०१

विश्वास-प्रस्तुतिः

आत्मा᳘ ह वा᳘ ऽअस्याग्रयणः᳘॥
सो ऽस्यैष स᳘र्व्वमेव स᳘र्व्वᳫँ᳭ ह्यय᳘मात्मा[[!!]] त᳘स्मादन᳘या गृह्णात्यस्यै हि᳘ स्थाली भ᳘वति स्थाल्या᳘ ह्येनं गृह्णा᳘ति स᳘र्व्वं वा᳘ ऽइयᳫँ᳭ स᳘र्व्वमेष ग्र᳘हस्त᳘स्मादन᳘या गृह्णाति॥

मूलम् - श्रीधरादि

आत्मा᳘ ह वा᳘ ऽअस्याग्रयणः᳘॥
सो ऽस्यैष स᳘र्व्वमेव स᳘र्व्वᳫँ᳭ ह्यय᳘मात्मा[[!!]] त᳘स्मादन᳘या गृह्णात्यस्यै हि᳘ स्थाली भ᳘वति स्थाल्या᳘ ह्येनं गृह्णा᳘ति स᳘र्व्वं वा᳘ ऽइयᳫँ᳭ स᳘र्व्वमेष ग्र᳘हस्त᳘स्मादन᳘या गृह्णाति॥

मूलम् - Weber

आत्मा᳘ ह वा᳘ अस्याग्रयणः᳟᳟॥
सो ऽस्यैष स᳘र्वमेव स᳘र्वᳫं ह्य᳘य᳘मात्मा त᳘स्मादन᳘या गृह्णात्यस्यै हि᳘ स्थाली भ᳘वति स्थाल्याॗ ह्येनं गृह्णा᳘ति स᳘र्वं वा᳘ इयᳫं स᳘र्वमेष ग्र᳘हस्त᳘स्मादन᳘या गृह्णाति॥

मूलम् - विस्वरम्

आग्नयणग्रहः ।

आत्मा ह वा ऽअस्याग्रयणः । सो ऽस्यैष सर्वमेव । सर्वं ह्ययमात्मा । तस्मादनया गृह्णाति । अस्यै हि स्थाली भवति । स्थाल्या ह्येनं गृह्णाति । सर्वं वा ऽइयम्, सर्वमेष ग्रहः- तस्मादनया गृह्णाति ॥ १ ॥

सायणः

गतेषु ब्राह्मणेषु उपांश्वादयो ग्रहाः प्राणाद्यात्मकत्वेन विहिताः । अत्र तेषां प्राणादीनामाश्रयो यो मध्यदेहस्तदात्मना विधास्यमानमाग्रयणं स्तौति- आत्मा ह वा इत्यादि । ‘आग्रयणः’ अस्य प्रजापतेर्मध्यदेहः तदुत्पत्तिस्तैत्तिरीयके श्रूयते- “आत्मन आग्रयणम्" (तै. शा. १ । ५ । ४) इति । प्रजापतिरिति यज्ञ एव, “यज्ञो वै प्रजापतिः” (तै. ब्रा. १ । ३ । १०) इति श्रुतेः । अतो ऽस्य यज्ञस्याग्रयणः ‘आत्मा ह वै’ मध्यदेह इति प्रसिद्ध इत्यर्थः । अत उक्तेनात्मना ऽस्य ग्रहस्य लब्धं सर्वत्वमाह- सोस्यैष इत्यादि । यस्मात् ‘अयं’ दृश्यमानो लौकिकानां मध्यदेहः । ‘आत्मा’ ‘सर्वं’ शरीरम्, अतस्तदात्मक एष आग्रयणो ऽपि यज्ञस्य यजमानस्य वा सर्वं शरीरम् । उक्तं सर्वत्वमुपजीव्य पृथिव्या ग्रहस्य ग्रहणं विधत्ते- तस्मादित्यादि । ‘अनया’ इति पृथिव्येत्यर्थः । ननु पृथिव्या ग्रहस्य ग्रहणं न सम्भवति, अशक्यत्वादेतदनुपपन्नमित्याह- अस्यै हीत्यादि । अस्या इति षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ । वा. १ ।) अस्याः पृथिव्याः सकाशात् ‘स्थाली’ ‘भवति’ उत्पद्यते । अतस्तादृश्या स्थाल्या ग्रहस्य ग्रहणे पृथिव्यैव ग्रहणं भवति । ग्रहस्य पृथिव्या ग्रहणे तदीयं सर्वत्वकारणमुक्तम्, तत् कथमिति तदाह- सर्वं वा इयमित्यादि । ‘इयं’ पृथिवी ‘सर्वं’ सर्वाश्रयभूता ‘एषः’ आग्रयणग्रहश्च मध्यदेहात्मत्वेन सर्वेषामङ्गानामाश्रयः । अतस्तस्य तया ग्रहणमुपपद्यत इत्यर्थः ॥ १ ॥

Eggeling
  1. The Āgrayaṇa graha, forsooth, is his self (body, trunk), and as such it is his all; for this self is one’s all. Therefore he draws it by means of this (earth), for of her is the bowl 1, and with a bowl he draws this (libation); and this (earth) is all, as this

graha is all: hence he takes it by means of this (earth).

०२

विश्वास-प्रस्तुतिः

पूर्णं᳘ गृह्णाति॥
स᳘र्व्वं वै᳘ पूर्णᳫँ᳭ स᳘र्व्वमेष ग्र᳘हस्त᳘स्मात्पूर्णं᳘ गृह्णाति॥

मूलम् - श्रीधरादि

पूर्णं᳘ गृह्णाति॥
स᳘र्व्वं वै᳘ पूर्णᳫँ᳭ स᳘र्व्वमेष ग्र᳘हस्त᳘स्मात्पूर्णं᳘ गृह्णाति॥

मूलम् - Weber

पूर्णं᳘ गृह्णाति॥
स᳘र्वं वै᳘ पूर्णᳫं स᳘र्वमेष ग्र᳘हस्त᳘स्मात्पूर्णं गृह्णाति॥

मूलम् - विस्वरम्

पूर्णं गृह्णाति । सर्वं वै पूर्णम्, सर्वमेष ग्रहः । तस्मात्पूर्णं गृह्णाति ॥ २ ॥

सायणः

विहितं ग्रहणमनूद्य तस्य ग्रहणस्य भूयिष्ठत्वं सोपपत्तिकं विधत्ते- पूर्णं गृह्णातीति । ग्रहं ‘पूर्णं’ पात्रान्तराले यथा किञ्चिदप्यवकाशो न सम्भवति तथा गृह्णीयात् । लोके यत् किञ्चित् पूर्णं तत् सर्वं कृत्स्नं भवति यतः, अतो ऽस्य सर्वशरीरत्वादिमं ग्रहं पूर्णं गृह्णीयात् ॥ २ ॥

Eggeling
  1. He draws it full; for the ‘full’ means all, and this graha is all: therefore he draws it full.

०३

विश्वास-प्रस्तुतिः

व्वि᳘श्वेभ्यो देवे᳘भ्यो गृह्णाति॥
स᳘र्व्वं वै वि᳘श्वे देवाः स᳘र्व्वमेष ग्र᳘हस्त᳘स्माद्वि᳘श्वेभ्यो देवे᳘भ्यो गृह्णाति॥

मूलम् - श्रीधरादि

व्वि᳘श्वेभ्यो देवे᳘भ्यो गृह्णाति॥
स᳘र्व्वं वै वि᳘श्वे देवाः स᳘र्व्वमेष ग्र᳘हस्त᳘स्माद्वि᳘श्वेभ्यो देवे᳘भ्यो गृह्णाति॥

मूलम् - Weber

वि᳘श्वेभ्यो देवे᳘भ्यो गृह्णाति॥
स᳘र्वं वै वि᳘श्वे देवाः स᳘र्वमेष ग्र᳘हस्त᳘स्माद्वि᳘श्वेभ्यो देवे᳘भ्यो गृह्णाति॥

मूलम् - विस्वरम्

विश्वेभ्यो देवेभ्यो गृह्णाति । सर्वं वै विश्वेदेवाः, सर्वमेष ग्रहः । तस्माद् विश्वेभ्यो देवेभ्यो गृह्णाति ॥ ३ ॥

सायणः

विहिते ग्रहणे देवतासम्बन्धं दर्शयति- विश्वेभ्यो देवेभ्य इत्यादि । सर्वं वै विश्वेदेवा इत्यादि । विश्वेदेवाः इति काश्चन देवतास्ताः सर्वदेवताः स्तासां सर्वदेवतात्मकत्वं विश्वेदेवा इत्येतन्नामधेयेनैवावगम्यते । तत्र सर्वशब्दार्थस्य विश्वशब्दस्य सद्भावेन साधारण्यावगमात् । न ह्यग्न्यादयः शब्दाः तथा साधारणानि नामधेयानि । तस्माद्विश्वेदेवाः सर्वदेवात्मका इत्यर्थः ॥ ३ ॥

Eggeling

3: He draws it for the All-gods; for the All-gods are all, and this graha is all: therefore he draws it for the All-gods.

०४

विश्वास-प्रस्तुतिः

स᳘र्व्वेषु स᳘वनेषु गृह्णाति॥
स᳘र्व्वं वै स᳘वनानि स᳘र्व्वमेष ग्र᳘हस्त᳘स्मात्स᳘र्व्वेषु स᳘वनेषु गृह्णाति॥

मूलम् - श्रीधरादि

स᳘र्व्वेषु स᳘वनेषु गृह्णाति॥
स᳘र्व्वं वै स᳘वनानि स᳘र्व्वमेष ग्र᳘हस्त᳘स्मात्स᳘र्व्वेषु स᳘वनेषु गृह्णाति॥

मूलम् - Weber

स᳘र्वेषु स᳘वनेषु गृह्णाति॥
स᳘र्वं वै स᳘वनानि स᳘र्वमेष ग्र᳘हस्त᳘स्मात्स᳘र्वेषु स᳘वनेषु गृह्णाति॥

मूलम् - विस्वरम्

सर्वेषु सवनेषु गृह्णाति । सर्वं वै सवनानि । सर्वमेष ग्रहः । तस्मात्सर्वेषु सवनेषु गृह्णाति ॥ ४ ॥

सायणः

उक्तमेव सर्वत्वमवलम्ब्य ग्रहस्य सवनत्रये ऽपि ग्रहणमाह- सर्वेषु सवनेष्वित्यादि । सर्वं वै सवनानीति । प्रातःसवनादीनि त्रीणि सवनानि ‘सर्वं’ यज्ञस्य सकलं शरीरमित्यर्थः ॥ ४ ॥

Eggeling
  1. He draws it at all (three) Soma feasts; for the (three) feasts mean all, and this graha is all: therefore he draws it at all the feasts.

०५

विश्वास-प्रस्तुतिः

स य᳘दि रा᳘जोपद᳘स्येत्॥
(त्त) तम᳘त ऽएव᳘ तन्वीरन्न᳘तः प्र᳘भावयेयुरात्मा वा᳘ ऽआग्रयण᳘ ऽआत्म᳘नो वा᳘ ऽइमा᳘नि स᳘र्व्वाण्य᳘ङ्गानि प्र᳘भवन्त्येत᳘स्मादन्ततो᳘ हारियोजनं ग्र᳘हं गृह्णाति त᳘दात्म᳘न्ये᳘वास्यां᳘ प्रतिष्ठा᳘यामन्ततो᳘ यज्ञः प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

स य᳘दि रा᳘जोपद᳘स्येत्॥
(त्त) तम᳘त ऽएव᳘ तन्वीरन्न᳘तः प्र᳘भावयेयुरात्मा वा᳘ ऽआग्रयण᳘ ऽआत्म᳘नो वा᳘ ऽइमा᳘नि स᳘र्व्वाण्य᳘ङ्गानि प्र᳘भवन्त्येत᳘स्मादन्ततो᳘ हारियोजनं ग्र᳘हं गृह्णाति त᳘दात्म᳘न्ये᳘वास्यां᳘ प्रतिष्ठा᳘यामन्ततो᳘ यज्ञः प्र᳘तितिष्ठति॥

मूलम् - Weber

स य᳘दि रा᳘जोपद᳘स्येत्॥
तम᳘त एव᳘ तन्वीरन्न᳘तः प्र᳘भावयेयुरात्मा वा᳘ आग्रयण᳘ आत्मनो वा इमा᳘नि स᳘र्वाण्य᳘ङ्गानि प्र᳘भवन्त्येत᳘स्मादन्ततो᳘ हारियोजनं ग्र᳘हं गृह्णाति त᳘दात्म᳘न्येॗवास्या᳘म् प्रतिष्ठा᳘यामन्ततो᳘ यज्ञः प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

स यदि राजोपदस्येत्- तमत एव तन्वीरन्, अतः प्रभावयेयुः । आत्मा वा ऽआग्रयणः । आत्मनो वा ऽइमानि सर्वाण्यङ्गानि प्रभवन्ति । एतस्मादन्ततो हारियोजनं ग्रहं गृह्णाति । तदात्मन्येवास्यां प्रतिष्ठायामन्ततो यज्ञः प्रतितिष्ठति ॥ ५ ॥

सायणः

पात्रान्तरगतस्य सोमरसस्य क्षये अस्मादेव ग्रहात्तं समर्थयेदित्याह- स यदीत्यादि । ‘तन्वीरन्’ विस्तारयेयुः समर्द्धयेयुरध्वर्यवः । अतः प्रभावयेयुरिति । अतः अस्माद्ग्रहात् पुनरुत्पादयेयुः । ‘आत्मा वा’ इत्यादिनोक्तस्यार्थस्योपपत्तिः प्रदर्श्यते- ‘आत्मनो’ मध्यदेहाद्धि ‘सर्वाणीमानि’ करचरणादीनि ‘अङ्गानि’ ‘प्रभवन्ति’ उत्पद्यन्ते । “भुवः प्रभवः”- (पा. सू. १ । ४ । ३१) । इत्यपादानसंज्ञायाम् “अपादाने पञ्चमी” (पा. सू. २ । ४ । २८) अतस्तदात्मकानां सोमानामुत्पादनमुपपन्नम् । सवनत्रयपरिसमाप्त्यनन्तरम् अस्माद् ग्रहाद्धारियोजनं गृह्णीयादित्याह- एतस्मादित्यादि । तदात्मन्येवेति । ‘तत्’ तेन ग्रहणेन ‘आत्मनि’ स्वकीयमध्यदेहलक्षणायां प्रतिष्ठायां ‘यज्ञः’ उपांशुग्रहादिरूपः प्रतिष्ठितो भवति । मध्यशरीरं हि सर्वेषामङ्गानां प्रतिष्ठा ॥ ५ ॥

Eggeling
  1. And if the king (Soma) become exhausted, they extend him from out of that (bowl), make him issue therefrom; for the Āgrayaṇa is the body, and from the body all these limbs issue. Therefrom they draw at the end the Hāriyojana cup 2: whereby the sacrifice is established at the end in this resting-place, the body (or its own self).

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘स्मादाग्रयणो ना᳘म॥
यां वा᳘ ऽअमूं ग्रा᳘वाणमाद᳘दानो व्वा᳘चं य᳘च्छत्य᳘त्र वै सा᳘ग्रे ऽवदत्तद्यत्सात्रा ऽग्रे᳘वदत्त᳘स्मादाग्रयणो ना᳘म॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘स्मादाग्रयणो ना᳘म॥
यां वा᳘ ऽअमूं ग्रा᳘वाणमाद᳘दानो व्वा᳘चं य᳘च्छत्य᳘त्र वै सा᳘ग्रे ऽवदत्तद्यत्सात्रा ऽग्रे᳘वदत्त᳘स्मादाग्रयणो ना᳘म॥

मूलम् - Weber

अ᳘थ य᳘स्मादाग्रयणो ना᳘म॥
यां वा᳘ अमूं ग्रा᳘वाणमाद᳘दानो वा᳘चं य᳘छत्य᳘त्र वै सा᳘ग्रे ऽवदत्तद्यत्सात्राग्रे᳘ ऽवदत्त᳘स्मादाग्रयणो ना᳘म॥

मूलम् - विस्वरम्

अथ यस्मादाग्रयणो नाम । यां वा ऽअमूं ग्रावाणमाददानो वाचं यच्छति- अत्र वै सा ऽग्रे ऽवदत् । तद् यत्सात्राग्रे ऽवदत् । तस्मादाग्रयणो नाम ॥ ६ ॥

सायणः

ग्रहस्याग्रयण इत्येतन्नामधेयं प्रश्नपूर्वकं निर्वक्ति- अथ यस्मादित्यादि । ‘यस्मात्’ शब्दप्रवृत्तिनिमित्तादाग्रयणशब्दो ग्रहस्य नामधेयं, तत् ‘अथ’ किमित्यर्थः । ‘अथ’- शब्दः प्रश्ने (अमर. ३ । ३ । २४६) यं ‘ग्रावाणम्’ उपांशुसवनाख्यम् । ‘आददानः’ यां वाचम् अयच्छत् । ‘सा’ वाक् ‘अत्र’ समये ‘अग्रे’ पुरस्तात् ‘अवदत्’ । अत्र वदतेर्गत्यर्थे पर्यवसानम्, ‘तस्मात्’ कारणात् अग्रे वाचः अयनम् अग्रयणम् । शकन्ध्वादित्वात् पररूपम् (पा. सू. १ । १ । ६४) । अग्रयणस्य सम्बन्धी आग्रयण इति ग्रहस्य नामधेयमित्यर्थः । आग्रयणशब्दस्य अग्रे वाच आगमनं प्रवृत्तिनिमित्तमितिप्रत्यक्षं तैत्तिरीयके श्रूयते- “सा ऽमन्यत वागन्तर्यन्ति वै मेति सा ऽऽग्रयणं प्रत्यागच्छत्तदाग्रयणस्याग्रयणत्वम्” (तै. सं. ६ । ४ । ११ । २) इति ॥ ६ ॥

Eggeling
  1. Then as to why it is called Āgrayaṇa. His speech which he restrains, on taking up that press-stone 3, spoke out again first at this (libation); and because it spoke out first (agre) at this (libation), therefore this is called the Āgrayaṇa 4.

०७

विश्वास-प्रस्तुतिः

र᳘क्षोभ्यो वै तां᳘ भीषा व्वा᳘चमयच्छन्॥
(न्ष) षड्वा ऽअ᳘तः प्रा᳘चो ग्र᳘हान्गृह्णात्य᳘थैष᳘ सप्तमः षड्वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य स᳘र्व्वं वै᳘ संव्वत्सरः[[!!]]॥

मूलम् - श्रीधरादि

र᳘क्षोभ्यो वै तां᳘ भीषा व्वा᳘चमयच्छन्॥
(न्ष) षड्वा ऽअ᳘तः प्रा᳘चो ग्र᳘हान्गृह्णात्य᳘थैष᳘ सप्तमः षड्वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य स᳘र्व्वं वै᳘ संव्वत्सरः[[!!]]॥

मूलम् - Weber

र᳘क्षोभ्यो वै ता᳘म् भीषा वा᳘चमयछन्॥
षड्वा अ᳘तः प्रा᳘चो ग्र᳘हान्गृह्णात्य᳘थैष᳘ सप्तमः षड्वा᳘ ऋत᳘वः संवत्सर᳘स्य स᳘र्वं वै᳘ संवत्सरः᳟॥

मूलम् - विस्वरम्

रक्षोभ्यो वै तां भीषा वाचमयच्छन् । षड् वा ऽअतः प्राचो ग्रहान् गृह्णाति । अथैष सप्तमः । षड् वा ऽऋतवः संवत्सरस्य । सर्वं वै संवत्सरः ॥ ७ ॥

सायणः

रक्षोभ्यो वा इत्यादिना वाग्यमनस्य हेतुरभिधीयते । भीषेति । ‘भीषा’ भयहेतुव्यापारेणेत्यर्थः । “ञि भी भये”- (धा. पा. जु. प. २) इत्यस्माण्णिचि (पा. सू. ३ । १ । २६) “भियो हेतुभये षुक्” (पा. सू. ७ । ३ । ४०) इति षुगागमे क्विपि (पा. सू. ३ । २ । ७६) रूपम् । यतो ग्रहस्याग्रयणनामधेयव्युत्पादने वाचो वचनं सिद्धवत्कृत्याभिहितम् । “अत्र वै साग्रे ऽवददत्” इति, अतस्तेनैवाध्वर्योराग्रयणे वाग्वदनं प्राप्तम् । तत्रानन्तरेण ग्रन्थेनोपपत्तिमाह- षड्वा अतः प्राच इत्यादि । सर्वं वै संवत्सर इत्यादि । सर्वो ऽपि कालः संवत्सरात्मक इति संवत्सरः ॥ ७ ॥

Eggeling
  1. It was from fear of the evil spirits that (the gods) restrained their speech. Previously to this he draws six grahas, and this is the seventh: for there are six seasons in the year, and the year is all.

०८

विश्वास-प्रस्तुतिः

(स्ता᳘) तां᳘ देवाः[[!!]]॥
स᳘र्व्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे ऽत्रा᳘ग्रे व्वा᳘चमवदंस्त᳘थो ऽए᳘वैष᳘ एताᳫँ᳭ स᳘र्व्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे ऽत्रा᳘ग्रे व्वा᳘चं व्वदति॥

मूलम् - श्रीधरादि

(स्ता᳘) तां᳘ देवाः[[!!]]॥
स᳘र्व्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे ऽत्रा᳘ग्रे व्वा᳘चमवदंस्त᳘थो ऽए᳘वैष᳘ एताᳫँ᳭ स᳘र्व्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे ऽत्रा᳘ग्रे व्वा᳘चं व्वदति॥

मूलम् - Weber

तां᳘ देवाः᳟॥
स᳘र्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे ऽत्रा᳘ग्रे वा᳘चमवदंस्त᳘थो एॗवैष᳘ एताᳫं स᳘र्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे ऽत्रा᳘ग्रे वा᳘चं वदति॥

मूलम् - विस्वरम्

तां देवाः सर्वस्मिन्विजिते ऽभये ऽनाष्ट्रे ऽत्राग्रे वाचमवदन्- तथो ऽएवैष एतां सर्वस्मिन्विजिते ऽभयेनाष्ट्रे ऽत्राग्रे वाचं वदति ॥ ८ ॥

सायणः

सर्वे ‘देवाः’ सर्वस्मिन् संवत्सरे ‘विजिते’ स्वायत्ते ‘अभये ऽनाष्ट्रे’ नाशयितृ रक्षःप्रभृति नाष्ट्रं तद्रहिते सति ‘अग्रे’ पुरस्तात् ‘तां’ ‘वाचमवदन्’ । अत ऋतुषट्करूपसंवत्सरात्मके ग्रहषट्के गृहीते सति सर्वं विजितमभयमनाष्ट्रं भवतीति तदनन्तरमाग्रयणग्रहे देवानुसारेणाध्वर्युः ‘एतां’ वाचमुदितवान्भवति, तस्मादाग्रयणग्रहे ऽध्वर्योर्वाग्वदनमुपपन्नमिति भावः ॥ ८ ॥

Eggeling
  1. And all being conquered and free from danger and injury 5, the gods now first uttered speech; and

in like manner does he first utter speech now that everything is conquered and free from danger and injury.

०९

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
ये᳘ देवासो[[!!]] दिव्ये᳘कादश स्थ᳘ पृथिव्यामध्ये᳘कादश स्थ᳘॥ अप्सुक्षि᳘तो महिनै᳘कादश स्थ ते᳘ देवासो[[!!]] यज्ञ᳘मिमं᳘ जुषध्वम्॥ उपयाम᳘गृहीतो ऽस्याग्रय᳘णो ऽसि[[!!]] स्वाग्रयण इ᳘ति व्वा᳘चमे᳘वैतद᳘यातयाम्नीं करोति त᳘स्मादन᳘या समान᳘ᳫँ᳘ स᳘द्विपर्या᳘सं व्व᳘दत्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘दाग्रय᳘णो ऽस्याग्रय᳘णो ऽसीति[[!!]] गृह्णीयात्त᳘स्मादाहाग्रय᳘णो ऽसि᳘ स्वाग्रयण इ᳘ति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
ये᳘ देवासो[[!!]] दिव्ये᳘कादश स्थ᳘ पृथिव्यामध्ये᳘कादश स्थ᳘॥ अप्सुक्षि᳘तो महिनै᳘कादश स्थ ते᳘ देवासो[[!!]] यज्ञ᳘मिमं᳘ जुषध्वम्॥ उपयाम᳘गृहीतो ऽस्याग्रय᳘णो ऽसि[[!!]] स्वाग्रयण इ᳘ति व्वा᳘चमे᳘वैतद᳘यातयाम्नीं करोति त᳘स्मादन᳘या समान᳘ᳫँ᳘ स᳘द्विपर्या᳘सं व्व᳘दत्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘दाग्रय᳘णो ऽस्याग्रय᳘णो ऽसीति[[!!]] गृह्णीयात्त᳘स्मादाहाग्रय᳘णो ऽसि᳘ स्वाग्रयण इ᳘ति॥

मूलम् - Weber

अथा᳘तो गृह्णात्येव᳟॥
ये᳘ देवा᳘सो दिव्ये᳘कादश स्थ᳘ पृथिव्यामध्ये᳘कादश स्थ᳘ अप्सुक्षि᳘तो महिनै᳘कादश स्थ ते᳘ देवा᳘सो यज्ञ᳘मिमं᳘ जुषध्वम् उपयाम᳘गृहीतो ऽस्याग्रयॗणो ऽसिॗ स्वाग्रयण इ᳘ति वा᳘चमेॗवैतद᳘यातयाम्नीं करोति त᳘स्मादन᳘या समानᳫं स᳘द्विपर्या᳘सं वदत्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘दाग्रयॗणो ऽस्याग्रयॗणो ऽसी᳘ति गृह्णीयात्त᳘स्मादाहाग्रयॗणो ऽसि स्वाग्रयण इ᳘ति॥

मूलम् - विस्वरम्

अथातो गृह्णात्येव- “ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ । अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम्”- (वा. सं ७ । १९) “उपयामगृहीतो ऽस्याग्रयणो ऽसि स्वाग्रयणः”- (वा. सं. ७ । २०) इति । वाचमेवैतदयातयाम्नीं करोति । तस्मादनया समानं सद्विपर्यासं वदति- अजामितायै । जामि ह कुर्याद् यदाग्रयणो ऽस्या ग्रयणो ऽसीति गृह्णीयात् । तस्मादाह- आग्रयणो ऽसि स्वाग्रयण इति ॥ ९ ॥

सायणः

ग्रहस्य विहितं ग्रहणमनूद्य मन्त्रं चतुर्धा कृत्य विदधानो मन्त्रस्य प्रथमे भागे “आग्रयणो ऽसि स्वाग्रयणः” इत्येतद्वाक्यस्याभिप्रायमाह- अथात इत्यादिना 6 । वाचमेवैतदिति । ‘एतत्’ एतेन आग्रयणो ऽसि स्वाग्रयण इत्येवमुच्चारणेनोक्तरूपां वाचमयातयाम्नीम् अनपगतसारां ‘करोति’ यदि आग्रयणो ऽस्याग्रयणो ऽसि इत्युक्त्वा गृह्णीयात् तर्हि ‘जामि’ नैरस्यं हि कुर्यात् । वाक्यद्वयेनाप्येकरूपस्यार्थस्य प्रतीतेरर्थविशेषानवगमाद् वाचो नैरस्यम् । ‘तस्मादनया’ आग्रयणो ऽसि स्वाग्रयण इत्येवंविधया वाचा ‘समानम्’ एकरूपं ‘सत्’ अपि सोमद्रव्यं ‘विपर्य्यासं’ विपर्यस्यान्यथाकृत्वा ऽध्वर्युर्वदति । विपर्यासमिति बहुलग्रहणादनाभीक्ष्ण्ये ऽपि णमुल्प्रत्ययः (पा. सू. ३ । १ । ८५) एवं च स्वाग्रयण इत्यत्र सु इत्यस्य शब्दस्य प्रयोगादर्थविशेषावगतेर्नैरस्यं न भवतीत्यर्थः I

मन्त्रस्य द्वितीयं भागमुपादाय व्याचष्टे- पाहि यज्ञमित्यादि । वाचमेवैतत् इति यद्वाक्यं ‘गोपाय यज्ञम् इति’ ‘उत्सृष्टां’ ‘वाचमेव’ सम्बोध्याह, न त्वाग्रयणमिति भावः । प्रथमभागस्य व्याख्यानेन व्यवधानात् पाहि यज्ञपतिमिति पुनरवयवस्योपादानम् । एवं सर्वत्र पुनरवयवस्योपादाने ऽवगन्तव्यम् ।

तृतीयं भागं व्याचष्टे- विष्णुस्त्वामित्यादि । यज्ञो वै विष्णुरिति । व्याप्नोतीति ‘विष्णुः’ यज्ञश्च व्यापकत्वाद्विष्णुरिति व्यपदिश्यते । ‘वै’- शब्दो ऽत्र यज्ञस्य व्याप्तेः प्रत्यक्षप्रसिद्धिं द्योतयति । अथवा “तेनापशीर्ष्णा यज्ञेन यजमानः” इति क्वचिद् ब्रुवता तत्र “पूर्वं तेषां मखं वैष्णवं यदा आच्छीत-” इत्यादिना महतोपाख्यानेन विष्णुविषय एवार्थो वर्णितः, अतस्तस्य प्रकृतत्वादपशीर्ष्णा यज्ञेन विष्णुरेवाभिहितः । तामेतां प्रसिद्धिमत्रत्यो ‘वै-’ शब्दः सूचयति ।

चतुर्थं भागं व्याचष्टे- अभि सवनानि पाहीत्यादिना । ‘तत्’ तेनोक्तेन वाक्येनाध्वर्युः ‘एतं’ प्रकृतमाग्रयणं ‘ग्रहमाह-’ न तूत्सृष्टां वाचमित्यर्थः । कुत इत्यत आह- सर्वाणि ह्येष सवनानि प्रतीति । ‘एषः’ चाग्रयणग्रहः ‘सर्वाणि’ ‘सवनानि’ ‘प्रति’ प्रातरादीनि त्रीणि सवनानि ‘प्रति-’ लक्ष्य दृश्यते यतः, अतो ऽभिसवनानीत्यादिवाक्यमाग्रयणं प्रत्येव प्रयुक्तमित्यर्थः । हे देवासः ! ‘देवाः’ “आज्जसेरसुक्” (पा. सू. ७ । १ । ५०) ‘दिवि’ द्युलोके ‘एकादश स्थ’ एकादशसङ्ख्याका भवथ । ‘पृथिव्यामधि’ उपरि ‘एकादश स्थ’ ये च देवाः ‘अप्सुक्षितः’ ‘अप्सु’ इत्यन्तरिक्ष नाम (निघं. १ । ३ । ८) तत्र हि ते निवसन्तः । “क्षि निवासगत्योः” (धा. पा. तु. प. १२६) इति धातुः ‘एकादश स्थ’ । ‘महिना’ महिम्ना, मकारलोपश्छान्दसः । महिनेत्येतस्य त्रिष्वपि सम्बन्धः । ‘ते’ सर्वे देवाः यूयम् ‘इमं’ ‘यज्ञम्’ आग्रयणलक्षणं जुषध्वम् । हे ग्रह ! त्वम् उपयामेन गृहीतो ऽसि, आग्रयणनामासि, अतः ‘स्वाग्रयणः’ शोभनमग्रे वाचः अयनमागमनं यस्य तादृशो ऽसि । हे वाक् ! ‘यज्ञं’ ‘पाहि,’ यज्ञपतिं याज्ञिकं च पाहि ‘विष्णुः’ यज्ञः ‘त्वाम्’ ‘इन्द्रियेण’ वीर्येण ‘पातु’ त्वं च ‘विष्णुं पाहि’ । हे आग्रयणग्रह ! त्वं ‘सवनानि’ अभितः ‘पाहि’ इति कृत्स्नमन्त्रस्यार्थः । यद्यप्यत्र केचित् पाहि यज्ञमित्याद्यपि ग्रहमेव सम्बोध्य व्याचक्षते तथापि “वाचमेवैतदुत्सृष्टामाह” इत्येतद्ब्राह्मणानुसारेणैवं व्याख्यातम् ॥ ९ ॥ १० ॥

Eggeling
  1. He now draws it from that (stream of Soma 7) with (Vāj. S. VII, 19; Rig-veda I, 139, 11), Ye Gods, who are eleven in heaven, who are eleven on earth, and who are eleven dwelling in glory in the (aerial) waters: do ye graciously accept this sacrifice!–Thou art taken with a support: thou art Āgrayaṇa, a good firstling (sv-āgrayaṇa)!’ Hereby he makes that speech of renewed vigour; whence he speaks therewith in a different way, while yet the same, in order to avoid sameness; for were he to take it with, ‘Thou art Āgrayaṇa, thou art Āgrayaṇa,’ he would commit (the fault of) sameness: therefore he says, ‘Thou art Āgrayaṇa, a good āgrayaṇa.’

१०

विश्वास-प्रस्तुतिः

पाहि᳘ यज्ञं᳘ पाहि᳘ यज्ञ᳘पतिमि᳘ति॥
व्वा᳘चमे᳘वैत᳘दुत्सृष्टामाह गोपाय᳘ यज्ञमि᳘ति पाहि᳘ यज्ञ᳘पतिमि᳘ति व्वा᳘चमे᳘वैतदु᳘त्सृष्टामाह गोपाय य᳘जमानमि᳘ति य᳘जमानो हि᳘ यज्ञ᳘पतिर्व्वि᳘ष्णुस्त्वा᳘मिन्द्रिये᳘ण पातु व्वि᳘ष्णुं त्वं᳘ पाही᳘ति व्वा᳘चमे᳘वैतदु᳘त्सृष्टामाह यज्ञो वै व्वि᳘ष्णुर्यज्ञस्त्वां᳘ व्वी᳘र्येण गोपायत्वि᳘ति व्वि᳘ष्णुं त्वं᳘ पाही᳘ति व्वा᳘चमे᳘वैतदु᳘त्सृष्टामाह यज्ञं त्वं᳘ गोपाये᳘त्यभि स᳘वनानि पाही᳘ति त᳘देतं ग्र᳘हमाह स᳘र्व्वाणि᳘ ह्येष स᳘वनानि प्रति[[!!]]॥

मूलम् - श्रीधरादि

पाहि᳘ यज्ञं᳘ पाहि᳘ यज्ञ᳘पतिमि᳘ति॥
व्वा᳘चमे᳘वैत᳘दुत्सृष्टामाह गोपाय᳘ यज्ञमि᳘ति पाहि᳘ यज्ञ᳘पतिमि᳘ति व्वा᳘चमे᳘वैतदु᳘त्सृष्टामाह गोपाय य᳘जमानमि᳘ति य᳘जमानो हि᳘ यज्ञ᳘पतिर्व्वि᳘ष्णुस्त्वा᳘मिन्द्रिये᳘ण पातु व्वि᳘ष्णुं त्वं᳘ पाही᳘ति व्वा᳘चमे᳘वैतदु᳘त्सृष्टामाह यज्ञो वै व्वि᳘ष्णुर्यज्ञस्त्वां᳘ व्वी᳘र्येण गोपायत्वि᳘ति व्वि᳘ष्णुं त्वं᳘ पाही᳘ति व्वा᳘चमे᳘वैतदु᳘त्सृष्टामाह यज्ञं त्वं᳘ गोपाये᳘त्यभि स᳘वनानि पाही᳘ति त᳘देतं ग्र᳘हमाह स᳘र्व्वाणि᳘ ह्येष स᳘वनानि प्रति[[!!]]॥

मूलम् - Weber

पाहि᳘ यज्ञ᳘म् पाहि᳘ यज्ञ᳘पतिमि᳘ति॥
वा᳘चमेॗवैतदु᳘त्सृष्टामाह गोपाय᳘ यज्ञमि᳘ति पाहि᳘ यज्ञ᳘पतिमि᳘ति वा᳘चमेॗवैतदु᳘त्सृष्टामाह गोपाय य᳘जमानमि᳘ति य᳘जमानो हि᳘ यज्ञ᳘पतिर्वि᳘ष्णुस्त्वा᳘मिन्द्रिये᳘ण पातु वि᳘ष्णुं त्व᳘म् पाही᳘ति वा᳘चमेॗवैतदु᳘त्सृष्टामाह यज्ञो वै वि᳘ष्णुर्यज्ञस्त्वां᳘ वीॗर्येण गोपायत्वि᳘ति वि᳘ष्णुं त्व᳘म् पाही᳘ति वा᳘चमेॗवैतदु᳘त्सृष्टामाह यज्ञं त्वं᳘ गोपाये᳘त्यभि स᳘वनानि पाही᳘ति त᳘देतं ग्र᳘हमाह स᳘र्वाणिॗ ह्येष स᳘वनानि प्र᳘ति॥

मूलम् - विस्वरम्

“पाहि यज्ञं पाहि यज्ञपतिम्”- (वा. सं. ७ । २०) इति । वाचमेवैतदुत्सृष्टामाह- गोपाय यज्ञमिति । पाहि यज्ञपतिमिति । वाचमेवैतदुत्सृष्टामाह- गोपाय यजमानमिति । यजमानो हि यज्ञपतिः । “विष्णुस्त्वामिन्द्रियेण पातु विष्णुं त्वं पाहि”- (वा. सं. ७ । २०) इति । वाचमेवैतदुत्सृष्टामाह । यज्ञो वै विष्णुः । यज्ञस्त्वां वीर्येण गोपायत्विति । विष्णुं त्वं पाहीति । बाचमेवैतदुत्सृष्टामाह- यज्ञं त्वं गोपायेति । “अभि सवनानि पाहि”- (वा. सं. ७ । २०) इति । तदेतं ग्रहमाह । सर्वाणि ह्येष सवनानि प्रति ॥ १० ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. ‘Guard the sacrifice! guard the lord of the sacrifice!’ whereby he utters freed speech, meaning to say, ‘Protect the sacrifice! protect the sacrificer!’ for the lord of the sacrifice is the sacrificer. ‘May Vishṇu-guard thee with his might! guard thou Vishṇu!’ whereby he utters freed speech–Vishṇu being the sacrifice–‘May the sacrifice

protect thee with its power! protect thou the sacrifice!’–‘Guard thou the Soma feasts all around!’ whereby he means this very graha, because that belongs to all (three) Soma feasts 8.

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ दशापवित्र᳘मुपगृ᳘ह्य हि᳘ङ्करोति॥
सा᳘ हैषा व्वाग᳘नुद्यमाना तताम तस्यां[[!!]] देवा᳘ व्वाचि᳘ तान्ता᳘याᳫँ᳭ हिङ्कारे᳘णैव᳘ प्राण᳘मदधुः प्राणो वै᳘ हिङ्कारः᳘ प्राणो हि वै᳘ हिङ्कारस्तस्मादपिगृ᳘ह्य[[!!]] ना᳘सिके न हि᳘ङ्कर्तुᳫँ᳭ शक्नोति सैते᳘न प्राणे᳘न स᳘मजिहीत यदा वै᳘ तान्तः᳘ प्राणं ल᳘भते᳘ ऽथ स सं᳘जिहीते त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्वाचि᳘ तान्ता᳘याᳫँ᳭ हिङ्कारे᳘णैव[[!!]] प्राणं᳘ दधाति᳘ सैते᳘न प्राणे᳘न संजिहीते[[!!]] त्रिष्कृ᳘त्वो हि᳘ङ्करोति त्रिवृद्धि᳘ यज्ञः[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ दशापवित्र᳘मुपगृ᳘ह्य हि᳘ङ्करोति॥
सा᳘ हैषा व्वाग᳘नुद्यमाना तताम तस्यां[[!!]] देवा᳘ व्वाचि᳘ तान्ता᳘याᳫँ᳭ हिङ्कारे᳘णैव᳘ प्राण᳘मदधुः प्राणो वै᳘ हिङ्कारः᳘ प्राणो हि वै᳘ हिङ्कारस्तस्मादपिगृ᳘ह्य[[!!]] ना᳘सिके न हि᳘ङ्कर्तुᳫँ᳭ शक्नोति सैते᳘न प्राणे᳘न स᳘मजिहीत यदा वै᳘ तान्तः᳘ प्राणं ल᳘भते᳘ ऽथ स सं᳘जिहीते त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्वाचि᳘ तान्ता᳘याᳫँ᳭ हिङ्कारे᳘णैव[[!!]] प्राणं᳘ दधाति᳘ सैते᳘न प्राणे᳘न संजिहीते[[!!]] त्रिष्कृ᳘त्वो हि᳘ङ्करोति त्रिवृद्धि᳘ यज्ञः[[!!]]॥

मूलम् - Weber

अ᳘थ दशापवित्र᳘मुपगृ᳘ह्य हि᳘ङ्करोति॥
सा᳘ हैषा वाग᳘नुद्यमाना तताम त᳘स्यां देवा᳘ वाचि᳘ तान्ता᳘याᳫं हिङ्कारे᳘णैव᳘ प्राण᳘मदधुः प्राणो वै᳘ हिङ्कारः᳘ प्राणो हि वै᳘ हिङ्कारस्त᳘स्मादपिगृ᳘ह्य ना᳘सिके न हि᳘ङ्कर्तुं शक्नोति सैते᳘न प्राणे᳘न स᳘मजिहीत यदा वै᳘ तान्तः᳘ प्राणं ल᳘भते᳘ ऽथ स सं᳘जिहीते त᳘थो एॗवैष᳘ एत᳘द्वाचि᳘ तान्ता᳘याᳫं हिङ्कारे᳘णैव᳘ प्राणं᳘ दधाति सैते᳘न प्राणे᳘न सं᳘जिहीते त्रिष्कृ᳘त्वो हि᳘ङ्करोति त्रिवृद्धि᳘ यज्ञः᳟॥

मूलम् - विस्वरम्

अथ दशापवित्रमुपगृह्य हिङ्करोति । सा हैषा वागनुद्यमाना तताम । तस्यां देवा वाचि तान्तायां हिङ्कारेणैव प्राणमदधुः । प्राणो वै हिङ्कारः । प्राणो हि वै हिङ्कारात्तस्माद् अपिगृह्य नासिके न हिङ्कर्तुं शक्नोति । सैतेन प्राणेन समजिहीत । यदा वै तान्तः प्राणं लभते- अथ स संञ्जिहीते । तथो ऽएवैष एतद्वाचि तान्तायां हिङ्कारेणैव प्राणं दधाति । सैतेन प्राणेन सञ्जिहीते । त्रिष्कृत्वो हिङ्करोति । त्रिवृद्धि यज्ञः ॥ ११ ॥

सायणः

ग्रहणानन्तरं दशापवित्रेण सह ग्रहं स्वीकृत्य हिंकुर्यादित्याह- अथेत्यादि । दशापवित्रमिति । दशापवित्रवन्तं ग्रहमित्यर्थः । अर्शआदित्वादच्-प्रत्ययः (पा. सू. ५ । २ । १२७) । एवं च दशापवित्रेण सहितं ग्रहमित्ययमर्थो लभ्यते । तथा च कात्यायनः- “दशापवित्रेणाग्रयणमुपगृह्य त्रिर्हिङ्कृत्य” (का. श्रौ. सू. ९ । १३९) इति । विहितं हिङ्कारं प्राणात्मना स्तौति- सा हैषेत्यादि । अनुद्यमानेति । अनुच्चार्यमाणा सती ‘तताम’ वाच उच्चारणमेवोज्जीवनं तदभावात् ग्लानिं प्राप्तवतीत्यर्थः । “प्राणो वै हिङ्कारः” इत्यादि हिङ्कारस्य प्राणत्वं प्रसिद्धमिति सामान्येनोक्त्वा तत्प्राणत्वं प्रत्यक्षप्रसिद्धमिति वक्तुम्- “प्राणो हि वै हिङ्कार !”- इति पुनरभिनयेनोक्तम् । तस्मादिति । हिङ्कारस्य प्राणत्वाल्लोके कश्चिदपि नासिके अपिगृह्य हिङ्कर्त्तुं न शक्नोति, नासिकयोः प्राणसञ्चारस्थानत्वात् तयोर्ग्रहणे प्राणात्मकत्वाद्धिङ्कारो न सञ्चरतीति । सैतेनेत्यादि । तेन प्राणेन ‘सा’ वाक् ‘समजिहीत’ सङ्गता ऽभूत, अतो लोके ऽपि यदा जवः ‘तान्तः’ सन् प्राणं ‘लभते’ तदा वाचा सङ्गच्छते तद्वदेव ‘एषः’ अध्वर्युः ‘हिङ्कारेण’ ‘तान्तायां’ ‘वाचि’ प्राणं दधाति । ‘सा’ च तेन ‘प्राणेन’ सङ्गच्छते । हिङ्कारस्यावृत्तिसङ्ख्याविशेषं सोपपत्तिकं विधत्ते- त्रिष्कृत्वो हिङ्करोति त्रिवृद्धि यज्ञ इति । यतो ‘यज्ञः’ ‘त्रिवृत्’ त्रिगुणः यज्ञे ऽग्निपरिध्यादीनां त्रित्वात् तस्मात् त्रिवारं हिं कुर्यात् ॥ ११ ॥

Eggeling
  1. Having then wrapped up (the bowl in) a fringed filtering-cloth, he utters ‘Hiṅ!’ Now that same speech (Vāc, fem.), being unsupported, lay exhausted. By means of the ‘Hiṅ’ the gods infused breath into that exhausted speech, for the ‘Hiṅ’ is breath, the ‘Hiṅ’ is indeed breath: hence one cannot utter the sound ‘hiṅ’ after closing his nostrils. By means of that breath she rose again, for when one who is exhausted takes breath, he rises again. And in like manner does he now infuse breath into the exhausted speech by means of the ‘Hiṅ,’ and through. that breath she rises again. Thrice he utters the ‘Hiṅ,’ for threefold is the sacrifice.

१२

विश्वास-प्रस्तुतिः

(ज्ञो᳘ ऽथा) अ᳘थाह सो᳘मः पवत इ᳘ति॥
स या᳘मे᳘वामूं᳘ भी᳘षा ऽसुररक्षसे᳘भ्यो न᳘ निर᳘ब्रुवंस्ता᳘मे᳘वैतत्स᳘र्व्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ ऽत्र नि᳘राह ता᳘मावि᳘ष्करोति त᳘स्मादाह सो᳘मः पवत ऽइ᳘ति॥

मूलम् - श्रीधरादि

(ज्ञो᳘ ऽथा) अ᳘थाह सो᳘मः पवत इ᳘ति॥
स या᳘मे᳘वामूं᳘ भी᳘षा ऽसुररक्षसे᳘भ्यो न᳘ निर᳘ब्रुवंस्ता᳘मे᳘वैतत्स᳘र्व्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ ऽत्र नि᳘राह ता᳘मावि᳘ष्करोति त᳘स्मादाह सो᳘मः पवत ऽइ᳘ति॥

मूलम् - Weber

अ᳘थाह सो᳘मः पवत इ᳘ति॥
स या᳘मेॗवामू᳘म् भीॗषासुररक्षसे᳘भ्यो न᳘ निर᳘ब्रुवंस्ता᳘मेॗवैतत्स᳘र्वस्मिन्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ ऽत्र नि᳘राह ता᳘मावि᳘ष्करोति त᳘स्मादाह सो᳘मः पवत इ᳘ति॥

मूलम् - विस्वरम्

अथाह- “सोमः पवते”- (वा. सं. ७ । २१) इति । स यामेवामूं भीषा ऽसुररक्षसेभ्यो न निरब्रुवन्- तामेवैतत्सर्वस्मिन्विजिते ऽभये ऽनाष्ट्रे ऽत्र निराह । तामाविष्करोति । तस्मादाह- सोमः पवत ऽइति ॥ १२ ॥

सायणः

हिङ्कारानन्तरमध्वर्योर्वाग्विसर्गसाधनं मन्त्रमाह- अथाह सोमः पवत इत्यादि । ‘सः’ अध्वर्युः ‘असुररक्षसेभ्यो’ ‘भीषा’ भयेन ‘याममूं’ वाचं न निरब्रुवन् नावोचत् । व्यत्ययेन (पा. सू. ३ । १ । ८५) बहुवचनम् । ‘एतत्’ एतेन ‘सोमः पवते’ इत्यस्योच्चारणेन ‘सर्वस्मिन्’ स्वायत्ते सति ‘तां’ वाचं ‘निराह’ । अस्यैव व्याख्यानं तामाविष्करोति इति । तस्मादेवमुच्चारयेत् । तथा चापस्तम्बः- “आग्रयणं गृहीत्वा त्रिर्हिङ्कृत्य वाचं विसृजते” (आप. श्रौ. सू.) इति । सोमः पवते"- इत्यस्य पुनरुच्चारणं भयापगमसूचनार्थम् । कात्यायनो ऽपि सोमः पवत इत्यस्य त्रिरुच्चारणमसूत्रयत्- “त्रिर्हिङ्कृत्य सोमः पवत इति सकृच्छेषम्” (का० श्रौ० सू० ९ । १३९) इति ॥ १२ ॥

Eggeling
  1. He then says (Vāj. S. VII, 21), ‘Soma becometh pure!’ For that (speech) which, for fear of the Asura-Rakshas, they (the gods) did not utter, he now utters and reveals when all is conquered and free from danger and injury: therefore he says, ‘Soma becometh pure.’

१३

विश्वास-प्रस्तुतिः

(त्य) अस्मै ब्र᳘ह्मणे ऽस्मै᳘ क्षत्राये᳘ति॥
तद्ब्र᳘ह्मणे च क्षत्त्रा᳘य चाहास्मै᳘ सुन्वते य᳘ज᳘मानाय पवत ऽइ᳘ति तद्य᳘जमानायाह॥

मूलम् - श्रीधरादि

(त्य) अस्मै ब्र᳘ह्मणे ऽस्मै᳘ क्षत्राये᳘ति॥
तद्ब्र᳘ह्मणे च क्षत्त्रा᳘य चाहास्मै᳘ सुन्वते य᳘ज᳘मानाय पवत ऽइ᳘ति तद्य᳘जमानायाह॥

मूलम् - Weber

अस्मै ब्र᳘ह्मणे ऽस्मै᳘ क्षत्राये᳘ति॥
तद्ब्र᳘ह्मणे च क्षत्रा᳘य चाहास्मै᳘ सुन्वते य᳘जमानाय पवत इ᳘ति तद्य᳘जमानायाह॥

मूलम् - विस्वरम्

“अस्मै ब्रह्मणे ऽस्मै क्षत्राय”- (वा० सं० ७ । २१) इति । तद् ब्रह्मणे च क्षत्राय चाह । “अस्मै सुन्वते यजमानाय पवते”- (वा० सं० ७ । २१) इति । तद् यजमानायाह ॥ १३ ॥

सायणः

मन्त्रे द्वितीयभागस्योपयोगमाह- अस्मै ब्रह्मण इत्यादि । तद्ब्रह्मणे च क्षत्राय चाहेति । ब्राह्मणजातेः क्षत्रियजातेश्च समृद्ध्यै ब्रूत इत्यर्थः- एवम् ‘अस्मै’ ‘सुन्वते’ इत्यादिष्ववगन्तव्यम् । मन्त्रशेषं विधातुमात्मनो ऽनभिमतं केषाञ्चिन्मतमुपन्यस्यति- तदाहुरित्यादिना । ‘तत्’ तत्र मन्त्रे ‘एतावदेव’ उक्तमेव मन्त्रभागं पठित्वा सादयेदिति केचिदाहुः । तथा वदतां चायमाशयः- ‘ब्रह्म क्षत्रं विट्’ ब्रह्मक्षत्रात्मिका प्रजावती ‘एतावदेव’ ‘इदं’ दृश्यं समस्तं खलु ‘इन्द्राग्नी’ हि प्राधान्येन सर्वात्मकौ तौ च ब्रह्मक्षत्रयोरधिदेवते अतस्तयोस्तद्रूपकत्वेन सर्वात्मकत्वात् “अस्मै ब्रह्मणे ऽस्मै क्षत्राय” एतावदेवोक्त्वा सादयेदिति ॥ १३ ॥ १४ ॥

Eggeling
  1. ‘For this priesthood, for this nobility’–whereby he means to say, ‘for the priesthood as well as for the nobility for the Soma-pressing sacrificer he becometh pure;’ whereby he means to say, ‘for the sacrificer.’

१४

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(रे) एता᳘वदे᳘वोक्त्वा[[!!]] सादयेदेता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं या᳘वद्ब्र᳘ह्म क्षत्रं व्वि᳘डिन्द्रा᳘ग्नी वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं त᳘स्मादेता᳘वदे᳘वोक्त्वा᳘ सादयेदि᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(रे) एता᳘वदे᳘वोक्त्वा[[!!]] सादयेदेता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं या᳘वद्ब्र᳘ह्म क्षत्रं व्वि᳘डिन्द्रा᳘ग्नी वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं त᳘स्मादेता᳘वदे᳘वोक्त्वा᳘ सादयेदि᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
एता᳘वदेॗवोक्त्वा᳘ सादयेदेता᳘वद्वा᳘ इदᳫं स᳘र्वं या᳘वद्ब्र᳘ह्म क्षत्रं वि᳘डिन्द्रा᳘ग्नी वा᳘ इदᳫं स᳘र्वं त᳘स्मादेता᳘वदेॗवोक्त्वा᳘ सादयेदि᳘ति॥

मूलम् - विस्वरम्

तदाहुः- एतावदेवोक्त्वा सादयेत् । एतावद्वा ऽइदं सर्वम् । यावद्ब्रह्म क्षत्रं विट् इन्द्राग्नी वा ऽइदं सर्वम् । तस्मादेतावदेवोक्त्वा सादयेदिति ॥ १४ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. Here now they say, ‘Having said this much, let him deposit (the cup); for as much as the priesthood, and the nobility, and the people are, so much

means this All, since Indra and Agni are this All 9: hence, having said this much, let him deposit (the cup).’

१५

विश्वास-प्रस्तुतिः

त᳘दु ब्रूया᳘देव भू᳘यः॥
(ऽ) इष᳘ ऽऊर्जे᳘ पवत ऽइ᳘ति व्वृ᳘ष्ट्यै त᳘दाह यदा᳘हेष ऽइ᳘त्यूर्ज ऽइ᳘ति यो᳘ व्वृष्टादूर्ग्र᳘सो जा᳘यते त᳘स्मै त᳘दाहाद्भ्य ओ᳘षधीभ्यः पवत ऽइ᳘ति त᳘दद्भ्यश्चौ᳘षधीभ्यश्चाह द्या᳘वापृथिवी᳘भ्यां पवत ऽइ᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यामाह य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि सुभूता᳘य पवत ऽइ᳘ति साध᳘वे पवत ऽइ᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

त᳘दु ब्रूया᳘देव भू᳘यः॥
(ऽ) इष᳘ ऽऊर्जे᳘ पवत ऽइ᳘ति व्वृ᳘ष्ट्यै त᳘दाह यदा᳘हेष ऽइ᳘त्यूर्ज ऽइ᳘ति यो᳘ व्वृष्टादूर्ग्र᳘सो जा᳘यते त᳘स्मै त᳘दाहाद्भ्य ओ᳘षधीभ्यः पवत ऽइ᳘ति त᳘दद्भ्यश्चौ᳘षधीभ्यश्चाह द्या᳘वापृथिवी᳘भ्यां पवत ऽइ᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यामाह य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि सुभूता᳘य पवत ऽइ᳘ति साध᳘वे पवत ऽइ᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

त᳘दु ब्रूया᳘देव भू᳘यः॥
इष᳘ ऊर्जे᳘ पवत इ᳘ति वृ᳘ष्ट्यै त᳘दाह यदा᳘हेष इ᳘त्यूर्ज इ᳘ति यो᳘ वृष्टादूर्ग्र᳘सो जा᳘यते त᳘स्मै त᳘दाहाद्भ्य ओ᳘षधीभ्यः पवत इ᳘ति त᳘दद्भ्यश्चौ᳘षधीभ्यश्चाह द्या᳘वापृथिवी᳘भ्याम् पवत इ᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यामाह य᳘योरिदᳫं स᳘र्वम᳘धि सुभूता᳘य पवत इ᳘ति साध᳘वे पवत इ᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“तदु ब्रूयादेव भूयः । इष ऊर्जे पवते”- (वा० सं० ७ । २१) इति । वृष्ट्यै- तदाह- यदाह- इष ऽइति । ऊर्ज ऽइति । यो वृष्टादूर्ग्रसो जायते तस्मै तदाह । “अद्भ्य ओषधीभ्यः पवते"- (वा. सं. । ७ । २१) इति । तदद्भ्यश्चौषधिभ्यश्चाह “द्यावापृथिवीभ्यां पवते”- (वा. सं. ७ । २१) इति । तदाभ्यां द्यावापृथिवीभ्यामाह ययो ऽरिदं सर्वमधि । “सुभूताय पवते”- (वा० सं० ७ । २१) इति । साधवे पवत ऽइत्येवैतदाह ॥ १५ ॥

सायणः

स्वमतमाह- तदु ब्रूयादेव भूयः इत्यादि । तत्र पुनश्च “इष ऊर्जे पवते” इत्यादि ‘ब्रूयादेव’ यद्यपि ब्रह्मक्षत्रे सर्वात्मके इति तावतैव पर्याप्तम् तथापि ब्रह्मणे क्षत्राय चेत्युक्तेस्तयोरेव समृद्ध्यर्थमिति प्रतीयेत; अत “इष ऊर्जे” इत्याद्यपि ब्रूयादेवेत्यभिप्रायः । ‘इषे’ इति यदाह- तत् ‘वृष्ट्यै’ इडित्यन्नं (निघं. २ । ७ । १५) तत्साधनस्य वृष्टेरपि तत्कार्यकारणभेदविवक्षया इडिति व्यपदेशः । तथा ‘वृष्टाद्’ वृष्टेः सकाशात् “नपुंसके भावे क्तः"- (पा. सू. ३ । ३ । ११४) ‘ऊर्क्’ अन्नरसो ‘जायते’ तत्समृद्धये ‘ऊर्ज’ इति वचनम् । ययोरिदं सर्वमधीति । ‘ययोः’ द्यावापृथिव्योः इदं दृश्यमानं सर्वमप्याश्रितं तस्मात् “द्यावापृथिवीभ्यां पवते" इत्युक्ते तदाश्रितस्य समस्तजगतः समृद्धये भवतीत्यर्थः । सुभूतपदस्यार्थमाह- साधवे पवत इत्यादि । लोके यः कश्चन न्यायवर्त्ती जनस्तस्मै पवत इति मन्त्र आह ॥ १५ ॥

Eggeling
  1. Let him, nevertheless, say this more, ‘For sap and pith he becometh pure,’–by saying ‘for sap’ he means to say ‘for rain;’ and ‘for pith’ he says with a view to that pith or juice which springs from rain;–‘for the waters and plants he becometh pure,’ this he says for the waters and plants;–‘for heaven and earth he becometh pure,’ this he says for those two, heaven and earth, whereon this All rests;–‘for well-being he becometh pure,’ whereby he means to say ‘for good.’

१६

विश्वास-प्रस्तुतिः

त᳘दु है᳘क ऽआहुः॥
(र्ब्र) ब्रह्मवर्चसा᳘य पवत ऽइ᳘ति त᳘दु त᳘था न᳘ ब्रूयाद्यद्वा ऽआ᳘हास्मै ब्र᳘ह्मण ऽइ᳘ति त᳘देव᳘ ब्रह्मवर्चसा᳘याह व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य ऽएष᳘ ते यो᳘निर्व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य ऽइ᳘ति सादयति व्वि᳘श्वेभ्यो᳘ ह्येनं देवे᳘भ्यो गृह्णा᳘ति तं वै म᳘ध्ये सादयत्यात्मा᳘ ह्यस्यैष[[!!]] म᳘ध्य ऽइव ह्यय᳘मात्मा[[!!]] द᳘क्षिणोक्थ्यस्थाली भ᳘वत्यु᳘त्तरा ऽऽदित्यस्थाली᳘॥

मूलम् - श्रीधरादि

त᳘दु है᳘क ऽआहुः॥
(र्ब्र) ब्रह्मवर्चसा᳘य पवत ऽइ᳘ति त᳘दु त᳘था न᳘ ब्रूयाद्यद्वा ऽआ᳘हास्मै ब्र᳘ह्मण ऽइ᳘ति त᳘देव᳘ ब्रह्मवर्चसा᳘याह व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य ऽएष᳘ ते यो᳘निर्व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य ऽइ᳘ति सादयति व्वि᳘श्वेभ्यो᳘ ह्येनं देवे᳘भ्यो गृह्णा᳘ति तं वै म᳘ध्ये सादयत्यात्मा᳘ ह्यस्यैष[[!!]] म᳘ध्य ऽइव ह्यय᳘मात्मा[[!!]] द᳘क्षिणोक्थ्यस्थाली भ᳘वत्यु᳘त्तरा ऽऽदित्यस्थाली᳘॥

मूलम् - Weber

त᳘दु है᳘क आहुः॥
ब्रह्मवर्चसा᳘य पवत इ᳘ति त᳘दु त᳘था न ब्रूयाद्यद्वा आ᳘हास्मै ब्र᳘ह्मण इ᳘ति त᳘देव᳘ ब्रह्मवर्चसा᳘याह वि᳘श्वेभ्यस्त्वा देवे᳘भ्य एष᳘ ते यो᳘निर्वि᳘श्वेभ्यस्त्वा देवे᳘भ्य इ᳘ति सादयति वि᳘श्वेभ्योॗ ह्येनं देवे᳘भ्यो गृह्णा᳘ति तं वै म᳘ध्ये सादयत्यात्मा ह्य᳘स्यैष म᳘ध्य इव ह्य᳘य᳘मात्मा द᳘क्षिणोक्थ्यस्थाली 10 भ᳘वत्यु᳘त्तरादित्यस्थाली᳟॥

मूलम् - विस्वरम्

तदु हैक ऽआहुः- ब्रह्मवर्चसाय पवत ऽइति । तदु तथा न ब्रूयात् । यद्वा ऽआह- अस्मै ब्रह्मण ऽइति- तदेव ब्रह्मवर्चसायाह । “विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः"- (वा० सं० ७ । २१) इति सादयति । विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति । तं वै मध्ये सादयति । आत्मा ह्यस्यैषः, मध्य ऽइव ह्ययमात्मा दक्षिणोक्थ्यस्थाली भवति, उत्तरा ऽऽदित्यस्थाली ॥ १६ ॥

सायणः

मन्त्रे ब्रह्मवर्च्चसायेत्येतत्पदं केचित् पठन्ति तत् पदमात्मनो ऽनभिमतमित्यनूद्य निराकरोति- तदु हैक इत्यादि । ब्रह्मणे पवत इति यत्, ‘तत्’ ‘ब्रह्मवर्चसाय पवत’ इत्युक्तं भवति । तस्मात् ‘तत्’ पदं ‘न ब्रूयात्’ । ब्रह्मवर्चसम् इति वृत्तस्याध्ययनस्य समृद्धिः । “स्याद्ब्रह्मवर्च्चसं वृत्ताध्ययनर्धिः” (अम. को. २ । ७ । ३८) इत्यभिधानात् । “ब्रह्महस्तिभ्यां वर्चसः" (पा. सू. ५। ३ । ७८) इत्यच् समासान्तः । मन्त्रे वाग्विसृज्यते; तथा च पूर्वं ग्रहणमन्त्रव्याख्याने “वाचमेवैतदुत्सृष्टामाह” इति यदुक्तं तदनुपपन्नमिति चेन्न, तत्र भविष्यद्वाग्विसर्जनाभिप्रायेणोक्तत्वादिति । ननु च पूर्वग्रहेष्वपि मन्त्राणामाम्नातत्वात् कथं तूष्णीं ग्रहणम् । एवं तर्हि “वाचं यच्छति” इत्यनेनोपांशुध्वनिर्विवक्ष्यते- “वाचं विसृजत”- इत्यनेनोच्चैर्ध्वनिः । यत एव तैत्तिरीयके उपांशुवाक्यकाण्डे समाम्नायते- “यान् प्राचीनमाग्रयणाद् ग्रहान् गृह्णीयात् तानुपांशु गृह्णीयात्, यानूर्ध्वांस्तानुपब्दिमतः”- (तै. सं. ३ । १ । ९) इति । गृहीतस्य सोमरसस्य समन्त्रकं सादनं विधत्ते- विश्वेभ्यस्त्वा देवेभ्य इत्यादि । हे आग्रयण त्वां ‘विश्वेभ्यो’ ‘देवेभ्यो’ गृह्णामि ‘एषः’ खरप्रदेशस्तव स्थानम्, अतस्त्वां विश्वेभ्यो देवेभ्यः सादयामीति मन्त्रस्यार्थः । मन्त्रे विश्वेभ्यो देवेभ्य इत्यस्योच्चारणमुपपन्नम् इत्याह- विश्वेभ्यो हीति । विहितं सादनमनूद्य मध्यदेशं तत्रासादने कारणं चाह- तं वै मध्य इत्यादि । ‘अस्य’ यज्ञस्याग्रयणग्रह आत्मेत्युक्तम् । “आत्मा ह वा अस्याग्रयणः”- (श. प. ४ । २ । २ । १) इति । ‘आत्मा’ च ‘मध्य इव’ हि मध्यभाग इत्यर्थः । इवशब्दो वाक्यालङ्कारे । यथा सादितस्य ग्रहस्य ‘उक्थ्यस्थाली दक्षिणा’ ‘उत्तरा’ च ‘आदित्यस्थाली’ ‘भवति’ तथा मध्यशरीररूपमाग्रयणं मध्ये सादयेदित्यर्थः ॥ १६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे द्वितीयाध्याये द्वितीयं ब्राह्मणम् ॥ ४-२-२॥

Eggeling
  1. Here now some say, ‘for spiritual lustre he becometh pure;’ but let him not say so, for in saying ‘for this priesthood,’ he says it with a view to spiritual lustre. With, ‘Thee for the All-gods! this is thy womb: thee for the All-gods!’ he deposits (the cup); for it is for the All-gods that he draws it. He deposits it in the middle (of the mound); for this is his trunk, and that trunk is, as it were, in the middle. On the right (south) side of it is the Ukthya bowl, and on the left side the Āditya bowl.

  1. 288:2 Viz. inasmuch as the bowl is made of clay,–asyāḥ pr̥thivyāḥ sakāśāt sthālī bhavati utpadyate; Sāy. The Āgrayaṇa, Ukthya, and Dhruva grahas are drawn in a sthālī (pot or bowl). ↩︎

  2. 289:1 See IV, 4, 3, 2. ↩︎

  3. 289:2 The Upāṁśusavana, cf. III, 9, 4, 6. ↩︎

  4. 289:3 The primary meaning seems to be ‘firstling.’ For the Āgrayaṇeshṭi, or offering of first-fruits, see part i, p. 369. ↩︎

  5. 289:4 Or perhaps, ‘and their entire conquest being free from danger and injury;’ or, ‘security and peace (abhayam anāshṭram) having been completely gained.’ Cf. IV, 3, 3, 5; also III, 6, 3, 11; 8, 1, 9; 8, 2, 3. ↩︎

  6. आग्रयणं द्वयोर्धारयोर्ये देवास इति । का० श्रौ० सू० ९ । १३८ । ↩︎

  7. 290:1 The Āgrayaṇa is taken rather from two streams of Soma, viz. from that poured by the sacrificer from the Hotr̥’s cup into the Droṇakalaśa, and from another poured out by the Unnetr̥, and consisting either of Soma taken from the Ādhavanīya or, according to others, of the residue of the Upāṁśu libation, which had been temporarily kept in the Āgrayaṇa bowl (see p. 255, note 2), and has to be emptied by the Unnetr̥ into some other vessel, when that bowl is about to be used for the Āgrayaṇa libation. See Kāty. IX, 6, 15 comm. ↩︎

  8. 291:1 The Āgrayaṇa libation is repeated at the midday as well as at the evening feast. ↩︎

  9. 292:1 On Indra and Agni, as the divine representatives of the two privileged castes, see part i, Introd. p. xvi seq. ↩︎

  10. त्यस्थाली AB ↩︎