०१
विश्वास-प्रस्तुतिः
अय᳘ᳫँ᳘ ह वा᳘ ऽअस्यैषो᳘ ऽनिरुक्त आत्मा य᳘दु᳘क्थ्यः[[!!]]॥
सो ऽस्यैष᳘ आ᳘त्मै᳘वात्मा᳘ ह्ययम᳘निरुक्तः[[!!]] प्राणः᳘ सो ऽस्यैष आ᳘युरेव त᳘स्मादन᳘या गृह्णात्यस्यै हि᳘ स्थाली भ᳘वति स्थाल्या᳘ ह्येनं गृह्णा᳘त्यज᳘रा᳘ हीय᳘ममृ᳘ताज᳘र᳘ᳫं᳘ ह्यमृ᳘तमा᳘युस्त᳘स्मादन᳘या[[!!]] गृह्णाति॥
मूलम् - श्रीधरादि
अय᳘ᳫँ᳘ ह वा᳘ ऽअस्यैषो᳘ ऽनिरुक्त आत्मा य᳘दु᳘क्थ्यः[[!!]]॥
सो ऽस्यैष᳘ आ᳘त्मै᳘वात्मा᳘ ह्ययम᳘निरुक्तः[[!!]] प्राणः᳘ सो ऽस्यैष आ᳘युरेव त᳘स्मादन᳘या गृह्णात्यस्यै हि᳘ स्थाली भ᳘वति स्थाल्या᳘ ह्येनं गृह्णा᳘त्यज᳘रा᳘ हीय᳘ममृ᳘ताज᳘र᳘ᳫं᳘ ह्यमृ᳘तमा᳘युस्त᳘स्मादन᳘या[[!!]] गृह्णाति॥
मूलम् - Weber
अय᳘ᳫं᳘ ह वा᳘ अस्यैषो᳘ ऽनिरुक्त आत्मा य᳘दुक्थ्यः᳟᳟॥
सो ऽस्यैष᳘ आॗत्मैॗवात्मा ह्य᳘यम᳘निरुक्तः प्राणः सो ऽस्यैष आ᳘युरेव त᳘स्मादन᳘या गृह्णात्यस्यै हि᳘ स्थाली भ᳘वति स्थाल्याॗ ह्येनं गृह्णा᳘त्यज᳘राॗ हीय᳘ममृ᳘ताज᳘रᳫं ह्य᳘मृ᳘तमा᳘युस्त᳘स्मादन᳘या गृह्णाति॥
मूलम् - विस्वरम्
उक्थग्रहः ।
अयं ह वा ऽअस्यैषो ऽनिरुक्त आत्मा, यदुक्थ्यः, सो ऽस्यैष आत्मैव । आत्मा ह्ययमनिरुक्तः प्राणः । सो ऽस्यैष आयुरेव । तस्मादनया गृह्णाति । अस्यै हि स्थाली भवति । स्थाल्या ह्येनं गृह्णाति । अजरा हीयममृता, अजरं ह्यमृतमायुः । तस्मादनया गृह्णाति ॥ १ ॥
सायणः
पूर्वस्मिन् ब्राह्मणे आग्रयणग्रहो यज्ञस्य स्थूलशरीरात्मना स्तुत्वा विहितः । अथात्रोक्थ्यग्रहं विधातुं सूक्ष्मशरीरात्मना स्तूयते- अयं ह वा अस्येत्यादि । ‘उक्थ्यः’ इति ‘यत्’ ‘एषो ऽस्य’ यज्ञस्य ‘अनिरुक्त आत्मा’ अविस्पृष्ट आत्मा सूक्ष्मशरीरमित्यर्थः । अयमित्यभिनयेन निर्द्देशः । सो ऽस्यैष इति । ‘स’ ‘एष’ ग्रहो यज्ञस्य ‘आत्मैव’ सूक्ष्मशरीरात्मकत्वादासंसारमनुवर्त्तमानश्च आत्मा च स्थूलशरीरवत् प्रतिजन्म विनश्वर आत्मेत्यर्थः । उक्त सूक्ष्मशरीरस्यात्मत्वं प्रतिपादयति- आत्मा हीति । प्राण आत्मा इति लोके प्रसिद्धः, अतः सूक्ष्मशरीरस्यापि प्राणात्मकत्वेनात्मत्वमित्यर्थः । सो ऽस्येति । ‘स’ ‘एष’ सूक्ष्मशरीरात्मको ग्रहः ‘अस्य’ यज्ञस्य ‘आयुरेव’ भवति । आयुरिति जीवनकालः उक्तमायुष्ट्वमवलम्ब्य ग्रहस्य पृथिव्या ग्रहणमाह- तस्मादित्यादि । आयुष्ट्वं पृथिव्या ग्रहणे कथं हेतुरित्यत आह- अजरा हीति । ‘आयुः’ च अक्षरं ‘अमृतं’ भवति । यस्य यावदायुरस्ति तावत आयुषो जरा शैथिल्यं तदभावः अमृतत्वमनष्टत्वं च भवति ॥ १ ॥
Eggeling
- That Ukthya (graha), forsooth, is his undefined breath (vital air) 1, and as such it is that self of his; for the undefined breath is the self; it is his
vital energy. Hence he draws it by means of this (earth), because of her is the bowl, and he draws it with a bowl;–for undecaying and immortal is this (earth), and undecaying and immortal is the vital energy; therefore he draws it by means of this (earth or bowl).
०२
विश्वास-प्रस्तुतिः
तं वै᳘ पूर्णं᳘ गृह्णाति॥
स᳘र्व्वं वै तद्य᳘त्पूर्णᳫँ᳭ स᳘र्व्वं तद्यदा᳘युस्त᳘स्मात्पूर्णं᳘ गृह्णाति॥ (शतम् २४००)
मूलम् - श्रीधरादि
तं वै᳘ पूर्णं᳘ गृह्णाति॥
स᳘र्व्वं वै तद्य᳘त्पूर्णᳫँ᳭ स᳘र्व्वं तद्यदा᳘युस्त᳘स्मात्पूर्णं᳘ गृह्णाति॥ (शतम् २४००)
मूलम् - Weber
तं वै᳘ पूर्णं᳘ गृह्णाति॥
स᳘र्वं वै तद्य᳘त्पूर्णᳫं स᳘र्वं तद्यदा᳘युस्त᳘स्मात्पूर्णं᳘ गृह्णाति॥
मूलम् - विस्वरम्
तं वै पूर्णं गृह्णाति । सर्वं वै तत्- यत्पूर्णम् । सर्वं तत्- यदायुः । तस्मात्पूर्णं गृह्णाति ॥ २ ॥
सायणः
विहितग्रहणानुवादेन तस्य सम्पूर्णतां विधत्ते- तं वै पूर्णं गृह्णातीति । ‘सर्वं तद्यदायुः’ इति यत् तत् सर्वं सकलं नैकदेश आयुरित्यर्थः ॥ २ ॥
Eggeling
- He draws it full; for full means all, and the vital energy means all: therefore he draws it full.
०३
विश्वास-प्रस्तुतिः
त᳘स्यासा᳘वेव᳘ ध्रुव आ᳘युः॥
(रा᳘) आ᳘त्मै᳘वास्यैते᳘न स᳘ᳫँ᳘हितः प᳘र्व्वाणि सं᳘ततानि तद्वा ऽअ᳘गृहीत ए᳘वैत᳘स्मादच्छावाका᳘योत्तमो ग्र᳘हो भवति॥
मूलम् - श्रीधरादि
त᳘स्यासा᳘वेव᳘ ध्रुव आ᳘युः॥
(रा᳘) आ᳘त्मै᳘वास्यैते᳘न स᳘ᳫँ᳘हितः प᳘र्व्वाणि सं᳘ततानि तद्वा ऽअ᳘गृहीत ए᳘वैत᳘स्मादच्छावाका᳘योत्तमो ग्र᳘हो भवति॥
मूलम् - Weber
त᳘स्यासा᳘वेव᳘ ध्रुव आ᳘युः॥
आॗत्मैॗवास्यैते᳘न स᳘ᳫं᳘हितः प᳘र्वाणि सं᳘ततानि तद्वा अ᳘गृहीत एॗवैत᳘स्मादछावाका᳘योत्तमो ग्र᳘हो भवति॥
मूलम् - विस्वरम्
तस्यासावेव ध्रुव आयुरात्मैव । अस्यैतेन संहितः, पर्वाणि संततानि । तद्वा ऽअगृहीत एवैतस्मादच्छावाकायोत्तमो ग्रहो भवति ॥ ३ ॥
सायणः
नन्वयं ग्रह आयुरित्यभिधीयते आत्मेति च पूर्वमुक्तम्- “अयं ह वा अस्यैषो ऽनिरुक्त आत्मा” (पूर्वस्यां कंडिकायां) इति । तथा च सत्ययमुभयात्मकः स्यादित्यत आह-तस्यासावेव ध्रुव इत्यादि । ‘असौ’ इत्युत्तरस्मिन् ब्राह्मणे विधास्यमानो ध्रुवग्रह एव यज्ञस्यायुः । ‘एतेन’ उक्थ्यग्रहेण ‘आत्मैव’ सूक्ष्मशरीररूपः ‘संहितः’ संयोजितः स्वयं यज्ञस्यात्मरूप एव भवति न पुनरायूरूप इत्यर्थः । आयुरिति व्यवहारस्तु आत्मसन्धानार्थत्वादुपपद्यत इत्युत्तरत्र वक्ष्यते । “तद्यस्यैतेनात्मा संहितस्तेनास्यैष आयुः" (पंचम्यां कंडिकायां) इति । यतो ऽयं ग्रहो यज्ञस्यात्मा अतो ऽनेन यज्ञस्य पर्वाणि सवनत्रयरूपाणि संहितानि परस्परं संश्लिष्टानि कार्याणि । प्राणरूपेण ह्यात्मनो ऽङ्गानां पर्वाणि सन्धीयन्ते । तमेव सन्धानप्रकारं विधत्ते- तद्वा अगृहीत एवैतस्मादित्यादि । उक्थ्यग्रहस्त्रेधा विभज्य हूयते; तत्र प्रथमे उक्थ्यविग्रहे मैत्रावरुणः शस्त्रं पठति । द्वितीये ब्राह्मणाच्छंसी । तृतीये अच्छावाकः । एवं सति एतस्मादुक्थ्यग्रहादच्छावाकसम्बन्धिनि चरमे उक्थ्यविग्रहे अगृहीते सति माध्यन्दिनसवनार्थं सोममभिषवस्थाने स्थापयेत् । ‘वसतीवरीणां’ च ‘तृतीयं’ भागमवनयेत् ‘तत्’ तथा सति ‘पर्व’ प्रातःसवनलक्षणं माध्यन्दिनसवनलक्षणं च ‘समैति’ परस्परसमेतं भवति । यतः ‘उत्तरस्य’ ‘सवनस्य’ सोमो ऽप्यवहरणरूपं ‘प्रथमम्’ एवाङ्गं पूर्वं करोति । ‘पूर्वस्य’ सवनस्य ‘उत्तमम्’ अङ्गं अच्छावाकोक्थ्यविग्रहहोमरूपं पश्चात् करोति । अतः परस्परं सन्नद्धं भवतीत्यर्थः । उत्तरसवनसम्बन्धिनः प्रथमाङ्गस्य पूर्वमनुष्ठाने पूर्वसवनसम्बन्धिनश्चान्तिमाङ्गस्य पश्चादनुष्ठाने व्यतिषङ्गाल्लोके ऽपि शारीराणि पर्वाणि व्यतिषक्तानि भवन्तीत्याह- स यदुत्तरस्येत्यादि । इदमित्थमित्यादि । ‘इदम्’ उपरितनमङ्गम् ‘इत्थम्’ अनेन प्रकारेण ‘अतिहानम्’ अतिगमनयुक्तम्, ‘इदं’ वा ऽधस्तनमङ्गम् ‘इत्थम्’ इत्यभिनयेन दर्शयति ॥ ३ ॥ ४ ॥
Eggeling
- That Dhruva (graha) 2, forsooth, (also) is his vital energy; by it his body is held together, and the joints are knit together. For (when) the last cup has not yet been drawn from that (Soma juice in the Ukthya vessel) for the Achāvāka priest,
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ रा᳘जानमुपा᳘वहरति॥
तृ᳘तीयं व्व᳘सतीव᳘रीणाम᳘वनयति तत्प᳘र्व समै᳘ति प्रथममहो᳘त्तरस्य स᳘वनस्य करो᳘त्युत्तमं पू᳘र्व्वस्य स यदु᳘त्तरस्य स᳘वनस्य तत्पू᳘र्व्वं करो᳘ति यत्पू᳘र्व्वस्य त᳘दुत्तमं तद्व्य᳘तिषजति त᳘स्मादिमा᳘नि प᳘र्व्वाणि व्य᳘तिषक्तानीद᳘मित्थम᳘तिहानमिद᳘मित्थ᳘म्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ रा᳘जानमुपा᳘वहरति॥
तृ᳘तीयं व्व᳘सतीव᳘रीणाम᳘वनयति तत्प᳘र्व समै᳘ति प्रथममहो᳘त्तरस्य स᳘वनस्य करो᳘त्युत्तमं पू᳘र्व्वस्य स यदु᳘त्तरस्य स᳘वनस्य तत्पू᳘र्व्वं करो᳘ति यत्पू᳘र्व्वस्य त᳘दुत्तमं तद्व्य᳘तिषजति त᳘स्मादिमा᳘नि प᳘र्व्वाणि व्य᳘तिषक्तानीद᳘मित्थम᳘तिहानमिद᳘मित्थ᳘म्॥
मूलम् - Weber
अ᳘थ रा᳘जानमुपा᳘वहरति॥
तृ᳘तीयं वसतीव᳘रीणाम᳘वनयति तत्प᳘र्व समै᳘ति प्रथममहो᳘त्तरस्य स᳘वनस्य करो᳘त्युत्तमम् पू᳘र्वस्य स यदु᳘त्तरस्य स᳘वनस्य तत्पू᳘र्वं करो᳘ति यत्पू᳘र्वस्य त᳘दुत्तमं तद्व्य᳘तिषजति त᳘स्मादिमा᳘नि प᳘र्वाणि व्य᳘तिषक्तानीद᳘मित्थम᳘तिहानमिद᳘मित्थ᳘म्॥
मूलम् - विस्वरम्
अथ राजानमुपावहरति । तृतीयं वसतीवरीणामवनयति । तत् पर्व समैति प्रथममहोत्तरस्य सवनस्प करोति, उत्तमं पूर्वस्य । स यदुत्तरस्य सवनस्य तत्पूर्वं करोति, यत्पूर्वस्य तदुत्तमम्- तद्व्यतिषजति । तस्मादिमानि पर्वाणि व्यतिषक्तानि । इदमित्थमतिहानमिदमित्थम् ॥ ४ ॥
सायणः
[व्याख्यानं तृतीये]
Eggeling
- Then he takes the king (Soma) down (from the cart) 3, and pours one third of the Vasatīvarīs (into the Ādhavanīya trough). Thus the joint unites; for, indeed, he makes (the Ukthya cup) the first of the second pressing (Soma feast), and the last of the first: that which belongs to the second pressing he makes first, and that which belongs to the first he makes last. Thus he interlocks them; whence these joints are interlocked: this one overlapping thus, and this one thus.
०५
विश्वास-प्रस्तुतिः
(मे) एव᳘मेव मा᳘ध्यन्दिने स᳘वने॥
(ऽ) अ᳘गृहीत ऽए᳘वैत᳘स्मादच्छावाका᳘योत्तमो ग्र᳘हो भवत्य᳘थ तृ᳘तीयं व्वसतीव᳘रीणाम᳘वनयति तत्प᳘र्व्व समै᳘ति प्रथममहो᳘त्तरस्य स᳘वनस्य करो᳘त्युत्तमं पू᳘र्व्वस्य स यदु᳘त्तरस्य स᳘वनस्य तत्पू᳘र्व्वं करो᳘ति यत्पू᳘र्व्वस्य त᳘दुत्तमं तद्व्य᳘तिषजति त᳘स्मादिमा᳘नि प᳘र्व्वाणि व्य᳘तिषक्तानीद᳘मित्थम᳘तिहानमिद᳘मित्थं तद्य᳘दस्यैते᳘नात्मा सᳫँ᳘हितस्ते᳘नास्यैष ऽआ᳘युः॥
मूलम् - श्रीधरादि
(मे) एव᳘मेव मा᳘ध्यन्दिने स᳘वने॥
(ऽ) अ᳘गृहीत ऽए᳘वैत᳘स्मादच्छावाका᳘योत्तमो ग्र᳘हो भवत्य᳘थ तृ᳘तीयं व्वसतीव᳘रीणाम᳘वनयति तत्प᳘र्व्व समै᳘ति प्रथममहो᳘त्तरस्य स᳘वनस्य करो᳘त्युत्तमं पू᳘र्व्वस्य स यदु᳘त्तरस्य स᳘वनस्य तत्पू᳘र्व्वं करो᳘ति यत्पू᳘र्व्वस्य त᳘दुत्तमं तद्व्य᳘तिषजति त᳘स्मादिमा᳘नि प᳘र्व्वाणि व्य᳘तिषक्तानीद᳘मित्थम᳘तिहानमिद᳘मित्थं तद्य᳘दस्यैते᳘नात्मा सᳫँ᳘हितस्ते᳘नास्यैष ऽआ᳘युः॥
मूलम् - Weber
एव᳘मेव मा᳘ध्यन्दिने स᳘वने॥
अ᳘गृहीत एॗवैत᳘स्मादछावाका᳘योत्तमो ग्र᳘हो भवत्य᳘थ तृ᳘तीयं वसतीव᳘रीणाम᳘वनयति तत्प᳘र्व समै᳘ति प्रथममहो᳘त्तरस्य स᳘वनस्य करो᳘त्युत्तमम् पू᳘र्वस्य स यदु᳘त्तरस्य तत्पू᳘र्वं करो᳘ति यत्पू᳘र्वस्य त᳘दुत्तमं तद्व्य᳘तिषजति त᳘स्मादिमा᳘नि प᳘र्वाणि व्य᳘तिषक्तानीद᳘मित्थम᳘तिहानमिद᳘मित्थं तद्य᳘दस्यैते᳘नात्मा स᳘ᳫं᳘हितस्ते᳘नास्यैष आ᳘युः॥
मूलम् - विस्वरम्
एवमेव माध्यन्दिने सवने अगृहीत एवैतस्मादच्छावाकायोत्तमो ग्रहो भवति । अथ तृतीयं वसतीवरीणामवनयति । तत् पर्व समैति । प्रथममहोत्तरस्य सवनस्य करोति, उत्तमं पूर्वस्य । स यदुत्तरस्य सवनस्य तत् पूर्वं करोति, यत्पूर्वस्य तदुत्तमम्- तद्व्यतिषजति । तस्मादिमानि पर्वाणि व्यतिषक्तानि । इदमित्थमतिहानमिदमित्थम् । तद् यदस्यैतेनात्मा संहितः; तेनास्यैष आयुः ॥ ५ ॥
सायणः
उक्तः सवनसन्धानप्रकारो माध्यन्दिनसम्बन्धिन्युक्थ्यविग्रहे ऽपि कर्त्तव्य इत्याह- एवमेव माध्यन्दिने सवन इत्यादि । अत्र कात्यायनः- “प्रागच्छावाकविग्रहात्सोमोपावहरणम्, वसतीवर्यर्धं चासिञ्चत्याधवनीये” 4- (का० श्रौ० सू० ९ । ३१९, ३२० ।) इति ग्रहस्यायुष्ट्वे व्यवहारोपपत्तिमाह- तद्यदस्यैतेनात्मेत्यादि । उक्थ्यग्रहस्य यज्ञसम्बन्ध्यात्मसन्धानार्थत्वात् ‘आयुः’ इति व्यवहार इत्यर्थः ॥ ५ ॥
Eggeling
- In like manner at the midday pressing: (when)
the last cup has not yet been drawn therefrom for the Achāvāka priest, he pours (the remaining) one-third of the Vasatīvarī (into the Ādhavanīya). Thus the joint unites; for, indeed, he makes it the first of the second pressing, and the last of the first pressing 5: that which belongs to the second pressing he makes first, and that which belongs to the first he makes last. Thus he interlocks them; whence these joints are interlocked: this one overlapping thus, and this one thus. And because his body is thereby held together, therefore this (graha) is his vital energy.
०६
विश्वास-प्रस्तुतिः
सैषा᳘ कामदु᳘घैवे᳘न्द्रस्योद्धारः᳘॥
(स्त्रि) त्रिभ्य᳘ ऽए᳘वैनं प्रातःसवन᳘ ऽउक्थे᳘भ्यो व्विगृह्णा᳘ति त्रिभ्यो मा᳘ध्यन्दिने स᳘वने तत्षट्कृ᳘त्वः षड्वा᳘ ऽऋत᳘व ऽऋत᳘वो वा᳘ ऽइमान्त्स᳘र्व्वान्का᳘मान्पचन्त्येते᳘नो हैषा᳘ कामदु᳘घैवे᳘न्द्रस्योद्धारः[[!!]]॥
मूलम् - श्रीधरादि
सैषा᳘ कामदु᳘घैवे᳘न्द्रस्योद्धारः᳘॥
(स्त्रि) त्रिभ्य᳘ ऽए᳘वैनं प्रातःसवन᳘ ऽउक्थे᳘भ्यो व्विगृह्णा᳘ति त्रिभ्यो मा᳘ध्यन्दिने स᳘वने तत्षट्कृ᳘त्वः षड्वा᳘ ऽऋत᳘व ऽऋत᳘वो वा᳘ ऽइमान्त्स᳘र्व्वान्का᳘मान्पचन्त्येते᳘नो हैषा᳘ कामदु᳘घैवे᳘न्द्रस्योद्धारः[[!!]]॥
मूलम् - Weber
सैषा᳘ कामदुॗघैवे᳘न्द्रस्योद्धारः᳟॥
त्रिभ्य᳘ एॗवैनम् प्रातःसवन᳘ उक्थे᳘भ्यो विगृह्णा᳘ति त्रिभ्यो मा᳘ध्यन्दिने स᳘वने तत्षट् कृ᳘त्वः षड्वा᳘ ऋत᳘व ऋत᳘वो वा᳘ इमान्त्स᳘र्वान्का᳘मान्पचन्त्येते᳘नो हैषा᳘ कामदुॗघैवे᳘न्द्रस्योद्धारः᳟॥
मूलम् - विस्वरम्
सैषा कामदुघैवेन्द्रस्योद्धारः । त्रिभ्य एवैनं प्रातःसवन ऽउक्थेभ्यो विगृह्णाति, त्रिभ्यो माध्यन्दिने सवने- तत् षट्कृत्वः । षड्वा ऽऋतवः । ऋतवो वा ऽइमान्त्सर्वान्कामान्पचन्ति । एतेनो हैषा कामदुघैवेन्द्रस्योद्धारः ॥ ६॥
सायणः
प्रकृतं ग्रहं प्रशंसति- सैषेत्यादि । ‘इन्द्रस्योद्धारः’ साधारणो भागो यो ऽयमुक्थ्यग्रहः ‘सैषा’ ‘कामदुघैव’ कामधेनुरेव । “दुहः कब्घश्च”- (पा. सू. ३ । २ । ७०) इति कप्प्रत्ययः । यद्यप्युक्थ्यविग्रहेषु देवतान्तरसम्बन्धो ऽस्ति तथापीन्द्रस्य प्राधान्यान्माध्यन्दिनसवने तस्यैव देवतात्वाच्चैन्द्रस्य भाग इत्युक्तम् । उक्ते ऽर्थे कारणमाह- त्रिभ्य एवैनमित्यादि । उक्थ्यमिति स्तुतशस्त्रविशेषनामधेयम् । प्रातःसवने उक्थ्यत्रयार्थम्, माध्यन्दिनसवने चोक्थ्यत्रयार्थम् इति तद्ग्रहणं ‘षट्कृत्वः’ सम्पद्यते । षट्संख्याका । ‘ऋतवः’ ‘सर्वान्’ ‘इमान्’ ‘कामान्’ ‘पचन्ति’ पाकं प्रापयन्ति उपभोगयोग्यान् कुर्वन्ति । कालस्य सर्वोत्पत्तिमन्निमित्तकारणत्वादित्यर्थः । अतः सङ्ख्यासामान्येन विगृह्यमाणस्योक्थ्यग्रहस्य ऋतुरूपत्वात्कामधेनुत्वम् ॥ ६ ॥
Eggeling
- This (Ukthya graha) is the cow of plenty, Indra’s special portion. At the morning feast he (the Adhvaryu) divides it for three songs of praise 6, and at the midday feast for three,–this makes six times, for there are six seasons, and the seasons mature all wishes here on earth: for this reason, then, this (libation) is the cow of plenty, Indra’s special portion.
०७
विश्वास-प्रस्तुतिः
(स्तं) तं वा᳘ ऽअपुरोरु᳘क्कं गृह्णाति॥
(त्यु) उक्थᳫँ᳭ हि᳘ पुरोरुगृग्घि᳘ पुरोरुगृ᳘ग्घ्युक्थᳫँ᳭ सा᳘म ग्रहो᳘ ऽथ य᳘दन्यज्ज᳘पति यद्य᳘जुस्ता᳘ हैता᳘ ऽअभ्यर्ध᳘ एवा᳘ग्र ऽऋग्भ्य᳘ आसुरभ्यर्धो यु᳘जुर्भ्यो ऽभ्यर्धः सा᳘मभ्यः॥
मूलम् - श्रीधरादि
(स्तं) तं वा᳘ ऽअपुरोरु᳘क्कं गृह्णाति॥
(त्यु) उक्थᳫँ᳭ हि᳘ पुरोरुगृग्घि᳘ पुरोरुगृ᳘ग्घ्युक्थᳫँ᳭ सा᳘म ग्रहो᳘ ऽथ य᳘दन्यज्ज᳘पति यद्य᳘जुस्ता᳘ हैता᳘ ऽअभ्यर्ध᳘ एवा᳘ग्र ऽऋग्भ्य᳘ आसुरभ्यर्धो यु᳘जुर्भ्यो ऽभ्यर्धः सा᳘मभ्यः॥
मूलम् - Weber
तं वा᳘ अपुरोरु᳘क्कं गृह्णाति॥
उक्थᳫं हि᳘ पुरोरुगृग्घि᳘ पुरोरुगृॗग्घ्युक्थᳫं सा᳘म ग्रहो᳘ ऽथ य᳘दन्यज्ज᳘पति तद्य᳘जुस्ता हैता᳘ अभ्यर्ध᳘ 7 एवा᳘ग्र ऋग्भ्य᳘ आसुरभ्यर्धो यु᳘जुर्भ्यो ऽभ्यर्धः सा᳘मभ्यः॥
मूलम् - विस्वरम्
तं वा अपुरोरुक्कं गृह्णाति । उक्थं हि पुरोरुक् । ऋग्घि पुरोरुक् । ऋग्घुक्थम् । साम ग्रहः । अथ यदन्यज्जपति- तद्यजुः । ता हैता अभ्यर्घ एवाग्र ऽऋग्भ्य आसुः, अभ्यर्घो यजुर्भ्यः, अभ्यर्घः सामभ्यः ॥ ७ ॥
सायणः
नन्वैन्द्रवायवादिग्रहाणाम् “आ वायो” (वा. सं. ७ । ७) इत्यादयः पुरोरुचो जाताः । का पुनरस्य ग्रहस्य पुरोरुगित्यत आह- तं वा इत्यादि । ग्रहणात् पूर्वो रोचयिता मन्त्रविशेषः पुरोरुक्, तद्रहितमेव ‘तम्’ एतमुक्थ्यग्रहं ‘गृह्णाति’ । ननु यदि ग्रहणे अपुरोरुक्त्वं होमे वा का पुरोरुगित्यत आह- उक्थं हीति । ‘उक्थम्’ शस्त्रं ‘हि’ होमात् पूर्वमेव प्रयुज्यमानं होमदेवतायै हवी रोचयतीति तेन शस्त्रेण होमः सपुरोरुक्कः । तर्हि “उपयामगृहीतो ऽसीन्द्राय त्वा”- इत्ययमपि मन्त्रो ग्रहणात् पूर्वमेव ग्रहीष्यमाणं हविर्देवतायै रोचयतीत्यस्यापि पुरोरुक्त्वात् कथं ग्रहणमपुरोरुक्कमित्यत आह- ऋग्घि पुरोरुगिति । न पुरोरोचयितृमात्रं पुरोरुक्- शब्दस्य प्रवृत्तिनिमित्तम्, किन्तु पादबद्धत्वहेतुकेन ऋगात्मकत्वेन विशिष्टम् । न चेह पादबद्धत्वमस्ति, उक्थ्यशस्त्रस्य तु ऋगात्मकत्वेन युक्तमनन्तरोक्तं पुरोरुक्त्वमित्याह- ऋग्घ्युक्थमिति । उक्थशस्त्रस्य ऋगात्मकत्वादस्तु पुरोरुक्त्वम् । उक्थस्तोत्रस्य तु कथ न हि तदृगात्मकम्, किन्तु सामात्मकमित्यत आह- साम ग्रह इति । गृह्यते ऽनेनाभिव्यज्यत इति ग्रहः प्रगीतो मन्त्रः सामेत्युच्यते । न च गानमात्रेण तस्य ऋक्त्वं व्यावर्त्त्यते । पादनिबन्धनं हि तत् । उक्तं तल्लक्षणं जैमिनिना- “तेषामृग्यत्रार्थवशेन पादव्यवस्था” (जै. सू. २ । १ । ३५) इति । तेनाप्रगीतवत् प्रगीतस्यापि ऋग्लक्षणयोगेन ऋक्त्वात्, ऋग्वि पुरोरुगित्यनेनैव प्रगीतो ऽपि सङ्ग्रहीष्यते । प्रगीतमन्त्रात्मकस्य साम्नो ऽप्युक्त्वे सत्यपि- “ऋचः सामानि यजूंषि, ऋक्सामे वै देवेभ्यः” (साम. तां. ब्रा.)- इत्यभेदेन व्यवहारः प्रगीताप्रगीतत्ववैलक्षण्यमात्रनिबन्धनो भविष्यति । यदपि जैमिनीयं सामलक्षणं “गीतिषु सामाख्या” (जै. सू. २ । १ । ३६) इति, तत्रापि गीयत इति गीतिरिति कर्मणि क्तिना (पा. सू. ३ । ३ । ९४) मन्त्रो विधीयते । मन्त्रभेदा एव हि तत्र लक्षणीयतया प्रस्तुताः । मन्त्राश्च विवक्षितार्था इति प्रपञ्चितं मन्त्राधिकरणे (जै. सू. २ । १ । ३० । ३१) । न च गीतिक्रिया ऽर्थवती । अथतु “ऋच्यव्यूढं साम गायति रेवेति इषुवारवन्तीयं कवतीषु रथन्तरम्” (साम. तां. ब्रा.)- इत्यादिषु गीतिक्रियामात्रे सामादिपदं व्यवहृतमिति मन्यसे, तर्हि गीतिक्रियाया अर्थानवबोधकत्वेन पुरोरुक्त्वानङ्गीकारादेव कथं पुरोरुक्त्वमिति प्रश्नानवकाशः । अस्मिन् यज्ञे “साम ग्रहः” इति श्रुतौ ग्रहशब्दो गृह्यते । ऋगक्षराण्यभिव्यज्यन्ते ऽनेनेति करणसाधनो गानक्रियामेव विधत्ते- तदात्मकस्य साम्नो ऽर्थानवबोधकत्वादेव पुरोरुक्त्वाभावात् ऋग्घि पुरोरुगिति न व्याहन्यते । यत्तु प्रगीताप्रणीतरूपाया ऋचो ऽन्यत् “उपयाम” इत्यादि तत् पुरोरोचयितृत्वे ऽपि न पुरोरुक्, किन्तु यजुरेव केवलमिति । प्रकृतग्रहस्यापुरोरुक्त्वे चोपपत्तिरित्याह- अथ यदन्यदिति । पुरोरोचयितॄणामुपयामेत्यादीनामनृक्त्वेन पुरोरुक्त्वाभावे सति अपरेणापि केनचनासाधारणेन विशेषेण भवितव्यम्, न यजुर्मात्रसाधारण्येन गणनं युक्तमिति चेत्, तत्राह- ता हैता इति । सत्यम्, अत एव ता ‘एताः’ उपयामेत्यादयः पुरोरोचयित्र्यो मन्त्रजातयः, ‘अग्रे’ पूर्वस्मिन् काले ऋग्यजुःसाममात्रेभ्यो मन्त्रेभ्यः पुरोरोचयितृत्वेनैवासाधारणेनाभिहिताः । समृद्धा आसुः “ऋधु वृद्धौ”- (धा. पा. दि. प. १३९) इत्यस्य “अन्येभ्यो ऽपि दृश्यन्ते”- (पा. सू. ३ । २ । ७५) इति विचि लघूपधगुणे (पा. सू. ७ । ३ । ८६) बहुवचनान्तमभ्यर्द्ध इति ॥ ७ ॥
Eggeling
- He draws it without (reciting) a puroruc; for the puroruc is a song of praise, since the puroruc is a R̥c, and the song of praise is R̥c; and the libation is Sāman; and what other (formula) he mutters, that is Yajus. Formerly these same (puroruc verses) were apart 8 from the R̥cs, apart from the Yajus, and apart from the Sāmans.
०८
विश्वास-प्रस्तुतिः
(स्ते᳘) ते᳘ देवा᳘ अब्रुवन्॥ (न्ह᳘) ह᳘न्तेमा य᳘जुःषु द᳘धाम त᳘थेयं᳘ बहुल᳘तरेव व्विद्या᳘ भविष्यती᳘ति ता य᳘जुःष्वदधुस्त᳘त ऽएषा᳘ बहुल᳘तरेव व्विद्या ऽभवत्॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘ देवा᳘ अब्रुवन्॥ (न्ह᳘) ह᳘न्तेमा य᳘जुःषु द᳘धाम त᳘थेयं᳘ बहुल᳘तरेव व्विद्या᳘ भविष्यती᳘ति ता य᳘जुःष्वदधुस्त᳘त ऽएषा᳘ बहुल᳘तरेव व्विद्या ऽभवत्॥
मूलम् - Weber
ते᳘ देवा᳘ अब्रुवन् ह᳘न्तेमा य᳘जुःषु द᳘धाम त᳘थेय᳘म् बहुल᳘तरेव विद्या᳘ भविष्यती᳘ति ता य᳘जुःष्वदधुस्त᳘त एषा᳘ बहुल᳘तरेव विद्याभवत्॥
मूलम् - विस्वरम्
ते देवा अब्रुवन्- ‘हन्तेमा यजुःषु दधाम । तथेयं बहुलतरेव विद्या भविष्यति’ इति । ता यजुःष्वदधुः । तत एषा बहुलतरेव विद्या ऽभवत् ॥ ८ ॥
सायणः
इत्थं पृथग्भूतानां जरसां कथं यजुष्ट्वमिति तत्राह- ते देवा इति । ऋग्यजुःसामाख्याभ्यो मन्त्रजातिभ्यः अपरस्याश्चतुर्थ्या अपि पुरोरोचयितृजातेरङ्गीकारे गौरवादेवैता ‘यजुःषु’ एव निहिताः, अत एषां यजुषां पुरोरोचयितृत्वे ऽप्यनृक्त्वेन पुरोरुक्त्वाभावात् प्रकृतं ग्रहमपुरोरुक्कं गृह्णातीति युक्तमित्यर्थः ॥ ८ ॥
Eggeling
- The gods said, ‘Come, let us place them among the Yajus: thus this science will be still more manifold.’ Accordingly they placed them among the Yajus, and thenceforward this science was still more manifold.
०९
विश्वास-प्रस्तुतिः
(त्तं) तं य᳘दपुरोरु᳘क्कं गृह्णा᳘ति॥
(त्यु) उक्थᳫँ᳭ हि᳘ पुरोरुगृग्घि᳘ पुरोरुगृ᳘ग्घ्युक्थᳫँ᳭ स य᳘दे᳘वैनमुक्थे᳘भ्यो व्विगृह्णा᳘ति ते᳘नो हास्यैष᳘ पुरोरुङ्मान्भवति त᳘स्मादपुरोरु᳘क्कं गृह्णाति॥
मूलम् - श्रीधरादि
(त्तं) तं य᳘दपुरोरु᳘क्कं गृह्णा᳘ति॥
(त्यु) उक्थᳫँ᳭ हि᳘ पुरोरुगृग्घि᳘ पुरोरुगृ᳘ग्घ्युक्थᳫँ᳭ स य᳘दे᳘वैनमुक्थे᳘भ्यो व्विगृह्णा᳘ति ते᳘नो हास्यैष᳘ पुरोरुङ्मान्भवति त᳘स्मादपुरोरु᳘क्कं गृह्णाति॥
मूलम् - Weber
तं य᳘दपुरोरु᳘क्कं गृह्णा᳘ति॥
उक्थᳫं हि᳘ पुरोरुगृग्घि᳘ पुरोरुगृॗग्घ्युक्थᳫं स य᳘देॗवैनमुक्थे᳘भ्यो विगृह्णा᳘ति ते᳘नो हास्यैष᳘ पुरोरुङ्मान्भवति त᳘स्मादपुरोरु᳘क्कं गृह्णाति॥
मूलम् - विस्वरम्
तं यदपुरोरुक्कं गृह्णाति उक्थं हि पुरोरुक् । ऋग्घि पुरोरुक् । ऋग्घ्युक्थम् । स यदेवैनमुक्थेभ्यो विगृह्णाति- तेनो हास्यैष पुरोरुङ्मान्भवति । तस्मादपुरोरुक्कं गृह्णाति ॥ ९॥
सायणः
अस्य मन्त्रस्य पुरोरुक्त्वाभावे ऽपि ग्रहस्य पुरोरुक्त्वं समर्थयितुमाह- तं यदित्यादि । ‘यत्’ यद्यपि ग्रहणसमये ‘तम्’ अपुरोरुक्कं गृह्णाति, तथापि विभज्य ग्रहणानन्तरमुक्थ्यस्तोत्राणि भविष्यन्ति तेषां च पुरोरुक्त्वात्तैर्विगृह्यमाणो ऽयं सपुरोरुक्को भविष्यति । विग्रहानन्तरैः स्तोत्रशस्त्रैः सपुरोरुक्त्वे ऽपि स्वसाधनस्य यजुषो ऽपुरोरुक्त्वादपुरोरुक्त्वमित्यपि सिद्धमित्याह- तस्मादिति ॥ ९ ॥
Eggeling
- And the reason why he draws this (graha) without a puroruc, is that the puroruc is praise, (being) a R̥c, and the song of praise is R̥c; and in that he divides it for recitations, thereby indeed it becomes possessed of a puroruc: hence he draws it without a puroruc.
१०
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वो) उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा बृह᳘द्वते व्व᳘यस्वत ऽइती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राय त्वे᳘ति बृह᳘द्वते व्व᳘यस्वत ऽइ᳘ति व्वीर्य᳘वत ऽइ᳘त्ये᳘वैत᳘दाह यदा᳘ह बृह᳘द्वते व्व᳘यस्वत ऽइ᳘त्युक्थाव्यं᳘ गृह्णामी᳘त्युक्थे᳘भ्यो᳘ ह्येनं गृह्णा᳘ति य᳘त्त ऽइन्द्र बृहद्व᳘य ऽइ᳘ति य᳘त्त ऽइन्द्र व्वीर्य᳘मि᳘त्ये᳘वैत᳘दाह त᳘स्मै त्वा व्वि᳘ष्णवे त्वे᳘ति यज्ञ᳘स्य᳘ ह्येनमा᳘युषे गृह्णा᳘ति त᳘स्मादाह त᳘स्मै त्वा व्वि᳘ष्णवे त्वे᳘त्येष᳘ ते यो᳘निरुक्थे᳘भ्यस्त्वे᳘ति सादयत्युक्थे᳘भ्यो᳘ ह्येनं गृह्णा᳘ति॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वो) उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा बृह᳘द्वते व्व᳘यस्वत ऽइती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राय त्वे᳘ति बृह᳘द्वते व्व᳘यस्वत ऽइ᳘ति व्वीर्य᳘वत ऽइ᳘त्ये᳘वैत᳘दाह यदा᳘ह बृह᳘द्वते व्व᳘यस्वत ऽइ᳘त्युक्थाव्यं᳘ गृह्णामी᳘त्युक्थे᳘भ्यो᳘ ह्येनं गृह्णा᳘ति य᳘त्त ऽइन्द्र बृहद्व᳘य ऽइ᳘ति य᳘त्त ऽइन्द्र व्वीर्य᳘मि᳘त्ये᳘वैत᳘दाह त᳘स्मै त्वा व्वि᳘ष्णवे त्वे᳘ति यज्ञ᳘स्य᳘ ह्येनमा᳘युषे गृह्णा᳘ति त᳘स्मादाह त᳘स्मै त्वा व्वि᳘ष्णवे त्वे᳘त्येष᳘ ते यो᳘निरुक्थे᳘भ्यस्त्वे᳘ति सादयत्युक्थे᳘भ्यो᳘ ह्येनं गृह्णा᳘ति॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
उपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा बृहद्वते व᳘यस्वत इती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राय त्वे᳘ति बृह᳘द्वते व᳘यस्वत इ᳘ति वीर्य᳘वत इ᳘त्येॗवैत᳘दाह यदा᳘ह बृहद्वते व᳘यस्वत इ᳘त्युक्थाव्यं᳘ गृह्णामी᳘त्युक्थे᳘भ्योॗ ह्येनं गृह्णा᳘ति य᳘त्त इन्द्र बृहद्व᳘य इ᳘ति य᳘त्त इन्द्र वीर्य᳘मि᳘त्येॗवैत᳘दाह त᳘स्मै त्वा वि᳘ष्णवे त्वे᳘ति यज्ञ᳘स्यॗ ह्येनमा᳘युषे गृह्णा᳘ति त᳘स्मादाह त᳘स्मै त्वा वि᳘ष्णवे त्वे᳘त्येष᳘ ते यो᳘निरुक्थे᳘भ्यस्त्वे᳘ति सादयत्युक्थे᳘भ्योॗ ह्येनं गृह्णा᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वते”- (वा. सं. ७ । २२) इति । इन्द्रो वै यज्ञस्य देवता । तस्मादाह- इन्द्राय त्वेति । बृहद्वते वयस्वत इति । वीर्यवत इत्येवैतदाह- यदाह- बृहद्वते वयस्वत ऽ इति । “उक्थाव्यं गृह्णामि”- (वा. सं. ७ । २२) इति । उक्थेभ्यो ह्येनं गृह्णाति । “यत्त ऽइन्द्र बृहद्वयः”- (वा. सं. ७ । २२) इति । यत्त ऽइन्द्र वीर्यमित्येवैतदाह । “तस्मै त्वा विष्णवे त्वा”- (वा. सं. ७ । २२) इति । यज्ञस्य ह्येनमायुषे गृह्णाति । तस्मादाह- तस्मै त्वा विष्णवे त्वेति । “एष ते योनिरुक्थेभ्यस्त्वा”- (वा. सं. ७ । २२) इति सादयति । उक्थेभ्यो ह्येनं गृह्णाति ॥ १० ॥
सायणः
ग्रहस्य ग्रहणमनूद्य मन्त्रं चतुर्धा विभज्य विनियुञ्जानो व्याचष्टे- अथातो गृह्णात्येव । उपयामगृहीतोसीत्यादि 9 । इन्द्रो वै यज्ञस्य देवतेति । उक्थ्यग्रहलक्षणस्य ‘यज्ञस्य’ ‘इन्द्रो’ ‘देवता’ खलु, तथा च पूर्वमुक्तम्, “सैषा कामदुघैवेन्द्रस्योद्धारः”- (श. प. ४ । २ । ३ । ६) इति । अथवा सोमस्य मानमन्त्रेषु “इन्द्राय त्वा वृत्रघ्ने” (ऋ. सं.) इत्येवमादिषु सर्वत्र इन्द्र एव देवतात्वेन निर्द्दिष्टः । अतः प्राधान्यात् स एव यज्ञस्य देवता । तस्मात् ‘इन्द्राय त्वा’- इति मन्त्रपदमुपपन्नम् । वीर्यवत इत्येवैतदित्यादि । ‘वीर्यवतः’ इति तेनैवाभिप्रायेणैतत्, “वयस्वत" इति “बृहद्वत” इति च पदमध्वर्युराह । अत्र ‘बृहद्वत’ इति, बृहदिति बृहत्साम, यच्च वीर्येण सृष्टत्वाद्वीर्यरूपम् । तथा च तैत्तिरीयकम्- “उरसो बाहुभ्याम्” इति प्रक्रम्य- ‘वीर्याद्ध्यसृज्यन्त” (तै. सं. ७-१-१)- इति । ‘वयस्वत’ इत्यत्रापि अतिशायने मतुप् (पा. सू. ५-२-९४) । मतुबादयः प्रत्यया अस्तिविवक्षायामेव भूमादिष्वर्थेषु भवन्ति । तथा चोक्तम्- “भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने । संसर्गे ऽस्तिविवचायां भवन्ति मतुबादयः” ॥ (पा. सू. ५ । २ । ९४ । वा. ३१८३) इति । तथा च सति ‘वयः’- शब्देनात्रातिशायि यौवनलक्षणं वयो ऽभिधीयते । तच्च वीर्यस्य हेतुः । अतो वीर्यवत इत्येतदभिप्रायेण ‘वयःस्वत’ इत्युक्तमित्यर्थः ।
मन्त्रस्य द्वितीयं भागं व्याचष्टे- उक्थाव्यमित्यादि । उक्थेभ्यो ह्येनमिति । उक्थानि शस्त्रस्तोत्राणि तैः स्तुतिं सम्पादयितुम् ‘एनं’ ग्रहं ‘गृह्णाति’ अतः ‘उक्थाव्यम्’ इत्युक्तम् । अवतिः (निघं. २ । १४ । १ । २) अत्र गत्यर्थे गृह्यते । उक्थान्यवति गच्छतीत्युक्थावीः तम् । “अवितॄस्तॄतन्त्रिभ्य ईः" (उगादि पा. ३) इति ईकारप्रत्ययः । अथवा उक्थैराव्यः गन्तव्यः । “ऋहलोर्ण्यत्”- (पा. सू. ३ । १ । १२४) इति । स्तुत्यं हि स्तुतिसाधनेन गम्यते ।
तृतीयं भागं व्याचष्टे- यत्त इन्द्रेत्यादि । अत्रापि बृहद्वय इत्यनेन वीर्यमभिहितमित्यर्थः ।
चतुर्थं भागं व्याचष्टे- तस्मै त्वेत्यादि । यज्ञस्य ह्येनमिति । अत्र आयुरिति लिङ्गशरीरमभिधीयते, लिङ्गशरीररूपात्मसन्धानार्थत्वादस्यायुष्ट्वव्यवहार इति पूर्वमुक्तत्वात्तदर्थमस्य ग्रहणात्- “विष्णवे त्वा”-इति अध्वर्युराह । “यज्ञो वै विष्णुः" (शत. का. १ । १ । २ । १३) इति श्रुतेः विष्णुरिति यज्ञ उच्यते । हे उक्थ्यग्रह ! ‘उपयामेन’ स्थाल्या गृहीतो ऽसि, बृहत्सामयुक्ताय ‘यौवनलक्षणवयोयुक्ताय’ इन्द्रायोक्थ्यशस्त्रगामिनं त्वां गृह्णामि । हे इन्द्र ! ‘यत्’ यस्मात् ‘बृहत्’ महद् ‘वयो’ यौवनलक्षणं तस्मात् इन्द्राय तुभ्यं त्वां ग्रहं गृह्णामि । इन्द्रार्थे ग्रहे इन्द्रत्वमुपचर्यते । हे ग्रह ! त्वां विष्णवे च गृह्णामीति कृस्त्नमन्त्रस्यार्थः । ग्रहस्य समन्त्रकं सादनं विधत्ते- एष त इत्यादि । उक्थेभ्यो ह्येनं गृह्णातीति । उक्थैः स्तोत्रशस्त्रैः स्तुतिं सम्पादयितुमस्य ग्रहस्य ग्रहणान्मन्त्रे ‘उक्थेभ्यः’ इत्यस्य शब्दस्य प्रयोग उपपद्यत इत्यर्थः ॥ १० ॥
Eggeling
- Now he draws it from that (stream of Soma 10), with (Vāj. S. VII, 22), ‘Thou art taken with a support: thee for Indra, possessed of the great (chant), possessed of vigour,’–for Indra is the deity of the sacrifice; wherefore he says ’thee for Indra;’ and by ‘possessed of the great (chant), possessed of vigour,’ he means to say ‘for him, the strong;’–‘I take (thee) the song-pleasing,’ for he indeed takes it for songs of praise;–‘what great vigour is thine, O Indra’–whereby he means to say, ‘what strength is thine, O Indra’–‘for that (I take) thee! for Vishṇu–thee!’ for he takes it for the life of the sacrifice: hence he says, ‘for that–thee! for Vishṇu–thee!’ With, ‘This is thy womb: thee for the songs of praise!’ he deposits it; for he indeed takes it for songs of praise.
११
विश्वास-प्रस्तुतिः
तं व्वि᳘गृह्णाति॥
देवे᳘भ्यस्त्वा देवा᳘व्यं[[!!]] यज्ञस्या᳘युषे गृह्णामी᳘ति प्रशा᳘सनᳫँ᳭ स᳘ कुर्याद्य᳘ ऽएवं᳘ कुर्या᳘द्यथादेवतं᳘[[!!]] त्वेव व्वि᳘गृह्णीयात्॥
मूलम् - श्रीधरादि
तं व्वि᳘गृह्णाति॥
देवे᳘भ्यस्त्वा देवा᳘व्यं[[!!]] यज्ञस्या᳘युषे गृह्णामी᳘ति प्रशा᳘सनᳫँ᳭ स᳘ कुर्याद्य᳘ ऽएवं᳘ कुर्या᳘द्यथादेवतं᳘[[!!]] त्वेव व्वि᳘गृह्णीयात्॥
मूलम् - Weber
तं वि᳘गृह्णाति॥
देवे᳘भ्यस्त्वा देवाव्यं᳘ यज्ञस्या᳘युषे गृह्णामी᳘ति प्रशा᳘सनᳫं स᳘ कुर्याद्य᳘ एवं᳘ कुर्या᳘द्यथादेवॗतं त्वेव वि᳘गृह्णीयात्॥
मूलम् - विस्वरम्
तं विगृह्णाति- “देवेभ्यस्त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि”- (वा. सं. ७ । २२) इति । प्रशासनं स कुर्यात् य एवं कुर्यात्- यथादेवतं त्वेव विगृह्णीयात् ॥ ११ ॥
सायणः
इत्थं ग्रहस्य ग्रहणादिकं विधाय होमकाले तस्यैव समन्त्रकं विभज्य ग्रहणं विधत्ते- तं विगृह्णातीत्यादि । उक्थग्रहस्त्रैधं विभज्य हूयते । अत एव कात्यायनः- “उक्थं विगृह्णाति त्रैधम् (देवेभ्यस्त्वेतिसर्वेभ्यः)"- (का. श्रौ. सू. ९ । ३१०) इति । तथा च सति पर्यायत्रये ऽपि “देवेभ्यस्त्वा”- इत्यनेनैव मन्त्रेण विभज्य गृह्णीयादित्यर्थः ।
उक्तमन्त्रसाधने विग्रहणे ग्रहस्य साधारणलक्षणं दोषमुद्भावयति- प्रशासनं स इत्यादि । यो ऽध्वर्युरेवमुक्तमन्त्रसाधनकं विग्रहणं कुर्यात् । ‘सः’ ‘प्रशासनं’ ग्रहस्य प्रकर्षेणात्यन्तं शासनं विनियोजनं कुर्यात् । मन्त्रे ‘देवेभ्य’ इति सर्वदेवतासाधारणस्य शब्दस्य प्रयोगादिति भावः । यत एवम्, अतस्तत्तद्देवतानुसारेण ग्रहं विगृह्णीयादित्याह- यथादेवतमित्यादि । देवतामनतिक्रम्य इति विग्रहे “यथा ऽसादृश्ये”- (पा. सू. २ । १ । ७) इति पदार्थानतिक्रमे यथाशब्दस्याव्ययीभावः । “अव्ययीभावश्च”- (पा. सू. १ । १ । ४ १) इति नपुंसकत्वे “ह्रस्वो नपुंसके”- (पा. सू. १ । १ । ४७) इति ह्रस्वत्वम् ॥ ११ ॥
Eggeling
- He distributes it 11 with, ‘Thee, the
god-pleasing 12, I take for the gods, for the life of the sacrifice.’ He who would perform it in this manner would assume the command 13; but let him rather distribute it to the respective deities.
१२
विश्वास-प्रस्तुतिः
(न्मि) मित्राव᳘रुणाभ्यां त्वा॥
देवा᳘व्यं[[!!]] यज्ञस्या᳘युषे गृह्णामी᳘त्येव᳘ मैत्रावरुणा᳘य मैत्रावरुणी᳘षु हि त᳘स्मै स्तुव᳘ते मैत्रावरुणी᳘रनुश᳘ᳫं᳘सति मैत्रावरुण्या य᳘जति॥
मूलम् - श्रीधरादि
(न्मि) मित्राव᳘रुणाभ्यां त्वा॥
देवा᳘व्यं[[!!]] यज्ञस्या᳘युषे गृह्णामी᳘त्येव᳘ मैत्रावरुणा᳘य मैत्रावरुणी᳘षु हि त᳘स्मै स्तुव᳘ते मैत्रावरुणी᳘रनुश᳘ᳫं᳘सति मैत्रावरुण्या य᳘जति॥
मूलम् - Weber
मित्राव᳘रुणाभ्यां त्वा॥
देवाव्यं᳘ यज्ञस्या᳘युषे गृह्णामी᳘त्येव᳘ मैत्रावरुणा᳘य मैत्रावरुणी᳘षु हि त᳘स्मै स्तुव᳘ते मैत्रावरुणी᳘रनुश᳘ᳫं᳘सति मैत्रावरुण्या य᳘जति॥
मूलम् - विस्वरम्
“मित्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि”- (वा० सं० ७ । २३ ।) इत्येव मैत्रावरुणाय । मैत्रावरुणीषु हि तस्मै स्तुवते । मैत्रावरुणीरनुशंसति । मैत्रावरुण्या यजति ॥ १२ ॥
सायणः
देवताप्रतिपादकं मन्त्रमाह- मित्रावरुणाभ्यामिति 14 । अनेनैव मन्त्रेण ‘मैत्रावरुणाय’ उक्थ्यं विगृह्णीयात्, न पुनः “देवेभ्यस्त्वा” इत्यनेनेत्यर्थः । हे उक्थ्यग्रह ! ‘देवाव्यं’ देवै रक्षणीयं गन्तव्यं ‘त्वा’ त्वाम् ‘यज्ञस्यायुषे’ ‘मित्रावरुणाभ्यां’ गृह्णामि इति मन्त्रार्थः । न केवलं तस्य मन्त्रस्य ग्रहसाधारण्यपरिहारः प्रयोजनम्, अपि तु एतदुक्थ्यविग्रहसम्बन्धिनां मन्त्रान्तराणां सादृश्यलाभो ऽपीत्याह- मैत्रावरुणीष्वित्यादि । ‘तस्मै’ मैत्रावरुणसम्बन्धिने उक्थ्यविग्रहाय मैत्रावरुणसम्बन्धिनीष्वृक्षु “आ नो मित्रावरुणा”- (वा. सं. २१ । ८) इत्यादिषु ‘स्तुवते’ उद्गातारः । मैत्रावरुणश्च ‘मैत्रावरुणीरनु’ मैत्रावरुणीभिर्ऋग्भिः । “आ नो मित्रा”- इत्यादिभिरेव ‘शंसति’ स्तौति । अनोस्तृतीयार्थे कर्मप्रवचनीयत्वात् “कर्मप्रवचनीययुक्ते द्वितीया” (पा. सू. २ । ३ । ८)- इति द्वितीया । तथा यजमानमपि “आ नो मित्रावरुणा” इति मैत्रावरुण्यैवेति सर्वत्र मन्त्रेषु मित्रावरुणसम्वन्धाद्विग्रहणे साधनभूतो ऽपि मन्त्र इतरमन्त्रसादृश्यलाभाय मैत्रावरुण एव कर्त्तव्य इत्यर्थः ॥ १२ ॥
Eggeling
- With, ‘Thee, the god-pleasing, I take for Mitra and Varuṇa, for the life of the sacrifice!’ (he takes the portion) for the Maitrāvaruṇa priest;–for in verses to Mitra and Varuṇa they (the Udgātr̥s) chant praises for this (libation); and he (the Hotr̥) afterwards recites verses to Mitra and Varuṇa for the śastra, and offers with a verse to Mitra and Varuṇa.
१३
विश्वास-प्रस्तुतिः
(ती᳘) इ᳘न्द्राय त्वा॥
देवा᳘व्यं[[!!]] यज्ञस्या᳘युषे गृह्णामी᳘त्येव᳘ ब्राह्मणाच्छᳫँ᳭सि᳘न ऽऐन्द्री᳘षु हि त᳘स्मै स्तुव᳘त ऽऐन्द्री᳘रनुश᳘ᳫँ᳘सत्यैन्द्र्या य᳘जति॥
मूलम् - श्रीधरादि
(ती᳘) इ᳘न्द्राय त्वा॥
देवा᳘व्यं[[!!]] यज्ञस्या᳘युषे गृह्णामी᳘त्येव᳘ ब्राह्मणाच्छᳫँ᳭सि᳘न ऽऐन्द्री᳘षु हि त᳘स्मै स्तुव᳘त ऽऐन्द्री᳘रनुश᳘ᳫँ᳘सत्यैन्द्र्या य᳘जति॥
मूलम् - Weber
इ᳘न्द्राय त्वा॥
देवाव्यं᳘ यज्ञस्या᳘युषे गृह्णामी᳘त्येव᳘ ब्राह्मणाछंसि᳘न ऐन्द्री᳘षु हि त᳘स्मै स्तुव᳘त ऐन्द्री᳘रनुश᳘ᳫं᳘सत्यैन्द्र्या य᳘जति॥
मूलम् - विस्वरम्
“इन्द्राय त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि”- (वा. सं. ७ । २३) इत्येव ब्राह्मणाच्छंसिने । ऐन्द्रीषु हि तस्मै स्तुवते । ऐन्द्रीरनुशंसति । ऐन्द्र्या यजति ॥ १३ ॥
सायणः
द्वितीयतृतीययोरुक्थ्यविग्रहणे साधनभूतो ऽपि मन्त्र इतरमन्त्रसादृश्ययोरपि तत्तद्देवताप्रतिपादकौ मन्त्रौ दर्शयति- इन्द्राय त्वा देवाव्यमित्यादिना । ऐन्द्रीषु हीति । “आ याहि सुखमादय ऐन्द्र्यः” (हौ. सू. शां.) ‘ऐन्द्री’ इत्यत्रापि “आ याहि”- इत्यादय एव । ऐन्द्र्या इति । “इन्द्र ऋतुविदं सुतम्” (ऋ. सं. ३ । ३ । १)- इत्यनया ॥ १३ ॥
Eggeling
- With, ‘Thee, the god-pleasing, I take for Indra, for the life of the sacrifice!’ (he takes the portion) for the Brāhmaṇāchaṁsin; for in verses to Indra praises are chanted for this (libation); and verses to Indra are afterwards recited as a śastra, and offering is made with a verse to Indra.
१४
विश्वास-प्रस्तुतिः
(ती) इन्द्राग्नि᳘भ्यां त्वा॥
देवा᳘व्यं[[!!]] यज्ञस्या᳘युषे गृह्णामी᳘त्ये᳘वाच्छावाका᳘यैन्द्राग्नी᳘षु हि त᳘स्मै स्तुव᳘त ऽऐन्द्राग्नी᳘रनुश᳘ᳫँ᳘सत्यैन्द्राग्न्या य᳘जती᳘न्द्राय[[!!]] त्वे᳘त्येव मा᳘ध्यन्दिने स᳘वन ऽऐन्द्रᳫँ᳭हि मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥
मूलम् - श्रीधरादि
(ती) इन्द्राग्नि᳘भ्यां त्वा॥
देवा᳘व्यं[[!!]] यज्ञस्या᳘युषे गृह्णामी᳘त्ये᳘वाच्छावाका᳘यैन्द्राग्नी᳘षु हि त᳘स्मै स्तुव᳘त ऽऐन्द्राग्नी᳘रनुश᳘ᳫँ᳘सत्यैन्द्राग्न्या य᳘जती᳘न्द्राय[[!!]] त्वे᳘त्येव मा᳘ध्यन्दिने स᳘वन ऽऐन्द्रᳫँ᳭हि मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥
मूलम् - Weber
इन्द्राग्नि᳘भ्यां त्वा॥
देवाव्यं᳘ यज्ञस्या᳘युषे गृह्णामी᳘त्येॗवाछावाकाॗयैन्द्राग्नी᳘षु हि त᳘स्मै स्तुव᳘त ऐन्द्राग्नी᳘रनुश᳘ᳫं᳘सत्यैन्द्राग्न्या य᳘जती᳘न्द्रायॗ त्वेत्येव मा᳘ध्यन्दिने स᳘वन ऐन्द्रᳫं हि मा᳘ध्यन्दिनᳫं स᳘वनम्॥
मूलम् - विस्वरम्
“इन्द्रग्निभ्यां 15 **त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि”- (वा. सं. ७ । २३) इत्येवाच्छावाकाय । ऐन्द्राग्नीषु हि तस्मै स्तुवते । ऐन्द्राग्नीरनुशंसति । ऐन्द्राग्न्या यजति । इन्द्राय त्वा इत्येव माध्यन्दिने सवने । ऐन्द्रं हि माध्यन्दिनं सवनम् ॥ १४ ॥
सायणः
ऐन्द्राग्नीषु हि इत्यादि, “इन्द्राग्नी आगतं सुतम्” (वा. सं. ७ । ३१)- इत्यादय ऐन्द्राग्न्य ऋचः । ऐन्द्राग्नी इति । ता एव एन्द्राग्न्येति । ‘इन्द्राग्नी आगतम्’ इत्यनयैवेत्यर्थः प्रसङ्गान्माध्यन्दिनसवने ऽपि उक्थ्यविग्रहाणां मन्त्रं तत्रोपपत्तिं चाह- इन्द्राय त्वेत्यादि । ऐन्द्रं हि इति । ‘माध्यन्दिनं’ ‘सवनं’ केवलम् ‘ऐन्द्रम्’ इन्द्रदेवत्यमेव खलु । तथा च दाशतय्यां कश्चिन्मन्त्र आम्नायते- “प्रातःसुतमपिबोहर्यश्व माध्यन्दिनं सदनं केवलं ते” (ऋ. सं. ३ । ७ । ६) इति । अत उक्थ्यपर्यायत्रये ऽपि “इन्द्राय” इत्येव विगृह्णीयादित्यर्थः ॥ १४ ॥
Eggeling
- With, ‘Thee, the god-pleasing, I take for Indra and Agni, for the life of the sacrifice!’ (he takes the portion) for the Achāvāka; for in verses to Indra and Agni praises are chanted for this (libation); and verses to Indra and Agni are afterwards recited as a śastra, and offering is made
with a verse to Indra and Agni. With, ‘Thee . . . . for Indra,’ he performs at the midday feast, for the midday feast is sacred to Indra.
१५
विश्वास-प्रस्तुतिः
(न्त) त᳘दु ह च᳘रकाध्वर्यवो व्वि᳘गृह्णन्ति॥
(न्त्यु) उपयाम᳘गृहीतो ऽसि देवे᳘भ्यस्त्वा देवा᳘व्यमुक्थे᳘भ्य[[!!]] ऽउक्था᳘व्यं मित्राव᳘रुणाभ्यां जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निर्मित्राव᳘रुणाभ्यां त्वे᳘ति सादयति पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशति॥
मूलम् - श्रीधरादि
(न्त) त᳘दु ह च᳘रकाध्वर्यवो व्वि᳘गृह्णन्ति॥
(न्त्यु) उपयाम᳘गृहीतो ऽसि देवे᳘भ्यस्त्वा देवा᳘व्यमुक्थे᳘भ्य[[!!]] ऽउक्था᳘व्यं मित्राव᳘रुणाभ्यां जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निर्मित्राव᳘रुणाभ्यां त्वे᳘ति सादयति पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशति॥
मूलम् - Weber
त᳘दु ह च᳘रकाध्वर्यवो वि᳘गृह्णन्ति॥
उपयाम᳘गृहीतो ऽसि देवे᳘भ्यस्त्वा देवाव्य᳘मुक्थे᳘भ्य उक्थाव्यम् मित्राव᳘रुणाभ्यां जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निर्मित्राव᳘रुणाभ्यां त्वे᳘ति सादयति पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशति॥
मूलम् - विस्वरम्
तदु ह चरकाध्वर्यवो विगृह्णन्ति- “उपयामगृहीतो ऽसि 15 देवेभ्यस्त्वा देवाव्ययम् । उक्थेभ्य उक्थाव्यम् । मित्रावरुणाभ्यां जुष्टं गृह्णाम्येष ते योनिर्मित्रावरुणाभ्यां त्वा”- इति सादयति । “पुनर्हविरसि”- इति स्थालीमभिमृशति ॥ १५ ॥
सायणः
उक्ते उक्थपर्यायाणां त्रये शाखान्तरमतं निरसितुमुपन्यस्यति- तदु हेत्यादिना तूष्णीं तृतीयं निदधाति इत्यन्तेन 15 । ‘तत्’ तस्मिन् उक्थ्यविग्रहे ‘चरकाध्वर्यवः’ चरकशाखाध्यायिनो ऽध्वर्यवः वक्ष्यमाणेन प्रकारेण ‘विगृह्णन्ति’ विभज्य गृह्णन्ति । मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकसम्बन्धिनामुक्थ्यविग्रहाणाम् “उपयामगृहीतो ऽसि”- इत्यादिना क्रमेण विग्रहणादि प्रार्थ्यते । तृतीये पर्याये “पुनर्हविरसि” इति ‘स्थालीं’ नाभिमृशेत् । माध्यन्दिनसवनस्यैन्द्रदेवत्यत्वात् । तत्र ‘इन्द्राय’ इत्येव विगृह्णीयात् । यतो ऽध्वर्युः प्रातः सवने प्रथमद्वितीययोः द्विःस्थालीयभिमृशति । तृतीयपर्याये तूष्णीं स्थालीमनभिमृश्यैव ग्रहं निदधाति, अतो ऽत्रापि माध्यन्दिने सवने तथैव कुर्यादित्यर्थः ॥ १५-१७ ॥
Eggeling
- Now the Carakādhvaryus 16 divide (the Ukthya libation into three portions), with ‘Thou art taken with a support: thee, the god-pleasing, I take for the gods; (thee) the praise-pleasing, for praises, agreeable to Mitra and Varuṇa!’–with ‘This is thy womb: thee to Mitra and Varuṇa!’ he (the Carakādhvaryu) deposits it; and with ‘Thou art a re-offering’ he touches the sthālī.
१६
विश्वास-प्रस्तुतिः
(त्यु) उपयाम᳘गृहीतो ऽसि॥
देवे᳘भ्यस्त्वा देवा᳘व्यमुक्थे᳘भ्य ऽउक्था᳘व्यमि᳘न्द्राय[[!!]] जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वे᳘ति सादयति पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशति॥
मूलम् - श्रीधरादि
(त्यु) उपयाम᳘गृहीतो ऽसि॥
देवे᳘भ्यस्त्वा देवा᳘व्यमुक्थे᳘भ्य ऽउक्था᳘व्यमि᳘न्द्राय[[!!]] जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वे᳘ति सादयति पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशति॥
मूलम् - Weber
उपयाम᳘गृहीतो ऽसि॥
देवे᳘भ्यस्त्वा देवाव्य᳘मुक्थे᳘भ्य उक्थाव्य᳘मि᳘न्द्राय जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वे᳘ति सादयति पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशति॥
मूलम् - विस्वरम्
“उपयामगृहीतो ऽसि देवेभ्यस्त्वा देवाव्यम् । उक्थेभ्य उक्थाव्यम् । इन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा”- इति सादयति । “पुनर्हविरसि”- इति स्थालीमभिमृशति ॥ १६ ॥
सायणः
[व्याख्यानं पञ्चदशे]
Eggeling
- ‘Thou art taken with a support: thee, the god-pleasing. I take for the gods; (thee) the praise-pleasing, for praises,–agreeable to Indra!–This is thy womb: thee to Indra!’ thus he deposits it; and with ‘Thou art a re-offering’ he touches the sthālī.
१७
विश्वास-प्रस्तुतिः
(त्यु) उपयाम᳘गृहीतो ऽसि॥
देवे᳘भ्यस्त्वा देवा᳘व्यमुक्थे᳘भ्य ऽउक्था᳘व्यमिन्द्राग्नि᳘भ्यां[[!!]] जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरिन्द्राग्नि᳘भ्यां त्वे᳘ति सादयति ना᳘त्र पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशती᳘न्द्राय त्वे᳘न्द्राय त्वे᳘त्येव मा᳘ध्यन्दिने स᳘वन ऽऐन्द्रᳫँ᳭ हि मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं द्वि᳘र्ह पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशति तूष्णीं᳘ तृती᳘यं नि᳘दधाति॥
मूलम् - श्रीधरादि
(त्यु) उपयाम᳘गृहीतो ऽसि॥
देवे᳘भ्यस्त्वा देवा᳘व्यमुक्थे᳘भ्य ऽउक्था᳘व्यमिन्द्राग्नि᳘भ्यां[[!!]] जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरिन्द्राग्नि᳘भ्यां त्वे᳘ति सादयति ना᳘त्र पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशती᳘न्द्राय त्वे᳘न्द्राय त्वे᳘त्येव मा᳘ध्यन्दिने स᳘वन ऽऐन्द्रᳫँ᳭ हि मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं द्वि᳘र्ह पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशति तूष्णीं᳘ तृती᳘यं नि᳘दधाति॥
मूलम् - Weber
उपयाम᳘गृहीतो ऽसि॥
देवे᳘भ्यस्त्वा देवाव्य᳘मुक्थे᳘भ्य उक्थाव्य᳘मिन्द्राग्नि᳘भ्यां जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरिन्द्राग्नि᳘भ्यां त्वे᳘ति सादयति ना᳘त्र पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशतीन्द्राय त्वे᳘न्द्राय त्वे᳘त्येव मा᳘ध्यन्दिने स᳘वन ऐन्द्रᳫं हि मा᳘ध्यन्दिनᳫं स᳘वनं द्वि᳘र्ह पु᳘नर्हविरसी᳘ति स्थाली᳘मभि᳘मृशति तूष्णीं᳘ तृती᳘यं नि᳘दधाति॥
मूलम् - विस्वरम्
“उपयामगृहीतो ऽसि देवेभ्यस्त्वा देवाव्यम् । उक्थेभ्य ऽउक्थाव्यम् । इन्द्राग्निभ्यां जुष्टं गृह्णाम्येष ते योनिरिन्द्राग्निभ्यां त्वा”- इति सादयति । नात्र पुनर्हविरसि इति स्थालीमभिमृशति । “इन्द्राय त्वेन्द्राय त्वेत्येव माध्यन्दिने सवने । ऐन्द्रं हि माध्यन्दिनं सवनम् ।” द्विर्हि पुनर्हविरसीति स्थालीमभिमृशति । तुष्णीं तृतीयं निदधाति ॥ १७ ॥
सायणः
[व्याख्यानं पञ्चदशे]
Eggeling
- ‘Thou art taken with a support: thee, the god-pleasing, I take for the gods; (thee) the praise-pleasing, for praises,–agreeable to Indra and Agni!–This is thy womb: thee for Indra and Agni!’ thus he deposits it. He does not at this (third portion) touch the sthālī with ‘Thou art a re-offering.’ ‘. . . . Thee for Indra!’ he says each time at the midday feast, for the midday feast is sacred to Indra.
Twice he touches the sthālī with ‘Thou art a re-offering;’ and silently he puts it down the third time.
१८
विश्वास-प्रस्तुतिः
तं वै᳘ नोपयामे᳘न गृह्णीयात्॥
(न्न) न यो᳘नौ साद᳘येद᳘ग्रे᳘ ह्ये᳘वैष᳘ ऽउपयामे᳘न गृहीतो भ᳘वत्य᳘ग्रे यो᳘नौ सन्नो᳘ ऽजामि᳘तायै जामि[[!!]] ह कुर्याद्य᳘देनमत्रा᳘प्युपयामे᳘न गृह्णीयाद्यद्यो᳘नौ साद᳘येद᳘थ यत्पु᳘नर्हविरसी᳘ति स्थाली᳘मभिमृश᳘ति पु᳘न᳘र्ह्यस्यै[[!!]] ग्रहं[[!!]] ग्रहीष्यन्भ᳘वति न तदा᳘द्रियेत तूष्णी᳘मेव नि᳘दध्यात्॥
मूलम् - श्रीधरादि
तं वै᳘ नोपयामे᳘न गृह्णीयात्॥
(न्न) न यो᳘नौ साद᳘येद᳘ग्रे᳘ ह्ये᳘वैष᳘ ऽउपयामे᳘न गृहीतो भ᳘वत्य᳘ग्रे यो᳘नौ सन्नो᳘ ऽजामि᳘तायै जामि[[!!]] ह कुर्याद्य᳘देनमत्रा᳘प्युपयामे᳘न गृह्णीयाद्यद्यो᳘नौ साद᳘येद᳘थ यत्पु᳘नर्हविरसी᳘ति स्थाली᳘मभिमृश᳘ति पु᳘न᳘र्ह्यस्यै[[!!]] ग्रहं[[!!]] ग्रहीष्यन्भ᳘वति न तदा᳘द्रियेत तूष्णी᳘मेव नि᳘दध्यात्॥
मूलम् - Weber
तं वैॗ नोपयामे᳘न गृह्णीयात्॥
न यो᳘नौ सादयेद᳘ग्रेॗ ह्येॗवैष᳘ उपयामे᳘न गृहीतो भ᳘वत्य᳘ग्रे यो᳘नौ सन्नो᳘ जामितायै जामि᳘ ह कुर्याद्य᳘देनमत्रा᳘प्युपयामे᳘न गृह्णीयाद्यद्यो᳘नौ साद᳘येद᳘थ यत्पु᳘नर्हविरसी᳘ति स्थाली᳘मभिमृश᳘ति पु᳘नर्ह्य᳘स्यै ग्र᳘हं ग्रहीष्यन्भ᳘वति न तदा᳘द्रियेत तूष्णी᳘मेव नि᳘दध्यात्॥
मूलम् - विस्वरम्
तं वै नोपयामेन गृह्णीयात् । न योनौ सादयेत् । अग्रे ह्येष उपयामेन गृहीतो भवति, अग्रे योनी सन्नः । अजामितायै । जामि ह कुर्याद्- यदेनमत्राप्युपयामेन गृह्णीयात् । यद्योनौ सादयेत् । अथ यत्पुनर्हविरसीति स्थालीमभिमृशति पुनर्ह्यस्यै ग्रहं ग्रहीष्यन्भवति । न तदाद्रियेत । तूष्णीमेव निदध्यात् ॥ १८ ॥
सायणः
उपन्यस्तं शाखान्तरमतं निरस्यसि- तं वै नेत्यादि । ‘तम्’ एतमुक्थ्यविग्रहम् ‘उपयामेन’ “उपयाम गृहीतो ऽसि”- इत्येतदुच्चार्य- ‘न’ ‘गृह्णीयात्’ । “एष ते योनिः” इत्यनेन खरे सादनं योनौ सादनं तदपि ‘न’ कुर्यात् । ‘हि’ यस्मात् ‘अग्रे’ पूर्व ग्रहग्रहणसमय एव ‘एष’ ग्रहः उपयामशब्दोच्चारणेन ‘गृहीतः’ । “एष ते योनिः” इत्यादिना च खरे सादितः, अतो ऽत्र न तदुच्चारणं कुर्यात्, एवञ्चैतत् तथाकरणम् ‘अजामितायै’ अनालस्याय भवति । आलस्यप्रसक्तिं दर्शयति- यदेनमित्यादि । “उपयामगृहीतो ऽसि”- “एष ते योनिः” इत्यनयोर्ग्रहणसमये प्रयुक्तत्वात्, अत्रापि पुनस्तयोरुच्चारणं विशेषाभावादालस्याय कल्पत इत्यर्थः । चरकाध्वर्यूणां मते ‘पुनर्हविरसि’ (मैत्रा. सं.) इत्ययं मन्त्र उक्थ्यस्थाल्यभिमर्शने विनियुज्यत इत्युक्तम् । तन्मन्त्रेण स्थाल्या अभिमर्शने तेषामुपपत्तिमाह- अथ यत्पुनरित्यादि । ‘अस्यै’ ‘स्थाल्यै’ स्थाल्याः सकाशाद् ‘ग्रहं’ ‘ग्रहीष्यन्’ ‘भवति’ यतः, अतः ‘पुनर्हविरसि’ इति ‘स्थालीम्’ अभिमृशेत् । ‘अस्यै’ इति षष्ठ्यर्थे चतुर्थी (पा० सू० २ । ३ । ६२ । वा १०) तदेतन्निराकरोति- न तदाद्रियेतेति । ‘तूष्णीं’ स्थालीं मन्त्रेणानभिमृश्यैव ग्रहं ‘निदध्यात्’ ‘पुनर्हविरसि’ इति स्थालीमभिमृशतामयमाशयः- एकस्मिन् पर्याये गृहीतस्यैव हविष्ट्वम्, स्थालीगतस्तु सोमरसो न हविष्ट्वयोग्यः किन्तु प्रतिपत्त्यर्हः, अवशिष्टत्वात् इति शङ्का स्यात्, न तदर्थं प्रयतितव्यम् । ग्रहणकाले ग्रहस्य सम्पूर्णगृहीतत्वात् सर्वस्यापि हविष्ट्वसिद्धौ पश्चाद्विभज्य ग्रहणे ऽप्यहविष्ट्वशङ्का न सम्भाव्यत इति । तत् समन्त्रकमभिमर्शनं नाद्रियेतेति ब्राह्मणस्याभिप्रायः । अत एव कात्यायनेन स्थाल्यभिमर्शनं न सूत्रितम् ॥ १८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे द्वितीयाध्याये तृतीयं ब्राह्मणम् ॥ ४-२-३ ॥
Eggeling
- But, in order to avoid sameness (of performance), let him not take it out with the ‘support;’ nor let him deposit it in the ‘womb;’ for this (Ukthya
libation) has at first been taken with the ‘support,’ and it has at first been deposited in the womb;–and were he now also to take it with the ‘support,’ and deposit it in the ‘womb,’ he would assuredly commit (the fault of) sameness. And as to his touching the sthālī with ‘Thou art a re-offering,’ he will indeed again take a libation therefrom. Let him not heed this, but let him put down (the vessel) silently.
-
292:2 We ought doubtless, with the Kāṇva text, to read ‘prāṇaḥ’ instead of ‘ātmā.’ ↩︎
-
293:1 See IV, 2, 4, 1 seq. ↩︎
-
293:2 At the end of the morning feast the Soma in the Ukthya bowl (sthālī) is poured into the Ukthya cup (pātra) in three portions; and part of each having been offered, the remaining juice is drunk by the Hotr̥’s assistants, viz. the Praśāstr̥, Brāhmaṇāchaṁsin, and Achāvaka. Each of these potations is preceded by the chanting of an ājya-stotra, and the recitation of the ājya-śastra (see next page, note 2). But before the portion of the last-named priest is poured into his cup (camasa), fresh Soma-plants are taken down from the cart for the midday pressing; one half of the remaining Vasatīvarī water (or one third of the original quantity) being also poured into the Ādhavanīya trough. See III, 9, 2, 3. ↩︎
-
“विश्वेदेवा मरुत इन्द्रो अस्मानास्मिन्द्वितीये सवने न ज रायुष्मन्तः प्रियमेषां वदन्तो वयं देवानाँ सुमतौ त्वामेति” सूत्रशेषः ॥ ↩︎
-
294:1 That is to say, the last (thing) of the first of the last two pressings, or of the midday pressing. ↩︎
-
294:2 Uktha, lit. ‘recitation,’ is the old term for ‘sastra’ (IV, 3, 2, 1 seq.). Regarding the three śastras of the Hotrakas, for the recitation of which the Ukthya graha is divided between those priests, see notes on IV, 3, 1, 25; 3, 3, 19. ↩︎
-
भ्यर्द्ध᳘ AB ↩︎
-
294:3 The Kāṇva text reads thrice ‘abhyardhe.’ Regarding the puroruc formulas see p. 268, note 1. ↩︎
-
उक्थ्यमुपयामगृहीत इति । का. श्रौ. सू. ९-१४४ । ↩︎
-
295:1 See p. 256, note 1. ↩︎
-
295:2 That is, he pours, for each of the three assistant priests, his respective portion into the Ukthya-pātra. This distribution does not however take place till the end of the morning performance; see note to IV, 2, 2, 4; 3, 1, 25. ↩︎
-
296:1 Or, the god-prospering (i.e. the one prospering the gods), devāvī. ↩︎
-
296:2 Praśāsanaṁ kuryāt. The same phrase occurs I, 9, I, 24, where I translated ‘will ensure dominion,’–probably wrongly, though I am by no means sure of the correct meaning. Sāyaṇa there seems to take it in the sense of ‘he bids (the gods grant his request), thus having chiefly his own interest in view’–‘praśāsyante ’to devāḥ prārthyamānā iti praśāsanam parushaṁ syāt sākshāt svārthaparatvaṁ kuryād ity arthaḥ.’ The Kāṇva text reads, ’let him not divide (the libation) with this (formula), for he who divides it thus–praśāsanaṁ kuryāt.’ Perhaps he means to say, that by using that formula one would put oneself above the gods. At I, 9, 1, 14 ‘one would give orders (to the gods)’ is probably the right translation. ↩︎
-
मित्रावरुणाभ्यां त्वेति वा प्रशास्त्रे का. श्रौ. सू. ९ । ३११ । ↩︎
-
इन्द्रावरुणाभ्यां त्वेत्यादि, इन्द्राबृहस्पतिभ्यां त्वेत्यादि, इन्द्राविष्णुभ्यां त्वेत्यादि च मन्त्रत्रयमधिकं संहितायाम् । ↩︎ ↩︎ ↩︎
-
297:1 Such is the rule (sthiti); but the Karakādhvaryus divide it in this way.’ Kāṇva text. The formulas of the Taitt. S. I, 4, 12, and Maitrāy. S. I, 3, 14, differ from the above; perhaps the Kāṭḥaka is referred to; see v. Schroeder, M. S. I, p. 36, note 3. ↩︎