०१
विश्वास-प्रस्तुतिः
व्वा᳘ग्घ वा᳘ ऽअस्यैन्द्रवायवः᳘॥
(ऽ) एतन्न्व᳘ध्यात्ममि᳘न्द्रो ह य᳘त्र व्वृत्रा᳘य व्व᳘ज्रं प्रजहा᳘र सो᳘ ऽबलीयान्म᳘न्यमानो᳘ नास्तृषी᳘तीव बि᳘भ्यन्निलया᳘ञ्चक्रे त᳘देवा᳘पि देवा᳘ ऽअपन्य᳘लयन्त॥
मूलम् - श्रीधरादि
व्वा᳘ग्घ वा᳘ ऽअस्यैन्द्रवायवः᳘॥
(ऽ) एतन्न्व᳘ध्यात्ममि᳘न्द्रो ह य᳘त्र व्वृत्रा᳘य व्व᳘ज्रं प्रजहा᳘र सो᳘ ऽबलीयान्म᳘न्यमानो᳘ नास्तृषी᳘तीव बि᳘भ्यन्निलया᳘ञ्चक्रे त᳘देवा᳘पि देवा᳘ ऽअपन्य᳘लयन्त॥
मूलम् - Weber
वा᳘ग्घ वा᳘ अस्यैन्द्रवायवः᳟॥
एतन्न्व᳘ध्यात्ममि᳘न्द्रो ह य᳘त्र वृत्रा᳘य व᳘ज्रम् प्रजहा᳘र सो᳘ ऽबलीयान्म᳘न्यमानोॗ नास्तृषी᳘तीव बि᳘भ्यन्निलयां᳘ चक्रे त᳘देवा᳘पि देवा᳘ अपन्य᳘लयन्त॥
मूलम् - विस्वरम्
ऐन्द्रवायवग्रहः । वाग्घ वा ऽअस्यैन्द्रवायवः । एतन्न्वध्यात्मम् । इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार । सो ऽबलीयान् मन्यमानो ‘नास्तृषि’ इतीव बिभ्यन्निलयाञ्चक्रे । तदेवापि देवा अपन्यलयन्त ॥ १ ॥
सायणः
उपांश्वादित्रयप्रयोगानन्तरमैन्द्रवायवस्य प्रयोगमभिधास्यन् तस्य तदानन्तर्य्ये कारणमाह- वाग्घ वा अस्यैन्द्रवायव इति । प्राणापानव्यानात्मकं हि तत्त्रयम् । व्यानकार्या च वाक् तत्कार्यतया तदात्मकश्चैन्द्रवायवो व्यानात्मकोपांशुसवनसृष्ट्यनन्तरमेव सृष्टश्च । अतो युक्तं तस्य तदानन्तर्य्यमित्यर्थः । ‘ह’- शब्दः प्रसिद्धौ । ‘वै’- शब्दस्तां स्मारयति । तथा हि तैत्तिरीयके-”प्राणापानाभ्यामेवोपाँ श्वन्तर्यामौ निरमिमीत । व्यानादुपांशुसवनं, वाच ऐन्द्रवायवम्”- (तै. शा. अ १ । ५ । ४) इति । देहाद्बहिरुपलभ्यमानस्यैन्द्रवायवस्य देहान्तर्वर्तिवागिन्द्रियात्मकता कथमिति तत्राह- एतन्न्वध्यात्ममिति । द्विविधो ह्यैन्द्रवायवः, आधिभौतिक आध्यात्मिकश्चेति । यो बहिः स आधिभौतिकः । यस्त्वेष वाग्रूपः स आध्यात्मिक इत्यर्थः । आत्मनि ‘अध्यात्मम्’ विभक्त्यर्थे अधेः “अव्ययं विभक्ति” (पा. सू. २ । १ । ६) इत्यादिना ऽव्ययीभावः । “अनश्च” (पा. सू. ४ । ६ । १०८) इति टच् समासान्तः । “नाव्ययीभावाद्-” (पा. सू. २ । ४ । ८३) इति विभक्तेर्लुगभावो ऽमादेशश्च । विधास्यमाने ग्रहे वायोः प्रथमवषट्कारः । तस्य द्विदेवत्यत्वम् ऐन्द्रवायवनाम सर्वेषां पात्राणां वायव्यनामेत्यादिव्युत्पादनार्थमाख्यायिका आरभ्यते- इन्द्रो ह यत्र वृत्रायेत्यादि । ‘इन्द्रो’ वृत्रं हन्तुं ‘वज्रं’ चिक्षेप । ‘वृत्राय’ इति- “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” (पा. सू. २ । ३ । १४) इति चतुर्थी । ‘प्रजहार’ इति प्रहरणे हेतुः प्रक्षेपो लक्ष्यते । ‘स’ इन्द्रः कृतप्रहारो न बलवान् । अतो नूनमनेनाहं वृत्रं ‘नास्तृषि’ न हतवान् इति मन्यमानस्तदागमनाद् भीतः सन् निलीनो ऽभूत् । ‘निलयांचक्रे’ इति आम्-प्रत्ययः (पा. सू. ३ । १ । ३६) । ‘तत्’ तस्माद् भयादेव कारणात् ‘देवाः’ ‘अपन्यलयन्त । न्यलयन्त इति व्यत्यव्येन (पा. सू. ३ । २ । १२४) शप् ॥ १ ॥
Eggeling
- The Aindra-vāyava (graha), forsooth, is his speech; and as such belonging to his self 1. Now Indra, when he had hurled the thunderbolt at Vr̥tra, thinking himself to be the weaker, and fearing lest he had not laid him low, hid himself. The gods also hid themselves away in the same place.
०२
विश्वास-प्रस्तुतिः
ते᳘ ह देवा᳘ ऊचुः॥
(र्न) न वै᳘ हतं᳘ व्वृत्रं᳘ व्विद्म न᳘ जीवᳫँ᳭ ह᳘न्त न ए᳘को व्वे᳘त्तु य᳘दि हतो᳘ वा व्वृत्रो जी᳘वति वे᳘ति॥
मूलम् - श्रीधरादि
ते᳘ ह देवा᳘ ऊचुः॥
(र्न) न वै᳘ हतं᳘ व्वृत्रं᳘ व्विद्म न᳘ जीवᳫँ᳭ ह᳘न्त न ए᳘को व्वे᳘त्तु य᳘दि हतो᳘ वा व्वृत्रो जी᳘वति वे᳘ति॥
मूलम् - Weber
ते᳘ ह देवा᳘ ऊचुः॥
न वै᳘ हतं᳘ वृत्रं᳘ विद्म न᳘ जीवᳫं ह᳘न्त न ए᳘को वे᳘त्तु य᳘दि हतो᳘ वा वृत्रो जी᳘वति वे᳘ति॥
मूलम् - विस्वरम्
ते ह देवा ऊचुः- न वै हतं वृत्रं विद्म, न जीवम् । हन्त न एको वेत्तु- यदि हतो वा वृत्रो जीवति वेति ॥ २ ॥
सायणः
वृत्रहननसंशये वृत्रो हतो जीवति वेति न ज्ञायते, अस्माकमेको गत्वा जानात्विति ते देवा उक्त्वा, देवैराशुतरत्वेन ज्ञातुं नियुक्तो वायुस्ततो गमनान्भे किं फलं स्यादिति वरं वव्रे । सोमरसात्मकस्य हविषः सम्बन्धिनि यस्मिन् ऐन्द्रवायवग्रहे प्रथमं वषट्क्रियते स ‘प्रथमवषट्कारः’ सोमांशस्तव भाग इति । ‘तथा’ इत्युक्त्वा वायुः देवेभ्यो निरगच्छत् । “आङ् स्वार्थे” । हतं वृत्रं च प्राप । पुनरागत्य ‘हतो वृत्रः’ हते च यद् विभजनाय सोमग्रहविभागादिकं कर्त्तव्यं ‘तत्’ कुरुत इति देवेभ्यो न्यवेदयत् ॥ २ ॥ ३ ॥ ४ ॥
Eggeling
- The gods then said, ‘Verily, we know not if Vr̥tra be slain or alive: come, let one of us find out, if Vr̥tra be slain or alive!’
०३
विश्वास-प्रस्तुतिः
ते᳘ व्वायु᳘मब्रुवन्॥
(न्न) अयं वै व्वायु᳘र्यो ऽयं प᳘वते व्वा᳘यो त्व᳘मिदं᳘ व्विद्धि य᳘दि हतो᳘ वा व्वृत्रो जी᳘वति वा त्वं वै᳘ न आ᳘शिष्ठो ऽसि य᳘दि जीविष्य᳘ति त्व᳘मेव᳘ क्षिप्रं पु᳘नरा᳘गमिष्यसी᳘ति॥
मूलम् - श्रीधरादि
ते᳘ व्वायु᳘मब्रुवन्॥
(न्न) अयं वै व्वायु᳘र्यो ऽयं प᳘वते व्वा᳘यो त्व᳘मिदं᳘ व्विद्धि य᳘दि हतो᳘ वा व्वृत्रो जी᳘वति वा त्वं वै᳘ न आ᳘शिष्ठो ऽसि य᳘दि जीविष्य᳘ति त्व᳘मेव᳘ क्षिप्रं पु᳘नरा᳘गमिष्यसी᳘ति॥
मूलम् - Weber
ते᳘ वायु᳘मब्रुवन्॥
अयं वै वायुॗर्यो ऽयम् प᳘वते वा᳘यो त्व᳘मिदं विद्धि य᳘दि हतो᳘ वा वृत्रो जी᳘वति वा त्वं वै न आ᳘शिष्टो ऽसि य᳘दि जीविष्य᳘ति त्व᳘मेव᳘ क्षिप्रम् पु᳘नरा᳘गमिष्यसी᳘ति॥
मूलम् - विस्वरम्
ते वायुमब्रुवन् । अयं वै वायुर्यो ऽयं पवते । ‘वायो त्वमिदं विद्धि’- यदि हतो वा वृत्रो जीवति वा, त्वं वै न आशिष्ठो ऽसि । यदि जीविष्यति- त्वमेव क्षिप्रं पुनरागमिष्यसीति ॥ ३ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- They said unto Vāyu–Vāyu, forsooth, is he that blows yonder–‘Find thou out, O Vāyu, if Vr̥tra be slain or alive; for thou art the swiftest among us: if he lives, thou indeed wilt quickly return hither.’
०४
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
किं᳘ मे त᳘तः स्यादि᳘ति प्रथमवषट्कार᳘ एव᳘ ते सो᳘मस्य रा᳘ज्ञ इ᳘ति तथे᳘त्ये᳘याय व्वायुरै᳘द्धतं᳘ वृत्रᳫँ᳭ स᳘ होवाच हतो᳘ वृत्रो य᳘द्धते᳘ कुर्या᳘त्तत्कुरुते᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
किं᳘ मे त᳘तः स्यादि᳘ति प्रथमवषट्कार᳘ एव᳘ ते सो᳘मस्य रा᳘ज्ञ इ᳘ति तथे᳘त्ये᳘याय व्वायुरै᳘द्धतं᳘ वृत्रᳫँ᳭ स᳘ होवाच हतो᳘ वृत्रो य᳘द्धते᳘ कुर्या᳘त्तत्कुरुते᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
कि᳘म् मे त᳘तः स्यादि᳘ति प्रथमवषट्कार᳘ एव᳘ ते सो᳘मस्य रा᳘ज्ञ इ᳘ति तथेत्ये᳘याय वायुरे᳘द्धतं᳘ वृत्रᳫं स᳘ होवाच हतो᳘ वृत्रो य᳘द्धते᳘ कुर्या᳘त त᳘त्कुरुते᳘ति॥
मूलम् - विस्वरम्
स होवाच- किं मे ततः स्यादिति । प्रथमवषट्कार एव ते सोमस्य राज्ञ इति । तथेत्येयाय वायुरैद्धतं वृत्रम् । स होवाच- हतो वृत्रः । यद्धते कुर्यात्- तत् कुरुतेति ॥ ४ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- He spake, ‘What shall be my reward then?’–‘The first Vashaṭ of king Soma!’–‘So be it!’ so Vāyu went, and lo 2 Vr̥tra slain. He spake, ‘Vr̥tra is slain: do ye with the slain what ye list!’
०५
विश्वास-प्रस्तुतिः
ते᳘ देवा᳘ अभ्य᳘सृज्यन्त॥
य᳘था व्वि᳘त्तिं व्वेत्स्य᳘माना एवᳫँ᳭ स यमेको᳘ ऽलभत स᳘ एकदेव᳘त्यो ऽभवद्यं द्वौ स᳘ द्विदेव᳘त्यो यं᳘ बह᳘वः स᳘ ब᳘हुदेवत्यस्तद्य᳘देनं[[!!]] पा᳘त्रैर्व्य᳘गृह्णत᳘ त᳘स्माद्ग्र᳘हा ना᳘म॥
मूलम् - श्रीधरादि
ते᳘ देवा᳘ अभ्य᳘सृज्यन्त॥
य᳘था व्वि᳘त्तिं व्वेत्स्य᳘माना एवᳫँ᳭ स यमेको᳘ ऽलभत स᳘ एकदेव᳘त्यो ऽभवद्यं द्वौ स᳘ द्विदेव᳘त्यो यं᳘ बह᳘वः स᳘ ब᳘हुदेवत्यस्तद्य᳘देनं[[!!]] पा᳘त्रैर्व्य᳘गृह्णत᳘ त᳘स्माद्ग्र᳘हा ना᳘म॥
मूलम् - Weber
ते᳘ देवा᳘ अभ्य᳘सृज्यन्त॥
य᳘था वि᳘त्तिं वेत्स्य᳘माना एवᳫं स यमेको᳘ ऽलभत स᳘ एकदेव᳘त्यो ऽभवद्यं द्वौ स᳘ द्विदेव᳘त्यो य᳘म् बह᳘वः स᳘ बहुदेव᳘त्यस्तद्य᳘देनम् पा᳘त्रैर्व्य᳘गृह्णत त᳘स्माद्ग्र᳘हा ना᳘म॥
मूलम् - विस्वरम्
ते देवा अभ्यसृज्यन्त- यथा वित्तिं वेत्स्यमानाः- एवम् । स यमेको ऽलभत- स एकदेवत्यो ऽभवत् । यं द्वौ- स द्विदेवत्यः । यं बहवः- स बहुदेवत्यः । तद् यदेनं पात्रैर्व्यगृह्णत- तस्माद्ग्रहा नाम ॥ ५ ॥
सायणः
ते देवाः ‘अभि’ सोममभिलक्ष्य ‘असृज्यन्त’ अन्तरिक्षं गतवन्तः- ”सृज विसर्गे”- (धा. पा. दि. आ. ७२) दैवादिको ऽनुदात्तेत् । विद्यते लभ्यत इति वित्तिः, प्राप्तव्यो ऽर्थः, तं येन प्रकारेण विभजन्ते ‘एवं’ हि ‘सः’ सोमग्रहविभाग इति । अतो ‘यं’ ग्रहं महेन्द्रादिः ‘एकः’ अलभत ‘सः’ माहेन्द्रादिः ‘एकदेवत्यः’ ‘यं’ ‘द्वौ’ स आश्विनादिः ‘द्विदेवत्यः’ । ‘यं’ ‘बहवः’ ‘स’ वैश्वदेवादिः ‘बहुदेवत्यः’ इति- “देवतान्तात्तादर्थ्ये” (पा. सू. ५ । ४ । २४) इति यत् । तदा ‘एनं’ सोमं यस्मात्कारणात् ‘पात्रैः’ विभज्य देवा ‘अगृह्णत’ ‘तस्मात्’ तानि पात्राणि ‘ग्रहाः’ इति प्रसिद्धाः । “ग्रहवृदृनिश्चिगमश्च”- (पा. सू. ३ । ३ । ५८) इति करणे अप् ॥ ५ ॥
Eggeling
- The gods rushed thither,–as (those) eager to take possession of their property, so (it fared with) him (Vr̥tra–Soma) 3: what (part of him) one of them seized, that became an ekadevatya (graha, belonging to one deity), and what two of them, that became a dvidevatya 4, and what many (seized), that became a bahudevatya;–and because they caught him up each separately (vi-grah) by means of vessels, therefore (the libations) are called graha.
०६
विश्वास-प्रस्तुतिः
स᳘ एषामा᳘पूयत्॥
(त्स᳘) स᳘ एनाञ्छुक्तः पू᳘तिरभि᳘ववौ स ना᳘लमा᳘हुत्या ऽआ᳘स ना᳘लं भक्षा᳘य॥
मूलम् - श्रीधरादि
स᳘ एषामा᳘पूयत्॥
(त्स᳘) स᳘ एनाञ्छुक्तः पू᳘तिरभि᳘ववौ स ना᳘लमा᳘हुत्या ऽआ᳘स ना᳘लं भक्षा᳘य॥
मूलम् - Weber
स᳘ एषामा᳘पूयत्॥
स᳘ एनांछुक्तः पू᳘तिरभि᳘ववौ स ना᳘लमा᳘हुत्या आ᳘स ना᳘लम् भक्षा᳘य॥
मूलम् - विस्वरम्
स एषामापूयत् । स एनाञ्छुक्तः पूतिरभिववौ । स नालमाहुत्या ऽआस, नालं भक्षाय ॥ ६ ॥
सायणः
‘एषां’ सम्बन्धी ‘सः’ गृहीतः सोमः पूतिगन्धो ऽभवत् । ‘सः’ पर्युषितः पूतिगन्धः ‘एनान्’ देवान् प्रत्याजगाम आहुत्यर्थं हुतशिष्टभक्षणार्थं वा दुर्गन्धत्वेन ‘सः’ सोमरसो योग्यो नासीत् ॥ ६ ॥
Eggeling
- He stank in their nostrils,–sour and putrid he blew towards them: he was neither fit for offering, nor was he fit for drinking.
०७
विश्वास-प्रस्तुतिः
ते᳘ देवा᳘ व्वायु᳘मब्रुवन्॥
(न्वा᳘) व्वा᳘यविमं᳘ नो व्वि᳘वाहीमं᳘[[!!]] नः स्वदये᳘ति स᳘ होवाच किं᳘ मे त᳘तः स्यादि᳘ति त्व᳘यै᳘वैता᳘नि पा᳘त्राण्या᳘चक्षीरन्नि᳘ति तथे᳘ति होवाच यूयं तु᳘ मे सच्युपवाते᳘ति[[!!]]॥
मूलम् - श्रीधरादि
ते᳘ देवा᳘ व्वायु᳘मब्रुवन्॥
(न्वा᳘) व्वा᳘यविमं᳘ नो व्वि᳘वाहीमं᳘[[!!]] नः स्वदये᳘ति स᳘ होवाच किं᳘ मे त᳘तः स्यादि᳘ति त्व᳘यै᳘वैता᳘नि पा᳘त्राण्या᳘चक्षीरन्नि᳘ति तथे᳘ति होवाच यूयं तु᳘ मे सच्युपवाते᳘ति[[!!]]॥
मूलम् - Weber
ते᳘ देवा᳘ वायु᳘मब्रुवन्॥
वा᳘यविमं᳘ नो वि᳘वाही᳘मं नः स्वदये᳘ति स᳘ होवाच कि᳘म् मे त᳘तः स्यादि᳘ति त्व᳘यैॗवैता᳘नि पा᳘त्राण्या᳘चक्षीरन्नि᳘ति तथे᳘ति होवाच यूयं तु᳘ मे सच्यु᳘पवाते᳘ति॥
मूलम् - विस्वरम्
ते देवा वायुमब्रुवन् । वायो ! इमं नो विवाहि, इमं नः स्वदयेति । स होवाच- किं मे ततः स्यादिति । त्वयैवैतानि पात्राण्याचक्षीरन्निति । तथेति होवाच यूयं तु मे सच्युपवातेति ॥ ७ ॥
सायणः
‘देवाः’ ‘वायुं’ सोमं ‘विवाहि’ विगतदुर्गन्धं कुरु अस्मभ्यमिमं रोचयेत्यूचुः । तेन च वरे वृते तन्नाम्ना पात्राणां व्यवहारं प्रायच्छन् ‘तथा’ ‘इति’- अङ्गीकृत्य ‘यूयं’ ‘मे’ सर्वे ‘सचि’ सहायकाः स्थिता वातोपकारिणं व्यापारं कुरुत इति आह ॥ ७ ॥
Eggeling
- The gods said to Vāyu, ‘Vāyu, blow thou through him, make him palatable for us!’ He said, ‘What shall be my reward then?’–‘After thee they shall name those cups.’–‘So be it!’ he said, ‘but blow ye along with me!’
०८
विश्वास-प्रस्तुतिः
त᳘स्य देवाः᳘॥
(वा᳘) यावन्मात्र᳘मिव गन्धस्या᳘पजघ्नुस्तं᳘ पशु᳘ष्वदधुः स᳘ एष᳘ पशु᳘षु कुणपगन्धस्त᳘स्मात्कुणपगन्धान्ना᳘पिगृह्णीत सो᳘मस्य हैष रा᳘ज्ञो गन्धः᳘॥
मूलम् - श्रीधरादि
त᳘स्य देवाः᳘॥
(वा᳘) यावन्मात्र᳘मिव गन्धस्या᳘पजघ्नुस्तं᳘ पशु᳘ष्वदधुः स᳘ एष᳘ पशु᳘षु कुणपगन्धस्त᳘स्मात्कुणपगन्धान्ना᳘पिगृह्णीत सो᳘मस्य हैष रा᳘ज्ञो गन्धः᳘॥
मूलम् - Weber
त᳘स्य देवाः᳟॥
यावन्मात्र᳘मिव गन्धस्या᳘पजघ्नुस्त᳘म् पशु᳘ष्वदधुः स᳘ एष᳘ पशुषु कुणपगन्धस्त᳘स्मात्कुणपगन्धान्ना᳘पिगृह्णीत सो᳘मस्य हैष रा᳘ज्ञो गन्धः॥
मूलम् - विस्वरम्
तस्य देवा यावन्मात्रमिव गन्धस्यापजघ्नुः, तं पशुष्वदधुः । स एष पशुषु कुणपगन्धः । तस्मात् कुणपगन्धान्नापिगृह्णीत । सोमस्य हैष राज्ञो गन्धः ॥ ८ ॥
सायणः
‘तस्य’ सोमस्य सम्बन्धिनो ‘गन्धस्य’ यावन्तं दोषांशं ‘देवाः’ अपनीतवन्तः ‘तं’ ‘पशुषु’ प्राणिषु स्थापितवन्तः । ‘स एषः’ प्राणिषु दृश्यमानः स्वेदादिनिबन्धनो दुर्गन्धः । तत् किं ? प्रयोगमध्ये स्वेदादिनिबन्धने तस्मिन् गन्धे जुगुप्सा कृता सा चायुक्ता । यतो ऽसौ पशुषु क्षिप्तो ऽपि क्षेपात् प्राक् सोमस्य राज्ञो गन्धो जातः । तदेनाघ्राणाय वस्त्रादिना नासिका आच्छादनीया । मुखगतस्य परिहाराय निष्ठीवेदिति । नापि गृह्णीयात् । न निष्ठीवेत् । अपिपूर्वो गृह्णातिराच्छादने वर्तते । यथा तस्माद्दीक्षितेनापिगृह्य ष्ठीवितव्य इत्यादावपिग्रहणनिष्ठीवनाभ्यां हि तस्मिन् गन्धे जुगुप्सा कृता स्यात् । सा चायुक्ता । यतः पशुषु क्षिप्तो ऽपि क्षेपात् प्राक् सोमस्य राज्ञो गन्धः । अतः पिधाननिष्ठीवनाभ्यां सोम एवावज्ञातः स्यात् । अतो ऽपवित्रेण गन्धेन ‘आ’ समन्तात् सक्तं व्याप्तमात्मानं ‘मन्येत’ तदा तत्परिहाराय पक्षिण इव प्रवातप्रदेशमासेवेत । तेन च तमपनीय प्रयुञ्जीत । न पुनस्तमपवित्रगन्धं सहमानेनैव प्रयोगो निष्पादनीयः । यतः साक्षाच्छ्रीरूपः सोमः । अपवित्रगन्धः पुनर्व्याधिरूपः पाप्मा । यथा च प्रशस्ततरे राजादावागच्छति सति उन्नतं पर्यङ्कप्रासादादिकमारुह्य स्थितः पापीयान्- एवं सोमे राजन्यागच्छति सति प्रवातसेवया प्रत्यवरोपितो भवति ॥ ८ ॥ ९॥
Eggeling
- The gods dispelled some of that smell, and laid it into the cattle,–this is that foul smell in (dead) cattle: hence one must not close (his nose) at that foul smell, since it is the smell of king Soma.
०९
विश्वास-प्रस्तुतिः
(न्धो᳘) नो ऽएव नि᳘ष्ठीवेत्॥
(त्त᳘) त᳘स्माद्यद्यप्या᳘सक्त इव म᳘न्येताभिवातं प᳘रीयाच्छ्रीर्वै सो᳘मः पाप्मा य᳘क्ष्मः स य᳘था श्रे᳘यस्यायति पा᳘पीयान्प्रत्यवरो᳘हेदेव᳘ᳫं᳘ हास्माद्य᳘क्ष्मः प्रत्य᳘वरोहति॥
मूलम् - श्रीधरादि
(न्धो᳘) नो ऽएव नि᳘ष्ठीवेत्॥
(त्त᳘) त᳘स्माद्यद्यप्या᳘सक्त इव म᳘न्येताभिवातं प᳘रीयाच्छ्रीर्वै सो᳘मः पाप्मा य᳘क्ष्मः स य᳘था श्रे᳘यस्यायति पा᳘पीयान्प्रत्यवरो᳘हेदेव᳘ᳫं᳘ हास्माद्य᳘क्ष्मः प्रत्य᳘वरोहति॥
मूलम् - Weber
नो एव नि᳘ष्ठीवेत्॥
तस्माद्यद्यप्या᳘सक्त इव म᳘न्येताभिवातम् प᳘रीयाछ्रीर्वै सो᳘मः पाप्मा यक्ष्मः स य᳘था श्रे᳘यस्यायति पापीयान्प्रत्यवरो᳘हेदेव᳘ᳫं᳘ हास्माद्य᳘क्ष्मः प्रत्य᳘वरोहति॥
मूलम् - विस्वरम्
नो ऽएव निष्ठीवेत् । तस्मात् यद्यप्यासक्त इव मन्येत- अभिवातं परीयात् । श्रीर्वै सोमः पाप्मा यक्ष्मः, स यथा श्रेयस्यायति पापीयान्प्रत्यवरोहेद्- एवं हास्माद्यक्ष्मः प्रत्यवरोहति ॥ ९ ॥
सायणः
[व्याख्यानं अष्टमे]
Eggeling
- Nor must one spit thereat 5; even though he should think himself ever so much affected, let him
go round it windward 6; for Soma means eminence, and disease meanness: even as at the approach of his superior the meaner man would get down (from his seat), so does disease go down before him (Soma).
१०
विश्वास-प्रस्तुतिः
(त्य) अथे᳘तरं वायु᳘र्व्यवात्[[!!]]॥
(त्त᳘) त᳘दस्वदयत्ततो᳘ ऽलमा᳘हुत्या ऽआसा᳘लं भक्षा᳘य त᳘स्मादेता᳘नि नानादेव᳘त्यानि सन्ति व्वाय᳘व्यानीत्या᳘चक्षते᳘ सो ऽस्यैष᳘ प्रथमवषट्कार᳘श्च सो᳘मस्य रा᳘ज्ञ एता᳘न्यु ऽएनेन पा᳘त्राण्या᳘चक्षते॥
मूलम् - श्रीधरादि
(त्य) अथे᳘तरं वायु᳘र्व्यवात्[[!!]]॥
(त्त᳘) त᳘दस्वदयत्ततो᳘ ऽलमा᳘हुत्या ऽआसा᳘लं भक्षा᳘य त᳘स्मादेता᳘नि नानादेव᳘त्यानि सन्ति व्वाय᳘व्यानीत्या᳘चक्षते᳘ सो ऽस्यैष᳘ प्रथमवषट्कार᳘श्च सो᳘मस्य रा᳘ज्ञ एता᳘न्यु ऽएनेन पा᳘त्राण्या᳘चक्षते॥
मूलम् - Weber
अथे᳘तरं वायुर्व्य᳘वात्॥
त᳘दस्वदयत्ततो᳘ ऽलमा᳘हुत्या आसा᳘लम् भक्षा᳘य त᳘स्मादेता᳘नि नानादेव᳘त्यानि सन्ति वायॗव्यानीत्या᳘चक्षते᳘ सो ऽस्यैष᳘ प्रथमवषट्कार᳘श्च सो᳘मस्य रा᳘ज्ञ एता᳘न्यु एनेन पा᳘त्राण्या᳘चक्षते॥
मूलम् - विस्वरम्
अथेतरं वायुर्व्यवात् । तदस्वदयत् । ततो ऽलमाहुत्या आस, अलं भक्षाय । तस्मादेतानि नानादेवत्यानि सन्ति वायव्यानीत्याचक्षते । सो ऽस्यैष प्रथमवषट्कारश्च सोमस्य राज्ञः । एतान्यु ऽएनेन पात्राण्याचक्षते ॥ १० ॥
सायणः
अनन्तरमपनीताद्गन्धात् ‘इतरं’ स्थितं सोमं ‘वायुर्व्यवात्’ स यथा विशिष्टरसगन्धादियुक्तो भवति तथा व्याप्नोत् । “वा गतिगन्धनयोः”- (धा. पा. अ. प. ४०) इति । तेन च तं सोमं देवानां स्वादुमकरोत् । ततश्च स सोमो होमाय हुतशिष्टभक्षणाय च शक्यो जातः । यतो वृत्रविनाशविषयप्रियवार्त्ताकथनेन सोमस्य स्वादूकरणेन च लब्धवरद्वयो वायुः, ‘तस्मात्’ हेतोः ‘एतानि’ पात्राणि देवतार्थतया तत्तद्देवैश्च व्यपदेशमर्हन्ति ‘सन्ति’ अपि वायोर्दत्तवरतया ‘वायव्यानि’ इत्युच्यन्ते । ‘स एषः’ इदानीं क्रियमाणः ‘प्रथमवषट्कारश्च’ ‘अस्य’ वायोरेव जातो- न केवलं तत्तद्देवैः सोमग्रहणार्थतया सोमेन व्यपदेशार्हाण्यपि सन्ति तानि ‘पात्राणि’ च तेन वायुनैव वायव्यानीत्याचक्षते याज्ञिकाः । छन्दसि लुङ्लङ्लिटः”- (पा. सू. ३ । ४ । ६)- इति वर्त्तमाने लट् । एवं वायोः प्रथमवषट्काररूपवरलाभादयं ग्रहो वायव्यो ऽस्तु कथमिति ? चेत्, उच्यते- वायावेवं दत्तवरे ‘इन्द्रः’ ‘ईक्षांचक्रे’ पर्यालोचितवान् । अस्मदीये अमुष्मिन् पक्षे वायोर्वा जुह्वातं यदस्मासु ज्यायस्सु स्थितेषु यस्य वायोः कनीयसः प्रथमो भागः । अस्मन्नामान्यपनीय पात्राणामपि वायव्यानीति वायुनाम्ना व्यपदेशश्चेति तर्हि किं कर्तव्यमिति कर्तव्यार्थोपलम्भनिबन्धनो हर्षो ‘हन्त’ इति । यदि नाम ऐन्द्राग्ने अग्निना सह भागो ऽस्ति । यद्यपि चोक्थ्यमरुत्वतीयादौ ममैवासाधारणो भागो ऽस्ति । तथा ऽपि त्वं तेभ्यो ऽन्यं भागम् अस्मिन् प्रथमग्रहे ऽपि अहं ‘इच्छै’ इच्छतेर्व्यत्ययेनात्मनेपदे लोडुत्तमैकवचनम् ॥ १० ॥ ११ ॥
Eggeling
- Then Vāyu blew a second time through him and thereby made him palatable; whereupon he was fit for offering and fit for drinking. Hence those (vessels), though belonging to various deities, are called ‘vāyavya (Vāyu’s vessels) 7.’ His (Vāyu’s) is that first Vashaṭ of king Soma, and, moreover, those vessels are named after him.
११
विश्वास-प्रस्तुतिः
(त इ᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षां᳘चक्रे॥
व्वायुर्वै᳘ नो ऽस्य᳘ यज्ञ᳘स्य भूयिष्ठभाग्य᳘स्य प्रथमवषट्कार᳘श्च सो᳘मस्य रा᳘ज्ञ एता᳘न्यु ऽएनेन पा᳘त्राण्या᳘चक्षते ह᳘न्तास्मि᳘न्नपित्व᳘मिच्छा ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त इ᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षां᳘चक्रे॥
व्वायुर्वै᳘ नो ऽस्य᳘ यज्ञ᳘स्य भूयिष्ठभाग्य᳘स्य प्रथमवषट्कार᳘श्च सो᳘मस्य रा᳘ज्ञ एता᳘न्यु ऽएनेन पा᳘त्राण्या᳘चक्षते ह᳘न्तास्मि᳘न्नपित्व᳘मिच्छा ऽइ᳘ति॥
मूलम् - Weber
इ᳘न्द्रो ह वा᳘ ईक्षां᳘ चक्रे॥
वायुर्वै᳘ नो ऽस्य᳘ यज्ञ᳘स्य भूयिष्ठभाग्य᳘स्य प्रथमवषट्कार᳘श्च सो᳘मस्य रा᳘ज्ञ एता᳘न्यु एनेन पा᳘त्राण्या᳘चक्षते ह᳘न्तास्मि᳘न्नपित्व᳘मिछा इ᳘ति॥
मूलम् - विस्वरम्
इन्द्रो ह वा ऽईक्षांचक्रे- वायुर्वै नो ऽस्य यज्ञस्य भूयिष्ठभाक्- यस्य प्रथमवषट्कारश्च सोमस्य राज्ञः । एतान्यु ऽएनेन पात्राण्याचक्षते, हन्तास्मिन्नपि त्वमिच्छा ऽइति ॥ ११ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- Indra then thought within himself:–‘Vāyu, forsooth, has the largest share of this our sacrifice, since his is the first Vashaṭ of king Soma, and, moreover, those vessels are named after him: nay, but I, too, will desire a share therein!’
१२
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
व्वा᳘यवा᳘ मा ऽस्मिन्ग्र᳘हे भजे᳘ति किं त᳘तः स्यादि᳘ति नि᳘रुक्तमेव व्वा᳘ग्वदेदि᳘ति नि᳘रुक्तं चेद्वाग्व᳘देदा᳘ त्वा भजामी᳘ति त᳘त एष᳘ ऐन्द्रवायवो ग्र᳘हो ऽभवद्वाय᳘व्यो हैव त᳘तः पुरा[[!!]]॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
व्वा᳘यवा᳘ मा ऽस्मिन्ग्र᳘हे भजे᳘ति किं त᳘तः स्यादि᳘ति नि᳘रुक्तमेव व्वा᳘ग्वदेदि᳘ति नि᳘रुक्तं चेद्वाग्व᳘देदा᳘ त्वा भजामी᳘ति त᳘त एष᳘ ऐन्द्रवायवो ग्र᳘हो ऽभवद्वाय᳘व्यो हैव त᳘तः पुरा[[!!]]॥
मूलम् - Weber
स᳘ होवाच॥
वा᳘यवा᳘ मास्मिन्ग्र᳘हे भजे᳘ति किं त᳘तः स्यादि᳘ति नि᳘रुक्तमेव वा᳘ग्वदेदि᳘ति नि᳘रुक्तं चेद्वाग्व᳘देदा᳘ त्वा भजामी᳘ति त᳘त एष᳘ ऐन्द्रवायवो ग्र᳘हो ऽभवद्वायॗव्यो हैव त᳘तः पुरा᳟॥
मूलम् - विस्वरम्
स होवाच- वायो ! आ मा ऽस्मिन्ग्रहे भजेति । किं ततः स्यादिति । निरुक्तमेव वाग्वदेदिति । निरुक्तं चेद्वाग्वदेद्- आ त्वा भजामीति । तत एष ऐन्द्रवायवो ग्रहो ऽभवत् । वायव्यो हैव ततः पुरा ॥ १२ ॥
सायणः
इत्थमिच्छित्वा च ‘सः’ इन्द्रः हे वायो ! ‘ग्रहे’ ‘मा’ मां ‘भज’ मम भागं देहीति ‘उवाच’ । ‘ततः’ तव भागप्रदानान्मम ‘किं’ फलं स्यादिति च वायुनोक्ते वरमिन्द्रो ददौ । ‘निरुक्तमेव वाग्वदेत्’ इति । तं च वरं वायावङ्गीकुर्वति सति तद्वरप्रदानात् पूर्वं वायुदेवत्यो ऽपि ‘ग्रहः’ इन्द्रसम्बन्धेन ‘ऐन्द्रवायवः अभवत्’ । ‘निरुक्तं’ नाम निःशेषमुक्तं विस्पष्टमित्यर्थः । अत एव देवताविशेषरूपस्यार्थस्याप्रत्यायनेनाविस्पष्टाया ऋचः प्राजापत्यत्वमन्यत्र श्रूयते्-”अनिरुक्तया प्राजापत्यया गृह्णाति” इति । अथवा परा, पश्यन्ती, मध्यमा, वैखरी, इत्येवं चतुरवस्था वागवतिष्ठते । तत्र पूर्वस्मिन् वागवस्थाभेदे उत्तरोत्तरस्याभावात् सावशेषत्वम् । वैखर्यां तु परादीनां तिसृणामपि संग्रहेण निःशेषत्वान्निरुक्तत्वम् ॥ १२ ॥
Eggeling
- He said, ‘Vāyu, let me share in this cup!’–‘What will then be?’–‘Speech shall speak intelligibly 8!’–‘If speech will speak intelligibly, then will I let thee share!’ Thus that cup henceforward belonged to Indra and Vāyu, but theretofore it belonged to Vāyu alone.
१३
विश्वास-प्रस्तुतिः
स इ᳘न्द्रो ऽब्रवीत्॥
(द) अर्धं᳘ मे ऽस्य ग्र᳘हस्ये᳘ति तु᳘रीयमेव᳘ त ऽइ᳘ति व्वायु᳘रर्ध᳘मेव᳘ म ऽइती᳘न्द्रस्तु᳘रीयमेव᳘ त ऽइ᳘ति व्वायुः[[!!]]॥ [अर्धप्रपाठकः॥६८ कंडिकाः]॥
मूलम् - श्रीधरादि
स इ᳘न्द्रो ऽब्रवीत्॥
(द) अर्धं᳘ मे ऽस्य ग्र᳘हस्ये᳘ति तु᳘रीयमेव᳘ त ऽइ᳘ति व्वायु᳘रर्ध᳘मेव᳘ म ऽइती᳘न्द्रस्तु᳘रीयमेव᳘ त ऽइ᳘ति व्वायुः[[!!]]॥ [अर्धप्रपाठकः॥६८ कंडिकाः]॥
मूलम् - Weber
स इ᳘न्द्रो ऽब्रवीत्॥
अर्ध᳘म् मे ऽस्य ग्र᳘हस्ये᳘ति तु᳘रीयमेव᳘ त इ᳘ति वायु᳘रर्ध᳘मेव᳘ म इती᳘न्द्रस्तु᳘रीयमेव᳘ त इ᳘ति वायुः᳟॥
मूलम् - विस्वरम्
स इन्द्रो ऽब्रवीत्- अर्धं मे ऽस्य ग्रहस्येति । तुरीयमेव त ऽइति वायुः । अर्धमेव म ऽइतीन्द्रः । तुरीयमेव त ऽइति वायुः ॥ १३ ॥
सायणः
प्रजापतिकृते ऐन्द्रवायवे इन्द्रवाय्वोर्विवादपूर्वकमिन्द्रस्य चतुर्थांशभाक्त्वं तुरीयशब्दार्थं चाह- स इन्द्र इत्यादि । ‘अर्धम्’ इत्यादिनोभयोर्विवादः । एवं विवदमाना इन्द्रवायू प्रजापतिं पृच्छाव इति तत्समीपमगमताम् । ‘सः’ च ‘प्रजापतिः’ तं ‘ग्रहं’ विभज्य ‘इन्द्रं’ चतुर्थेनांशेन भागिनमकरोत्, अवशिष्टेन तु वायुम् । ‘तुरीयम्’ इति चतुर्थमित्यर्थः । “चतुरश्छयतावाद्यक्षरलोपश्च”- (पा. सू. ५ । २ । ५१ वा.) इति छप्रत्यये आदिवर्णलोपे च तुरीयशब्दव्युत्पत्तेः ॥ १३ ॥ १४ ॥
Eggeling
- Indra said, ‘One half of this cup is mine!’–‘Only one fourth is thine!’ said Vāyu.–‘One half is mine!’ said Indra.–‘Only one fourth is thine!’ said Vāyu.
१४
विश्वास-प्रस्तुतिः
तौ᳘ प्रजा᳘पतिं प्रति प्रश्नमे᳘यतुः॥
स᳘ प्रजा᳘पतिर्ग्र᳘हं द्वेधा᳘ चकार स᳘ होवाचेदं᳘ व्वायोरित्य᳘थ पु᳘नरर्धं᳘ द्वेधा᳘ चकार स᳘ होवाचेदं᳘ व्वायोरि᳘तीदं तवेती᳘न्द्रं तु᳘रीयमे᳘व᳘ भाजयां᳘चकार यद्वै च᳘तुर्थं तत्तु᳘रीयं त᳘त एष᳘ ऐन्द्रतुरीयो ग्र᳘हो ऽभवत्॥
मूलम् - श्रीधरादि
तौ᳘ प्रजा᳘पतिं प्रति प्रश्नमे᳘यतुः॥
स᳘ प्रजा᳘पतिर्ग्र᳘हं द्वेधा᳘ चकार स᳘ होवाचेदं᳘ व्वायोरित्य᳘थ पु᳘नरर्धं᳘ द्वेधा᳘ चकार स᳘ होवाचेदं᳘ व्वायोरि᳘तीदं तवेती᳘न्द्रं तु᳘रीयमे᳘व᳘ भाजयां᳘चकार यद्वै च᳘तुर्थं तत्तु᳘रीयं त᳘त एष᳘ ऐन्द्रतुरीयो ग्र᳘हो ऽभवत्॥
मूलम् - Weber
तौ᳘ प्रजा᳘पतिम् प्रतिप्रश्नमे᳘यतुः॥
स᳘ प्रजा᳘पतिर्ग्र᳘हं द्वेधा᳘ चकार स᳘ होवाचेदं᳘ वायोरित्य᳘थ पु᳘नरर्धं᳘ द्वेधा᳘ चकार स᳘ होवाचेदं᳘ वायोरि᳘तीदं तवेती᳘न्द्र तु᳘रीयमेव᳘ भाजयां᳘ चकार यद्वै च᳘तुर्थं तत्तु᳘रीयं त᳘त एष᳘ ऐन्द्रतुरीयो ग्र᳘हो ऽभवत्॥
मूलम् - विस्वरम्
तौ प्रजापतिं प्रति प्रश्नमेयतुः । स प्रजापतिर्ग्रहं द्वेधा चकार । स होवाच इदं वायोरिति । अथ पुनरर्द्धं द्वेधा चकार । स होवाच- इदं वायोरिति, इदं तवेति । इन्द्रं तुरीयमेव भाजयाञ्चकार । यद्वै चतुर्थं तत्तुरीयम् । तत एष ऐन्द्रतुरीयो ग्रहो ऽभवत् ॥ १४ ॥
सायणः
[व्याख्यानं त्रयोदशे]
Eggeling
- They went to Prajāpati for his decision. Prajāpati divided the cup (of Soma) into two parts and said, ‘This (half) is Vāyu’s!’ Then he divided the (other) half into two parts and said, ‘This is Vāyu’s!–This is thine!’ then he assigned to Indra a fourth part for his share–one fourth is the same as a quarter: henceforward that cup belonged, one fourth of it, to Indra.
१५
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘स्य वा᳘ ऽएत᳘स्य ग्र᳘हस्य॥
द्वे᳘ पुरोरु᳘चौ व्वाय᳘व्यैव पू᳘र्वैन्द्रवायव्यु᳘त्तरा द्वे᳘ ऽअनुवा᳘क्ये व्वाय᳘व्यैव पू᳘र्वैन्द्रवायव्यु᳘त्तरा द्वौ᳘ प्रैषौ᳘ व्वाय᳘व्य एव पू᳘र्व ऐन्द्रवायव उ᳘त्तरो द्वे᳘ या᳘ज्ये वाय᳘व्यैव पू᳘र्वैन्द्रवायव्यु᳘त्तरैव᳘मेनं तु᳘रीयं तुरीयमेव᳘ भाजयां᳘चकार॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘स्य वा᳘ ऽएत᳘स्य ग्र᳘हस्य॥
द्वे᳘ पुरोरु᳘चौ व्वाय᳘व्यैव पू᳘र्वैन्द्रवायव्यु᳘त्तरा द्वे᳘ ऽअनुवा᳘क्ये व्वाय᳘व्यैव पू᳘र्वैन्द्रवायव्यु᳘त्तरा द्वौ᳘ प्रैषौ᳘ व्वाय᳘व्य एव पू᳘र्व ऐन्द्रवायव उ᳘त्तरो द्वे᳘ या᳘ज्ये वाय᳘व्यैव पू᳘र्वैन्द्रवायव्यु᳘त्तरैव᳘मेनं तु᳘रीयं तुरीयमेव᳘ भाजयां᳘चकार॥
मूलम् - Weber
त᳘स्य वा᳘ एत᳘स्य ग्र᳘हस्य॥
द्वे᳘ पुरोरु᳘चौ वायॗव्यैव एव पू᳘र्व ऐन्द्रवायव उ᳘त्तरो द्वे᳘ अनुवाॗक्ये वायॗव्यैव पू᳘र्वैन्द्रवायव्यु᳘त्तरा द्वौ᳘ प्रैषौ᳘ वायव्य᳘ एव पू᳘र्व ऐन्द्रवायव उ᳘त्तरो द्वे᳘ याॗज्ये वायॗव्यैव पू᳘र्वैन्द्रवायव्यु᳘त्तरैव᳘मेनं तु᳘रीयं तुरीयमेव᳘ भाजयां᳘ चकार॥
मूलम् - विस्वरम्
तस्य वा ऽएतस्य ग्रहस्य द्वे पुरोरुचौ- वायव्यैव पूर्वा, ऐन्द्रवायव्युत्तरा । द्वे ऽअनुवाक्ये- वायव्यैव पूर्वा, ऐन्द्रवायव्युत्तरा । द्वौ प्रैषौ- वायव्य एव पूर्वः, ऐन्द्रवायव उत्तरः । द्वे याज्ये- वायव्यैव पूर्वा, ऐन्द्रवायव्युत्तरा । एवमेनं तुरीयं तुरीयमेव भाजयाञ्चकार ॥ १५ ॥
सायणः
इन्द्रवाय्वोः स्वकीयग्रहभागानुसारेण ग्रहाङ्गभूतानामपि मन्त्राणां विभागमाह- तस्य वा ऽएतस्येत्यादि । पुरोरुचाविति । “उपयामगृहीतो ऽसि” (श. प. ४ । १ । २ । १५) इत्यस्मात् पूर्वं ग्रहप्रशंसया तद्विषयां रुचिं देवतायै करोतीति पुरोरुक् । ण्यन्तात् क्विप् (पा. सू. ३ । २ । ७६), णिलोपे (पा. सू. ६ । ४ । ९१) “संज्ञापूर्वको विधिरनित्यः”- इति गुणो न भवति । अथवा अन्तर्भावितण्यर्थात् क्विपि रूपम् । पुरोरुगादीनां पूर्वा वायव्या एव, उत्तरास्त्वैन्द्रवायवा इति सर्वत्रेन्द्रस्य चतुर्थांशभाक्त्वमेव जातम् ॥ १५ ॥
Eggeling
- Now with this libation there are two puroruc 9–formulas,–the first belonging to Vāyu alone, and the second to Indra and Vāyu; and two invitatory prayers (anuvākyā),–the, first to Vāyu alone, and the second to Indra and Vāyu; and two praisha (directions),–the first belonging to Vāyu alone, and the second to Indra and Vāyu; and two offering prayers (yājyā),–the first to Vāyu alone, and the second to Indra and Vāyu: thus he assigns to him (Indra) each time a fourth part for his share.
१६
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
तु᳘रीयं तुरीयं चेन्माम᳘बीभजुस्तु᳘रीयमेव त᳘र्हि व्वाङ्नि᳘रुक्तं व्वदिष्यती᳘ति त᳘देतत्तु᳘रीयं व्वाचो ऽनि᳘रुक्तं य᳘न्मनु᳘ष्या व्व᳘दन्त्य᳘थैतत्तु᳘रीयं व्वाचो᳘ ऽनिरुक्तं य᳘त्पश᳘वो व्व᳘दन्त्य᳘थैतत्तु᳘रीयं व्वाचो᳘ ऽनिरुक्तं यद्व᳘याᳫंसि व्व᳘दन्त्य᳘थै᳘तत्तु᳘रीयं व्वाचो᳘ ऽनिरुक्तं य᳘दिदं᳘ क्षुद्र᳘ᳫं᳘ सरीसृपं व्व᳘दति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
तु᳘रीयं तुरीयं चेन्माम᳘बीभजुस्तु᳘रीयमेव 10 त᳘र्हि व्वाङ्नि᳘रुक्तं व्वदिष्यती᳘ति त᳘देतत्तु᳘रीयं व्वाचो ऽनि᳘रुक्तं य᳘न्मनु᳘ष्या व्व᳘दन्त्य᳘थैतत्तु᳘रीयं व्वाचो᳘ ऽनिरुक्तं य᳘त्पश᳘वो व्व᳘दन्त्य᳘थैतत्तु᳘रीयं व्वाचो᳘ ऽनिरुक्तं यद्व᳘याᳫंसि व्व᳘दन्त्य᳘थै᳘तत्तु᳘रीयं व्वाचो᳘ ऽनिरुक्तं य᳘दिदं᳘ क्षुद्र᳘ᳫं᳘ सरीसृपं व्व᳘दति॥
मूलम् - Weber
स᳘ होवाच॥
तु᳘रीयंतुरीयं चेन्माम᳘बीभजुस्तु᳘रीयमेव त᳘र्हि वाङ्नि᳘रुक्तं वदिष्यती᳘ति त᳘देतत्तु᳘रीयं वाचो नि᳘रुक्तं य᳘न्मनुॗष्या व᳘दन्त्य᳘थैतत्तु᳘रीयं वाचो᳘ ऽनिरुक्तं य᳘त्पश᳘वो व᳘दन्त्य᳘थैतत्तु᳘रीयं वाचो᳘ ऽनिरुक्तं यद्व᳘यांसि व᳘दन्त्य᳘थैतत्तु᳘रीयं वाचो᳘ ऽनिरुक्तं य᳘दिदं᳘ क्षुद्र᳘ᳫं᳘ सरीसृपं व᳘दति॥
मूलम् - विस्वरम्
स होवाच- तुरीयं तुरीयं चेन्मामबीभजुः- तुरीयमेव तर्हि वाङ्निरुक्तं वदिष्यतीति । तदेतत्तुरीयं वाचो ऽनिरुक्तम्- यन्मनुष्या वदन्ति । अथैतत्तुरीयं वाचो ऽनिरुक्तम्- यत्पशवो वदन्ति । अथैतत्तुरीयं वाचो ऽनिरुक्तम्- यद्वयांसि वदन्ति । अथैतत्तुरीयं वाचो ऽनिरुक्तम्- यदिदं क्षुद्रं सरीसृपं वदति ॥ १६ ॥
सायणः
स्वकीयग्रहादिभागानुसारेण वाचश्चतुर्थमेव निरुक्तं स्यादित्याह- स होवाचेत्यादि । ग्रहादौ सर्वत्र चतुर्थभागस्यैव मदीयत्वाद्वागपि चतुर्थभागमेव भागं विस्पष्टं वदिष्यति । वाचो विस्पष्टिश्चतुर्थे भागे वैखरीं वदत इत्यर्थः । परा-पश्यन्ती-मध्यमा-वैखरीत्येवं चतुरवस्था वागवतिष्ठते । तत्र परादीनां तिसृणां देहमध्य एवावस्थानेन परश्रोत्रग्रहणयोग्यताभावादविस्पष्टार्थत्वम् । वैखरी पुनः परश्रोत्रैर्गृह्यते ऽतिवाहितार्थप्रत्यये च समर्था भवति- इति विस्पष्टेत्यर्थः । ‘अबीभजन्’ भजतेर्ण्यन्ताल्लुङि चङि रूपम् । यत इन्द्रेण वैखर्यात्मकं वायुमनु जातम् तदिदानीं मनुष्यादिभिस्तदेव व्यवह्रियत इत्याह- तदेतत्तुरीयमित्यादिना । मनुष्यादय इदानीं यद्वाग्रूपं वदन्ति तदिन्द्रेणाभ्यनुज्ञानं विस्पष्टं चतुर्थं वाग्रूपमित्यर्थः । क्षुद्रँ सरीसृपमिति । पुनः पुनस्तानेव गच्छदन्यत् प्राणिजातमित्यर्थः। सरीसृपमिति । सृपेरचि ‘यङो ऽचि च’ (पा. सू २ । ६ । ७४) इति यङो लुक् । “सन्यङोः” (पा. सू ६ । १ । ९) इति द्विर्वचनम् । उपधादिकाय “रुग्रिकौ च लुकि” (प. सू. ७। ४। ९१) इति रीगागमः । अन्यापेक्षया गुणे प्राप्ते- ”न धातुलोप आर्द्धधातुके” (प. सू १ । १ । ४) इति प्रतिषेधः ॥ १६ ॥
Eggeling
- He said, ‘If they have assigned to me a fourth part each time for my share, then speech shall speak intelligibly only one fourth part!’ Hence only that fourth part of speech is intelligible which men speak; but that fourth part of speech which beasts speak is unintelligible; and that fourth part of speech which birds speak is unintelligible; and that fourth part of speech which the small vermin here speaks is unintelligible.
१७
विश्वास-प्रस्तुतिः
त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
(ञ्च) चत्वा᳘रि व्वाक्प᳘रिमिता पदा᳘नि ता᳘नि व्विदुर्ब्राह्मणा ये᳘ मनीषि᳘णः। गु᳘हा त्री᳘णि नि᳘हिता᳘ नेङ्गयन्ति तुरी᳘यं व्वाचो᳘ मनु᳘ष्या वदन्तीति[[!!]]॥
मूलम् - श्रीधरादि
त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
(ञ्च) चत्वा᳘रि व्वाक्प᳘रिमिता पदा᳘नि ता᳘नि व्विदुर्ब्राह्मणा ये᳘ मनीषि᳘णः। गु᳘हा त्री᳘णि नि᳘हिता᳘ नेङ्गयन्ति तुरी᳘यं व्वाचो᳘ मनु᳘ष्या वदन्तीति[[!!]]॥
मूलम् - Weber
त᳘स्मादेतदृ᳘षीणाभ्य᳘नूक्तम्॥
चत्वा᳘रि वाक्प᳘रिमिता पदा᳘नि ता᳘नि विदुर्ब्राह्मणा ये᳘ मनीषि᳘णः गु᳘हा त्री᳘णि नि᳘हिताॗ नेङ्गयन्ति तुरी᳘यं वाचो᳘ मनुॗष्या वदन्ती᳘ति 11 ॥
मूलम् - विस्वरम्
तस्मादेतदृषिणा ऽभ्यनूक्तम्- ”चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥” इति 10 ॥ १७॥
सायणः
उक्ते ऽर्थे मन्त्रसंवादं दर्शयति- तस्मादेतदित्यादि । इन्द्रो वाचश्चतुर्थभागं विस्पष्टमन्वजानात् । तस्मादेतदुक्तमर्थरूपमनुसृत्य ‘ऋषिणा’ मन्त्रेणैवमुक्तन् । वाचः ‘पदानि’ परापश्यन्तीत्यादयो ऽवस्थाभेदाः चत्वारि ‘परिमिता’ परिमितानि यतः चत्वारि अतः परिच्छिन्नानीत्यर्थः । अथवा ‘वाक्’- पारमितानि ‘चत्वारि’ ‘पदानि’ परिच्छिन्नपराद्यवस्थाभेदरूपचतुष्पदात्मिका । पूर्वस्मिन् पक्षे- ”सुपां सुलुक्” (पा. सू. ७ । १ । ३९) इत्यादिना षष्ठ्या लुकि सति वागित्येतद्रूपं भवति । “परिमिता” इति “शेश्छन्दसि बहुलम्” (पा. सू. ६ । १ । ७०) इति (अमादेशस्य) शेर्लोपः । ‘ये’ मनीषिणः विद्वांसस्ते ‘ब्राह्मणाः’ ‘तानि’ वाचः पदानि जानन्ति । ‘मनीषिणः’ इति व्रीह्यादित्वादिनिः (पा. सू. ५ । २ । ११६) अथवा “शिखादिभ्य इनिर्वाच्यः" इति । तेषां मध्ये ‘त्रीणि’ पदानि पराद्यवस्थाभेदरूपाणि शरीरमध्यरूपायां गुहायां निहितानि ‘नेङ्गयन्ति’ न चेष्टन्ते न विस्पष्टीभवन्तीत्यर्थः । गुहेति पूर्ववत् “सुपामिति” (पा. सू. ७ । १ । ३९) सप्तम्या लुक् । आकारादेशो वा । चतुर्थमेव रूपं वैखर्यात्मकमिदानीं मनुष्या वदन्ति । मनुष्या इत्येतत् पश्वादीनामप्युपलक्षणार्थम् । पश्वादयो ऽपि चतुर्थं वाग्रूपं वदन्तीति ॥ १७ ॥
Eggeling
- Wherefore it has been thus spoken by the R̥shi (Rig-veda I, 164, 45):–‘Four are the measured grades of speech; the Brāhmans that are wise know them: three, deposited in secret, move not; the fourth grade of speech men speak.’
१८
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वा᳘) आ᳘ वायो भूष शुचिपा उ᳘प नः सह᳘स्रं ते नियु᳘तो व्विश्ववार। उ᳘पो ते ऽअ᳘न्धो म᳘द्यमयामि य᳘स्य देव दधिषे᳘ पूर्वपे᳘यं व्वाय᳘वे त्वेति[[!!]]॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो गृह्णा᳘त्येव[[!!]]॥
(वा᳘) आ᳘ वायो भूष शुचिपा उ᳘प नः सह᳘स्रं ते नियु᳘तो व्विश्ववार। उ᳘पो ते ऽअ᳘न्धो म᳘द्यमयामि य᳘स्य देव दधिषे᳘ पूर्वपे᳘यं व्वाय᳘वे त्वेति[[!!]]॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
आ᳘ वायो भूष शुचिपा उ᳘प नः सह᳘स्रं ते नियु᳘तो विश्ववार उ᳘पो ते अ᳘न्धो म᳘द्यमयामि य᳘स्य देव दधिषे᳘ पूर्वपे᳘यं वाय᳘वे त्वे᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव । “आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते ऽअन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम्- वायवे त्वा”- (वा. सं. ७ । ७) इति ॥ १८ ॥
सायणः
इत्थमाख्यायिकया ग्रहस्य देवतादिकं प्रदर्श्य तस्य समन्त्रकं ग्रहणसंस्कारं विधत्ते- अथात इत्यादि 12 । ‘अथातः’ इत्यनेनान्तर्यामग्रहानन्तर्यं द्योत्यते । प्रकृतत्वादैन्द्रवायवं ग्रहम् “आ वायो भूष” इत्यादिना गृह्णीयात् । एतन्मत्रकरणकेन ग्रहणेन सोमं संस्कुर्यादित्यर्थः । नन्वत्र ग्रहणवाक्ये द्रव्यदेवतासम्बन्धदर्शनाद्यागविधायकत्वं प्रतीयते । यथा “यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां वा” (तै. सं. २। ६ । ३) इति तत्कुतः संस्कारो विधीयत इति । न “सोमेन यजेत” इत्यनेनैव यागस्य विहितत्वात् । ननु “यदाग्नेय” इत्यादिभिर्वाक्यैर्विहितानां यागानां यथा विद्वद्वाक्यमनुवादकं, तथा ग्रहणवाक्यविहितानां यागानामेतत् “सोमेन्” इत्यादि वाक्यमनुवादकं भविष्यतीति चेत् (न) अनुवादासम्भवात् । सति हि पुरोवादे ऽनुवादः सम्भवति । न चात्र पुरोवादो ऽस्ति सोमेन यजेतेत्यनेन प्रतीतस्यार्थस्य ग्रहणवाक्येष्वप्रतीतेः । न हि ग्रहणं यजनं भवति नापि तद्धितप्रत्ययोक्तो रसः सोमलता । न च वाच्यं सर्वनामार्थे विहितस्तद्धितः प्रकृतं ब्रूते, न तु रसमिति । “अन्तः पवित्राद्गृह्णाति” इति रसस्यैव प्रकृतत्वात् । अतो ऽनुवादसम्भवात् सोमेनत्येतस्य विधायकत्वम् । विहिते तु तस्मिन् आग्नेयादिवाक्यानि तु संस्कारस्य विधायकानि “यदाग्नेयो ऽष्टाकपालः” इत्यादिषु तु वाक्येषु द्रव्यदेवतासम्बन्धान्यथानुपपत्त्या यागः कल्प्यत इति पुरोवादसम्भवाद्विद्वद्वाक्यमनुवादकं भवति । न चैवं व्यत्यासेन विद्वद्वाक्यं यागस्य विधायकम् । विहिते तस्मिन् आग्नेयादिवाक्यानि गुणविधायकानीति शंकनीयम् । विहितयागानुवादेन नानागुणविधाने वाक्यभेदप्रसङ्गात् । तथा चोक्तम् “प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः” (तंत्र वार्तिक अ. ३) इति ॥ तस्मादनेन ग्रहणवाक्येन सोमरसस्य देवताविशिष्टो ग्रहणसंस्कारो विधीयते ॥ नन्वेवमपि ग्रहणस्य गुणकर्मत्वं न सम्भवति गुणकर्मलक्षणरहितत्वात्, प्रधानकर्मलक्षणयुक्तत्वाच्च । तथा हि सूत्रकृता कर्म्मणां भेदस्तल्लक्षणं च सूत्रितम्- ”तानि द्वैधं गुणप्रधानभूतानि । यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयते, तस्य द्रव्यप्रधानत्वात् । यैस्तु द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात्” इति । यैः कर्मभिर्द्रव्यं चिकीर्ष्यते उत्पादयितुं संस्कर्तुं चेष्यते तानि गुणकर्म्माणि । यैस्तु न तथा क्रियते तानि प्रधानकर्माणि । तथा च सति यूपं भक्षतीत्यादौ यूपादिकस्योत्पादयितुमिष्टत्वात् व्रीहीनवहन्तीत्यादौ व्रीह्यादिकस्य संस्कर्तुमिष्टत्वाद् गुणकर्मत्वम् । प्रयाजादिषूक्तवैपरीत्यात्, प्रयाजादिवत् प्रधानकर्मत्वम् । एवं च सत्यवघातेन यथा व्रीहीणां तुषविमोको दृष्टः संस्कारः तथा ग्रहणेन सोमरसे न कश्चिद्विशेष उत्पद्यते, अतो ऽवघातवैषम्यात्प्रयाजादिवत्प्रधानकर्मत्वमिति चेन्न । “ऐन्द्रवायवम्" इति द्वितीया कर्मकारके विहिता । कर्मत्वं चेप्सिततमत्वे भवति, “कर्तुरीप्सिततमं कर्म" (पा० सू० १ । ४ । ४९) इति कर्मसंज्ञाविधानात् । अस्ति च सोमरसस्येप्सिततमत्वं, यागसाधनत्वात् । अतः सोमरसः प्रधानभूतः । तथा सति ग्रहणक्रियाया गुणकर्मत्वमवघातवत्संसिद्धम् । एवं सर्वत्र द्रष्टव्यं ग्रहणवाक्येषु । ग्रहणमन्त्रस्त्वेवमाम्नायते- आ वायविति । यदि सोमरसे दृष्टो ऽतिशयो न स्यात्, तर्ह्यपूर्वं कल्पनीयम्, तस्माद् ग्रहणस्य गुणकर्मत्वम् । हे ‘वायो !’ ‘शुचिपाः’ शुद्धस्य सोमस्य पातः ‘नः’ अस्माकं समीपे ‘आभूष’ अलंकुरु “भूष अलङ्कारे” (धा. भ्वा. वा. प. ६८ । ३) हे विश्वत्य व्यापक ! ‘ते’ तत्र सहस्रसंख्याः नियुतो (निघं. १ । १५ । ८) वाहनानि सन्ति, तादृशस्य च तव सम्बन्धि मदनीयं- “गदमदचरयमश्चानुपसर्गे”- (पा. सू. ३ । १ । १००) इति यत् । ‘अन्धः’ अन्नं सोमरसात्मकम् । ‘उपो’ उप ‘अयामि’ उपगमयामि । ‘अय गतौ’ (भ्वा. प. ४७६)- हे ‘देव !’ द्योतमान वायो ! यस्य सोमस्य ‘पूर्वपेयं’ ‘प्रथमवषट्कारलक्षणं प्रथमपानं ‘दधिषे’ धारयसि । “छन्दसि लुङ्लङ्लिटः" (पा. सू. ३ । ४ । ६) इति लिट् । हे सोमरस ! ‘त्वा वायवे’ गृह्णामीति मन्त्रस्यार्थः ॥ १८ ॥
Eggeling
- He now draws (the graha) from that (stream of Soma) 13, with (Vāj. S. VII, 7; Rig-veda VII, 92, I), ‘Come nigh to us, O Vāyu, sipping of
the pure (Soma)! Thine are a thousand steeds, O bestower of all boons! Unto thee hath been offered the gladdening juice whereof thou, O God, takest the first draught!–Thee for Vāyu!’
१९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थापगृ᳘ह्य पु᳘नरा᳘नयति॥
(ती᳘) इ᳘न्द्रवायू ऽइमे᳘ सुता उ᳘प प्र᳘योभिरा᳘गतम्। इ᳘न्द्रवो वामुश᳘न्ति हि[[!!]]। उपयाम᳘गृहीतो ऽसि व्वाय᳘व ऽइन्द्रवायु᳘भ्यां त्वैष᳘ ते यो᳘निः सजो᳘षोभ्यां त्वे᳘ति सादयति स यदा᳘ह सजो᳘षोभ्यां त्वे᳘ति यो वै᳘ व्वायुः स इ᳘न्द्रो य इ᳘न्द्रः स᳘ व्वायुस्त᳘स्मादाहैष᳘ ते यो᳘निः सजो᳘षोभ्यां त्वे᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थापगृ᳘ह्य पु᳘नरा᳘नयति॥
(ती᳘) इ᳘न्द्रवायू ऽइमे᳘ सुता उ᳘प प्र᳘योभिरा᳘गतम्। इ᳘न्द्रवो वामुश᳘न्ति हि[[!!]]। उपयाम᳘गृहीतो ऽसि व्वाय᳘व ऽइन्द्रवायु᳘भ्यां त्वैष᳘ ते यो᳘निः सजो᳘षोभ्यां त्वे᳘ति सादयति स यदा᳘ह सजो᳘षोभ्यां त्वे᳘ति यो वै᳘ व्वायुः स इ᳘न्द्रो य इ᳘न्द्रः स᳘ व्वायुस्त᳘स्मादाहैष᳘ ते यो᳘निः सजो᳘षोभ्यां त्वे᳘ति॥
मूलम् - Weber
अथापगृ᳘ह्य पु᳘नरा᳘नयति॥
इ᳘न्द्रवायू इमे᳘ सुता उ᳘प प्र᳘योभिरा᳘गतम् इ᳘न्द्रवो वामुश᳘न्ति हि᳘ उपयाम᳘गृहीतो ऽसि वाय᳘व इन्द्रवायु᳘भ्यां त्वैष᳘ ते यो᳘निः सजो᳘षोभ्यां त्वे᳘ति सादयति स यदा᳘ह सजो᳘षोभ्यां त्वे᳘ति यो वै᳘ वायुः स इ᳘न्द्रो य इ᳘न्द्रः स᳘ वायुस्त᳘स्मादाहैष᳘ ते यो᳘निः सजो᳘षोभ्यां त्वे᳘ति॥
मूलम् - विस्वरम्
अथापगृह्य पुनरानयति । “इन्द्रवायू ऽइमे सुता उप प्रयोभिरागतम् । इन्दवो वामुशन्ति हि । उपयामगृहीतो ऽसि वायव ऽइन्द्रवायुभ्यां त्वैष ते योनिः सजोषाभ्यां त्वा”- (वा० सं० ७ । ८) इति सादयति । स यदाह- सजोषोभ्यां वेति, यो वै वायुः स इन्द्रो य इन्द्रः स वायुः । तस्मादाह- एष ते योनिः सजोषोभ्यां त्वेति ॥ १९ ॥
सायणः
पुनर्ग्रहणं विधत्ते- अथेति 14 । वायव्यग्रहणानन्तरमपच्छिद्य पुनरपीन्द्रवायव्यम् ‘आनयति’ गृह्णीयादित्यर्थः । तत्र ग्रहणे मन्त्रः- ”इन्द्रवायू इमे सुता उप प्रयोभिरागतम् । इन्दवो वामुशन्ति हि, उपयामगृहीतो ऽसि वायव ऽइन्द्रवायुभ्यां त्वा” (वा. सं. ७ । ८)- इति । हे ‘इन्द्रवायू’ ! यस्मात् कारणात् ‘इमे’ सोमाः ‘सुताः’ अभिषुताः तस्माद्युवां ‘प्रयोभिः’ शीघ्रगामिभिरश्वैः समीपे ‘आगतम्’ आगच्छतम् । ‘प्रयोभिः’- इति- ”इण् गतौ”- (धा. पा. अ. प. ३५) इत्यस्मात् शतृप्रत्ययः । “व्यत्ययो बहुलम्”- (पा. सू. ३ । १ । ५८) इति हल्व्यत्ययेन तकारस्य सकारादेशः । रुत्वादिकार्ये कृते प्रपूर्वस्य रूपम् । ‘आगतम्’ इति- लोटि- “बहुलं छन्दसि”- (पा. सू. २ । ४ । ७३) इति शपो लुक् । अनुनासिकलोपः । किंच ‘इन्दवः’ सोमाः ‘वां’ युवाम् ‘उशन्ति’ कामयन्ते “वश कान्तौ”- (धा. पा. अ. प. ७०) युवयोरागमनमभिलषन्तीत्यर्थः । यस्मादुशन्ति अत आगतमिति सम्बन्धः । हे सोमरस ! उपयामेन दारुपात्रेण गृहीतो ऽसि ‘वायवे’ ‘इन्द्रवायुभ्यां’ ‘त्वा’ गृह्णामीति शेषः । अत्रापि वायव इत्येतस्य ग्रहणमस्मिन् ग्रहे इन्द्रस्य तुरीयांशभाक्त्वाभिप्रायेण । गृहीतस्य सोमरसस्य समन्त्रकं सादनं विधत्ते- एष त इत्यादिना । हे सोमरस ! ‘एषः’ खरप्रदेशः ‘तव’ स्थानम् अतो ऽत्र समानप्रीतिभ्यामिन्द्रवायुभ्यां ‘त्वा’ सादयामीति शेषः । व्याचष्टे- स यदाहेत्यादि । ‘स’ मन्त्रः सजोषोभ्याम् इति । आह इति यत्, तत्कारणमुच्यत इत्यर्थः । इन्द्रवाय्वोरेकस्मिन्नेव ग्रहे हविःस्वीकारादभिन्नत्वमुपचर्यते अत इन्द्रवाय्वोरभेदान्मन्त्रः- “सजोषोभ्याम्”- इति युक्तमाहेत्यभिप्राय: ॥ १९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकारो माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे प्रथमाध्याये तृतीयं ब्राह्मणम् ॥ (४ । १ । ३) ॥
Eggeling
- And, having withdrawn (the cup), he again fills it 15, with (Vāj. S. VII, 8; Rig veda I, 2, 4), ‘O Indra and Vāyu, here is Soma-juice: come ye hither for the refreshing draught, the drops long for you!–Thou art taken with a support 16!–Thee for Vāyu, for Indra and Vāyu!’–with ‘This is thy womb 17: thee for the closely united!’ he deposits (the cup). As to why he says, ‘Thee for the closely united,’–he who is Vāyu, is Indra; and he who is Indra, is Vāyu: therefore he says, ‘This is thy womb: thee for the closely united!’
-
265:1 That is, to Yajña’s body (madhyadeha, Sāy.) as distinguished from his limbs. The Petersb. Dict. takes adhyātmam in the sense of ‘in regard to the self (or person).’ See IV, 1, 4, 1, with note; IV, 2, 2, 1 seq. ↩︎
-
265:2 At I, 6, 2, 3; II, 2, 3, 9, I erroneously supplied a verb of motion with the particle ed, following the original interpretation in the Petersb. Dict. and Weber’s Ind. Stud. IX, 249. I now adopt the later explanation put forth in the ‘Nachträge.’ Professor Whitney, Amer. Journ. of Phil., III, p. 399, apparently draws from the same source. ↩︎
-
266:1 ‘As (those) wishing to take possession of their property, so did they seize upon him each for himself (evaṁ taṁ vyagr̥hṇata);’ Kāṇva text. The construction of our text is quite irregular. ↩︎
-
266:2 The dvidevatya grahas (libations belonging to two gods) at the morning Soma feast are the Aindra-vāyava (Indra and Vāyu), the Maitrā-varuṇa (Mitra and Varuṇa), and the Aśvina. ↩︎
-
266:3 That is, because of it, or away from it. Perhaps, however, it.. belongs to the next clause, ’therefore, even . . . .’ ↩︎
-
267:1 That is, in order to inhale as much of the strong smell of the Soma as possible (?). ↩︎
-
267:2 See p. 158, note 1. ↩︎
-
267:3 Or, articulately, distinctly (niruktam). ↩︎
-
268:1 Puroruc (lit. ‘fore-shining’) is the designation of the formulas preceding the Upayāma, ‘Thou art taken with a support, &c.’ ↩︎
-
see ऋक् १. १६४. ४५. ↩︎
-
ऐंद्रवायवं गृह्णात्यावायविति । का० श्रौ० सू० ९ । १२९ । ↩︎
-
268:2 See p. 256, note 1. ↩︎
-
अपगृह्य पुनरिंद्रवायू इति । का. श्रौ. सू. ९ । १३० ॥ ↩︎
-
269:1 When the cup is half-filled he withdraws it for a moment from the stream of Soma flowing from the Hotr̥’s cup into the Droṇakalaśa trough; after which he again holds it under to have it filled completely. For the shape of this cup, see IV, I, 5, 19. ↩︎
-
See IV, I, 2, 6, with note. ↩︎
-
See IV, i, 2, 9, with note. ↩︎