०१
विश्वास-प्रस्तुतिः
अय᳘ᳫं᳘ ह वा᳘ ऽअस्यैष᳘ प्राणः᳘॥
(णो) यो ऽयं᳘ पुर᳘स्तात्स[[!!]] वै᳘ व्वैश्वानर᳘ एवा᳘थ᳘ यो ऽयं᳘ पश्चात्स᳘ ध्रुवस्तौ᳘ ह स्मैतौ द्वा᳘वेवा᳘ग्रे ग्र᳘हौ गृह्णन्ति ध्रुववैश्वानरावि᳘ति त᳘योरयम᳘प्येत᳘र्ह्यन्यतर᳘ ऽएव᳘ गृह्यते ध्रु᳘व ऽएव[[!!]] स य᳘दि तं च᳘रकेभ्यो वा य᳘तो वा ऽनुब्रुवीत य᳘जमानस्य तं᳘ चमसे᳘ ऽवनयेद᳘थैत᳘मेव᳘ होतृचमसे[[!!]]॥
मूलम् - श्रीधरादि
अय᳘ᳫं᳘ ह वा᳘ ऽअस्यैष᳘ प्राणः᳘॥
(णो) यो ऽयं᳘ पुर᳘स्तात्स[[!!]] वै᳘ व्वैश्वानर᳘ एवा᳘थ᳘ यो ऽयं᳘ पश्चात्स᳘ ध्रुवस्तौ᳘ ह स्मैतौ द्वा᳘वेवा᳘ग्रे ग्र᳘हौ गृह्णन्ति ध्रुववैश्वानरावि᳘ति त᳘योरयम᳘प्येत᳘र्ह्यन्यतर᳘ ऽएव᳘ गृह्यते ध्रु᳘व ऽएव[[!!]] स य᳘दि तं च᳘रकेभ्यो वा य᳘तो वा ऽनुब्रुवीत य᳘जमानस्य तं᳘ चमसे᳘ ऽवनयेद᳘थैत᳘मेव᳘ होतृचमसे[[!!]]॥
मूलम् - Weber
अय᳘ᳫं᳘ ह वा᳘ अस्यैष᳘ प्राणः॥
यो ऽय᳘म् पुरस्ता᳘त्स वै᳘ वैश्वानर᳘ एवा᳘थॗ यो ऽय᳘म् पश्चात्स᳘ ध्रुवस्तौ᳘ 1 ह स्मैतौ द्वा᳘वेवा᳘ग्रे ग्र᳘हौ गृह्णन्ति ध्रुववैश्वानरावि᳘ति त᳘योरयम᳘प्येत᳘र्ह्यन्यतर᳘ एव᳘ गृह्यते ध्रुव᳘ एव स य᳘दि तं च᳘रकेभ्यो वा य᳘तो वानुब्रुवीत य᳘जमानस्य तं᳘ चमसे᳘ ऽवनयेद᳘थैत᳘मेव᳘ होतृचमसे᳟॥
मूलम् - विस्वरम्
ध्रुवग्रहः ।
अयं ह वा ऽअस्यैष प्राणः- यो ऽयं पुरस्ताद् । स वै वैश्वानर एव । अथ यो ऽयं पश्चात्स ध्रुवः । तौ ह स्मैतौ द्वावेवाग्रे ग्रहौ गृह्णन्ति- ध्रुववैश्वानराविति । तयोरयमप्येतर्ह्यन्यतर एव गृह्यते- ध्रुव एव । स यदि तं चरकेभ्यो वा यतो वा ऽनुब्रुवीत- यजमानस्य तं चमसे ऽवनयेत्, अथ तमेव होतृचमसे ॥ १ ॥
सायणः
उपांश्वादीनां ग्रहाणां प्राणाद्यवयवात्मकत्वात्, आग्रयणोक्थयोः स्थूलसूक्ष्मशरीरद्वयात्मकत्वात्, तद्विधानेन कृत्स्नमपि यज्ञशरीरं निष्पादितम्, आयुर्विशेषविशिष्टमेव हि शरीरं कार्यजनकत्वेन सार्थकं भवति; अतस्तत्सार्थकत्वाय आयुषः सम्पादनीयत्वात्, तत्सम्पादनायेदानीमस्मिन् ब्राह्मणे तदात्मकत्वेन ध्रुवग्रहं विधातुं प्रस्तोति- अयं ह वा इति । ‘अस्य’ यज्ञस्य ‘एषः’ वक्ष्यमाणो ग्रहः- ‘अयं’ सर्वेषां प्रत्यक्षः प्राणः खलु । अत्र प्राणशब्देन आयुर्विवक्ष्यते । आयुषः प्राणशरीरसम्बन्धात्मकत्वात् । एतच्चोत्तरत्र- “सो ऽस्यैष आयुरेव” (द्वितीयस्यां कंडिकायां) इति स्वयमेव विवरणादवगम्यते । ‘ह वा’- इत्यनेन शाखान्तरप्रसिद्धिर्द्योत्यते । अत एव तैत्तिरीयकम्- “आयुर्वा एतद्यज्ञस्य यद्ध्रुवः”- (तै. सं. ६ । ५ । २) इति । प्राणस्य मूलाधारे निष्पत्तिः । निष्पन्नस्य च तस्य मुखनासाविवरेणाभिव्यक्तिः, ततश्चैकस्यापि निष्पत्त्यभिव्यक्तिस्थानभेदमङ्गीकृत्य तदनुसारेण ग्रहद्वैविध्यमाह- यो ऽयं पुरस्तादिति । ‘यो ऽयं’ मुखनासाविवरेणाभिव्यज्यमानः ‘प्राणः’ ‘स’ ‘एव’ ‘वैश्वानरः’ तदात्मको वैश्वानरग्रहः । ‘यो ऽयं’ प्राणः ‘पश्चात्’ मूलाधारे निष्पद्यते, ‘स’ एव ध्रुवग्रहः । ‘तौ’ ‘एतौ’ उक्तप्रकारेण द्विसङ्ख्याकौ ध्रुववैश्वानराख्यौ ‘ग्रहौ’ पूर्वं गृह्णाति, इति केषाञ्चिच्छाखिनाम्मतमनुवदति- तौ ह स्मैताविति । यद्यपि प्राणस्य भेदनिबन्धनो भेदो ऽस्ति, तथापि न स्वरूपनिबन्धन इति, तस्यैकत्वात्तदात्मकः ‘तयोरन्यतरः’ ‘एव’ ग्रहो ग्रहीतव्य इति । स्वमतमाह- तयोरयमिति । ‘तयोः’ अपि ‘अयमन्यतरः’ ‘एव’ एतस्मिन् काले ‘गृह्यते’ । अयमिति सामान्येन निर्दिष्टार्थः प्रदर्श्यते- ध्रुव एवेति । मुखनासाविवरेण व्यज्यमानः प्राणो मूलाधारादुत्पन्न ‘एव’ इति तदात्मकध्रुवग्रहणेन वैश्वानरग्रहणमपि सम्पादितं भवतीति ‘ध्रुव’ ‘एव’ इत्युक्तम् । तदेवेदमेतच्छाखाध्यायिनां 2- द्वावेवाग्रे ग्रहौ गृह्णातीति सूचितम् । तदुभयग्रहप्रतिपादकचरकादिशाखाध्यायिनां पुनरुभयोरपि ग्रहणात् कथं तत्प्रतिपत्तिरिति, तत्राह- स यदि तमिति । चरका नाम केचन शाखिनः । तेभ्यः ‘यतो वा’ अन्येभ्यो वा शाखिभ्य इदं प्रतिपादकं ब्राह्मणं यद्यधीयीत तदा ‘तम्’ वैश्वानरग्रहं होमकाले ‘यजमानस्य’ ‘चमसे ऽवनयेत्’ । एवं ध्रुवग्रहं तु होतृचमस एव ‘अवनयेत्’ तयोरप्यन्यतर एव गृह्यते, “ध्रुव एव” इति स्वेनोपादानात् “एतम्” इति ध्रुवस्य प्रत्यक्षनिर्द्देशः, तदभावात् ‘तम्’ इति वैश्वानरस्य परोक्षनिर्द्देशः ॥ १ ॥
Eggeling
- That (opening of) vital air of his which is in front, that, forsooth, is the Vaiśvānara (graha); and that which is behind is the Dhruva. Formerly, indeed, both these grahas, the Dhruva and Vaiśvānara, were drawn; and even now one of them is still drawn, to wit, the Dhruva 3. And if he acquire a knowledge of that (Vaiśvānara graha) either from the Karakas, or from anywhere else, let him pour it into the sacrificer’s cup; but this (Dhruva graha he pours) into the Hotr̥’s cup 4.
०२
विश्वास-प्रस्तुतिः
यद्वा᳘ ऽअस्यावाची᳘नं ना᳘भेः॥
(स्त᳘) त᳘दस्यैष᳘ आत्म᳘नः᳘ सो ऽस्यैष आ᳘युरेव त᳘स्मादन᳘या गृह्णात्यस्यै हि᳘ स्थाली भ᳘वति स्थाल्या᳘ ह्येनं गृह्णा᳘त्यज᳘रा᳘ हीय᳘ममृ᳘ता ऽज᳘र᳘ᳫं᳘ ह्यमृ᳘तमा᳘युस्त᳘स्मादन᳘या[[!!]] गृह्णाति॥
मूलम् - श्रीधरादि
यद्वा᳘ ऽअस्यावाची᳘नं ना᳘भेः॥
(स्त᳘) त᳘दस्यैष᳘ आत्म᳘नः᳘ सो ऽस्यैष आ᳘युरेव त᳘स्मादन᳘या गृह्णात्यस्यै हि᳘ स्थाली भ᳘वति स्थाल्या᳘ ह्येनं गृह्णा᳘त्यज᳘रा᳘ हीय᳘ममृ᳘ता ऽज᳘र᳘ᳫं᳘ ह्यमृ᳘तमा᳘युस्त᳘स्मादन᳘या[[!!]] गृह्णाति॥
मूलम् - Weber
यद्वा᳘ अस्यावाची᳘नं ना᳘भेः॥
त᳘दस्यैष᳘ आत्मॗनः सो ऽस्यैष आ᳘युरेव त᳘स्मादन᳘या गृह्णात्यस्यै हि᳘ स्थाली भ᳘वति स्थाल्याॗ ह्येनं गृह्णा᳘त्यज᳘राॗ हीय᳘ममृ᳘ताज᳘रᳫं ह्य᳘मृ᳘तमा᳘युस्त᳘स्मादन᳘या गृह्णाति॥
मूलम् - विस्वरम्
यद्वा ऽअस्यावाचीनं नाभेः- तद् अस्यैष आत्मनः- सो ऽस्यैष आयुरेव । तस्मादनया गृह्णाति । अस्यै हि स्थाली भवति । स्थाल्या ह्येनं गृह्णाति । अजरा हीयममृता । अजरं ह्यमृतमायुः । तस्मादनया गृह्णाति ॥ २ ॥
सायणः
ग्रहस्य स्थाल्या ग्रहणमुपपादयितुमायुरात्मकत्वमाह- यद्वा अस्येति । ‘अस्य’ यज्ञस्य ‘नाभेः’ अधस्तनं यच्छरीरं, यस्यात्मनस्तच्छरीरमेतस्य ‘एषः’ ध्रुवग्रहः, ‘तत्’ तस्य प्राणात्मकत्वात्, अत एव ‘अस्य’ यज्ञस्य ‘सः’ अयं ग्रह आयुरात्मकः । प्राणशरीरसम्बन्धात्मकत्वादायुष इति (अत्रैव १ कण्डिकाभाष्ये) प्रागुक्तम् । यतः एवमुक्तप्रकारेण ग्रहस्यायुष्ट्वं ‘तस्मात्’ ‘एनं’ ग्रहम् ‘अनया’ पृथिव्या गृह्णीयात् इति । ननु चायं स्थाल्या गृह्यते तत् कथमुच्यते पृथिव्या गृह्णीयादित्यत आह- अस्यै हि स्थालीति । कार्यकारणयोरभेदात् स्थाल्या ग्रहणेन पृथिव्यैव ग्रहणमस्तु, तथा ऽपि ग्रहस्य पृथिव्या ग्रहणे कथमायुष्ट्वं हेतुरित्यत आह- अजरा हीति । जरा शैथिल्यम्, मरणं स्वरूपनाशः, आयुषश्च न तदुभयम्- यस्य यावद् ‘आयुः’ तावदिति तस्मिन् तदुभयाभावात् ॥ २ ॥
Eggeling
- Now, what part of him there is below the navel, that part of his self, that vital energy of his, is this (Dhruva): hence he draws it by means of this (earth), because of her is the bowl (sthālī) 5, and with a bowl he draws it;–for undecaying and immortal is this (earth), and undecaying and immortal is the vital energy: therefore he draws it by means of this (earth).
०३
विश्वास-प्रस्तुतिः
तं वै᳘ पूर्णं᳘ गृह्णाति॥
स᳘र्व्वं वै तद्य᳘त्पूर्णᳫं᳭ स᳘र्व्वं तद्यदा᳘युस्त᳘स्मात्पूर्णं᳘[[!!]] गृह्णाति॥
मूलम् - श्रीधरादि
तं वै᳘ पूर्णं᳘ गृह्णाति॥
स᳘र्व्वं वै तद्य᳘त्पूर्णᳫं᳭ स᳘र्व्वं तद्यदा᳘युस्त᳘स्मात्पूर्णं᳘[[!!]] गृह्णाति॥
मूलम् - Weber
तं वै᳘ पूर्णं᳘ गृह्णाति॥
स᳘र्वं वै तद्य᳘त्पूर्णᳫं स᳘र्वं तद्यदा᳘युस्त᳘स्मात्पूॗर्णं गृह्णाति॥
मूलम् - विस्वरम्
तं वै पूर्णं गृह्णाति । सर्वं वै तद्यत्पूर्णम् । सर्वे तद् यदा ऽयुः । तस्मात्पूर्णं गृह्णाति ॥ ३ ॥
सायणः
असाकल्येनापि ग्रहणे ग्रहणविधिश्चरितार्थः स्यादित्याशयेनाह- तं वै पूर्णमिति । ‘तम्’ ‘वै’ पूर्णस्य सर्वत्वमुपयवकाशाभावात् । आयुषस्तु यस्य यावद् ‘आयुः’ तस्य तावदविकलमेवेति ॥ ३ ॥
Eggeling
- He draws it full; for full means all, and the vital energy means all: therefore he draws it full.
०४
विश्वास-प्रस्तुतिः
व्वैश्वानरा᳘य गृह्णाति॥
संव्वत्सरो वै᳘ व्वैश्वानरः᳘ संव्वत्सर ऽआ᳘युस्त᳘स्माद्वैश्वानरा᳘य गृह्णाति॥
मूलम् - श्रीधरादि
व्वैश्वानरा᳘य गृह्णाति॥
संव्वत्सरो वै᳘ व्वैश्वानरः᳘ संव्वत्सर ऽआ᳘युस्त᳘स्माद्वैश्वानरा᳘य गृह्णाति॥
मूलम् - Weber
वैश्वानरा᳘य गृह्णाति॥
संवत्सरो वै᳘ वैश्वानरः᳘ संवत्सर आ᳘युस्त᳘स्माद्वैश्वानरा᳘य गृह्णाति॥
मूलम् - विस्वरम्
वैश्वानराय गृह्णाति । संवत्सरो वै वैश्वानरः । संवत्सर आयुः । तस्माद्वैश्वानराय गृह्णाति ॥ ४ ॥
सायणः
प्रकृतग्रहस्य देवतासम्बन्धं दर्शयति- वैश्वानरायेति । ‘वैश्वानरो’ नाम समस्तजनहितो ऽग्निरुच्यते । तस्य च संवत्सरत्वं संवत्सरपर्यन्तमुखायां निष्पादितत्वात् । संवत्सर आयुरिति । प्राणशरीरसम्बन्धकालः “आयुर्जीवितकालो वा” इत्यभिधानात्, (अम. २ । ८ । १२०) स एव च कालः उपाधिविशेषवशादहोरात्र पक्षमासर्त्वयनसंवत्सरादिभिः शब्दैर्व्यपदिश्यत इति संवत्सरो ऽप्यायुरित्यर्थः ॥ ४ ॥
Eggeling
- He draws it for (Agni) Vaiśvānara; for Vaiśvānara (‘he that belongs to all men’) is the year, and the vital energy (life) is the year: therefore he draws it for Vaiśvānara.
०५
विश्वास-प्रस्तुतिः
स᳘ प्रातःसवने᳘ गृहीतः᳘॥
(ऽ) एत᳘स्मात्कालादु᳘पशेते त᳘देनᳫँ᳭ स᳘र्व्वाणि स᳘वनान्य᳘तिनयति॥
मूलम् - श्रीधरादि
स᳘ प्रातःसवने᳘ गृहीतः᳘॥
(ऽ) एत᳘स्मात्कालादु᳘पशेते त᳘देनᳫँ᳭ स᳘र्व्वाणि स᳘वनान्य᳘तिनयति॥
मूलम् - Weber
स᳘ प्रातःसवने᳘ गृहीतः᳟᳟॥
ऐत᳘स्मात्कालादु᳘पशेते त᳘देनᳫं स᳘र्वाणि स᳘वनान्य᳘तिनयति॥
मूलम् - विस्वरम्
स प्रातःसवने गृहीत एतस्मात्कालादुपशेते । तदेनं सर्वाणि सवनान्यतिनयति ॥ ५ ॥
सायणः
उपांश्वाद्या ग्रहाः प्रातःसवन एव गृह्यन्ते तत्रैव च हूयन्ते, अयन्तु ग्रहो न तथेत्याह- स प्रातःसवन इति । ‘एतस्मात् कालात्’ इत्येतच्छब्देन तृतीयसवने अग्निमारुतशस्त्रकालो ऽवधित्वेन निर्द्दिश्यते । तदेनमिति । तथावस्थानेन तस्य ‘सर्वाणि’ ‘सवनानि’ अतिनीतत्वादायुरात्मकत्वमुपपादितं भवतीत्यर्थः ॥ ५ ॥
Eggeling
- Having been drawn at the morning pressing, it reposes apart from that time: thus he guides him (the sacrificer) safely through all the pressings.
०६
विश्वास-प्रस्तुतिः
तं न᳘ स्तूय᳘माने᳘ ऽवन᳘येत्॥
(न्न᳘) न᳘ ह संव्वत्सरं य᳘जमानो᳘ ऽतिजीवेद्य᳘त्स्तूय᳘माने ऽवन᳘येत्॥
मूलम् - श्रीधरादि
तं न᳘ स्तूय᳘माने᳘ ऽवन᳘येत्॥
(न्न᳘) न᳘ ह संव्वत्सरं य᳘जमानो᳘ ऽतिजीवेद्य᳘त्स्तूय᳘माने ऽवन᳘येत्॥
मूलम् - Weber
तं न᳘ स्तूय᳘माने᳘ ऽवनयेत्॥
न᳘ ह संवत्सरं य᳘जमानो᳘ ऽतिजीवेद्य᳘त्स्तूय᳘माने ऽवन᳘येत्॥
मूलम् - विस्वरम्
तं न स्तूयमाने ऽवनयेत् । न ह संवत्सरं यजमानो ऽतिजीवेत्- यत्स्तूयमाने ऽवनयेत् ॥ ६ ॥
सायणः
अग्निष्टोमस्तोत्रावसरे स्वल्पस्यापि सोमशेषस्यानवस्थापनात्तदा ऽस्यावनयनप्रसक्तौ सोपपत्तिकं निषेधति- तन्न स्तूयमान इति ॥ ६ ॥
Eggeling
- Let him not pour it (into the Hotr̥’s cup) during the chanting; for, verily, were he to pour it out during the chanting, the sacrificer would not live through the year.
०७
विश्वास-प्रस्तुतिः
(त्त᳘ᳫँ᳘) त᳘ᳫं᳘ शस्य᳘माने᳘ ऽवनयति॥
त᳘देनं द्वादश᳘ᳫं᳘ स्तोत्रम᳘तिनयति त᳘था प᳘रम्परमा᳘युः स᳘मश्नुते त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति त᳘स्माद्ब्राह्म᳘णो ऽग्निष्टोमस᳘त्स्या᳘दैत᳘स्य हो᳘मान्न स᳘र्पेन्न प्र᳘स्रावयेत त᳘था स᳘र्व्वमा᳘युः स᳘मश्नुत ऽआ᳘युर्व्वा᳘ ऽअस्यैष त᳘था स᳘र्व्वमा᳘युरेति॥
मूलम् - श्रीधरादि
(त्त᳘ᳫँ᳘) त᳘ᳫं᳘ शस्य᳘माने᳘ ऽवनयति॥
त᳘देनं द्वादश᳘ᳫं᳘ स्तोत्रम᳘तिनयति त᳘था प᳘रम्परमा᳘युः स᳘मश्नुते त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति त᳘स्माद्ब्राह्म᳘णो ऽग्निष्टोमस᳘त्स्या᳘दैत᳘स्य हो᳘मान्न स᳘र्पेन्न प्र᳘स्रावयेत त᳘था स᳘र्व्वमा᳘युः स᳘मश्नुत ऽआ᳘युर्व्वा᳘ ऽअस्यैष त᳘था स᳘र्व्वमा᳘युरेति॥
मूलम् - Weber
तं᳘ शस्य᳘माने᳘ ऽवनयति॥
त᳘देनं द्वादश᳘ᳫं᳘ स्तोत्रम᳘तिनयति त᳘था प᳘रम्परमा᳘युः स᳘मश्नुते त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति त᳘स्माद्ब्राह्मॗणो ऽग्निष्टोमस᳘त्स्याॗदैत᳘स्य हो᳘मान्न स᳘र्पेन्न प्र᳘स्रावयेत त᳘था स᳘र्वमा᳘युः स᳘मश्नुत आ᳘युर्वा᳘ अस्यैष त᳘था स᳘र्वमा᳘युरेति॥
मूलम् - विस्वरम्
तं शस्यमाने ऽवनयति । तदेनं द्वादशं स्तोत्रमतिनयति- तथा परम्परमायुः समश्नुते- तथो ह यजमानो ज्योग्जीवति- तस्माद्ब्राह्मणो ऽग्निष्टोमसत्स्यात् । एतस्य होमान्न सर्पेत्, न प्रस्रावयेत, तथा सर्वमायुः समश्नुते । आयुर्वा अस्यैषः । तथा सर्वमायुरेति ॥ ७ ॥
सायणः
कदा तर्ह्येनमवनयेदिति तत्राह- तं शस्यमान इति । तदेनमिति । अग्निमारुतशंसनकाले द्वादशानामपि स्तोत्राणां समापितत्वेन द्वादशमासात्मकस्य संवत्सरस्य साकल्येन तदात्मकस्योत्तरोत्तरस्यायुषः प्राप्त्या ‘यजमानः’ चिरञ्जीवेदित्यर्थः । यतो ऽग्निष्टोमस्तोत्रे समापिते द्वादशमासात्मकः संवत्सरः साकल्येन प्रथत इति तदेव ध्रुवग्रहो हूयते । अतस्तद्धोमपर्यन्तं तत्रैव तिष्ठेत् । न त्वन्यत्र गच्छेदित्याह- तस्माद्ब्राह्मण इति । अत्र ब्राह्मणशब्देन दीक्षितास्त्रैवर्णिका अप्युच्यन्ते । तदाहापस्तम्बः- “ब्राह्मणो वा एष जायते यो दीक्षते ततो ऽस्माद्राजन्यवैश्यावपि ब्राह्मणाः” इत्येवावेदयति, न केवलमायुषो ऽनन्तरायान्यत्र गमनं न कार्यम् अपि तु मूत्रमपि नो कार्यमित्याह- न प्रस्रावयेतेति 6 ॥ ७ ॥
Eggeling
- He pours it out during the recitation of the śastra; whereby he guides him safely over the twelvefold chant of praise: thus he obtains ever continued life, and thus does the sacrificer live long. Therefore the Brāhman should sit through the praise of Agni (Agnishṭoma) 7; till the offering of this (libation) he must not slip away 8–nor must he
discharge urine: thus he obtains the full life–for this (libation) is his life–thus he reaches the full (measure of) life.
०८
विश्वास-प्रस्तुतिः
यद्वा᳘ ऽअस्यावाची᳘नं ना᳘भेः॥
(स्त᳘) त᳘दस्यैष᳘ ऽआत्म᳘नः स य᳘त्पु᳘रैत᳘स्य हो᳘मात्स᳘र्पेद्वा प्र᳘ वा स्राव᳘येत ध्रुवᳫँ᳭ हा᳘वमेहेन्ने᳘द्ध्रुव᳘मवमे᳘हानी᳘ति त᳘स्माद्वा᳘ ऽअग्निष्टोमस᳘द्भवति तद्वैतद्य᳘जमान एव य᳘जमानस्य᳘ ह्येष त᳘दात्म᳘नः॥
मूलम् - श्रीधरादि
यद्वा᳘ ऽअस्यावाची᳘नं ना᳘भेः॥
(स्त᳘) त᳘दस्यैष᳘ ऽआत्म᳘नः स य᳘त्पु᳘रैत᳘स्य हो᳘मात्स᳘र्पेद्वा प्र᳘ वा स्राव᳘येत ध्रुवᳫँ᳭ हा᳘वमेहेन्ने᳘द्ध्रुव᳘मवमे᳘हानी᳘ति त᳘स्माद्वा᳘ ऽअग्निष्टोमस᳘द्भवति तद्वैतद्य᳘जमान एव य᳘जमानस्य᳘ ह्येष त᳘दात्म᳘नः॥
मूलम् - Weber
यद्वा᳘ अस्यावाची᳘नं नाभेः॥
त᳘दस्यैष᳘ आत्म᳘नः स य᳘त्पुॗरैत᳘स्य हो᳘मात्स᳘र्पेद्वा प्र᳘ वा स्राव᳘येत ध्रुवᳫं हा᳘वमेहेन्ने᳘द्ध्रुव᳘मवमे᳘हानी᳘ति त᳘स्माद्वा᳘ अग्निष्टोमस᳘द्भवति तद्वै तद्य᳘जमान एव य᳘जमानस्यॗ ह्येष त᳘दात्म᳘नः॥
मूलम् - विस्वरम्
यद्वा ऽअस्यावाचीनं नाभेः- तदस्यैष आत्मनः । स यत्पुरैतस्य होमात्सर्पेद्वा, प्र वा स्रावयेत- ध्रुवं हावमेहेत्-नेद्ध्रुवमवमेहानीति । तस्माद्वा ऽअग्निष्टोमसद्भवति । तद्वै तद् यजमान एव, यजमानस्य ह्येषः तदात्मनः ॥ ८ ॥
सायणः
ननु ध्रुवग्रह आयुरात्मको ऽस्तु, मूत्रावसेचने तु तस्य को बाध इत्यत आह- यद्वा अस्येति । ध्रुवग्रहो यज्ञस्य नाभेरधस्तनं शरीरमित्युक्तम् । अत एव तस्य होमात्पूर्वमन्यत्र गमने मूत्रावसेचने वा ध्रुवमेवावसिञ्चेत् । नेद्ध्रुवमवमेहानीति । नाहं ध्रुवमवसिञ्चानीति अन्यत्र न गच्छेन्नापि मूत्रमवसिञ्चेत्, किन्तु तावत्पर्यन्तं तत्रैव तिष्ठेदित्यर्थः । ननु यजमानेन मूत्रस्य सेचने यज्ञकर्मसम्बन्धी ध्रुवग्रहः सिच्यत इत्येतदनुपपन्नमित्यत आह- तद्वै तदित्यादि । ‘तत्’ एतत् कर्म ‘यजमान एव’ अतः ‘तदात्मनः’ ‘यजमानस्य’ सम्बन्धी भवत्येष ध्रुवग्रह इत्युक्तमुपपद्यत इत्यर्थः ॥ ८ ॥
Eggeling
- For, what part of him there is below the navel, that part of his self is this (Dhruva libation). Hence were he to slip away or discharge urine before the offering of this (libation), he would discharge the Dhruva (the firm, constant one): hence, lest he should discharge the Dhruva, he sits through the praise of Agni. This, indeed, applies only to the sacrificer 9, for this (libation) is part of the sacrificer’s self.
०९
विश्वास-प्रस्तुतिः
स वा᳘ ऽअग्निष्टोमस᳘द्भवति॥
य᳘शो वै सो᳘मस्त᳘स्माद्य᳘श्च सो᳘मे ल᳘भते य᳘श्च᳘ नोभा᳘वेवा᳘गच्छतो य᳘श ऽए᳘वैतद्द्र᳘ष्टुमा᳘गच्छन्ति तद्वा᳘ ऽएतद्य᳘शो ब्राह्मणाः᳘[[!!]] संप्रसृ᳘प्यात्म᳘न्दधते य᳘द्भक्ष᳘यन्ति स᳘ ह य᳘श एव᳘ भवति य᳘ एवं᳘ विद्वा᳘न्भक्ष᳘यति॥
मूलम् - श्रीधरादि
स वा᳘ ऽअग्निष्टोमस᳘द्भवति॥
य᳘शो वै सो᳘मस्त᳘स्माद्य᳘श्च सो᳘मे ल᳘भते य᳘श्च᳘ नोभा᳘वेवा᳘गच्छतो य᳘श ऽए᳘वैतद्द्र᳘ष्टुमा᳘गच्छन्ति तद्वा᳘ ऽएतद्य᳘शो ब्राह्मणाः᳘[[!!]] संप्रसृ᳘प्यात्म᳘न्दधते य᳘द्भक्ष᳘यन्ति स᳘ ह य᳘श एव᳘ भवति य᳘ एवं᳘ विद्वा᳘न्भक्ष᳘यति॥
मूलम् - Weber
स वा᳘ अग्निष्टोमस᳘द्भवति॥
य᳘शो वै सो᳘मस्तस्माद्य᳘श्च सो᳘मे ल᳘भते य᳘श्चॗ नोभावेवा᳘गछतो य᳘श एॗवैतद्द्र᳘ष्टुमा᳘गछन्ति तद्वा᳘ एतद्य᳘शो ब्राह्म᳘णाः᳘ सम्प्रसृ᳘प्यात्म᳘न्दधते य᳘द्भक्ष᳘यन्ति स᳘ ह य᳘श एव᳘ भवति य᳘ एवं᳘ विद्वा᳘न्भक्ष᳘यति॥
मूलम् - विस्वरम्
स वा ऽअग्निष्टोमसद्भवति । यशो वै सोमः । तस्माद् यश्च सोमे लभते, यश्च न- उभावेवागच्छतः । यश एवैतद्द्रष्टुमागच्छन्ति । तद्वा ऽएतद्यशो ब्राह्मणाः सम्प्रसृप्यात्मन्दधते- यद्भक्षयन्ति । स ह यश एव भवति । य एवं विद्वान्भक्षयति ॥ ९ ॥
सायणः
अग्निष्टोमस्तोत्रपर्यन्तं सदनञ्चावश्यकर्त्तव्यत्वाय प्रशंसति- स वा अग्निष्टोम इत्यादि । यशो वै सोम इति । सोमस्य यशोरूपत्वं तैत्तिरीयके श्रूयते- “सोमो वै यशः, य एवं विद्वान् सोममागच्छति यश एवैनमृच्छति, तस्मादाहुः, यश्चैवं वेद यश्च न, तावुभौ सोममागच्छतः” (तै. शा.) इति । सोमे लभत इति । सोमयागे दक्षिणां ‘लभते’ इत्यर्थः । यश एवैतदिति । दक्षिणावांस्तद्व्यतिरिक्तश्च यशोरूपं सोमं द्रष्टुमागच्छति । अदक्षिणावानपि आगच्छतीत्यनेन सोमस्य यशस्त्वं समर्थितं भवति । ‘आगच्छन्ति’ इति- “बहुलं छन्दसि” (पा. सू. २ । ४ । ७६) इति बहुवचनम् । संप्रसृप्येति । सदोमध्यं गत्वा । “अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति” (तै. सं. ६ । २ । ११) इति श्रुतेः ॥ ९ ॥
Eggeling
- He sits through the praise of Agni 10;–for Soma is glory: hence they both approach, he who partakes of the Soma and he who does not,–they approach, forsooth, to behold that glory. And thus indeed the Brahmans, having crept near together, take unto them that glory, when they drink (the Soma);–and verily whosoever, knowing this, drinks (Soma), becomes glorious 11 indeed.
१०
विश्वास-प्रस्तुतिः
ते वा᳘ ऽएते[[!!]]॥
स᳘र्पन्त ए᳘वाग्निष्टोमस᳘द्ये तद्य᳘शः संनिधा᳘य सर्प᳘न्ति ते प᳘राञ्चो ऽय᳘शसो भवन्ति त᳘देष᳘ परिगृ᳘ह्यैव पु᳘नरात्मन्य᳘शो धत्ते ते᳘षाᳫँ᳭ हैष᳘ ऽएव᳘ यशस्वि᳘तमो भूत्वा प्रै᳘ति य᳘ एवं᳘ विद्वा᳘नग्निष्टोमसद्भ᳘वति॥
मूलम् - श्रीधरादि
ते वा᳘ ऽएते[[!!]]॥
स᳘र्पन्त ए᳘वाग्निष्टोमस᳘द्ये तद्य᳘शः संनिधा᳘य सर्प᳘न्ति ते प᳘राञ्चो ऽय᳘शसो भवन्ति त᳘देष᳘ परिगृ᳘ह्यैव पु᳘नरात्मन्य᳘शो धत्ते ते᳘षाᳫँ᳭ हैष᳘ ऽएव᳘ यशस्वि᳘तमो भूत्वा प्रै᳘ति य᳘ एवं᳘ विद्वा᳘नग्निष्टोमसद्भ᳘वति॥
मूलम् - Weber
ते वा᳘ एते᳟॥
स᳘र्पन्त एॗवाग्निष्टोमस᳘द्येतद्य᳘शः संनिधा᳘य सर्पन्ति ते प᳘राञ्चो य᳘शसो भवन्ति त᳘देष᳘ परिगृ᳘ह्यैव पु᳘नरात्मन्य᳘शो धत्ते ते᳘षाᳫं हैष᳘ एव᳘ यशस्वि᳘तमो भूत्वा प्रै᳘ति य᳘ एवं᳘ विद्वा᳘नग्निष्टोमसद्भ᳘वति॥
मूलम् - विस्वरम्
ते वा ऽएते सर्पन्त एवाग्निष्टोमसद्ये तद्यशः सन्निधाय सर्पन्ति । ते पराञ्चो ऽयशसो भवन्ति । तदेष परिगृह्यैव पुनरात्मन्यशो धत्ते । तेषां हैष एव यशस्वितमो भूत्वा प्रैति । य एवं विद्वानग्निष्टोमसद्भवति ॥ १० ॥
सायणः
ते वा इत्यादि । ‘ते’ एते ब्राह्मणाः सवनसमाप्तौ गच्छन्त ‘एव’ ‘अग्निष्टोमसद्ये’ अग्निष्टोमपर्यन्तं यत्सदनं तदग्निष्टोमसद्यम् । भावे ण्यत् प्रत्ययः (पा. सू. ३ । १ । १२४) । “संज्ञापूर्वकस्य विधेरनित्यत्वाद्” (पा. सू. ६ । ४ । १४६ । प. ९४) वृद्ध्यभावः । तस्मिन् तत्र स्वायत्तं सोमरूपं ‘यशो’ निधाय गच्छन्ति । अयशस इति । अतो ऽमो लुगभावश्छान्दसः । ते तद्यागे गच्छन्तो यशोहीना ‘भवन्ति’, अतो ऽग्निष्टोमसद्येन यजमानः पुनरपि तद्यशः स्वाधीनीकुरुते । पश्चाद्यज्ञसमाप्तौ तेषां मध्ये यशस्वितम एव भूत्वा प्रतिगच्छति । अतो ऽग्निष्टोमसदनं सोमरूपयशसः प्राप्तिहेतुत्वेन प्रशस्तमित्यर्थः ॥ १० ॥
Eggeling
- Now, those same (priests) having, while gliding along 12, deposited that glory in him who sits through (celebrates) the praise of Agni, they glide along and turn away from that glory 13: having thus encompassed it, he again takes that glory unto himself;–
verily, whosoever, knowing this, sits through (celebrates) the praise of Agni, he passes away after becoming the most glorious of these (men).
११
विश्वास-प्रस्तुतिः
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिर ऽएत᳘स्मिन्यज्ञे᳘ प्रजा᳘पतौ पित᳘रि संव्वत्स᳘रे ऽस्मा᳘कमयं᳘ भविष्यत्यस्मा᳘कमयं᳘ भविष्यती᳘ति॥
मूलम् - श्रीधरादि
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिर ऽएत᳘स्मिन्यज्ञे᳘ प्रजा᳘पतौ पित᳘रि संव्वत्स᳘रे ऽस्मा᳘कमयं᳘ भविष्यत्यस्मा᳘कमयं᳘ भविष्यती᳘ति॥
मूलम् - Weber
देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ पस्पृधिर एत᳘स्मिन्यज्ञे᳘ प्रजा᳘पतौ पित᳘रि संवत्सरे ऽस्मा᳘कमय᳘म् भविष्यत्यस्मा᳘कमय᳘म् भविष्यती᳘ति॥
मूलम् - विस्वरम्
देवाश्च वा असुराश्च, उभये प्राजापत्याः पस्पृधिरे- एतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरे अस्माकमयं भविष्यति, अस्माकमयं भविष्यतीति ॥ ११ ॥
सायणः
पुनरप्याख्यायिकया तदेव स्तौति- देवाश्च वा असुराश्चेत्यादि । एतस्मिन्यज्ञ इति । ‘यज्ञे’ इति यज्ञरूपे संवत्सरात्मके ‘पितरि’ विषये ‘अयमस्माकमयमस्माकम्’ इत्येवंरूपेण ‘पस्पृधिरे’ स्पर्द्धा कृतवन्तः । यज्ञस्य संवत्सरात्मकत्वकथनं साकल्यसूचनार्थम् । संवत्सरावयवीभूतमासगतद्वादशत्वसङ्ख्याविशिष्टैः स्तोत्रैः शस्त्रैः कृत्स्नस्य यज्ञस्य समाप्यत्वात् । पस्पृधिर इति । “अपस्पृधेथाम्” (पा. सू. ६ । १ । ३६) इत्यस्य छन्दसि स्पर्द्धतेरुपलक्षणार्थत्वाल्लिट्यपि संप्रसारणम् ॥ ११ ॥
Eggeling
- Now, the gods and the Asuras, both of them sprung from Prajāpati, were contending for this sacrifice–their father Prajāpati, the year,–saying, ‘Ours he shall be! ours he shall be!’
१२
विश्वास-प्रस्तुतिः
त᳘तो देवाः[[!!]]॥
(ऽ) अ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएत᳘दग्निष्टोमस᳘द्यं ददृशुस्त᳘ ऽएते᳘नाग्निष्टोमस᳘द्येन स᳘र्व्वं यज्ञᳫँ᳭ स᳘मवृञ्जन्तान्त᳘रायन्न᳘सुरान्यज्ञात्त᳘थो ऽए᳘वैष᳘ एते᳘नाग्निष्टोमस᳘द्येन स᳘र्व्वं यज्ञᳫँ᳭ सं᳘वृङ्क्ते ऽन्त᳘रेति सप᳘त्नान्यज्ञात्त᳘स्माद्वा᳘ ऽअग्निष्टोमस᳘द्भवति[[!!]]॥
मूलम् - श्रीधरादि
त᳘तो देवाः[[!!]]॥
(ऽ) अ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएत᳘दग्निष्टोमस᳘द्यं ददृशुस्त᳘ ऽएते᳘नाग्निष्टोमस᳘द्येन स᳘र्व्वं यज्ञᳫँ᳭ स᳘मवृञ्जन्तान्त᳘रायन्न᳘सुरान्यज्ञात्त᳘थो ऽए᳘वैष᳘ एते᳘नाग्निष्टोमस᳘द्येन स᳘र्व्वं यज्ञᳫँ᳭ सं᳘वृङ्क्ते ऽन्त᳘रेति सप᳘त्नान्यज्ञात्त᳘स्माद्वा᳘ ऽअग्निष्टोमस᳘द्भवति[[!!]]॥
मूलम् - Weber
त᳘तो देवाः᳟॥
अ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ एत᳘दग्निष्टोमस᳘द्यं ददृशुस्त᳘ एते᳘नाग्निष्टोमस᳘द्येन स᳘र्वं यज्ञᳫं स᳘मवृञ्जन्तान्त᳘रायन्न᳘सुरान्यज्ञात्त᳘थो एॗवैष᳘ एते᳘नाग्निष्टोमस᳘द्येन स᳘र्वं यज्ञᳫं सं᳘वृङ्क्ते ऽन्त᳘रेति स᳘पत्नान्यज्ञात्त᳘स्माद्वा᳘ अग्निष्टोमस᳘द्भवति॥
मूलम् - विस्वरम्
ततो देवा अर्चन्तः श्राम्यन्तश्चेरुः । त ऽएतदग्निष्टोमसद्यं ददृशुः । त ऽएतेनाग्निष्टोमसद्येन सर्वं यज्ञं समवृञ्जन्त । अन्तरायन्नसुरान्यज्ञात् । तथो ऽएवैष एतेनाग्निष्टोमसद्येन सर्वं यज्ञं संवृक्ते । अन्तरेति सपत्नान्यज्ञात् । तस्माद्वा ऽअग्निष्टोमसद्भवति ॥ १२ ॥
सायणः
ततो देवा इत्यादि । ‘ततः’ स्पर्द्धानन्तरं ते देवाश्च ‘अर्चन्तः’ पूजयन्तः ‘श्राम्यन्तः’ तपस्यन्तश्च ‘चेरुः’ ततः स्वकीयतपःप्रभावेण यज्ञप्राप्तौ ‘अग्निष्टोमसद्यं’ साधनं ‘ददृशुः’ ततस्तेन समस्तं यज्ञं ‘समवृञ्जन्त’ असुरेभ्यो ऽपच्छिद्य स्वायत्तं कृतवन्तः । अतः ‘असुरान्’ ‘यज्ञाद्’ ‘अन्तरायन्’ अन्तरितान् यज्ञहीनानकुर्वन् । तस्मात्तथैव ‘अग्निष्टोमसद्येन’ यजमानो ऽपि सर्वं यज्ञं स्वायत्तं कुरुते, सपत्नान् च यज्ञहीनान् कुरुत इत्यर्थः ॥ १२ ॥
Eggeling
- Then the gods went on singing praises and toiling. They devised this Agnishṭoma feast, and by means of this Agnishṭoma feast they appropriated the entire sacrifice and excluded the Asuras from the sacrifice. And in like manner does this (sacrificer), by means of this Agnishṭoma feast, now appropriate the entire sacrifice, and exclude his enemies from the sacrifice: therefore he celebrates the Agnishṭoma.
१३
विश्वास-प्रस्तुतिः
तं᳘ गृहीत्वो᳘त्तरे हविर्धा᳘ने सादयति॥ प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानीत्यु᳘पकीर्णे वा ऽइ᳘तरान्ग्र᳘हान्सादयत्य᳘थैतं व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य॥
मूलम् - श्रीधरादि
तं᳘ गृहीत्वो᳘त्तरे हविर्धा᳘ने सादयति॥ प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानीत्यु᳘पकीर्णे वा ऽइ᳘तरान्ग्र᳘हान्सादयत्य᳘थैतं व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य॥
मूलम् - Weber
तं᳘ गृहीत्वो᳘त्तरे हविर्धा᳘ने सादयति प्राणा वै ग्र᳘हा ने᳘त्प्राणा᳘न्मोह᳘यानीत्यु᳘पकीर्णे वा इ᳘तरान्ग्र᳘हान्सादयत्य᳘थैतं व्यु᳘ह्य न तृ᳘णं चॗनान्तर्धा᳘य॥
मूलम् - विस्वरम्
तं गृहीत्वोत्तरे हविर्धाने सादयति । प्राणा वै ग्रहाः, नेत्प्राणान्मोहयानीति । उपकीर्णे वा ऽइतरान् ग्रहान्सादयति । अथैतं व्युह्य न तृणं चनान्तर्धाय ॥ १३ ॥
सायणः
गृहीतस्य सोमरसस्य देशविशेषसादनं तत्रोपपत्तिञ्चाह- तं गृहीत्वेत्यादि । प्राणा वै ग्रहा इति । ‘ग्रहाः’ ‘प्राणाः’ इन्द्रियात्मकाः, इन्द्रियाणां प्राणत्वव्यवहारः “तस्माद्द्वौ द्वौ प्राणाः” (तै. सं. ६ । ४ । ९) इत्येवमादिश्रुतेः । प्राणात्मकैर्ग्रहैः सहापानात्मकध्रुवग्रहस्य सादने ऽपानवाय्वनुसारेण वर्त्तमानत्वात् प्राणा मूढा भवेयुः । अतो नैव प्राणान् मोहयामीत्युत्तरहविर्द्धाने सादयेदित्यर्थः । ग्रहान्तरसादनवैलक्षण्येनैतत्सादनप्रदेशस्य विशेषमाह- उपकीर्णे वा इत्यादि । ‘इतरान्’ उपांश्वादीन् ‘ग्रहान्’ ‘उपकीर्णे’ पांसुभिर्न्युप्तखरप्रदेशे सादयेत् । ‘एतम्’ ध्रुवं ग्रहन्तु ‘व्युह्य’ सादनस्थानगतं यत्किञ्चिदपसार्य तत्र तृणमात्रमप्यव्यवहितं कृत्वा सादयेत् ॥ १३ ॥
Eggeling
- Having drawn it (the Dhruva graha), he deposits it with the northern cart 14, lest he should confound the vital airs, for the grahas are vital airs: now the other grahas he deposits on the raised (mound), but this one (he deposits) after pushing (the dust) aside without leaving as much as a blade of grass between 15.
१४
विश्वास-प्रस्तुतिः
यद्वा᳘ ऽअस्योर्ध्वं ना᳘भेः॥
(स्त᳘) त᳘दस्यैत᳘ ऽआत्म᳘न ऽउप᳘रीव वै तद्य᳘दूर्ध्वं ना᳘भेरुप᳘रीवैतद्यदु᳘पकीर्णं त᳘स्मादु᳘पकीर्णे सादयत्य᳘थैतं व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य॥
मूलम् - श्रीधरादि
यद्वा᳘ ऽअस्योर्ध्वं ना᳘भेः॥
(स्त᳘) त᳘दस्यैत᳘ ऽआत्म᳘न ऽउप᳘रीव वै तद्य᳘दूर्ध्वं ना᳘भेरुप᳘रीवैतद्यदु᳘पकीर्णं त᳘स्मादु᳘पकीर्णे सादयत्य᳘थैतं व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य॥
मूलम् - Weber
यद्वा᳘ अस्योर्ध्वं ना᳘भेः॥
त᳘दस्यैत᳘ आत्म᳘न उप᳘रीव वै तद्य᳘दूर्ध्वं ना᳘भेरुप᳘रीवैतद्यदु᳘पकीर्णं त᳘स्मादु᳘पकीर्णे सादयत्य᳘थैतं व्यु᳘ह्य न तृ᳘णं चॗनान्तर्धा᳘य॥
मूलम् - विस्वरम्
यद्वा ऽअस्योर्ध्वं नाभेः- तदस्यैत ऽआत्मनः । उपरीव वै तद् यदूर्ध्वं नाभेः । उपरीवैतद्यदुपकीर्णम् । तस्मादुपकीर्णं सादयति । अथैतं व्युह्य न तृणं चनान्तर्धाय ॥ १४ ॥
सायणः
उक्ते ऽर्थे कारणमुपन्यस्यति- यद्वा अस्येत्यादि । ‘नाभेः’ ऊर्ध्वभागस्य पुरुषस्योपरिभागत्वात्तद्भागत्वाच्चक्षुरादिरूपाणां ग्रहाणामुच्छ्रिते खरे सादनं प्रयुज्यते । नाभ्यधोभागरूपस्य तु ध्रुवग्रहस्य तृणमप्यनन्तर्धायाधोभागे पृथिव्यामेव सादनं युक्तमित्यर्थः ॥ १४ ॥ १५ ॥
Eggeling
- For those (other cups of Soma) are that part of his body from the navel upwards, and above, as it were, is what is from the navel upwards, and above, as it were, is what is raised: therefore he deposits
(the others) on the raised (mound), and this one (he deposits) after pushing (the dust) aside without leaving as much as a blade of grass between.
१५
विश्वास-प्रस्तुतिः
यद्वा᳘ ऽअस्यावाची᳘नं ना᳘भेः॥
(स्त᳘) त᳘दस्यैष᳘ आत्म᳘नो ऽध᳘ ऽइव वै तद्य᳘दवाची᳘नं ना᳘भेरध᳘ ऽइवैतद्यद्व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य त᳘स्मादेतं व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य सादयति॥
मूलम् - श्रीधरादि
यद्वा᳘ ऽअस्यावाची᳘नं ना᳘भेः॥
(स्त᳘) त᳘दस्यैष᳘ आत्म᳘नो ऽध᳘ ऽइव वै तद्य᳘दवाची᳘नं ना᳘भेरध᳘ ऽइवैतद्यद्व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य त᳘स्मादेतं व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य सादयति॥
मूलम् - Weber
यद्वा᳘ अस्यावाची᳘नं ना᳘भेः॥
त᳘दस्यैष᳘ आत्म᳘नो ऽध᳘ इव वै तद्य᳘दवाची᳘नं ना᳘भेरध᳘ इवैतद्य द्व्यु᳘ह्य न तृ᳘णं चॗनान्तर्धा᳘य त᳘स्मादेतं व्यु᳘ह्य न तृ᳘णं चॗनान्तर्धा᳘य सादयति॥
मूलम् - विस्वरम्
यद्वा ऽअस्यावाचीनं नाभेः- तदस्यैष आत्मनः । अध इव वै तद् यदवाचीनं नाभेः । अध इवैतद् व्युह्य न तृणं चनान्तर्धाय सादयति ॥ १५ ॥
सायणः
[व्याख्यानं चतुर्दशे]
Eggeling
- For this (cup of Soma) is that part of his body from the navel downwards; and below, as it were, is what is from the navel downwards; and below, as it were, is what (one deposits) after pushing (the dust) aside and leaving not so much as a blade of grass between: therefore he deposits this (Dhruva graha) after pushing (the dust) aside, without leaving so much as a blade of grass between.
१६
विश्वास-प्रस्तुतिः
(त्ये) एष वै᳘ प्रजा᳘पतिः॥
(र्य᳘) य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते स यानु᳘पकीर्णे साद᳘यति त᳘स्माद्या᳘स्तान᳘नु प्रजाः᳘ प्रजा᳘यन्ते ता᳘ अन्ये᳘नात्म᳘नो ऽस्यां प्र᳘तितिष्ठन्ति या वै᳘ शफैः᳘ प्रतिति᳘ष्ठन्ति ता᳘ ऽअन्ये᳘नात्म᳘नो ऽस्यां प्र᳘तितिष्ठन्त्य᳘थ य᳘देतं व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य साद᳘यति त᳘स्माद्या᳘ ऽएतम᳘नु प्रजाः᳘ प्रजा᳘यन्ते ता᳘ आत्म᳘नै᳘वास्यां प्र᳘तितिष्ठन्ति मनु᳘ष्याश्च श्वा᳘पदाश्च॥
मूलम् - श्रीधरादि
(त्ये) एष वै᳘ प्रजा᳘पतिः॥
(र्य᳘) य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते स यानु᳘पकीर्णे साद᳘यति त᳘स्माद्या᳘स्तान᳘नु प्रजाः᳘ प्रजा᳘यन्ते ता᳘ अन्ये᳘नात्म᳘नो ऽस्यां प्र᳘तितिष्ठन्ति या वै᳘ शफैः᳘ प्रतिति᳘ष्ठन्ति ता᳘ ऽअन्ये᳘नात्म᳘नो ऽस्यां प्र᳘तितिष्ठन्त्य᳘थ य᳘देतं व्यु᳘ह्य न तृ᳘णं च᳘नान्तर्धा᳘य साद᳘यति त᳘स्माद्या᳘ ऽएतम᳘नु प्रजाः᳘ प्रजा᳘यन्ते ता᳘ आत्म᳘नै᳘वास्यां प्र᳘तितिष्ठन्ति मनु᳘ष्याश्च श्वा᳘पदाश्च॥
मूलम् - Weber
एष वै᳘ प्रजा᳘पतिः॥
य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते स यानु᳘पकीर्णे साद᳘यति तस्माद्यास्तान᳘नु प्रजाः᳘ प्रजा᳘यन्ते ता᳘ अन्ये᳘नात्म᳘नो ऽस्याम् प्र᳘तितिष्ठन्ति या वै᳘ शफैः᳘ प्रतिति᳘ष्ठन्ति ता᳘ अन्ये᳘नात्म᳘नो ऽस्याम् प्र᳘तितिष्ठन्त्य᳘थ य᳘देतं व्यु᳘ह्य न तृ᳘णं चॗनान्तर्धा᳘य साद᳘यति त᳘स्माद्या᳘ एतम᳘नु प्रजाः᳘ प्रजा᳘यन्ते या᳘ आत्म᳘नैॗवास्याम् प्र᳘तितिष्ठन्ति मनुॗष्याश्च श्वा᳘पदाश्च॥
मूलम् - विस्वरम्
एष वै प्रजापतिः- य एष यज्ञस्तायते । यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते । स यानुपकीर्णे सादयति- तस्माद् यास्ताननु प्रजाः प्रजायन्ते ता अन्येनात्मनो ऽस्यां प्रतितिष्ठन्ति । या वै शफैः प्रतितिष्ठन्ति- ता अन्येनात्मनो ऽस्यां प्रतितिष्ठन्ति । अथ यदेतं व्युह्य न तृणं चनान्तर्धाय सादयति- तस्माद् या ऽएतमनु प्रजाः प्रजायन्ते ऽता आत्मनैवास्यां प्रतितिष्ठन्ति- मनुष्याश्च श्वापदाश्च ॥ १६ ॥
सायणः
उक्तावुपकीर्णावनुपकीर्णौ ग्रहसादनप्रदेशौ प्रशंसति- एष वै प्रजापतिरित्यादि । ‘यः’ ‘यज्ञस्तायते’ विस्तार्यते ‘एषः’ ‘प्रजापतिः’ इति प्रसिद्धम् “यज्ञो वै प्रजापतिः” (तै. ब्रा. १ । ३ । १०)- इत्यादिश्रुतेः । अतो ‘यस्माद्’ यज्ञाद् ‘इमाः’ ‘प्रजाः’ पूर्वमपि ‘प्रजाताः’ । ‘एतर्हि’ ‘अपि’ अस्मिन् काले ऽपि ‘एतम्’ यज्ञमेवानुलक्ष्य ‘प्रजायन्ते’ । यज्ञश्च ग्रहात्मकः ‘तस्माद्’ उपकीर्णखरप्रदेशे ‘यान्’ ग्रहान् सादयति ‘प्रजाः’ ‘तान्’ ग्रहान् अनुलक्ष्य ‘प्रजायन्ते’ ‘ताः’ ‘आत्मनः’ ‘अन्येन’ वस्तुना ‘अस्यां’ पृथिव्यां प्रतिष्ठिता भवन्ति । ता एव प्रदर्श्यन्ते- या वै शफैरित्यादिना । गवाश्वादयः ‘शफैः’ प्रतिष्ठिताः ‘प्रजाः’ शफशब्देनात्र शफाग्राणि विवक्ष्यन्ते, तेषाञ्च छेदने ऽपि न व्यथत इत्यात्मनो ऽन्यत्वम् । ‘अथ’ यस्माद् ‘एनं’ धुवं ग्रहं ‘व्युह्य’ ‘तृणम्’ अप्यनन्तर्द्धाय पृथिवीतल एव सादयन्ति ‘तस्माद्’ ‘एतम्’ ध्रुवं ग्रहमनुलक्ष्य याः ‘प्रजाः’ ‘प्रजायन्ते’ ‘ताः’ ‘आत्मनैव’ आत्मसम्बन्धिना ऽङ्गेनैव ‘अस्याम्’ भूमौ प्रतिष्ठिता भवन्ति, न त्वन्येन ताश्च प्रजाः ‘मनुष्याः’ ‘श्वापदाश्च’ व्याघ्रादयो वनचराः श्वापदाः । अतो ऽत्रोपकीर्णानुपकीर्णयोर्ग्रहसादनप्रदेशयोयज्ञस्योभयविधप्रजासृष्टौ साधनत्वात् प्रशस्तत्वमित्यर्थः ॥ १६ ॥
Eggeling
- Now, that sacrifice which is being performed is Prajāpati, from whom these creatures on earth have been born,–and indeed even now they are born after this (sacrifice). The creatures that are born therefrom after those (libations) which he deposits on the raised (mound), stand on this (earth) with something different from their own self,–for those which stand on hoofs indeed stand on this (earth) with something different from their own self. And when he deposits this (Dhruva cup) after shifting aside (the dust), and not leaving so much as a blade of grass between,–the creatures that are born ṭḥereafter from this (sacrifice), stand on this (earth) with their own self, namely, men and wild beasts 16
१७
विश्वास-प्रस्तुतिः
तद्वा᳘ ऽएत᳘त्॥
(द) अस्या᳘ ए᳘वान्यदु᳘तरं करोति य᳘दुपकिर᳘ति स यानु᳘पकीर्णे साद᳘यति त᳘स्माद्यास्तान᳘नु प्रजाः᳘ प्रजा᳘यन्ते ता᳘ अन्ये᳘नै᳘वात्म᳘नो ऽस्यां प्र᳘तितिष्ठन्ति शफैः[[!!]]॥
मूलम् - श्रीधरादि
तद्वा᳘ ऽएत᳘त्॥
(द) अस्या᳘ ए᳘वान्यदु᳘तरं करोति य᳘दुपकिर᳘ति स यानु᳘पकीर्णे साद᳘यति त᳘स्माद्यास्तान᳘नु प्रजाः᳘ प्रजा᳘यन्ते ता᳘ अन्ये᳘नै᳘वात्म᳘नो ऽस्यां प्र᳘तितिष्ठन्ति शफैः[[!!]]॥
मूलम् - Weber
तद्वा᳘ एत᳘त्॥
अस्या᳘ एॗवान्यदु᳘तरं करोति य᳘दुपकिर᳘ति स यानु᳘पकीर्णे साद᳘यति त᳘स्माद्यास्तान᳘नु प्रजाः᳘ प्रजा᳘यन्ते ता᳘ अन्ये᳘नैॗवात्म᳘नो ऽस्याम् प्र᳘तितिष्ठन्ति शफैः᳟॥
मूलम् - विस्वरम्
तद्वा ऽएतदस्या एवान्यदुत्तरं करोति- यदुपकिरति स यानुपकीर्णे सादयति । तस्माद्यास्ताननु प्रजाः प्रजायन्ते- ताः अन्येनैवात्मनो ऽस्यां प्रतितिष्ठन्ति- शफैः ॥ १७ ॥
सायणः
उपकीर्णे ग्रहाणां सादनात्ततो जाताः प्रजाः कथमात्मनो ऽन्येन प्रतितिष्ठन्तीत्यत आह- तद्वा इत्यादि । ‘उपकिरति’ खराकारेण पांसून् विक्षिपन्ति यत्, ‘तदस्याः’ पृथिव्याः । सकाशात् ‘एवान्यदुत्तरम्’ ऊर्ध्वरूपं कक्षान्तरं ‘करोति’ । ‘तस्मात्’ तत्र सादितेभ्यो ग्रहेभ्यः ‘प्रजाताः’ ‘प्रजाः’ ‘आत्मनः’ ‘अन्येन’ प्रतिष्ठिता भवन्ति । शफैरिति, अन्येनेत्यस्य विशेषः । अन्येनेति यत्किञ्चिद्वस्तुपरतया सामान्यनिर्द्देशत्वादेकवचनम् ॥ १७॥
Eggeling
- Moreover, on the one hand, in throwing up (the mound) he puts upon this (earth) something different from it; and those creatures that are born from this (sacrifice) after those (libations) which he deposits on the raised (mound), they stand on this (earth) with something different from their own self, namely, with hoofs.
१८
विश्वास-प्रस्तुतिः
(स्त) तद्वा᳘ ऽएत᳘त्॥
(दा) आहवनी᳘ये जुह्वति पुरोडा᳘शं धानाः᳘ करम्भं द᳘ध्यामि᳘क्षामि᳘ति तद्य᳘था मु᳘ख ऽआसिञ्चे᳘देवं तद᳘थैष ऽए᳘करूप ऽउ᳘पशेत ऽआ᳘प इवैव त᳘स्माद्य᳘दने᳘न मु᳘खेन ना᳘नारूपम᳘शनमश्नात्य᳘थैते᳘न प्राणेनै᳘करूपमेव प्र᳘स्रावयते ऽप᳘ इवैवा᳘थ य᳘स्माद्ध्रुवो ना᳘म॥
मूलम् - श्रीधरादि
(स्त) तद्वा᳘ ऽएत᳘त्॥
(दा) आहवनी᳘ये जुह्वति पुरोडा᳘शं धानाः᳘ करम्भं द᳘ध्यामि᳘क्षामि᳘ति तद्य᳘था मु᳘ख ऽआसिञ्चे᳘देवं तद᳘थैष ऽए᳘करूप ऽउ᳘पशेत ऽआ᳘प इवैव त᳘स्माद्य᳘दने᳘न मु᳘खेन ना᳘नारूपम᳘शनमश्नात्य᳘थैते᳘न प्राणेनै᳘करूपमेव प्र᳘स्रावयते ऽप᳘ इवैवा᳘थ य᳘स्माद्ध्रुवो ना᳘म॥
मूलम् - Weber
तद्वा᳘ एत᳘त्॥
आहवनी᳘ये जुह्वति पुरोडा᳘शं धानाः᳘ करम्भं द᳘ध्यामि᳘क्षामि᳘ति तद्य᳘था मु᳘ख आसिञ्चे᳘देवं तद᳘थैष ए᳘करूप उ᳘पशेत आ᳘प इवैव त᳘स्माद्य᳘दने᳘न मु᳘खेन ना᳘नारूपम᳘शनमश्नात्य᳘थैते᳘न प्राणेनै᳘करूपमेव प्र᳘स्रावयते ऽप᳘ इवैवा᳘थ य᳘स्माद् ध्रुवो ना᳘म॥
मूलम् - विस्वरम्
तद्वा ऽएतदाहवनीये जुह्वति पुरोडाशम्, धानाः, करम्भम्, दधि, आमिक्षामिति । तद्-यथा मुख ऽआसिञ्चेत्- एवं तत् । अथैष एकरूप उपशेते आप इवैव । तस्माद्- यदनेन मुखेन नानारूपमशनमश्नाति- अथैतेन प्राणेनैकरूपमेव प्रस्रावयते- अप इवैव । अथ यस्माद् ध्रुवो नाम ॥ १८ ॥
सायणः
अपानवाय्वात्मकत्वादस्य ग्रहस्य पृथिवीतल एव सादनात्ततो जाताः प्रजा आत्मनैव प्रतिष्ठिता इत्युक्तम् । तत्र यद्ययं ग्रहो ऽपानात्मकः स्यात्तदैवं भवतु, न चासावपानात्मक इत्युक्तमनुपपन्नमित्यत आह- तद्वा एतदित्यादि । ‘तद्’ ‘एतत्’ पुरोडाशधानादिकम् ‘आहवनीये’ ‘जुह्वति’ क्षिपन्ति । ‘तत्’ तेन हेतुना यथा मुखमध्ये ‘आसिञ्चेत्’ प्रक्षिपेद् ‘एवम्’ आसेचनप्रकारः ‘तत्’ क्षेपणम् ‘अथ’ ‘आप इव’ ‘एषः’ ध्रुवग्रहो ऽवतिष्ठते यतः ‘तस्माद्’ अनेन ‘मुखेन’ बहुविधम् ‘अशनमश्नाति’ । ‘अथ’ अनन्तरम् ‘एतेन’ अवाचीनेन ‘प्राणेन’ ‘अप इव’ ‘एकरूपमेव’ मूत्रं ‘प्रस्रावयते’ । तस्मादेकरूपस्य ध्रुवग्रहस्यैकरूपमूत्रविस्रंसनकरणभूतापानवाय्वात्मकत्वादुक्तमुपपन्नमिति भावः ।
ग्रहस्य ध्रुवनामधेयप्राप्तिमाख्यायिकया दर्शयति- अथ यस्मादित्यादि । ‘यस्मात्’ कारणात् ध्रुवशब्दो ग्रहस्य नामधेयम् तत् कारणं किमित्यर्थः । अथ शब्देनात्र प्रश्नः प्रस्तूयते ॥ १८ ॥
Eggeling
- And, on the other hand, they offer in the Āhavanīya 17 a sacrificial cake, parched barley-grains, porridge, sour curds, and clotted curds,–this is like pouring (food) into one’s mouth. But this (libation) remains apart, (being) of one form like water. Hence while he eats the multiform food with that mouth (the fire), he lets flow from that opening the uniform (libation) like water. Then as to why it is called Dhruva.
१९
विश्वास-प्रस्तुतिः
दे᳘वा ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभयां᳘चक्रुस्ता᳘न्दक्षिण᳘तो ऽसुररक्षसान्या᳘सेजुस्ते᳘षामेतान्द᳘क्षिणान्ग्र᳘हानु᳘ज्जघ्नुर᳘प्येतद्द᳘क्षिणᳫँ᳭[[!!]] हविर्धा᳘नमु᳘ज्जघ्नुर᳘थैत᳘मेव न᳘ शेकुरु᳘द्धन्तुं तदु᳘त्तरमे᳘व हविर्धा᳘नं द᳘क्षिणᳫँ᳭ हविर्धा᳘नमदृᳫँ᳭ हत्तद्य᳘देतं न᳘ शेकुरु᳘द्धन्तुं त᳘स्माद्ध्रुवो ना᳘म॥
मूलम् - श्रीधरादि
दे᳘वा ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभयां᳘चक्रुस्ता᳘न्दक्षिण᳘तो ऽसुररक्षसान्या᳘सेजुस्ते᳘षामेतान्द᳘क्षिणान्ग्र᳘हानु᳘ज्जघ्नुर᳘प्येतद्द᳘क्षिणᳫँ᳭[[!!]] हविर्धा᳘नमु᳘ज्जघ्नुर᳘थैत᳘मेव न᳘ शेकुरु᳘द्धन्तुं तदु᳘त्तरमे᳘व हविर्धा᳘नं द᳘क्षिणᳫँ᳭ हविर्धा᳘नमदृᳫँ᳭ हत्तद्य᳘देतं न᳘ शेकुरु᳘द्धन्तुं त᳘स्माद्ध्रुवो ना᳘म॥
मूलम् - Weber
दे᳘वा ह वै᳘ यज्ञं᳘ तन्वानाः॥
ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘ चक्रुस्ता᳘न्दक्षिण᳘तो ऽसुररक्षसान्या᳘सेजुस्ते᳘षामेतान्द᳘क्षिणान्ग्र᳘हानु᳘ज्जघ्नुर᳘प्येत᳘द्दक्षिणᳫं हविर्धा᳘नमु᳘ज्जघ्नुर᳘थैत᳘मेव न᳘ शेकुरु᳘द्धन्तुं तदु᳘त्तरमे᳘व हविर्धा᳘नं द᳘क्षिणᳫं हविर्धा᳘नमदृंहत्तद्य᳘देतं न᳘ शेकुरु᳘द्धन्तुं त᳘स्माद्ध्रुवो ना᳘म॥
मूलम् - विस्वरम्
देवा ह वै यज्ञं तन्वानास्ते ऽसुररक्षसेभ्य आसङ्गाद्विभयांचक्रुः । तान् दक्षिणतो ऽसुररक्षसान्यासेजुः । तेषामेतान्दक्षिणान्ग्रहानुज्जघ्नुः । अप्येतद्दक्षिणं हविर्धानमुज्जघ्नुः । अथैतमेव न शेकुरुद्धन्तुम् । तदुत्तरमेव हविर्धानं दक्षिणं हविर्धानमदृंहत् । तद्यदेतं न शेकुरुद्धन्तुम्- तस्मात् ध्रुवो नाम ॥ १९ ॥
सायणः
तान् दक्षिणत इत्यादि । ‘दक्षिणतो’ दक्षिणभागे । सप्तम्यर्थे तसिः । (पा. सू. ५ । ३ । ८) तत्र ‘असुररक्षसानि’ ‘तान्’ देवान् ‘आसेजुः’ आसक्ता बभूवुः । बहुलवचनेन “दंशसञ्जस्वञ्जां शपि” (पा. सू. ६ । ४ । २६) इति । शवभावे ऽपि नकारलोपे कृते एत्वाभ्यासलोपौ (पा. सू. ६ । ४ । १२०) । ‘तेषाम्’ असुररक्षसानामर्थे ‘एतान्’ दक्षिणहविर्द्धानगतान् ‘ग्रहान्’ ‘उज्जघ्नुः’ प्रचिक्षिपुः । अत्र हिंसार्थेन हन्तिना तदर्थः प्रक्षेपो लक्ष्यते । न केवलं ग्रहमात्रं प्रक्षिप्तं ‘दक्षिणम्’ ‘हविर्द्धानम्’ ‘अपि’ प्रचिक्षिपुः । पश्चाद् ‘एतं’ ग्रहमप्युद्धृत्य प्रक्षेप्तुमुद्युक्तास्तथा कर्त्तुं न शक्नुवन्तः । अत उत्तरम् ‘हविर्धानम्’ ‘दक्षिणम्’ ‘हविर्द्धानम्’ प्रति ‘अदृंहत्’ दृढमभूत् । ‘तस्माद्’ अस्य ग्रहस्योद्धर्त्तुमशक्यत्वाद् ध्रुवनामधेयम् । “ध्रु गतिस्थैर्ययोः”- (धा. पा. तु. प. ११९) इत्यस्मात्स्थैर्यवचनात् पचाद्यचि “संज्ञापूर्वको विधिरनित्यः” (पा. सू. ६ । ४ । १४६ । प. ९४) इति गुणे निवृत्ते उवङादेशे (पा. सू. ६ । ४ । ७७) ‘ध्रुवः’ इति भवति ॥ १९ ॥
Eggeling
- Now, once on a time, the gods, while performing sacrifice, were afraid of an attack from the Asura-Rakshas. The Asura-Rakshas assailed them from the south, and overturned those southern cups of Soma,–even that southern Soma-cart they overturned; but that other (cart) they could not overturn: the northern cart then kept the southern cart steady 18. And because they could not overturn that (northern cup) therefore it is called Dhruva (firm) 19.
२०
विश्वास-प्रस्तुतिः
तं वै᳘ गोपायन्ति॥
शि᳘रो वा᳘ ऽएष᳘ ऽएत᳘स्यै गायत्र्यै᳘ यज्ञो वै᳘ गायत्री द्वा᳘दश स्तोत्रा᳘णि द्वा᳘दश शस्त्रा᳘णि तच्च᳘तुर्विᳫँ᳭शतिश्च᳘तुर्विᳫँ᳭शत्यक्षरा[[!!]] वै᳘ गायत्री त᳘स्या ऽएष शि᳘रः श्रीर्वै शि᳘रः श्रीर्हि वै शि᳘रस्त᳘स्माद्यो᳘ ऽर्धस्य श्रे᳘ष्ठो भ᳘वत्यसा᳘वमुष्या᳘र्धस्य शि᳘र इ᳘त्याहुः श्रे᳘ष्ठो ह व्यथे᳘त य᳘देष व्य᳘थेत य᳘जमानो वै श्रे᳘ष्ठो नेद्य᳘जमानो व्यथाता ऽइ᳘ति त᳘स्माद्वै᳘ गोपायन्ति॥
मूलम् - श्रीधरादि
तं वै᳘ गोपायन्ति॥
शि᳘रो वा᳘ ऽएष᳘ ऽएत᳘स्यै गायत्र्यै᳘ यज्ञो वै᳘ गायत्री द्वा᳘दश स्तोत्रा᳘णि द्वा᳘दश शस्त्रा᳘णि तच्च᳘तुर्विᳫँ᳭शतिश्च᳘तुर्विᳫँ᳭शत्यक्षरा[[!!]] वै᳘ गायत्री त᳘स्या ऽएष शि᳘रः श्रीर्वै शि᳘रः श्रीर्हि वै शि᳘रस्त᳘स्माद्यो᳘ ऽर्धस्य श्रे᳘ष्ठो भ᳘वत्यसा᳘वमुष्या᳘र्धस्य शि᳘र इ᳘त्याहुः श्रे᳘ष्ठो ह व्यथे᳘त य᳘देष व्य᳘थेत य᳘जमानो वै श्रे᳘ष्ठो नेद्य᳘जमानो व्यथाता ऽइ᳘ति त᳘स्माद्वै᳘ गोपायन्ति॥
मूलम् - Weber
तं वै᳘ गोपायन्ति॥
शि᳘रो वा᳘ एष᳘ एत᳘स्यै गायत्र्यै᳘ यज्ञो वै᳘ गायत्री द्वा᳘दश स्तोत्रा᳘णि द्वा᳘दश शस्त्रा᳘णि त᳘च्चतुर्विंशतिश्च᳘तुर्विंशत्यक्षरा वै᳘ गायत्री त᳘स्या एष शि᳘रः श्रीर्वै शि᳘रः श्रीर्हि वै शि᳘रस्त᳘स्माद्यो᳘ ऽर्धस्य श्रे᳘ष्टो भ᳘वत्यसा᳘वमुष्या᳘र्धस्य शि᳘र इ᳘त्याहुः श्रे᳘ष्ठो ह व्यथेत य᳘देष व्य᳘थेत य᳘जमानो वै श्रे᳘ष्ठो नेद्य᳘जमानो व्यथाता इ᳘ति त᳘स्माद्वै᳘ गोपायन्ति॥
मूलम् - विस्वरम्
तं वै गोपायन्ति । शिरो वा ऽएष एतस्यै गायत्र्यै । यज्ञो वै गायत्री । द्वादश स्तोत्राणि, द्वादश शस्त्राणि- तच्चतुर्विंशतिः । चतुर्विंशत्यक्षरा वै गायत्री । तस्या ऽएष शिरः । श्रीर्वै शिरः । श्रीर्हि वै शिरः । स्तस्माद्यो ऽर्धस्य श्रेष्ठो भवति । असावमुष्यार्धस्य शिर इत्याहुः । श्रेष्ठो ह व्यथेत । यदेष व्यथेत । यजमानो वै श्रेष्ठः । नेद् यजमानो व्यथता ऽइति । तस्माद्वै गोपायन्ति ॥ २० ॥
सायणः
विधत्ते- तं वै गोपायन्तीति । ग्रहणमारभ्य होमपर्यन्तं रक्षेयुरित्यर्थः । ‘गोपायन्ति’ इति “गुपूधूप-” (पा. सू. ३ । १ । २८) इत्यादिना ऽऽयप्रत्ययः । रक्षणे प्रयोजनमाह- शिरो वा इत्यादि । श्रीर्वै शिर इत्यादि । ‘शिरः श्रीः’ इति प्रसिद्धमिति लोकप्रसिद्ध्यभिधानम् । ‘श्रीर्हि वै शिरः’ इत्यभिनयेन स्थाने च प्रसिद्धिः प्रदृश्यते । ‘तस्मात्’ शिरसः श्रीरूपत्वाद् ‘यो’ यस्य ‘अर्धस्य’ भागस्य ‘श्रेष्ठः’ श्रिया प्रशस्ततरो भवति । ‘असावमुष्यार्धस्य शिरः’ इति वा ये लोका वदन्ति । लोके च श्रेष्ठस्य समृद्धिमन्ये न सहन्त इति ततो बिभेति । अतो ऽत्र श्रेष्ठत्वादेव ग्रहो ‘व्यथेत’ इति, (एतत्) एतेन लोके श्रेष्ठ एव व्यथते । तथा च सत्यत्र यजमानस्य श्रेष्टत्वात्तस्यापि व्यथा स्यात् । अतो नैव यजमानो व्यथतामिति तदर्थं ध्रुवग्रहं गोपायेयुरित्यर्थः । “व्यथ भयसंचलनयोः” (धा. पा. भ्वा. आ. ७६६) “लिङर्थे लेट्” (पा. सू. ३ । ४ । ७) “लेटो ऽडाटौ” (पा० सू० ३ । ४ । ९४) इत्यडागमः । “एत ऐ” (पा० सू० ३ । ४ । ९३) इत्यकारादेशः ॥ २०॥
Eggeling
- They indeed watch over it; for this (cup of Soma) is the head of Gāyatrī, Gāyatrī being the sacrifice,–there are twelve chants (stotra) and twelve recitations (śastra): that makes twenty-four, and of twenty-four syllables consists the Gāyatrī. This cup of Soma is her head; but the head means excellence, for the head indeed means excellence: hence people say of him who is the best man of a place, that ‘so and so is the head of such and such a place.’ And, indeed, the best man would come to harm, if this
(cup) were to come to harm; and, the best man being the sacrificer, they watch (this cup) lest the sacrificer should come to harm.
२१
विश्वास-प्रस्तुतिः
व्वत्सो वा᳘ ऽएषः᳘॥
(ऽ) एत᳘स्यै गायत्र्यै᳘ यज्ञो वै᳘ गायत्री द्वा᳘दश स्तोत्रा᳘णि द्वा᳘दश शस्त्रा᳘णि तच्च᳘तुर्विᳫँ᳭शतिश्च᳘तुर्विᳫँ᳭शत्यक्षरा वै᳘ गायत्री त᳘स्या ऽएष᳘ व्वत्सस्तं य᳘द्गोपाय᳘न्ति गोपाय᳘न्ति वा᳘ ऽइमा᳘न्वत्सान्दो᳘हाय य᳘दिदं प᳘यो दुह्नु᳘ ऽएव᳘मियं᳘ गायत्री य᳘जमानाय स᳘र्व्वान्का᳘मान्दोहाता ऽइ᳘ति त᳘स्माद्वै᳘ गोपायन्ति॥
मूलम् - श्रीधरादि
व्वत्सो वा᳘ ऽएषः᳘॥
(ऽ) एत᳘स्यै गायत्र्यै᳘ यज्ञो वै᳘ गायत्री द्वा᳘दश स्तोत्रा᳘णि द्वा᳘दश शस्त्रा᳘णि तच्च᳘तुर्विᳫँ᳭शतिश्च᳘तुर्विᳫँ᳭शत्यक्षरा वै᳘ गायत्री त᳘स्या ऽएष᳘ व्वत्सस्तं य᳘द्गोपाय᳘न्ति गोपाय᳘न्ति वा᳘ ऽइमा᳘न्वत्सान्दो᳘हाय य᳘दिदं प᳘यो दुह्नु᳘ ऽएव᳘मियं᳘ गायत्री य᳘जमानाय स᳘र्व्वान्का᳘मान्दोहाता ऽइ᳘ति त᳘स्माद्वै᳘ गोपायन्ति॥
मूलम् - Weber
वत्सो वा᳘ एषः᳟॥
एत᳘स्यै गायत्र्यै᳘ यज्ञो वै᳘ गायत्री द्वा᳘दश स्तोत्रा᳘णि द्वा᳘दश शस्त्रा᳘णि तच्च᳘तुर्विंशतिश्च᳘तुर्विंशत्यक्षरा वै᳘ गायत्री त᳘स्या एष᳘ वत्सस्तं य᳘द्गोपाय᳘न्ति गोपाय᳘न्ति वा᳘ इमा᳘न्वत्सान्दो᳘हाय य᳘दिदम् प᳘यो दुह्र᳘ एव᳘मियं᳘ गायत्री य᳘जमानाय स᳘र्वान्का᳘मान्दोहाता इ᳘ति त᳘स्माद्वै गोपायन्ति॥
मूलम् - विस्वरम्
वत्सो वा ऽएष एतस्यै गायत्र्यै । यज्ञो वै गायत्री । द्वादश स्तोत्राणि, द्वादश शस्त्राणि- तच्चतुर्विंशतिः । चतुर्विंशत्यक्षरा वै गायत्री । तस्या एष वत्सः तं यद्गोपायन्ति- गोपायन्ति वा इमान्वत्सान्दोहाय- यदिदं पयो दुह्ने । एवमियं गायत्री यजमानाय सर्वान्कामान्दोहाता ऽइति । तस्माद्वै गोपायन्ति ॥ २१ ॥
सायणः
प्रकारान्तरेण ग्रहस्य रक्षणं प्रशंसति- वत्सो वा एष इत्यादि । यदिदं पय इत्यादि । वत्सानां रक्षणेन गौर्यथा ‘इदम् पयः’ ‘दुह्ने’ दुग्धे । “लोपस्त आत्मनेपदेषु”- (पा. सू. ७ । १ । ४१) इति तकारलोपः । “बहुलं छन्दसि”- (पा. सू. ७ । १ । ८) इति रुडागमः । ‘एवमियम्’ यज्ञरूपा ‘गायत्री’ वत्सरूपस्य ध्रुवग्रहस्य रक्षणेन ‘यजमानाय’ ‘सर्वान्’ ‘कामान्’ ‘दोहता इति’ तदर्थं ध्रुवग्रहं चक्रे रक्षेयुः । ध्रुवग्रहरक्षणस्य सर्वकामप्राप्तिहेतुत्वात् प्रशस्तत्वम् ॥ २१ ॥
Eggeling
- Moreover, this (graha) is Gāyatrī’s calf, Gāyatrī being the sacrifice,–there are twelve chants and twelve recitations: that makes twenty-four, and of twenty-four syllables consists the Gāyatrī. This is her calf;–when they watch it, then they watch these calves for the sake of the milking: ‘as they yield this milk, even so may this Gāyatrī yield all the sacrificer’s wishes,’–this is why they watch it.
२२
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘दध्वर्यु᳘श्च प्रतिप्रस्थाता᳘ च॥
नि᳘श्च क्रा᳘मतः प्र᳘ च प᳘द्येते य᳘था बद्ध᳘वत्सोपाच᳘रेदेव᳘मेतं ग्र᳘हमुपा᳘चरतस्तम᳘वनयति गायत्री᳘मे᳘वैतत्प्र᳘स्रावयति[[!!]] प्र᳘त्तेयं᳘ गायत्री य᳘जमानाय स᳘र्व्वान्का᳘मान्दोहाता ऽइ᳘ति त᳘स्माद्वा ऽअ᳘वनयति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘दध्वर्यु᳘श्च प्रतिप्रस्थाता᳘ च॥
नि᳘श्च क्रा᳘मतः प्र᳘ च प᳘द्येते य᳘था बद्ध᳘वत्सोपाच᳘रेदेव᳘मेतं ग्र᳘हमुपा᳘चरतस्तम᳘वनयति गायत्री᳘मे᳘वैतत्प्र᳘स्रावयति[[!!]] प्र᳘त्तेयं᳘ गायत्री य᳘जमानाय स᳘र्व्वान्का᳘मान्दोहाता ऽइ᳘ति त᳘स्माद्वा ऽअ᳘वनयति॥
मूलम् - Weber
अ᳘थ य᳘दध्वर्यु᳘श्च प्रतिप्रस्थाता᳘ च॥
नि᳘श्च क्रा᳘मतः प्र᳘ च प᳘द्येते य᳘था बद्ध᳘वत्सोपाच᳘रेदेव᳘मेतं ग्र᳘हमुपा᳘चरतस्तम᳘वनयति गायत्री᳘मेवै᳘तत्प्र᳘स्रावयति प्र᳘त्तेयं᳘ गायत्री य᳘जमानाय स᳘र्वान्का᳘मान्दोहाता इ᳘ति त᳘स्माद्वा अ᳘वनयति॥
मूलम् - विस्वरम्
अथ यदध्वर्युश्च प्रतिप्रस्थाता च निश्च क्रामतः प्र च पद्येते । यथा बद्धवत्सोपाचरेद्- एवमेतं ग्रहमुपाचरतः । तमवनयति । गायत्रीमेवैतत्प्रस्रावयति । प्रत्तेयं गायत्री यजमानाय सर्वान्कामान्दोहाता ऽइति । तस्माद्वा ऽअवनयति ॥ २२ ॥
सायणः
अध्वर्युप्रतिप्रस्थात्रोर्निर्गमनागमनाभ्यां ग्रहस्य वत्सरूपतां प्रतिपादयति- अथ यदध्वर्युश्चेत्यादि । ‘निश्च क्रामतः’ ग्रहणानन्तरं निष्क्रामतः । “व्यवहिताश्च”- (पा. सू. १ । ४ । ८२ ।) इति निसश्चकारात्पूर्वं प्रयोगः । ततो होमकाले ग्रहं ‘प्रपद्येते च’ अत्रापि पूर्ववत् प्रशब्दस्य प्रयोगः । इत्थञ्च ‘यथा बद्धवत्सा’ गौर्गत्वा पश्चाद् वत्सम् ‘उपाचरेत्’ वत्ससमीपमागच्छेत् । ‘एवम्’ तावध्वर्यू वत्सरूपं ध्रुवग्रहमुपचरितवन्तौ भवत इत्यर्थः । ग्रहस्यावनयनं विधत्ते- तमवनयतीत्यादि । “तं शस्यमाने ऽवनयति” (श. प. ४ । २ । ४ । ७) “अथैतमेव होतृचमसे ऽवनयति” (शत. ४ । २ । ४ । १) इति, कालस्य होतृचमसस्य च विहितत्वादग्निमारुतशस्त्रशंसनकाले होतृचमसे ध्रुवग्रहमासिञ्चेत् । गायत्रीमेवैतदित्यादि । ‘प्रस्रावयति’ इति प्रस्तुतं करोति । दोहार्थं पयःपरिपूरितस्तनाग्रतः पयःक्षरणात् क्षारयन्ती प्रस्तुता । प्रत्ता इति । प्रदातुमुपक्रान्ता ॥ २२ ॥
Eggeling
- And when both the Adhvaryu and the Pratiprasthātr̥ walk out (of the cart-shed) and (afterwards) enter (again) 20, it is as if (a cow) were to come with the calf tied to her. They come to this cup of Soma, and he (the Adhvaryu) pours it out; whereby he lets loose the Gāyatrī: ‘Made over to the sacrificer, may this Gāyatrī yield all his desires!’ for this reason he pours it out.
२३
विश्वास-प्रस्तुतिः
सो᳘ ऽवनयति॥
ध्रुवं᳘ ध्रुवे᳘ण म᳘नसा व्वाचा सो᳘मम᳘वनयामी᳘ति गृह्णामी᳘ति वा᳘था न इ᳘न्द्र इद्वि᳘शो ऽस᳘पत्नाः सम᳘नसस्क᳘रदि᳘ति[[!!]] य᳘था न इ᳘न्द्र इमाः᳘ प्रजा व्वि᳘शः श्रियै य᳘शसे ऽन्ना᳘द्यायासपत्नाः सं᳘मनसस्कर᳘वदि᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
सो᳘ ऽवनयति॥
ध्रुवं᳘ 21 ध्रुवे᳘ण म᳘नसा व्वाचा सो᳘मम᳘वनयामी᳘ति गृह्णामी᳘ति वा᳘था न इ᳘न्द्र इद्वि᳘शो ऽस᳘पत्नाः 22 सम᳘नसस्क᳘रदि᳘ति[[!!]] य᳘था न इ᳘न्द्र इमाः᳘ प्रजा व्वि᳘शः श्रियै य᳘शसे ऽन्ना᳘द्यायासपत्नाः सं᳘मनसस्कर᳘वदि᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
सो᳘ ऽवनयति॥
ध्रुवं᳘ ध्रुवे᳘ण म᳘नसा वाचा सो᳘मम᳘वनयामी᳘ति गृह्णामी᳘ति वा᳘था न इ᳘न्द्र इद्वि᳘शो ऽसपत्नाः स᳘मनसस्क᳘रदि᳘ति य᳘था न इ᳘न्द्र इमाः᳘ प्रजा वि᳘शः श्रियै य᳘शसे ऽन्ना᳘द्यायासपत्नाः सं᳘मनसः कर᳘वदि᳘त्येॗवैत᳘दाद॥
मूलम् - विस्वरम्
सो ऽवनयति- “ध्रुवं ध्रुवेण मनसा वाचा सोममवनयामि”- (वा० सं० ७ । २५) इति । गृह्णामीति वा । “अथा न इन्द्र इद्विशो ऽसपत्नाः समनसस्करत्”- (वा० सं० ७ । २५) इति । यथा न इन्द्र इमाः प्रजाः; विशः श्रियै यशसे ऽन्नाद्यायासपत्नाः संमनसः करवदित्येवैतदाह ॥ २३ ॥
सायणः
विहितमवनयनमनूद्य मन्त्रं विदधानो व्याचष्टे- सो ऽवनयति ध्रुवमित्यादि । गृह्णामीति वेति । ‘अवनयामि’ इत्यस्य स्थाने ‘गृह्णामि’ इति शब्दो ‘वा’ प्रयोक्तव्य इत्यर्थः । अत एव कात्यायनः- “अवनयामिस्थाने 21 गृह्णामीति च” । अथात इत्यस्य मन्त्रभागस्योच्चारणे ऽयमभिप्रायः- ‘नः’ अस्माकम् ‘विशः’ ‘प्रजाः’ ‘श्रियै’ ‘यशसे’ ‘अन्नाद्याय’ ‘असपत्नाः’ शत्ररहिताः ‘समनसः’ इन्द्र एव करोत्विति । हे ग्रह ! ‘ध्रुवेण’ एकाग्रेण ‘मनसा वाचा’ मन्त्रोच्चारणेन च होतृचमसगतं सोमं प्रति त्वाम् ‘ध्रुवम्’ अवनयामि । ‘अथ’ ‘इन्द्रः’ एव ‘नः’ अस्माकम् ‘विशः’ ‘असपत्नाः’ ‘समनसः’ करोत्विति मन्त्रस्यार्थः ॥ २३ ॥
Eggeling
- He pours it (into the Hotr̥’s cup 20) with (Vāj. S. VII, 25), ‘The firm Soma I pour out–or, I take–with firm mind and speech: now may Indra make our people of one mind, free from enemies!’ whereby he means to say, ‘so that Indra may make these our creatures, the people, of one mind and free from enemies, for their happiness and glory and nourishment!’
२४
विश्वास-प्रस्तुतिः
(हा) अथा᳘तो गृह्णा᳘त्येव᳘॥
मूर्धा᳘नं दिवो᳘ ऽअरतिं᳘ पृथिव्या᳘ व्वैश्वानर᳘मृत ऽआ᳘ जात᳘मग्नि᳘म्॥
कवि᳘ᳫं᳘ सम्रा᳘जम᳘तिथिं ज᳘नानामासन्ना पा᳘त्रं जनयन्त देवाः᳘॥
उपयाम᳘गृहीतो ऽसि ध्रु᳘वो ऽसि ध्रुव᳘क्षितिर्ध्रुवा᳘णां ध्रुव᳘तमो᳘ ऽच्युतानामच्युतक्षि᳘त्तम ऽएष᳘ ते यो᳘निर्व्वैश्वानरा᳘य त्वे᳘ति सादयति व्यु᳘ह्य न तृ᳘णं चनान्तर्धा᳘य व्वैश्वानरा᳘य᳘ ह्येनं गृह्णा᳘ति॥
मूलम् - श्रीधरादि
(हा) अथा᳘तो गृह्णा᳘त्येव᳘॥
मूर्धा᳘नं दिवो᳘ ऽअरतिं᳘ पृथिव्या᳘ व्वैश्वानर᳘मृत ऽआ᳘ जात᳘मग्नि᳘म्॥
कवि᳘ᳫं᳘ सम्रा᳘जम᳘तिथिं ज᳘नानामासन्ना पा᳘त्रं जनयन्त देवाः᳘॥
उपयाम᳘गृहीतो ऽसि ध्रु᳘वो ऽसि ध्रुव᳘क्षितिर्ध्रुवा᳘णां ध्रुव᳘तमो᳘ ऽच्युतानामच्युतक्षि᳘त्तम ऽएष᳘ ते यो᳘निर्व्वैश्वानरा᳘य त्वे᳘ति सादयति व्यु᳘ह्य न तृ᳘णं चनान्तर्धा᳘य व्वैश्वानरा᳘य᳘ ह्येनं गृह्णा᳘ति॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
मूर्धा᳘नं दिवो᳘ अरति᳘म् पृथिव्या᳘ वैश्वानर᳘मृत आ᳘ जात᳘मग्नि᳘म् 23 ॥
कवि᳘ᳫं᳘ सम्रा᳘जम᳘तिथिं ज᳘नानामासन्ना पा᳘त्रं जनयन्त देवाः᳟॥
उपयाम᳘गृहीतो ऽसि ध्रुॗवो ऽसि ध्रुव᳘क्षितिर्ध्रुवा᳘णां ध्रुव᳘तमो᳘ ऽच्युतानामच्युतक्षि᳘त्तम एष᳘ ते यो᳘निर्वैश्वानरा᳘य त्वे᳘ति सादयति व्यु᳘ह्य न तृ᳘णं चनान्तर्धा᳘य वैश्वानरा᳘यॗ ह्येनं गृह्णा᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “मूर्धानं दिवो ऽअरतिं पृथिव्या वैश्वानरमृत ऽआ जातमग्निम् । कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः”- (वा० सं० ७ । २४) उपयामगृहीतो ऽसि ध्रुवो ऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमो ऽच्युतानामच्युतक्षित्तमः, एष ते योनिर्वैश्वानराय त्वा”- (वा० सं० ७ । २५) इति सादयति । व्युह्य न तृणं चनान्तर्धाय । वैश्वानराय ह्येनं गृह्णाति ॥ २४ ॥
सायणः
ग्रहस्य ग्रहणमनूद्य मन्त्रं विधत्ते- अथातो गृह्णात्येव मूर्द्धानं दिव इत्यादि 24 । अत्र मन्त्रे सर्वात्मा वैश्वानराग्निः स्तूयते । ‘दिवः’ द्युलोकस्य ‘मूर्द्धानम्’ सूर्यात्मना ऽवस्थितम् ‘पृथिव्याः’ पृथिवीशब्दो ऽत्रान्तरिक्षवचनः (निघं. १ । ३ । ९ ।) तस्य ‘अरतिं’ पर्याप्तमतिं तदभिमानिनीं देवताम् । वायुरूपत्वाश्रयणात् । वायोश्चान्तरिक्षलोकाभिमानित्वं श्रूयते- “वायुर्वा अन्तरिक्षस्याध्यक्षाः” इति । भूमौ च तृतीये यज्ञे ‘आजातम्’ अरण्योरुत्पन्नम् ‘वैश्वानरम्’ विश्वेषां नराणां सम्बन्धिनम् ‘अग्निम्’ ‘कविम्’ प्रत्यगात्मत्वेन क्रान्तदर्शनम् ‘सम्राजम्’ सम्यग्राजमानम् । ‘जनानाम्’ यजमानलक्षणानाम् । ‘अतिथिम्’ । अत एवातिथ्येष्टौ “अग्नेरातिथ्यमसि विष्णवे त्वा" (शत. ३ । ४ । १ । ११) इत्यतिथिरूपायाग्नये निर्वापः क्रियते । यो ऽयमुक्तगुणो वैश्वानरो ऽग्निस्तम् ‘देवाः’ इन्द्रादयः ‘आसन्’ आसनि आस्ये । आस्यशब्दस्य “पद्दन्नोमास्०”- (पा. सू. ६ । १ । ६३) इत्यादिना ऽऽसन्नादेशः । ‘पात्रम्’ पानसाधनमाभिमुख्येन ‘जनयन्त’ “बहुलं छन्दस्यमाङ्योगे ऽपि" (पा. सू. ६ । ४ । ७५) इति अडागमाभावः । अग्निना प्रापितः सोमो देवैः पीयत इत्यग्नेः पानसाधनत्वम् । तथा च श्रूयते- “अग्निमुखा वै देवाः” (आश्व. गृ. सू. पा. प्र.) इति । हे सोमरस ! त्वम् उपयामेन स्थालीरूपेण गृहीतो ऽसि । त्वाम् ‘वैश्वानराय’ अग्नये गृह्णामि । किञ्च ‘ध्रुवो ऽसि’ ध्रुवनामको ऽसि । अत एव ‘ध्रुवक्षितिः’ स्थिरनिवासो ऽसि । लोके ‘ध्रुवाणाम्’ मध्ये ‘ध्रुवतमः’ अतिशयेन ध्रुवो ऽसि अस्यैव व्याख्यानम् ‘अच्युतानामच्युतक्षित्तमः’ इति । अथ ‘एनम्’ ‘व्युह्य न तृणं चनान्तर्द्धाय’ ‘सादयति’ इति सादनं विहितम् । तदनूद्यात्र मन्त्रं विधत्ते- एष ते योनिरित्यादि । मन्त्रे वैश्वानरपदप्रयोगस्योपपत्तिमाह- वैश्वानराय हीति । “उपयामगृहीतो ऽस्यग्नये त्वा वैश्वानराय” इति ग्रहस्य गृहीतत्वात्तस्य सादने ऽपि वैश्वानरपदं प्रयुक्तमित्यर्थः ॥ २४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे द्वितीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ (४ । २ । ४) ॥
Eggeling
- Here now he draws it from that (stream of Soma) 25, (Vāj. S. VII, 24; Rig-veda VI, 7, 1), ‘Agni
Vaiśvānara, the crest of heaven, the disposer of the earth, born in the sacred rite, the wise all-ruler, the guest of men,–him the gods have begotten as a vessel for their mouth. Thou art taken with a support: thou art firm (Dhruva), of firm abode, the firmest of the firm, the most solidly founded of the solid! This is thy womb–thee for Vaiśvānara!’ therewith he deposits it after pushing (the dust) aside, and not leaving so much as a blade of grass between: for he indeed takes it for (Agni) Vaiśvānara.
-
त्स᳘द्ध्रुवस्तौ᳘ A. ↩︎
-
“वैश्वानरं च जानन्” (का. श्रौ. सू. ९ । १४७) जानन्शब्दो ज्ञानार्थ एवेत्यपरे इति कर्कः । ↩︎
-
298:1 ‘Formerly they took these two separately, as Dhruva and Vaiśvānara; but now they take them as one only.’ Kāṇva text. ↩︎
-
298:2 Both these libations are reserved for the evening feast. ↩︎
-
298:3 See p. 288, note 2. ↩︎
-
आहोमादस्य सुत्वन्न मूत्रपुरीषे कुर्यात् का. श्रौ. सू. ९ । १४६ । ↩︎
-
299:1 ? Tasmād brāhmaṇo ’gnishṭomasat syāt. The obvious meaning of this sentence is, ‘hence the celebrator of the Agnishṭoma should be a Brahman,’ or, perhaps, ‘hence a Brāhman should celebrate the Agnishṭoma;’ but I do not see how it can have that meaning here, without at least a double-entendre in the term ‘agnishṭomasad,’ Agnishṭoma in that case (’the praise of Agni’) referring both to the sacrifice generally and to the chanting (stoma or stotra). See next note. My MS. of Sāyaṇa’s commentary (from the library of the Mahārāja of Bikaner) has unfortunately an omission here. ↩︎
-
299:2 Viz. from the Sadas; ’niḥsarpet,’ Kāṇva text. The verb sarp, ’to glide or creep,’ is used technically of a peculiar noiseless mode of leaving (niḥsarp) the Sadas and returning thither (prasarp or pratisarp, see paragraph 10), and respectfully approaching the dhishṇya fires. If it has to be taken here in that sense, the first prohibition would seem to refer to the Hotr̥ (cf. Ait. Br. II, 21, where the question is argued whether or not the Hotr̥ ought to proceed to the chanting-place with the other priests, and is decided in the negative); since the sacrificer, to whom the second prohibition refers (Kāty. IX, 6, 23), goes along with them, according to IV, 2, 5, 4. According to the commentary on Kāty. IX, 6, 33, in performing the sarpaṇa the priests and sacrificer should move along sitting at the morning feast; walking with bent bodies at the midday feast; and walking upright at the evening feast. ↩︎
-
300:1 Tad u tad ya; amānasyaiva. Kāṇva text. ↩︎
-
300:2 Or, he indeed becomes a celebrator of the Agnishṭoma. ↩︎
-
300:3 The Kāṇva text has ‘yaśasvī.’ ↩︎
-
300:4 See p. 99, note 2. ↩︎
-
300:5 The Kāṇva MS. (W.) reads, ‘agnishṭomasad etad yásaḥ sannidhāyata etasmāt parāñco yaśáso (sic) bhavanti’ (’they turn away from that glorious one’). ↩︎
-
301:1 The dhruva-sthālī is placed just in front of the northern prop. ↩︎
-
301:2 Lit. not putting a blade of grass between (the sthālī and the ground on which it stands). Cf. Kāty. IX, 2, 18. Apparently he is to shift the sthālī along the ground from the khara to the place where it is to stand, all grass and other objects being thus removed between this vessel and those standing on the mound (‘vyuhyaitaṁ na tr̥ṇaṁ canāntardhāya,’ Kāṇva text). ↩︎
-
302:1 Śvāpada, lit. ‘dog-footed’ beasts. ↩︎
-
303:1 See IV, 2, 5, 15 seq. ↩︎
-
303:2 ‘They (the gods) then made the southern cart firm from (or by means of) the northern cart.’ Kāṇva text. ↩︎
-
303:3 It is more probable that the Dhruva (firm, constant) derives its name from the fact that it remains intact till the very end of the Agnishṭoma, as suggested in the Petersburg Dictionary. ↩︎
-
304:1 Viz. at the evening feast, when the Adhvaryu pours the Soma from the Dhruva-sthālī into the Hotr̥’s cup (paragraph 23). ↩︎ ↩︎
-
अयं मन्त्रः संहितायां “मूर्द्धानं दिव” इत्युत्तरमन्त्रादूर्ध्वं पठ्यते । ↩︎ ↩︎
-
‘इद्’ एवार्थे इति (वा. सं. अ. ७ कं. २५ ।) भाष्ये महीधरः । ↩︎
-
मग्निं । AB. देवाः । AB. ↩︎
-
ध्रुवं मूर्द्धानं दिव इति । का. श्रौ. सू. ९ । १४५ । ↩︎
-
304:2 See p. 256, note 1. The preceding paragraphs anticipate the future rites regarding this libation, the original drawing of which is only now described. ↩︎