०१
विश्वास-प्रस्तुतिः
क्र᳘तूद᳘क्षौ ह वा᳘ ऽअस्य मित्राव᳘रुणौ॥
(णावे) एत᳘न्न्वध्यात्मᳫँ᳭[[!!]] स य᳘देव म᳘नसा काम᳘यत ऽइदं᳘ मे स्यादिदं᳘ कुर्व्वीये᳘ति स᳘ एव क्र᳘तुर᳘थ य᳘दस्मै त᳘त्समृध्य᳘ते स द᳘क्षो मित्र᳘ एव क्र᳘तुर्व्व᳘रुणो द᳘क्षो ब्र᳘ह्मैव᳘ मित्रः᳘ क्षत्त्रं व्वरुणो ऽभिग᳘न्तैव[[!!]] ब्र᳘ह्म कर्ता᳘ क्षत्त्रि᳘यः॥
मूलम् - श्रीधरादि
क्र᳘तूद᳘क्षौ ह वा᳘ ऽअस्य मित्राव᳘रुणौ॥
(णावे) एत᳘न्न्वध्यात्मᳫँ᳭[[!!]] स य᳘देव म᳘नसा काम᳘यत ऽइदं᳘ मे स्यादिदं᳘ कुर्व्वीये᳘ति स᳘ एव क्र᳘तुर᳘थ य᳘दस्मै त᳘त्समृध्य᳘ते स द᳘क्षो मित्र᳘ एव क्र᳘तुर्व्व᳘रुणो द᳘क्षो ब्र᳘ह्मैव᳘ मित्रः᳘ क्षत्त्रं व्वरुणो ऽभिग᳘न्तैव[[!!]] ब्र᳘ह्म कर्ता᳘ क्षत्त्रि᳘यः॥
मूलम् - Weber
क्र᳘तूद᳘क्षौ ह वा᳘ अस्य मित्राव᳘रुणौ॥
एतन्न्व᳘ध्यात्मᳫं स य᳘देव म᳘नसा काम᳘यत इद᳘म् मे स्यादिदं᳘ कुर्वीये᳘ति स᳘ एव क्र᳘तुर᳘थ य᳘दस्मै त᳘त्समृध्य᳘ते स द᳘क्षो मित्र᳘ एव क्र᳘तुर्व᳘रुणो द᳘क्षो ब्र᳘ह्मैव᳘ मित्रः᳘ क्षत्रं व᳘रुणो ऽभिगॗन्तैव 1 ब्र᳘ह्म कर्ता᳘ क्षत्रि᳘यः॥
मूलम् - विस्वरम्
मैत्रावरुणग्रहः ।
क्रतूदक्षौ ह वा ऽअस्य मित्रावरुणौ । एतन्न्वध्यात्मम् । स यदेव मनसा कामयते- इदंमे स्यात्, इदं कुर्वीयेति । स एव क्रतुः । अथ यदस्मै तत्समृध्यते- स दक्षः । मित्र एव क्रतुः । वरुणो दक्षः । ब्रह्मैव मित्रः । क्षत्रं वरुणः । अभिगन्तैव ब्रह्म । कर्ता क्षत्रियः ॥ १ ॥
सायणः
विधास्यमानस्य ग्रहस्य देवतां प्रशंसन् तस्यैन्द्रवायवानन्तर्ये कारणं चाह- क्रतुदक्षावित्यादि । मित्रश्च वरुणश्चेति ‘मित्रावरुणौ’- “देवताद्वन्द्वे च” (पा. सू. ७ । ३ । २१) इति पूर्वपदस्यानङादेशः । तौ ‘अस्य’ यज्ञस्य समस्तस्य लोकस्य वा ‘क्रतुदक्षौ ह वै’ क्रतुदक्षशब्दयोरर्थो विवरिष्यते, तस्मात्प्रशस्तावित्यर्थः । ‘ह वा’ इत्येतौ निपातौ शाखान्तरगतां प्रसिद्धिं द्योतयतः । तथा च तैत्तिरीयकम्- ”दक्षक्रतुभ्यां मैत्रावरुणम्” (तै. शा. १ । ५ । ४) इति । ऐन्द्रवायवग्रहस्तु वागात्मक इति पूर्वं प्रतिपादितम् “वाग्घ वा अस्यैन्द्रवायवः” (श. प. ४ । १ । ३ । १) इति । वाक् पुनर्मनो ऽधीना, “मनसा हि वाग्धृता” (तै. सं. ६ । १ । ७) इत्यादि श्रुतेः । संकल्पोत्साहौ च मनो ऽधीनौ । ततो वागात्मकैन्द्रवायवानन्तर्यं दक्षक्रत्वात्मकमित्रावरुणदेवत्यस्य ग्रहस्य युक्तमिति भावः । अत एवानेन क्रमेण तैत्तिरीयके श्रूयते- “वायव ऐन्द्रवायवं दक्षक्रतुभ्यां मैत्रावरुणम्” (तै. शा. १ । ५ । ४) इति । द्विविधौ हि मित्रावरुणौ, आध्यात्मिकावाधिभौतिकौ चेति । तत्रोक्तावाध्यात्मिकावित्याह- एतन्न्वध्यात्ममिति । ‘अध्यात्मम्’ आत्मनि । विभक्त्यर्थे ऽव्ययीभावः (पा. सू. २ । १ । ६) । “अनश्च” (पा. सू. ५ । ४ । १०८) इति टच् समासान्तः । तत्रात्मनि विद्यमानयोर्मित्रावरुणयोः रूपम् ‘एतत्’ उक्तप्रकारमित्यर्थः । क्रतुदक्षशब्दयोरर्थं विवृणोति- स यदेवेत्यादि । ‘सः’ लोकः ‘इदं’ पुरोवर्ति ‘मे’ ‘स्यात्’ भवेत् । ‘इदं कुर्वीयेति’ मनसा ऽभिलषतीति यत् ‘सः’ ‘क्रतुः’ संकल्प इत्यर्थः । तत् सकल्पितं ‘अस्मै’ लोकाय येन ‘समृद्ध्यते’ ‘सः’ ‘दक्षः’ । “दक्ष वृद्धौ” (धा. पा. भ्वा. आ. ६०९) क्रतुदक्षाविति क्रमो विवक्षित इत्याह- मित्र एवेत्यादि । मित्रावरुणयोराधिभौतिकरूपं सोपपत्तिकमाह- ब्रह्मैवेत्यादिना । ‘ब्रह्म’ इति ब्राह्मणजातिः, सैव ‘मित्रो’ देवः । क्षत्रियजातिरेव, ‘वरुणो’ देवः । ‘अभिगन्ता’ अभिगमनशीलः ज्ञानशक्तियुक्त इत्यर्थः । ‘कर्त्ता’ क्रियाशक्तियुक्तः । उभयत्रापि ताच्छील्ये तृन् प्रत्ययः (पा. सू. ३ । २ । १३५) । यतो मित्रावरुणौ क्रतुदक्षशब्दाभिधेयज्ञानक्रियाशक्तिरूपौ, ब्रह्मक्षत्रे च ज्ञानक्रियाशक्तिमती, अत आधिभौतिकमित्रावरुणरूपत्वमनयोर्युज्यत इत्यर्थः 2 ॥ १ ॥
Eggeling
- Mitra and Varuṇa, forsooth, are his intelligence and will; and as such belonging to his self: whenever he desires anything in his mind, as ‘Would that this were mine! I might do this!’ that is intelligence; and whenever that is accomplished, that is will 3. Now intelligence indeed is Mitra, and will is
Varuṇa; and Mitra is the priesthood, and Varuṇa the nobility; and the priesthood is the conceiver, and the noble is the doer.
०२
विश्वास-प्रस्तुतिः
(स्ते᳘) ते᳘ हैते ऽअ᳘ग्रे ना᳘नेवासतुः॥
(र्ब्र᳘) ब्र᳘ह्म च क्षत्त्रं᳘ च त᳘तः शशा᳘कैव ब्र᳘ह्म मित्र᳘ ऋते᳘ क्षत्त्राद्व᳘रुणात्स्था᳘तुम्॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘ हैते ऽअ᳘ग्रे ना᳘नेवासतुः॥
(र्ब्र᳘) ब्र᳘ह्म च क्षत्त्रं᳘ च त᳘तः शशा᳘कैव ब्र᳘ह्म मित्र᳘ ऋते᳘ क्षत्त्राद्व᳘रुणात्स्था᳘तुम्॥
मूलम् - Weber
ते᳘ हैते अ᳘ग्रे ना᳘नेवासतुः॥
ब्र᳘ह्म च क्षत्रं᳘ च त᳘तः श शा᳘कैव ब्र᳘ह्म मित्र᳘ ऋते᳘ क्षत्राद्व᳘रुणात्स्था᳘तुम्॥
मूलम् - विस्वरम्
ते हैते ऽअग्रे नानेवासतुः- ब्रह्म च क्षत्रं च । ततः शशाकैव ब्रह्म मित्र ऋते क्षत्राद्वरुणात्स्थातुम् ॥ २ ॥
सायणः
ब्रह्मक्षत्रयोरुक्तमेवाधिभौतिकत्वमाख्यायिकया दृढीकुर्वन् ग्रहस्य द्विदेवत्यत्वमाह- ते हैत इत्यादिना । ‘अग्रे’ पूर्वं ‘ते एते’ ब्रह्म च क्षत्रं च विभिन्ने अभूताम् । ततो विभेदानन्तरं मित्रात्मकं ‘ब्रह्म’ वरुणात्मकेन क्षत्रेण विनापि स्वतं एव स्थातुं शक्तमभूत् । तथा वरुणात्मकं क्षत्रं मित्रात्मकेन ब्रह्मणा विना स्वत एव स्थातुं न शक्तमभूत् । ततो वरुणरूपं क्षत्रं ‘यत् किं च’ ‘कर्म’ ‘चक्रे’ तत् सर्वं ‘मित्रेण’ ‘ब्रह्मणा’ अप्रसूतम् । अननुज्ञातमनुपदिष्टमित्यर्थः । तथाविधमेवाकरोत् । ततः ‘तत्’ कृतं कर्म्म ‘अस्मै’ क्षत्राय न समृद्धमभूत् यस्मात् स्वत एव कृतं कर्म न समृद्धम् अतः स्थातुं न शक्तमभूत् । ततो वरुणरूपं क्षत्रं यत् किंचित् कर्म चक्रे तत् सर्वं मित्रेण ब्रह्मणा अप्रसूतमननुज्ञातं शशाकेति पूर्वेण सम्बन्धः । ‘आनृध’ इति “ऋधु वृद्धौ”- (धा. पा. स्वा. प. २५) इत्यस्माल्लिटि (पा. सू. ३ । २ । १५) द्विर्वचने (पा. सू. १ । १ । ६९) उरत्वादिकार्ये (पा. सू. ७ । ४ । ६६) “अत आदेः”- (पा. सू. ७ । ४ । ७०) इति दीर्घे च- “तस्मान्नुड्द्विहलः” (पा. सू. ७ । ४ । ७१) इति नुडागमः । ननु ऋधेरेकहल्त्वाद्द्विहल इति कथं नुडागमो विधीयते- उच्यते- नुड्विधिहलादेशविनामेष्वृकारप्रतिविधानं कर्त्तव्यमिति ऋकारस्थस्यापि रेफस्य हल्त्वेनाङ्गीकारात् तन्निबन्धनं कार्यं भविष्यति ॥ २ ॥ ३ ॥
Eggeling
- Now in the beginning these two, the priesthood and the nobility, were separate: then Mitra, the priesthood, could stand without Varuṇa, the nobility.
०३
विश्वास-प्रस्तुतिः
न᳘ क्षत्रं व्व᳘रुणः॥
(ऽ) ऋते ब्र᳘ह्मणो मित्राद्य᳘द्ध किं᳘ च व्व᳘रुणः क᳘र्म चक्रे᳘ ऽप्रसूतं ब्र᳘ह्मणा मित्रे᳘ण न᳘ है᳘वास्मै तत्स᳘मानृधे॥
मूलम् - श्रीधरादि
न᳘ क्षत्रं व्व᳘रुणः॥
(ऽ) ऋते ब्र᳘ह्मणो मित्राद्य᳘द्ध किं᳘ च व्व᳘रुणः क᳘र्म चक्रे᳘ ऽप्रसूतं ब्र᳘ह्मणा मित्रे᳘ण न᳘ है᳘वास्मै तत्स᳘मानृधे॥
मूलम् - Weber
न᳘ क्षत्रं व᳘रुणः॥
ऋते ब्र᳘ह्मणो मित्राद्य᳘द्ध किं᳘ च व᳘रुणः क᳘र्म चक्रे᳘ ऽप्रसूतम् ब्र᳘ह्मणा मित्रे᳘ण नॗ हैॗवास्मै तत्स᳘मानृधे॥
मूलम् - विस्वरम्
न क्षत्रं वरुण ऋते ब्रह्मणो मित्रात् । यद्ध किञ्च वरुणः कर्म चक्रे- अप्रसूतं ब्रह्मणा मित्रेण- न है- वास्मै तत्समानृधे ॥ ३॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- Not Varuṇa, the nobility, without Mitra, the priesthood: whatever deed Varuṇa did unsped by Mitra, the priesthood, therein, forsooth, he succeeded not.
०४
विश्वास-प्रस्तुतिः
स᳘ क्षत्रं व्व᳘रुणः॥
(णो) ब्र᳘ह्म मित्र᳘मुपमन्त्रयां᳘चक्र ऽउ᳘प मा᳘ ऽऽवर्तस्व स᳘ᳫं᳘सृजावहै पुर᳘स्त्वा[[!!]] करवै त्व᳘त्प्रसूतः क᳘र्म करवा ऽइ᳘ति तथे᳘ति तौ स᳘मसृजेतां त᳘त एष᳘ मैत्रावरुणो ग्र᳘हो ऽभव᳘त्॥
मूलम् - श्रीधरादि
स᳘ क्षत्रं व्व᳘रुणः॥
(णो) ब्र᳘ह्म मित्र᳘मुपमन्त्रयां᳘चक्र ऽउ᳘प मा᳘ ऽऽवर्तस्व स᳘ᳫं᳘सृजावहै पुर᳘स्त्वा[[!!]] करवै त्व᳘त्प्रसूतः क᳘र्म करवा ऽइ᳘ति तथे᳘ति तौ स᳘मसृजेतां त᳘त एष᳘ मैत्रावरुणो ग्र᳘हो ऽभव᳘त्॥
मूलम् - Weber
स᳘ क्षत्रं व᳘रुणः॥
ब्र᳘ह्म मित्र᳘मुपमन्त्रयां᳘ चक्र उ᳘प मा᳘वर्तस्व स᳘ᳫं᳘सृजावहै पु᳘रस्त्वा करवै त्व᳘त्प्रसूतः क᳘र्म करवा इ᳘ति तथे᳘ति तौ स᳘मसृजेतां त᳘त एष᳘ मैत्रावरुणो ग्र᳘हो ऽभवत्॥
मूलम् - विस्वरम्
स क्षत्रं वरुणो ब्रह्म मित्रमुपमन्त्रयाञ्चक्रे- उप मा ऽऽवर्तस्व, संसृजावहै, पुरस्त्वा करवै, त्वत्प्रसूतः कर्म करवा ऽइति । तथेति तौ समसृजेताम् । तत एष मैत्रावरुणो ग्रहो ऽभवत् ॥ ४ ॥
सायणः
ततस्तद्वरुणात्मकं ‘क्षत्रम्’ अशक्तं सत् मित्रात्मकं ब्रह्मा ऽऽमन्त्रयांचक्रे । हे ब्रह्मन् ! त्वं मामनुवर्त्तस्व, आवां संसृष्टौ भवाव ‘संसृजावहै’ इति व्यत्ययेनात्मनेपदम् (पा. सू. ३ । १ । ८५) । त्वां ‘पुरः’ करिष्यामि त्वयोपदिष्टमेव कर्म करिष्यामीति । तथा ऽस्त्विति ब्रह्मण्यङ्गीकुर्वति सति ‘तौ’ ब्रह्मक्षत्रात्मकौ मित्रावरुणौ संसृष्टावभूताम् । ततः संसर्गाद्धेतोरयं ‘ग्रहो’ मित्रावरुणार्थं द्विदेवत्यो ऽभवत् ॥ ४ ॥
Eggeling
- Varuṇa, the nobility, then called upon Mitra, the priesthood, saying, ‘Turn thou unto me that we may unite: I will place thee foremost, sped by thee, I will do deeds!’–‘So be it!’ So the two united; and therefrom resulted that graha to Mitra and Varuṇa.
०५
विश्वास-प्रस्तुतिः
(त्सो) सो एव᳘ पुरोधा[[!!]]॥
त᳘स्मान्न᳘ ब्राह्मणः स᳘र्व्वस्येव᳘ क्षत्त्रि᳘यस्य पुरोधां᳘ कामयेत[[!!]] स᳘ᳫं᳘ह्ये᳘वैतौ᳘ सृजे᳘ते सुकृतं᳘ च दुष्कृतं᳘ च᳘ नो ऽएव᳘ क्षत्रि᳘यः स᳘र्व्वमिव᳘ ब्राह्मणं᳘ पुरो᳘दधीत[[!!]] स᳘ᳫं᳘ह्ये᳘वैतौ᳘ सृजे᳘ते सुकृतं᳘ च दुष्कृतं᳘ च स[[!!]] यत्त᳘तो व्व᳘रुणः क᳘र्म चक्रे प्रसूतं[[!!]] ब्र᳘ह्मणा मित्रे᳘ण[[!!]] स᳘ᳫं᳘ है᳘वास्मै त᳘दानृधे॥
मूलम् - श्रीधरादि
(त्सो) सो एव᳘ पुरोधा[[!!]]॥
त᳘स्मान्न᳘ ब्राह्मणः स᳘र्व्वस्येव᳘ क्षत्त्रि᳘यस्य पुरोधां᳘ कामयेत[[!!]] स᳘ᳫं᳘ह्ये᳘वैतौ᳘ सृजे᳘ते सुकृतं᳘ च दुष्कृतं᳘ च᳘ नो ऽएव᳘ क्षत्रि᳘यः स᳘र्व्वमिव᳘ ब्राह्मणं᳘ पुरो᳘दधीत[[!!]] स᳘ᳫं᳘ह्ये᳘वैतौ᳘ सृजे᳘ते सुकृतं᳘ च दुष्कृतं᳘ च स[[!!]] यत्त᳘तो व्व᳘रुणः क᳘र्म चक्रे प्रसूतं[[!!]] ब्र᳘ह्मणा मित्रे᳘ण[[!!]] स᳘ᳫं᳘ है᳘वास्मै त᳘दानृधे॥
मूलम् - Weber
सो एव᳘ पुरोधा᳟॥
त᳘स्मान्न᳘ ब्राह्मणः स᳘र्वस्येव क्षत्रि᳘यस्य पुरोधां᳘ कामयेतॗ सᳫं ह्येतौ᳘ सृजे᳘ते सुकृतं᳘ च दुष्कृतं᳘ चॗ नो एव᳘ क्षत्रि᳘यः स᳘र्वमिव ब्राह्मण᳘म् पुरो᳘दधीतॗ सᳫं ह्येॗवैतौ᳘ सृजे᳘ते कुकृतं᳘ च दुष्कृतं᳘ च स᳘ यत्त᳘तो व᳘रुणः क᳘र्म चक्रे प्र᳘सूतम् ब्र᳘ह्मणा मित्रे᳘णॗ सᳫं हैवास्मै त᳘दानृधे॥
मूलम् - विस्वरम्
सो ऽएव पुरोधा । तस्मान्न ब्राह्मणः सर्वस्येव क्षत्रियस्य पुरोधां कामयेत । संह्येतौ सृजेते- सुकृतं च दुष्कृतं च । नो ऽएव क्षत्रियः सर्वमिव ब्राह्मणं पुरोदधीत । सं । ह्येवैतौ सृजेते- सुकृतं च दुष्कृतं च । स यत्ततो वरुणः कर्म चक्रे प्रसूतं ब्रह्मणा मित्रेण- सं हैवास्मै तदानृधे ॥ ५ ॥
सायणः
ततो वरुणेन संसृष्टत्वाद्ब्राह्मणजात्यात्मको मित्रं च क्षत्रियजात्यात्मकस्य वरुणस्य पुरोहितो ऽभूत् । अत्र ब्रह्मक्षत्त्रयोर्विभागे क्षत्त्रस्य सामर्थ्याभावमुपन्यस्य पुनस्तदुपगमाय तयोः संसर्गे ऽभिहितः । उत्साहश्च संकल्पाभावे न शक्नोति क्रियां निष्पादयितुम् । अतो ऽनयोस्तत्सादृश्यलाभात्तदात्मकमित्रावरुणयोराधिभौतिकरूपत्वमुपपद्यत इति भावः । यतो ऽत्र मित्रो ऽनुरूपः पुरोहितो ऽभूत् वरुणश्चानुरूपो राजा; अतो लोके ऽपि पुरोहितेन राज्ञा चानुरूपाभ्यामेव भवितव्यमिति दर्शयति- तस्मान्न ब्राह्मण इत्यादिना । यस्मादनुरूपावेतौ ब्राह्मणक्षत्रियौ ‘सुकृतं दुष्कृतं’ च ‘संसृजेते’ संसर्जयतः । सृजिरन्तर्भावितण्यर्थः । तस्माद्ब्राह्मणः अविशेषेण ‘सर्वस्य’ ‘क्षत्रियस्य’ ‘पुरोधां’ पुरोहितत्वं ‘न कामयेत’ किं तु स्वानुरूपं सुकृतिनमेव क्षत्त्रियं कामयेतेत्यर्थः । ‘पुरोधाम्’ इति दधातेः सम्पदादिलक्षणो भावे क्विप् । ‘क्षत्त्रियः’ अपि एवमनुरूपमेव ब्राह्मणं ‘पुरोदधीत’ पुरोहितं कुर्यात् । प्रकृते अनुरूपपुरोहितस्य मित्रस्य संसर्गेण प्राप्तं फलमाह- स यदित्यादि । ‘ततः’ संसर्गानन्तरं ‘सः’ ‘वरुणो’ ‘यत्’ ‘कर्म चक्रे’ तत् ‘मित्रेण’ ब्रह्मणोपदिष्टमिति ‘अस्मै’ तत् वरुणाय समृद्धमभूत् ॥ ५ ॥
Eggeling
- Such, then, is the office of Purohita (placed foremost, domestic priest). Wherefore let not a Brāhman desire to become the Purohita of any one Kshatriya (he may meet with), as thereby righteousness and unrighteousness unite; nor should a Kshatriya make any Brāhman (he may meet with) his Purohita, as thereby righteousness and unrighteousness unite.–Whatever deed, sped by Mitra, the priesthood, Varuṇa thenceforward did, in that he succeeded.
०६
विश्वास-प्रस्तुतिः
तत्तद᳘वकॢप्तमेव[[!!]]॥
य᳘द्ब्राह्म᳘णो ऽराजन्यः स्याद्यद्यु[[!!]] रा᳘जानं ल᳘भेत स᳘मृद्धं त᳘देत᳘द्ध᳘ त्वेवा᳘नवकॢप्तं य᳘त्क्षत्रि᳘यो ब्राह्मणो भ᳘वति य᳘द्ध किं᳘ च क᳘र्म कुरुते᳘ ऽप्रसूतं ब्र᳘ह्मणा मित्रे᳘ण न᳘ है᳘वास्मै तत्स᳘मृध्यते त᳘स्मादु क्षत्रि᳘येण क᳘र्म करिष्य᳘माणेनोपसर्त᳘व्य एव᳘ ब्राह्मणः स᳘ᳫं᳘है᳘वास्मै तद्ब्र᳘ह्मप्रसूतं क᳘र्म ऽर्ध्यते॥
मूलम् - श्रीधरादि
तत्तद᳘वकॢप्तमेव[[!!]]॥
य᳘द्ब्राह्म᳘णो ऽराजन्यः स्याद्यद्यु[[!!]] रा᳘जानं ल᳘भेत स᳘मृद्धं त᳘देत᳘द्ध᳘ त्वेवा᳘नवकॢप्तं य᳘त्क्षत्रि᳘यो ब्राह्मणो भ᳘वति य᳘द्ध किं᳘ च क᳘र्म कुरुते᳘ ऽप्रसूतं ब्र᳘ह्मणा मित्रे᳘ण न᳘ है᳘वास्मै तत्स᳘मृध्यते त᳘स्मादु क्षत्रि᳘येण क᳘र्म करिष्य᳘माणेनोपसर्त᳘व्य एव᳘ ब्राह्मणः स᳘ᳫं᳘है᳘वास्मै तद्ब्र᳘ह्मप्रसूतं क᳘र्म ऽर्ध्यते॥
मूलम् - Weber
तत्तद᳘वकॢप्तमेव᳟॥
य᳘द्ब्राह्मॗणो ऽराजन्यः स्याद्य᳘द्यु रा᳘जानं ल᳘भेत स᳘मृद्धं त᳘देत᳘द्धॗ त्वेवा᳘नवकॢप्तं य᳘त्क्षत्रि᳘यो ऽब्राह्मणो भ᳘वति य᳘द्ध किं᳘ च क᳘र्म कुरुते᳘ प्रसूतम् ब्र᳘ह्मणा मित्रे᳘ण न᳘ हैॗवास्मै तत्स᳘मृध्यते त᳘स्मादु क्षत्रि᳘येण क᳘र्म करिष्य᳘माणेनोपसर्त᳘व्य एव᳘ ब्राह्मणः स᳘ᳫं᳘ हैॗवास्मै तद्ब्र᳘ह्मप्रसूतं क᳘र्मर्ध्यते॥
मूलम् - विस्वरम्
तत् तदवक्लृप्तमेव- यद् ब्राह्मणो राजन्यः स्यात् । यद्यु राजानं लभेत- समृद्धं तत् । एतद्ध त्वेवानवक्लृप्तम्- यत् क्षत्रियो ब्राह्मणो भवति । यद्ध किं च कर्म कुरुते- प्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समृध्यते । तस्मादु क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः । सं हैवास्मै तत् ब्रह्मप्रसूतं कर्म ऽर्ध्यते ॥ ६ ॥
सायणः
ब्राह्मणस्य स्वाभाविकज्ञानशक्तिसम्भवात् क्षत्रियस्य तदभावात् क्षत्रियेण ब्राह्मणो ऽनुसरणीय इत्याह- तत्तदवक्लृप्तमित्यादि । यस्माद्ब्राह्मणस्य स्वाभाविकज्ञानशक्तिमत्तया अन्यत उपदेशापेक्षा नास्ति तस्माद्ब्राह्मणो यदि राजन्यो भवेत् । अथवा पुरोहितो भूत्वा राजानं लभेतेति यत् ‘तदवक्लृप्तं’ युक्तम् । तेन कृतं तत् कर्म समृद्धं भवेदिति । “क्षत्रियो ब्राह्मणो भवति” इत्येतदुक्तम् । ब्राह्मणः सन् ‘यत्’ ‘किंच’ किञ्चित् ‘कर्म कुरुते’ तन्मित्रात्मकेन ब्रह्मणा नोपदिष्टं स्यात् । तथा च तदस्मै न समृद्धं भवति । क्षत्रियस्य पुरोहितकृत्यज्ञानसम्भवे ऽपि स्वाभाविकज्ञानाभावात्तत्कर्म समृद्धं न भवतीत्यभिप्रायः । ब्राह्मणस्य प्रजापतेर्मुखतः उत्पन्नत्वादुपदेशकत्वं स्वाभाविकम्, क्षत्त्रियस्य बाहुभ्यामुत्पन्नत्वात् कर्तृत्वं स्वाभाविकम् । तथा च श्रूयते- “स मुखतस्त्त्रिवृतं निरमिमीत” इत्यारभ्य, ०- “ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त" (तै. सं. ७ । १ । १) इति, तथा- “उरसो बाहुभ्यां पञ्चदशं निरमिमीता" इत्यारभ्य ०- ”राजन्यो मनुष्याणाम्" (तै. सं. ७ । १ । १) इति । अन्यत्राप्याम्नायते- “ब्राह्मणो ऽस्य मुखमासीद्बाहू राजन्यः कृतः”- (वा. सं. ३१ । ११) इति । तस्मात् पुरोहितकृत्यविदापि क्षत्त्रियेण कर्म करिष्यमाणेन ब्राह्मण एवोपसरणीयः । तथा च सति तनोपदिष्टत्वात् तत्कृतं कर्म समृद्ध्यत इत्यर्थः ॥ ६ ॥
Eggeling
- Hence it is quite proper that a Brāhman should be without a king, but were he to obtain a king, it would be conducive to the success (of both). It is, however, quite improper that a king should be without a Brāhman, for whatever deed he does, unsped by Mitra, the priesthood, therein he succeeds not. Wherefore a Kshatriya who intends to do a deed ought by all means to resort to a Brāhman, for
he verily succeeds only in the deed sped by the Brāhman.
०७
विश्वास-प्रस्तुतिः
(ते ऽथा᳘) अथा᳘तो गृह्णा᳘त्ये᳘व[[!!]]॥
(वा) अयं᳘ वां मित्रावरुणा सुतः सो᳘म ऋतावृधा॥ ममे᳘दिह᳘ श्रुतᳫं᳭ ह᳘वम्। उपयाम᳘गृहीतो ऽसि मित्राव᳘रुणाभ्यां त्वे᳘ति॥
मूलम् - श्रीधरादि
(ते ऽथा᳘) अथा᳘तो गृह्णा᳘त्ये᳘व[[!!]]॥
(वा) अयं᳘ वां मित्रावरुणा सुतः सो᳘म ऋतावृधा॥ ममे᳘दिह᳘ श्रुतᳫं᳭ ह᳘वम्। उपयाम᳘गृहीतो ऽसि मित्राव᳘रुणाभ्यां त्वे᳘ति॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
अयं᳘ वाम् मित्रावरुणा सुतः सो᳘म ऋतावृधा ममे᳘दिह᳘ श्रुतᳫं ह᳘वम् उपयाम᳘गृहीतो ऽसि मित्राव᳘रुणाभ्यां त्वे᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेदिह श्रुतं हवम् ॥ उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वा”- (वा. सं. ७ ।९) इति ॥ ७ ॥
सायणः
एवं ग्रहस्य द्विदेवत्यत्वादिकमभिधाय समन्त्रकं ग्रहणं विधत्ते- अथात इत्यादि 4 । ऐन्द्रवायवग्रहानन्तरम्- ”अयं वाम्” इत्यादिना मन्त्रेण प्रकृतं मैत्रावरुणग्रहं गृह्णीयात् । हे ‘मित्रावरुणा’ “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इत्यादिना आकारादेशः । हे ‘ऋतावृधा’ ऋतस्य यज्ञस्य वर्द्धयितारौ । पूर्ववदाकारादेशः । “अन्येषामपि दृश्यते” (पा. सू. ६ । ३ । १३७) इति पूर्वपदस्य दीर्घः । युवाभ्याम् ‘अयं’ ‘सोमः’ अभिषुतः । ‘इह’ यजमानानां मध्ये ‘मम’ एवाह्वानं शृणुतम् । ‘इदित्यवधारणे’ । ‘हवम्’ इति- “भावे ऽनुपसर्गस्य” (पा. सू. ३ । ३ । ७५) इत्यप्रत्ययः संप्रसारणं च । ‘श्रुतम्’ इति लोटि- “बहुलं छन्दसि”- (पा. सू. ५ । २ । १२२) इति शपो लुक् । हे सोमरस ! त्वम् उपयामेन ‘गृहीतो ऽसि’ त्वां ‘मित्रावरुणाभ्यां’ गृह्णामीति शेषः ॥ ७ ॥
Eggeling
०८
विश्वास-प्रस्तुतिः
तं प᳘यसा श्रीणाति॥
तद्यत्प᳘यसा श्रीणा᳘ति व्वृत्रो वै सो᳘म आसीत्तं य᳘त्र देवा अ᳘घ्नंस्तं᳘ मित्र᳘मब्रुवंस्त्वम᳘पि हᳫँ᳭सी᳘ति स न᳘ चकमे स᳘र्व्वस्य वा᳘ ऽअहं᳘ मित्र᳘मस्मि न᳘ मित्रᳫँ᳭ स᳘न्नमि᳘त्रो भविष्यामी᳘ति तं वै᳘ त्वा यज्ञा᳘दन्त᳘रेष्याम इ᳘त्यहम᳘पि हन्मी᳘ति होवाच त᳘स्मात्पशवो᳘ ऽपाक्रामन्मित्रᳫँ᳭ स᳘न्नमि᳘त्रो ऽभूदि᳘ति स᳘ पशु᳘भि᳘र्व्यार्ध्यत त᳘मेत᳘द्देवाः᳘ पशु᳘भिः स᳘मार्धयन्यत्प᳘यसा᳘ ऽश्रीणंस्त᳘थो ऽए᳘वैनमेष᳘ एत᳘त्पशु᳘भिः स᳘मर्धयति यत्प᳘यसा श्रीणा᳘ति॥
मूलम् - श्रीधरादि
तं प᳘यसा श्रीणाति॥
तद्यत्प᳘यसा श्रीणा᳘ति व्वृत्रो वै सो᳘म आसीत्तं य᳘त्र देवा अ᳘घ्नंस्तं᳘ मित्र᳘मब्रुवंस्त्वम᳘पि हᳫँ᳭सी᳘ति स न᳘ चकमे स᳘र्व्वस्य वा᳘ ऽअहं᳘ मित्र᳘मस्मि न᳘ मित्रᳫँ᳭ स᳘न्नमि᳘त्रो भविष्यामी᳘ति तं वै᳘ त्वा यज्ञा᳘दन्त᳘रेष्याम इ᳘त्यहम᳘पि हन्मी᳘ति होवाच त᳘स्मात्पशवो᳘ ऽपाक्रामन्मित्रᳫँ᳭ स᳘न्नमि᳘त्रो ऽभूदि᳘ति स᳘ पशु᳘भि᳘र्व्यार्ध्यत त᳘मेत᳘द्देवाः᳘ पशु᳘भिः स᳘मार्धयन्यत्प᳘यसा᳘ ऽश्रीणंस्त᳘थो ऽए᳘वैनमेष᳘ एत᳘त्पशु᳘भिः स᳘मर्धयति यत्प᳘यसा श्रीणा᳘ति॥
मूलम् - Weber
तम् प᳘यसा श्रिणाति॥
तद्यत्प᳘यसा श्रीणा᳘ति वृत्रो वै सो᳘म आसीत्तं य᳘त्र देवा अ᳘घ्नंस्त᳘म् मित्र᳘मब्रुवंस्त्वम᳘पि हंसी᳘ति स न᳘ चकमे स᳘र्वस्य वा᳘ अह᳘म् मित्र᳘मस्मि न᳘ मित्रᳫं स᳘न्नमि᳘त्रो भविष्यामी᳘ति तं वै᳘ त्वा यज्ञा᳘दन्त᳘रेष्याम इ᳘त्यहम᳘पि हन्मी᳘ति होवाच त᳘स्मात्पशवो᳘ ऽपाक्रामन्मित्रᳫं स᳘न्नमि᳘त्रो ऽभूदि᳘ति स᳘ पशु᳘भिॗर्व्यार्ध्यत त᳘मेत᳘द्देवाः᳘ पशु᳘भिः स᳘मार्धयन्यत्प᳘यसा᳘श्रीणंस्त᳘थो एॗवैनमेष᳘ एत᳘त्पशु᳘भिः स᳘मर्धयति यत्प᳘यसा श्रीणा᳘ति॥
मूलम् - विस्वरम्
तं पयसा श्रीणाति । तद् यत्पयसा श्रीणाति- वृत्रो वै सोम आसीत्- तं यत्र देवा अघ्नन्-तं मित्रमब्रुवन्- त्वमपि हंसीति । स न चकमे, सर्वस्य वा ऽअहं मित्रमस्मि । न मित्रं सन्नमित्रो भावष्यामीति । तं वै त्वा यज्ञादन्तरेष्याम इति । अहमपि हन्मीति होवाच । तस्मात्पशवो ऽपाक्रामन्- मित्रं सन्नमित्रो ऽभूदिति । स पशुभिर्व्यार्ध्यत । तमेतद्देवाः पशुभिः समार्धयन्- यत्पयसा ऽश्रीणन् । तथो ऽएवैनमेष एतत्पशुभिः समर्धयति- यत्पयसा श्रीणाति ॥ ८ ॥
सायणः
गृहीतस्य सोमरसस्य पयसा मिश्रणं विधत्ते- तं पयसा श्रीणातीति 7 । ‘श्रीणाति’ मिश्रयति अनेकार्थत्वाद्धातूनामिति श्रीणातिरिह मिश्रणार्थः । विहितस्य मिश्रणस्य आख्यायिकया हेतुमाह- तद्यदित्यादिना । पयसा श्रीणातीति यत् तत्कारणमुच्यते- ‘वृत्रो’ नाम कश्चिदसुरः सोमो बभूव । ‘तं’ वृत्रं यदा ‘देवाः’ अवधिषुस्तदा ‘त्वमपि’ जहीति ‘मित्रमब्रुवन्’ । एवमुक्तः ‘सः’ तं हन्तुं नाभिललाष । अनभिलषणे तस्यायमाशयः- ‘अहं’ ‘सर्वस्य’ लोकस्य ‘मित्रम्’ इष्ट एव भवामि । तादृशो ऽहमपकारेण शत्रुर्न ‘भविष्यामीति’ । एवं तर्हि त्वां यज्ञे भागहीनं करिष्याम इति देवैरुक्तः स मित्रो भागलोभात् ‘अहमपि’ ‘हन्मीति’ अङ्गीचकार । ततो ऽस्यामित्रत्वात् पशुष्वपगतेषु स्वयं पशुविहीनो ऽभवत् । ततो देवा एतद्भागं पयसा श्रीत्वा एनं ‘पशुभिः’ समृद्धमकुर्वन् । अत इदानीमपि ‘पयसा’ सोमरसस्य मिश्रणेन ‘एनं’ मित्रमेव ‘पशुभिः’ समर्द्धितवान् भवतीत्यर्थः ॥ ८ ॥
Eggeling
- He mixes it with milk. The reason why he mixes it with milk is this. Soma, forsooth, was Vr̥tra. Now when the gods slew him, they said to Mitra, ‘Thou also slayest!’ But he liked it not and said, ‘Surely, I am every one’s friend (mitra): being no friend, I shall become an enemy (or, other than Mitra, Amitra).’–‘Then we shall exclude thee from the sacrifice!’–Then said he, ‘I, too, slay!’ Thereupon the cattle went from him, saying, ‘Being a friend, he has become an enemy!’ Thus he was deprived of the cattle. By mixing (the Soma) with milk, the gods then supplied him with cattle; and in like manner does this (priest) now supply him (the sacrificer or Mitra) with cattle by mixing (the Soma) with milk.
०९
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
श᳘श्वद्ध᳘ नैव᳘ चकमे हन्तुमि᳘ति तद्य᳘देवा᳘त्र प᳘यस्त᳘न्मित्र᳘स्य सो᳘म ऽएव व्व᳘रुणस्य त᳘स्मात्प᳘यसा श्रीणाति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
श᳘श्वद्ध᳘ नैव᳘ चकमे हन्तुमि᳘ति तद्य᳘देवा᳘त्र प᳘यस्त᳘न्मित्र᳘स्य सो᳘म ऽएव व्व᳘रुणस्य त᳘स्मात्प᳘यसा श्रीणाति॥
मूलम् - Weber
त᳘दाहुः॥
श᳘श्वद्धॗ नैव᳘ चकमे हन्तुमि᳘ति तद्य᳘देवा᳘त्र प᳘यस्त᳘न्मित्र᳘स्य सो᳘म एव व᳘रुणस्य त᳘स्मात्प᳘यसा श्रीणाति॥
मूलम् - विस्वरम्
तदाहु:- शश्वद्ध नैव चकमे हन्तुमिति । तद् यदेवात्र पयः- तन्मित्रस्य, सोम एव वरुणस्य । तस्मात्पयसा श्रीणाति ॥ ९ ॥
सायणः
प्रकारान्तरेणापि पयसा मिश्रणस्यावश्यकत्वमाह- तदाहुरित्यादि । ‘तत्’ तस्मिन् मित्रविषये वदन्ति याज्ञिकाः । पुनः पुनर्द्देवैरुक्तो ऽपि मित्रः सर्वथा सोमं हन्तुं नैव चकमे यतस्तस्मादत्र ग्रहे ‘यत्’ ‘पयः’ ‘तदेव’ ‘मित्रस्य’ भागः ‘सोमः’ तु वरुणस्यैव भागः । अत एनं ग्रहं मित्रार्थं पयसा मिश्रयेदित्यर्थः ॥ ९ ॥
Eggeling
- As to this they say, ‘Surely he liked it not to slay!’ Thus, what milk there is in this (mixture) that belongs to Mitra, but the Soma belongs to Varuṇa: therefore one mixes it with milk.
१०
विश्वास-प्रस्तुतिः
स᳘ श्रीणाति॥
राया᳘ व्वय᳘ᳫँ᳘ ससवा᳘ᳫँ᳘सो मदेम हव्ये᳘न देवा य᳘वसेन गा᳘वः॥ तां᳘ धेनुं मित्रावरुणा यु᳘वं᳘ नो व्विश्वा᳘हा धत्तम᳘नपस्फुरन्तीमेष᳘ ते यो᳘निऋतायुभ्यां[[!!]] त्वे᳘ति सादयति स यदा᳘ह ऽर्तायु᳘भ्यां त्वे᳘ति ब्र᳘ह्म वा᳘ ऽऋतं ब्र᳘ह्म हि᳘ मित्रो ब्र᳘ह्मो᳘ ह्यृतं व्व᳘रुण एवा᳘युः संव्वत्सरो हि व्व᳘रुणः संव्वत्सर आ᳘युस्त᳘स्मादाहैष᳘ ते यो᳘निर्ऋतायु᳘भ्यां त्वे᳘ति॥
मूलम् - श्रीधरादि
स᳘ श्रीणाति॥
राया᳘ व्वय᳘ᳫँ᳘ ससवा᳘ᳫँ᳘सो मदेम हव्ये᳘न देवा य᳘वसेन गा᳘वः॥ तां᳘ धेनुं मित्रावरुणा यु᳘वं᳘ नो व्विश्वा᳘हा धत्तम᳘नपस्फुरन्तीमेष᳘ ते यो᳘निऋतायुभ्यां[[!!]] त्वे᳘ति सादयति स यदा᳘ह ऽर्तायु᳘भ्यां त्वे᳘ति ब्र᳘ह्म वा᳘ ऽऋतं ब्र᳘ह्म हि᳘ मित्रो ब्र᳘ह्मो᳘ ह्यृतं व्व᳘रुण एवा᳘युः संव्वत्सरो हि व्व᳘रुणः संव्वत्सर आ᳘युस्त᳘स्मादाहैष᳘ ते यो᳘निर्ऋतायु᳘भ्यां त्वे᳘ति॥
मूलम् - Weber
स᳘ श्रीणाति॥
राया᳘ वय᳘ᳫं᳘ ससवा᳘ᳫं᳘सो मदेम हव्ये᳘न देवा य᳘वसेन गा᳘वः तां᳘ धेनु᳘म् मित्रावरुणा युवं᳘ नो विश्वा᳘हा धत्तम᳘नपस्फुरन्तीमेष᳘ ते यो᳘निरृतायु᳘भ्यां त्वे᳘ति सादयति स यदा᳘हर्तायु᳘भ्यां त्वे᳘ति ब्र᳘ह्म वा᳘ ऋतम् ब्र᳘ह्म हि᳘ मित्रो ब्र᳘ह्मो ह्यृतं व᳘रुण एवा᳘युः संवत्सरो हि व᳘रुणः संवत्सर आ᳘युस्त᳘स्मादाहैष᳘ ते यो᳘नि ऋतायु᳘भ्यां त्वे᳘ति॥
मूलम् - विस्वरम्
स श्रीणाति- ”राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् । एष ते योनिर्ऋतायुभ्यां त्वा"- (वा० सं० ७ । १०) इति सादयति । स यदाह- ऋतायुभ्यां त्वेति । ब्रह्म वा ऋतम् । ब्रह्म हि मित्रः । ब्रह्मो ह्यृतम् । वरुण एवायुः, संवत्सरो हि वरुणः, संवत्सर आयुः । तस्मादाह- एष ते योनिर्ऋतायुभ्यां त्वेति ॥ १० ॥
सायणः
विहितं पयसा मिश्रणमनूद्य मन्त्रं विधत्ते- स श्रीणातीति । राया वयमित्यादि । हे मित्रावरुणौ ! यथा ‘हव्येन’ ‘देवाः’ हृष्यन्ति । यथा ‘यवसेन’ (यवस) तृणेन ‘गावः’ हृष्यन्ति । तथा च ‘वयं’ ‘राया’ येन धेनुरूपेण धनेन ‘ससवांसः’ संभक्ताः । “वन षण संभक्तौ”- (धा. पा. भ्वा. प. ४६६) इत्यस्मात् क्वसुप्रत्ययः (पा. सू. ३ । २ । १०७) । अनुनासिकलोपश्छान्दसः । तथाविधाः सन्तो हृष्टा भवामः । ‘युवं’ युवां ‘प्रथमायाश्च’ (पा. सू. ७ । २ । ८८) इत्यात्वं न भवति । भाषायामिति वचनात् । ‘विश्वाहा’ सर्वदा विश्वानि च तान्यहानि चेति कर्मधारयः । तत उत्तरस्य सप्तमीबहुवचनस्यादेशात् शिलोपः । अनपगच्छन्तीं ‘तां धेनुं’ ‘नः’ अस्मभ्यं धनं दत्त सर्वदा अनन्यगामिनी सती यथा अस्मासु निवसति तथा संपादयतमित्यर्थः । गृहीतसोमरसस्य खरे सादनं विधत्ते- एष इत्यादिना । सादनमन्त्रभागगतम् “ऋतायुभ्याम्”- इत्येतत्पदं व्याचष्टे- स यदाहेति । ‘ऋतं’ सत्यं तदात्मकं ‘ब्रह्म’ इति प्रसिद्धम् । ब्रह्म च मित्र इति प्रागुक्तम् (श. प. ४ । १ । २ । १) । ब्रह्मैव मित्र इति द्विरुक्तिः शाखान्तरप्रसिद्ध्या चानुभवप्रसिद्ध्या चोपपद्यते । ‘आयुः’ इति- प्राणिनां जीवनकालः । तदात्मकः ‘संवत्सरः’ । ‘वरुणः’ च संवत्सररूपः । तथा च ‘ऋतायु’ शब्दाभ्यां मित्रावरुणावभिधेये, तस्मात् मन्त्रे ऋतायुपदप्रयोगो युज्यत इत्यर्थः ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे प्रथमाध्याये चतुर्थं ब्राह्मणं समाप्तम् ॥ (४-१-४)
Eggeling
- He mixes it with (Vāj. S. VII, 10; Rig-veda IV, 42, 10), ‘May we delight in the wealth we have gained, the gods in the offering, the kine in pasture! that unfailing milch cow,
O Mitra and Varuṇa, grant ye unto us day by day!’–with ‘This is thy womb: thee for truth and life 8!’ he deposits it. Now as to why he says, ‘Thee for truth and life,’–the truth is Mitra 9, since Mitra is the Brahman, and the truth is the Brahman (sacerdotium or sacred writ);–and life is Varuṇa, since Varuṇa is the year, and life is the year: therefore he says, ‘This is thy womb: thee for truth and life!’
-
we expect ऽभिगॗन्त्रेव. ↩︎
-
मूले ‘क्रतूदक्षौ’ इति दीर्घपाठस्तु- सत्यवस्वादित्रयोदशविश्वेदेवनिष्ठस्वस्वगतयुग्मत्वाभिप्रायिक इति ध्येयम् ॥ ↩︎
-
269:4 The Kāṇva text adds, tad asyaitāv ātmanaḥ, ‘and these two are of his self,’ which seems to be intended to explain the preceding adhyātmam, ‘belonging to his self.’ See IV, 1, 3, 1, with note. ↩︎
-
मैत्रावरुणमयं वामिति । का० श्रौ० सू० ९ । १३१ । ↩︎
-
271:1 See p. 256, note 1. For the shape of this cup, see IV, 1, 5, 19. ↩︎
-
271:2 See IV, 1, 2, 6, and note. ↩︎
-
पयसा श्रीणात्येनं कुशावंतर्द्धाय राया वयमिति । का. श्रौ. सू. ९ । १३२ । ↩︎
-
272:1 This is a false analysis of r̥tāyu, ‘righteous, holy.’ ↩︎
-
272:2 The text has ‘Brahman,’ which must be wrong. The Kāṇva recension has, correctly, mitro vā r̥tam, brahma hi mitro, brahma hy r̥tam. ↩︎