳘र्व्वे का᳘मा या᳘ यज्ञ᳘स्य देव᳘तास्ताः सु᳘प्रीता असन्नित्य᳘थ य᳘देषा᳘ प्रातःसवन᳘ ऽएव᳘ मैत्रावरुणी᳘ पयस्या᳘ ऽवकॢप्ता भ᳘वति ने᳘तरयोः स᳘वनयोः॥
मूलम् - Weber
इदं वा᳘ अपूप᳘मशित्वा᳘ कामयते॥
धानाः᳘ खादेयं करम्भमश्नीयां द᳘ध्यश्नीयामामि᳘क्षामश्नीयामि᳘ति ते स᳘र्वे का᳘मा या᳘ यज्ञ᳘स्य देव᳘तास्ताः सु᳘प्रीता असन्नित्य᳘थ य᳘देषा प्रातःसवन᳘ एव᳘ मैत्रावरुणी᳘ पयस्या᳘वकॢप्ता भ᳘वति ने᳘तरयोः स᳘वनयोः॥
मूलम् - विस्वरम्
इदं वा अपूपमशित्वा कामयते- धानाः खादेयम्, करम्भमश्नीयाम्, दध्यश्नीयाम्, आमिक्षामश्नीयाम्- इति । ते सर्वे कामाः- या यज्ञस्य देवतास्ताः सुप्रीता असन्निति । अथ यदेषा प्रातः सवन ऽएव मैत्रावरुणी पयस्या ऽवक्लृप्ता भवति, नेतरयोः सवनयोः ॥ १९ ॥
सायणः
उक्तानां पुरोडाशादीनां कामनाविषयत्वकथनेन तत्प्रीतिसाधनत्वमाह- इदं वा अपूपमशित्वेत्यादि । लोके यः कश्चिज्जनः ‘इदम्’ ‘अपूपम्’ पिष्टनिर्मितं भक्ष्यं भक्षयित्वा एवं ‘कामयते’ । ‘धानाः’ भृष्टयवास्ताः ‘खादेयम्’ । ‘करम्भम्’ आज्यमिश्रं मन्थम् ‘अश्नीयाम्’, भुञ्जीयाम् । ‘दध्यश्नीयाम्’ ‘आमिक्षाम्’ अश्नीयामिति । अतो ऽत्रापि ‘याः’ ‘यज्ञस्य’ ‘देवताः’ ते सर्वे ऽपि देवा एवं बहूनि वस्तूनि कामयन्ते । अतस्तासां प्रीत्यर्थं पुरोडाशादिबहुहविर्निर्वाप इत्यर्थः । प्रसङ्गान्माध्यन्दिनसवने तृतीयसवने च पयस्याया अभावं सूचयितुं तत्कारणं पृच्छति- अथ यदेषेत्यादि । ‘एषां’ हविषां मध्ये ‘मैत्रावरुणी’ आमिक्षा ‘प्रातःसवन’ एव ‘अवक्लृप्ता’ युक्ता ‘नेतरयोः’ ‘सवनयोः’ इति यत् तद् ‘अथ’ तत्कारणं किमित्यर्थः ॥ १९ ॥
Eggeling
- For, when one has eaten cake here, he wishes, ‘I should like to take parched grains, I should like to eat porridge, I should like to eat sour curds, I should like to eat clotted curds!’ All these (are Objects of one’s) wishes: it is in order that those who are the deities of the sacrifice shall be well-pleased. Now as to why that offering of clotted curds (payasyā) is prepared only at the morning libation, and not at the two other libations (Soma feasts).
२०
विश्वास-प्रस्तुतिः
(र्गा) गायत्री वै᳘ प्रातःसवनं᳘ व्वहति॥
त्रिष्टुम्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं ज᳘गती तृतीयसवनं तद्वा ऽअ᳘नेकाकिन्येव᳘ त्रिष्टुम्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं व्वहति गायत्र्या᳘ च बृहत्या चा᳘नेकाकिनी ज᳘गती तृतीयसवनं᳘ गाय᳘त्र्योष्णिहककु᳘ब्भ्यामनुष्टु᳘भा॥
मूलम् - श्रीधरादि
(र्गा) गायत्री वै᳘ प्रातःसवनं᳘ व्वहति॥
त्रिष्टुम्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं ज᳘गती तृतीयसवनं तद्वा ऽअ᳘नेकाकिन्येव᳘ त्रिष्टुम्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं व्वहति गायत्र्या᳘ च बृहत्या चा᳘नेकाकिनी ज᳘गती तृतीयसवनं᳘ गाय᳘त्र्योष्णिहककु᳘ब्भ्यामनुष्टु᳘भा॥
मूलम् - Weber
गायत्री वै᳘ प्रातःसवनं᳘ वहति॥
त्रिष्टुम्मा᳘ध्यन्दिनᳫं स᳘वनं ज᳘गती तृतीयसवनं तद्वा अ᳘नेकाकिन्येव᳘ त्रिष्टुम्मा᳘ध्यन्दिनᳫं स᳘वनं वहति गायत्र्या᳘ च बृहत्या चा᳘नेकाकिनी ज᳘गती तृतीयसवनं᳘ गायॗत्र्योष्णिहककु᳘ब्भ्यामनुष्टु᳘भा॥
मूलम् - विस्वरम्
गायत्री वै प्रातःसवनं वहति, त्रिष्टुम्माध्यन्दिनं सवनम्, जगती तृतीयसवनम् । तद्वा अनेकाकिन्येव त्रिष्टुम्माध्यन्दिनं सवनं वहति- गायत्र्या च बृहत्या च अनेकाकिनी । जगती तृतीयसवनम्- गायत्र्योष्णिहककुब्भ्यामनुष्टुभा ॥ २० ॥
सायणः
कारणमाह- गायत्री वै प्रातःसवनमित्यादिना । तद्वा इत्यादि । ‘तत्’ तत्र सवनेषु त्रिष्टुप् ‘अनेकाकिन्येव’ एकाकिनी, न भवतीत्यनेकाकिनी सहाययुक्तेत्यर्थः । कया अनेकाकिनी ? ‘गायत्र्या’ ‘बृहत्या’ चेति । तत्र माध्यन्दिने पवमाने- “उच्चा ते जातमन्धसः”- (वा. सं. २६ । १६) (ऋ. सं. ७ । १ । १९) “पुनानः सोमधारया-” ऋ. सं. ७ । १ । ३९) “प्रतुद्रवपरिकोशविमिन्य”- (ऋ. सं. ७ । ३ । २२) एतेषां त्रयाणां तृचानां क्रमेण गायत्रीबृहतीत्रिष्टुप्छन्दोयुक्तत्वात् । तथा जगतीच्छन्दो ऽपि तृतीयसवनं गायत्र्यादिभिः ससहायं सद् ‘वहति’ तत्र तृतीयसवने आर्भवपवमाने “स्वादिष्ठया” (वा. सं. २६ । २५)- (ऋ. सं. ६ । ७ । १६) इत्येष तृचो गायत्रीच्छन्दा: । “पवस्वमधुमत्तमम्” (ऋ. सं. ७ । ५ । १७) “इन्द्र सोम” (ऋ. सं. ७ । ७ । १०) इत्येतौ ककुप्छन्दस्कौ । “पुरोजिती वो अन्धसः”- (ऋ. सं. ७ । ५ । १) इत्येषा ऽनुष्टुप्छन्दाः । ‘गायत्री’ तु ‘एकाकिनी’ असहाया ‘एव’ ‘प्रातःसवनं’ ‘वहति’ तत्र छन्दो ऽन्तरस्याभावात् । ‘सा’ एषां गायत्री ‘स्तोत्रपङ्क्त्या च हविष्पङ्क्त्या च’ इति ‘एताभ्यां पंक्तिभ्याम्’ ‘अनेकाकिनी’ सती ‘प्रातःसवनं वहति’ इति योजना । चत्वार्याज्यानि इत्यादिना स्तोत्रपंक्तिस्वरूपं प्रदर्श्यते । स्तोत्रपंक्तिरिति । स्तोत्रपञ्चकम् । कथम् ? पंक्तिच्छन्दःसम्बन्धिपादगतपञ्चसंख्यासम्बन्धात् पंक्तिरिति व्यपदेशसिद्धेः ॥ २० ॥ २१ ॥
Eggeling
- The Gāyatrī, forsooth, bears the morning libation (to the gods), the Trishṭubh the midday libation, and the Jagatī the evening libation,–but, then, the Trishṭubh bears the midday libation, not alone, (but) with both the Gāyatrī and the Br̥hatī 31; and the Jagatī (bears) the evening libation, not alone,
(but) with the Gāyatrī, the Kakubh, and Ushṇih, and the Anushṭubh 32.
२१
विश्वास-प्रस्तुतिः
गाय᳘त्र्ये᳘वैकाकि᳘नी प्रातःसवनं᳘ व्वहति᳘॥
सैता᳘भ्यां पङ्क्ति᳘भ्याᳫँ᳭ स्तोत्र᳘पङ्क्त्या च हवि᳘ष्पङ्क्त्या च चत्वार्या᳘ज्यानि बहिष्पवमानं᳘ प᳘ञ्चमं पञ्चपदा[[!!]] पङ्क्तिः᳘ सैत᳘या स्तोत्र᳘पङ्क्त्या᳘ ऽनेकाकिनी गायत्री᳘ प्रातःसवनं᳘ व्वहति᳘॥
मूलम् - श्रीधरादि
गाय᳘त्र्ये᳘वैकाकि᳘नी प्रातःसवनं᳘ व्वहति᳘॥
सैता᳘भ्यां पङ्क्ति᳘भ्याᳫँ᳭ स्तोत्र᳘पङ्क्त्या च हवि᳘ष्पङ्क्त्या च चत्वार्या᳘ज्यानि बहिष्पवमानं᳘ प᳘ञ्चमं पञ्चपदा[[!!]] पङ्क्तिः᳘ सैत᳘या स्तोत्र᳘पङ्क्त्या᳘ ऽनेकाकिनी गायत्री᳘ प्रातःसवनं᳘ व्वहति᳘॥
मूलम् - Weber
गायॗत्र्येॗवैकाकि᳘नी प्रातःसवनं᳘ वहति᳟᳟॥
सैता᳘भ्याम् पङ्क्ति᳘भ्याᳫं स्तोत्र᳘पङ्क्त्या च हवि᳘ष्पङ्क्त्या च चत्वार्या᳘ज्यानि बहिष्पवमान᳘म् पञ्चमम् प᳘ञ्चपरा पङ्क्तिः᳘ सैत᳘या स्तोत्र᳘पङ्क्त्या᳘नेकाकिनी गायत्री᳘ प्रातःसवन᳘म् वहति॥
मूलम् - विस्वरम्
गायत्र्येवैकाकिनी प्रातःसवनं वहति । सैताभ्यां पङ्क्तिभ्यां- स्तोत्रपङ्क्त्या च हविष्पङ्क्त्या च । चत्वार्याज्यानि, बहिष्पवमानं पञ्चमम् । पञ्चपदा पङ्क्तिः । सैतया स्तोत्रपङ्क्त्यानेकाकिनी गायत्री प्रातःसवनं वहति ॥ २१ ॥
सायणः
[व्याख्यानं विंशतितमे]
Eggeling
- The Gāyatrī alone bears singly the morning libation,–with those two sets of five (paṅkti) 33, the set of five chants, and the set of five oblations: there are four Ājya (chants) 34 and the Bahishpavamāna is the fifth,–the Paṅkti metre is five-footed with that paṅkti of chants, not alone, the Gāyatrī bears the morning libation.
२२
विश्वास-प्रस्तुतिः
(ती᳘) इ᳘न्द्रस्य पुरोडा᳘शः॥
(शो) ह᳘र्योर्धानाः᳘ पूष्णः᳘ करम्भः स᳘रस्वत्यै द᳘धि मित्राव᳘रुणयोः पय᳘स्या प᳘ञ्चपदा पङ्क्तिः᳘ सैत᳘या हवि᳘ष्पङ्क्त्या᳘ ऽनेकाकिनी गायत्री᳘ प्रातःसवनं᳘ व्वहत्येत᳘स्या ए᳘व[[!!]] पङ्क्तेः᳘ सम्प᳘दः का᳘माय प्रातःसवन᳘ ऽए᳘वैषा᳘ मैत्रावरुणी᳘ पयस्या᳘ ऽवकॢप्ता भ᳘वति ने᳘तरयोः स᳘वनयोः॥
मूलम् - श्रीधरादि
(ती᳘) इ᳘न्द्रस्य पुरोडा᳘शः॥
(शो) ह᳘र्योर्धानाः᳘ पूष्णः᳘ करम्भः स᳘रस्वत्यै द᳘धि मित्राव᳘रुणयोः पय᳘स्या प᳘ञ्चपदा पङ्क्तिः᳘ सैत᳘या हवि᳘ष्पङ्क्त्या᳘ ऽनेकाकिनी गायत्री᳘ प्रातःसवनं᳘ व्वहत्येत᳘स्या ए᳘व[[!!]] पङ्क्तेः᳘ सम्प᳘दः का᳘माय प्रातःसवन᳘ ऽए᳘वैषा᳘ मैत्रावरुणी᳘ पयस्या᳘ ऽवकॢप्ता भ᳘वति ने᳘तरयोः स᳘वनयोः॥
मूलम् - Weber
इ᳘न्द्रस्य पुरोडा᳘शः॥
ह᳘र्योर्धानाः᳘ पूष्णः᳘ करम्भः स᳘रस्वत्यै द᳘धि मित्राव᳘रुणयोः पयॗस्या प᳘ञ्चपदा पङ्क्तिःॗ सैत᳘या हवि᳘ष्पङ्क्त्या᳘नेकाकिनी गायत्री᳘ प्रातःसवनं᳘ वहत्येत᳘स्या एव᳘ पङ्क्तेः᳘ सम्प᳘दः कामाय प्रातःसवन᳘ एॗवैषा᳘ मैत्रावरुणी᳘ पयस्या᳘वकॢप्ता भ᳘वति ने᳘तरयोः स᳘वनयोः॥
मूलम् - विस्वरम्
इन्द्रस्य पुरोडाशः, हर्योर्धानाः, पूष्णः करम्भः, सरस्वत्यै दधि, मित्रावरुणयोः पयस्या । पञ्चपदा पङ्क्तिः । सैतया हविष्पङ्क्त्याने ऽकाकिनी गायत्री प्रातःसवनं वहति- एतस्या एव पङ्क्तेः सम्पदः कामाय । प्रातःसवन ऽएवैषा मैत्रावरुणी पयस्यावक्लृप्ता भवति, नेतरयोः सवनयोः 35 ॥ २२ ॥
सायणः
इन्द्रस्य पुरोडाश इत्यादिना हविष्पंक्तिः प्रदर्श्यते । ननु च “सर्व ऐन्द्रा भवन्ति” इति सवनीयपुरोडाशानामिन्द्र एव देवतेत्युक्तम् । तत्कथमत्र- “इन्द्रस्य पुरोडाशः” इत्यादिनेन्द्रादयो देवता निर्दिश्यन्त इति । उच्यते- “सर्व ऐन्द्रा भवन्ति” इत्यनेन होमकाले इन्द्रो देवतात्वेन विधीयते । “इन्द्रस्य पुरोडाशः” इत्यादिना तु निर्वापकाले इन्द्रादयो देवता विधीयन्त इत्यविरोधः । यद्यपि निर्वापकाले या देवता होमकाले ऽपि तथैव भवितव्यम् । तथाप्यत्र निर्वापकालीना देवता स्वकीयैर्हविर्भिरिन्द्रमेव विचिकित्सितवतीतीन्द्र एव होमस्य देवता । एतच्च तैत्तिरीयके श्रूयते- “सो ऽब्रवीत् सप्तदशेन ह्रियमाणो व्यलेशिषि । भिषज्यत मा इति । तमश्विनौ धानाभिरभिषज्यताम् । पूषा करम्भेण, भारती परिवापेण, मित्रावरुणौ पयस्यया; तदाहुः- यदश्विभ्यां धानाः । पूष्णः करम्भः । भारत्यै परिवापः । मित्रावरुणयोः पयस्या । अथ कस्मादेतेषां हविषामिन्द्रमेव यजन्ति इति । एता ह्येनं देवता इति ब्रूयात् । एतैर्हविर्भिरभिषज्यंस्तस्मादिति” (तै. शा. १ । ५ । ११) इति । होमकाले देवतापनयस्येयमेवावस्था । क्वचिद्द्रव्यदेवताभेदस्तु शाखाभेदादुपपद्यते । उक्तमर्थं कारणमुपन्येस्योपसंहरति- एतस्या एव पङ्क्तेः सम्पदः कामायेत्यादि । ‘एतस्या एव’ हविष्पंक्तेः ‘सम्पदः’ सम्पादनस्य ‘कामाय’ काम इच्छा तत्सिद्धय इत्यर्थः ॥ २२ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे द्वितीयाध्यायस्य पञ्चमं ब्राह्मणं समाप्तम् ॥४-२-५॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ १ ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ २ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे द्वितीयो ऽध्यायः समाप्तः ॥ ४-२ ॥
Eggeling
- To Indra belongs the cake, to the two bay steeds the parched grains (dhānāḥ) 36, to Pūshan the porridge (karambha), to Sarasvatī the sour curds (dadhi), and to Mitra and Varuṇa the clotted curds (payasyā) 37,–the Paṅkti is five-footed–with that paṅkti of oblations, not alone, the Gāyatrī bears the
morning libation (to the gods): for the sake of completing that paṅkti, that oblation of clotted curds to Mitra and Varuṇa is prepared only at the morning libation, and not at the two other libations.
-
अध्वर्युप्रतिप्रस्थातृप्रस्त त्रद्रातृप्रतिहर्तृसुन्वन्तः समन्वारब्धा निष्क्रामंति । अध्वर्युः प्रथमो यथासंख्यमितरे । का. श्रौ. सू. ९-१४९-१५० । ↩︎ ↩︎
-
305:1 The libations (grahas) having been taken, and the remaining Nigrābhyā water, mixed with Soma-juice, poured from the Hotr̥’s cup into the Droṇakalaśa (p. 256, note 1), the Adhvaryu, Pratiprasthātr̥; Prastotr̥, Udgātr̥, Pratihartr̥, and Sacrificer walk out of the Havirdhāna shed, each following one touching the hem of the garment of the one before him, and betake themselves to the altar. ↩︎
-
305:2 The vipruḍ-homa, an expiatory oblation for the Soma spilt during the pressing, consists of a pracaranī spoon full of ghee. According to Āśv. V, 2, 6, and Lāṭy. I, 11, 9, it would seem that each of those taking part in the Sarpaṇa (see p. 299, note 2) makes two oblations (called ‘pravr̥tta-homa’ by Lāṭy. Sr. and Pañcaviṁśa Br.). ↩︎
-
306:1 ‘Grāva-cyuta’ seems to be taken by the author in the sense of set in motion by the (pressing) stone.’ The Rig-veda reads ‘bāhu-cyuta;’ also ‘dhishaṇāyāḥ’ instead of ‘dhishaṇayoḥ.’ ↩︎
-
306:2 That is, the Adhvaryu and his assistant, the Pratiprasthātr̥. ↩︎
-
306:3 Ait. Br. II, 20 enumerates Adhvaryu, Prastotr̥; Pratihartr̥; Udgātr̥, and Brahman (see also Āśv. V, 2, 4-5); the Lāṭyāy. Sūtra I, 11, Adhvaryu, Prastotr̥, Udgātr̥; Pratihartr̥, Brahman, and Sacrificer. ↩︎
-
306:4 That is, each holds on to the hem of the garment of the one who precedes him. ↩︎
-
307:1 The Udgātr̥s (chanters) also throw stalks of grass to the south with their left hands, with the text, Pañcav. I, 3, 3. ↩︎
-
उद्गातॄणां पुरस्तादितरत्तूष्णीम् । का. श्रौ. सू. ९ । १५६ । ↩︎
-
जपत्सुसोमः पवत इति पवमानोपाकरणं प्रस्तोत्रे तृणे प्रयच्छन् । सर्व्वेषु । अतृणो वा कुशमुष्टिं वा । नोत्तरसवनयोरयं विकल्पः । किंतु । प्रातःसवनएवायमितिकर्कः । प्रत्यङ्मुखा उपविशतः पुरस्ताद्दक्षिणो यजमानः । द्विवचनादध्वर्युः प्रतिप्रस्थाता चेति कर्कः । स्तूयमान उन्नेता ऽधवनीयं पवित्रमंतर्द्धाय पूतभृत्यासिंचति । सोममितिशेषः । का. श्रौ. सू. १५७-१६१ । ↩︎
-
307:2 And when he thinks ’they have muttered’ (atha yadā manyate ’jāpishur iti)–for the chanters mutter now. Kāṇva text. ↩︎
-
307:3 For the mantras the Udgātr̥s have to mutter on this occasion, previous to the chanting, see Tāṇḍya Br. I, 3, 4-6. The recitation of the Ājyaśastra, by the Hotr̥, succeeding the chanting of the Bahishpavamāna-stotra, is likewise preceded by a prayer muttered by that priest, for which see Ait. Br. II, 38; Āśv. V, 9. ↩︎
-
307:4 That is, without repeating that formula, in the same way as the Pavamāna chants are performed without repeating single verses. See p. 308, note 2. ↩︎
-
307:5 The first stotra at each pressing is called pavamāna (purifying, i.e. during the chanting of which the Soma becomes clarified), viz. the Bahishpavamāna at the morning, the Mādhyandina pavamāna at the midday, and the Ārbhava (or tr̥tīya) pavamāna at the evening pressing. The other stotras are called Dhurya, ’to be harnessed, belonging to or forming a team.’ For the correspondence between the stotra and śastra, see p. 325, note 2. ↩︎
-
308:1 This is Sāyaṇa’s interpretation of ‘upāvartadhvam,’ instead of ‘draw near,’ as translated by me at I, 5, 2, 12. He is probably right in connecting it with the repetitions which certain verses have to undergo in the dhurya-stotras. ↩︎
-
308:2 There are many different stomas, or forms of chanting stotras, named from the number of verses produced in each form (generally by repetitions of certain verses). Those required for the Shaḍaha and Dvādaśāha (see IV, 5, 4, 1 seq.) are: trivr̥t (9), pañcadaśa (15), saptadaśa 07), ekaviṁśa (21), triṇava (27), trayastriṁśa (33), caturviṁśa (24), catuścatvāriṁśa (44), and ashtacatvāriṁśa (48). The first four of these are those most frequently used, and the only ones used at the Agnishṭoma. All these stomas, with one exception (24), have two or more different varieties or arrangements, called vishṭuti, differing from one another either in the order in which the several verses are to be chanted, or in regard to the number of repetitions which the corresponding verses have to undergo. Besides, stomas are generally performed in three turns or rounds, paryāya, consisting of a triplet of verses (some of which may have to be repeated more than once), and preceded by the sound ‘huṁ’ (Hiṅkāra). Thus the first Ājyastotra, Sāmav. II, 10-12, (consisting of three verses, a, b, c,) is to be performed in the pañcadaśa-stoma; that is, the three verses have to be so treated, by repetitions, as to produce fifteen verses in three turns. Now, as there are three different varieties of performing the pañcadaśa-stoma, the stotra might be chanted in one or other of the following three arrangements:– ↩︎
-
309:1 Cf. Tāṇḍya Br. VI, 7, 24. ↩︎
-
310:1 The Bahishpavamāna-(stotra), or ‘outside-pavamāna,’–so called because (on the first day of a Soma-sacrifice) it is performed outside the altar (commentary on Pañcav. Br. VI, 8, 10-11; or outside the Sadas, Sāy. on Sāmav. S. p. 47),–is chanted in the Trivr̥t, or threefold, stoma; consisting, as it does, of three gāyatrī triplets (Sāmav. II, 1-9 for the Agnishṭoma), and none of its verses being chanted more than once. This stoma has three different varieties, viz. the udyatī, or ascending mode, the first turn of which consists of the first verses of the three triplets, the second turn of the second verses, and the third turn of the last verses, hence a1 a2 a3–b1 b2 b3–c1 c2 c3; the parivartinī, or reverting mode, following the natural order, a1 b1 c1–a2 b2 c2–a3 b3 c3; and the kulāyinī, or web-like mode, performed in the order a1 b1 c1-b2 c2 a2–c3 a3 b3. Cf. Haug, Transl. Ait. Br. p. 237, where, however, these forms are described quite differently. The term used for the natural order of verses in the parivartinī vishṭuti is ‘parācī,’ i.e. thitherwards, straight off. From the statement in paragraph 7 above, that ’they chant straight off (parāk),’ one might therefore infer that that particular mode of chanting ought to be used for the Bahishpavamāna-stotra; but the term ‘parāk’ may also be taken as referring to each of the several verses being chanted ‘straight off,’ without any repetition. Haug, Transl. Ait. Br. p. 120 note, remarks: ‘Each of these verses is for the purpose of chanting divided into four parts: Praśṭāva, i, e. prelude, the first being preceded by ḥuṁ̃, to be sung by the Prastotar; Uḍjīṭḥa, the principal part of the Sāman, preceded by Oṁ, to be chanted by the Udgātar; the Praṭiḥāra, i.e. response [? rather check, stop; cf. IV, 3, 4, 22], introduced by ḥuṁ̃, to be chanted by the Pratihartar; and the Ṇiḍḥaṇa, i.e. finale, to be sung by all three. To give the student an idea of this division, I here subjoin the second of these r̥cas in the Sāman form, distinguishing its four parts:– ↩︎
-
स्तोत्रांते प्रेष्यत्यग्नीदग्नीन् विहर बर्हिस्तृणीहि पुरोडाशाँ ३ अलंकुरु प्रतिप्रस्थातः पशुनेहीति । का० श्रौ० सू० ९ । १६२ ॥ ↩︎
-
311:1 Lāṭy. I, 12; II, 1; Tāṇḍya Br. VI, 7 seq. give the following details: The Prastotr̥ takes the prastara (bunch of grass, representing the Sacrificer) from the Adhvaryu and says, ‘Brahman, we will chant, O Praśāstar!’ The Brahman and Maitrāvaruṇa having given their assent (Āśv. V, 2, 12-14). the Prastotr̥ hands the prastara to the Udgātr̥. The latter touches his right thigh with it (or bends his right knee thereon) and ‘harnesses’ (introduces) the chant by the formula, ‘with Agni’s fire, with Indra’s might, with Sūrya’s brilliance, may Br̥haspati harness thee,’ &c. (Tāṇḍya Br. I, 3, 5); whereupon he mutters, ‘I will make food,’ &c. (ib. 6); and after looking towards the pit and a vessel of water and the sun. he commences the chant. The three chanters are seated west of the Adhvaryu and Pratiprasthātr̥ (who look towards them), viz. the Udgātr̥ facing the north, the Prastotr̥ the west, and the Pratihartr̥ the south (or south-east). To the west of them are seated three, four, or six subordinate singers, or choristers (upagātr̥), who accompany the chanting in a deep voice with the sound ‘Ho.’ When the chant is completed, the Udgātr̥ says, ‘I have made food,’ and makes the sacrificer mutter the formula, ‘Thou art a falcon,’ &c. (Pañc. Br. I, 3, 8); whereupon he takes a stalk of grass from the prastara, cuts off the top and bottom, so as to make it of the length of four thumbs’ breadths, and throws it into the pit with, ‘If it has been chanted,’ &c. (ib. II, 1, 8). They then pour out the vessel of water into the pit, with, ‘I send you to the sea,’ &c., and make 3, 5, 7 or 9 steps northwards outside the altar, whereupon they betake themselves to the Āgnīdhrīya. During the chanting, the Unnetr̥ pours the Soma-juice from the Ādhavanīya trough through the strainer into the Pūtabhr̥t. ↩︎
-
312:1 The Agnīdh takes burning coals from the Āgnīdhrīya fire, and puts them on the dhishṇya hearths, in the order in which they were raised. See p. 148, note 4. ↩︎
-
312:2 He spreads a layer of (ulapa) grass along the ‘spine’ (the line from the middle of the back to the middle of the front side) of the altar. ↩︎
-
312:3 Paśuṁ hy ālipsyamāno (!) bhavati. Kāṇva MS. ↩︎
-
आश्विनं गृह्णात्यन्वारब्धे वा या वामिति । का० श्रौ० सू० ९ । १६५ । ध्रुवगोपं कृत्वा परिव्ययणादि करोति रशनामुदुह्य पूर्व्वाम् का० श्रौ० सू० ९ । १७२ । ↩︎
-
312:4 Having taken this cup of Soma or libation (with the formula, Vāj. S. VII, 11) from the Droṇa-kalaśa or the Pūtabhr̥t, he makes the sacrificer eye the several cups and Soma vessels, as set forth IV, 5, 6, 1 seq.; the Āśvina being looked at sixth in order (or fourth of the grahas), not tenth (as was its order of drawing). See IV, 1, 5, 16. ↩︎
-
312:5 See III, 7, 1, 19 seq. ↩︎
-
आग्नेयो ऽग्निष्टोमे सवनीयः पशुरैंद्राग्नश्चोक्थ्यो द्वितीयः । ऐंद्रो व्वृष्णिः षोडशिनि तृतीयः सरस्वत्यै चतुर्थो ऽतिरात्रे मेषी वा । एतत् स्तोमायनम् । का. श्रौ. सू. । ९ । १७३-१७५ । ↩︎
-
313:1 Or, the (three) Uktha-stotras (Sāmav. II, 55-62) and śastras, the characteristic feature of the Ukthya sacrifice. Cf. p. 325, note ; and IV, 6, 3, 3. ↩︎
-
313:2 The Shoḍaśi-stotra (Sāmav. II, 302-304) chanted in the ekaviṁśa stoma is the characteristic stotra of the Shoḍaśin sacrifice. The term meaning ‘having a sixteenth’ (viz. stotra), it evidently refers originally to the sacrifice, and has then also been applied to the stotra and śastra. See also Haug, Ait. Br. Transl. p. 255, note 2. ↩︎
-
313:3 On this occasion the same rites are performed as at the sacrifice of the Agnīshomīya buck (III, 6, 4, 1 seq.), viz. from the girding of the stake (III, 7, 1, 19) to the election of the Hotr̥ (III, 7, 4, 9). Then the other priests are elected, viz. Adhvaryu (and Pratiprasthātr̥), the Praśāstr̥ (Maitrāvaruṇa), the Brāhmaṇāchaṁsin, the Potr̥, the Neshṭr̥, the Āgnīdhra, and finally the sacrificer himself; after which each of them makes two election oblations (pravr̥tahoma) of ghee, the first with, ‘May I be well-pleasing to Speech, well-pleasing to the Lord of speech: O divine Speech, what sweetest, most pleasing speech is thine, therewith endow me! Hail to Sarasvatī!’ the second with, ‘May the holy Sarasvatī, of abundant powers, rich in devotion, accept favourably our sacrifice!’ Thereupon they proceed with the animal offering up to the offering of the omentum (vapā) and cleansing (III, 8, 2, 30); after which all the eighteen priests and the sacrificer perform the Sarpaṇa (see p. 299, note 2), that is, they step up to the eight dhishṇya hearths (with formulas Vāj. S. V, 31 a-d; 32 a-d respectively), the Adhvaryu then pointing out the Āhavanīya, the Bahishpavamāna place, the Cātvāla, &c. (with Vāj. S. V, 32 e seq.); and touching the Sadas and its door-posts, and addressing Sūrya (the sun), the R̥tvijs (officiating priests) and dhishṇya hearths (with V, 33-34). Kāty. IX, 8, 8-25. For the duties of the Udgātr̥s, see Lāṭy. Śr. II, 2, 10 seq. ↩︎
-
314:1 For the metres of which the Mādhyandina-pavamāna stotra is composed, see p. 333, note 1. ↩︎
-
315:1 The Ārbhava or Tr̥tīya-pavamāna stotra, Sāmav. II, 39-52 (see note on IV, 3, 5, 24), is made up of five parts, composed chiefly in the Gāyatrī, Kakubh, Ushṇih, Anushṭubh, and Jagatī metres respectively. It is chanted in the Saptadaśa-stoma, the seventeen verses being obtained in the following way. The Gāyatrī triplet (II, 39-41) is chanted twice, in the Gāyatra and Saṁhita tunes, making six verses. Then verses 42 and 44 once each, in the Sapha and Paushkala tunes respectively. Then the triplet II, 47-49 twice, in the Śyāvāśva and Āndhīgava tunes (six verses). And finally the triplet II, 50-52 once, in the Kāva tune (three verses). This makes together seventeen verses. Verses 43, 45, and 46 of the Saṁhita are omitted in the chanting. ↩︎
-
315:2 Paṅkti means both ‘a set of five,’ and the paṅkti metre, consisting of five octosyllabic feet. ↩︎
-
315:3 See p. 325, note 2. ↩︎
-
इह संहितायामवकाशमन्त्रा एकादश पठ्यन्ते, ततो द्रोणकलशावेक्षणमन्त्रो जपनीयमन्त्रश्च । त इत्थं त्रयोदश मन्त्राः शतपथे ऽस्मिन्ब्राह्मणे अग्निष्टोमषोडशि- पृष्ठ्यषडहाधिकारेभ्य उपरिष्टात्कर्तव्यतया निर्देक्ष्यन्ते । ↩︎
-
315:4 Taitt. Br. I, 5, 11 assigns them to the Aśvins, for the reason that they performed cures therewith. ↩︎
-
315:5 These five sacrificial dishes, called savanīyāḥ (or aindrāḥ) puroḍāśāḥ, are placed together in one vessel (pātrī)–the puroḍāśa proper, or rice-cake to Indra, being placed in the centre–and oblations are made from them to the respective deities at one and the same time, two pieces being cut from each dish into the juhū for the chief offering, and one piece from each into the upabhr̥t spoon, for the svishṭakr̥t. While cutting the portion he calls on the Maitrāvaruṇa to ‘Recite (the invitatory prayer) of the cakes of the morning feast for Indra!’ The anuvākyā (Rig-veda III, 52, 1) having been recited by the Maitrāvaruṇa, the Adhvaryu steps to the fire, calls on the Āgnīdhra for the Śraushaṭ formula (see I, 5, 2, 16, with note), and thereupon on the Maitrāvaruṇa to Urge the cakes of the morning feast brought forward for Indra!’ That priest then urges, ‘Let the Hotr̥ pronounce the offering prayer to Indra! May Indra with his bays eat the grain! [O Hotar, pronounce the offering prayer!]’ Whereupon the Hotr̥ recites, We who worship (part i, p. 142, note),–May Indra with his bays eat the grains, with Pūshan the porridge; with Sarasvatī, with Bhāratī, the sour curds, with Mitra and Varuṇa the clotted curds! [cf. Ait. Br. II, 24; Taitt. Br. I, 5, 11; Āśv. V, 4, 3] Vaushaṭ!’ when the Adhvaryu pours the oblation into the fire. For the oblation to Agni Svishṭakr̥t the invitatory prayer is Rig-Veda III, 28, 1, and the offering formula ‘Havir agne vīhi,’ ‘graciously accept the offering, O Agni!’ The offerings completed, the dishes of sacrificial food. are placed on the Hotr̥’s hearth. ↩︎