०१

विश्वास-प्रस्तुतिः

च᳘क्षुषीह वा᳘ ऽअस्य शुक्रा᳘मन्थि᳘नौ॥
तद्वा᳘ ऽएष᳘ ऽएव᳘ शुक्रो य᳘ ऽएष त᳘पति तद्य᳘देष᳘ ऽएतत्त᳘पति ते᳘नैष᳘ शुक्र᳘श्चन्द्र᳘मा ऽएव᳘ मन्थी[[!!]]॥

मूलम् - श्रीधरादि

च᳘क्षुषीह वा᳘ ऽअस्य शुक्रा᳘मन्थि᳘नौ॥
तद्वा᳘ ऽएष᳘ ऽएव᳘ शुक्रो य᳘ ऽएष त᳘पति तद्य᳘देष᳘ ऽएतत्त᳘पति ते᳘नैष᳘ शुक्र᳘श्चन्द्र᳘मा ऽएव᳘ मन्थी[[!!]]॥

मूलम् - Weber

च᳘क्षुषी ह वा᳘ अस्य शुक्रा᳘मन्थि᳘नौ॥
तद्वा᳘ एष᳘ एव᳘ शुक्रो य एष त᳘पति तद्य᳘देष᳘ एतत्त᳘पति ते᳘नैष᳘ शुक्र᳘श्चन्द्र᳘मा एव᳘ मन्थी᳟॥

मूलम् - विस्वरम्

शुक्रामन्थिनौ ग्रहौ ।

चक्षुषी ह वा ऽअस्य शुक्रामन्थिनौ । तद्वा ऽएष एव शुक्रः- य एष तपति । तद् यदेष एतत्तपति तेनैष शुक्रः । चन्द्रमा एव मन्थी ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

आश्विनं ग्रहं विधाय शुक्रामन्थिग्रहौ विधातुं चक्षुरात्मना स्तौति- चक्षुषी ह वा इत्यादि । शुक्रश्च मन्थी च ‘शुक्रामन्थिनौ’ । भाव्यस्य यज्ञस्य ‘चक्षुषी’ खलु । उक्तमेवानयोश्चक्षुष्ट्वं प्रतिपादयति- तद्वा इत्यादिना । ‘तत्’ तत्र ‘एष’ दृश्यमानस्तपति ‘एष’ ‘एव’ सूर्यः ‘शुक्रः’ ग्रहः ‘तपति’ । शोचते दीप्यते इति तस्य शुक्रनामधेयम् । ‘मन्थी’ ‘चन्द्रमा’ ‘एव’ ‘सक्तुभिः’ यवचूर्णैर्मिश्रितस्य सोमस्या ऽपि मन्थत्वात् तद्भागिनो ऽस्य मन्थित्वम् । अनयोः सूर्याचन्द्रमसोरनुदये ‘प्रजानां’ स्वकीययोरपि पाण्योरदर्शनात्तदुदये तत्सम्भवाच्चक्षुष्ट्वमिति तदात्मकौ शुक्रामन्थिनावपि चक्षूरूपावित्यर्थः । प्रजापतेश्चक्षुषः सकाशादुत्पन्नत्वाच्चानयोश्चक्षुष्ट्वम्, तथा च श्रूयते- “चक्षुषः शुक्रामन्थिनौ” (तै. शा. १ । ५ । ४) इति ॥ १ ॥ २ ॥

Eggeling
  1. The Śukra and Manthin (grahas), forsooth, are his eyes. Now the Śukra, indeed, is he that burns yonder (the sun); and because it burns there 1, therefore it is (called) Śukra (‘bright’). And the Manthin, indeed, is the moon.

०२

विश्वास-प्रस्तुतिः

तᳫँ᳭ स᳘क्तुभिः श्रीणाति॥
त᳘देनं मन्थं᳘ करोति ते᳘नो ऽएष᳘ म᳘न्थ्येतौ᳘ ह वा᳘ ऽआसां᳘ प्रजा᳘नां च᳘क्षुषी स य᳘द्धैतौ᳘ नोदिया᳘तां न᳘ है᳘वेह स्वौ᳘ चन᳘ पाणी नि᳘र्जानीयुः॥

मूलम् - श्रीधरादि

तᳫँ᳭ स᳘क्तुभिः श्रीणाति॥
त᳘देनं मन्थं᳘ करोति ते᳘नो ऽएष᳘ म᳘न्थ्येतौ᳘ ह वा᳘ ऽआसां᳘ प्रजा᳘नां च᳘क्षुषी स य᳘द्धैतौ᳘ नोदिया᳘तां न᳘ है᳘वेह स्वौ᳘ चन᳘ पाणी नि᳘र्जानीयुः॥

मूलम् - Weber

तᳫं स᳘क्तुभिः श्रीणाति॥
त᳘देनम् मन्थं᳘ करोति ते᳘नो एष᳘ मॗन्थ्येतौ᳘ ह वा᳘ आसा᳘म् प्रजा᳘नां च᳘क्षुषी म य᳘द्धैतौॗ नोदिया᳘तां नॗ हैॗवेह स्वौ᳘ चन᳘ पाणी नि᳘र्जानीयुः॥

मूलम् - विस्वरम्

तं सक्तुभिः श्रीणाति । तदेनं मन्थं करोति । तेनो ऽएष मन्थी । एतौ ह वा ऽआसां प्रजानां चक्षुषी । स यद्वैतौ नोदियाताम्- न हैवेह स्वौ चन पाणी निर्जानीयुः ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. He mixes it with (barley) meal: thus he makes it to be gruel (mantha), whence it is (called) Manthin. Now those two (sun and moon); forsooth, are the eyes of these creatures; for were those two not to rise, these (creatures) could not distinguish even their own hands.

०३

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘योर᳘त्तै᳘वान्यतरः᳘॥
(ऽ) आ᳘द्यो ऽन्यत᳘रो᳘ ऽत्तैव᳘ शुक्र᳘ ऽआ᳘द्यो मन्थी[[!!]]॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘योर᳘त्तै᳘वान्यतरः᳘॥
(ऽ) आ᳘द्यो ऽन्यत᳘रो᳘ ऽत्तैव᳘ शुक्र᳘ ऽआ᳘द्यो मन्थी[[!!]]॥

मूलम् - Weber

त᳘योरॗत्तैॗवान्यतरः᳟॥
आॗद्यो ऽन्यतॗरोॗ ऽत्तैव᳘ शुक्र᳘ आॗद्यो मन्थी᳟॥

मूलम् - विस्वरम्

तयोरत्तैवान्यतरः, आद्यो ऽन्यतरः । अत्तैव शुक्रः, आद्यो मन्थी ॥ ३ ॥

सायणः

चक्षुरात्मना स्तुतौ शुक्रामन्थिनौ पुनर्भोक्तृभोग्यात्मना स्तौति- तयोरित्यादिना । ‘तयोः’ शुक्रामन्थिनोरन्यतरः ‘अत्ता’ भोक्ता अन्यतरश्च ‘आद्यो’ भोग्यस्तयोर्भोक्तृभोग्यरूपसूर्यचन्द्रात्मत्वेन स्तुतत्वात् । अत्तैवेति । तस्यैव विशेषः । यत एवमनयोर्भोक्तृभोग्यत्वमतो लोके ऽपि भोक्तृवर्गस्तयोरन्यतरं सूर्यात्मकं शुक्रमनुसृत्य वर्तते । शुक्रे ऽन्तर्भूत इत्यर्थः । भोग्यवर्गो ऽन्यतरं चन्द्रात्मकमेव मन्थिनमनुसृत्य वर्तते । चन्द्रात्मके मन्थिन्यन्तर्भवति । ग्रहयोर्ग्रहणहोमौदर्शयति- तौ वा अन्यस्मा इत्यादि । सुरविरोधिनौ राक्षसौ ‘असुररक्षसे’ “अनसन्तान्नपुं०”- (पा. सू. ५ । ४ । १०३) इत्यादिना टच् । ‘ताभ्यां शण्डामर्काभ्यां’ गृह्येते । होमस्तु ‘देवताभ्यः’ क्रियेते । ग्रहणे शण्डामर्कयोर्देवतात्वेनोद्दिष्टत्वात् “देवताद्वन्द्वे च”- (पा. सू. ७ । ३ । २१) इति पूर्वपदस्यानङादेशः । ग्रहणे शण्डामर्कयोः स्वीकारस्य, होमे तत्परित्यागस्य च हेतुं दर्शयिष्यन्नाख्यायिकां प्रस्तौति- तद्यत्तथा यत्रेति । ‘तत्’ ‘तथा’ ग्रहणकारणं ग्रहणे शण्डामर्कस्वीकरणमिति यत् तदुच्यत इत्यर्थः । पुरा खलु देवा असुररक्षसामपहननसमये शण्डामकर्कौ ‘हन्तुं’ न शक्तवन्तस्तौ सर्वं देवकृतं कर्म तिरस्कृत्यागच्छताम् । ततस्ते देवा एतयोर्हननोपायं विचारयतेत्युक्त्वा ग्रहग्रहणेन तावागमिष्यतः, पश्चात् ‘तौ’ ‘स्वीकृत्य’ हनिष्याम इति पर्यालोच्य तथैवाचरन् । यत एवमकुर्वन्, अत इदानीमपि शण्डामर्कावुद्दिश्यैव ग्रहणम् । होमास्तु ‘देवताभ्यः’ क्रियन्ते ‘अपजघ्निरे’- इत्येवमादौ सर्वत्र च्छान्दसमात्मनेपदम् ॥ ३-६ ॥

Eggeling
  1. One of them is the eater, and the other the

food 2; to wit, the Śukra is the eater, and the Manthin the food.

०४

विश्वास-प्रस्तुतिः

त᳘योर᳘त्तै᳘वान्यतरम᳘नु[[!!]]॥
(न्वा᳘) आ᳘द्यो ऽन्यतरम᳘न्व᳘त्तैव᳘ शुक्रम᳘न्वा᳘द्यो मन्थि᳘नम᳘नु तौ वा᳘ ऽअन्य᳘स्मै गृह्ये᳘ते ऽअन्य᳘स्मै हूयेते श᳘ण्डाम᳘र्कावि᳘त्यसुररक्षसे ता᳘भ्यां गृह्ये᳘ते देव᳘ताभ्यो हूयेते तद्यत्त᳘था॥

मूलम् - श्रीधरादि

त᳘योर᳘त्तै᳘वान्यतरम᳘नु[[!!]]॥
(न्वा᳘) आ᳘द्यो ऽन्यतरम᳘न्व᳘त्तैव᳘ शुक्रम᳘न्वा᳘द्यो मन्थि᳘नम᳘नु तौ वा᳘ ऽअन्य᳘स्मै गृह्ये᳘ते ऽअन्य᳘स्मै हूयेते श᳘ण्डाम᳘र्कावि᳘त्यसुररक्षसे ता᳘भ्यां गृह्ये᳘ते देव᳘ताभ्यो हूयेते तद्यत्त᳘था॥

मूलम् - Weber

तयो᳘रॗत्तैॗवान्यतरम᳘नु॥
आॗद्यो ऽन्यतरम᳘न्वॗत्तैव᳘ शुक्रम᳘न्वाॗद्यो मन्थि᳘नम᳘नु तौ वा᳘ अन्य᳘स्मै गृह्ये᳘ते अन्य᳘स्मै हूयेते श᳘ण्डाम᳘र्कावि᳘त्यसुररक्षसे ता᳘भ्यां गृह्ये᳘ते देव᳘ताभ्यो हूयेते तद्यत्त᳘था॥

मूलम् - विस्वरम्

तयोरत्तैवान्यतरमनु, आद्यो ऽन्यतरमनु । अत्तैव शुक्रमनु, आद्यो मन्थिनमनु । तौ वा ऽअन्यस्मै गृह्येते, अन्यस्मै हूयेते । शण्डामर्कौ- इत्यसुररक्षसे । ताभ्यां गृह्येते । देवताभ्यो हूयेते तद्यथा ॥ ४ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. To one of them corresponds the eater, and to the other the food; to wit, the eater corresponds to the Śukra, and the food to the Manthin. Now these two (cups) are drawn for one (person) and offered to another. There are two Asura-Rakshas, Śaṇḍa and Marka: for them they are drawn; and to deities they are offered. The reason for this is as follows.

०५

विश्वास-प्रस्तुतिः

य᳘त्र वै᳘ देवाः᳘॥
(ऽ) असुररक्षसा᳘न्यपजघ्निरे त᳘देता᳘वेव न᳘ शेकुर᳘पहन्तुं य᳘द्ध स्म देवाः किं᳘ च क᳘र्म कुर्व्व᳘ते त᳘द्ध स्म मोहयित्वा᳘ क्षिप्र᳘ ऽएव पु᳘नर᳘पद्रवतः॥

मूलम् - श्रीधरादि

य᳘त्र वै᳘ देवाः᳘॥
(ऽ) असुररक्षसा᳘न्यपजघ्निरे त᳘देता᳘वेव न᳘ शेकुर᳘पहन्तुं य᳘द्ध स्म देवाः किं᳘ च क᳘र्म कुर्व्व᳘ते त᳘द्ध स्म मोहयित्वा᳘ क्षिप्र᳘ ऽएव पु᳘नर᳘पद्रवतः॥

मूलम् - Weber

य᳘त्र वै᳘ देवाः᳟॥
असुररक्षसा᳘न्यपजघ्निरे त᳘देता᳘वेव न᳘ शेकुर᳘पहन्तुं य᳘द्ध स्म देवाः किं᳘ च क᳘र्म कुर्व᳘ते त᳘द्ध स्म मोहयित्वा᳘ क्षिप्र᳘ एव पु᳘नर᳘पद्रवतः॥

मूलम् - विस्वरम्

यत्र वै देवा ऽअसुररक्षसान्यपजघ्निरे तद्- एतावेव न शेकुरपहन्तुम् । यद्ध स्म देवाः । किञ्च कर्म कुर्वते- तद्ध स्म मोहयित्वा क्षिप्र ऽएव पुनरपद्रवतः ॥ ५ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. Now when the gods drove away the Asura-Rakshas, they could not drive away these two; but whatever (sacrificial) work the gods performed, that these two disturbed, and then quickly fled.

०६

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ ह देवा᳘ ऊ᳘चुः॥
(रु) उपजानीत[[!!]] य᳘थेमा᳘वपह᳘नामहा ऽइ᳘ति ते᳘ होचुर्ग्र᳘हावे᳘वाभ्यां गृह्णाम ता᳘वभ्य᳘वैष्यतस्तौ᳘ स्वीकृत्या᳘पहनिष्यामह ऽइ᳘ति ता᳘भ्यां ग्र᳘हौ जगृहुस्ता᳘वभ्य᳘वैतां तौ᳘ स्वीकृत्या᳘पाघ्नत᳘ त᳘स्माच्छ᳘ण्डाम᳘र्काभ्यामि᳘ति गृह्ये᳘ते देव᳘ताभ्यो हूयेते॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ ह देवा᳘ ऊ᳘चुः॥
(रु) उपजानीत[[!!]] य᳘थेमा᳘वपह᳘नामहा ऽइ᳘ति ते᳘ होचुर्ग्र᳘हावे᳘वाभ्यां गृह्णाम ता᳘वभ्य᳘वैष्यतस्तौ᳘ स्वीकृत्या᳘पहनिष्यामह ऽइ᳘ति ता᳘भ्यां ग्र᳘हौ जगृहुस्ता᳘वभ्य᳘वैतां तौ᳘ स्वीकृत्या᳘पाघ्नत᳘ त᳘स्माच्छ᳘ण्डाम᳘र्काभ्यामि᳘ति गृह्ये᳘ते देव᳘ताभ्यो हूयेते॥

मूलम् - Weber

ते᳘ ह देवा᳘ ऊचुः॥
उ᳘पजानीत य᳘थेमा᳘वपह᳘नामहा इ᳘ति ते᳘ होचुर्ग्र᳘हावेॗवाभ्यां गृह्णाम ता᳘वभ्यवैष्यतस्तौ᳘ स्वीकृत्या᳘पहनिष्यामह इ᳘ति ता᳘भ्यां ग्र᳘हौ जगृहुस्ता᳘वभ्य᳘वैतां तौ᳘ स्वीकृत्या᳘पाघ्नत त᳘स्माछ᳘ण्डाम᳘र्काभ्यामि᳘ति गृह्ये᳘ते देव᳘ताभ्यो हूयेते॥

मूलम् - विस्वरम्

ते ह देवा ऊचुः- उपजानीत- यथेमावपहनामहा ऽइति । ते होचुः- ग्रहावेवाभ्यां गृह्णामः । तावभ्यवैष्यतः । तौ स्वीकृत्यापहनिष्यामह ऽइति । ताभ्यां ग्रहौ जगृहुः, तावभ्यवैताम् । तौ स्वीकृत्यापाघ्नत । तस्माच्छण्डामर्काभ्यामिति गृह्येते, देवताभ्यो हूयेते ॥ ६ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. The gods then said, ‘Contrive ye how we shall drive away these two!’ They said, ‘Let us draw two cups (of Soma juice) for them: they will come down to us, and we shall seize them and drive them away.’ They accordingly drew two cups (of Soma) for them, and they both came down, and, having seized them, they (the gods) drove them away 3. This is why (the two cups) are drawn for Śaṇḍa and Marka, but are offered to deities.

०७

विश्वास-प्रस्तुतिः

(ते ऽअ᳘) अ᳘पि होवाच या᳘ज्ञवल्क्यः᳘॥
(ल्क्यो᳘) नो स्विद्देव᳘ताभ्य ऽएव᳘ गृह्णियामा ३ व्वि᳘जितरूपमिव᳘ हीदमि᳘ति तद्वै स त᳘न्मीमाᳫँ᳭सा᳘मेव᳘ चक्रे नेत्तु᳘ चकार॥

मूलम् - श्रीधरादि

(ते ऽअ᳘) अ᳘पि होवाच या᳘ज्ञवल्क्यः᳘॥
(ल्क्यो᳘) नो स्विद्देव᳘ताभ्य ऽएव᳘ गृह्णियामा ३ व्वि᳘जितरूपमिव᳘ हीदमि᳘ति तद्वै स त᳘न्मीमाᳫँ᳭सा᳘मेव᳘ चक्रे नेत्तु᳘ चकार॥

मूलम् - Weber

अ᳘पि होवाच या᳘ज्ञवल्क्यः॥
नो स्विद्देव᳘ताभ्य एव᳘ गृह्णीयामा वि᳘जितरूपमिवॗ हीदमि᳘ति तद्वै स त᳘न्मीमांसा᳘मेव᳘ चक्रे नेत्तु᳘ चकार॥

मूलम् - विस्वरम्

अपि होवाच याज्ञवल्क्यः- नो स्विद्देवताभ्य एव गृह्णीयामा ३ विजितरूपमिव हीदमिति । तद्वै स तन्मीमांसामेव चक्रे नेत्तु चकार ॥ ७ ॥

सायणः

शण्डामर्कावुद्दिश्य गृह्यत इति यत्प्रतिपादितं तदेव द्रढयति- अपि होवाचेत्यादि । याज्ञवल्क्योप्येवमुवाच । अथवा अस्मदीयाभ्यो देवताभ्य एव नो गृह्णीयाम उत गृह्णीयाम इति । “संप्रश्न” (पा. सू. ३ । ३ । १६१) इति लिङ् । “विचार्यमाणानाम्” (पा. सू. ८ । २ । ९७) इति प्लुतः । एतद्देवतोद्देशेन ग्रहग्रहणं विजयरूपं खल्विति । एवं संप्रधार्य स याज्ञवल्क्यस्तत्र विचारमेव ‘चक्रे’, ‘न तु चकार’ । ततः पूर्वोक्त एव पक्षो ऽनुष्ठेय इति भावः ॥ ७ ॥

Eggeling
  1. Also Yājñavalkya said, ‘Should we not rather draw them for the deities, since that is, as it were, the sign of conquest 4?’ In this, however, he merely speculated, but he did not practise it.

०८

विश्वास-प्रस्तुतिः

(रे) इमा᳘मु है᳘के शुक्र᳘स्य पुरोरु᳘चं कुर्व्वन्ति॥
(न्त्य) अयं᳘ व्वेन᳘श्चोदयत्पृ᳘श्निगर्भा ज्यो᳘तिर्जरायू र᳘जसो व्विमा᳘न ऽइ᳘ति त᳘देत᳘स्य रूपं᳘ कुर्मो य᳘ ऽएष त᳘पती᳘ति यदा᳘ह ज्यो᳘तिर्जरायुरि᳘ति॥

मूलम् - श्रीधरादि

(रे) इमा᳘मु है᳘के शुक्र᳘स्य पुरोरु᳘चं कुर्व्वन्ति॥
(न्त्य) अयं᳘ व्वेन᳘श्चोदयत्पृ᳘श्निगर्भा ज्यो᳘तिर्जरायू र᳘जसो व्विमा᳘न ऽइ᳘ति त᳘देत᳘स्य रूपं᳘ कुर्मो य᳘ ऽएष त᳘पती᳘ति यदा᳘ह ज्यो᳘तिर्जरायुरि᳘ति॥

मूलम् - Weber

इमा᳘मु है᳘के शुक्र᳘स्य पुरोरु᳘चं कुर्वन्ति॥
अयं᳘ वेन᳘श्चोदयत्पृ᳘श्निगर्भा ज्यो᳘तिर्जरायू र᳘जसो विमा᳘न इ᳘ति त᳘देत᳘स्य रूपं᳘ कुर्मो य᳘ एष त᳘पती᳘ति यदा᳘ह ज्यो᳘तिर्जरायुरि᳘ति॥

मूलम् - विस्वरम्

इमामु हैके शुक्रस्य पुरोरुचं कुर्वन्ति । “अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने”- (वा० सं० ७ । १६) इति । तदेतस्य रूपं कुर्मो य एष तपतीति यदाह- ज्योतिर्जरायुरिति ॥ ८ ॥

सायणः

विहिते शुक्रस्य ग्रहणे स्वाभिमतं मन्त्रं विधित्सुः शाखान्तरमतं स्वस्यानभिमतमुपन्यस्यति- इमामु हेत्यादिना 5 । पुरा रोचयतीति पुरोरुक् “अयं वेन” इत्येतामृचं ‘पुरोरुचं’ कुर्वतामयमाशयः- मन्त्रे ‘ज्योतिर्जरायुः’ इत्यस्योच्चारणेन उभयतो ऽस्य सूर्यस्य रूपं सम्पाद्यत इति । एतत्तैत्तिरीयकशाखामतम् । तत्र हि मन्त्रकाण्डे उपांश्वादीनां ग्रहाणां ग्रहणं मन्त्रपाठानन्तरं शुक्रस्य क्रमे “अयं वेन” इत्यस्य पाठात् । अत एव बोधायनः- “अयं वेनश्चोदयत् इति शुक्रं गृहीत्वा” इति ॥ ८ ॥

Eggeling
  1. Now some make this the puroruc formula of the Śukra, ‘He, the longing, light-enveloped, urged the daughters of the dappled (cloud) along the measurer of the welkin,’–saying, ‘We thus make it like him that burns yonder, in that he says “the light-enveloped.”’

०९

विश्वास-प्रस्तुतिः

(ती) इमां᳘ त्वेव᳘ शुक्र᳘स्य पुरोरु᳘चं कुर्यात्॥
(त्तं᳘) तं᳘ प्रत्न᳘था पूर्व्व᳘था व्विश्व᳘थेम᳘था ज्येष्ठ᳘तातिं बर्हिष᳘दᳫं᳭ स्वर्व्वि᳘दमि᳘त्यत्ता᳘ ह्येतम᳘न्वत्ता हि᳘ ज्येष्ठ᳘स्त᳘स्मादाह ज्येष्ठ᳘तातिं बर्हिष᳘दᳫं᳭ स्वर्व्वि᳘दम्। प्रतीचीनं᳘ व्वृज᳘नं दोहसे धु᳘निमाशुं ज᳘यन्तम᳘नु या᳘सु व्व᳘र्धसे। उपया᳘म᳘गृहीतो ऽसि श᳘ण्डाय त्वै᳘ष ते यो᳘निर्व्वीर᳘तां पाही᳘ति सादयत्यत्ता᳘ ह्येतम᳘न्वत्ता हि᳘ व्वीरस्त᳘स्मादाहैष᳘ ते यो᳘निर्व्वीर᳘तां पाही᳘ति दक्षिणार्धे᳘ सादयत्येता᳘ᳫं᳭ ह्येष दि᳘शम᳘नु संच᳘रति॥

मूलम् - श्रीधरादि

(ती) इमां᳘ त्वेव᳘ शुक्र᳘स्य पुरोरु᳘चं कुर्यात्॥
(त्तं᳘) तं᳘ प्रत्न᳘था पूर्व्व᳘था व्विश्व᳘थेम᳘था ज्येष्ठ᳘तातिं बर्हिष᳘दᳫं᳭ स्वर्व्वि᳘दमि᳘त्यत्ता᳘ ह्येतम᳘न्वत्ता हि᳘ ज्येष्ठ᳘स्त᳘स्मादाह ज्येष्ठ᳘तातिं बर्हिष᳘दᳫं᳭ स्वर्व्वि᳘दम्। प्रतीचीनं᳘ व्वृज᳘नं दोहसे धु᳘निमाशुं ज᳘यन्तम᳘नु या᳘सु व्व᳘र्धसे। उपया᳘म᳘गृहीतो ऽसि श᳘ण्डाय त्वै᳘ष ते यो᳘निर्व्वीर᳘तां पाही᳘ति सादयत्यत्ता᳘ ह्येतम᳘न्वत्ता हि᳘ व्वीरस्त᳘स्मादाहैष᳘ ते यो᳘निर्व्वीर᳘तां पाही᳘ति दक्षिणार्धे᳘ सादयत्येता᳘ᳫं᳭ ह्येष दि᳘शम᳘नु संच᳘रति॥

मूलम् - Weber

इमांॗ त्वेव᳘ शुक्र᳘स्य पुरोरु᳘चं कुर्यात्॥
त᳘म् प्रत्न᳘था पूर्व᳘था विश्व᳘थेम᳘था ज्येष्ठ᳘तातिम् बर्हिष᳘दᳫं स्वर्वि᳘दमि᳘त्यत्ताॗ ह्येतम᳘न्वत्ता हि᳘ ज्येष्ठस्त᳘स्मादाह ज्येष्ठतातिम् बर्हिष᳘दᳫं स्वर्वि᳘दम् प्रतीचीनं᳘ वृज᳘नं दोहसे धु᳘निमाशुं ज᳘यन्तम᳘नु या᳘सु व᳘र्धसे उपया᳘म᳘गृहीतो ऽसि श᳘ण्डाय त्वै᳘ष ते यो᳘निर्वीर᳘ताम् पाही᳘ति यादयत्यत्ताॗ ह्येतम᳘न्वत्ता हि᳘ वीरस्त᳘स्मादाहैष᳘ ते यो᳘निर्वीर᳘ताम् पाही᳘ति दक्षिणार्धे᳘ सादयत्येताॗᳫंॗ ह्येष दि᳘शम᳘नु संच᳘रति॥

मूलम् - विस्वरम्

इमां त्वेव शुक्रस्य पुरोरुचं कुर्यात्- “तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम्”- (वा० सं० ७ । १२) इति । अत्ता ह्येतमनु । अत्ता हि ज्येष्ठः । तस्मादाह- ज्येष्ठतातिं बर्हिषदं स्वर्विदम् । “प्रतीचीनं वृजनं दोहसे धुनिमाशुं जयन्तमनु यासु वर्धसे । उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर्वीरतां पाहि”- (वा० सं० ७ । १२) इति सादयति । अत्ता ह्येतमनु । अत्ता हि वीरः । तस्मादाह- एष ते योनिर्वीरतां पाहीति । दक्षिणर्द्धे सादयति एतां ह्येष दिशमनु संचरति ॥ ९ ॥

सायणः

स्वाभिमतं पक्षं सोपपत्तिकमाह- इमां त्वेवेत्यादि 5 । तं प्रत्नथेति । ‘इमां’ ऋचमेव कुर्यात् न पुनः शाखान्तरमतप्राप्तमित्यर्थः । अत्रेयमुपपत्तिः- सूर्यस्य भोक्तृत्वं तदात्मकत्वं च लौकिकभोक्तृजातस्य प्रागुक्तम्- “अत्तैवशुक्रः, अत्तैव शुक्रमनु” इति । भोक्तृभोग्ययोर्भोक्ता प्राधान्येन ज्येष्ठः । “अतो ऽत्र ज्येष्ठतातिम्” इति ज्येष्ठशब्देन भोक्ता शुक्रात्मकः सूर्यः प्रकाश्यत इति, शुक्रग्रहणे इयमेव पुरोरुक्कार्येति । होममन्त्रे- “तस्मा इन्द्राय” (वा. सं. ७ । १५) इति निर्द्देशादस्या इन्द्रो देवता । माहेन्द्रत्वप्रसिद्धम् त्वां स्तुम इति शेषः । प्रत्नथेत्यादौ “प्रत्नपूर्व-” (पा. सू. ५ । ३ । २६) इत्यादिना थाल्प्रत्ययः । अतो ऽयमुपमार्थीयः । प्रत्नाः (निघं ३ । २७। १) पुरातनाः भृग्वादय इव, पूर्वे पित्रादय इव, विश्व इव, समस्ता अवशिष्टा ऋषय इव, ‘इमथा’ इमे इदानीन्तना यजमाना इव, त्वा स्तुमः । कीदृशं ‘ज्येष्ठतातिं’ प्रशस्तं “वृकज्येष्ठाभ्यां” (पा. सू. ५ । ४ । ४१) इति स्वार्थिकस्तातिल्प्रत्ययः । स्तीर्णे बर्हिषि यज्ञे स्थितं स्वर्गं लब्धवन्तं प्रत्यगात्मभूतं त्वां स्तुमः । त्वं च ‘धुनिम्’ अस्मान् कम्पयन् ‘वृजने’ वर्जनीयं पापं ‘दोहसे’ क्षारयसि, विनाशयसीत्यर्थः । क्व पुनः स्तोत्रं ‘यासु’ क्रियासु क्षिप्रमन्यान् यजमानान् ‘जयन्तं’ यजमानं वर्द्धयसे तासु स्तुमः इति पूर्वेण सम्बन्धः । हे सोमरस ! ‘उपयामगृहीतो ऽसि’ त्वां ‘शण्डाय’ गृह्णामि । नन्वस्य मन्त्रस्य “अत्ता हि ज्येष्ठः”- इत्येतद्ब्राह्मणानुसारेण सूर्यपरत्वमवगम्यते- तत् कथमिन्द्रपरत्वेन व्याख्यानमिति । उच्यते- इन्द्रो ऽपि सूर्यात्मकस्तन्मूर्तिभेदत्वात् । तथा च श्रूयते- “धाता चार्यमा च अँशश्च भगश्च इन्द्रश्च विवस्वांश्चेत्येते” (तै. आ. उ. १-१३) इति । तथा मन्त्रशास्त्रे ऽपि इन्द्रस्य सूर्यात्मकत्वं प्रसिद्धम्- “धाता चार्यममित्रा वरुणांशभगा विवस्वद्रिन्द्रयुताः । पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ॥”- इति । अत इन्द्रपरत्वेन व्याख्यानमुपपद्यते ॥

गृहीतस्य सोमरसस्य समन्त्रकं सादनं विधाय व्याचष्टे- एष ते योनिरित्यादि । भोक्तृवर्गः सूर्यरूपः शुक्रात्मकः अत एव समर्थः । तस्मात्प्रजानां सामर्थ्यं ‘पाहि’ पालयेति मन्त्र आहेत्यर्थः । पात्रप्रयोगकाले दक्षिणभागे प्रयुज्यत इति तत्रैव सादयेत् । तथा च कात्यायनः- “दक्षिणपूर्वार्द्धे शुक्रामन्थिनोर्दक्षिणं शुक्रस्य” (का. श्रौ. सू. ९ । २४ । २५) इति ॥ ९ ॥

Eggeling
  1. But let him make this one the puroruc formula of the Śukra (Vāj. S. VII, 12; Rig-veda V, 44, I), ‘In the olden way, in the former way, in every way, in this way (drawest thou) supremacy from him, the barhis-seated, and the bliss-attaining,’–for the eater corresponds to this (Śukra cup), and the eater is supreme hence he says, ‘Supremacy from him, the barhis-seated, bliss-attaining,’–and onward strength drawest thou from him, the roaring 6, the swift, that winneth those 7 through which thou waxest strong.–Thou art taken with a support: thee for Śaṇḍa!’–With ‘This is thy womb: protect manhood!’ he deposits (the cup); for to this one corresponds the eater, and the man (hero) is the eater: hence he says, ‘This is thy womb: protect manhood!’ He deposits it on the south part (of the mount), for it is in that direction that yonder (sun) moves.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मन्थि᳘नं गृह्णाति॥
(त्य) अयं᳘ व्वेन᳘श्चोदयत्पृ᳘श्निगर्भा ज्यो᳘तिर्जरायू र᳘जसो व्विमा᳘ने। इम᳘मपा᳘ᳫं᳘ संगमे सू᳘र्यस्य शि᳘शुं न व्वि᳘प्रा मति᳘भी रिहन्ति। उपयाम᳘गृहीतो ऽसि म᳘र्काय त्वे᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मन्थि᳘नं गृह्णाति॥
(त्य) अयं᳘ व्वेन᳘श्चोदयत्पृ᳘श्निगर्भा ज्यो᳘तिर्जरायू र᳘जसो व्विमा᳘ने। इम᳘मपा᳘ᳫं᳘ संगमे सू᳘र्यस्य शि᳘शुं न व्वि᳘प्रा मति᳘भी रिहन्ति। उपयाम᳘गृहीतो ऽसि म᳘र्काय त्वे᳘ति॥

मूलम् - Weber

अ᳘थ मन्थि᳘नं गृह्णाति॥
अयं᳘ वेन᳘श्चोदयत्पृ᳘श्निगर्भा ज्यो᳘तिर्जरायू र᳘जसो विमा᳘ने इम᳘मपा᳘ᳫं᳘ संगमे सू᳘र्यस्य शि᳘शुं न वि᳘प्रा मति᳘भी रिहन्ति उपयाम᳘गृहीतो ऽसि म᳘र्काय त्वे᳘ति॥

मूलम् - विस्वरम्

अथ मन्थिनं गृह्णाति- “अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इममपां सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति । उपयामगृहीतो ऽसि मर्काय त्वा”- (वा० सं० ७ । १६) इति ॥ १० ॥

सायणः

विहितं मन्थिनोर्ग्रहणमनूद्य मन्त्रं विधत्ते- अथेत्यादि 8 । मन्त्रस्यायमर्थः- अत्र पूर्वार्द्धे अधिदैवतमवस्थितः सोमः स्तूयते । उत्तरार्द्धे अधियज्ञम् । ‘वेनः’ कान्तः । “वेनो वेनतेः कान्तिकर्मणः” इति यास्कः । (निरु. १० । ४ । १) “विन कान्तौ” इत्यस्मादजन्तः । ‘जरायुः’ इति गर्भवेष्टनम् । ‘ज्योतिः’ एव जरायुर्वेष्टनं यस्य सः तथोक्तः । ‘रजसः’ उदकस्य ‘विमाने’ निर्माणस्थाने आकाश इत्यर्थः । तस्मिन् ‘अयं’ सोमः ‘पृश्निगर्भाः’ आदित्यगर्भा अपः ‘चोदयत्’ चोदयेत् । “लिङर्थे लेट्” (पा. सू. ३ । ४ । ७) “इतश्च लोपः परस्मैपदेषु” (पा. सू. ३ । ४ । ९७) इतीकारलोपः । बहुलग्रहणात् (पा. सू. ३ । १ । ३४) सिप्प्रत्ययो न भवति । अपामादित्यगर्भत्वम् “आपः सूर्ये समाहिताः” (तै. आ. उ. १-८.) इति श्रुतेः । अथाधियज्ञं सोमः स्तूयते- ‘इमं’ सोमम् ‘अपां’ ‘सूर्यस्य’ च संपर्कैर्गृहीताभिर्वसतीवरीभिरभिषुतं ‘विप्राः’ मेधाविनः क्षीरादिना ‘शिशुं न’ शिशुमिव ‘मतिभिः’ मतिपूर्विकाभिः स्तुतिभिः ‘रिहन्ति’ अर्चन्ति । रिहतिरर्चाकर्मसु पठितः (निघं. ३ । १४ । ११) ॥ १० ॥

Eggeling
  1. Thereupon he draws the Manthin with (Vāj. S. VII, 16;

Rig-veda X, 123, 1), ‘He, the longing 9, light-enveloped 10, urged the daughters of the dappled 11 on the measurer of the welkin 12: him the bards kiss like a child with songs at the union of the waters and the sun.–Thou art taken with a support: thee to Marka!’

११

विश्वास-प्रस्तुतिः

तंँ स᳘क्तुभिः श्रीणाति॥
तद्यत्स᳘क्तुभिः श्रीणा᳘ति व्व᳘रुणो ह वै सो᳘मस्य रा᳘ज्ञो᳘ ऽभीवा᳘क्षि प्र᳘तिपिपेष त᳘दश्वयत्ततो᳘ ऽश्वः स᳘मभवत्तद्य᳘च्छ्वय᳘थात्सम᳘भवत्त᳘स्माद᳘श्वो[[!!]] ना᳘म तस्या᳘श्रु प्रा᳘स्कन्दत्त᳘तो य᳘वः स᳘मभवत्त᳘स्मादाहुर्व्वरु᳘ण्यो य᳘व ऽइ᳘ति तद्य᳘दे᳘वास्या᳘त्र च᳘क्षुषो᳘ ऽमीयत ते᳘नै᳘वैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्मात्स᳘क्तुभिः श्रीणाति॥

मूलम् - श्रीधरादि

तंँ स᳘क्तुभिः श्रीणाति॥
तद्यत्स᳘क्तुभिः श्रीणा᳘ति व्व᳘रुणो ह वै सो᳘मस्य रा᳘ज्ञो᳘ ऽभीवा᳘क्षि प्र᳘तिपिपेष त᳘दश्वयत्ततो᳘ ऽश्वः स᳘मभवत्तद्य᳘च्छ्वय᳘थात्सम᳘भवत्त᳘स्माद᳘श्वो[[!!]] ना᳘म तस्या᳘श्रु प्रा᳘स्कन्दत्त᳘तो य᳘वः स᳘मभवत्त᳘स्मादाहुर्व्वरु᳘ण्यो य᳘व ऽइ᳘ति तद्य᳘दे᳘वास्या᳘त्र च᳘क्षुषो᳘ ऽमीयत ते᳘नै᳘वैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्मात्स᳘क्तुभिः श्रीणाति॥

मूलम् - Weber

तᳫं स᳘क्तुभिः श्रीणाति॥
तद्यत्स᳘क्तुभिः श्रीणा᳘ति व᳘रुणो ह वै सो᳘मस्य रा᳘ज्ञो ऽभीवा᳘क्षि प्र᳘तिपिपेष त᳘दश्वयत्ततो᳘ ऽश्वः स᳘मभवत्तद्य᳘छ्वय᳘थात्समभवत्त᳘स्मा᳘द᳘श्वो ना᳘म तस्या᳘श्रु प्रा᳘स्कन्दत्त᳘तो य᳘वः स᳘मभवत्त᳘स्मादाहुर्वरुॗण्यो य᳘व इ᳘ति तद्य᳘देॗवास्या᳘त्र च᳘क्षुषो᳘ ऽमीयत ते᳘नैॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्मात्स᳘क्तुभिः श्रीणाति॥

मूलम् - विस्वरम्

तं सक्तुभिः श्रीणाति । तद् यत्सक्तुभिः श्रीणाति । वरुणो ह वै सोमस्य राज्ञो ऽभीवाक्षि प्रतिपिपेष । तदश्वयत् । ततो ऽश्वः समभवत् । तद् यच्छ्वयथात्समभवत्- तस्मादश्वो नाम । तस्याश्रु प्रास्कन्दत् । ततो यवः समभवत् । तस्मादाहुः- वरुण्यो यव इति । तद् यदेवास्यात्र चक्षुषो ऽमीयत- तेनैवैनमेतत्समर्धयति, कृत्स्नं करोति । तस्मात्सक्तुभिः श्रीणाति ॥ ११ ॥

सायणः

गृहीतस्य सोमरसस्य यवपिष्टैर्मिश्रणं, तस्योपाख्यानेन हेतुं चाह- तं सक्तुभिरित्यादिना 13तद्यदिति । ‘सक्तुभिः श्रीणाति’ इति यत् तत्कारणमुच्यत इत्यर्थः । ‘अश्वयत्’ प्रवृद्धमभूत् । “टुओश्वि गतिवृद्ध्योः” (धा. पा. भ्वा. प. १०३५) इति धातुः । ‘श्वयथात्’ इति (इ) उकारस्य व्यत्ययेनाकारः । वरुण्य इति । “भवे छन्दसि”- (पा. सू. ४ । ४ । ११०) इति यत्प्रत्ययः । तद्यदिति । ‘अस्य’ सोमस्य ‘चक्षुषः’ सकाशात् देवांशरूपम् ‘अमीयत’ अपगतमभूत् । यदेतेन यवपिष्टमिश्रणेन ‘तेनैव’ अंशेन ‘एनं’ सोमं ‘समर्द्धयति’ तेन च ‘कृत्स्नं’ संपूर्णं करोतीत्यर्थः ॥ ११॥

Eggeling
  1. He mixes it with (barley) meal: the reason why he mixes it with meal is this. Varuṇa once struck king Soma right in the eye, and it swelled (aśvayat): therefrom a horse (aśva) sprung; and because it sprung from a swelling, therefore it is called aśva. A tear of his fell down: therefrom the barley sprung; whence they say that the barley belongs to Varuṇa. Thus whatever part of his eye was injured on that occasion in (that part he now restores him and makes him whole by means of this (barley): therefore he mixes (the libation) with meal.

१२

विश्वास-प्रस्तुतिः

स᳘ श्रीणाति॥
म᳘नो न ये᳘षु ह᳘वनेषु तिग्मं व्वि᳘पः श᳘च्या व्वनुथो द्र᳘वन्ता। आ यः श᳘र्याभिस्तुविनृम्णो᳘ ऽअस्या᳘श्रीणीता दि᳘शं ग᳘भस्तावेष᳘ ते यो᳘निः प्रजाः᳘ पाही᳘ति सादयत्या᳘द्यो᳘ ह्येतम᳘न्वा᳘द्या᳘ हीमाः᳘ प्रजा व्वि᳘शस्त᳘स्मादाहैष᳘ ते यो᳘निः प्रजाः᳘ पाही᳘ति॥

मूलम् - श्रीधरादि

स᳘ श्रीणाति॥
म᳘नो न ये᳘षु ह᳘वनेषु तिग्मं व्वि᳘पः श᳘च्या व्वनुथो द्र᳘वन्ता। आ यः श᳘र्याभिस्तुविनृम्णो᳘ ऽअस्या᳘श्रीणीता दि᳘शं ग᳘भस्तावेष᳘ ते यो᳘निः प्रजाः᳘ पाही᳘ति सादयत्या᳘द्यो᳘ ह्येतम᳘न्वा᳘द्या᳘ हीमाः᳘ प्रजा व्वि᳘शस्त᳘स्मादाहैष᳘ ते यो᳘निः प्रजाः᳘ पाही᳘ति॥

मूलम् - Weber

स᳘ श्रीणाति॥
म᳘नो न ये᳘षु ह᳘वनेषु तिग्मं वि᳘पः श᳘च्या वनुथो द्र᳘वन्ता आ यः श᳘र्याभिस्तुविनृम्णो᳘ अस्या᳘श्रीणीतादि᳘शं ग᳘भस्तावेष᳘ ते यो᳘निः प्रजाः᳘ पाही᳘ति सादयत्याॗद्यो ह्येतम᳘न्वाॗद्याॗ हीमाः᳘ प्रजा वि᳘शस्त᳘स्मादाहैष᳘ ते यो᳘निः प्रजाः᳘ पाही᳘ति॥

मूलम् - विस्वरम्

स श्रीणाति- “मनो न येषु हवनेषु तिग्मं विपःशच्या वनुथो द्रवन्ता । आ यः शर्याभिस्तुविनृम्णो ऽस्याश्रीणीता दिशम् । गभस्तावेष ते योनिः प्रजाः पाहि-” (वा. सं. ७-१७) इति सादयति । आद्यो ह्येतमनु । आद्या हीमाः प्रजा विशः । तस्मादाह- एष ते योनिः प्रजाः पाहीति ॥ १२ ॥

सायणः

विहितं मिश्रणमनूद्य मन्त्रं विधत्ते- स श्रीणातीति । मनो न येष्विति । हे ‘विपः’ विपश्चितः ! । प्रातिपदिकैकदेशः । सलोपच्छान्दसः । ‘येषु’ होमेषु ‘तिग्मं’ ‘मनो’ ‘न’ तीव्रं मन इव (निरु. १ । २ । १) द्रवन्तौ- “सुपां सुलुग्” (पा. सू. ७ । १ । ३९) इत्याकारादेशः । शुक्रामन्थिनौ ‘शच्या’ कर्मणा निमित्तेन ‘वनुथः’ प्राप्नुतः । व्यत्ययेन मध्यमपुरुषः (पा. सू. ३ । १ । ८५) (सकाशात्) देवांशभूतेषु होमेषु प्राप्तो ‘यः’ ‘तुविनृम्णो’ (निघं. ३ । १ । २) बहुबलो (निघं. २ । ९ । ९) मन्थ्यस्ति । ‘अस्य’ इमं ग्रहं ‘गभस्तौ’ पाणौ धृत्वा ‘शर्य्याभिः’ स्वाङ्गुलीभिः ‘आदिशं’ प्रतिदिशं यवपिष्टैः । ‘आश्रीणीत’ मिश्रयत । गभस्तिशब्दः पाणिवचनः, “पाणी वै गभस्ती” इति श्रुतेः । ग्रहस्य सादनं समन्त्रकं विधाय व्याचष्टे- एष त इत्यादि । आद्यो हीति । ‘आद्यो’ भोग्यवर्गः, चन्द्रात्मकस्य मन्थिनो ऽवस्थाभेद इत्युक्तम् (श. प. ४ । २ । १ । २-३) । प्रजाश्च भोग्याः; अतश्चन्द्रात्मकस्य मन्थिनो भोग्यप्रजारक्षकत्वं मन्त्र आहेत्यर्थः ॥ १२ ॥

Eggeling
  1. He mixes it with (Vāj. S. VII, 17; Rig-veda X, 61, 3), ‘At whichever offerings ye two, rushing swiftly as thought, accept with favour the songs–he, the manly, who by the reeds of this (one) hath seasoned 14 in the hand the

(object of his) desire;’–with ‘This is thy womb: protect the creatures!’ he deposits it (on the north part of the mound); for to this (graha) corresponds the food, and these creatures, the people, are food: hence he says, ‘This is thy womb: protect the creatures!’

१३

विश्वास-प्रस्तुतिः

द्वौ प्रो᳘क्षितौ यूपशकलौ भ᳘वतः॥
(तो) द्वाव᳘प्रो᳘क्षितौ प्रोक्षितं[[!!]] चै᳘वाध्वर्यु᳘रादत्ते᳘ ऽप्रोक्षितं चैव᳘मेव᳘ प्रतिप्रस्थाता प्रो᳘क्षितं चै᳘वादत्ते᳘ ऽप्रोक्षितं च शुक्र᳘मे᳘वाध्वर्ध्यु᳘रादत्ते᳘ मन्थि᳘नं प्रतिप्रस्थाता᳘॥

मूलम् - श्रीधरादि

द्वौ प्रो᳘क्षितौ यूपशकलौ भ᳘वतः॥
(तो) द्वाव᳘प्रो᳘क्षितौ प्रोक्षितं[[!!]] चै᳘वाध्वर्यु᳘रादत्ते᳘ ऽप्रोक्षितं चैव᳘मेव᳘ प्रतिप्रस्थाता प्रो᳘क्षितं चै᳘वादत्ते᳘ ऽप्रोक्षितं च शुक्र᳘मे᳘वाध्वर्ध्यु᳘रादत्ते᳘ मन्थि᳘नं प्रतिप्रस्थाता᳘॥

मूलम् - Weber

द्वौ प्रो᳘क्षितौ यूपशकलौ भ᳘वतः॥
द्वाव᳘प्रोक्षितौ प्रो᳘क्षितं चैॗवाध्व्र्यु᳘रादत्ते᳘ ऽप्रोक्षितं चैव᳘मेव᳘ प्रतिप्रस्थाता प्रो᳘क्षितं चैॗवादत्ते᳘ प्रोक्षितं च शुक्र᳘मेॗवाध्वर्यु᳘रादत्ते᳘ मन्थि᳘नम् प्रतिप्रस्थाता॥

मूलम् - विस्वरम्

द्वौ प्रोक्षितौ यूपशकलौ भवतः, द्वावप्रोक्षितौ । प्रोक्षितं चैवाध्वर्युरादत्ते, अप्रोक्षितं च । एवमेव प्रतिप्रस्थाता प्रोक्षितं चैवादत्ते ऽप्रोक्षितं च । शुक्रमेवाध्वर्युरादत्ते, मन्थिनं प्रतिप्रस्थाता ॥ १३ ॥

सायणः

प्रसङ्गाच्छुक्रामन्थिग्रहयोर्होमकाले कर्त्तव्यमनुष्ठानविशेषं विधत्ते- द्वौ प्रोक्षिताविति 15 । आह- अपमार्ष्टीति । ग्रहगतं धूल्यादिकमपध्वंसयेत् । तदित्यादि । एतेन रक्षोपध्वंसनेन ग्रहौ ‘आददानौ’ स्वीकुर्वाणौ । ‘एव’ ‘असुररक्षसे’ सुरविरोधिनौ राक्षसावपसार्य्य ‘हतो’ हिंस्त इत्यर्थः ॥

उभयोर्निष्क्रमणं समंन्त्रकमाह- देवास्त्वेत्यादि 16 । हे शुक्रग्रह ! ‘शुक्रपाः’ शुक्रग्रहस्य पातारौ देवास्त्वां ‘प्रणयन्तु’ यत्र स्थित्वा यागः क्रियते तं देशं प्रापयन्त्वित्यथः । एवमुत्तरत्रापि मन्त्रयोजना । तदिति । ‘तत्’ तेन मन्त्रोच्चारणेन देवतार्थमेव ‘एतौ’ ग्रहौ प्रापयतः । शण्डामर्कार्थं गृह्यमाणावपि न तदर्थमित्यर्थः ॥ १३ ॥ १४ ॥

Eggeling
  1. There are two sprinkled and two unsprinkled chips of the sacrificial stake 17: the Adhvaryu takes a sprinkled and an unsprinkled one; and in like manner the Pratiprasthātr̥ takes a sprinkled and an unsprinkled one. And the Adhvaryu takes the Śukra, the Pratiprasthātr̥ the Manthin.

१४

विश्वास-प्रस्तुतिः

सो ऽध्वर्युः[[!!]]॥
(र᳘) अ᳘प्रोक्षितेन यूपशकलेना᳘पमार्ष्ट्य᳘पमृष्टः श᳘ण्ड ऽइ᳘त्येव᳘मेव᳘ प्रतिप्रस्थाता᳘पमृष्टौ म᳘र्क ऽइ᳘ति त᳘दाद᳘दानावे᳘वासुररक्षसे ऽअ᳘पहतो देवा᳘स्त्वा शुक्रपाः प्र᳘णयन्त्वि᳘त्ये᳘वाध्वर्यु᳘र्निष्क्रामति[[!!]] देवा᳘स्त्वा मन्थिपाः प्र᳘णयन्त्वि᳘तिप्रतिप्रस्थाता त᳘देतौ[[!!]] देव᳘ताभ्य ऽएव प्र᳘णयतः॥

मूलम् - श्रीधरादि

सो ऽध्वर्युः[[!!]]॥
(र᳘) अ᳘प्रोक्षितेन यूपशकलेना᳘पमार्ष्ट्य᳘पमृष्टः श᳘ण्ड ऽइ᳘त्येव᳘मेव᳘ प्रतिप्रस्थाता᳘पमृष्टौ म᳘र्क ऽइ᳘ति त᳘दाद᳘दानावे᳘वासुररक्षसे ऽअ᳘पहतो देवा᳘स्त्वा शुक्रपाः प्र᳘णयन्त्वि᳘त्ये᳘वाध्वर्यु᳘र्निष्क्रामति[[!!]] देवा᳘स्त्वा मन्थिपाः प्र᳘णयन्त्वि᳘तिप्रतिप्रस्थाता त᳘देतौ[[!!]] देव᳘ताभ्य ऽएव प्र᳘णयतः॥

मूलम् - Weber

सो ऽध्वर्युः᳟॥
अ᳘प्रोक्षितेन यूपशकलेना᳘पमार्ष्ट्य᳘पमृष्टः श᳘ण्ड इ᳘त्येव᳘मेव᳘ प्रतिप्रस्थाता᳘पमृष्टौ म᳘र्क इ᳘ति त᳘दाद᳘दानावेॗवासुररक्षसे अ᳘पहतो देवा᳘स्त्वा शुक्रपाः प्र᳘णयन्त्वि᳘त्येॗवाध्वर्युर्निष्क्रा᳘मति देवा᳘स्त्वा मन्थिपाः प्र᳘णयन्त्वि᳘ति प्रतिप्रस्थाता त᳘देतौ᳘ देव᳘ताभ्य एव प्र᳘णयतः॥

मूलम् - विस्वरम्

सो ऽध्वर्युरप्रोक्षितेन यूपशकलेनापमार्ष्टि- “अपमृष्टः शण्डः” (वा. सं. ७ । १२)- इति । एवमेव प्रतिप्रस्थाता- “अपमृष्टो मर्कः” (वा. सं. ७ । १७)- इति । तदाददानावेवासुररक्षसे ऽअपहतः- “देवास्त्वा शुक्रपाः प्रणयन्तु” (वा. सं. ७ । १२) इत्येवाध्वर्युर्निष्क्रामति । “देवास्त्वा मन्थिपाः प्रणयन्तु”- (वा. सं. ७ । १७) इति प्रतिप्रस्थाता । तदेतौ देवताभ्य एव प्रणयतः ॥ १४ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. The Adhvaryu cleanses (his cup) with the unsprinkled chip, with, Swept away is Śaṇḍa!’ In like manner the Pratiprasthātr̥ with, ‘Swept away is Marka!’ Thus even while drawing (the cups), they drive away the two Asura-Rakshas. With ‘May the Śukra-sipping gods lead thee forward!’ the Adhvaryu walks out (of the cart-shed); with ‘May the Manthin-sipping gods lead thee forward!’ the Pratiprasthātr̥: thus they lead forward those two (libations) to the deities.

१५

विश्वास-प्रस्तुतिः

(स्तौ᳘) तौ᳘ जघ᳘नेनाहवनी᳘यमरत्नी सं᳘धत्तः॥
(स्ता᳘) ता᳘ ऽउत्तरवेदौ᳘ सादयतो द᳘क्षिणायामेव श्रो᳘णावध्वर्युः᳘ साद᳘यत्यु᳘त्तरायां प्रतिप्रस्थाता᳘ननुसृजन्तावेवा᳘नाधृष्टासी᳘ति तद्र᳘क्षोभिरे᳘वैत᳘दुत्तरवेदिम᳘नाधृष्टां कुरुतो विपर्येष्य᳘न्तौ वा᳘ ऽएता᳘वग्निं᳘ भवतो ऽत्येष्य᳘न्तौ त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुवाते त᳘थो हैनौ विपरिय᳘न्तावग्निर्न᳘ हिनस्ति᳘॥

मूलम् - श्रीधरादि

(स्तौ᳘) तौ᳘ जघ᳘नेनाहवनी᳘यमरत्नी सं᳘धत्तः॥
(स्ता᳘) ता᳘ ऽउत्तरवेदौ᳘ सादयतो द᳘क्षिणायामेव श्रो᳘णावध्वर्युः᳘ साद᳘यत्यु᳘त्तरायां प्रतिप्रस्थाता᳘ननुसृजन्तावेवा᳘नाधृष्टासी᳘ति तद्र᳘क्षोभिरे᳘वैत᳘दुत्तरवेदिम᳘नाधृष्टां कुरुतो विपर्येष्य᳘न्तौ वा᳘ ऽएता᳘वग्निं᳘ भवतो ऽत्येष्य᳘न्तौ त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुवाते त᳘थो हैनौ विपरिय᳘न्तावग्निर्न᳘ हिनस्ति᳘॥

मूलम् - Weber

तौ᳘ जघ᳘नेनाहवनी᳘यमरत्नी सं᳘धत्तः॥
ता᳘ उत्तरवेदौ᳘ सादयतो द᳘क्षिणायामेव श्रो᳘णावध्वर्युः᳘ साद᳘यत्यु᳘त्तरायाम् प्रतिप्रस्थाता᳘ननुसृजन्तावेवा᳘नाधृष्टासी᳘ति तद्र᳘क्षोभिॗरेवैत᳘दुत्तरवेदिम᳘नाधृष्टां कुरुतो विपर्येष्य᳘न्तौ वा᳘ एता᳘वग्नि᳘म् भवतो ऽत्येष्य᳘न्तौ त᳘स्मा एॗवैतन्नि᳘ह्नुवाते त᳘थो हैनौ विपरिय᳘न्तावग्निर्न᳘ हिनस्ति॥

मूलम् - विस्वरम्

तौ जघनेनाहवनीयमरत्नी सन्धत्तः । ता उत्तरवेदौ सादयतः दक्षिणायामेव श्रौणावध्वर्युः सादयति, उत्तरायां प्रतिप्रस्थाता अननुसृजन्तावेव । “अनाधृष्टासि”- (वा. सं. ७ । १२) इति । तद्रक्षोभिरेवैतदुत्तरवेदिमनाधृष्टां कुरुतः । विपर्येष्यन्तौ वा ऽएतावग्निं भवतो ऽत्येष्यन्तौ तस्मा ऽएवैतन्निह्नुवते । तथो हैनौ विपरियन्तावग्निर्न हिनस्ति ॥ १५ ॥

सायणः

निष्क्रमणानन्तरं कर्त्तव्यमरत्निसन्धानादिकं विधत्ते- तौ जघनेनेत्यादि 18 । ‘आहवनीयं’ ‘जघनेन’ आहवनीयस्य पश्चाद्भागे । ता उत्तरवेदाविति । ‘तौ’ शुक्रामन्थिग्रहौ, “लोपः शाकल्यस्य” (पा. सू. ८ । २ । १६) इति वकारलोपः । ‘अननुसृजन्तौ’ अपरित्यजन्तौ दक्षिणस्यां श्रोणौ ‘अध्वर्युः’ उत्तरस्यां ‘प्रतिप्रस्थाता’ सादयेत् । तत्र “अनाधृष्टा ऽसि” इति मन्त्रः । हे उत्तरवेदि ! ‘अनाधृष्टा ऽसि’ अनाधर्षिता अहिंसितेत्यर्थः । “आदितश्च”- (पा. सू. ७ । २ । १६) इतीडभावः । ‘तत्’ इत्यनेन ‘रक्षोभिः’ ‘उत्तरवेदिम्’ अहिंसितां ‘कुरुतः’ । किं च होमार्थमुत्तरवेदेः प्रत्यग्देशात्सकाशादाहवनीयं ‘विपर्य्येष्यन्तौ’ विविधं दक्षिणत उत्तरतश्च परितो गमिष्यन्ताविति व्यतिक्रममेव करिष्यमाणौ भवतः । अत एतेन वेदिश्रोण्योर्ग्रहासादनेन अतिक्रमणरूपमपराधं ‘तस्मा’ ‘अग्नये’ ‘अपह्नवाते’ अपनयतः कार्यार्थं गमिष्यावो न तु त्वामतिक्रमिष्याव इत्येतत्सूचयित्वा अग्निरनुसृतो भवति । अतः पश्चात् ‘तथा’ गच्छन्तावपि ‘अग्निः’ न हिनस्ति इत्यर्थः ॥ १५ ॥

Eggeling
  1. Behind the Āhavanīya fire they put their (right) elbows together, and deposit (the cups) on the high altar: the Adhvaryu on the right hip, and the Pratiprasthātr̥ on the left–without quitting their hold of them–with ‘Unassailable art

thou!’ whereby they make the high altar unassailable by evil spirits; for they are about, in walking round it, to pass by the fire: hereby, then, they propitiate it, and so the fire does not injure them, while they walk round it on different sides 19.

१६

विश्वास-प्रस्तुतिः

सो ऽध्वर्युः प᳘र्येति॥
सुवी᳘रो व्वीरा᳘न्प्रजन᳘यन्प᳘रीही᳘त्यत्ता᳘ ह्येतम᳘न्वत्ता हि᳘ व्वीरस्त᳘स्मादाह सुवी᳘रो व्वीरा᳘न्प्रजन᳘यन्परीही᳘त्यभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति तद्य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘हाभि᳘ रायस्पो᳘षेण य᳘जमानमिति[[!!]]॥

मूलम् - श्रीधरादि

सो ऽध्वर्युः प᳘र्येति॥
सुवी᳘रो व्वीरा᳘न्प्रजन᳘यन्प᳘रीही᳘त्यत्ता᳘ ह्येतम᳘न्वत्ता हि᳘ व्वीरस्त᳘स्मादाह सुवी᳘रो व्वीरा᳘न्प्रजन᳘यन्परीही᳘त्यभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति तद्य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘हाभि᳘ रायस्पो᳘षेण य᳘जमानमिति[[!!]]॥

मूलम् - Weber

सो ऽध्वर्युः प᳘र्येति॥
सुवी᳘रो वीरा᳘न्प्रजन᳘यन्प᳘रीही᳘त्यत्ताॗ ह्येतम᳘न्वत्ता हि᳘ वीरस्त᳘स्मादाह सुवी᳘रो वीरा᳘न्प्रजन᳘यन्परीही᳘त्यभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति तद्य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘हाभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति॥

मूलम् - विस्वरम्

सो ऽध्वर्युः पर्येति- “सुवीरो वीरान्प्रजनयन् परीहि”- (वा. सं. ७ । १३) इति । अत्ता ह्येतमनु अत्ता हि वीरः । तस्मादाह- सुवीरो वीरान्प्रजनयन्परीहीति । “अभि रायस्पोषेण यजमानम्”- (वा. सं. ७ । १३) इति । तद्यजमानायाशिषमाशास्ते- यदाह अभि रामस्पोषेण यजमानमिति ॥ १६ ॥

सायणः

अध्वर्युप्रतिप्रस्थात्रोः परितो गच्छतोर्गमनं समन्त्रकं विदधानो व्याचष्टे- “सो ऽध्वर्युरित्यादिना 18 । “सुवीरो वीरान्” इत्यनेनाध्वर्युः परीयात् । अत्र भोक्तृवर्गः सूर्यात्मकस्य शुक्रस्यावस्थाभेदः । भोक्ता च वीरः । अतः सुवीरो वीरानिति मन्त्रभाग आह- ‘रायस्पोषेण यजमानम्’ इत्यस्य मन्त्रभागस्योच्चारणेन यजमानस्याशीः सम्पाद्यत इत्यर्थः । कृत्स्नमन्त्रस्यायमर्थः- हे शुक्रग्रह ! लोके ‘वीरान्’ भोक्तॄन् उत्पादयन् तैः सुवीरस्त्वं धनसमृद्ध्या सह यजमानं परिगच्छेति ॥ १६ ॥

Eggeling
  1. The Adhvaryu walks round it (on the north side) with (Vāj. S. VII, 13), ‘Abounding in heroes, producing heroes’–for to this (libation) corresponds the eater, and the hero is the eater: hence he says, ‘Abounding in heroes, producing heroes!’–’encompass thou 20 the sacrificer with growth of wealth!’ By saying ‘Encompass thou the sacrificer with growth of wealth!’ he invokes a blessing upon the sacrificer.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्रतिप्रस्थाता प᳘र्येति॥
सुप्रजाः᳘ प्रजाः᳘ प्रजन᳘यन्प᳘रीहीत्या᳘द्यो᳘[[!!]] ह्येतम᳘न्वा᳘द्या᳘ हीमाः᳘ प्रजा व्वि᳘शस्त᳘स्मादाह सुप्रजाः᳘ प्रजाः᳘ प्रजन᳘यन्प᳘रीही᳘त्यभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति तद्य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘हाभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्रतिप्रस्थाता प᳘र्येति॥
सुप्रजाः᳘ प्रजाः᳘ प्रजन᳘यन्प᳘रीहीत्या᳘द्यो᳘[[!!]] ह्येतम᳘न्वा᳘द्या᳘ हीमाः᳘ प्रजा व्वि᳘शस्त᳘स्मादाह सुप्रजाः᳘ प्रजाः᳘ प्रजन᳘यन्प᳘रीही᳘त्यभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति तद्य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘हाभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति॥

मूलम् - Weber

अ᳘थ प्रतिप्रस्थाता प᳘र्येति॥
सुप्रजाः᳘ प्रजाः᳘ प्रजन᳘यन्प᳘रीही᳘त्याॗद्योॗ ह्येतम᳘न्वाॗद्याॗ हीमाः᳘ प्रजा वि᳘शस्तस्मादाह सुप्रजाः᳘ प्रजाः᳘ प्रजन᳘यन्प᳘रीही᳘त्यभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति तद्य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘हाभि᳘ रायस्पो᳘षेण य᳘जमानमि᳘ति॥

मूलम् - विस्वरम्

अथ प्रतिप्रस्थाता पर्येति- “सुप्रजाः प्रजाः प्रजनयन्परीहि”- (वा. सं. ७ । १८) इति । आद्यो ह्येतमनु । आद्या हीमाः प्रजा विशः । तस्मादाह- सुप्रजाः प्रजाः प्रजनयन्परीहीति । “अभि रायस्योषेण यजमानम्”- (वा० सं० ७ । १८) इति । तद् यजमानायाशिषमाशस्ते । यदाह- अभिरायस्पोषेण यजमानमिति ॥ १७ ॥

सायणः

अथ प्रतिप्रस्थाते त्यत्राप्येवं योज्यम् । (का. श्रौ. सू. ९ । २१७) ‘आद्यो’ भोग्यवर्गश्च चन्द्रात्मकस्य मन्थिनो ऽवस्थाभेदः । प्रजायमाना ‘विशः’ च भोग्याः । स्पष्टमन्यत् ॥ १७ ॥

Eggeling
  1. And the Pratiprasthātr̥ walks round (on the south side) with (Vāj. S. VII, 18), ‘Abounding in creatures, producing creatures’–for to this (libation) corresponds the food, and the creatures, the people, are the food: hence he says, ‘Abounding in creatures, producing creatures,’–’encompass thou the sacrificer with growth of wealth!’ By saying ‘Encompass thou the sacrificer with growth of wealth!’ he invokes a blessing on the sacrificer.

१८

विश्वास-प्रस्तुतिः

ता᳘वपिधा᳘य नि᳘ष्क्रामतः॥
(स्ति) तिर᳘ ऽए᳘वैनावेत᳘त्कुरुतस्त᳘स्मादिमौ᳘ सूर्याचन्द्रम᳘सौ प्रा᳘ञ्चौ य᳘न्तौ न क᳘श्चन᳘ पश्यति तौ᳘ पुर᳘स्तात्परीत्या᳘पोर्णुतः पुर᳘स्तात्ति᳘ष्ठन्तौ जुहुत ऽआवि᳘रे᳘वैनावेत᳘त्कुरुतस्त᳘स्मादिमौ[[!!]] सूर्याचन्द्रम᳘सौ प्रत्य᳘ञ्चौ य᳘न्तौ स᳘र्व्व एव᳘ पश्यति त᳘स्मात्प᳘राग्रे᳘तः सिच्य᳘मानं न क᳘श्चन᳘ पश्यति त᳘दु पश्चा᳘त्प्रजा᳘यमानᳫँस᳘र्व्व एव᳘ पश्यति॥

मूलम् - श्रीधरादि

ता᳘वपिधा᳘य नि᳘ष्क्रामतः॥
(स्ति) तिर᳘ ऽए᳘वैनावेत᳘त्कुरुतस्त᳘स्मादिमौ᳘ सूर्याचन्द्रम᳘सौ प्रा᳘ञ्चौ य᳘न्तौ न क᳘श्चन᳘ पश्यति तौ᳘ पुर᳘स्तात्परीत्या᳘पोर्णुतः पुर᳘स्तात्ति᳘ष्ठन्तौ जुहुत ऽआवि᳘रे᳘वैनावेत᳘त्कुरुतस्त᳘स्मादिमौ[[!!]] सूर्याचन्द्रम᳘सौ प्रत्य᳘ञ्चौ य᳘न्तौ स᳘र्व्व एव᳘ पश्यति त᳘स्मात्प᳘राग्रे᳘तः सिच्य᳘मानं न क᳘श्चन᳘ पश्यति त᳘दु पश्चा᳘त्प्रजा᳘यमानᳫँस᳘र्व्व एव᳘ पश्यति॥

मूलम् - Weber

ता᳘वपिधा᳘य नि᳘ष्क्रामतः॥
तिर᳘ एॗवैनावेत᳘त्कुरुतस्त᳘स्मादिमौ᳘ सूर्याचन्द्रम᳘सौ प्रा᳘ञ्चौ य᳘न्तौ न क᳘श्चन᳘ पश्यति तौ᳘पुर᳘स्तात्परीत्या᳘पोर्णुतः पुर᳘स्तात्ति᳘ष्ठन्तौ जुहुत आवि᳘रेॗवैनावेत᳘त्कुरुतस्त᳘स्मादिमौ᳘ सूर्याचन्द्रम᳘सौ प्रत्य᳘ञ्चौ य᳘न्तौ स᳘र्व एव᳘ पश्यति त᳘स्मात्प᳘राग्रे᳘तः सिच्य᳘मानं न क᳘श्चन᳘ पश्यति त᳘दु पश्चा᳘त्प्रजा᳘यमानᳫं स᳘र्व एव᳘ पश्यति॥

मूलम् - विस्वरम्

तावपिधाय निष्क्रामतः । तिर एवैनावेतत्कुरुतः । तस्मादिमौ सूर्याचन्द्रमसौ प्राञ्चौ यन्तौ न कश्चन पश्यति । तौ पुरस्तात्परीत्यापोर्णुतः, पुरस्तात्तिष्ठन्तौ जुहुतः- आविरेवैनावेतत्कुरुतः । तस्मादिमौ सूर्याचन्द्रमसौ प्रत्यञ्चौ यन्तौ सर्व एव पश्यति । तस्मात्पराग्रेतः सिच्यमानं न कश्चन पश्यति । तदु पश्चात्प्रजायमानं सर्व एव पश्यति ॥ १८ ॥

सायणः

आहवनीयस्य पश्चाद्भागे ग्रहयोराच्छादनं, पुरस्ताद् गत्वा तदपनयनं च विधत्ते- तावपिधायेत्यादि । अत्रानन्तरमेवोपात्तत्वेन प्रकृतत्वात् प्रोक्षिताभ्यां शकलाभ्यामपिदध्याताम् । पिधानस्य तु प्रयोजनं ग्रहयोः प्राग्गमनसमये लोकैरनुपलम्भाय तिरोधानम् । शुक्रामन्थिनौ सूर्यचन्द्रात्मकौ, तयोश्च प्राग्गतिर्न केनचिदुपलभ्यते, अतस्तदात्मकयोरनयोर्ग्रहयोरपि प्राग्गत्या लोकैरनुपलब्धयैव भवितव्यमिति । ‘पुरस्तात्’ स्थित्वा आच्छादनम् अपोर्णुतः अपनयतः । तस्य च प्रयोजनं ग्रहयोराविष्करणं; सूर्याचन्द्रमसौ च प्राग्गतौ सर्वैर्दृश्येते, अतस्तदात्मकयोरनयोर्ग्रहयोरपि प्राग्भागे प्रकाशनमुपपद्यत इत्यर्थः । अत एव शाखान्तरे ऽप्येवमाम्नायते- “असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थ्यपिगृह्य प्रांचौ निष्क्रामतस्तस्मात् प्राञ्चौ यन्तौ न पश्यन्ति प्रत्यञ्चावावृत्य जुहुतस्तस्मात् प्रत्यञ्चौ यन्तौ पश्यन्ति” (तै. सं. ६ । ४ । १०) इति । ननु सर्वेषां ग्रहाणां प्रत्यग्गतिरेव प्रसिद्धा न तु प्राग्गतिः, अतः सूर्याचन्द्रमसोः प्राग्गतिरिति यदुक्तं तदनुपपन्नमिति चेतः उच्यते- यदा सूर्यश्चन्द्रमाश्च यस्मिन् नक्षत्रे तिष्ठति तदा तेनैव सह प्रत्यग्गच्छति । तत्र प्रवहणवायुवशेन तस्मिन्नक्षत्रे पुरतः शीघ्रं नीयमाने सति स्वयं पश्चाद्धीयते । स तथाविधः सन् ततः प्राचीनेन नक्षत्रान्तरेण युज्यते । सैव प्राग्गतिः । सा तु न केनचिदप्युपलभ्यते । तथा च ज्योतिःसिद्धान्ते ऽभिहितम्- “पश्चाद्-व्रजन्तो ऽतिजवान्नक्षत्रैः सततं ग्रहाः । नीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः ॥ प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः ॥”- (सूर्यसि. म. प्र.) इति । अथ च प्रागुदितौ सूर्याचन्द्रमसौ प्रत्यगस्तं गत्वा पुनः प्रागुदयाय प्रत्यक्तः सकाशात् पाताले प्राग्गच्छतः । तथा गच्छन्तौ तौ न दृश्येते, भूभागव्यवधानात् । तावेव तु प्रागुदयं गतौ दृश्येते । प्राक्तस्तु प्रत्यग् गच्छन्तावव्यवहितत्वात् सर्वैरेव दृश्येते । अतस्तदात्मनोर्ग्रहयोरपि प्राग्गतिसमये सकलाभ्यां पिधानम् । प्रत्यग्गतिसमये तदपनयनं किञ्चित्, यस्मात् प्राग्गमनसमये ग्रहयोराच्छादनं पुरतो गत्वा तदपनयनं कृतम् । ‘तस्मात्’ लोके ऽपि ‘पराक्’ पराचीनं ‘सिच्यमानं’ ‘रेतः’ ‘न’ कश्चिदपि ‘पश्यति’ ‘पश्चात्’ प्रत्यगभिमुखं ‘जायमानं’ तत् ‘सर्व एव’ ‘पश्यति’ ॥ १८ ॥

Eggeling
  1. They step out (from the altar) after closing the two (cups with their hands): thereby they make them invisible; whence no one sees yonder sun and moon when they go forward (eastwards). Having gone round to the front (of the stake), they uncover (the cups), and offer them while standing in front: thereby they make them visible; whence every one

sees yonder sun and moon when they go backwards. Hence also no one sees the seed which is cast forwards, but every one sees what is produced backwards.

१९

विश्वास-प्रस्तुतिः

तौ᳘ जघ᳘नेन यू᳘पमरत्नी सं᳘धत्तः॥
(त्तो) य᳘द्यग्नि᳘र्नोद्बा᳘धेत य᳘द्यु ऽअग्नि᳘रुद्बा᳘धेताप्य᳘ग्रेणैव यू᳘पमरत्नी सं᳘दध्याताᳫंसंजग्मानो᳘ दिवा᳘ पृथिव्या᳘ शुक्रः᳘ शुक्र᳘शोचिषे᳘त्ये᳘वाध्वर्युः᳘ संजग्मानो᳘ दिवा᳘ पृथिव्या᳘ मन्थी᳘ मन्थि᳘शोचिषे᳘ति प्रतिप्रस्थाता च᳘क्षुषोरे᳘वैते᳘ ऽआर᳘मणे कुरुतश्च᳘क्षुषी ऽए᳘वैतत्सं᳘धत्तस्त᳘स्मादिमे᳘ ऽअभितो᳘ ऽस्थिनी च᳘क्षुषी स᳘ᳫं᳘हिते᳘॥

मूलम् - श्रीधरादि

तौ᳘ जघ᳘नेन यू᳘पमरत्नी सं᳘धत्तः॥
(त्तो) य᳘द्यग्नि᳘र्नोद्बा᳘धेत य᳘द्यु ऽअग्नि᳘रुद्बा᳘धेताप्य᳘ग्रेणैव यू᳘पमरत्नी सं᳘दध्याताᳫंसंजग्मानो᳘ दिवा᳘ पृथिव्या᳘ शुक्रः᳘ शुक्र᳘शोचिषे᳘त्ये᳘वाध्वर्युः᳘ संजग्मानो᳘ दिवा᳘ पृथिव्या᳘ मन्थी᳘ मन्थि᳘शोचिषे᳘ति प्रतिप्रस्थाता च᳘क्षुषोरे᳘वैते᳘ ऽआर᳘मणे कुरुतश्च᳘क्षुषी ऽए᳘वैतत्सं᳘धत्तस्त᳘स्मादिमे᳘ ऽअभितो᳘ ऽस्थिनी च᳘क्षुषी स᳘ᳫं᳘हिते᳘॥

मूलम् - Weber

तौ᳘ जघ᳘नेन यू᳘पमरत्नी सं᳘धत्तः॥
य᳘द्यग्निॗर्नोद्बा᳘धेत य᳘द्यु अग्नि᳘रुद्बा᳘धेताप्य᳘ग्रेणैव यू᳘पमरत्नी सं᳘दध्याताᳫं संजग्मानो᳘ दिवा᳘ पृथिव्या᳘ शुक्रः᳘ शुक्र᳘शोचिषे᳘त्येॗवाध्वर्युः᳘ संजग्मानो दिवा᳘ पृथिव्या᳘ मन्थी मन्थि᳘शोचिषे᳘ति प्रतिप्रस्थाता च᳘क्षुषोरेॗवैते᳘ आर᳘मणे कुरुतश्च᳘क्षुषी एॗवैतत्सं᳘धत्तस्त᳘स्मादिमे᳘ अभितो᳘ ऽस्थिनी च᳘क्षुषी स᳘ᳫं᳘हिते॥

मूलम् - विस्वरम्

तौ जघनेन यूपमरत्नी संधत्तोः- यद्यग्निर्नोद्बाधेत । यद्यु ऽअग्निरुद्बाधेत- अप्यग्रेणैवयूपमरत्नी सन्दध्याताम्- “संजग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषा”- (वा. सं. ७ । १३) इत्येवाध्वर्युः । “सं जग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा”- (वा. सं. ७ । १८) इति प्रतिप्रस्थाता । चक्षुषोरेवैते ऽआरमणे कुरुतः चक्षुषी ऽएवैतत्सन्धत्तः । तस्मादिमे ऽअभितो ऽस्थिनी चक्षुषी संहिते ॥ १९ ॥

सायणः

यूपस्य पश्चात् पुरतो वा तयोः पुनरभिसन्धानं समन्त्रकमाह 21- तौ जघनेनेत्यादि । उद्बाधेत इति दहेदित्यर्थः । सन्धानमन्त्रस्यायमर्थः- ‘दिवा’ द्युलोकेन पृथिव्या च ‘संजग्मानः’ सङ्गच्छमानः, “समो गमृच्छी”- (पा. सू. १ । ३ । २९) इत्यादिना- आत्मनेपदविधानाल्लिटः कानजादेशः (पा. सू. ३ । २ । १०६) द्विर्वचनम् (पा. सू. ६ । १ । ८) । “गमहन” (पा. सू. ६ । ४ ।९८) । इत्यादिना- उपधालोपः । तथाविधः शुक्रग्रहः शुक्रदेवतासम्बन्धिना तेजसा रक्षसामपघातं करोत्विति शेषः । एवमुत्तरत्रापि मन्त्रे योजनीयम् ॥ एतेन सन्धानेन ‘चक्षुषोरेव आरमणे’ सञ्चारस्थाने ‘कुरुत’ । एतस्मिन् स्थाने ‘चक्षुषी’ अपि ‘सन्धत्तः’ संहिते कुरुतः । यत एवं ‘तस्मात्’ लौकिकानां ‘चक्षुषी’ उभयतो ऽस्थिमती ‘संहिते’ भवतः ॥ १९ ॥

Eggeling
  1. They put their elbows together behind the sacrificial stake, unless the fire should blaze up 22; but. if the fire blaze up, they may join their elbows in front of the stake,–the Adhvaryu with, ‘The Śukra (bright), uniting with the sky, with the earth, with the brightly shining;’ the Pratiprasthātr̥ with, ‘The Manthin, uniting with the sky, with the earth, with the manthin-shining.’ Thus they make these two (cups) the resting-places of the eyes, and join the two eyes together: whence these two eyes are joined together with bones all round 23.

२०

विश्वास-प्रस्तुतिः

सो ऽध्वर्युः[[!!]]॥
अ᳘प्रोक्षितं यूपशकलं नि᳘रस्यति नि᳘रस्तः श᳘ण्ड इ᳘त्येव᳘मेव᳘ प्रतिप्रस्थाता नि᳘रस्तो म᳘र्क इ᳘ति त᳘त्पुरा᳘हुतिभ्यो ऽअसुररक्षसे अअ᳘पहतः॥

मूलम् - श्रीधरादि

सो ऽध्वर्युः[[!!]]॥
अ᳘प्रोक्षितं यूपशकलं नि᳘रस्यति नि᳘रस्तः श᳘ण्ड इ᳘त्येव᳘मेव᳘ प्रतिप्रस्थाता नि᳘रस्तो म᳘र्क इ᳘ति त᳘त्पुरा᳘हुतिभ्यो ऽअसुररक्षसे अअ᳘पहतः॥

मूलम् - Weber

सो ऽध्वर्युः᳟॥
अ᳘प्रोक्षितं यूपशकलं नि᳘रस्यति नि᳘रस्तः श᳘ण्ड इ᳘त्येव᳘मेव᳘ प्रतिप्रस्थाता नि᳘रस्तो म᳘र्क इ᳘ति त᳘त्पुरा᳘हुतिभ्यो ऽसुररक्षसे अ᳘पहतः॥

मूलम् - विस्वरम्

सो ऽध्वर्युरप्रोक्षितं यूपशकलं निरस्यति- “निरस्तः शण्डः”- (वा० सं० ७ । १३) इति । एवमेव प्रतिप्रस्थाता- “निरस्तो मर्कः”- (वा० सं० ७ । १८) इति । तत्पुराहुतिभ्यो ऽअसुररक्षसे ऽअपहतः ॥ २० ॥

सायणः

अप्रोक्षितस्य यूपशकलस्य निरसनं प्रोक्षितस्याहवनीये प्रासनं च समन्त्रकं विधत्ते- सो ऽध्वर्युरित्यादि 24 । तत् तेन निरसनेन आहुतिकालात् प्रागेव ‘असुररक्षसे अपहतः’ अपगमय्य हिंस्तः । चक्षुषोरित्यादि । ‘एते’ ‘चक्षुषोः’ चक्षुरात्मकयोर्ग्रहयोः सम्बन्धिन्यौ ‘समिधौ’ यतः, अतः ‘चक्षुषी’ ‘एव’ ‘ताभ्यां समिन्धे’ उज्ज्वलयत्यध्वर्युः प्रतिप्रस्थाता च ‘तस्मात्’ लौकिकानाम् । ‘इमे’ दृश्यमाने ‘चक्षुषी’ प्रकाशमाने भवतः ॥ २० ॥ २१ ॥

Eggeling
  1. The Adhvaryu throws the unsprinkled stake-chip outside (the altar) with, ‘Cast out is Śaṇḍa!’ and in like manner the Pratiprasthātr̥ with, ‘Cast out is Marka!’ Thus they drive away the two Asura-Rakshas before the offerings.

२१

विश्वास-प्रस्तुतिः

(तो᳘ ऽथा) अ᳘थाध्वर्युः[[!!]]॥
प्रो᳘क्षितं यूपशकल᳘माहवनी᳘ये प्रा᳘स्यति शुक्र᳘स्याधिष्ठा᳘नमसी᳘त्येव᳘मेव᳘ प्रतिप्रस्थाता᳘ मन्थि᳘नो ऽधिष्ठा᳘नमसी᳘ति च᳘क्षुषोरे᳘वैते᳘ समि᳘धौ च᳘क्षुषी ऽए᳘वैतत्स᳘मिन्धे त᳘स्मादिमे स᳘मिद्धे च᳘क्षुषी॥

मूलम् - श्रीधरादि

(तो᳘ ऽथा) अ᳘थाध्वर्युः[[!!]]॥
प्रो᳘क्षितं यूपशकल᳘माहवनी᳘ये प्रा᳘स्यति शुक्र᳘स्याधिष्ठा᳘नमसी᳘त्येव᳘मेव᳘ प्रतिप्रस्थाता᳘ मन्थि᳘नो ऽधिष्ठा᳘नमसी᳘ति च᳘क्षुषोरे᳘वैते᳘ समि᳘धौ च᳘क्षुषी ऽए᳘वैतत्स᳘मिन्धे त᳘स्मादिमे स᳘मिद्धे च᳘क्षुषी॥

मूलम् - Weber

अथाध्वर्युः᳟॥
प्रो᳘क्षितं यूपशकल᳘माहवनी᳘ये प्रा᳘स्यति शुक्र᳘स्याधिष्ठा᳘नमसी᳘त्येव᳘मेव᳘ प्रतिप्रस्थाता᳘ मन्थि᳘नो ऽधिष्ठा᳘नमसी᳘ति च᳘क्षुषोरेॗवैते समि᳘धौ च᳘क्षुषी एॗवैतत्स᳘मिन्द्धे त᳘स्मादिमे स᳘मिद्धे च᳘क्षुषी॥

मूलम् - विस्वरम्

अथाध्वर्युः प्रोक्षितं यूपशकलमाहवनीये प्रास्यति- “शुक्रस्याधिष्ठानमसि”- (वा० सं० ७ । १३) इति । एवमेव प्रतिप्रस्थाता- “मन्थिनो ऽधिष्ठानमसि”- (वा० सं० ७ । १८) इति । चक्षुषोरवैते समिधौ । चक्षुषी ऽएवैतत्समिन्द्धे । तस्मादिमे समिद्धे चक्षुषी ॥ २१ ॥

सायणः

[व्याख्यानं विंशतितमे]

Eggeling
  1. Thereupon the Adhvaryu throws the sprinkled stake-chip on the Āhavanīya with, ‘Thou art the abode of the Śukra!’ and in like manner the Pratiprasthātr̥ with, ‘Thou art the abode of the Manthin!’ These two (chips), forsooth, are the kindlers of the eyes,–he kindles the eyes therewith; whence these eyes are kindled.

२२

विश्वास-प्रस्तुतिः

त᳘त्र जपति॥
(त्य᳘) अ᳘च्छिन्नस्य ते देव सोम सवी᳘र्यस्य रायस्पो᳘षस्य ददिता᳘रः स्यामे᳘त्याशी᳘रे᳘वै᳘षैत᳘स्य क᳘र्मण आशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - श्रीधरादि

त᳘त्र जपति॥
(त्य᳘) अ᳘च्छिन्नस्य ते देव सोम सवी᳘र्यस्य रायस्पो᳘षस्य ददिता᳘रः स्यामे᳘त्याशी᳘रे᳘वै᳘षैत᳘स्य क᳘र्मण आशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - Weber

त᳘त्र जपति॥
अ᳘छिन्नस्य ते देव सोम सवी᳘र्यस्य रायस्पो᳘षस्य ददिता᳘रः स्यामे᳘त्याशी᳘रेॗवैॗषैत᳘स्य क᳘र्मण आशि᳘षमेॗवैतदा᳘शास्ते॥

मूलम् - विस्वरम्

तत्र जपति- “अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्याम”- (वा० सं० ७ । १४) इति । आशीरेवैषैतस्य कर्मणः । आशिषमेवैतदाशास्ते ॥ २२ ॥

सायणः

होमात् पुरा अध्वर्योर्मन्त्रजपं विधत्त- तत्रेत्यादि 24 । हे ‘देव’ द्योतमान ! ‘सोम’ ‘अच्छिन्नस्य’ अनवखण्डितस्य शोभनप्रभावस्य ‘रायो’ धनस्य ‘पोषस्य’ पुष्टिसाधनभूतस्य । करणे घञ् (पा. सू. ६ । ४ । २७) “षष्ठ्याः पतिपुत्र-” (पा. सू. ८ । ३ । ५३) इत्यादिना- विसर्जनीयस्य सकारः । तादृशस्य ते ‘ददितारः’ देवेभ्यो दातारः ‘स्याम’ । अत्र सोमदानस्याभिहितत्वात् सोमसाधनकर्म्मविषयैवेयं प्रार्थना, अत एतेन मन्त्रोच्चारणेन ताम् ‘एवाशिषमाशास्ते’ ॥ २२ ॥

Eggeling
  1. Thereon he mutters (Vāj. S. VII, 14), ‘May

we be the preservers of thine unbroken manhood and prosperity, O divine Soma!’ This is the benediction of that performance: he thereby invokes a blessing.

२३

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथा) अ᳘थाश्रा᳘व्याह॥
प्रातः᳘ प्रातः सव᳘स्य शुक्र᳘वतो मधुश्चु᳘त ऽइ᳘न्द्राय सो᳘मान्प्र᳘स्थितान्प्रेष्ये᳘ति व्व᳘षट्कृते ऽध्वर्यु᳘र्जुहोति तद᳘नु प्रतिप्रस्थाता तद᳘नु चमसा᳘ध्वर्यवः॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथा) अ᳘थाश्रा᳘व्याह॥
प्रातः᳘ प्रातः सव᳘स्य शुक्र᳘वतो मधुश्चु᳘त ऽइ᳘न्द्राय सो᳘मान्प्र᳘स्थितान्प्रेष्ये᳘ति व्व᳘षट्कृते ऽध्वर्यु᳘र्जुहोति तद᳘नु प्रतिप्रस्थाता तद᳘नु चमसा᳘ध्वर्यवः॥

मूलम् - Weber

अ᳘थाश्रा᳘व्याह॥
प्रातः᳘प्रातः सव᳘स्य शुक्र᳘वतो मधुश्चु᳘त इ᳘न्द्राय सो᳘मान्प्र᳘स्थितान्प्रेष्ये᳘ति व᳘षट्कृते ऽध्वर्यु᳘र्जुहोति तद᳘नु प्रतिप्रस्थाता तद᳘नु चमसा᳘ध्वर्यवः॥

मूलम् - विस्वरम्

अथाश्राव्याह- ‘प्रातः प्रातःसवस्य शुक्रवतो मधुश्रुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य’ इति । वषट्कृते ऽध्वर्युर्जुहोति । तदनु प्रतिप्रस्थाता । तदनु चमसाध्वर्यवः ॥ २३ ॥

सायणः

मन्त्रजपानन्तरमाश्रावणपूर्वकं प्रैषं विधत्ते- अथेत्यादि 25 । आश्रावयेत्येतच्छब्दरूपमाश्रावणम् । प्रातःकाले प्रातःसवनस्य सम्बन्धिनः ‘शुक्रवतः’ सारवतो ‘मधुश्रुतः’ माधुर्यरसस्यन्दिनः ‘इन्द्रार्थं’ ‘प्रस्थितान्’ प्रयतान् ‘सोमान्’ होतुं होतारं प्रति याज्यापाठार्थं प्रेरयेति मैत्रावरुणं विनियुञ्जीतेत्यर्थः । वषट्कारावसाने ग्रहचमसानां होमं होमार्थमेव स्थानविशेषं चाह- वषट्कृत इत्यादि । ‘तदनु’ तद्वचनमनुसृत्येत्यर्थः । ‘पुरस्ताद्’ आहवनीयस्य पूर्वभागे ‘जुहुतः’ । शुक्रामन्थिग्रहयोश्चक्षुरात्मकत्वात् तयोः पूर्वभागे यद्धारणं तेन लौकिकानाम् ‘इमे’ ‘चक्षुषी’ ‘पुरस्तादेव’ ध्रियेते । तथा यूपस्योभयपार्श्वयोः स्थित्वा होमाल्लोके ऽपि नासिकामुभयतश्चक्षुषी ध्रियेते इत्यर्थः । यद्यप्यत्र सौमिका एवर्त्विजश्चमससम्बन्धाच्चमसाध्वर्यव इति व्यपदिश्यन्त इति प्रतीयते- यथा देवदत्तः पचिक्रियासम्बन्धात् पाचक इति; तथापि “मध्यतः कारिणां चमसाध्वर्यवो, होत्रकाणां चमसाध्वर्यवः” इति षष्ठ्या भेदप्रतीतेरन्य एव चमसाध्वर्यवः । न चैवं शमितेत्यत्रापि यौगिक्याः सञ्ज्ञाया अनाश्रयणादन्य 26 एव स्यादिति शङ्कनीयम्, वैषम्यात् । तत्र हि वरणं नास्ति । अत्र पुनश्चमसाध्वर्यून् वृणीत इति वरणमस्ति 27 । षष्ठी च भेदस्य ज्ञापिकेति वैषम्यम् ॥ २३-२५ ॥

Eggeling
  1. He then calls (on the Agnīdh) for the Śraushaṭ, and says, ‘Urge thou for Indra the Soma-draughts brought forward, the pure, sweet-flowing, of the morrow’s morning feast!’ As the Vashaṭ is uttered, the Adhvaryu offers; then the Pratiprasthātr̥; then the cup-bearers (camasādhvaryu).

२४

विश्वास-प्रस्तुतिः

(स्तौ) तौ वै᳘ पुर᳘स्तात्ति᳘ष्ठन्तौ जुहुतः॥
(श्च᳘) च᳘क्षुषी वा᳘ ऽएतौ त᳘त्पुर᳘स्तादे᳘वैतच्च᳘क्षुषी धत्तस्तस्मादिमे᳘[[!!]] पुर᳘स्ताच्च᳘क्षुषी॥

मूलम् - श्रीधरादि

(स्तौ) तौ वै᳘ पुर᳘स्तात्ति᳘ष्ठन्तौ जुहुतः॥
(श्च᳘) च᳘क्षुषी वा᳘ ऽएतौ त᳘त्पुर᳘स्तादे᳘वैतच्च᳘क्षुषी धत्तस्तस्मादिमे᳘[[!!]] पुर᳘स्ताच्च᳘क्षुषी॥

मूलम् - Weber

तौ वै᳘ पुर᳘स्तात्ति᳘ष्ठन्तौ जुहुतः॥
च᳘क्षुषी वा᳘ एतौ त᳘त्पुर᳘स्तादेॗवैतच्च᳘क्षुषी धत्तस्त᳘स्मादिमे᳘ पुर᳘स्ताच्च᳘क्षुषी॥

मूलम् - विस्वरम्

तौ वै पुरस्तात्तिष्ठन्तौ जुहुतः । चक्षुषी वा ऽएतौ । तत् पुरस्तादेवैतच्चक्षुषी धत्तः । तस्मादिमे पुरस्ताच्चक्षुषी ॥ २४ ॥

सायणः

[व्याख्यानं त्रयोविंशतितमे]

Eggeling
  1. Those two offer while standing in front (of the fire); for these two (libations) are the eyes: thus they put those eyes in the front; and hence these eyes are in the front.

२५

विश्वास-प्रस्तुतिः

(षी ऽअ) अभि᳘तो यू᳘पं ति᳘ष्ठन्तौ जुहुतः॥
(तो) य᳘था वै ना᳘सिकैवं यू᳘पस्त᳘स्मादिमे᳘ ऽअभि᳘तो ना᳘सिकां च᳘क्षुषी॥

मूलम् - श्रीधरादि

(षी ऽअ) अभि᳘तो यू᳘पं ति᳘ष्ठन्तौ जुहुतः॥
(तो) य᳘था वै ना᳘सिकैवं यू᳘पस्त᳘स्मादिमे᳘ ऽअभि᳘तो ना᳘सिकां च᳘क्षुषी॥

मूलम् - Weber

अभि᳘तो यू᳘पं ति᳘ष्ठन्तौ जुहुतः॥
य᳘था वै ना᳘सिकैवं यू᳘पस्त᳘स्मादिमे᳘ अभि᳘तो ना᳘सिकां च᳘क्षुषी॥

मूलम् - विस्वरम्

अभितो यूपं तिष्ठन्तौ जुहुतः । यथा वै नासिका- एवं यूपः । तस्मादिमे ऽअभितो नासिकां चक्षुषी ॥ २५ ॥

सायणः

[व्याख्यानं त्रयोविंशतितमे]

Eggeling
  1. They offer while standing on both sides of the stake; for what the nose is, that is the sacrificial stake: hence these two eyes are on both sides of the nose.

२६

विश्वास-प्रस्तुतिः

तौ वै व्व᳘षट्कृतौ स᳘न्तौ म᳘न्त्रेण हूयेते॥
(ऽ) एते᳘नो हैतौ तदु᳘दश्नुवाते य᳘देनौ स᳘र्व्वᳫं᳭ स᳘वनम᳘नु हूय᳘ते य᳘द्वे᳘वैतौ स᳘र्व्वᳫं᳭स᳘वनमनुहूय᳘त ऽएतौ वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां च᳘क्षुषी᳘ ह्येतौ᳘ सत्यं वै च᳘क्षुः सत्यᳫं᳭हि᳘ प्रजा᳘पतिस्त᳘स्मादेनौ स᳘र्व्वᳫँ᳭ स᳘वनम᳘नु हूयते॥

मूलम् - श्रीधरादि

तौ वै व्व᳘षट्कृतौ स᳘न्तौ म᳘न्त्रेण हूयेते॥
(ऽ) एते᳘नो हैतौ तदु᳘दश्नुवाते य᳘देनौ स᳘र्व्वᳫं᳭ स᳘वनम᳘नु हूय᳘ते य᳘द्वे᳘वैतौ स᳘र्व्वᳫं᳭स᳘वनमनुहूय᳘त ऽएतौ वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां च᳘क्षुषी᳘ ह्येतौ᳘ सत्यं वै च᳘क्षुः सत्यᳫं᳭हि᳘ प्रजा᳘पतिस्त᳘स्मादेनौ स᳘र्व्वᳫँ᳭ स᳘वनम᳘नु हूयते॥

मूलम् - Weber

तौ वै व᳘षट्कृतौ स᳘न्तौ म᳘न्त्रेण हूयते॥
एते᳘नो हैतौ तदु᳘दश्नुवाते य᳘देनौ स᳘र्वᳫं स᳘वनमनुहूय᳘ते य᳘द्वेॗवैतौ 28 स᳘र्वᳫं स᳘वनमनुहूय᳘त एतौ वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां च᳘क्षुषीॗ ह्येतौ᳘ सत्यं वै च᳘क्षुः सत्यᳫं हि᳘ प्रजा᳘पतिस्त᳘स्मादेनौ स᳘र्वᳫं स᳘वनमनुहूयते॥

मूलम् - विस्वरम्

तौ वै वषट्कृतौ सन्तौ मन्त्रेण हूयेते । एतेनो हैतौ तदुदश्नुवाते- यदेनौ सर्वं सवनमनुहूयते । यद्वेवैतौ सर्वं सवनमनु हूयते- एतौ वै प्रजापतेः प्रत्यक्षतमाम् । चक्षुषी ह्येतौ । सत्यं वै चक्षुः । सत्यं हि प्रजापतिः । तस्मादेनौ सर्वं सवनमनुहूयते ॥ २६ ॥

सायणः

उक्तः शुक्रामन्थिग्रहयोर्होमः समन्त्रकः कर्त्तव्य इत्याह- तौ वा इत्यादि । ‘तौ’ ‘वषट्कृतौ’ ‘सन्तौ’ वषट्कारेण याज्योपलक्ष्यते, तया दीयमानावपि मन्त्रेणाहूयेताम् । इतरेषां ग्रहाणां होमः केवलं याज्ययैव, अनयोस्तु तदतिरिक्तेन मन्त्रेणापीत्यर्थः । उक्ते ऽर्थे हेतुं दर्शयति- एतेनेत्यादिना । ‘एनौ’ ग्रहौ व्यत्ययेनैनादेशः । (पा. सू. ३ । १ । ८५) ‘सर्वं सवनमनु’ सर्वस्मिन् सवने प्रातःसवने माध्यन्दिनसवने चेत्यर्थः । ऐन्द्रवायवादयो ग्रहा एकस्मिन्नेव सवने हूयन्ते; एतौ ग्रहौ पुनः सवनान्तरे ऽपि हूयेते इति, तदभिप्रायेणात्र सर्वशब्दप्रयोगः । ‘एतेन’ व्याप्तिनिबन्धनेन ‘एतौ’ शुक्रामन्थिनौ ‘तत्’ समन्त्रकहोमरूपं गौरवं प्राप्नुतः । ‘एतौ वै प्रजापतेः’ इत्यादिना सवनद्वये होमस्य हेतुः प्रतिपाद्यते । प्रत्यक्षतमामिति । अतिशयेन सन्निकृष्टौ । स च सन्निकर्षः प्रजापतेश्चक्षूरूपे तद्ग्रहयोश्च सत्यत्वाभिधानात् प्रत्यक्षमिति । “लक्षणेनाभिप्रती आभिमुख्ये”- (पा. सू. २ । १ । १४) इत्यव्ययीभावसमासः । “अतिशायने तमप्”- (पा. सू. ५ । ३ । ५५) “किमेत्तिङ्-” (पा. सू. ५ । ४ । १ १) इत्यादिना आम् प्रत्ययः । स्वरादित्वादव्ययत्वम् (पा. सू. १ । १ । ३७) चक्षुरन्यथा न पश्यतीति ‘सत्यम्’ । तथा चान्यत्र श्रूयते- “चक्षुर्वै सत्यमद्राक्षम् इत्याह- अदर्शमिति । तत् सत्यम्” इति । प्रजापतेश्च कृत्स्नप्रपञ्चहेतुत्वेन नित्यत्वात् सत्यत्वम् ॥ २६ ॥

Eggeling
  1. Being consecrated by Vashaṭ, these two (libations) are offered with a prayer. Now it is because the entire Savana is offered after these two (libations) that they attain to this (distinction) 29; and the reason why the entire Savana is offered after them, is that they are most distinctly Prajāpati’s own: for they are the eyes, and the eye is the truth, and Prajāpati is the truth;–this is why the entire Savana is offered after them.

२७

विश्वास-प्रस्तुतिः

स जु᳘होति॥
सा᳘ प्रथमा सं᳘स्कृतिर्व्विश्व᳘वारा स᳘ प्रथमो व्व᳘रुणो मित्रो᳘ ऽअग्निः[[!!]]। स᳘ प्रथमो बृ᳘हस्प᳘तिश्चिकित्वांस्त᳘स्मा ऽइ᳘न्द्राय सुतमा᳘जुहोत स्वाहे᳘ति॥

मूलम् - श्रीधरादि

स जु᳘होति॥
सा᳘ प्रथमा सं᳘स्कृतिर्व्विश्व᳘वारा स᳘ प्रथमो व्व᳘रुणो मित्रो᳘ ऽअग्निः[[!!]]। स᳘ प्रथमो बृ᳘हस्प᳘तिश्चिकित्वांस्त᳘स्मा ऽइ᳘न्द्राय सुतमा᳘जुहोत स्वाहे᳘ति॥

मूलम् - Weber

स जु᳘होति॥
स᳘ प्रथमा स᳘ᳫं᳘स्कृतिर्विश्व᳘वारा 30 स᳘ प्रथमो व᳘रुणो मित्रो अग्निः᳘ स᳘ प्रथमो बृ᳘हस्प᳘तिश्चिकित्वांस्त᳘स्मा इ᳘न्द्राय सुतमा᳘जुहोत स्वाहे᳘ति॥

मूलम् - विस्वरम्

स जुहोति- “सा प्रथमा संस्कृतिर्विश्ववारा । स प्रथमो वरुणो मित्रो ऽअग्निः । स प्रथमो बृहस्पतिश्चिकित्वान् । तस्मा ऽइन्द्राय सुतमाजुहोत स्वाहा”- (वा. सं. ७ । १४, १५) इति ॥ २७ ॥

सायणः

“मन्त्रेण हूयेते” इति होमे यो मन्त्रः सामान्येन निर्दिष्टस्तं होमानुवादेन दर्शयति- स जुहोतीत्यादि । मन्त्रस्यायमर्थः- यस्येन्द्रस्यार्थे “सा देवि देवमच्छेहीन्द्राय सोमम्”- (वा. सं. ४ । २०) इत्यादिना मन्त्रेण सोमस्य क्रयरूपा या संस्कृतिः क्रियते ‘सा’ ‘प्रथमा’ अभिषवादिसंस्काराणां तदनन्तरभावित्वात् । ‘विश्ववारा’ विश्वैः समस्तैर्ऋत्विग्भिर्वरणीया । ‘स’ एव प्रथमसंस्कृतः सोमः वरुणादयो देवाः । ‘स’ एव ‘चिकित्वान्’ अभिज्ञो बृहस्पतिरपि, इति सर्वदेवात्मना सोमः स्तूयते । हे अध्वर्यवः ! ‘तस्मा इन्द्राय’ ‘सुतम्’ अभिषुतम् इमं सोमं स्वाहाकारेण ‘आजुहोत’ होममाहारयत । “तप्तनप्तनथनाश्च” (पा. सू. ७ । १ । ४५) इति तस्य तबादेशेनाङित्त्वाद्गुणः ॥ २७ ॥

Eggeling
  1. He offers with,’ This is the first consecration, assuring all boons: he is the first, Varuṇa,

Mitra, Agni;–he is the first, Br̥haspati, the wise: to that Indra offer ye the liquor, Hail 31!’

२८

विश्वास-प्रस्तुतिः

स य᳘ज्जुहो᳘ति॥
सा᳘ प्रथमा स᳘ प्रथम ऽइ᳘ति श᳘श्वद्ध वै रे᳘तसः सिक्त᳘स्य च᳘क्षुषी ऽएव᳘ प्रथमे संभवतस्त᳘स्माज्जुहोति सा᳘ प्रथमा स᳘ प्रथम ऽइति[[!!]]॥

मूलम् - श्रीधरादि

स य᳘ज्जुहो᳘ति॥
सा᳘ प्रथमा स᳘ प्रथम ऽइ᳘ति श᳘श्वद्ध वै रे᳘तसः सिक्त᳘स्य च᳘क्षुषी ऽएव᳘ प्रथमे संभवतस्त᳘स्माज्जुहोति सा᳘ प्रथमा स᳘ प्रथम ऽइति[[!!]]॥

मूलम् - Weber

स य᳘ज्जुहो᳘ति॥
सा᳘ प्रथमा स᳘ प्रथम इ᳘ति श᳘श्वद्ध वै रे᳘तसः सिक्त᳘स्य च᳘क्षुषी एव᳘ प्रथमे स᳘म्भवतस्त᳘स्माज्जुहोति सा᳘ प्रथमा इ᳘ति॥

मूलम् - विस्वरम्

स यज्जुहोति सा प्रथमा, स प्रथम इति । शश्वद्ध वै रेतसः सिक्तस्य चक्षुषी एव प्रथमे सम्भवतः । तस्माज्जुहोति- सा प्रथमा, स प्रथम इति ॥ २८ ॥

सायणः

अस्मिन् मन्त्रे प्रथमशब्दप्रयोगस्य तात्पर्यमाह- स यज्जुहोति सा प्रथमा स प्रथम इत्यादि । ‘शश्वत्’ सर्वदा ‘सिक्तस्य’ ‘रेतसः’ सकाशात् चक्षुषोरेव प्रथमोत्पत्तेश्चक्षूरूपयोः शुक्रामन्थिग्रहयोर्होममन्त्रे ऽपि तत्प्राथमिकत्वसूचनाय ‘सा प्रथमा स प्रथमः’ इति प्रथमशब्दप्रयोग इत्यर्थः ॥ २८ ॥

Eggeling
  1. Now when he offers with, ‘This is the first–he is the first,’ it is just as with cast seed; for the eyes doubtless are formed first 32 hence he offers with, ‘This is the first–he is the first’

२९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ संप्रे᳘ष्यति॥
प्रै᳘तु हो᳘तुश्चमसः प्र᳘ ब्रह्म᳘णः᳘ प्रोद्गातॄणां[[!!]] प्र य᳘जमानस्य प्र᳘यन्तु सद᳘स्यानाᳫँ᳭ हो᳘त्राणां चमसाध्वर्यव उपा᳘वर्तध्वᳫँ᳭ शुक्र᳘स्याभ्यु᳘न्नयध्वमि᳘ति संप्रैष᳘ ऽए᳘वैष᳘ पर्ये᳘त्य प्रतिप्रस्था᳘ताध्वर्योः पा᳘त्रे सᳫँ᳭स्रवम᳘वनयत्यत्त्र ऽए᳘वैत᳘दा᳘द्यं[[!!]] बलि᳘ᳫं᳘ हारयति त᳘मध्वर्यु᳘र्होतृचमसे᳘ ऽवनयति भक्षा᳘य व्वषट्कर्तुर्हि᳘ भक्षः᳘ प्राणो वै᳘ व्वषट्का᳘रः सो ऽस्मादेत᳘द्वषट्कुर्व्वतः प᳘राङिवाभूत्प्राणो वै᳘ भक्षस्त᳘त्प्राणं पु᳘नरात्म᳘न्धत्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ संप्रे᳘ष्यति॥
प्रै᳘तु हो᳘तुश्चमसः प्र᳘ ब्रह्म᳘णः᳘ प्रोद्गातॄणां[[!!]] प्र य᳘जमानस्य प्र᳘यन्तु सद᳘स्यानाᳫँ᳭ हो᳘त्राणां चमसाध्वर्यव उपा᳘वर्तध्वᳫँ᳭ शुक्र᳘स्याभ्यु᳘न्नयध्वमि᳘ति संप्रैष᳘ ऽए᳘वैष᳘ पर्ये᳘त्य प्रतिप्रस्था᳘ताध्वर्योः पा᳘त्रे सᳫँ᳭स्रवम᳘वनयत्यत्त्र ऽए᳘वैत᳘दा᳘द्यं[[!!]] बलि᳘ᳫं᳘ हारयति त᳘मध्वर्यु᳘र्होतृचमसे᳘ ऽवनयति भक्षा᳘य व्वषट्कर्तुर्हि᳘ भक्षः᳘ प्राणो वै᳘ व्वषट्का᳘रः सो ऽस्मादेत᳘द्वषट्कुर्व्वतः प᳘राङिवाभूत्प्राणो वै᳘ भक्षस्त᳘त्प्राणं पु᳘नरात्म᳘न्धत्ते॥

मूलम् - Weber

अ᳘थ सम्प्रे᳘ष्यति॥
प्रै᳘तु हो᳘तुश्चमसः प्र᳘ ब्रह्म᳘णः प्रो᳘द्गातॄणाम् प्र य᳘जमानस्य प्र᳘यन्तु सद᳘स्यानाᳫं हो᳘त्राणां चमसाध्वर्यव उपा᳘वर्तध्वं शुक्र᳘स्याभ्यु᳘न्नयध्वमि᳘ति सम्प्रै᳘ष᳘ एॗवैष᳘ पर्ये᳘त्य प्रतिप्रस्थाॗताध्वर्योः पा᳘त्रे संस्रवम᳘वनयत्यत्त्र᳘ एॗवैत᳘दाद्य᳘म् बलि᳘ᳫं᳘ हारयति त᳘मध्वर्यु᳘र्होतृचमसे᳘ ऽवनयति भक्षा᳘य वषट्कर्तुर्हि᳘ भक्षः᳘ प्राणो वै᳘ वषट्काॗरः सो ऽस्मादेत᳘द्वषट्कुर्वतः प᳘राङिवाभूत्प्राणो वै᳘ भक्षस्त᳘त्प्राणम् पु᳘नरात्म᳘न्धत्ते॥

मूलम् - विस्वरम्

अथ संप्रेष्यति- प्रैतु होतुश्चमसः, प्र ब्रह्मणः, प्रोद्गातॄणाम्, प्रयजमानस्य, प्रयन्तु सदस्यानाम्, होत्राणाम्, चमसाध्वर्यव उपावर्तध्वम्, शुक्रस्याभ्युन्नयध्वम् इति । संप्रैष एवैषः । पर्येत्य प्रतिप्रस्थाता ऽध्वर्योः पात्रे संस्रवमवनयति- अत्त्र ऽएवैतदाद्यं बलिं हारयति । तमध्वर्युर्होतृचमसे ऽवनयति- भक्षाय । वषट्कर्तुर्हि भक्षः प्राणो वै वषट्कारः । सो ऽस्मादेतद्वषट्कुर्वतः पराङिवाभूत् । प्राणो वै भक्षः, तत् प्राणं पुनरात्मन्धत्ते ॥ २९ ॥

सायणः

होमानन्तरं कर्त्तव्यमध्वर्योः प्रैषमाह- अथ संप्रेष्यतीति 33 । ‘प्रेष्यति’ तत्कर्त्तव्ये विनियुङ्क्ते ‘प्रैतु’ इति- “एत्येधत्यूठ्सु” (पा. सू. ६ । १ । ८९) इति “एङि पररूपम्”- (पा. सू. ६ । १ । ९४) इत्यस्यापवादत्वेन वृद्धिः । होत्राणामिति । मैत्रावरुणो, ब्राह्मणाच्छंसी, पोता, नेष्टा, आग्नीध्रश्चेत्येते होत्राशब्देन विवक्षिताः । होत्राशब्दो ऽपि नियतस्त्रीलिङ्गः । शुक्रस्याभ्युन्नयध्वमिति । आपस्तम्बेनापि- “तस्मै चमसाध्वर्यैवः स्वंस्वं चमसं द्रोणकलशादभ्युन्नीय हरन्ति” (आप. श्रौ. सू.) इत्युक्तम् । चमसाध्वर्यवः सचेतना इति तद्भागे ऽयं संप्रैषो ऽस्तु, चमसानामचेतनत्वेन प्रैषावधारणसामर्थ्यविरहात् तद्भागे ऽदृष्टार्थ इत्येतां शङ्कां निरसितुमाह- संप्रैष एवैष इति । यद्यपि ते अचेतनास्तथापि तद्व्यापारेण तेषां नयने नियुक्ताः पुरुषा लक्ष्यन्ते, यथा- “कुम्भाः प्रविशन्तु” इति । तस्मादेष सर्वो ऽपि संप्रैष इत्यर्थः । प्रतिप्रस्थात्रा ऽध्वर्युपात्रे शेषस्यावनयनं विधत्ते- पर्येत्य 34 प्रतिप्रस्थातेति । ‘पर्येत्य’ परि आहवनीयस्य पश्चाद्भागं गत्वा । ‘संस्रवम्’ शेषम् । ‘एतद्’ एतेन शेषावनयनेन ‘अग्रे’ भोक्तृवर्गाय ‘आद्यं बलिं’ भोगरूपां पूजां ‘हारयति’ मन्थिग्रहस्य भोग्यरूपस्य चन्द्रात्मकत्वादित्यर्थः । अध्वर्युपात्रगतं सोमं भक्षार्थं होतृचमसे ऽवनयेदित्याह- तमध्वर्युरित्यादिना 35वषट्कर्तुर्हीति । वषट्कर्तुः होतुः भक्षणं प्रसिद्धम् । “वषट्कर्त्ता प्रथमः सर्वभक्षान्भक्षयति”- (ऐ. ब्रा. ३ । ३२) इति श्रुतेः । प्राणो वा इति । वषट्कारस्य प्राणत्वमैतरेयके श्रूयते- “वाक्च वै प्राणापानौ वषट्कारः” (ऐ. ब्रा. ३ । ८) इति । पराङिवेति । पराङ्मुखो निर्गतो ऽभूदित्यर्थः । भक्षणस्य तु प्राणत्वं प्राणपुष्टिहेतुत्वात् ॥ २९ ॥

Eggeling
  1. He then gives directions:–‘Let the Hotr̥’s cup advance! let the Brahman’s, the Chanters’, the Sacrificer’s (cups) advance! Ye cup-bearers of the fire-priests 36, approach and fill up (the cups) with pure Soma!’–this is a composite direction. Having gone round (to behind the high altar) the Pratiprasthātr̥ pours his residue (of Soma) into the Adhvaryu’s (Śukra) vessel; whereby he makes the food pay tribute to the eater. The Adhvaryu pours it into the Hotr̥’s cup for drinking; because the draught belongs to the utterer of the Vashaṭ; for the Vashaṭ is the breath, and that breath has, as it were, departed from him while uttering the Vashaṭ. Now the draught is breath: thus he puts that breath back into him.

३०

विश्वास-प्रस्तुतिः

(त्ते᳘ ऽथ) अ᳘थ य᳘देते᳘ प्रती᳘ची पा᳘त्रे न ह᳘रन्ति॥
ह᳘रन्त्यन्यान्ग्र᳘हांश्च᳘क्षुषी᳘ ह्येते᳘ सᳫं᳭स्रव᳘मेव᳘ होतृचमसे᳘ ऽवनयति॥

मूलम् - श्रीधरादि

(त्ते᳘ ऽथ) अ᳘थ य᳘देते᳘ प्रती᳘ची पा᳘त्रे न ह᳘रन्ति॥
ह᳘रन्त्यन्यान्ग्र᳘हांश्च᳘क्षुषी᳘ ह्येते᳘ सᳫं᳭स्रव᳘मेव᳘ होतृचमसे᳘ ऽवनयति॥

मूलम् - Weber

अ᳘थ य᳘देते᳘ प्रती᳘ची पा᳘त्रे न ह᳘रन्ति॥
ह᳘रन्त्यन्यान्ग्र᳘हांश्च᳘क्षुषीॗ ह्येते᳘ संस्रव᳘मेव᳘ होतृचमसे᳘ ऽवनयति॥

मूलम् - विस्वरम्

अथ यदेते प्रतीची पात्रे न हरन्ति, हरन्त्यन्यान्ग्रहान् । चक्षुषी ह्येते । संस्रवमेव होतृचमसे ऽवनयति ॥ ३० ॥

सायणः

पूर्वस्मिन् वाक्ये- “होतृचमसे ऽवनयति भक्षाय” इत्यनेन शुक्रामन्थिग्रहयोः सदः प्रति गमनं निवारितम् सदोगमनस्य भक्षणार्थत्वाद्, भक्षणस्य होतृचमसेनैव सिद्धत्वादिति तदनूद्य तत्रोपपत्तिमाह- अथ यदेते इत्यादिना । ‘अन्यान्’ ऐन्द्रवायवादीन् ग्रहान् सदः प्रति- ‘हरन्ति’ । ‘एते’ ‘पात्रे’ ‘प्रतीची’ ‘न हरन्ति’ सदः प्रति न हरन्त्यध्वर्यव इति यत्, तत्कारणमुच्यते- अत्र पात्रशब्देन तदन्तर्वर्त्तिनौ शुक्रामन्थिग्रहौ चक्षुरात्मकावित्युक्तम्, “चक्षुषी ह वा अस्य शुक्रामन्थिनौ”- (श. प. ४ । २ । १ । १) इति । तथा चक्षुषोः पुरत एवावस्थानात् तदात्मकयोरपि पुरत एवावस्थानं युक्तम्, न तु प्रत्यग्गमनम् । भक्षणं तु होतृचमसे शेषस्यावनीतत्वात् सिद्ध्यतीत्यर्थः ॥ ३० ॥

Eggeling
  1. And the reason why they do not take those

two (cups) behind 37, but do so take the other cups, is that those two are the eyes. The residue (of Soma), then, he pours into the Hotr̥’s cup.

३१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ हो᳘त्राणां चमसा᳘नभ्यु᳘न्नयन्ति॥
हुतोच्छिष्टा वा᳘ ऽएते᳘ सᳫंस्रवा᳘ भवन्ति ना᳘लमा᳘हुत्यै ता᳘ने᳘वैतत्पु᳘नरा᳘प्याययन्ति तथा᳘लमा᳘हुत्यै भवन्ति त᳘स्माद्धो᳘त्राणां चमसा᳘नभ्यु᳘न्नयन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ हो᳘त्राणां चमसा᳘नभ्यु᳘न्नयन्ति॥
हुतोच्छिष्टा वा᳘ ऽएते᳘ सᳫंस्रवा᳘ भवन्ति ना᳘लमा᳘हुत्यै ता᳘ने᳘वैतत्पु᳘नरा᳘प्याययन्ति तथा᳘लमा᳘हुत्यै भवन्ति त᳘स्माद्धो᳘त्राणां चमसा᳘नभ्यु᳘न्नयन्ति॥

मूलम् - Weber

अ᳘थ हो᳘त्राणां चमसा᳘नभ्यु᳘न्नयन्ति॥
हुतोछिष्टा वा᳘ एते᳘ संस्रवा᳘ भवन्ति ना᳘लमा᳘हुत्यै ता᳘नेॗवैतत्पु᳘नरा᳘प्याययन्ति तथा᳘लमा᳘हुत्यै भवन्ति त᳘स्माद्धो᳘त्राणां चमसा᳘नभ्यु᳘न्नयन्ति॥

मूलम् - विस्वरम्

अथ होत्राणां चमसानभ्युन्नयन्ति । हुतोच्छिष्टा वा ऽएते संस्रवा भवन्ति- नालमाहुत्यै । तानेवैतत्पुनराप्याययन्ति- तथा ऽलमाहुत्यै भवन्ति । तस्माद्धोत्राणां चमसानभ्युन्नयन्ति ॥ ३१ ॥

सायणः

होतृचमसे शेषावनयनानन्तरं होत्रकाणां चमसाभ्युन्नयनं सहेतुकमाह- अथ होत्राणामित्यादि 38संस्रवा इति । संस्रावणीयाः प्रतिपत्त्यर्हाः, अतस्तादृशाः सन्तः ‘आहुत्यै’ ‘नालं भवन्ति’ न पर्याप्ता भवन्तीत्यर्थः ॥ ३१ ॥

Eggeling
  1. They now fill up the cups of the fire-priests. For those residues 39 are remains of oblations, insufficient for offering: he now fills them up again, and thus they become sufficient for offering: therefore they fill up the cups of the fire-priests.

३२

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ हो᳘त्राः सं᳘याजयन्ति॥
हो᳘त्रा ह वै᳘ युक्ता᳘ देवे᳘भ्यो यज्ञं᳘ व्वहन्ति ता᳘ ए᳘वैतत्सं᳘तर्पयन्ति तृप्ताः᳘ प्रीता᳘ देवे᳘भ्यो यज्ञं᳘ व्वहानि᳘ति त᳘स्माद्धो᳘त्राः सं᳘याजयन्ति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ हो᳘त्राः सं᳘याजयन्ति॥
हो᳘त्रा ह वै᳘ युक्ता᳘ देवे᳘भ्यो यज्ञं᳘ व्वहन्ति ता᳘ ए᳘वैतत्सं᳘तर्पयन्ति तृप्ताः᳘ प्रीता᳘ देवे᳘भ्यो यज्ञं᳘ व्वहानि᳘ति त᳘स्माद्धो᳘त्राः सं᳘याजयन्ति॥

मूलम् - Weber

अ᳘थ हो᳘त्राः सं᳘याजयन्ति॥
हो᳘त्रा ह वै᳘ युक्ता᳘ देवे᳘भ्यो यज्ञं᳘ वहन्ति ता᳘ एॗवैतत्सं᳘तर्पयन्ति तृप्ताः᳘ प्रीता᳘ देवे᳘भ्यो यज्ञं᳘ वहानि᳘ति त᳘स्माद्धो᳘त्राः सं᳘याजयन्ति॥

मूलम् - विस्वरम्

अथ होत्राः संयाजयन्ति । होत्रा ह वै युक्ता देवेभ्यो यज्ञं वहन्ति- ता एवैतत्सन्तर्पयन्ति, तृप्ताः प्रीता देवेभ्यो यज्ञं वहानिति । तस्माद्धोत्राः संयाजयन्ति ॥ ३२ ॥

सायणः

होत्रकाणां याजनं विधत्ते- अथ होत्रा इत्यादि 40 । चमसाभ्युन्नयनानन्तरं होत्राः होत्रकान् मैत्रावरुणादीन् ‘संयाजयन्ति’ अध्वर्यवो याजयेयुः । मैत्रावरुणादयो नियुक्ताः सन्तो देवार्थं यज्ञं वहन्ति, तेषां याज्यापाठादिना यज्ञनिष्पत्तेर्यज्ञवाहकत्वात् । एतत् एतेन संयाजनेन तानेव मैत्रावरुणादीन् ‘सन्तर्पयन्ति’ तृप्तान् कुर्वन्ति । यजमानेन तेषां सोमशेषभक्षणस्य सम्पादनात् । (पा. सू. ३ । ४ । ९७) तर्पयतां चाशयः- ‘तृप्ताः’ तृप्तिं प्राप्ताः ‘प्रीताः’ हृष्टाः ‘देवेभ्यो यज्ञं’ वहन्त्विति । ‘वहान्’ इति लेट् । “लेटो ऽडाटौ"- (पा. सू. ३ । ४ । ९४) इत्याडागमः । “इतश्च लोपः परस्मैपदेषु” (पा. सू. ३। ४ । ९७) इतीकारलोपः । “संयोगान्तलोपः” (पा. सू. ८ । २ । ३२) ॥ ३२ ॥

Eggeling
  1. Thereupon they make the fire-priests offer together 41. Now the fire-priests combined convey

the sacrifice to the gods,–it is them he thereby satisfies together, thinking, ‘Satisfied and pleased they shall convey the sacrifice to the gods;’ therefore they make the fire-priests offer together.

३३

विश्वास-प्रस्तुतिः

स᳘ प्रथमा᳘यां वा हो᳘त्रायाम्॥
(मि) इष्टा᳘यामुत्तमा᳘यां वा᳘ ऽनुमन्त्रयते तृम्पन्तु हो᳘त्रा म᳘ध्वो याः᳘ स्विष्टा याः सु᳘प्रीताः सु᳘हुता यत्स्वाहो᳘ति हो᳘त्राणामे᳘वैषा तृ᳘प्तिरथे᳘त्य प्रत्यङ्ङु᳘पविशत्य᳘याडग्नीदि᳘त्यग्नीद्ध्यत्र[[!!]] य᳘ज᳘तामुत्तमः᳘संय᳘जति त᳘स्मादाहा᳘याडग्नीदि᳘ति॥

मूलम् - श्रीधरादि

स᳘ प्रथमा᳘यां वा हो᳘त्रायाम्॥
(मि) इष्टा᳘यामुत्तमा᳘यां वा᳘ ऽनुमन्त्रयते तृम्पन्तु हो᳘त्रा म᳘ध्वो याः᳘ स्विष्टा याः सु᳘प्रीताः सु᳘हुता यत्स्वाहो᳘ति हो᳘त्राणामे᳘वैषा तृ᳘प्तिरथे᳘त्य प्रत्यङ्ङु᳘पविशत्य᳘याडग्नीदि᳘त्यग्नीद्ध्यत्र[[!!]] य᳘ज᳘तामुत्तमः᳘संय᳘जति त᳘स्मादाहा᳘याडग्नीदि᳘ति॥

मूलम् - Weber

स᳘ प्रथमा᳘यां वा हो᳘त्रायाम्॥
इष्टा᳘यामुत्तमा᳘यां वा᳘नुमन्त्रयते तृम्प᳘न्तु हो᳘त्रा म᳘ध्वो याःॗ स्विष्टा याः सु᳘प्रीताः सु᳘हुता यत्स्वाहे᳘ति हो᳘त्राणामेॗवैषा तृ᳘प्तिरथे᳘त्य प्रत्यङ्ङु᳘पविशत्य᳘याडग्नीदि᳘त्यग्नीद्ध्य᳘त्र य᳘जतामुत्तमः᳘ संय᳘जति त᳘स्मादाहा᳘याडग्नीदि᳘ति॥

मूलम् - विस्वरम्

स प्रथमायां वा होत्रायामिष्टायामुत्तमायां वा ऽनुमन्त्रयते- “तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत्स्वाहा”- (वा. सं. ७ । १५) इति । होत्राणामेवैषा तृप्तिः । अथेत्य प्रत्यङ्ङुपविशति । “अयाडग्नीद्”- (वा० सं ७ । १५) इति । अग्नीद्ध्यत्र यजतामुत्तमः संयजति । तस्मादाह अयाडग्नीदिति ॥ ३३ ॥

सायणः

प्रथमहोत्रकस्योत्तमहोत्रकस्य वा याज्यापाठानन्तरं हुत्वा ऽध्वर्युर्मन्त्रयेदित्याह- स प्रथमायामित्यादि । ‘प्रथमायां’ होत्रायामिष्टायां प्रथमे होत्रके वषट्कृते यागे सति सुमन्त्रयेदध्वर्युः । तथा च कात्यायनः- “प्रथमं हुत्वोत्तमं वा तृम्पन्त्विति जपति” (का. श्रौ. सू. ९ । २३३) इति । मन्त्रस्यायमर्थः- ‘यत्’ यस्मात् मया ‘स्वाहा’ स्वाहाकृतम् अतो मद्द्वारा ‘सुहुताः’ ‘सुप्रीताः’ ‘स्विष्टाः’ च ‘याः’ ‘होत्राः’ ‘ताः’ ‘मध्वः’ मधुवन्मधुररसस्य सोमस्य सकाशात् ‘तृम्पन्तु’ तृप्यन्तु “तृपतृम्फ तृप्तौ” (धा. पा. तु. प. २८) इति धातुः । मध्व इति नुमभावपक्षे “संज्ञापूर्वको विधिरनित्यः” (पा. सू. ६ । ४ ।-१४६ प. ९४) इति “घेर्ङिति” (पा. सू. ७ । ३ । १११) इति गुणो न भवति । होत्राशब्दप्रयोगस्योपपत्तिमाह- होत्राणामेवेति । एषा अभिहिता ‘तृप्तिः’ ‘होत्राणामेव’ नान्येषाम् । होत्राशब्दो मन्त्र उच्चारित इत्यर्थः । चमसहोमानन्तरं सदो गत्वोपविशेदित्याह- अथेत्यादि 42अयाडग्नीदिति । एतद्वाक्यमुक्त्वा प्रत्यङ्मुख उपविशेदित्यर्थः । ‘अयाट्’ इति यजेर्लुङ् । “बहुलं छन्दसि” (पा. सू. ७ । ३ । ९७) इति इडागमाभावः, “सिचि वृद्धिः” (पा. सू. ७ । २ । १) “झलो झलि” (पा. सू. ८ । २ । २६) इति सिचो लोपः । व्रश्चादिना षत्वं जश्त्वं च (पा. सू. ८ । २ । ३६ ॥ ८ । २ । ३९ ॥ ८ । ४ । ५६) मैत्रावरुणादिपरित्यागेनाग्नीध्रकर्तृकयागसमाप्तिकथने कारणमाह- अयाडग्नीदिति । ‘यजताम्’ अस्मिन् प्रस्तावे याज्याः पठतां मध्ये आग्नीध्र एव ‘उत्तमः’ अन्तिमो यजति, अतस्तत्कर्तृकयागसमाप्तिकथनेन एवर्त्विजां सोमशेषभक्षणावसरस्तवनाद्धर्षमुत्पादयति । अत एवापस्तम्बः- “अयाडग्नीदिति सभद्रमं कार्यो नः सोमं पाययिष्यतीतरे प्रत्याहुः” इति । अतः ‘अयाडग्नीत्’ इत्येतदेवं ब्रूयादित्यर्थः ॥ ३३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे द्वितीयाध्याये प्रथमं ब्राह्मणम् ॥ ४-२-१ ॥

Eggeling
  1. When (the libation of) the first, or last 43 fire-priest has been offered, he addresses them (Vāj. S. VII, 15), ‘Let the priests’ offices be satisfied, they that have obtained a good sacrifice of sweet drink; they that are well-pleased, when they have obtained good offering with Svāhā!’ for this is the satisfaction of the priests’ (offices). Thereupon he approaches (to the Hotr̥’s hearth) and sits down with his face to the west, with ‘The Agnīdh hath sacrificed!’ for on this occasion the Agnīdh sacrifices last of those that sacrifice: hence he says, ‘The Agnīdh hath sacrificed.’

  1. 278:3 This is how Sāyaṇa takes the passage: śukragrahas tapati śocati dīpyata iti tasya śukranāmadheyam. It is doubtless the correct interpretation, though the pronouns ’esha’ and ’etad’ might lead one to refer them to the sun. ↩︎

  2. 279:1 The one that is to be eaten (ādyaḥ). ↩︎

  3. 279:2 Muir, O. S. T. ii, p. 386, translates apa-han by ’to smite,’ which would seem to suit this passage much better than the ordinary meaning ’to beat off, repulse, eject;’ but see paragraph 20. The corresponding version of the legend in Taitt. S. VI, 4, 10 has ‘apa-nud (to drive away).’ ↩︎

  4. 279:3 Thus this passage is interpreted by Sāyaṇa, who refers to Pāṇ. III, 3, 161 (sampraśne liṅ) and VIII, 2, 97 (vicāryamāṇānām plutaḥ). Possibly, however, ’no svid’ many have to be separated from what follows: ‘by no means! for deities we should draw them,’ &c. The Kāṇva text reads, ’no svit khalu devatābhya eva gr̥hṇiyāmeti viditaṁ hīdam iti, tad u tan mīmāṁsām eva cakre nety u tac cakāra.’ ↩︎

  5. अयं व्वेन इत्येके । का० श्रौ० सू० ९ । १३५ । ↩︎ ↩︎

  6. 280:1 The Rig-veda reads ‘girā (through song)’ instead of ‘dhunim.’ ↩︎

  7. 280:2 Viz. waters, juice, sap. Professor Ludwig supplies ‘plants.’ This verse is extremely obscure. ↩︎

  8. मंथिनमयं व्वैन इति । का० श्रौ० सू० ९ । १३६ । ↩︎

  9. 281:1 Vena, according to Roth and Grassmann, refers to the Gandharva, as the representative of the rainbow. This view is, however, rejected by Ludwig. The entire hymn is extremely and purposely obscure. ↩︎

  10. 281:2 Jyotir-jarāyu, lit. ‘having light for his chorion, or placenta.’ ↩︎

  11. 281:3 Pr̥śnigarbhāḥ, lit. ’those who have the dappled (cloud) for their womb (or, are contained therein);’ apparently the rain-drops. ↩︎

  12. 281:4 Ludwig identifies the measurer of the welkin with the moon (Soma). Grassmann takes it in the sense of ‘in measuring through the air.’ ↩︎

  13. सक्तुभिः श्रीणात्येनं मनो न येष्विति । का० श्रौ० सू० ९ । १३७ । ↩︎

  14. 281:5 The verse is manifestly corrupt. Professor Ludwig omits the accent in ‘aśrīṇīta,’ thus taking it out of the relative clause; but even thus, no satisfactory sense, it seems to me, can be extracted from this line. When the Soma is mixed with milk or some other substance (as meal) two stalks of (kuśa) reed-grass are laid on the cup, the accessory substance being then poured through them. Kāty. IX, 6, 9-10. ↩︎

  15. प्रोक्षितौ यूपशकलावादायापिधानं प्रोक्षिताभ्यामपमार्जनमप्रोक्षिताभ्यामपमृष्टः शंडइत्यध्वर्युरपमृष्टो मर्क्क इति प्रतिप्रस्थाता । का० श्रौ० सू० ९ । ११४ । ↩︎

  16. देवास्त्वेति निष्कामतो यथालिंगम् । का० श्रौ० सू० ९ । २१५ । ↩︎

  17. 282:1 In paragraphs 13-31 the libations from the Śukra and Manthin cups are anticipated. For their proper place in the actual performance, see note to IV, 3, 1, 1. ↩︎

  18. अपरेणोत्तरवेदिमरत्नी संघायोत्तरवेदिश्रोण्योर्निधत्तो ऽविसृजतो दक्षिणस्यामध्वर्युरुतरस्यां प्रतिप्रस्थाता ऽनाधृष्टासीति । का० श्रौ० सू० । ९ । २१६ । ↩︎ ↩︎

  19. 283:1 The Petersburg Dictionary takes ‘vi-pari-i’ in the sense of to turn round.’ Cf. Kāty. IX, 10, 8; ‘vividhaṁ dakshiṇa uttarataś ca paribhogam ishyantau (!),’ Sāyaṇa. ↩︎

  20. 283:2 Or, ‘walk round to the sacrificer.’ ↩︎

  21. अपरेण यूपमरत्नी संधत्तः संजग्मान इति यथालिंगम् । का० श्रौ० सू० ९ । २१८ । ↩︎

  22. 284:1 The sacrificial stake stands immediately in front of the high altar and fire. ‘Yadi tato ’gnir nodbādheta,’ Kāṇva text. ↩︎

  23. 284:2 That is, the cups represent the sockets of the eyes, and the libations the eyes themselves. Perhaps, however, we ought to translate, ‘whence these eyes are joined together (so as to be) on both sides of the bone,’ the sacrificial stake representing the bone or bridge of the nose. See paragraph 25. ↩︎

  24. पूर्वेणाशाक्तौ । निरस्यतो निरस्तः शंड इत्यध्वर्युर्निरस्तो मर्क्क इति प्रतिप्रस्थाता । आहवनीये प्रोक्षितौ प्रास्यतः शुकस्याधिष्ठानमित्यध्वर्युर्मंथिन इति प्रतिप्रस्थाता । का० श्रौ० सू० ९ । २१९-२२१ । ↩︎ ↩︎

  25. आश्राव्याह प्रातः प्रातःसवस्य शुक्रवतो मधुश्रुत इंद्राय सोमान्प्रस्थितान्प्रेष्येति । उभयतो यूपं प्रत्यङ्मुखौ जुहुतः सा प्रथमेत्यध्वर्युः प्रथमम् । तमनु प्रतिप्रस्थाता । चमसाध्वर्यवश्च । का० श्रौ० सू० ९ । २२२-२२५ । ↩︎

  26. नात्र यौगिकीसंज्ञाश्रयणाच्छमितुः प्राप्तिः । किंतु शतपथश्रुतौ “शमितैनं कंठे बध्वा नयति” “शृतं हविः शमिता ३ रिति” ऋत्विग्व्यतिरिक्तस्य शमितुर्दर्शनात् तत्प्रकल्पनं “व्विशास्ति पशुमन्यः” इति सूत्रकारः सूत्रयामास । अतो ऽत्र अन्यशब्देन ऋत्विग्व्यतिरिक्तः शमितोच्यते । नर्त्विजामेवैको ऽन्यः शमिता यत्र नाम नान्यः प्रकल्प्यते तत्रर्त्विजां कर्तृत्वम् । उपगादर्शनाच्चेति कर्कभाष्यात् । ऋत्विक्षु व्यापृतेषु सत्सु अन्यशब्देन ऋत्विग्व्यतिरिक्तस्य प्रकल्पनं नान्यथा इति अत्रैव सूत्रे कर्क- सिद्धांताच्चेति ॥ ↩︎

  27. षोडशर्त्विजो ब्रह्मोद्गातृ०- दुन्नेतॄन् वृणीते का० श्रौ० सू० ७ । ७ । अत्र कर्कभाष्यम्- उपक्रमादेव तत्सिद्धेः षोडशग्रहणं न कर्तव्यम् । वा कर्तव्यम् । चमसाध्वर्युव्युदासार्थम् । तेषामपि हि क्रतौ यजतामृत्विगाख्या मा भूदिति । अस्त्विति चेत् । न, संख्यातत्वात् । ज्योतिष्टोमस्य यज्ञक्रतोः षोडशर्त्विज इति । अतश्च तेषामृत्विग्निबंधनं कार्यं न भवतीति कर्कः । देवयाज्ञिकैरपि अत्रैव सूत्रे अतश्चर्त्विक्संबंधिवरणमधुपर्कतानूनप्त्रसर्पणक्रतुर्दक्षिणादानदविधानाभक्षणादिकं चमसाध्वर्यूणां न भवतीति प्रस्फोटितम् । अतश्चमसाध्वर्यूणां न वरणमिति ॥ ↩︎

  28. म᳘नुहूयते य᳘द्वे᳘वै AB. Read: य᳘द्वेॗवैनौ. ↩︎

  29. 285:1 ‘And because these two (libations), having been consecrated by Vashaṭ, are offered with a mantra, therefore they attain this (distinction) that the entire Savana is offered after them; and the reason why the entire Savana is offered after them, is that these two are its eyes,’ &c. ↩︎

  30. सं᳘स्कृ AB, and thus is to be read, not स᳘ᳫ᳘स्कृ as I have given in the preceding books. ↩︎

  31. 286:1 Or, according to Mahīdhara, ‘To that Indra offer ye the liquor with Svāhā!’ The Pratiprasthātr̥ makes his libation after the Adhvaryu. The Kāṇva texts read, ‘When the Vashaṭ has been uttered, the Adhvaryu offers, then the Pratiprasthātr̥; then the others offer;’ and, according to Kāty. IX, II, 2, the Camasādhvaryus make libations from the cups of the nine Camasins (see note 2, next page) with, ‘This to Indra’ at the Vashaṭ, and This to Agni’ at the Anu-vashaṭ. These libations are evidently referred to in paragraph 31. ↩︎

  32. 286:2 ? Śaśvad dha vai retasaḥ siktasya sambhavataś cakshushī eva prathame sambhavatas tasmād v evaṁ japati; Kāṇva rec. ↩︎

  33. प्रेष्यति च । प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य प्र यंतु सदस्यानाँ होत्राणां चमसाध्वर्यव उपावर्तध्वँ शुक्रस्याभ्युन्नयध्वमिति । का० श्रौ० सू० ९ । २२६ । २२७ । ↩︎

  34. आगम्य प्रतिप्रस्थाता शेषँ शुक्रपात्रे ऽवनयति । का० श्रौ० सू० ९ । २२८ । ↩︎

  35. तँ होतृचमसे । का० श्रौ० सू० ९ । २२९ । ↩︎

  36. 286:3 ‘Sadasyānaṁ hotrāṇam.’ The subordinate priests to whom the dhishṇyas (except that of the Hotr̥) belong, both those in the Sadas and the Āgnīdhra. See page 148, note 4. ↩︎

  37. 287:1 That is, to the Sadas, for the priests to drink from. ↩︎

  38. पंचसून्नयंति का. श्रौ. सू. ९ । २३० । ↩︎

  39. 287:2 Viz. the residues in the camasas of the Hotrakas. The filling (by the Unnetr̥) of the cups of the Camasins–Hotr̥, Brahman, Udgātr̥, (and Sacrificer); Praśāstr̥, Brāhmaṇāchaṁsin, Potr̥, Neshṭr̥, and Āgnīdhra; that of the Achāvāka remains empty for the present–takes place before the libations from the Śukra and Manthin grahas. Their cups are filled by the Unnetr̥ with Soma-juice from the Pūtabhr̥t, with an ‘underlayer’ and final ‘sprinkling’ or ‘basting’ of ‘pure’ Soma from the Droṇakalaśa. Previous to the filling, the Adhvaryu calls on the Maitrāvaruṇa to ‘recite to (those cups) being drawn,’ the latter then reciting the hymn, Rig-veda I, 36, while the cups are filled. When the Śraushaṭ is about to be pronounced by the Agnīdh for the Śukra and Manthin libations, the cup-bearers lift (udyam) the cups, and, after the Pratiprasthātr̥ has made his libation, they also pour some Soma-juice into the fire. The cup-bearers of the first four Camasins do so twice (and then take their cups back to the Sadas), the others only once. Thereupon the cup-bearers of these last five–the so-called Hotrakas, or subordinate Hotr̥s–are summoned again, and their cups having been filled up with ‘pure’ Soma, the Adhvaryu makes, after the Śraushaṭ, two more libations from each at the Vashaṭ and Anuvashaṭ respectively. For the offering-formulas and Anuvashaṭkāras, see Āśv. V, 5, 18-19. Holding the Agnīdh’s cup in his hand, he then goes to the Sadas and sits down facing the Hotr̥, whereupon they drink together the Soma in the dvidevatya cups. ↩︎

  40. तानाश्राव्याश्राव्यं प्रेष्यति नामग्राहं यज यजेति प्रशास्त्रादीन् । ब्रह्मन्यजेति ब्राह्मणाच्छँ सिनम् का० श्रौ० सू० ९ । २३१ । १३२ । ↩︎

  41. 287:3 The phrase ‘hotrāḥ (fem.) saṁyājayanti’ is apparently analogous to the ‘patnīḥ saṁyājayanti’ [they perform the Patnīsaṁyājas, or, make the wives (of the gods) participate in the sacrifice] of the Haviryajña. See part i, p. 256. Indeed Mahīdhara identifies the hotrās with the metres of the offering-formulas, thus treating them as a kind of deities. ↩︎

  42. होतारं प्रत्यङ्ङुपसीदत्ययाडग्नीदिति । का० श्रौ० सू० ९ । २३४ । ↩︎

  43. 288:1 The order of the dhishṇya-priests is (1. Hotr̥), 2. Praśāstr̥ (Maitrāvaruṇa), 3. Brāhmaṇācḥaṁsin, 4. Potr̥; 5. Neshṭr̥, 6. Acḥāvāka–the fires of all of whom are in the Sadas–and 7. the Agnīdh (in the Āgnīdhra fire-house). The Acḥāvaka, however, is for the present excluded from offering. ↩︎