०१
विश्वास-प्रस्तुतिः
श्रो᳘त्रँ ह वा᳘ ऽअस्याश्विनः॥
(स्त᳘) त᳘स्मात्सर्व्व᳘तः परिहा᳘रं भक्षयति सर्व्व᳘तो᳘ ह्यने᳘न[[!!]] श्रो᳘त्रेण शृणो᳘ति य᳘त्र वै भृ᳘गवो वा᳘ङ्गिरसो वा स्वर्गं᳘ लोकँ᳘ समा᳘श्नुवत तच्च्य᳘वनो वा भार्गवश्च्य᳘वनो वा ऽङ्गिरसस्त᳘देव जी᳘र्णिः कृत्या᳘रूपो जहे॥
मूलम् - श्रीधरादि
श्रो᳘त्रँ ह वा᳘ ऽअस्याश्विनः॥
(स्त᳘) त᳘स्मात्सर्व्व᳘तः परिहा᳘रं भक्षयति सर्व्व᳘तो᳘ ह्यने᳘न[[!!]] श्रो᳘त्रेण शृणो᳘ति य᳘त्र वै भृ᳘गवो वा᳘ङ्गिरसो वा स्वर्गं᳘ लोकँ᳘ समा᳘श्नुवत तच्च्य᳘वनो वा भार्गवश्च्य᳘वनो वा ऽङ्गिरसस्त᳘देव जी᳘र्णिः कृत्या᳘रूपो जहे॥
मूलम् - Weber
श्रो᳘त्रᳫं ह वा᳘ अस्याश्विनः॥
त᳘स्मात्सर्व᳘तः परिहा᳘रम् भक्षयति सर्व᳘तो ह्य᳘ने᳘न श्रो᳘त्रेण शृणो᳘ति य᳘त्र वै भृ᳘गवो वा᳘ङ्गिरसो वा स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवत तच्च्य᳘वनो वा भार्गवश्च्य᳘वनो वाङ्गिरसस्त᳘देव जी᳘र्णिः कृत्या᳘रूपो जहे॥
मूलम् - विस्वरम्
आश्विनग्रहः ।
श्रोत्रं ह वा ऽअस्याश्विनः । तस्मात्सर्वतः परिहारं भक्षयति, सर्वतो ह्येनेन श्रोत्रेण शृणोति । यत्र वै भृगवो वा ऽङ्गिरसो वा स्वर्गं लोकं समाश्नुवत । तत् च्यवनो वा भार्गवः, च्यवनो वा ऽऽङ्गिरसः । तदेव जीर्णिः कृत्यारूपो जहे ॥ १ ॥
सायणः
उपांश्वादीनां ग्रहाणां विधास्यमानानां प्राणात्मकत्वेन यथा प्रशंसा विहिता तद्वदत्रापि विधित्सित आश्विनोग्रहो भक्षणविध्युपयोगित्वेन श्रोत्रात्मना स्तूयते- श्रोत्रं हेत्यादि । ‘अस्य’ यज्ञस्य ‘आश्विनः’ ‘श्रोत्रम्’ इति प्रसिद्धम् । “श्रोत्रादाश्विनम्”- (तै. शा. १ । ५ । ४) इति तदुत्पत्तिश्रुतेः । अतः श्रोत्रस्य ‘सवतः’ ग्राहकत्वात्तदात्मकमाश्विनं ‘सर्वतः’ परिहृत्य भक्षयेत् । ‘परिहारम्’ आभीक्ष्णे (ऽपि) (पा. सू. ३ । ४ । २२) इति णमुल् प्रत्ययः । अथैतमाश्विनं ग्रहं विधातुमुपोद्धातत्वेनाख्यायिकामवतारयति- यत्र वा इत्यादि । पुरा खलु भृगूणामंगिरसां वा स्वर्गगमने भार्गवः ‘आंगिरसो वा’ जीर्णः ‘कृत्यारूपः’ अभिचारदेवतारूपः स्वर्गारोहणसमये च्युतस्तैस्त्यक्तो ऽभूत् । अत्रोभयत्राप्युपाख्यानार्थस्य समानत्वाद्वाशब्दप्रयोगः ॥ १ ॥
Eggeling
- The Āśvina graha 1, forsooth, is his organ of hearing; hence in drinking it he turns (the cup) all round 2, since with that ear of his he hears all round.–Now when the Bhr̥gus, or the Aṅgiras, attained the heavenly world, Cyavana the Bhārgava, or Cyavana the Āṅgirasa, was left behind here (on earth) decrepit and ghostlike 3.
०२
विश्वास-प्रस्तुतिः
श᳘र्यातो ह वा᳘ ऽइदं᳘ मानवो ग्रा᳘मेण चचार॥
स त᳘देव प्र᳘तिवेशो नि᳘विविशे त᳘स्य कुमाराः क्री᳘डन्त ऽइमं जी᳘र्णिं कृत्या᳘रूपमनर्थ्यं मन्यमाना[[!!]] लोष्टैर्व्वि᳘पिपिषुः॥
मूलम् - श्रीधरादि
श᳘र्यातो ह वा᳘ ऽइदं᳘ मानवो ग्रा᳘मेण चचार॥
स त᳘देव प्र᳘तिवेशो नि᳘विविशे त᳘स्य कुमाराः क्री᳘डन्त ऽइमं जी᳘र्णिं कृत्या᳘रूपमनर्थ्यं मन्यमाना[[!!]] लोष्टैर्व्वि᳘पिपिषुः॥
मूलम् - Weber
श᳘र्यातो ह वा᳘ इद᳘म् मानवो ग्रा᳘मेण चचार॥
स त᳘देव प्र᳘तिवेशो नि᳘विविशे त᳘स्य कुमाराः क्री᳘डन्त इमं जी᳘र्णिं कृत्या᳘रूपमनर्थ्यम् म᳘न्यमाना लोष्टैर्वि᳘पिपिषुः॥
मूलम् - विस्वरम्
शर्यातो ह वा ऽइदं मानवो ग्रामेण चचार । स तदेव प्रतिवेशो निविविशे । तस्य कुमाराः क्रीडन्त इमं जीर्णिं कृत्यारूपमनर्थ्यं मन्यमाना लोष्टैर्विपिपिषुः ॥ १ ॥
सायणः
तदा स्वकीयप्रजाभिः सह भुवं चरतः शर्यातनाम्नो राज्ञः शिबिरे तत्र निविष्टे तत्कुमारा अनर्थभ्रान्त्या एनं ‘लोष्टैर्विपिपिषुः’ । अर्थादनपेतो ऽर्थ्यो हितः, स न भवतीत्यनर्थः । ‘धर्मपथ्यर्थन्यायादनपेते’ (पा. सू. ४ । ४ । ९) इति यत् । ततः क्रुद्धेन तेनोन्मादिताः परस्परम् अयुध्यन्त ॥ २ ॥ ३ ॥
Eggeling
- But Śaryāta, the Mānava, just then wandered about here with his tribe, and settled near by that same place. His boys 4, while playing, setting that decrepit, ghostlike man at nought, pelted him with clods.
०३
विश्वास-प्रस्तुतिः
स᳘ शार्याते᳘भ्यश्चुक्रोध॥
तेभ्यो᳘ ऽसंज्ञां चकार पि᳘तैव᳘ पुत्रे᳘ण युयुधे भ्रा᳘ता भ्रा᳘त्रा॥
मूलम् - श्रीधरादि
स᳘ शार्याते᳘भ्यश्चुक्रोध॥
तेभ्यो᳘ ऽसंज्ञां चकार पि᳘तैव᳘ पुत्रे᳘ण युयुधे भ्रा᳘ता भ्रा᳘त्रा॥
मूलम् - Weber
स᳘ शार्याते᳘भ्यश्चुक्रोध॥
तेभ्यो᳘ ऽसंज्ञां चकार पिॗतैव᳘ पुत्रे᳘ण युयुधे भ्रा᳘ता भ्रा᳘त्रा॥
मूलम् - विस्वरम्
स शार्यातेभ्यश्चुक्रोध । तेभ्यो ऽसंज्ञां चकार । पितैव पुत्रेण युयुधे, भ्राता भ्रात्रा ॥ ३ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- He was wroth with the Śāryātas, and sowed discord among them: father fought with son, and brother with brother.
०४
विश्वास-प्रस्तुतिः
श᳘र्यातो ह वा᳘ ऽईक्षां᳘चक्रे॥
यत्किम᳘करं त᳘स्मादिदमा᳘पदी᳘ति स᳘ गोपालां᳘श्चाविपालां᳘श्च स᳘ᳫं᳘ह्वयितवा᳘ ऽउवाच॥
मूलम् - श्रीधरादि
श᳘र्यातो ह वा᳘ ऽईक्षां᳘चक्रे॥
यत्किम᳘करं त᳘स्मादिदमा᳘पदी᳘ति स᳘ गोपालां᳘श्चाविपालां᳘श्च स᳘ᳫं᳘ह्वयितवा᳘ ऽउवाच॥
मूलम् - Weber
श᳘र्यातो ह वा᳘ ईक्षां᳘ चक्रे॥
यत्किम᳘करं त᳘स्मादिदमा᳘पदी᳘ति स᳘ गोपालां᳘श्चाविपालां᳘श्च स᳘ᳫं᳘ह्वयितवा᳘ उवाच॥
मूलम् - विस्वरम्
शर्यातो ह वा ऽईक्षांचक्रे- यत् किमकरम्, तस्मादिदमापदीति । स गोपालांश्चाविपालांश्च संह्वयितवा ऽउवाच ॥ ४ ॥
सायणः
ततः ‘शर्यातः’ ‘यदकरं’ तत् किं ‘तस्मादिदं’ प्राप्तमिति विचार्य ‘गोपालान्’ ‘अविपालांश्च’ अप्राक्षीत् । ‘वः’ भवतां मध्ये किम् ‘अद्राक्षीत्’ इत्युक्त्वा तन्मुखात् कुमारकृतं वृत्तान्तं श्रुत्वा पश्चाच्च्यवन इत्यजानात् । अकरम् इति- “कृमृदृरुहिभ्यश्छन्दसि” (पा. सू. ३ । १ । ५९) इत्यङ् । ‘व्यपिक्षन्-’ इति- “शल इगुपधादनिटः क्सः”- (पा. सू. ३ । १ । ४) ॥ ४ ॥ ५ ॥
Eggeling
- Śaryāta then bethought him 5,–‘This has come to pass for something or other I have done!’ He caused the cowherds and shepherds to be called together, and said–
०५
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
को᳘ वो᳘ ऽद्येव किं᳘चिदद्राक्षीदि᳘ति ते᳘ होचुः पु᳘रुष ऽए᳘वायं जी᳘र्णिः कृत्या᳘रूपः शेते त᳘मनर्थ्यं म᳘न्यमानाः कुमारा᳘ लोष्टै᳘र्व्यपिक्षन्नि᳘ति[[!!]] स᳘ व्विदां᳘चकार स वै च्य᳘वन इ᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
को᳘ वो᳘ ऽद्येव किं᳘चिदद्राक्षीदि᳘ति ते᳘ होचुः पु᳘रुष ऽए᳘वायं जी᳘र्णिः कृत्या᳘रूपः शेते त᳘मनर्थ्यं म᳘न्यमानाः कुमारा᳘ लोष्टै᳘र्व्यपिक्षन्नि᳘ति[[!!]] स᳘ व्विदां᳘चकार स वै च्य᳘वन इ᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
को᳘ वोॗ ऽद्येव किं᳘चिदद्राक्षीदि᳘ति ते᳘ होचुः पु᳘रुष एॗवायं जी᳘र्णिः कृत्या᳘रूपः शेते त᳘मनर्थ्यम् म᳘न्यमानाः कुमारा᳘ लोष्टैर्व्य᳘पिक्षन्नि᳘ति स᳘ विदां᳘ चकार स वै च्य᳘वन इ᳘ति॥
मूलम् - विस्वरम्
स होवाच- को वो ऽद्येह किंचिदद्राक्षीदिति । ते होचुः पुरुष एवायं जीर्णिः कृत्यारूपः शेते, तमनर्थ्यं मन्यमानाः कुमारा लोष्टैर्व्यपिक्षन्निति । स विदांचकार- स वै च्यवन इति ॥ ५ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- He said, ‘Which of you has seen anything here this day?’–They said, ‘Yonder lies a man, decrepit and ghostlike: him the boys have pelted with clods, setting him at nought.’ Then Śaryāta knew that this was Cyavana.
०६
विश्वास-प्रस्तुतिः
स र᳘थं युक्त्वा᳘॥
सुकन्या᳘ᳫं᳘ शार्याती᳘मुपाधा᳘य प्र᳘सिष्यन्द स ऽआ᳘जगाम यत्र᳘ ऽर्षिरा᳘स तत्[[!!]]॥
मूलम् - श्रीधरादि
स र᳘थं युक्त्वा᳘॥
सुकन्या᳘ᳫं᳘ शार्याती᳘मुपाधा᳘य प्र᳘सिष्यन्द स ऽआ᳘जगाम यत्र᳘ ऽर्षिरा᳘स तत्[[!!]]॥
मूलम् - Weber
स र᳘थं युक्त्वा᳟॥
सुकन्यां᳘ शार्याती᳘मुपाधा᳘य प्र᳘सिष्यन्द स आ᳘जगाम यत्रर्षिरा᳘स त᳘त्॥
मूलम् - विस्वरम्
स रथं युक्त्वा सुकन्यां शार्यातीमुपाधाय प्रसिष्यन्द । स आजगाम यत्र ऽर्षिरास- तत् ॥ ६ ॥
सायणः
ततः स रथं सज्जीकृत्य सुकन्यामादाय ऋषिसमीपं गत्वा अज्ञानेन ‘त्वामहिंसिषं’ नमस्ते अस्तु । अनया कन्यया तवापराधमपनयामि, मदीयो वर्गः पर्यवस्थितो भवत्वित्युक्ते तदनुग्रहात्तथा ऽजनिष्ट । ततःप्रभृति शर्यातो ऽन्यहिंसाविषये भीतः तदनुकूलमुद्योगमकरोत् “नेदिति” (निरु. १ । ३ । ५) निपातः परिमये वर्त्तते ॥ ६ ॥ ७ ॥
Eggeling
- He yoked his chariot, and putting his daughter Sukanyā thereon, he set forth, and came to the place where the R̥shi was.
०७
विश्वास-प्रस्तुतिः
(त्स᳘) स᳘ होवाच॥
(ऽ) ऋषे[[!!]] न᳘मस्ते यन्ना᳘वेदिषं ते᳘नाहिᳫँ᳭सिषमिय᳘ᳫं᳘ सुकन्या त᳘या ते᳘ ऽपह्न᳘वे सं᳘जानीतां मे ग्रा᳘म ऽइ᳘ति त᳘स्य ह त᳘त एव ग्रा᳘मः सं᳘जज्ञे स᳘ ह त᳘त ऽएव श᳘र्यातो मानव ऽउ᳘द्युयुजे नेद᳘परᳫँ᳭ हिन᳘सानी᳘ति॥
मूलम् - श्रीधरादि
(त्स᳘) स᳘ होवाच॥
(ऽ) ऋषे[[!!]] न᳘मस्ते यन्ना᳘वेदिषं ते᳘नाहिᳫँ᳭सिषमिय᳘ᳫं᳘ सुकन्या त᳘या ते᳘ ऽपह्न᳘वे सं᳘जानीतां मे ग्रा᳘म ऽइ᳘ति त᳘स्य ह त᳘त एव ग्रा᳘मः सं᳘जज्ञे स᳘ ह त᳘त ऽएव श᳘र्यातो मानव ऽउ᳘द्युयुजे नेद᳘परᳫँ᳭ हिन᳘सानी᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
ऋ᳘षे न᳘मस्ते यन्ना᳘वेदिषं ते᳘नाहिंसिषमिय᳘ᳫं᳘ सुकन्या त᳘या ते᳘ ऽपह्नुवे सं᳘जानीताम् मे ग्रा᳘म इ᳘ति त᳘स्य ह त᳘त एव ग्रा᳘मः संजज्ञे स᳘ ह त᳘त एव श᳘र्यातो मानव उ᳘द्युयुजे नेद᳘परᳫं हिन᳘सानी᳘ति॥
मूलम् - विस्वरम्
स होवाच- ऋषे ! नमस्ते, यन्नावेदिषम्- तेनाहिंसिषम् । इयं सुकन्या, तया ते ऽपह्नुवे, संजानीतां मे ग्राम इति । तस्य ह तत एव ग्रामः संजज्ञे । स ह तत एव शर्यातो मानव उद्युयुजेमेदपरं हिनसानीति ॥ ७ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- He said, ‘Reverence be to thee, O R̥shi;
because I knew thee not, therefore have I offended thee; here is Sukanyā 6, with her I make atonement to thee: let my tribe live at peace together!’ And from that same time his tribe lived at peace together. But Śaryāta, the Mānava, departed 7 forthwith, lest he should offend him a second time.
०८
विश्वास-प्रस्तुतिः
(त्य) अश्वि᳘नौ ह वा᳘ ऽइदं᳘ भिषज्य᳘न्तौ᳘ चेरतुः॥
(स्तौ) तौ[[!!]] सुकन्यामु᳘पेयतुस्त᳘स्यां मिथुन᳘मीषाते तन्न᳘ जज्ञौ॥
मूलम् - श्रीधरादि
(त्य) अश्वि᳘नौ ह वा᳘ ऽइदं᳘ भिषज्य᳘न्तौ᳘ चेरतुः॥
(स्तौ) तौ[[!!]] सुकन्यामु᳘पेयतुस्त᳘स्यां मिथुन᳘मीषाते तन्न᳘ जज्ञौ॥
मूलम् - Weber
अश्वि᳘नौ ह वा᳘ इद᳘म् भिषज्य᳘न्तौ चेरतुः॥
तौ᳘ सुकन्यामु᳘पेयतुस्त᳘स्याम् मिथुन᳘मीषाते तन्न᳘ जज्ञौ॥
मूलम् - विस्वरम्
अश्विनौ ह वा ऽइदं भिषज्यन्तौ चेरतुः । तौ सुकन्यामुपेयतुः । तस्यां मिथुनमीषाते । तन्न जज्ञौ ॥ ८ ॥
सायणः
एतस्मिन् समये भुवं विचरन्तौ ‘भिषज्यन्तौ’ “कण्ड्वादिभ्यो यक्”- (पा. सू. ३ । १ । २७) तौ ‘अश्विनौ’ इमां कन्यामुपेत्य ‘तस्यां’ ‘मिथुनं’ मैथुनभावम् ‘ईषाते’ । “इषु इच्छायाम्”- (धा. पा. तु. प. ७०) व्यत्ययेनात्मनेपदम् (पा. सू. ३ । १ । ८५) च्यवनस्तु तन्न विवेद ॥ ८ ॥
Eggeling
- Now the Aśvins then wandered about here on earth performing cures. They came to Sukanyā, and desired to win her love; but she consented not thereto.
०९
विश्वास-प्रस्तुतिः
तौ᳘ होचतुः॥
सु᳘कन्ये क᳘मिमं जी᳘र्णिं कृत्या᳘रूपमु᳘पशेष ऽआवा᳘मनुप्रेही᳘ति सा᳘ होवाच य᳘स्मै मां᳘ पिता᳘ ऽदान्नै᳘वाहं[[!!]] तं जी᳘वन्तँ हास्यामी᳘ति त᳘द्धायमृषिरा᳘जज्ञौ[[!!]]॥
मूलम् - श्रीधरादि
तौ᳘ होचतुः॥
सु᳘कन्ये क᳘मिमं जी᳘र्णिं कृत्या᳘रूपमु᳘पशेष ऽआवा᳘मनुप्रेही᳘ति सा᳘ होवाच य᳘स्मै मां᳘ पिता᳘ ऽदान्नै᳘वाहं[[!!]] तं जी᳘वन्तँ हास्यामी᳘ति त᳘द्धायमृषिरा᳘जज्ञौ[[!!]]॥
मूलम् - Weber
तौ᳘ होचतुः॥
सु᳘कन्ये क᳘मिमं जी᳘र्णिं कृत्या᳘रूपमु᳘पशेष आवा᳘मनुप्रेही᳘ति सा᳘ होवाच य᳘स्मै माम् पिता᳘दाॗन्नैॗवाहं तं जी᳘वन्तᳫं हास्यामी᳘ति त᳘द्धायमृ᳘षिरा᳘जज्ञौ॥
मूलम् - विस्वरम्
तौ होचतु:- सुकन्ये ! कमिमं जीर्णिं कृत्यारूपमुपशेषे । आवामनुप्रेहीति । सा होवाच- यस्मै मां पिता ऽदात्; नैवाहं तं जीवन्तं हास्यामीति । तद्धायमृषिराजज्ञौ ॥ ९ ॥
सायणः
ताभ्यां पत्यौ अरुचिमुत्पाद्य स्वानुसरणं ब्रुवद्भ्यामुक्ता नैतं ‘जीवन्तं’ हातुं युक्तमित्युवाच । तत एतत् ज्ञातवता ऋषिणा पृष्टा सर्वमकथयत् । स पुनः ‘व्याख्यातः’ उक्तः सन्नुवाच- तावागत्य ‘पुनः’ अपि ‘त्वा’ ‘यदि’ ‘ब्रुवतः’ ब्रूतः “बहुलं छन्दसि-" (पा. सू. २ । ४ । ३७) इति शपो लुगभावः । तदैवं ब्रूहि युवामसम्पूर्णौ असमृद्धौ ‘अथ’ अपि मदीयं पतिं ‘निन्दथ इति’ ‘केन’ कारणेनावामेवं बभूविवेति पृष्टे मदीयस्य पत्युर्यौवने कृते ‘वक्ष्यामीति’ । तथैव सर्वमपि समजनि ॥ ९-११ ॥
Eggeling
- They said, ‘Sukanyā, what a decrepit, ghostlike man is that whom thou liest with; come and follow us!’ She said, ‘To whom my father has given me, him will I not abandon, as long as he lives!’ But the R̥shi was aware of this.
१०
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
सु᳘कन्ये किं᳘ त्वैत᳘दवोचतामि᳘ति त᳘स्मा ऽएतद्व्या᳘चचक्षे स᳘ ह व्या᳘ख्यात ऽउवाच य᳘दि त्वैतत्पु᳘नर्ब्रु᳘वतः सा त्वं᳘ ब्रूतान्न वै सु᳘सर्व्वाविव स्थो न सु᳘समृद्धाविवा᳘थ मे प᳘तिं निन्दथ इ᳘ति तौ य᳘दि त्वा ब्र᳘वतः केनावम᳘सर्व्वौ स्वः केना᳘समृद्धावि᳘ति सा त्वं᳘ ब्रूतात्प᳘तिं नु᳘ मे पु᳘नर्युवाणं कुरुतम᳘थ वां वक्ष्यामी᳘ति तां पु᳘नरु᳘पेयतुस्ता᳘ᳫं᳘ हैत᳘दे᳘वोचतुः॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
सु᳘कन्ये किं᳘ त्वैत᳘दवोचतामि᳘ति त᳘स्मा ऽएतद्व्या᳘चचक्षे स᳘ ह व्या᳘ख्यात ऽउवाच य᳘दि त्वैतत्पु᳘नर्ब्रु᳘वतः सा त्वं᳘ ब्रूतान्न वै सु᳘सर्व्वाविव स्थो न सु᳘समृद्धाविवा᳘थ मे प᳘तिं निन्दथ इ᳘ति तौ य᳘दि त्वा ब्र᳘वतः केनावम᳘सर्व्वौ स्वः केना᳘समृद्धावि᳘ति सा त्वं᳘ ब्रूतात्प᳘तिं नु᳘ मे पु᳘नर्युवाणं कुरुतम᳘थ वां वक्ष्यामी᳘ति तां पु᳘नरु᳘पेयतुस्ता᳘ᳫं᳘ हैत᳘दे᳘वोचतुः॥
मूलम् - Weber
स᳘ होवाच॥
सु᳘कन्ये किं᳘ त्वैत᳘दवोचतामि᳘ति त᳘स्मा एतद्व्या᳘चचक्षे स᳘ ह व्या᳘ख्यात उवाच य᳘दि त्वैतत्पु᳘नर्ब्रु᳘वतः सा त्व᳘म् ब्रूतान्न वै सु᳘सर्वाविव स्थो न सु᳘समृद्धाविवा᳘थ मे प᳘तिं निन्दथ इ᳘ति तौ य᳘दि त्वा ब्र᳘वतः केनावम᳘सर्वौ स्वः केना᳘समृद्धावि᳘ति सा त्व᳘म् ब्रूतात्प᳘तिं नु᳘ मे पु᳘नर्युवाणं कुरुतम᳘थ वां वक्ष्यामीति ताम् पु᳘नरु᳘पेयतुस्ता᳘ᳫं᳘ हैत᳘देवोचतुः॥
मूलम् - विस्वरम्
स होवाच- सुकन्ये ! किं त्वैतदवोचतामिति । तस्मा ऽएतद्व्याचचक्षे । स ह व्याख्यात उवाच- यदि त्वैतत्पुनर्ब्रुवतः; सा त्वं ब्रूतात् । न वै सुसर्वाविव स्थः, न सुसमृद्धाविव । अथ मे पतिं निन्दथ इति । तौ यदि त्वा ब्रुवतः- केनावमसर्वौ स्वः, केनासमृद्धाविति । सा त्वं ब्रूतात्- पतिं नु मे पुनर्युवाणं कुरुतम्- अथ वां वक्ष्यामीति । तां पुनरुपेयतुः । तां हैतदेवोचतुः ॥ १० ॥
सायणः
[व्याख्यानं नवमे]
Eggeling
- He said, ‘Sukanyā, what have those two said to thee?’ She told him all; and, when she had told him, he said, ‘If they speak to thee thus again, say thou to them, “But surely, ye are neither quite complete nor quite perfect, and yet ye deride my husband!” and if they say to thee, “In what respect are we incomplete, in what respect imperfect?” say thou to them, “Nay, make ye my husband young again, and I will tell you!”’ They came again to her, and said to her the same thing.
११
विश्वास-प्रस्तुतिः
सा᳘ होवाच॥
न वै सु᳘सर्व्वाविव स्थो न सु᳘समृद्धाविवा᳘थ मे प᳘तिं निन्दथ इ᳘ति तौ᳘ होचतुः के᳘नावम᳘सर्व्वौ स्वः केना᳘समृद्धावि᳘ति सा᳘ होवाच प᳘तिं नु᳘ मे पु᳘नर्युवाणं कुरुतम᳘थ वां व्वक्ष्यामी᳘ति॥
मूलम् - श्रीधरादि
सा᳘ होवाच॥
न वै सु᳘सर्व्वाविव स्थो न सु᳘समृद्धाविवा᳘थ मे प᳘तिं निन्दथ इ᳘ति तौ᳘ होचतुः के᳘नावम᳘सर्व्वौ स्वः केना᳘समृद्धावि᳘ति सा᳘ होवाच प᳘तिं नु᳘ मे पु᳘नर्युवाणं कुरुतम᳘थ वां व्वक्ष्यामी᳘ति॥
मूलम् - Weber
सा᳘ होवाच॥
न वै सु᳘सर्वाविव स्थो न सु᳘समृद्धाविवा᳘थ मे प᳘तिं निन्दथ इ᳘ति तौ᳘ होचतुः के᳘नावम᳘सर्वौ स्वः केना᳘समृद्धावि᳘ति सा᳘ होवाच प᳘तिं नु᳘ मे पु᳘नर्युवाणं कुरुतम᳘थ वां वक्ष्यामी᳘ति॥
मूलम् - विस्वरम्
सा होवाच- न वै सुसर्वाविव स्थः, न सुसमृद्धाविव । अथ मे पतिं निन्दथ इति । तौ होचतुः- केनावमसर्वौ स्वः, केनासमृद्धाविति । सा होवाच- पतिं नु मे पुनर्युवाणं कुरुतम् । अथ वां वक्ष्यामीति ॥ ११ ॥
सायणः
[व्याख्यानं नवमे]
Eggeling
- She said, ‘But surely ye are neither quite complete nor quite perfect, and yet ye deride my husband!’ They said, ‘In what respect are we incomplete, in what respect imperfect?’ She said, ‘Nay, make ye my husband young again, and I will tell you!’
१२
विश्वास-प्रस्तुतिः
तौ᳘ होचतुः॥
(रे) एत᳘ᳫं᳘ह्रदमभ्य᳘वहर[[!!]] स ये᳘न व्व᳘यसा कमिष्य᳘ते ते᳘नोदै᳘ष्यती᳘ति त᳘ᳫं᳘ ह्रद᳘मभ्य᳘वजहार स ये᳘न व्व᳘यसा चकमे ते᳘नोदे᳘याय॥
मूलम् - श्रीधरादि
तौ᳘ होचतुः॥
(रे) एत᳘ᳫं᳘ह्रदमभ्य᳘वहर[[!!]] स ये᳘न व्व᳘यसा कमिष्य᳘ते ते᳘नोदै᳘ष्यती᳘ति त᳘ᳫं᳘ ह्रद᳘मभ्य᳘वजहार स ये᳘न व्व᳘यसा चकमे ते᳘नोदे᳘याय॥
मूलम् - Weber
तौ᳘ होचतुः॥
एत᳘ᳫं᳘ ह्रद᳘मभ्य᳘वहर स ये᳘न व᳘यसा कमिष्य᳘ते ते᳘नोदै᳘ष्यती᳘ति त᳘ᳫं᳘ ह्रद᳘मभ्य᳘वजहार स ये᳘न व᳘यसा चकमे ते᳘नोदे᳘याय॥
मूलम् - विस्वरम्
तौ होचतुः- एतं हृदमभ्यवहर । स येन वयसा कमिष्यते- तेनोदैष्यतीति । तं हृदमभ्यवजहार । स येन वयसा चकमे- तेनोदेयाय ॥ १२ ॥
सायणः
ततस्तौ तदिष्टवयःप्राप्तौ कस्मिंश्चिद् ह्रदे मज्जनमुपायं प्रदर्श्य पुनरात्मवैकल्यमप्राष्टाम् । ‘कुरुक्षेत्रे’ य तन्वाना देवाः ‘वां’ यज्ञविनष्टौ कुर्वन्ति ‘तेन’ उक्तं भवतोर्वैकल्यमिति । ऋषिरेव प्रत्युवाच- ततस्तौ बहिष्पवमानस्तोत्रानन्तरं देवानगमताम् । आवां भवत्समीपे ‘ह्वयध्वमिति’ अवोचतां च । भवतोश्चिरं ‘मनुष्येषु’ संसृष्टत्वान्नोपह्वयिष्याम इति देवैरुक्ते शिरोहीनेन ‘यज्ञेन’ ‘यजध्वम्’ इत्यूचतुः । ‘कथं’ विशिरस्त्वमिति तैरुक्ते तान् ‘उपह्वयध्वम्’ पश्चाद् ‘वक्ष्याव’ इत्यवोचताम् । ततः ‘ताभ्यां’ ‘ग्रहमगृह्णन्’ । ‘तावध्वर्यू भूत्वा यज्ञस्य शिरः’ प्रत्यदधातां, शिरसः प्रतिधानप्रकारस्तु प्रवर्ग्यमन्त्रब्राह्मणे 8 व्याख्यायते इति नात्र प्रपञ्च्यत इत्यर्थः ॥ १२-१४ ॥
Eggeling
- They said, ‘Take him down to yonder pool 9, and he shall come forth with whatever age he shall desire!’ She took him down to that pool, and he came forth with the age he desired.
१३
विश्वास-प्रस्तुतिः
तौ᳘ होचतुः॥
सु᳘कन्ये के᳘नावम᳘सर्व्वौ स्वः केना᳘समृद्धावि᳘ति तौ ह᳘र्षिरेव प्र᳘त्युवाच कुरुक्षे᳘त्रे ऽमी᳘ देवा᳘ यज्ञं᳘ तन्वते ते᳘ व्वां यज्ञा᳘दन्त᳘र्यन्ति तेना᳘सर्व्वौ स्थस्तेना᳘समृद्धावि᳘ति तौ᳘ ह त᳘त ऽए᳘वाश्वि᳘नौ प्रे᳘यतुस्तावा᳘जग्मतुर्देवा᳘न्यज्ञं᳘ तन्वाना᳘न्त्स्तुते᳘[[!!]] बहिष्पवमाने[[!!]]॥
मूलम् - श्रीधरादि
तौ᳘ होचतुः॥
सु᳘कन्ये के᳘नावम᳘सर्व्वौ स्वः केना᳘समृद्धावि᳘ति तौ ह᳘र्षिरेव प्र᳘त्युवाच कुरुक्षे᳘त्रे ऽमी᳘ देवा᳘ यज्ञं᳘ तन्वते ते᳘ व्वां यज्ञा᳘दन्त᳘र्यन्ति तेना᳘सर्व्वौ स्थस्तेना᳘समृद्धावि᳘ति तौ᳘ ह त᳘त ऽए᳘वाश्वि᳘नौ प्रे᳘यतुस्तावा᳘जग्मतुर्देवा᳘न्यज्ञं᳘ तन्वाना᳘न्त्स्तुते᳘[[!!]] बहिष्पवमाने[[!!]]॥
मूलम् - Weber
तौ᳘ होचतुः॥
सु᳘कन्ये के᳘नावम᳘सर्वौ स्वः केना᳘समृद्धावि᳘ति तौ ह᳘र्षिरेव प्र᳘त्युवाच कुरुक्षेॗत्रे ऽमी᳘ देवा᳘ यज्ञं᳘ तन्वते ते᳘ वां यज्ञा᳘दन्त᳘र्यन्ति तेना᳘सर्वौ स्थस्तेना᳘समृद्धावि᳘ति तौ᳘ ह त᳘त एॗवाश्वि᳘नौ प्रे᳘यतुस्तावा᳘जग्मतुर्देवा᳘न्यज्ञं᳘ तन्वाना᳘न्त्स्तु᳘ते बहिष्पवमाने᳟॥
मूलम् - विस्वरम्
तौ होचतुः- सुकन्ये ! केनावमसर्वौ स्वः, केनासमृद्धाविति । तौ हर्षिरेव प्रत्युवाच-कुरुक्षेत्रे ऽमी देवा यज्ञं तन्वते; ते वां यज्ञादन्तर्यन्ति- तेनासर्वौ स्थः, तेनासमृद्धाविति । तौ ह तत एवाश्विनौ प्रेयतुः । तावाजग्मतुर्देवान्यज्ञं तन्वानान्- स्तुते बहिष्पवमाने ॥ १३ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- They said, Sukanyā, in what respect are we incomplete, in what respect imperfect?’ The R̥shi himself answered them,–‘In Kurukshetra yonder the gods perform a sacrifice and exclude you two from it: in that respect ye are incomplete, in that respect imperfect!’ And the Aśvins departed forthwith, and came to the gods, as they were performing a sacrifice, after the chanting of the Bahishpavamāna.
१४
विश्वास-प्रस्तुतिः
तौ᳘ होचतुः॥
(रु᳘) उ᳘प नौ ह्वयध्वमि᳘ति ते᳘ ह देवा᳘ ऽऊचुर्न᳘ वामु᳘पह्वयिष्यामहे बहु᳘ मनु᳘ष्येषु स᳘ᳫं᳘सृष्टमचारिष्टं भिषज्य᳘न्तावि᳘ति॥
मूलम् - श्रीधरादि
तौ᳘ होचतुः॥
(रु᳘) उ᳘प नौ ह्वयध्वमि᳘ति ते᳘ ह देवा᳘ ऽऊचुर्न᳘ वामु᳘पह्वयिष्यामहे बहु᳘ मनु᳘ष्येषु स᳘ᳫं᳘सृष्टमचारिष्टं भिषज्य᳘न्तावि᳘ति॥
मूलम् - Weber
तौ᳘ होचतुः॥
उ᳘प नौ ह्वयध्वमि᳘ति ते᳘ ह देवा᳘ ऊचुर्न᳘ वामु᳘पह्वयिष्यामहे बहु᳘ मनुॗष्येषु स᳘ᳫं᳘सृष्टमचारिष्टम् भिषज्य᳘न्ताविति॥
मूलम् - विस्वरम्
तौ होचतुः- उप नौ ह्वयध्वमिति । ते ह देवा ऊचुः- न वामुह्वयिष्यामहे । बहु मनुष्येषु संसृष्टमचारिष्टं भिषज्यन्ताविति ॥ १४ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- They said, ‘Invite us thereto!’ The gods said, ‘We will not invite you: ye have wandered and mixed much among men, performing cures.’
१५
विश्वास-प्रस्तुतिः
तौ᳘ होचतुः॥
(र्वि᳘) व्वि᳘शीर्ष्णा वै᳘ यज्ञे᳘न यजध्व ऽइ᳘ति कथं व्वि᳘शीर्ष्णेत्यु᳘प नु᳘ नौ ह्वयध्वम᳘थ वो व्वक्ष्याव इ᳘ति तथे᳘ति ता ऽउ᳘पाह्वयन्त ता᳘भ्यामेत᳘माश्विनं ग्र᳘हमगृह्णंस्ता᳘वध्वर्यू᳘ यज्ञ᳘स्याभवतां ता᳘वेत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां त᳘ददस्त᳘द्दिवाकी᳘र्त्यानां ब्रा᳘ह्मणे व्या᳘ख्याय᳘ते यथा[[!!]] त᳘द्यज्ञ᳘स्य शि᳘रः प्रतिदध᳘तुस्त᳘स्मादेष᳘ स्तुते᳘ बहिष्पवमाने ग्र᳘हो गृह्यते स्तुते हि᳘ बहिष्पवमान ऽआ᳘गच्छताम्॥
मूलम् - श्रीधरादि
तौ᳘ होचतुः॥
(र्वि᳘) व्वि᳘शीर्ष्णा वै᳘ यज्ञे᳘न यजध्व ऽइ᳘ति कथं व्वि᳘शीर्ष्णेत्यु᳘प नु᳘ नौ ह्वयध्वम᳘थ वो व्वक्ष्याव इ᳘ति तथे᳘ति ता ऽउ᳘पाह्वयन्त ता᳘भ्यामेत᳘माश्विनं ग्र᳘हमगृह्णंस्ता᳘वध्वर्यू᳘ यज्ञ᳘स्याभवतां ता᳘वेत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां त᳘ददस्त᳘द्दिवाकी᳘र्त्यानां 8 ब्रा᳘ह्मणे व्या᳘ख्याय᳘ते यथा[[!!]] त᳘द्यज्ञ᳘स्य शि᳘रः प्रतिदध᳘तुस्त᳘स्मादेष᳘ स्तुते᳘ बहिष्पवमाने ग्र᳘हो गृह्यते स्तुते हि᳘ बहिष्पवमान ऽआ᳘गच्छताम्॥
मूलम् - Weber
तौ᳘ होचतुः॥
वि᳘शीर्ष्णा वै᳘ यज्ञे᳘न यजध्व इ᳘ति कथं वि᳘शीर्ष्णेत्यु᳘प नु नौ ह्वयध्वम᳘थ वो वक्ष्याव इ᳘ति तथे᳘ति ता उ᳘पाह्वयन्त ता᳘भ्यामेत᳘माश्विनं ग्रहमगृह्णस्ता᳘वध्वर्यू᳘ यज्ञ᳘स्याभवतां ता᳘वेत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां त᳘ददस्त᳘द्दिवाकी᳘र्त्यानाम् ब्रा᳘ह्मणे व्या᳘ख्यायते य᳘था त᳘द्यज्ञ᳘स्य शि᳘रः प्रतिदध᳘तुस्त᳘स्मादेष᳘ स्तुते᳘ बहिष्पवमाने ग्र᳘हो गृह्यते स्तुते हि᳘ बहिष्पवमान आ᳘गछताम्॥
मूलम् - विस्वरम्
तौ होचतुः- विशीर्णा वै यज्ञेन यजध्व ऽइति । कथं विशीर्ष्णेति । उप नु नौ ह्वयध्वम्, अथ वो वक्ष्याव इति तथेति । ता ऽउपाह्वयन्त । ताभ्यामेतमाश्विनं ग्रहमगृह्णन् । तावध्वर्यू यज्ञस्याभवताम् । तावेतद्यज्ञस्य शिरः प्रत्यधत्ताम् । तददस्तद्दिवाकीर्त्यानां ब्राह्मणे व्याख्यायते । यथा तद् यज्ञस्य शिरः प्रतिदधतुः । तस्मादेष स्तुते बहिष्पवमाने ग्रहो गृह्यते । स्तुते हि बहिष्पवमान ऽआगच्छताम् ॥ १५ ॥
सायणः
इत्थमाख्यायिकया अश्विनोर्ग्रहप्राप्तिः प्रदर्शिता । “अथातो गृह्णाति” इति ग्रहो ऽपि विधास्यते, तदनुवादेनात्र कालो विधीयते- तस्मादित्यादि । बहिष्पवमानानन्तरमेव तयोरागमनात्तत्र ‘ग्रहं’ गृह्णीयात् ॥ १५ ॥
Eggeling
- They said, ‘But surely ye worship with a
headless sacrifice!’–‘How with a headless (sacrifice)?’–‘Nay, invite us, and we will tell you!’–‘So be it!’ so they invited them. They drew this Āśvina cup for them; and those two became the Adhvaryu priests of the sacrifice, and restored the head of the sacrifice. Then, in the chapter of the divākīrtyas 10, it is explained how they did restore the head of the sacrifice. Hence this libation is drawn after the chanting of the Bahishpavamāna, for it was after the chanting of the Bahishpavamāna that they arrived.
१६
विश्वास-प्रस्तुतिः
तौ᳘ होचतुः॥
(र्मु᳘) मु᳘ख्यौ वा᳘ ऽआवां᳘ यज्ञ᳘स्य स्वो या᳘वध्वर्यू᳘ ऽइह᳘ नाविमं᳘ पुर᳘स्ताद्ग्र᳘हं पर्या᳘हरताभि᳘ द्विदेव᳘त्यानि᳘ति ता᳘भ्यामेतं᳘ पुर᳘स्ताद्ग्र᳘हं पर्या᳘जह्रुरभि᳘ द्विदेव᳘त्याँस्त᳘स्मादेष᳘ दशमो ग्र᳘हो गृह्यते तृती᳘य एव व᳘षट्क्रियते᳘ ऽथ य᳘दश्वि᳘नावि᳘तीमे᳘ ह वै द्या᳘वापृथिवी᳘ प्रत्य᳘क्षमश्वि᳘नाविमे᳘ हीदᳫं᳭ स᳘र्व्वमाश्नुवातां पु᳘ष्करस्रजावि᳘त्यग्नि᳘रे᳘वास्यै पु᳘ष्करमादि᳘त्यो ऽमु᳘ष्यै॥
मूलम् - श्रीधरादि
तौ᳘ होचतुः॥
(र्मु᳘) मु᳘ख्यौ वा᳘ ऽआवां᳘ यज्ञ᳘स्य स्वो या᳘वध्वर्यू᳘ ऽइह᳘ नाविमं᳘ पुर᳘स्ताद्ग्र᳘हं पर्या᳘हरताभि᳘ द्विदेव᳘त्यानि᳘ति ता᳘भ्यामेतं᳘ पुर᳘स्ताद्ग्र᳘हं पर्या᳘जह्रुरभि᳘ द्विदेव᳘त्याँस्त᳘स्मादेष᳘ दशमो ग्र᳘हो गृह्यते तृती᳘य एव व᳘षट्क्रियते᳘ ऽथ य᳘दश्वि᳘नावि᳘तीमे᳘ ह वै द्या᳘वापृथिवी᳘ प्रत्य᳘क्षमश्वि᳘नाविमे᳘ हीदᳫं᳭ स᳘र्व्वमाश्नुवातां पु᳘ष्करस्रजावि᳘त्यग्नि᳘रे᳘वास्यै पु᳘ष्करमादि᳘त्यो ऽमु᳘ष्यै॥
मूलम् - Weber
तौ᳘ होचतुः॥
मु᳘ख्यौ वा᳘ आवां᳘ यज्ञ᳘स्य स्वो या᳘वध्वर्यू᳘ इह᳘ नाविम᳘म् पुर᳘स्ताद्ग्र᳘हम् पर्या᳘हरताभि᳘ द्विदेव᳘त्यानि᳘ति ता᳘भ्यामेत᳘म् पुर᳘स्ताद्ग्र᳘हम् पर्या᳘जह्रुरभि᳘ द्विदेव᳘त्यांस्त᳘स्मादेष᳘ दशमो ग्र᳘हो गृह्यते तृती᳘य एव व᳘षट्क्रियते᳘ ऽथ य᳘दश्वि᳘नावि᳘तीमे᳘ ह वै द्या᳘वापृथिवी᳘ प्रत्य᳘क्षमश्वि᳘नाविमेॗ हीदᳫं स᳘र्वमाश्नुवाताम् पु᳘ष्करस्रजावि᳘त्यग्नि᳘रेॗवास्यै पु᳘ष्करमादिॗत्यो ऽमु᳘ष्यै॥
मूलम् - विस्वरम्
तौ होचतुः- मुख्यौ वा ऽआवां यज्ञस्य स्वः- यावध्वर्यू । इह नाविमं पुरस्ताद् ग्रहं पर्याहरत- अभिद्विदेवत्यानिति ताभ्यामेतत्पुरस्ताद्ग्रहं पर्याजह्नुरभिद्विदेवत्यान् तस्मादेष दशमो ग्रहो गृह्यते । तृतीय एव वषट् क्रियते । अथ यदश्विनाविति । इमे ह वै द्यावापृथिवी प्रत्यक्षमश्विनौ । इमे हीदं सर्वमाश्नुवतां पुष्करस्रजाविति । अग्निरेवास्यै पुष्करम्, आदित्यो ऽमुष्यै ॥ १६ ॥
सायणः
ग्रहस्य होमकालं विधत्ते- तौ होचतुरित्यादि । अध्वर्युत्वेन ‘आवां’ ‘यज्ञस्य’ मुख्यौ इति । ‘द्विदेवत्यान्’ अभिलक्ष्यावयोः ‘ग्रहं’ पूर्वमेव समर्पयत इत्युक्ते देवास्तथैवान्वतिष्ठन् । द्विदेवत्यादिबहुवचनं प्रसिद्ध्यपेक्षया । अतः पश्चात् ‘दशमो’ गृह्यमाणो ऽपि द्विदेवत्यानां तृतीय एव सन् हूयते । अश्विनोरश्विनामप्राप्तिपशुपूर्वकं दर्शयति- अथेत्यादि । “अश्विनौ” इति ‘यत्’ नाम तत् कथमित्यर्थः । ‘इमे’ दृश्यमाने ‘द्यावापृथिवी’ द्यावापृथिव्यौ साक्षाद् ‘अश्विनौ’ देवौ- “वा छन्दसि” (पा. सू. ६ । १ । १०६) इति पूर्वसवर्णदीर्घः । द्यावापृथिव्यौ कृत्स्नं जगद् व्याप्नुतः अतस्तदात्मकयोरश्विनोरपि व्यापकत्वादश्वित्वम् । ‘पुष्करस्रजौ’ इति अश्वित्वमेव समर्थ्यते । अश्विनोः पुष्करस्रक्त्वं कस्मिश्चिन्मन्त्रे अम्नायते- “मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ”- इति (पा. गु. सू. १ । ३ । १९) ॥ १६ ॥
Eggeling
- They said, ‘Well, but we two, being the Adhvaryus, are the heads (leaders) of the sacrifice: transfer ye that graha of ours to this earlier time, to those belonging to two deities 11!’ Accordingly they transferred that graha for them to a former time, to those belonging to two deities: hence that graha is drawn in the tenth place, and is consecrated by Vashaṭ in the third place. And as to (the significance of) the Aśvins,–the Aśvins are manifestly 12 those two, heaven and earth 13, for it is those two
that have obtained possession of everything here;–’the lotus-crowned’ they (the Aśvins) are called: Agni, forsooth, is the lotus of this earth, and the sun that of yonder sky.
१७
विश्वास-प्रस्तुतिः
(ष्या ऽअ) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
या᳘ वां क᳘शा म᳘धुमत्य᳘श्विना सूनृ᳘तावती॥ त᳘या यज्ञं᳘ मिमिक्षतम्॥ उपयाम᳘गृहीतो ऽस्यश्वि᳘भ्यां त्वैष᳘ ते यो᳘निर्मा᳘ध्वीभ्यां त्वे᳘ति सादयति तं वै म᳘धुमत्य ऽर्चा᳘ गृह्णा᳘ति मा᳘ध्वीभ्यां त्वे᳘ति सादयति तद्यन्म᳘धुमत्यर्चा᳘ गृह्णा᳘ति मा᳘ध्वीभ्यां त्वे᳘ति साद᳘यति॥
मूलम् - श्रीधरादि
(ष्या ऽअ) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
या᳘ वां क᳘शा म᳘धुमत्य᳘श्विना सूनृ᳘तावती॥ त᳘या यज्ञं᳘ मिमिक्षतम्॥ उपयाम᳘गृहीतो ऽस्यश्वि᳘भ्यां त्वैष᳘ ते यो᳘निर्मा᳘ध्वीभ्यां त्वे᳘ति सादयति तं वै म᳘धुमत्य ऽर्चा᳘ गृह्णा᳘ति मा᳘ध्वीभ्यां त्वे᳘ति सादयति तद्यन्म᳘धुमत्यर्चा᳘ गृह्णा᳘ति मा᳘ध्वीभ्यां त्वे᳘ति साद᳘यति॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
या᳘ वां क᳘शा म᳘धुमत्य᳘श्विना सूनृ᳘तावती त᳘या यज्ञ᳘म् मिमिक्षतम् उपयाम᳘गृहीतो ऽस्यश्वि᳘भ्यां त्वैष᳘ ते यो᳘निर्मा᳘ध्वीभ्यां त्वे᳘ति सादयति तं वै म᳘धुमत्यर्चा᳘ गृह्णा᳘ति मा᳘ध्वीभ्यां त्वे᳘ति सादयति तद्यन्म᳘धुमत्यर्चा᳘ गृह्णा᳘ति मा᳘ध्वीभ्यां त्वे᳘ति साद᳘यति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव । “या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम् । उपयामगृहीतो ऽस्यश्विभ्यां त्वा । एष ते योनिर्माध्वीभ्यां त्वा”- (वा. सं. ७ । ११) इति सादयति । तं वै मधुमत्यर्चा गृह्णाति, माध्वीभ्यां त्वेति सादयति । तद् यन्मधुमत्यर्चा गृह्णाति, माध्वीभ्यां त्वेति सादयति ॥ १७ ॥
सायणः
समन्त्रकं ग्रहणं विधत्ते- अथात इत्यादि 14 । अत्र ‘अथात’ इत्यनेन बहिष्पवमानस्तोत्रानन्तर्यं द्योत्यते । ननु मैत्रावरुणग्रहस्यैन्द्रवायवानन्तरमेव पाठात् तद्ग्रहणवाक्ये- “अथात” इत्यनेन यथैन्द्रवायवानन्तर्यं द्योत्यते, तथात्रापि मैत्रावरुणानन्तरपाठात्तदानन्तर्यमेवाथशब्दो द्योतयतीति चेन्न; “स्तुते बहिष्पवमाने दशमो गृह्यते” इति श्रुत्या विहितत्वात् । एवं तर्हि यथा श्रुतिः क्रमबोधप्रमाणम्, तथा पाठो ऽपि । समिधो यजतीत्यादौ पाठस्य क्रमबोधप्रमाणत्वेनाङ्गीकारात् । तथा च सत्युभयोः प्रमाणयोः समबलत्वात् कदाचिन्मैत्रावरुणग्रहानन्तरं ग्रहणं कदाचिद्बहिष्पवमानानन्तरमिति ऐच्छिकक्रमो ऽस्त्विति चेत् नैवमपि शङ्क्यम् । पाठः साक्षात् क्रमस्य न विधायकः, किन्तु अन्यथानुपपत्त्या कल्पयति । श्रुतिस्तु साक्षादेव क्रममभिधत्ते, अतः प्रत्यक्षत्वेन प्राबल्यात् श्रुत्या पाठो बाधनीयः । तथा च सत्येवं “अथात” इत्यनेन बहिष्पवमानानन्तर्यं द्योत्यत इति- उक्तं तदुपपन्नं भवति । ग्रहणमन्त्रस्यायमर्थः 15- हे ‘अश्विना’ अश्विनौ ! युवयोः शोभना ‘ऋतावती’ मधुब्राह्मणवती च ‘या’ ‘कशा’ (निघं १ । ११ । ४३) वागस्ति ‘तया’ वाचा मिमिक्षतं ग्रहं सेक्तुमिच्छतम् “मिह सेचने”- (धा. पा. भ्वा. प. १०१७) हे सोमरस ! उपयामेन ‘गृहीतो ऽसि’ त्वाम् ‘अश्विभ्यां’ गृह्णामीति शेषः । विधत्ते- तद्यदित्यादि । ग्रहणसादने- एष त इत्यादि । हे सोमरस ! ‘माध्वीभ्यां’ मधुब्राह्मणमधीतवद्भ्यामश्विभ्यामित्यर्थः । माध्वीशब्द “ऋत्व्यवास्त्व्य-” (पा. सू. ६ । ४ । १७५) इति निपातितः । उक्तमर्थकारणमभिधित्सुरनुवदति- तं वा इत्यादि । अनूद्य कारणमाह- तद्यदित्यादि । ग्रहणसादनयोरनयोरुभयोः मधुशब्दप्रयोगस्यायमभिप्रायः ॥ १७ ॥
Eggeling
- Thus he takes (the Āśvina graha) from that (stream of Soma) 16, with (Vāj. S. VII, 11; Rig-veda I, 22, 3), ‘Mix ye the sacrifice, O Aśvins, with that goad of yours, rich in honey and joyfulness!–Thou art taken with a support 17! thee for the Aśvins!’ with ‘This is thy womb: thee for the honey-loving 18 (Aśvins)!’ he deposits it. Now as to why he takes (the graha) with a verse containing (the word) ‘honey (madhu),’ and deposits it with ’thee for the honey-loving!’
१८
विश्वास-प्रस्तुतिः
दध्य᳘ङ् ह वा᳘ ऽआभ्यामाथर्वणः[[!!]]॥
(णो) म᳘धु ना᳘म ब्रा᳘ह्मणमुवाच त᳘देनयोः प्रियं धा᳘म त᳘दे᳘वैनयोरेतेनो᳘पगच्छति[[!!]] त᳘स्मान्म᳘धुमत्यर्चा᳘ गृह्णा᳘ति मा᳘ध्वीभ्यां त्वे᳘ति सादयति॥
मूलम् - श्रीधरादि
दध्य᳘ङ् ह वा᳘ ऽआभ्यामाथर्वणः[[!!]]॥
(णो) म᳘धु ना᳘म ब्रा᳘ह्मणमुवाच त᳘देनयोः प्रियं धा᳘म त᳘दे᳘वैनयोरेतेनो᳘पगच्छति[[!!]] त᳘स्मान्म᳘धुमत्यर्चा᳘ गृह्णा᳘ति मा᳘ध्वीभ्यां त्वे᳘ति सादयति॥
मूलम् - Weber
दध्य᳘ङ् ह वा᳘ आभ्यामाथर्वणः᳟॥
म᳘धु ना᳘म ब्रा᳘ह्मणमुवाच त᳘देनयोः प्रियं धा᳘म त᳘देॗवैनयोरेते᳘नोप᳘गछात त᳘स्मान्म᳘धुमत्यर्चा᳘ गृह्णा᳘ति मा᳘ध्वीभ्यां त्वे᳘ति सादयति॥
मूलम् - विस्वरम्
दध्यङ् ह वा ऽआभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच । तदेनयोः प्रियं धाम, तदेवैनयोरेतेनोपगच्छति । तस्मान्मधुमत्यर्चा गृह्णाति, माध्वीभ्यां त्वेति सादयति ॥ १८ ॥
सायणः
अथर्वणः पुत्रो ‘दध्यङ्’ नाम ऋषिः ‘मधु’ ‘ब्राह्मणम्’ अनयोः उपदिदेश । “अन्”- (पा. सू. ६ । ४ । १६७) इति प्रकृतिभावात् “नस्तद्धिते” (पा. सू. ६ । ४ । १४४) इति टिलोपो न भवति । ‘तत्’ ब्राह्मणमनयोः ‘प्रियं’ स्थानम् । अतो ग्रहणसादनयोर्मधुशब्दप्रयोगेण तदेव ब्राह्मणं सम्पादितं भवतीति ॥ १८ ॥
Eggeling
- Dadhyañc, the Ātharvaṇa, imparted to them (the Aśvins) the brāhmaṇa called Madhu 19: that (Madhu) is their favourite resort, and with that (favourite resort) of theirs he now approaches them;–hence he takes (their graha) with a verse containing (the word) ‘honey,’ and deposits it with ’thee for the honey-loving!’
१९
विश्वास-प्रस्तुतिः
ता᳘नि वा᳘ ऽएता᳘नि॥
श्लक्ष्णा᳘नि पा᳘त्राणि भव᳘न्ति रास्नावमैन्द्रवायवपात्रं[[!!]] तत्त᳘स्य द्विती᳘यᳫँ᳭ रूपं ते᳘न त᳘द्द्विदेव᳘त्यमजकावं᳘ मैत्रावरुणपात्रं तत्त᳘स्य द्विती᳘यᳫँ᳭रूपं ते᳘न त᳘द्द्विदेव᳘त्यमौष्ठ᳘माश्विनपात्रं तत्त᳘स्य द्विती᳘यᳫँ᳭ रूपं ते᳘न त᳘द्द्विदेव᳘त्यम᳘थ य᳘दश्वि᳘नावि᳘ति मु᳘ख्यौ वा᳘ ऽअश्वि᳘नावौष्ठ᳘मिव वा᳘ ऽइदं मु᳘खं त᳘स्मादौष्ठ᳘माश्विनपात्रं᳘ भवति॥
मूलम् - श्रीधरादि
ता᳘नि वा᳘ ऽएता᳘नि॥
श्लक्ष्णा᳘नि पा᳘त्राणि भव᳘न्ति रास्नावमैन्द्रवायवपात्रं[[!!]] तत्त᳘स्य द्विती᳘यᳫँ᳭ रूपं ते᳘न त᳘द्द्विदेव᳘त्यमजकावं᳘ मैत्रावरुणपात्रं तत्त᳘स्य द्विती᳘यᳫँ᳭रूपं ते᳘न त᳘द्द्विदेव᳘त्यमौष्ठ᳘माश्विनपात्रं तत्त᳘स्य द्विती᳘यᳫँ᳭ रूपं ते᳘न त᳘द्द्विदेव᳘त्यम᳘थ य᳘दश्वि᳘नावि᳘ति मु᳘ख्यौ वा᳘ ऽअश्वि᳘नावौष्ठ᳘मिव वा᳘ ऽइदं मु᳘खं त᳘स्मादौष्ठ᳘माश्विनपात्रं᳘ भवति॥
मूलम् - Weber
ता᳘नि वा᳘ एता᳘नि॥
श्लक्ष्णा᳘नि पा᳘त्राणि भवन्ति रा᳘स्नाव᳘मैन्द्रवायवपात्रं तत्त᳘स्य द्विती᳘यं रूपं ते᳘न त᳘द्द्विदेव᳘त्यमजकाव᳘म् मैत्रावरुणपात्रं तत्त᳘स्य द्विती᳘यं रूपं ते᳘न त᳘द्द्विदेव᳘त्यमौष्ठ᳘माश्विनपात्रं तत्त᳘स्य द्विती᳘यं रूपं ते᳘न त᳘द्द्विदेव᳘त्यम᳘थ य᳘दश्वि᳘नावि᳘ति मु᳘ख्यौ वा᳘ अश्वि᳘नावौष्ठ᳘मिव वा᳘ इदम् मु᳘खं त᳘स्मादौष्ठ᳘माश्विनपात्र᳘म् भवति॥
मूलम् - विस्वरम्
तानि वा ऽएतानि श्लक्ष्णानि पात्राणि भवन्ति । रास्नावमैन्द्रवायवपात्रम् । तत् तस्य द्वितीयं रूपम् । तेन तद्द्विदेवत्यम् । अजकावं मैत्रावरुणपात्रम् । तत् तस्य द्वितीयं रूपम् । तेन तद्द्विदेवत्यम् । अथ यदश्विनाविति । मुख्यौ वा ऽअश्विनौ । औष्ठमिव वा इदं मुखम्, तस्मादौष्ठमाश्विनपात्रं भवति ॥ १९ ॥
सायणः
तद्द्विदेवत्यपात्राणां लक्षणान्याह- तानि वा इत्यादिना । ‘श्लक्ष्णानि’ स्निग्धानि एकरूपाणीत्यर्थः । ऐकरूप्ये द्विदेवत्यत्वात्तत्सिद्धेस्तदनुसारेण द्वैरूप्यसिद्धये ऐन्द्रवायवपात्रं ‘रास्नावम्’ रास्ना रशना, परितः स्रगित्यर्थः । तद्युक्तं कर्त्तव्यम् । मत्वर्थीयो वकारः- (पा. सू. ५ । २ । १०९ वा. १) । एवमुत्तरत्रापि द्विदेवत्यत्वसिद्धये उक्तलक्षणेन द्वैरूप्यं कार्यम् । अजकाशब्देन अजागलस्तनो विवक्ष्यते । तद्युक्तम् ‘अजकावम्’ । ‘औष्ठं’ ओष्ठाकारसहितम् । अश्विनोर्मुखत्वात् मुखसम्बन्ध्योष्ठाकारसहितत्वं तत्पात्रस्य युज्यत इत्यर्थः ॥ १९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे प्रथमाध्याये पञ्चमं ब्राह्मणम् ॥ (४-१-५) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ १ ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ २ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे प्रथमो ऽध्यायः समाप्तः ॥ ४-१ ॥
Eggeling
- Now those vessels (other than those of the three dvidevatya grahas) are smooth 20. The vessel of the graha for Indra and Vāyu has a (wooden)
‘belt’ round it: this is its second (peculiarity of) shape, and therefore it belongs to two deities. The vessel of the graha for Mitra and Varuṇa is goat-like 21: this is its second shape, and therefore it belongs to two deities. The vessel of the graha for the Aśvins is lip-shaped: this is its second shape, and therefore it belongs to two deities. And the reason why (this belongs to) the Aśvins is that the Aśvins are the heads (mukhya, viz. of the sacrifice), and this head (mukha 22) is supplied with lips: hence the vessel of the Aśvina graha is lip-shaped.
-
272:3 The Aśvina graha is not actually taken at this time, but later on, after the oblation of drops and the chanting of the Bahishpavamāna stotra; see IV, 2, 5, 12. The reasons for inserting it here are given in parag. 15-16. ↩︎
-
272:4 Lit. ‘he drinks it while turning it all round,’ in accordance with the regular Sanskrit idiom. The Āśvina cup has three mouths, from which the Soma is drunk by turns. See Haug, Transl. Ait. Br. p. 132. ↩︎
-
272:5 On this legend, and its probable connection with that of Medea’s cauldron, and the Germanic ‘quecprunno’ (Jungbrunnen, well of renovation), see A. Kuhn, ‘Herabkunft des Feuers and des Göttertranks,’ p. 11. For other translations, see Weber, Ind. Streifen, i. p. 13 seq.; Muir, O. S. T. v. p. 250 seq.; Delbrück ii. p. 121. For another version, apparently more modern, of the same legend, found in the Jaiminīya (Talavakāra) Brāhmaṇa, see Professor Whitney, Proceedings Amer. Or. Soc. 1883, p. ix. ↩︎
-
273:1 That is, youths of his clan. ↩︎
-
273:2 Śaryāta then bethought him, ‘From something I have done, thence (has come) so great a calamity.’ It then occurred to him, ‘Surely, Cyavana, the Bhārgava, or Āṅgirasa, was left behind here, decrepit: him I (must) have somehow offended sorely, thence so great a calamity.’ He called his tribe together. Having called the tribe together, he said, ‘Who, be he cowherd or shepherd, has noticed anything here?’ They said, ‘Yonder in the wood lies a decrepit, ghostlike man; him the boys have this day pelted with clods: that is the only thing we have descried (? tad evādarishma),’ &c. Kāṇva text. ↩︎
-
274:1 That is, ’the fair maiden.’ ↩︎
-
274:2 That is, ‘he broke up his camp and departed with his tribe’ (so ’payuyuje grāmaḥ, Kāṇva recension). ↩︎
-
275:1 Or, according to the Petersburg Dictionary, ‘Throw him into yonder pool.’ In the Kāṇva text no mention is made of a pool (hrada), but merely of water to which the R̥shi is taken by his wife. I subjoin Professor Whitney’s translation of the corresponding passage of the Jaiminīya Br. version: They (the Aśvins) said to him: “Sage, make us sharers in the Soma, Sir.” “Very well,” said he; “do you now make me young again.” They drew him away to the śaiśava of the Sarasvatī. He said: “Girl, we shall all come out looking alike; do you then know me by this sign.” They all came out looking just alike, with that form which is the most beautiful of forms. She, recognising him . . . . “This is my husband.” They said to him: “Sage, we have performed for you that desire which has been your desire; you have become young again; now instruct us in such wise that we may be sharers in the Soma,”. . . . ↩︎
-
276:1 Certain verses which are ’to be chanted by day.’ According to Benfey (Ind. Stud. III, p. 228) also called mahādivākīrtya, and consisting of eleven verses (not in Sāma-veda), the first of which is called ‘śiras (head),’ the second ‘grīvāḥ (neck),’ &c. The term is also applied to Sāma-veda II, 803-5 (Rig-veda X, 170,1-3) in the Uhyagāna II, 12. The reference in the text seems to be to Śat. Br. XIV, 1, 1, 8 seq. See, however, Weber, Ind. Streifen, I, p. 15, note 4. The Kāṇva MSS. read ‘divākīrteshu.’ ↩︎
-
276:2 One might expect the dual ‘dvidevatyau,’ as, besides the Āśvina graha, there are only two dvidevatya (belonging to two gods) grahas, viz. the Aindra-vāyava and Maitrā-varuṇa. See p. 266, note 3. ↩︎
-
276:3 Or, in their visible form (pratyaksham). ↩︎
-
276:4 See Muir, O. S. T. v, p. 234. The identification of the Aśvins with heaven and earth may have been suggested by Rig-veda VI, 70, 5, where heaven and earth are called upon to mix the sweet drink, just as is the case with the Aśvins in the verse with which their libation is taken. ↩︎
-
आश्विनं गृह्णात्यन्वारब्धे वा या वामिति । का. श्रौ. सू. ९ । १६५ । ↩︎
-
महीधरेण तु- ‘मधुमती’ मधु ब्रह्म तद्वती, मधुब्राह्मणोपनिषत्प्रशंसायुता तथा ‘सूनृतावती’ प्रियं सत्यं वचः सूनृतं तद्वती, सत्यप्रियवचनोपेतेत्युक्तम् । ↩︎
-
277:1 See p. 256, note 1. ↩︎
-
277:2 See IV, 1, 2, 6, and note. ↩︎
-
277:3 The real meaning of this epithet (mādhvī) is uncertain. ↩︎
-
277:4 ? ‘The mystery called Madhu (sweet drink, Soma).’ See part i, Introd. p. xxxiv; Weber, Ind. Stud. I, p. 2 ↩︎
-
277:5 It might also mean, that those (three dvidevatya) vessels are smooth, straight, save the peculiarities noticed above. The Kāṇva text, however, reads, tacchlakshnāṇy anyāni pātrāṇi bhavanti. ↩︎
-
278:1 Or rather, according to the commentary on Kāty. IX, 2, 6, it resembles the breast of the goat (ajakā). ↩︎
-
278:2 Lit. ‘mouth.’ ↩︎