०१
विश्वास-प्रस्तुतिः
प्राणो᳘ ह वा᳘ ऽअस्योपाᳫंशु᳘॥
(र्व्या) व्यान᳘ उपाᳫं᳭शुस᳘वन उदान᳘ ए᳘वान्तर्यामः[[!!]]॥
मूलम् - श्रीधरादि
प्राणो᳘ ह वा᳘ ऽअस्योपाᳫंशु᳘॥
(र्व्या) व्यान᳘ उपाᳫं᳭शुस᳘वन उदान᳘ ए᳘वान्तर्यामः[[!!]]॥
मूलम् - Weber
प्राणो᳘ ह वा᳘ अस्योपांशु᳟॥
व्यान᳘ उपांशुस᳘वन उदान᳘ एॗवान्तर्यामः᳟॥
मूलम् - विस्वरम्
अन्तर्यामग्रहः ।
प्राणो ह वा ऽअस्योपांशुः, व्यान उपांशुसवनः, उदान एवान्तर्यामः ॥ १ ॥
सायणः
विधास्यमानस्य ग्रहस्य अन्तर्यामताव्युत्पादनायोदानतामन्तर्यामसहचारिणोरुपांशूपांशुसवनयोः प्राणव्यानात्मकत्वेन समर्थयते- प्राणो ह वा ऽअस्योपांशुरिति । उदानस्य प्राणव्यानसाहित्यवदुपांशूपांशुसवनसाहित्यादन्तर्यामस्योदानात्मकतेत्यर्थः ॥ १ ॥
Eggeling
- The Upāṁśu (graha), forsooth, is his out-breathing, the Upāṁśu-savana (stone) his through-breathing,
and the Antaryāma (graha) his in-breathing.
०२
विश्वास-प्रस्तुतिः
(मो᳘) अ᳘थ य᳘स्मादन्तर्यामो ना᳘म॥
यो वै᳘ प्राणः स᳘ उदानः स᳘ व्यानस्त᳘मे᳘वास्मिन्नेतत्प᳘राञ्चं प्राणं᳘ दधाति य᳘दुपाᳫं᳭शु᳘ गृह्णा᳘ति त᳘मे᳘वास्मिन्नेत᳘त्प्रत्य᳘ञ्चमुदानं᳘ दधाति य᳘दन्तर्यामं᳘ गृह्णा᳘ति᳘ सो ऽस्याय᳘मुदा᳘नो ऽन्त᳘रात्म᳘न्यतस्तद्य᳘दस्यै᳘षो ऽन्त᳘रात्म᳘न्यतो य᳘द्वैनेनेमाः᳘ प्रजा᳘ यतास्त᳘स्मादन्तर्यामो ना᳘म॥
मूलम् - श्रीधरादि
(मो᳘) अ᳘थ य᳘स्मादन्तर्यामो ना᳘म॥
यो वै᳘ प्राणः स᳘ उदानः स᳘ व्यानस्त᳘मे᳘वास्मिन्नेतत्प᳘राञ्चं प्राणं᳘ दधाति य᳘दुपाᳫं᳭शु᳘ गृह्णा᳘ति त᳘मे᳘वास्मिन्नेत᳘त्प्रत्य᳘ञ्चमुदानं᳘ दधाति य᳘दन्तर्यामं᳘ गृह्णा᳘ति᳘ सो ऽस्याय᳘मुदा᳘नो ऽन्त᳘रात्म᳘न्यतस्तद्य᳘दस्यै᳘षो ऽन्त᳘रात्म᳘न्यतो य᳘द्वैनेनेमाः᳘ प्रजा᳘ यतास्त᳘स्मादन्तर्यामो ना᳘म॥
मूलम् - Weber
अ᳘थ य᳘स्मादन्तर्यामो ना᳘म॥
यो वै᳘ प्राणः स᳘ उदानः स᳘ व्यानस्त᳘मेॗवास्मिन्नेतत्प᳘राञ्चम् प्राणं᳘ दधाति य᳘दुपांशु᳘ गृह्णा᳘ति त᳘मेॗवास्मिन्नेत᳘त्प्रत्य᳘ञ्चमुदानं᳘ दधाति य᳘दन्तर्यामं᳘ गृह्णातिॗ सो ऽस्याय᳘मुदाॗनो ऽन्त᳘रात्म᳘न्यतस्तद्य᳘दस्यैॗषो ऽन्त᳘रात्म᳘न्यतो य᳘द्वैनेनेमाः᳘ प्रजा᳘ यतास्त᳘स्मादन्तर्यामो ना᳘म॥
मूलम् - विस्वरम्
अथ यस्मादन्तर्यामो नाम । यो वै प्राणः स उदानः स व्यानः । तमेवास्मिन्नेतत्पराञ्चं प्राणं दधाति; यदुपांशुं गृह्णाति- तमेवास्मिन्नेतत्प्रत्यञ्चमुदानं दधाति यदन्तर्यामं गृह्णाति । सो ऽस्यायमुदानो ऽन्तरात्मन्- यतस्तद्यदस्यैषो ऽन्तरात्मन्- यतः । यद्वाएनेनेमाः प्रजा यताः । तस्मादन्तर्यामो नाम ॥ २ ॥
सायणः
उदानात्मकस्याप्यन्तर्यामग्रहस्य कथमेतन्नामेति समर्थयितुं पृच्छति- अथ यस्मादन्तर्यामो नामेति । यस्मात् शब्दप्रवृत्तिनिमित्तात् ‘अन्तर्यामः’ इति ‘नाम’ भवति किं तदित्यर्थः । ततः समर्थयते- यो वै प्राणः स उदान इति । प्राण एक एव हि सन् प्रवृत्तिभेदात् प्राणोदानव्याननामभिर्व्यवह्रियते । तत्र पराग् वृत्तिः प्राणस्तदात्मकोपांशुग्रहणेन यथा पराङ्प्रतिबद्धसञ्चारो निधीयते । एवं प्रत्यग्वृत्तिरुदानस्तदात्मकान्तर्यामग्रहणेन अन्तर्निधीयते । निहितश्चान्तर्नियम्यते यतो ऽन्तर्नियम्यते अत उदानस्यान्तर्याम इति नाम । उदानात्मकत्वाच्च ग्रहस्यापि तन्नाम । एवमन्तर्यम्यत इति कर्मसाधनो ऽन्तर्यामशब्दो व्युत्पादितः । ‘यद्वा’ अनेनोदानेन अन्तर्वर्त्तमानेन सता ‘इमा’ ‘प्रजाः’ यथा न म्रियन्ते तथा नियमिताः । अतो ऽन्तर्नियम्यते ऽनेनेति करणसाधनं वोदानस्यान्तार्यामनाम, उदानात्मतया च ग्रहस्येत्यर्थः ॥ २ ॥
Eggeling
- Now as to why it is called Antaryāma. That which is the out-breathing is also the in-breathing and the through-breathing. Now, in drawing the Upāṁśu (graha), he puts into him that out-breathing which tends away from him; and in drawing the
Antaryāma, he puts into him that in-breathing which tends towards him. But this same in-breathing is confined within his self; and because it is confined (yam) within (antar) his self, or because these creatures are sustained (yam) by it, therefore it is called Antaryāma.
०३
विश्वास-प्रस्तुतिः
त᳘मन्तःपवित्रा᳘द्गृह्णाति॥
प्रत्य᳘ञ्चमे᳘वास्मिन्नेत᳘दुदानं᳘ दधाति᳘ सो ऽस्याय᳘मुदा᳘नो ऽन्त᳘रात्म᳘न्हित᳘ एते᳘नो हास्या᳘प्युपाᳫंशु᳘रन्तःपवित्रा᳘द्गृहीतो᳘ भवति समान᳘ᳫं᳘[[!!]] ह्येतद्य᳘दुपाᳫंश्वन्तर्यामौ᳘ प्राणोदानौ᳘ ह्येते᳘नो है᳘वास्यैषो ऽपी᳘तरेषु ग्र᳘हेष्व᳘नाक्षिद्भवति॥
मूलम् - श्रीधरादि
त᳘मन्तःपवित्रा᳘द्गृह्णाति॥
प्रत्य᳘ञ्चमे᳘वास्मिन्नेत᳘दुदानं᳘ दधाति᳘ सो ऽस्याय᳘मुदा᳘नो ऽन्त᳘रात्म᳘न्हित᳘ एते᳘नो हास्या᳘प्युपाᳫंशु᳘रन्तःपवित्रा᳘द्गृहीतो᳘ भवति समान᳘ᳫं᳘[[!!]] ह्येतद्य᳘दुपाᳫंश्वन्तर्यामौ᳘ प्राणोदानौ᳘ ह्येते᳘नो है᳘वास्यैषो ऽपी᳘तरेषु ग्र᳘हेष्व᳘नाक्षिद्भवति॥
मूलम् - Weber
त᳘मन्तःपवित्रा᳘द्गृह्णाति॥
प्रत्य᳘ञ्चमेॗवास्मिन्नेत᳘दुदानं᳘ दधातिॗ सो ऽस्याय᳘मुदाॗनो ऽन्त᳘रात्म᳘न्हित᳘ एते᳘नो हास्या᳘प्युपांशु᳘रन्तःपवित्रा᳘द्गृहीतो᳘ भवति समाॗनᳫं ह्येतद्य᳘दुपांश्वन्तर्यामौ᳘ प्राणोदानौॗ ह्येते᳘नो हैॗवास्यैषो ऽपी᳘तरेषु ग्र᳘हेष्व᳘नाक्षिद्भवति॥
मूलम् - विस्वरम्
तमन्तः पवित्राद्गृह्णाति । प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति । सोस्यायमुदानो ऽन्तरात्मन् हितः । एतेनो हास्याप्युपांशुरन्तः पवित्राद्गृहीतो भवति । समानं ह्येतद्- यदुपांश्वन्तर्यामौ- प्राणोदानौ हि । एतेनो हैवास्यैषो ऽपीतरेषु ग्रहेष्वनाक्षिद्भवति ॥ ३ ॥
सायणः
तस्य ग्रहणं विधत्ते- तमन्तः पवित्राद्गृह्णातीति । ‘तम्’ अन्तर्यामनामकं सोमरसं दशापवित्रस्यान्तःप्रदेशाद्धारारूपेण स्रवन्तं गृह्णीयात् । अन्तःपवित्रादित्येतत्स्तौति- प्रत्यञ्चमेवास्मिन्निति । अन्तर्यामसोमस्य यदेतदन्तःपवित्रदेशप्रापणम्, एतदुदानस्य सर्वस्मिन् जने प्रत्यङ्मुखतया स्थापनं भवति । अतः ‘अयमुदानः’ सर्वजनस्य शरीरमध्ये निहितो दृश्यते । अन्तर्यामस्यान्तःपवित्रदेशमन्यथा स्तौति- एतेनो हास्येति । ‘उ’ इत्यवधारणे ‘ह’ इति प्रसिद्धौ । ‘एतेन’ अन्तर्यामरसस्यान्तःपवित्रदेशप्रापणेनैव ‘अस्य’ यजमानस्योपांशुरसो बहिःपवित्राद् ‘गृहीतो ऽपि’ अन्तःपवित्राद्गृहीतो भवति इति प्रसिद्धम् । ‘उपांश्वन्तर्यामौ’ नाम ‘यद्युगलम्’ ‘एतत्’ समानम् एकं वस्तु ‘हि’ यतः एतौ ‘प्राणोदानौ’ तौ चैकः प्राण एव । तद्वृत्तिभेदत्वादित्यनन्तरमुक्तम् । प्रस्तुतधारास्रावस्याविच्छेदं विधत्तं- एतेनो हैवेति । ‘इतरेष्वपि’ ऐन्द्रवायव्यादिग्रहेषु ग्राह्यस्य ‘अस्य’ सोमरसस्य ‘एतेनैव’ दशापवित्रेण क्रियमाणः ‘एषः’ धारास्रावः ‘अनाक्षित्’ अविच्छिन्नः कर्तव्यः । तदाहापस्तम्बः- ”सन्तताया आस्रावयितव्याया धाराया अन्तर्यामं गृह्णाति, सर्वांश्चातो ग्रहानाध्रुवात्" इति ॥ ३ ॥
Eggeling
- He draws it from inside the strainer 1, whereby he puts that in-breathing into him as one tending towards him, and that in-breathing of his is placed (or beneficial) within his self. And thereby also that Upāṁśu (libation) of his comes to be drawn from inside the strainer (i.e. from the pure Soma), for one and the same are the Upāṁśu and Antaryāma, since they are the out-breathing and in-breathing. And thereby, moreover, that (vital air) of his comes to be unceasing also at the other grahas.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘स्मात्सो᳘मं पवित्रे᳘ण पाव᳘यति॥
य᳘त्र वै सो᳘मः स्वं᳘ पुरो᳘हितं बृ᳘हस्प᳘तिं जिज्यौ त᳘स्मै पु᳘नर्ददौ ते᳘न स᳘ᳫं᳘शशाम त᳘स्मिन्पुनर्ददुष्या᳘सैवा᳘तिशिष्टमे᳘नो[[!!]] यदी᳘न्नूनं ब्र᳘ह्मज्या᳘नायाभिदध्यौ[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘स्मात्सो᳘मं पवित्रे᳘ण पाव᳘यति॥
य᳘त्र वै सो᳘मः स्वं᳘ पुरो᳘हितं बृ᳘हस्प᳘तिं जिज्यौ त᳘स्मै पु᳘नर्ददौ ते᳘न स᳘ᳫं᳘शशाम त᳘स्मिन्पुनर्ददुष्या᳘सैवा᳘तिशिष्टमे᳘नो[[!!]] यदी᳘न्नूनं ब्र᳘ह्मज्या᳘नायाभिदध्यौ[[!!]]॥
मूलम् - Weber
अ᳘थ य᳘स्मात्सो᳘मम् पवित्रे᳘ण पाव᳘यति॥
य᳘त्र वै सो᳘मः स्व᳘म् पुरो᳘हितम् बृ᳘हस्प᳘तिं जिज्यौ त᳘स्मै पु᳘नर्ददौ ते᳘न सं᳘शशाम त᳘स्मिन्पु᳘नर्ददुष्या᳘सैवा᳘तिशिष्टमे᳘नो यदी᳘न्नूनम् ब्र᳘ह्म ज्या᳘नायाभिदध्यौ᳟॥
मूलम् - विस्वरम्
अथ यस्मात्सोमं पवित्रेण पावयति । यत्र वै सोमः स्वं पुरोहितं बृहस्पतिं जिज्यौ तस्मै पुनर्ददौ । तेन संशशाम । तस्मिन्पुनर्ददुषि । आसैवातिशिष्टमेनो यदीन्नूनं ब्रह्मज्यानायाभिदध्यौ ॥ ४ ॥
सायणः
पवित्रेणैव सोमस्य शोधने कारणं जिज्ञासते- अथ यस्मात्सोमं पवित्रेण पावयतीति । ‘यस्मात्’ कारणात् ‘पवित्रेण पावयति’ तत् किं कारणमित्यर्थः । आख्यायिकया कारणमाह- यत्र वै सोम इति । ‘यत्र’ यस्मिन् काले यदेत्यर्थः । अत्र कालस्य समभिव्याहारादिभिर्लाभादधिकरणमात्रविवक्षया सप्तम्या अलुक् । कालस्यापि तद्देशेनोपमानविवक्षायां “सर्वैकान्यकिंयत्तदः काले दा" (पा. सू. ५ । ३ । १५) इति त्रलो ऽपवादो दाप्रत्ययः स्यात् । ‘सोमः’ चन्द्रः स्वकीयं ‘पुरोहितं’ बृहस्पतिं ‘जिज्यौ’ दारापहरणेन मानहीनमकरोत् । “ज्या वयोहानौ” - (क्या. प. २८) “लिट्यभ्यासस्योभयेषाम्-” (पा. सू. ६ । १ । १७) इत्यभ्यासस्य संप्रसारणम् । वयोहानिवचनो ऽपि जिनातिरिह हानिमात्रं लक्षयति । सा तु हानिरिह मानस्येति प्रकरणादवगम्यते । अपहृतान् दारान् इन्द्रबृहस्पत्यादिदेवानां वचनमनादृत्य युद्धे च ताञ्जित्वापि तैः प्रार्थ्यमानस्तान् दारान् ‘पुनः’ बृहस्पतये ‘ददौ’ । ‘तेन’ दानेन स बृहस्पतिः सम्यगेकान्तहृदयो ऽभूत् । दारान्पुनर्बृहस्पतये ‘ददुषि’ दत्तवत्यपि ‘तस्मिन्’ सोमे दारा एव गताः । ‘ब्रह्मज्यानाय’ ब्राह्मणमानहानाय चिन्तितवानिति यत्, तत् ‘एनः’ पापम् ‘अतिशिष्टं’ स्थितम् ‘आस’ बभूव एव ॥ ४ ॥
Eggeling
- Now as to why he purifies the Soma by means of a strainer (pavitra). When Soma had oppressed his own family-priest Br̥haspati, he restored to him (his property); and on his restoring it, he (Br̥haspati) became reconciled to him. Still there was guilt remaining, if only for having contemplated oppressing the priesthood.
०५
विश्वास-प्रस्तुतिः
तं᳘ देवाः᳘ पवि᳘त्रेणापावयन्॥
(न्स) स मे᳘ध्यः पूतो᳘ देवा᳘नाᳫं᳭ हविर᳘भवत्त᳘थो ऽए᳘वैनमेष᳘ एत᳘त्पवि᳘त्रेण पावयति स मेध्यः[[!!]] पूतो᳘ देवा᳘नाᳫं᳭हवि᳘र्भवति॥
मूलम् - श्रीधरादि
तं᳘ देवाः᳘ पवि᳘त्रेणापावयन्॥
(न्स) स मे᳘ध्यः पूतो᳘ देवा᳘नाᳫं᳭ हविर᳘भवत्त᳘थो ऽए᳘वैनमेष᳘ एत᳘त्पवि᳘त्रेण पावयति स मेध्यः[[!!]] पूतो᳘ देवा᳘नाᳫं᳭हवि᳘र्भवति॥
मूलम् - Weber
तं᳘ देवाः᳘ पवि᳘त्रेणापावयन्॥
स मे᳘ध्यः पूतो᳘ देवा᳘नाᳫं हविर᳘भवत्त᳘थो एॗवैनमेष᳘ एत᳘त्पवि᳘त्रेण पावयति स मे᳘ध्यः पूतो᳘ देवा᳘नाᳫं हवि᳘र्भवति॥
मूलम् - विस्वरम्
तं देवाः पवित्रेणापावयन् । स मेध्यः पूतो देवानां हविरभवत् । तथो एवैनमेष एतत्पवित्रेण पावयति । स मेध्यः पूतो देवानां हविर्भवति ॥ ५ ॥
सायणः
इत्थं पापिनं चन्द्रं सोमलतारसरूपं विधाय दशापवित्रेण अपावयन् तथा पावितश्चन्द्रः ‘पूतः’ सन् ‘देवानां’ ‘हविः’ अभूत् । एषैवास्याख्यायिका पुराणेषु प्रसिद्धा । ‘तथैव’ तु ‘एषः’ यजमानः । ‘एनम्’ अभिषुतसोमरसम् ‘एतत्पवित्रेण’ एतेन दशापवित्रेण ‘पावयति’ । ‘स’ च सोमरसो ‘देवानां’ हविष्ट्वाय योग्यो ‘भवति’ ॥ ५ ॥
Eggeling
- The gods purified him by some means of purification (or a strainer, pavitra), and, being cleansed and pure, he became the (sacrificial) food of the gods. And
in like manner does he now purify him by means of that strainer, and, being cleansed and pure, he becomes the food of the gods.
०६
विश्वास-प्रस्तुतिः
तद्य᳘दुपयामे᳘न ग्र᳘हा गृह्य᳘न्ते॥
(न्त ऽ) इयं वा ऽअ᳘दितिस्त᳘स्या अदः᳘ प्रायणी᳘यᳫं हवि᳘रसा᳘वादित्य᳘श्चरुस्तद्वैत᳘त्पु᳘रेव सुत्या᳘यै सा᳘ हेयं᳘ देवे᳘षु सुत्या᳘यामपि त्व᳘मीषे᳘ ऽस्त्वेव मे᳘ ऽपि प्र᳘सुते भाग इ᳘ति॥
मूलम् - श्रीधरादि
तद्य᳘दुपयामे᳘न ग्र᳘हा गृह्य᳘न्ते॥
(न्त ऽ) इयं वा ऽअ᳘दितिस्त᳘स्या अदः᳘ प्रायणी᳘यᳫं हवि᳘रसा᳘वादित्य᳘श्चरुस्तद्वैत᳘त्पु᳘रेव सुत्या᳘यै सा᳘ हेयं᳘ देवे᳘षु सुत्या᳘यामपि त्व᳘मीषे᳘ ऽस्त्वेव मे᳘ ऽपि प्र᳘सुते भाग इ᳘ति॥
मूलम् - Weber
तद्य᳘दुपयामे᳘न ग्र᳘हा गृह्य᳘न्ते॥
इयं वा अ᳘दितिस्त᳘स्या अदः᳘ प्रायणी᳘यᳫं हवि᳘रसा᳘वादित्य᳘श्चरुस्तद्वै त᳘त्पुॗरेव सुत्या᳘यै सा᳘ हेयं᳘ देवे᳘षु सुत्या᳘यामपित्व᳘मीषे᳘ ऽस्त्वेव मे᳘ ऽपि प्र᳘सुते भाग इ᳘ति॥
मूलम् - विस्वरम्
तद् यदुपयामेन ग्रहा गृह्यन्ते । इयं वा ऽअदितिः । तस्या अदः प्रायणीयं हविः-असावादित्यश्चरुः । तद्वैतत् पुरेव सुत्यायै । सा हेयं देवेषु । सुत्यायामपि त्वमीषे अस्त्वेव मे ऽपि प्रसुते भाग इति ॥ ६ ॥
सायणः
पवित्रेण पावने कारणमुक्तम्, पूतस्योपयामेन ग्रहणे कारणं वक्तुं प्रतिजानीते- तद्यदुपयामेन ग्रहा गृह्यन्त इति । उपयच्छति सोममित्युपयामो दारुपात्रं तेन दारुपात्रेण सोमरसो गृह्यत इति यत् तत्रायं वक्ष्यमाणो हेतुरित्यर्थः । को ऽयम् ? तमाह- इयं वा अदितिरिति । “उपयामः पृथिवी” इति वक्ष्यति । सेयमुपयामात्मिका पृथिव्येवादितिर्देवता प्रायणीयेष्टिसम्बन्धिहविरात्मको यः चरुः ‘असौ’ आदित्यः अदितिदेवताक इति प्रसिद्धम् । अतो ऽसावुपयामात्मिका पृथिव्येव भवति । तदेतद्धविः सुत्यादिवसात् प्रागेव दीक्षानन्तरं प्रथमोपसद्दिवसे क्रियते। ‘सेयम्’ अदितिः सुत्यादिवसे ऽपि देवानां मध्ये ‘अपि त्वं’ चरुरूपाद्भागादन्यं सोमरूपं भागम् ‘ईषे’ इयेष । इषेर्व्यत्ययेनात्मनेपदम् । ‘त्व’ शब्दो ऽकारान्तः सर्वनामस्वन्यपर्यायः । “उतो त्वस्मै तन्वं विसस्रे” (ऋ. सं. ८ । २ । २३) इति हि श्रूयते । अदित्या एतद्वाक्यम् । ‘प्रसुते’ अभिषुते सोमे पूर्वं चरुं स्वीकृतवत्या अपि मम भागो ऽस्त्वेवेति ॥ ६ ॥
Eggeling
- Then as to why the grahas are drawn with the Upayāma 2. Now Aditi is this (earth), and hers was that prāyaṇīya oblation, that Āditya rice-pap 3. But that was, as it were, previous to the Soma feast: she desired to have a share along with the gods in the Soma feast, and said, ‘Let there be for me also a share of the pressed Soma!’
०७
विश्वास-प्रस्तुतिः
ते ह देवा᳘ ऊचुः॥
(र्व्या᳘) व्या᳘दिष्टो ऽयं᳘ देव᳘ताभ्यो यज्ञस्त्व᳘यैव ग्र᳘हा गृह्य᳘न्तां देव᳘ताभ्यो हूयन्तामि᳘ति तथे᳘ति᳘ सो ऽस्या एष प्र᳘सुते भागः[[!!]]॥
मूलम् - श्रीधरादि
ते ह देवा᳘ ऊचुः॥
(र्व्या᳘) व्या᳘दिष्टो ऽयं᳘ देव᳘ताभ्यो यज्ञस्त्व᳘यैव ग्र᳘हा गृह्य᳘न्तां देव᳘ताभ्यो हूयन्तामि᳘ति तथे᳘ति᳘ सो ऽस्या एष प्र᳘सुते भागः[[!!]]॥
मूलम् - Weber
ते ह देवा᳘ ऊचुः॥
व्या᳘दिष्टो ऽयं᳘ देव᳘ताभ्यो यज्ञस्त्व᳘यैव ग्र᳘हा गृह्य᳘न्तां देव᳘ताभ्यो हूयन्तामि᳘ति तथे᳘तिॗ सो ऽस्या एष प्र᳘सुते भागः᳟॥
मूलम् - विस्वरम्
ते ह देवा ऊचुः- व्यादिष्टो ऽयं देवताभ्यो यज्ञः त्वयैव ग्रहा गृह्यन्ताम्, देवताभ्यो हूयन्तामिति । तथेति । सो ऽस्या एष प्रसुते भागः ॥ ७ ॥
सायणः
‘ते ह देवाः’ ऊचुः, आहुः ‘अयं’ ‘यज्ञो’ ‘देवताभ्यो’ विभज्य ‘व्यादिष्टः’ दत्तः अतः सर्वे सोमरसाः ‘त्वयैव’ ‘गृह्यन्ताम्’ । त्वयैव ‘देवताभ्यो’ ‘हूयन्ताम्’ । एतावतैव त्वं सोमे लब्धभागा भविष्यसीति । सा च तथा ऽस्त्वित्याह ॥ ७ ॥
Eggeling
- The gods said, ‘This sacrifice has already been distributed among the deities: by means of thee the grahas shall be taken and offered to the deities!’–
‘So be it!’ This, then, is her share of the pressed Soma.
०८
विश्वास-प्रस्तुतिः
(स्त) तद्य᳘दुपयामे᳘न ग्र᳘हा गृह्य᳘न्ते॥
(न्त ऽ) इयं वा᳘ ऽउपयाम᳘ इयं वा᳘ ऽइद᳘मन्ना᳘द्यमु᳘पयच्छति पशु᳘भ्यो मनु᳘ष्येभ्यो व्व᳘नस्प᳘तिभ्य इतो वा᳘ ऽऊर्ध्वा᳘ देवा᳘ दिवि हि᳘ देवाः[[!!]]॥
मूलम् - श्रीधरादि
(स्त) तद्य᳘दुपयामे᳘न ग्र᳘हा गृह्य᳘न्ते॥
(न्त ऽ) इयं वा᳘ ऽउपयाम᳘ इयं वा᳘ ऽइद᳘मन्ना᳘द्यमु᳘पयच्छति पशु᳘भ्यो मनु᳘ष्येभ्यो व्व᳘नस्प᳘तिभ्य इतो वा᳘ ऽऊर्ध्वा᳘ देवा᳘ दिवि हि᳘ देवाः[[!!]]॥
मूलम् - Weber
तद्य᳘दुपयामे᳘न ग्र᳘हा गृह्य᳘न्ते॥
इयं वा᳘ उपयाम᳘ इयं वा᳘ इद᳘मन्ना᳘द्यमु᳘पयछति पशु᳘भ्यो मनुॗष्येभ्यो व᳘नस्प᳘तिभ्य इतो वा᳘ ऊर्ध्वा᳘ देवा᳘ दिवि हि᳘ देवाः᳟॥
मूलम् - विस्वरम्
तद् यदुपयामेन ग्रहा गृह्यन्ते । इयं वा ऽउपयामः । इयं वा ऽइदमन्नाद्यमुपयच्छति- पशुभ्यो मनुष्येभ्यो वनस्पतिभ्यः । इतो वा ऽऊर्ध्वा देवाः । दिवि हि देवाः ॥ ८ ॥
सायणः
तद्यदुपयामेन ग्रहा गृह्यन्त इति । ‘यत्’ एष तस्या अदित्यै भागो नाम पृथिव्याश्च ‘उपयाम’ इति नाम प्रसिद्धम् । यत ‘इयं’ पृथिवी पश्वादिभ्यस्तृणादिरूपमन्नं प्रयच्छति । मृन्मयशरावादित्यागेनोपयामनामकोर्ध्वपात्ररूपातयैव च पृथिव्या सोमग्रहे अयं हेतुः । यत् ‘इतः’ ‘ऊर्ध्वं’ स्वर्गे ‘देवाः’ वर्तन्त इति ॥ ८ ॥
Eggeling
- And, again, why the grahas are drawn with the Upayāma. The Upayāma indeed is this (earth), since it is this (earth) that bears (upa-yam 4) food here for cattle and men and trees; and the gods are above this, for the gods are in heaven.
०९
विश्वास-प्रस्तुतिः
(स्त) तद्य᳘दुपयामे᳘न ग्र᳘हा गृह्य᳘न्ते॥
(न्ते ऽन᳘) अन᳘यैव त᳘द्गृह्यन्ते᳘ ऽथ यद्यो᳘नौ साद᳘यतीयं वा᳘ ऽअस्य स᳘र्व्वस्य यो᳘निरस्यै वा᳘ ऽइमाः᳘ प्रजाः प्र᳘जाताः॥
मूलम् - श्रीधरादि
(स्त) तद्य᳘दुपयामे᳘न ग्र᳘हा गृह्य᳘न्ते॥
(न्ते ऽन᳘) अन᳘यैव त᳘द्गृह्यन्ते᳘ ऽथ यद्यो᳘नौ साद᳘यतीयं वा᳘ ऽअस्य स᳘र्व्वस्य यो᳘निरस्यै वा᳘ ऽइमाः᳘ प्रजाः प्र᳘जाताः॥
मूलम् - Weber
तद्य᳘दुपयामे᳘न ग्र᳘हा गृह्य᳘न्ते॥
अन᳘यैव त᳘द्गृह्यन्ते᳘ ऽथ यद्यो᳘नौ साद᳘यतीयं वा᳘ अस्य स᳘र्वस्य यो᳘निरस्यै वा᳘ इमाः᳘ प्रजाः प्र᳘जाताः॥
मूलम् - विस्वरम्
तद् यदुपयामेन ग्रहा गृह्यन्ते । अनयैव तद्गृह्यन्ते । अथ यद् योनौ सादयति- इयं वा ऽअस्य सर्वस्य योनिः । अस्यै वा ऽइमाः प्रजाः प्रजाताः ॥ ९ ॥
सायणः
ग्रहाणां खरे सादनमभिधातुं स्तौति- अथ यद्योनौ सादयतीति । ‘योनौ’ खरे ग्रहान् ‘सादयति’ इति यत्, तत्रा ऽयं हेतुः- ‘इयं’ खरात्मिका भूमिः ‘अस्य’ ‘सर्वस्य’ जगत उत्पत्तिस्थानम् । यतः पृथिव्याः सकाशात् ‘प्रजाः’ ‘प्रजाताः’ कृत्स्नपृथिव्यात्मकश्चायं खरप्रदेशः । लतासारतया रेतोवत् ‘रेतोभूतम्’ ‘एतं’ ‘सोमम्’ ‘ऋत्विजः’ ‘बिभ्रति’ खरात्मिकया भूम्या उद्धृतं कुर्वन्ति । यदि हि खरादन्यत्र साद्येत तदा ‘अयोनौ’ रेतः सिक्तः रेतोभूतः स सोमः स्वप्रयोजनप्रसवाय समर्थो न भवेत् । खरे सादनं योनावेव सादनम् । नायं दोषः ॥ ९ ॥ १० ॥
Eggeling
- The reason, then, why the grahas are drawn with the Upayāma, is that they are drawn by means of this (earth); and why he deposits them in the womb 5, is that this earth is the womb of everything, that it is from her that these creatures have sprung.
१०
विश्वास-प्रस्तुतिः
(स्तं) तं वा᳘ ऽएत᳘ᳫँ᳭॥
रे᳘तोभूतᳫँ᳭ सो᳘ममृत्वि᳘जो बिभ्रति यद्वा ऽअ᳘योनौ रे᳘तः सिच्य᳘ते प्र वै त᳘न्मीयते᳘ ऽथ यद्यो᳘नौ साद᳘यत्यस्या᳘मेव त᳘त्सादयति॥
मूलम् - श्रीधरादि
(स्तं) तं वा᳘ ऽएत᳘ᳫँ᳭॥
रे᳘तोभूतᳫँ᳭ सो᳘ममृत्वि᳘जो बिभ्रति यद्वा ऽअ᳘योनौ रे᳘तः सिच्य᳘ते प्र वै त᳘न्मीयते᳘ ऽथ यद्यो᳘नौ साद᳘यत्यस्या᳘मेव त᳘त्सादयति॥
मूलम् - Weber
तं वा᳘ एत᳘म्॥
रे᳘तो भूतᳫं सो᳘ममृत्वि᳘जो बिभ्रति यद्वा अ᳘योनौ रे᳘तः सिच्य᳘ते प्र वै त᳘न्मीयते᳘ ऽथ यद्यो᳘नौ साद᳘यत्यस्या᳘मेव त᳘त्सादयति॥
मूलम् - विस्वरम्
तं वा ऽएतं रेतोभूतं सोममृत्विजो बिभ्रति । यदा ऽअयोनौ रेतः सिच्यते प्र वै तन्मीयते । अथ यद्योनौ सादयति अस्यामेवैतत्सादयति ॥ १० ॥
सायणः
[व्याख्यानं नवमे]
Eggeling
- That same Soma the priests carry about as seed. And seed which is cast outside the womb is lost; but that which he deposits in the womb is indeed deposited in this earth.
११
विश्वास-प्रस्तुतिः
प्राणोदानौ᳘ ह वा᳘ ऽअस्यैतौ ग्र᳘हौ॥
त᳘योरु᳘दिते ऽन्यतरं᳘ जुहोत्य᳘नुदिते ऽन्यतरं᳘ प्राणोदान᳘योर्व्या᳘कृत्यै प्राणोदाना᳘वे᳘वैतद्व्या᳘करोति[[!!]] त᳘स्मादेतौ᳘ समाना᳘वेव स᳘न्तौ ना᳘नेवा᳘चक्षते प्राण इ᳘ति चोदान इ᳘ति च॥
मूलम् - श्रीधरादि
प्राणोदानौ᳘ ह वा᳘ ऽअस्यैतौ ग्र᳘हौ॥
त᳘योरु᳘दिते ऽन्यतरं᳘ जुहोत्य᳘नुदिते ऽन्यतरं᳘ प्राणोदान᳘योर्व्या᳘कृत्यै प्राणोदाना᳘वे᳘वैतद्व्या᳘करोति[[!!]] त᳘स्मादेतौ᳘ समाना᳘वेव स᳘न्तौ ना᳘नेवा᳘चक्षते प्राण इ᳘ति चोदान इ᳘ति च॥
मूलम् - Weber
प्राणोदानौ᳘ ह वा᳘ अस्यैतौ ग्र᳘हौ॥
त᳘योरु᳘दिते ऽन्यतरं᳘ जुहोत्य᳘नुदिते ऽन्यतर᳘म् प्राणोदान᳘योर्व्या᳘कृत्यै प्राणोदाना᳘वेॗवैतॗद्व्याकरोति त᳘स्मादेतौ᳘ समाना᳘वेव स᳘न्तौ ना᳘नेवा᳘चक्षते प्राण इ᳘ति चोदान इ᳘ति च॥
मूलम् - विस्वरम्
प्राणोदानौ ह वा ऽअस्यैतौ ग्रहौ । तयोरुदिते ऽन्यतरं जुहोति- अनुदिते ऽन्यतरम् । प्राणोदानयोर्व्याकृत्यै । प्राणोदानावेवैतद्व्याकरोति । तस्मादेतौ समानावेव सन्तौ नानेवाचक्षते- प्राण इति चोदान इति च ॥ ११ ॥
सायणः
उपांश्वन्तर्यामयोर्होमे कालभेदं स्तुवन्विधत्ते- प्राणोदानौ ह वा इति । ‘अस्य’ सोमयागस्य सम्बन्धिनौ ‘एतौ’ उपांश्वन्तर्यामग्रहौ क्रमेण प्राणोदानात्मकौ यतः, अतः ‘तयोः’ ‘अन्यतरम्’ अन्तर्यामं सूर्ये ‘उदिते’ जुहुयात् 6 । ‘अन्यतरं’ चोपांशुम् ‘अनुदिते’ । एवं हि कालभेदात्प्राणोदानावसंकीर्णौ द्विधा कृतौ भवतः । अनेन हि कालभेदेन तावुभौ विभक्तौ करोति । विभागादेव च ‘एतौ’ समानरूपावपि ‘सन्तौ’ एकं प्राण इति, अपरं उदान इति भेदेन व्यवहरन्ति ॥ ११ ॥
Eggeling
- Now these two grahas are his out-breathing and in-breathing; one of them he offers after sunrise and the other before sunrise, in order to keep the out-breathing and in-breathing distinct from each other. He thus keeps the out-breathing and in-breathing distinct from each other: hence these two, even while being one and the same, are yet called differently ‘out-breathing’ and ‘in-breathing.’
१२
विश्वास-प्रस्तुतिः
(चा) अहोरात्रे᳘ ह वा᳘ ऽअस्यैतौ ग्र᳘हौ॥
त᳘योरु᳘दिते ऽन्यतरं᳘ जुहोत्य᳘नुदिते ऽन्यतर᳘महोरात्र᳘योर्व्या᳘कृत्या ऽअहोरात्रे᳘ ऽए᳘वैतद्व्या᳘करोति॥
मूलम् - श्रीधरादि
(चा) अहोरात्रे᳘ ह वा᳘ ऽअस्यैतौ ग्र᳘हौ॥
त᳘योरु᳘दिते ऽन्यतरं᳘ जुहोत्य᳘नुदिते ऽन्यतर᳘महोरात्र᳘योर्व्या᳘कृत्या ऽअहोरात्रे᳘ ऽए᳘वैतद्व्या᳘करोति॥
मूलम् - Weber
अहोरात्रे᳘ ह वा᳘ अस्यैतौ ग्र᳘हौ॥
त᳘योरु᳘दिते ऽन्यतरं᳘ जुहोत्य᳘नुदिते ऽन्यतर᳘महोरात्र᳘योर्व्या᳘कृत्या अहोरात्रे᳘ एॗवैतद्व्या᳘करोति॥
मूलम् - विस्वरम्
अहोरात्रे ह वा अस्यैतौ ग्रहौ । तयोरुदिते ऽन्यतरं जुहोति, अनुदिते ऽन्यतरम् । अहोरात्रयोर्व्याकृत्यै । अहोरात्रे ऽएवैतद् व्याकरोति ॥ १२ ॥
सायणः
न केवलं प्राणोदानविभागः । अहोरात्रव्याकृतिरपि प्रयोजनमित्यनन्तरमेव विधिमनूद्य स्तौति- अहोरात्रे ह वा इति । स्पष्टम् ॥ १२ ॥
Eggeling
- Now those two grahas are for him day and night; one of them he offers after sunrise and the
other before sunrise, in order to keep day and night distinct from each other: he thus keeps day and night distinct. from each other 7.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘हः स᳘न्तमुपाᳫँ᳭शुम्[[!!]]॥
(न्तᳫँ᳭) तᳫँ᳭ रा᳘त्रौ जुहोत्य᳘हरे᳘वैतद्रा᳘त्रौ दधाति त᳘स्माद᳘पि सु᳘तमिस्रायामु᳘पैव किंचित्ख्यायते[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘हः स᳘न्तमुपाᳫँ᳭शुम्[[!!]]॥
(न्तᳫँ᳭) तᳫँ᳭ रा᳘त्रौ जुहोत्य᳘हरे᳘वैतद्रा᳘त्रौ दधाति त᳘स्माद᳘पि सु᳘तमिस्रायामु᳘पैव किंचित्ख्यायते[[!!]]॥
मूलम् - Weber
अ᳘हः स᳘न्तमुपाशु᳘म्॥
तं रा᳘त्रौ जुहोत्य᳘हरेॗवैतद्रा᳘त्रौ दधाति त᳘स्माद᳘पि सु᳘तमिश्रायामु᳘पैव किं᳘चित्ख्यायते॥
मूलम् - विस्वरम्
अहः सन्तमुपांशुम्, तं रात्रौ जुहोति । अहरेवैतद्रात्रौ दधाति तस्माद्- अपि सुतमिस्रायामुपैव किञ्चित् ख्यायते ॥ १३ ॥
सायणः
उक्तं कालविभागमन्यथापि स्तौति- अहः सन्तमुपांशुमिति । एकस्यैव सतः प्राणस्य वृत्तिभेदात् प्राणोदानव्यवहार इत्युक्तम् । सूर्यश्च प्राणात्मकः । अग्निवाय्वादित्यान्प्रकृत्य श्रूयते हि- ”स एष प्राणस्त्रेधा विहितः” इति । सूर्यस्य उपरि सञ्चारो दिनम् । अधः सञ्चारो रात्रिः । अतः सूर्यात्मकप्राणस्यापि ऊर्ध्वगमनात्मिका प्राणवृत्तिरहः । अधःसञ्चारात्मिका उदानवृत्ती रात्रिः । इति स्थिते प्राणवृत्तिरूपतया अहरात्मकस्योपांशो रात्रिशेषे होमेन अहरेव रात्रौ दत्तं भवति । अहो रात्रौ दानादेव निबिडतमस्कायामपि च रात्रौ उदयसमीपे कियाँश्चित्प्रकाशो जायते । एवमपानवृत्तिरूपतया राज्यात्मकस्यान्तर्यामस्य अहरुपक्रमे होमेन रात्रिरहनि दत्ता भवति । अतः प्रभाते मध्याह्न इव नातितापः । तेनाहोरात्रव्यत्यासेनाहरादावपि शैत्याद्रात्रिशेषे ऽपि प्रकाशान्मुख्यव्यवहारसम्मत्या प्रजाः परित्राताः । अत उक्तः कालविभागः प्रशस्त इति विहितं ॥ १३ ॥ १४ ॥
Eggeling
- The Upāṁśu, being the day, he offers in the night; and thus he puts the day into the night: whence even in the deepest darkness one distinguishes something 8.
१४
विश्वास-प्रस्तुतिः
रा᳘त्रिᳫँ᳭ स᳘न्तमन्तर्यामं तमु᳘दिते जुहोति॥
रा᳘त्रिमे᳘वैतद᳘हन्दधाति ते᳘नो हासा᳘वादित्य᳘ उद्य᳘न्ने᳘वेमाः᳘ प्रजा न प्र᳘दहति ते᳘नेमाः᳘ प्र᳘जा᳘स्त्राताः[[!!]]॥
मूलम् - श्रीधरादि
रा᳘त्रिᳫँ᳭ स᳘न्तमन्तर्यामं तमु᳘दिते जुहोति॥
रा᳘त्रिमे᳘वैतद᳘हन्दधाति ते᳘नो हासा᳘वादित्य᳘ उद्य᳘न्ने᳘वेमाः᳘ प्रजा न प्र᳘दहति ते᳘नेमाः᳘ प्र᳘जा᳘स्त्राताः[[!!]]॥
मूलम् - Weber
रा᳘त्रिᳫं स᳘न्तमन्तर्याम᳘म्॥
तमु᳘दिते जुहोति रा᳘त्रिमेॗवैतद᳘हन्दधाति 9 ते᳘नो हासा᳘वादित्य᳘ उद्य᳘न्नेॗवेमाः᳘ प्रजा न प्र᳘दहति ते᳘नेमाः᳘ प्रजा᳘स्त्राताः᳟॥ ेॗ
मूलम् - विस्वरम्
रात्रिं सन्तमन्तर्यामं, तमुदिते जुहोति । रात्रिमेवैतदहन्दधाति । तेनो हासावादित्य उद्यन्नेवेमाः प्रजा न प्रदहति । तेनेमाः प्रजास्त्राताः ॥ १४ ॥
सायणः
[व्याख्यानं त्रयोदशे]
Eggeling
- The Antaryāma, being the night, he offers after sunrise, and thus he puts the night into the day: whence that sun, on rising, does not burn up these creatures; whence these creatures are preserved.
१५
विश्वास-प्रस्तुतिः
(ऽ) अथा᳘तो गृह्णा᳘त्ये᳘व[[!!]]॥
(वो) उपयाम᳘गृहीतो ऽसी᳘त्युक्त᳘ ऽउपयाम᳘स्य ब᳘न्धुरन्त᳘र्यच्छ मघवन्पाहि सो᳘ममिती᳘न्द्रो वै᳘ मघ᳘वानि᳘न्द्रो यज्ञ᳘स्य नेता त᳘स्मादाह मघवन्नि᳘ति पाहि सो᳘ममि᳘ति गोपाय सो᳘ममि᳘त्ये᳘वैत᳘दाहोरुष्य रा᳘य ए᳘षो यजस्वे᳘ति पश᳘वो वै रा᳘यो गोपाय᳘ पशूनि᳘त्ये᳘वैत᳘दाहे᳘षो यजस्वे᳘ति प्रजा वा ऽइ᳘षस्ता᳘ ए᳘वैत᳘द्यायजू᳘काः करोति ता᳘ इमाः᳘ प्रजा य᳘जमाना अ᳘र्चन्त्यः श्रा᳘म्यन्त्यश्चरन्ति॥
मूलम् - श्रीधरादि
(ऽ) अथा᳘तो गृह्णा᳘त्ये᳘व[[!!]]॥
(वो) उपयाम᳘गृहीतो ऽसी᳘त्युक्त᳘ ऽउपयाम᳘स्य ब᳘न्धुरन्त᳘र्यच्छ मघवन्पाहि सो᳘ममिती᳘न्द्रो वै᳘ मघ᳘वानि᳘न्द्रो यज्ञ᳘स्य नेता त᳘स्मादाह मघवन्नि᳘ति पाहि सो᳘ममि᳘ति गोपाय सो᳘ममि᳘त्ये᳘वैत᳘दाहोरुष्य रा᳘य ए᳘षो यजस्वे᳘ति पश᳘वो वै रा᳘यो गोपाय᳘ पशूनि᳘त्ये᳘वैत᳘दाहे᳘षो यजस्वे᳘ति प्रजा वा ऽइ᳘षस्ता᳘ ए᳘वैत᳘द्यायजू᳘काः करोति ता᳘ इमाः᳘ प्रजा य᳘जमाना अ᳘र्चन्त्यः श्रा᳘म्यन्त्यश्चरन्ति॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
उपयाम᳘गृहीतो ऽसी᳘त्युक्त᳘ उपयाम᳘स्य ब᳘न्धुरन्त᳘र्यछ मघवन्पाहि सो᳘ममिती᳘न्द्रो वै᳘ मघ᳘वानि᳘न्द्रो यज्ञ᳘स्य नेता त᳘स्मादाह मघवन्नि᳘ति पाहि सो᳘ममि᳘ति गोपाय सो᳘ममि᳘त्येॗवैत᳘दाहोरुष्य रा᳘य ए᳘षो यजस्वे᳘ति पश᳘वो वै रा᳘यो गोपाय पशूनि᳘त्येॗवैत᳘दाहे᳘षो यजस्वे᳘ति प्रजा वा इ᳘षस्ता᳘ एॗवैत᳘द्यायजू᳘काः करोति ता᳘ इमाः᳘ प्रजा य᳘जमाना अ᳘र्चन्त्यः श्रा᳘म्यन्त्यश्चरन्ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव । “उपयामगृहीतो ऽसि”- (वा० सं० ७ । ४) इति । उक्त उपयामस्य बन्धुः । “अन्तर्यच्छ मघवन् पाहि सोमम्”- (वा. सं. ७ । ४) इति । इन्द्रो वै मघवान्, इन्द्रो यज्ञस्य नेता । तस्मादाह- मघवन्निति । पाहि सोममिति । गोपाय सोममित्येवैतदाह । “उरुष्य राय एषो यजस्व”- (वा. सं. ७ । ४) इति । पशवो वै रायः । गोपाय पशूनित्येवैतदाह । इषो यजस्वेति । प्रजा वा ऽइषः, ता एवैतद्यायजूकाः करोति । ता इमाः प्रजा यजमाना अर्चन्त्यः श्राम्यन्त्यश्चरन्ति ॥ १५ ॥
सायणः
विहितमन्तर्यामग्रहणमनूद्य तत्र मन्त्रं विनियुज्य पञ्चधा विभागेन व्याचष्टे- अथातो गृह्णात्येवेति 10 । मन्त्रस्तु- ”उपयामगृहीतो ऽस्यन्तर्यच्छ मघवन्पाहि सोमम्,- उरुष्य राय एषो यजस्व; अन्तस्ते द्यावापृथिवी दधाम्यन्तर्दधाम्युर्वन्तरिक्षं, सजूर्देवेभिरवरैः परैश्चान्तर्यामे मघवन् मादयस्व” (वा. सं. ७ । ४ । ५)- इति ग्रहणादिखरासादनान्तप्रयोगकथनानन्तरं । यतो विहितग्रहणे तत्साधनमन्त्रापेक्षा, अतो यद् गृह्णातीति ग्रहणमनूद्य तत्र “उपयाम”- इत्यादिमन्त्रः साधनं विधीयते । “उपयामगृहीतोसि” इति मन्त्रस्य प्रथमो भागः । हे सोम ! त्वम् उपयामेन ग्रहेण गृहीतो ऽसि । व्याचष्टे- उक्त उपयामस्य बन्धुरिति । बध्यते नियमेन प्रयुज्यते स्वार्थे शब्दो येन तत् प्रवृत्तिनिमित्तं ‘बन्धुः’ । “तद्यदुपयाम”- इति तत्रोक्तम् । “इयं वा उपयामः”- (श. प. ४ । १ । २ । ८) इत्यत्र । द्वितीयो भागः- ”अन्तर्यच्छ मघवन् पाहि सोमम्”- इति । व्याचष्टे- इन्द्रो वै मघवानिति । ‘मघवन्’ इत्येतेन इन्द्र उच्यते । तस्य यज्ञं प्रति नेतृत्वेन सोमस्यान्तर्नियमने स सम्बोध्यते । ‘पाहि’- इत्यादि स्पष्टम् । तृतीयभागः- ”उरुष्य राय एषो यजस्व”- इति । व्याचष्टे- पशवो वै राय इति । उरुष्यती रक्षार्थः कण्ड्वादियगन्तः । इच्छन्ति स्वर्गादिफलमिति ‘इषः’ । ‘प्रजाः’ ‘यजस्व’ इत्यन्तर्भावितण्यर्थः । ‘यायजूकाः’, यज्ञशीलाः कृते चैतद्भवति- ‘ता इमा’ इत्यादि ॥ १५ ॥
Eggeling
- He draws (the Antaryāma graha) therefrom 11 with (Vāj. S. VII, 4), ‘Thou art taken with a support!’–The significance of the Upayāma has been told 12.–‘Restrain thou, O mighty (Indra), guard Soma!’ the mighty, forsooth, is Indra; and Indra is the leader of the sacrifice: wherefore he says ‘O mighty!’ and by ‘guard Soma’ he means to say ‘protect Soma!’ ‘Preserve the riches! gain thee food in the sacrifice!’–riches mean cattle: ‘Protect the cattle’ he thereby means to say. ‘Gain thee food in the sacrifice!’–food means creatures: he thus makes these eager to sacrifice, and these creatures go on sacrificing and praising and toiling.
१६
विश्वास-प्रस्तुतिः
(न्त्य) अन्त᳘स्ते द्या᳘वापृथिवी᳘ दधामि॥
(म्य) अन्त᳘र्दधाम्यु᳘र्व्वन्त᳘रिक्षम्॥ सजू᳘र्देवे᳘भिर᳘वरैः प᳘रैश्चे᳘ति त᳘देनं व्वैश्वदेवं᳘ करोति तद्य᳘देनेनेमाः᳘ प्रजाः᳘ प्राण᳘त्यश्चो᳘दन᳘त्यश्चान्त᳘रिक्षमनुच᳘रन्ति ते᳘न व्वैश्वदे᳘वो ऽन्तर्यामे᳘ मघवन्मादयस्वेती᳘न्द्रो वै᳘ मघ᳘वानि᳘न्द्रो यज्ञ᳘स्य नेता त᳘स्मादाह मघवन्नित्य᳘थ य᳘दन्त᳘रन्तरि᳘ति गृह्णा᳘त्यन्त᳘स्त्वा ऽऽत्म᳘न्दध ऽइ᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
(न्त्य) अन्त᳘स्ते द्या᳘वापृथिवी᳘ दधामि॥
(म्य) अन्त᳘र्दधाम्यु᳘र्व्वन्त᳘रिक्षम्॥ सजू᳘र्देवे᳘भिर᳘वरैः प᳘रैश्चे᳘ति त᳘देनं व्वैश्वदेवं᳘ करोति तद्य᳘देनेनेमाः᳘ प्रजाः᳘ प्राण᳘त्यश्चो᳘दन᳘त्यश्चान्त᳘रिक्षमनुच᳘रन्ति ते᳘न व्वैश्वदे᳘वो ऽन्तर्यामे᳘ मघवन्मादयस्वेती᳘न्द्रो वै᳘ मघ᳘वानि᳘न्द्रो यज्ञ᳘स्य नेता त᳘स्मादाह मघवन्नित्य᳘थ य᳘दन्त᳘रन्तरि᳘ति गृह्णा᳘त्यन्त᳘स्त्वा ऽऽत्म᳘न्दध ऽइ᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
अन्त᳘स्ते द्या᳘वापृथिवी᳘ दधामि॥
अन्त᳘र्दधाम्युर्व᳘न्त᳘रिक्षम् सजू᳘र्देवे᳘भिर᳘वरैः प᳘रैश्चे᳘ति त᳘देनं वैश्वदेवं᳘ करोति तद्य᳘देनेनेमाः᳘ प्रजाः᳘ प्राण᳘त्यश्चो᳘दन᳘त्यश्चान्त᳘रिक्षमनुच᳘रन्ति ते᳘न वैश्वदेॗवो ऽन्तर्यामे᳘ मघवन्मादयस्वेती᳘न्द्रो वै᳘ मघ᳘वानि᳘न्द्रो यज्ञ᳘स्य नेता त᳘स्मादाह मघवन्नित्य᳘थ य᳘दन्त᳘रन्तरि᳘ति गृह्णा᳘त्यन्त᳘स्त्वात्म᳘न्दध इ᳘त्येॗवैत᳘दाह 13 ॥
मूलम् - विस्वरम्
“अन्तस्ते द्यावापृथिवी दधामि । अन्तर्दधाम्युर्वन्तरिक्षम् । सजूर्देवेभिरवरैः परैश्च”- (वा० सं० ७ । ५) इति । तदेनं वैश्वदेवं करोति । तद् यदेनेनेमाः प्रजाः प्राणत्यश्चोदनत्यश्चान्तरिक्षमनुचरन्ति- तेन वैश्वदेवः । “अन्तर्यामे मघवन् मादयस्व”- (वा० सं० ७ । ५) इति । इन्द्रो वै मघवान्, इन्द्रो यज्ञस्य नेता । तस्मादाह- मघवन्निति । अथ यदन्तरन्तरिति गृह्णाति । अन्तस्त्वा ऽऽत्मन्दध ऽइत्येवैतदाह ॥ १६ ॥
सायणः
चतुर्थो भागः- ”अन्तस्ते द्यावापृथिवी दधाम्यन्तर्दधाम्युर्वन्तरिक्षं, सजूर्देवेभिरवरैः परैश्च” इति । व्याचष्टे- तदेनं वैश्वदेवं करोतीति । ‘तत्’ ‘तेन’ मन्त्रपठनेन ‘एनं’ ग्रहं विश्वदेवोपकारकं ‘करोति’ । कथमिति चेत्, लोकत्रयस्य तदन्तर्वर्तिपरावरदेवानां च एतद्ग्रहमध्ये स्मरणात्मकेन निधानेन ते पराश्चावराश्च सर्वे देवा अव्याहतप्राणोदानवृत्तयो यतो ऽन्तरिक्षेण सुखिनश्चरन्ति । अतो विश्वेदेवोपकारकता ऽस्य ग्रहस्य । “तृतीयार्थे” (पा. सू. १ । ४ । ८५) इत्यनुः कर्मप्रवचनीयः । तद्योगाद् ‘अन्तरिक्षम्’ इति द्वितीया (पा. सू. २ । ३ । ८) । पञ्चमो भागः “अन्तर्यामे मघवन् मादयस्व”- इति । व्याचष्टे- इन्द्रो वै मघवानिति । अथ यदन्तरिति । ‘मघवन्’ इत्यनेनेन्द्र उच्यते । तस्य यज्ञं प्रति नेतृत्वेनात्मनः प्राणने स सम्बोध्यते । अत्र च समस्ते मन्त्रे यो ऽयं ‘अन्तः’ ‘अन्तः’ इत्यसकृत् संप्रयोगः तेन हे सोमात्मक उदान ! त्वामहमात्मनि अन्तः स्थापयामीत्युच्यत इत्यर्थः । इत्थं च उदानात्मक हे सोम ! त्वं पात्रेण गृहीतो ऽसि । हे मघवन् ! उदानात्मक त्वमिमं सोमभन्तरे नियमय रक्ष च अस्मिन् यज्ञे प्रवर्ग्यार्थस्य च पयसो दोग्ध्रीर्गाश्च रक्ष यथा च लोकाः सर्वे ऽमुना सोमेन यजन्ते तथा कुरु । हे सोम ! त्वय्येव लोकत्रयं प्रणिधानेन स्थापयामि । हे मघवन् स्वर्गमर्त्त्यलोकवर्तिभिर्वेषैः सह अस्मिन्नन्तर्यामे ग्रहे स्वात्मानं तर्प्पयेति समस्तस्य मन्त्रस्यार्थः ॥ १६ ॥
Eggeling
- ‘Into thee I lay day and night 14; into thee I lay the wide air: allied with the gods, the lower and the higher,’–thereby he makes this (graha) one belonging to all the gods: because by means of it these creatures move about in the air breathing out and breathing in, therefore it belongs to all the gods.–‘Delight thyself in the Antaryāma, O mighty one!’ the mighty one is Indra, and Indra is the leader of the sacrifice, wherefore he says ‘O mighty one!’ and in that he draws it with ‘into–into,’ thereby he means to say ‘I lay thee into his (Indra’s) self.’
१७
विश्वास-प्रस्तुतिः
तं᳘ गृहीत्वा प᳘रिमार्ष्टि॥
ने᳘द्व्यवश्चो᳘तदि᳘ति तं न᳘ सादयत्युदानो᳘ ह्यस्यैष[[!!]] त᳘स्मादयम᳘सन्न उदानः सं᳘चरति यदी᳘त्त्वभिच᳘रेद᳘थैनᳫँ᳭[[!!]] सादयेदमु᳘ष्य त्वोदान᳘ᳫं᳘ सादयामी᳘ति॥
मूलम् - श्रीधरादि
तं᳘ गृहीत्वा प᳘रिमार्ष्टि॥
ने᳘द्व्यवश्चो᳘तदि᳘ति तं न᳘ सादयत्युदानो᳘ ह्यस्यैष[[!!]] त᳘स्मादयम᳘सन्न उदानः सं᳘चरति यदी᳘त्त्वभिच᳘रेद᳘थैनᳫँ᳭[[!!]] सादयेदमु᳘ष्य त्वोदान᳘ᳫं᳘ सादयामी᳘ति॥
मूलम् - Weber
तं᳘ गृहीत्वा प᳘रिमार्ष्टि॥
ने᳘द्व्यवश्चो᳘तदि᳘ति तं न᳘ सादयत्युदानो 15 ह्य᳘स्यैष त᳘स्मादयम᳘सन्न उदानः सं᳘चरति यदीत्त्व᳘भिच᳘रेद᳘थैनᳫं सादयेदमु᳘ष्य त्वोदान᳘ᳫं᳘ सादयामी᳘ति॥
मूलम् - विस्वरम्
तं गृहीत्वा परिमार्ष्टि । नेद्व्यवश्चोतदिति । तं न सादयति । उदानो ह्यस्यैषः । तस्मादयमसन्न उदानः संचरति । यदीत्त्वभिचरेद्- अथैनं सादयेद् । अमुष्य त्वोदानं सादयामीति ॥ १७ ॥
सायणः
परिमार्जनं विधत्ते- तं गृहीत्वा परिमार्ष्टीति 16 उपांशुग्रहे गतमेतत् । (श. प. ४ । १ । १ । १७) तत्रत्यप्राणपदस्थाने अत्रोदानपदमित्येव विशेषः ॥ १७ ॥
Eggeling
- Having drawn it, he wipes (the vessel) all round, lest (any Soma-juice) should trickle down. He does not deposit it; for this is the in-breathing: hence this in-breathing passes unceasingly. But should he desire to exorcise, let him deposit it with ‘I put thee down, the in-breathing of N.N.!’
१८
विश्वास-प्रस्तुतिः
स य᳘द्युपाᳫँ᳭शु᳘ᳫं᳘ साद᳘येत्॥
(द᳘) अ᳘थैनᳫँ᳭ सादयेद्य᳘द्युपाᳫँ᳭शुं न᳘ साद᳘ये᳘न्नैनᳫं सादयेद्यद्युपाᳫँ᳭शु᳘मपिदध्याद᳘प्येनं[[!!]] दध्याद्य᳘द्युपाᳫँ᳭शुं᳘ नापिदध्या᳘न्नैनम᳘पिदध्याद्य᳘थोपाᳫँ᳭शोः क᳘र्म त᳘थैत᳘स्य समान᳘ᳫं᳘[[!!]] ह्येतद्य᳘दुपाᳫंश्वन्तर्यामौ᳘ प्राणोदानौ हि[[!!]]॥
मूलम् - श्रीधरादि
स य᳘द्युपाᳫँ᳭शु᳘ᳫं᳘ साद᳘येत्॥
(द᳘) अ᳘थैनᳫँ᳭ सादयेद्य᳘द्युपाᳫँ᳭शुं न᳘ साद᳘ये᳘न्नैनᳫं सादयेद्यद्युपाᳫँ᳭शु᳘मपिदध्याद᳘प्येनं[[!!]] दध्याद्य᳘द्युपाᳫँ᳭शुं᳘ नापिदध्या᳘न्नैनम᳘पिदध्याद्य᳘थोपाᳫँ᳭शोः क᳘र्म त᳘थैत᳘स्य समान᳘ᳫं᳘[[!!]] ह्येतद्य᳘दुपाᳫंश्वन्तर्यामौ᳘ प्राणोदानौ हि[[!!]]॥
मूलम् - Weber
स य᳘द्युपांशु᳘ᳫं᳘ साद᳘येत्॥
अ᳘थैनᳫं सादयेद्य᳘द्युपांशुं न᳘ साद᳘येॗन्नैनᳫं सादयेद्य᳘द्युपांशु᳘मपिदध्याद᳘प्येनं दध्याद्य᳘द्युपांशुॗ नापिदध्याॗन्नैनम᳘पिदध्याद्य᳘थोपांशोः क᳘र्म त᳘थैत᳘स्य समाॗनᳫं ह्येतद्य᳘दुपांश्वन्तर्यामौ᳘ प्राणोदानौ हि᳟॥
मूलम् - विस्वरम्
स यद्युपांशुं सादयेत्- अथैनं सादयेत् । यद्युपांशुं न सादयेत्- नैनं सादयेत् । यद्युपांशुमपिदध्यात्- अप्येनं दध्यात् । यद्युपांशुं नापिदध्यात्- नैनमपिदध्यात् । यथोपांशोः कर्म- तथैतस्य । समानं ह्येतद्- यदुपांश्वन्तर्यामी- प्राणोदानौ हि ॥ १८ ॥
सायणः
उपांशोरभिचारे सादनविधानं च नान्यत्रेत्युक्तम् । उभयमन्तर्यामे ऽपि तथेत्याह- स यद्युपांशुं सादयेदिति । यदुक्तमुपांशोः स्वाहेत्युक्त्वा निष्क्रमणं वरवरणं च- (श. प. ४ । १ । १ । १९-२१ कं.) तदप्यन्तर्यामे समानमित्याह- यथोपांशोः कर्म्म तथैव तस्येति । तत्र हेतुः- समानं ह्येतदिति ॥ १८ ॥
Eggeling
- If he deposits the Upāṁśu, let him also deposit this (Antaryāma cup) 17; and if he does not deposit the Upāṁśu, let him also not deposit this. And if he covers the Upāṁśu (with his hand), let him also cover this; and if he does not cover the Upāṁśu, let him also not cover this: as the performance regarding the Upāṁśu, so regarding this (graha); for one and the same are these two, the Upāṁśu and Antaryāma, since they are the out-breathing and in-breathing.
१९
विश्वास-प्रस्तुतिः
ता᳘ ऽउ ह च᳘रकाः॥
(का ना᳘) ना᳘नैव म᳘न्त्राभ्यां जुह्वति प्राणोदानौ वा᳘ ऽअस्यैतौ ना᳘नावीर्यौ प्राणोदानौ᳘ कुर्म इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यान्मोह᳘यन्ति ह ते य᳘जमानस्य प्राणोदानावपीद्वा᳘ ऽएनं तूष्णीं᳘ जुहुयात्॥
मूलम् - श्रीधरादि
ता᳘ ऽउ ह च᳘रकाः॥
(का ना᳘) ना᳘नैव म᳘न्त्राभ्यां जुह्वति प्राणोदानौ वा᳘ ऽअस्यैतौ ना᳘नावीर्यौ प्राणोदानौ᳘ कुर्म इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यान्मोह᳘यन्ति ह ते य᳘जमानस्य प्राणोदानावपीद्वा᳘ ऽएनं तूष्णीं᳘ जुहुयात्॥
मूलम् - Weber
ता᳘ उ ह च᳘रकाः॥
ना᳘नैव म᳘न्त्राभ्यां जुह्वति प्राणोदानौ वा᳘ अस्यैतौ ना᳘नावीर्यौ प्राणोदानौ᳘ कुर्म इ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यान्मोह᳘यन्ति ह ते य᳘जमानस्य प्राणोदानावपीद्वा᳘ एनं तूष्णीं᳘ जुहुयात्॥
मूलम् - विस्वरम्
ता ऽउ ह चरकाः- नानैव मन्त्राभ्यां जुह्वति । प्राणोदानौ वा अस्यैतौ नानावीर्यौ । प्राणोदानौ कुर्म इति वदन्तः । तदु तथा न कुर्यात् । मोहयन्ति ह ते यजमानस्य प्राणोदानौ ।अपीद्वा ऽएनं तूष्णीं जुहुयात् ॥ १९ ॥
सायणः
होमे शाखान्तरमतमुपन्यस्यति- ता ऽउ ह चरका इति । चरकनामानः केचिच्छाखिनः ‘तौ’ उपांश्वन्तर्यामग्रहौ भिन्नाभ्यां ‘मन्त्राभ्यां’ ‘जुह्वति’ । तथा जुह्वतामयमाशयः । ‘एतौ’ ग्रहौ ‘अस्य’ यजमानस्य ‘प्राणोदानौ’ । तौ च भिन्नव्यापारौ निर्गमनकर्मा प्राणः, प्रवेशकर्मा चोदान इति । भिन्नमन्त्रकरणेन एतौ ग्रहौ स्वयं प्राणापानात्मकौ ‘कुर्म इति वदन्तः’ । तथाविधं च तच्च कर्म तन्न कुर्यात् । ‘यतः’ ते ‘यजमानस्य’ ‘प्राणोदानौ’ ‘मोहयन्ति’ व्याकुलीकुर्वन्ति । एकस्यैव सतः प्राणस्य वृत्तिभेदान्नानात्मनोः प्राणोदानयोः नानामन्त्रकरणेन स्वरूपभेदजननाय फलीकरणमपि भ्रमजननाद् व्याकुलीकरणं यत् द्वेधा करणम् । स्वमतमाह- अपीद्वा एनमिति । ‘अपि’ ‘वा’ ‘एनम्’ ‘इत्’ इत्थमेव । इत्थंभावं विवृणोति । ‘तूष्णीं’ ‘जुहुयात्’ । वक्ष्यमाणैकमन्त्रपक्षापेक्षया विकल्पः ॥ १९ ॥
Eggeling
- Now the Carakas, forsooth, offer these two
(libations) with two different formulas 18, saying, ‘These two are his out-breathing and in-breathing: we make the out-breathing and in-breathing of varied vigour.’ But let him not do this, for they disorder the sacrificer’s out-breathing and in-breathing. Now, one might also 19 offer this one silently:–
२०
विश्वास-प्रस्तुतिः
(त्स) स यद्वा᳘ ऽउपाᳫँ᳭शुं म᳘न्त्रेण जुहो᳘ति॥
त᳘दे᳘वास्यैषो᳘ ऽपि म᳘न्त्रेण हुतो᳘ भवति कि᳘मु त᳘त्तूष्णीं᳘ जुहुयात्समान᳘ᳫं᳘[[!!]] ह्येतद्य᳘दुपाᳫंश्वन्तर्यामौ᳘ प्राणोदानौ हि[[!!]]॥
मूलम् - श्रीधरादि
(त्स) स यद्वा᳘ ऽउपाᳫँ᳭शुं म᳘न्त्रेण जुहो᳘ति॥
त᳘दे᳘वास्यैषो᳘ ऽपि म᳘न्त्रेण हुतो᳘ भवति कि᳘मु त᳘त्तूष्णीं᳘ जुहुयात्समान᳘ᳫं᳘[[!!]] ह्येतद्य᳘दुपाᳫंश्वन्तर्यामौ᳘ प्राणोदानौ हि[[!!]]॥
मूलम् - Weber
स यद्वा᳘ उपांशु म᳘न्त्रेण जुहो᳘ति॥
त᳘देॗवास्यैषो᳘ ऽपि म᳘न्त्रेण हुतो᳘ भवति कि᳘मु त᳘त्तूष्णीं᳘ जुहुयात्समाॗनᳫं ह्येतद्य᳘दुपांश्वन्तर्यामौ᳘ प्राणोदानौ हि᳟॥
मूलम् - विस्वरम्
स यद्वा ऽउपांशुं मन्त्रेण जुहोति । तदेवास्यैषो ऽपि मन्त्रेण हुतो भवति । किमु तत्तूष्णीं जुहुयात् । समानं ह्येतद्- यदुपांश्वन्तर्यामौ- प्राणोदानौ हि ॥ २० ॥
सायणः
न चैवं मन्त्रैकतया होमस्य वैकल्यम् । उपांशोर्मन्त्रवत्त्वेनैवास्यापि तत्सिद्धेः । किंच यद्युपांशुमन्त्रामन्त्रान्तरेणान्तर्यामः क्रियेत तथाप्युपांशुमन्त्रेण कृत एव- अनयोरैक्यात् । यदा त्वमन्त्रकः क्रियते तदा विरोधिमन्त्रान्तराभावत्वेनैव मन्त्रेण कृत इति किमु वक्तव्यम् । एक एव हि स ग्रह इत्युक्तं, प्राणोदानात्मकत्वात् । तयोश्चैकप्राणवृत्तिभेदमात्रात्मकत्वादिति । यदि तु अमन्त्रकत्वानुशयपरिहाराय मन्त्रेणैवायमपि कर्तव्य इति विनिर्बन्धः । तर्हि येनैवोपांशुः क्रियते, तेनैव- “स्वांकृतः” इत्यादिना मन्त्रेणायमपि क्रियतामिति । अस्य च यजुष उपांशुग्रहलक्षणस्वार्थेन सह यो बन्धुसम्बन्ध उक्तः; स एव प्राणद्वारा तदात्मकस्यान्तर्यामस्यापीति पृथगनुक्तो ऽप्युक्त एवेति मन्तव्यम् ॥ २० ॥ २१ ॥
Eggeling
- But, as he offers the Upāṁśu with a formula, even thereby this (libation) also comes to be offered with a formula. How then could one offer it silently, for these two, the Upāṁśu and Antaryāma, are one and the same, since they are the out-breathing and in-breathing?
२१
विश्वास-प्रस्तुतिः
स ये᳘नै᳘वोपाᳫँ᳭शुं म᳘न्त्रेण जुहो᳘ति॥
ते᳘नै᳘वैतं म᳘न्त्रेण जुहोति स्वां᳘कृतो ऽसि व्वि᳘श्वेभ्य इन्द्रिये᳘भ्यो दिव्ये᳘भ्यः पा᳘र्थिवेभ्यो म᳘नस्त्वा ऽष्टु स्वा᳘हा त्वा सुभव सूर्याये᳘त्युक्तो[[!!]] य᳘जुषो ब᳘न्धुः॥
मूलम् - श्रीधरादि
स ये᳘नै᳘वोपाᳫँ᳭शुं म᳘न्त्रेण जुहो᳘ति॥
ते᳘नै᳘वैतं म᳘न्त्रेण जुहोति स्वां᳘कृतो ऽसि व्वि᳘श्वेभ्य इन्द्रिये᳘भ्यो दिव्ये᳘भ्यः पा᳘र्थिवेभ्यो म᳘नस्त्वा ऽष्टु स्वा᳘हा त्वा सुभव सूर्याये᳘त्युक्तो[[!!]] य᳘जुषो ब᳘न्धुः॥
मूलम् - Weber
स ये᳘नैॗवोपांशुम् म᳘न्त्रेण जुहो᳘ति॥
ते᳘नैॗवैतम् म᳘न्त्रेण जुहोति स्वां᳘कृतो ऽसि वि᳘श्वेभ्य इन्द्रिये᳘भ्यो दिव्ये᳘भ्यः पा᳘र्थिवेभ्यो म᳘नस्त्वाष्टु स्वा᳘हा सुभव सू᳘र्याये᳘त्युक्तो यजुषो ब᳘न्धुः॥
मूलम् - विस्वरम्
स येनैवोपांशुं मन्त्रेण जुहोति । तेनैवैतं मन्त्रेण जुहोति । “स्वांकृतो ऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वा ऽष्टु स्वाहा त्वा सुभव सूर्याय”- (वा. सं. ७ । ६) इति । उक्तो यजुषो बन्धुः ॥ २१ ॥
सायणः
[व्याख्यानं विंशतितमे]
Eggeling
- With the very same formula with which he offers the Upāṁśu, he offers this (libation),–‘Self-made thou art: for all powers divine and earthly: may the mind obtain thee! Hail!–thee, O well-born, for Sūrya!’ The significance of this formula has been told.
२२
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ हुत्वा᳘ ऽवाञ्चं ग्र᳘हम᳘वमार्ष्टि॥
(र्ष्टी) इदं वा᳘ ऽउपाᳫँ᳭शु᳘ᳫं᳘ हु᳘त्वोर्ध्वमु᳘न्माष्ट्यथात्रा᳘वाञ्चम᳘वमार्ष्टि प्रत्य᳘ञ्चमे᳘वास्मिन्नेत᳘दुदानं᳘ दधाति॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ हुत्वा᳘ ऽवाञ्चं ग्र᳘हम᳘वमार्ष्टि॥
(र्ष्टी) इदं वा᳘ ऽउपाᳫँ᳭शु᳘ᳫं᳘ हु᳘त्वोर्ध्वमु᳘न्माष्ट्यथात्रा᳘वाञ्चम᳘वमार्ष्टि प्रत्य᳘ञ्चमे᳘वास्मिन्नेत᳘दुदानं᳘ दधाति॥
मूलम् - Weber
अ᳘थ हुत्वा᳘वाञ्चं ग्र᳘हम᳘वमार्ष्टि॥
इदं वा᳘ उपांशु᳘ᳫं᳘ हुॗत्वोर्ध्वमु᳘न्मार्ष्ट्यथात्रा᳘वाञ्चम᳘वमार्ष्टि प्रत्य᳘ञ्चमेॗवास्मिन्नेत᳘दुदानं᳘ दधाति॥
मूलम् - विस्वरम्
अथ हुत्वा ऽवाञ्चं ग्रहमवमार्ष्टि । इदं वा ऽउपांशुं हुत्वोर्ध्वमुन्मार्ष्टि । अथात्रावाञ्चमवमार्ष्टि । प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति ॥ २२ ॥
सायणः
उपांशौ उन्मार्जनोपमार्जने यथा विहिते तद्वैलक्षण्यमन्तर्यामे सोपपत्तिकं विधत्ते- अथ हुत्वेति । ‘हुत्वा’ अन्तर्यामम्- ‘अवमार्ष्टि’ इति । यदस्योपांशुवैलक्षण्यार्थं तत्र ह्युन्मार्जनमुक्तम् । इदञ्चान्तर्यामस्यावमार्जने प्रयोजनम् । यदुदानस्य प्रत्यग्विधानमिति । ‘मध्यमे परिधौ’ अवाङ्मुखेन पाणिना ‘प्रत्यग्’ अन्तर्यामे उपमृज्यात् । यत एतद्विपरीतमुपांशावुपमार्जनमिति । प्रयोजनान्तरं चान्तर्यामे परिधौ प्रत्यगुपमार्जने उदानस्य प्रत्यक्त्वाविधानं नाम 20 । उपमार्जने मन्त्रः- देवेभ्यस्त्वा मरीचिपेभ्यः इति । अस्य मन्त्रस्योपांशावुक्तं ब्राह्मणमतिदिशति (श. प. ४ । १ । १ । २४) इति । सो ऽसावेव बन्धुरिति ॥ २२ ॥ २३ ॥
Eggeling
- And, having offered 21, he wipes the cup clean downwards. For even now, after offering the Upāṁśu, he wiped (the cup) upwards; but here he wipes it downwards; whereby he puts the in-breathing into him as one tending towards him.
२३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ नी᳘चा पाणि᳘ना॥
मध्यमे᳘ परिधौ᳘ प्रत्यगु᳘पमार्ष्टीदं वा᳘ उपाᳫँ᳭शु᳘ᳫं᳘ हु᳘त्वोत्ताने᳘न पाणि᳘ना मध्यमे᳘ परिधौ प्रागु᳘पमार्ष्ट्यथा᳘त्र नी᳘चा पाणि᳘ना मध्यमे᳘ परिधौ᳘ प्रत्यगु᳘पमार्ष्टि प्रत्य᳘ञ्चमे᳘वास्मिन्नेत᳘दुदानं᳘ दधाति देवे᳘भ्यस्त्वा मरीचिपे᳘भ्य इ᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ नी᳘चा पाणि᳘ना॥
मध्यमे᳘ परिधौ᳘ प्रत्यगु᳘पमार्ष्टीदं वा᳘ उपाᳫँ᳭शु᳘ᳫं᳘ हु᳘त्वोत्ताने᳘न पाणि᳘ना मध्यमे᳘ परिधौ प्रागु᳘पमार्ष्ट्यथा᳘त्र नी᳘चा पाणि᳘ना मध्यमे᳘ परिधौ᳘ प्रत्यगु᳘पमार्ष्टि प्रत्य᳘ञ्चमे᳘वास्मिन्नेत᳘दुदानं᳘ दधाति देवे᳘भ्यस्त्वा मरीचिपे᳘भ्य इ᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - Weber
अ᳘थ नी᳘चा पाणि᳘ना॥
मध्यमे᳘ परिधौ᳘ प्रत्यगु᳘पमार्ष्टीदं वा᳘ उपांशु᳘ हुॗत्वोत्ताने᳘न पाणि᳘ना मध्यमे᳘ परिधौ प्रागु᳘पमार्ष्ट्यथा᳘त्र नी᳘चा पाणि᳘ना मध्यमे᳘ परिधौ प्रत्यगु᳘पमार्ष्टि प्रत्यञ्चमे᳘वास्मिन्नेत᳘दुदानं᳘ दधाति देवे᳘भ्यस्त्वा मरीचिपे᳘भ्य इ᳘तिॗ सो ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - विस्वरम्
अथ नीचा पाणिना मध्यमे परिधौ प्रत्यमुपमार्ष्टि । इदं वा ऽउपांशुं हुत्वोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्टि । अथात्र नीचा पाणिना मध्यमे परिधौ प्रत्यगुपमार्ष्टि । प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति । “देवेभ्यस्त्वा मरीचिपेभ्यः”- (वा. सं. ७ । ६) इति । सो ऽसावेव बन्धुः ॥ २३ ॥
सायणः
[व्याख्यानं द्वाविंशतितमे]
Eggeling
- He then rubs (the wiped-off Soma) upon the middle enclosing stick from east to west with the palm of his hand turned downwards. For even now, after offering the Upāṁśu, he rubbed it upon the
middle enclosing stick from west to east with the palm of his hand turned upwards; but here he does so from east to west with the palm of his hand turned downwards–whereby he puts the in-breathing into him as one tending towards him–with, ‘Thee for the gods sipping motes of light!’ The significance is the same as before.
२४
विश्वास-प्रस्तुतिः
(स्तं᳘) तं᳘ प्रत्याक्र᳘म्य सादयति॥
(त्यु) उदाना᳘य त्वे᳘त्युदानो᳘ ह्य᳘स्यैष ता᳘नि वै स᳘ᳫं᳘स्पृष्टानि सादयति प्राणोदाना᳘ने᳘वैत᳘त्सᳫँ᳭स्पर्श᳘यति प्राणोदानान्त्स᳘न्दधाति॥
मूलम् - श्रीधरादि
(स्तं᳘) तं᳘ प्रत्याक्र᳘म्य सादयति॥
(त्यु) उदाना᳘य त्वे᳘त्युदानो᳘ ह्य᳘स्यैष ता᳘नि वै स᳘ᳫं᳘स्पृष्टानि सादयति प्राणोदाना᳘ने᳘वैत᳘त्सᳫँ᳭स्पर्श᳘यति प्राणोदानान्त्स᳘न्दधाति॥
मूलम् - Weber
त᳘म् प्रत्याक्र᳘म्य सादयति॥
उदाना᳘य त्वे᳘त्युदानो ह्य᳘स्यैष ता᳘नि वै स᳘ᳫं᳘स्पृष्टानि सादयति प्राणोदाना᳘वेॗवैत᳘त्संस्पर्श᳘यति प्राणोदानान्त्सं᳘दधाति॥
मूलम् - विस्वरम्
तं प्रत्याक्रम्य सादयति । “उदानाय त्वा”- (वा. सं. ७ । ६) इति । उदानो ह्यस्यैषः । तानि वै संस्पृष्टानि सादयति । प्राणोदानानेवैतत्संस्पर्शयति । प्राणोदानान्त्सन्दधाति ॥ २४ ॥
सायणः
अन्तर्यामस्य तन्मन्त्रं च विधाय स्तौति- तं प्रत्याक्रम्येति 20 । यतो ऽन्तर्याम उदानः, अतस्तदासादने- “उदानाय त्वा” इति मन्त्र इत्यर्थः । सादने विशेषं विधाय स्तौति- तानि वा इति । उपांश्वन्तर्यामोपांशुसवनानि परस्परं यथा ‘संस्पृष्टानि’ भवन्ति तथा सादयेत् । एतत् संस्पृष्टासादनं प्राणोदानव्यानान् सदा संस्पृष्टान् करोति । तस्य च प्रयोजनं प्राणोदानव्यानानां सदासंगत्या ऽवस्थानम् । प्राणोदानयोः सन्ध्यात्मकतया व्यानो ऽपि ताभ्यामेव गृह्यत- इति तदपेक्षया ‘प्राणोदानान्’ इति बहुवचनम् । तस्य तदुभयसन्धिरूपता च च्छन्दोगैराम्नायते- ”अथ यः प्राणापानयोः सन्धिः स व्यानः” (छां. उप. १ । ३ । ३) इति ॥ २४ ॥
Eggeling
- Having returned (to the cart-shed), he deposits that (cup) with, ‘Thee for the in-breathing!’ for this is indeed his in-breathing. He deposits them 22 so as to touch one another; whereby he makes out-breathing and in-breathing touch one another, joins the out-breathings and in-breathings together.
२५
विश्वास-प्रस्तुतिः
ता᳘नि वा ऽअ᳘निङ्ग्यमानानि शेरे॥
(र ऽआ᳘) आ᳘ तृतीयसवनात्त᳘स्मादिमे᳘ मनु᳘ष्याः स्वपन्ति ता᳘नि पु᳘नस्तृतीयसवने प्र᳘युज्यन्ते त᳘स्मादिमे᳘ मनु᳘ष्याः सुप्त्वा[[!!]] प्र᳘बुध्यन्ते ते᳘ ऽनिशिताश्चराचरा᳘ यज्ञ᳘स्यै᳘वैत᳘द्विधाम᳘नु व्व᳘य इव ह वै᳘ यज्ञो व्वि᳘धीयते त᳘स्योपाᳫँ᳭श्वन्तर्यामा᳘वेव᳘ पक्षा᳘वा᳘त्मोपाᳫँ᳭शुस᳘वनः॥
मूलम् - श्रीधरादि
ता᳘नि वा ऽअ᳘निङ्ग्यमानानि शेरे॥
(र ऽआ᳘) आ᳘ तृतीयसवनात्त᳘स्मादिमे᳘ मनु᳘ष्याः स्वपन्ति ता᳘नि पु᳘नस्तृतीयसवने प्र᳘युज्यन्ते त᳘स्मादिमे᳘ मनु᳘ष्याः सुप्त्वा[[!!]] प्र᳘बुध्यन्ते ते᳘ ऽनिशिताश्चराचरा᳘ यज्ञ᳘स्यै᳘वैत᳘द्विधाम᳘नु व्व᳘य इव ह वै᳘ यज्ञो व्वि᳘धीयते त᳘स्योपाᳫँ᳭श्वन्तर्यामा᳘वेव᳘ पक्षा᳘वा᳘त्मोपाᳫँ᳭शुस᳘वनः॥
मूलम् - Weber
ता᳘नि वा अ᳘निङ्ग्यमानानि शेरे॥
आ᳘ तृतीयसवनात्त᳘स्मादिमे᳘ मनुॗष्याः स्वपन्ति ता᳘नि पु᳘नस्तृतीयसवने प्र᳘जुज्यन्ते त᳘स्मादिमे᳘ मनुॗष्याः सुप्त्वा᳘ प्र᳘बुध्यन्ते ते᳘ ऽनिशिताश्चराचरा᳘ यज्ञ᳘स्यैॗवैत᳘द्विधाम᳘नु व᳘य इव ह वै᳘ यज्ञो वि᳘धीयते त᳘स्योपांश्वन्तर्यामा᳘वेव᳘ पक्षा᳘वाॗत्मोपांशुस᳘वनः॥
मूलम् - विस्वरम्
तानि वा ऽअनिङ्ग्यमानानि शेरे- आ तृतीयसवनात् । तस्मादिमे मनुष्याः स्वपन्ति । तानि पुनस्तृतीयसवने प्रयुज्यन्ते । तस्मादिमे मनुष्याः सुप्त्वा प्रबुध्यन्ते । ते ऽनिशिताश्चराचरा यज्ञस्यैवैतद्विधामनु । वय इव ह वै यज्ञो विधीयते । तस्योपांश्वन्तर्यामावेव पक्षौ । आत्मोपांशुसवनः ॥ २५ ॥
सायणः
आसादितानां त्रयाणां तृतीयसवनपर्यन्तमव्यापारं तत्र हेतुमाह- तानि वा अनिङ्ग्यमानानीति । ‘तानि’ ‘अनिङ्ग्यमानानि’ अव्याप्रियमाणानि ‘शेरे’ शेरते “लोपस्त आत्मनेपदेषु” (पा. सू. ७ । १ । ४१) इति तलोपः । ‘पुनः’ च ‘तृतीयसवने प्रयुज्यन्ते’ इति यत् । तत्रायं हेतुः- ‘तस्माद्’ ‘इमे’ मनुष्याः कियन्तमपि कालं ‘सुप्त्वा प्रबुध्यन्ते’ । स्वापापनीताश्च ‘ते ऽनिशिताः’ अनलसाः व्याप्रियन्ते । मनुष्याणां च यौ स्वापप्रबोधौ तौ यज्ञस्य प्रकारमनुसृत्य सम्पन्नौ । कथमिति चेत्- वय इव ह वै यज्ञ इति । यतो ‘यज्ञो’ ‘वय इव’ पक्षीव । पक्षिणो हि यथा पक्षौ मध्यभागश्च । एवं यज्ञात्मकस्य पक्षिणः ‘उपांश्वन्तर्यामौ’ ‘पक्षौ’ । ‘उपांशुसवनः’ च । मध्यभागः । अत एकरूपत्वादुपांश्वादित्रयानुविधानमेव उक्तानुवादपुरःसरमुक्तम् ॥ २५ ॥
Eggeling
- Now these (cups and stone) repose without being moved until the evening Soma feast, whence men sleep here on earth; and at the evening Soma feast they are used again, whence these men, having slept, awake and are bustling and restless;–this, forsooth, is after the manner of the sacrifice, for the sacrifice is fashioned like a bird: the Upāṁśu and Antaryāma (grahas) are its wings, and the Upāṁśusavana (stone) its body.
२६
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘नि वा ऽअ᳘निङ्ग्यमानानि शेरे॥
(र ऽआ᳘) आ᳘ तृतीयसवना᳘त्ताय᳘ते यज्ञ ए᳘ति वै तद्य᳘त्ताय᳘ते त᳘स्मादिमा᳘नि व्व᳘याᳫँ᳭सि विगृ᳘ह्य पक्षाव᳘नायुवानानि पतन्ति ता᳘नि पु᳘नस्तृतीयसवने प्र᳘युज्यन्ते त᳘स्मादिमा᳘नि व्व᳘याᳫ᳭सि समा᳘सं पक्षा᳘वायुवाना᳘नि पतन्ति यज्ञ᳘स्यै᳘वैत᳘द्विधाम᳘नु॥ (शतम् २३००॥)
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘नि वा ऽअ᳘निङ्ग्यमानानि शेरे॥
(र ऽआ᳘) आ᳘ तृतीयसवना᳘त्ताय᳘ते यज्ञ ए᳘ति वै तद्य᳘त्ताय᳘ते त᳘स्मादिमा᳘नि व्व᳘याᳫँ᳭सि विगृ᳘ह्य पक्षाव᳘नायुवानानि पतन्ति ता᳘नि पु᳘नस्तृतीयसवने प्र᳘युज्यन्ते त᳘स्मादिमा᳘नि व्व᳘याᳫ᳭सि समा᳘सं पक्षा᳘वायुवाना᳘नि पतन्ति यज्ञ᳘स्यै᳘वैत᳘द्विधाम᳘नु॥ (शतम् २३००॥)
मूलम् - Weber
ता᳘नि वा अ᳘निङ्ग्यमानानि शेरे॥
आ᳘ तृतीयसवना᳘त्ताय᳘ते यज्ञ ए᳘ति वै तद्य᳘त्ताय᳘ते त᳘स्मादिमा᳘नि व᳘यांसि विगृ᳘ह्य पक्षाव᳘नायुवानानि पतन्ति ता᳘नि पु᳘नस्तृतीयसवने प्र᳘युज्यन्ते 23 त᳘स्मादिमा᳘नि व᳘यांसि समा᳘सम् पक्षा᳘वायुवाना᳘नि पतन्ति यज्ञ᳘स्यैॗवैत᳘द्विधाम᳘नु॥
मूलम् - विस्वरम्
तानि वा ऽअनङ्ग्यमानानि शेरे- आ तृतीयसवनात् । तायते यज्ञः । एति वै तद्-यत्तायते । तस्मादिमानि वयांसि विगृह्य पक्षावनायुवानानि पतन्ति । तानि पुनस्तृतीसवने प्रयुज्यन्ते । तस्मादिमानि वयांसि समासं पक्षावायुवानानि पतन्ति । यज्ञस्यैवैतद्विधामनु ॥ २६ ॥
सायणः
यज्ञस्य पक्षिरूपतामुदाहरणान्तरेणापि विष्टब्धयति- तानि वा इति । उपांश्वादीनि तृतीयसवनारम्भपर्यन्तं निर्व्यापाराणि तिष्ठन्ति । तभयात्मकस्य यज्ञस्य स्वापः । तृतीयसवने च तैः पात्रैः स ‘यज्ञस्तायते’ विस्तार्यते । यश्च यज्ञस्य विस्तारः प्रबुद्धः । यज्ञपक्षिणो गमनं- यज्ञविस्तारसमये पात्राणि नैकत्रासादितानि तिष्ठन्ति, किन्तु तत्र तत्र व्याप्रियन्ते । तदेतद्यज्ञपक्षिणो लौकिकपक्षिवत् प्रबोधानन्तरं ‘पक्षौ’ विक्षिप्य पक्ष्यन्तरसङ्गमं वियुक्तं वियति विष्कम्भेण गमनम् । अनायुवानानीति । “यु मिश्रणामिश्रणयोः”- इति (पा. धा. अ. प. २३) मिश्रणे मेलने वर्तमानात् । व्यत्ययेन शानच् (पा. सू. ३ । २ । १२४) । ताच्छील्ये वा चानश् (पा. सू. ३ । २ । १२९) तानि पुनः ‘तृतीयसवने’ कार्यनिष्पत्त्यनन्तरं खरे ‘प्रयुज्यन्ते’ सह साद्यन्ते- तदेतद्विशदयति । श्रान्तस्य पक्षिणः पक्षौ संक्षिप्य पुनः स्वनिवासगमनं यज्ञपक्षिणः खरे सह पात्रसादनमिह भवति । ‘समासं’ समस्य संक्षिप्येत्यर्थः इत्थं यज्ञपक्षिणम् ‘अनु’ विधत्ते लौकिकः पक्षी ॥ २६ ॥
Eggeling
- They repose without being moved until the evening Soma feast. The sacrifice is spread along; but what is spread along moves, whence those birds fly spreading their wings, not drawing them in. At the evening Soma feast they are again used; whence
these birds fly drawing in their wings to fold them: this indeed is after the manner of the sacrifice.
२७
विश्वास-प्रस्तुतिः
(न्वि) इय᳘ᳫं᳘ ह वा᳘ ऽउपाᳫँ᳭शुः᳘॥
प्राणो᳘ ह्युपाᳫँ᳭शु᳘रिमा᳘ᳫं᳘ ह्येव प्रा᳘णन्नभिप्रा᳘णित्यसा᳘वे᳘वान्तर्याम᳘ उदानो᳘ ह्यन्तर्या᳘मो ऽमु᳘ᳫं᳘[[!!]] ह्येव᳘ लोक᳘मुद᳘नन्नभ्युद᳘नित्यन्त᳘रिक्षमे᳘वोपाᳫँ᳭शुस᳘वनो व्यानो᳘ ह्युपाᳫं᳭शुस᳘वनो ऽन्त᳘रिक्ष᳘ᳫं᳘[[!!]] ह्येव व्यनन्नभिव्य᳘निति[[!!]]॥
मूलम् - श्रीधरादि
(न्वि) इय᳘ᳫं᳘ ह वा᳘ ऽउपाᳫँ᳭शुः᳘॥
प्राणो᳘ ह्युपाᳫँ᳭शु᳘रिमा᳘ᳫं᳘ ह्येव प्रा᳘णन्नभिप्रा᳘णित्यसा᳘वे᳘वान्तर्याम᳘ उदानो᳘ ह्यन्तर्या᳘मो ऽमु᳘ᳫं᳘[[!!]] ह्येव᳘ लोक᳘मुद᳘नन्नभ्युद᳘नित्यन्त᳘रिक्षमे᳘वोपाᳫँ᳭शुस᳘वनो व्यानो᳘ ह्युपाᳫं᳭शुस᳘वनो ऽन्त᳘रिक्ष᳘ᳫं᳘[[!!]] ह्येव व्यनन्नभिव्य᳘निति[[!!]]॥
मूलम् - Weber
इय᳘ᳫं᳘ ह वा᳘ उपांशुः᳟॥
प्राणोॗ ह्युपांशु᳘रिमाॗᳫंॗ ह्येव प्रा᳘णन्नभिप्रा᳘णित्यसा᳘वेॗवान्तर्याम᳘ उदानो ह्य᳘न्तर्याॗमो ऽमुॗᳫंॗ ह्येव᳘ लोक᳘मुद᳘नन्नभ्युद᳘नित्यन्त᳘रिक्षमेॗवोपांशुस᳘वनो व्यानोॗ ह्युपांशुस᳘वनो ऽन्त᳘रिॗक्षᳫं ह्येव व्य᳘नन्नभिव्य᳘निति॥
मूलम् - विस्वरम्
इयं ह वा ऽउपांशुः । प्राणो ह्युपांशुः । इमां ह्येव प्राणन्नभिप्राणिति । असावेवान्तर्यामः । उदानो ह्यन्तर्यामः । अमुं ह्येव लोकमुदनन्नभ्युदनिति । अन्तरिक्षमेवोपांशुसवनः । व्यानो ह्युपांशुसवनः । अन्तरिक्षं ह्येव व्यनन्नभिव्यनिति ॥ २७ ॥
सायणः
आसादितानामुपांश्वादीनां त्रयाणां लोकत्रयात्मकत्वेनापि प्राशस्त्यमाह- इयं ह वा ऽउपांशुरित्यादि । तत्र ‘उपांशुः’ भूलोकात्मकः, स हि प्राणात्मक इत्युक्तम् (श. प. ४ । १ । १ । १ ।) । भुवमाश्रित्यैव सर्वे प्राणन्ति, अतो भूरपि प्राणात्मिका यतः- अन्तर्यामो द्युलोकात्मकः, स ह्युदानात्मक इत्युक्तम् (श. प. ४ । १ । १ । १ ।) उदानश्चावाग्वृत्तितया प्राणोत्क्रमप्रतिबन्धकत्वेन जीवनहेतुः । जीवन्तश्च सर्वे यागदानादिभिः ‘अमुं’ लोकं साधयाम इत्येव जीवन्तीति । अमुमेव लोकं लक्षयित्वोदनन्तीत्यसौ लोक उदानात्मकः । उपांशुसवनो ऽन्तरिक्षलोकात्मकः । स च प्राणोदानसन्धिरूपो व्यानात्मक इत्युक्तम् । व्यानव्यापाराणां च ऋक्सामाभि ऽव्याहाराग्निमन्थनाजिसरणदृढधनुरायमनादीनामप्राणता ऽनपानता चैव । म्रियमाणानामन्तरिक्षलोकमाश्रित्यैव 24 निष्पत्तेः । अन्तरिक्षलोको ऽपि व्यानात्मको यतः । इत्युपांश्वादित्रयस्य लोकत्रयात्मकतया प्राशस्त्यमिति । “अभिरभागे” (पा. सू. १ । ४ । ९४) इति । “अन्तर्लक्षणे” कर्मप्रवचनीयत्वम् । तद्योगात् ‘इमाम् अमुं अन्तरिक्षं’ इति द्वितीया ॥ २७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे प्रथमाध्याये द्वितीयं ब्राह्मणम् ॥ (४-१-२) ॥
Eggeling
- The Upāṁśu, forsooth, is this (earth), for the Upāṁśu is the out-breathing, and breathing out one breathes upon this (earth). And the Antaryāma is yonder (sky), for the Upāṁśu is the in-breathing (up-breathing), and in breathing up one breathes towards yonder world. And the Upāṁśu-savana (stone) is the air, for the Upāṁśu-savana is the through-breathing, and he who breathes through (in and out), breathes through this air.
-
258:1 Antaḥpavitrāt, lit. from (the vessel or stream of Soma) which has the strainer inside it; the straining-cloth being spread over the Droṇakalaśa, into which the pressed-out Soma-juice is poured. The Petersburg Dictionary assigns to it the meaning ’the Soma within the filtering vessel’ (see IV, 1, 1, 3). Perhaps it means ‘from that which has a strainer between,’ i.e. from the poured-out stream from which the libation is taken, and which is separated from the Droṇakalaśa by the straining-cloth. ↩︎
-
259:1 The term Upayāma, lit. ‘foundation, substratum,’ referring properly to ’that which is held under’ while taking the libation, that is, the cup of the respective graha (and hence also identified with the earth, as the substratum of everything, cf. Sāy. on Taitt. S. I, 4, 3), has come to be applied likewise to the formula ‘upayāmagr̥hīto ’si,’ i.e. ’thou art taken with (or on) a support,’ which is repeated at those libations before the formulas muttered while they are drawn into the respective vessels or cups (see par. 15). Haug, Transl. Ait. Br. p. 118 note, makes the following distinction between the graha (cup) and pātra (vessel) of the Antaryāma (and Upāṁśu) libation: ‘The pātra is a vessel resembling a large wooden jar with but a very slight cavity on the top, in which the Soma-juice is filled. The graha is a small cup, like a saucer, made of earth, and put over the cavity of the Soma vessel, in order to cover the “precious” juice. The bottom of it is first put in water, and a gold leaf placed beneath it. There are as many grahas as there are pātras; they belong together just as cup and saucer, and are regarded as inseparable. The word graha is, however, taken often in the sense of the whole, meaning both graha and pātra.’ I doubt, however, whether this distinction is in accordance with the old authorities. The graha vessels or cups are described as resembling the shape of a mortar. For other peculiarities, see IV, I, 5, 19. With some libations there is both a pātra (cup) and a sthālī (bowl). ↩︎
-
259:2 See III, 2, 3, 1 seq. ↩︎
-
260:1 Lit. forms the support or basis for it. The sentence could also be translated, ’this earth doubtless is an upayāma (support), since she bears food.’ Apparently he means to say that, as the gods are above, the food to he offered to them requires some support, something to ‘hold it up’ by for the gods to reach it. ↩︎
-
260:2 This refers to the formula ‘This is thy womb,’ with which most libations, after being drawn, are deposited in their proper place on the khara until they are used for offering. See IV, 1, 3, 19. ↩︎
-
उदिते ऽन्तर्यामग्रहणमुपयामगृहीत इति । का. श्रौ. सू. ९ । १२४ । ↩︎
-
261:1 ‘Were he to offer both after sunrise, there would only be day, and no night; and were he to offer both before sunrise, there would only be night, and no day.’ Kāṇva text. ↩︎
-
261:2 Tasmād y idaṁ rātrau tamasi sati nirjñāyata iva kiṁcid iva. Kāṇva text. ↩︎
-
तद᳘हंदधाति AB. प्राजा न प्र A. ↩︎
-
उदिते ऽन्तर्याभग्रहणमुपयामगृहीत इति । का. श्रौ. सू. ९-१२४ । ↩︎
-
261:3 Viz. from the stream of Soma poured from the Hotr̥’s cup on the straining-cloth. See p. 256, note 1. ↩︎
-
261:4 See paragraph 6, with note. ↩︎
-
Are we to read प्राणॗत्यश्चोदनॗत्य ? ↩︎
-
262:1 Mahīdhara offers the alternative interpretation, ’through thee I place day and night between (Soma and the enemies),’ which is also Sāyaṇa’s interpretation on Taitt. S. I, 4, 3; as apparently that of the Taitt. S. itself, VI, 4, 6. ↩︎
-
तन्न᳘ साद AB. ↩︎
-
अपमार्ष्ट्यत्र का. श्रौ. सू. ९ । १२६ ↩︎
-
262:2 See IV, 1, 1, 17-18. ↩︎
-
263:1 This does not appear to refer to the Taittirīyas, since by them the same order of proceeding is prescribed for the Antaryāma as for the Upāṁśu (p. 252, note 2); cf. Sāyaṇa on Taitt. S. I, p. 603. See, however, Maitrāy. Saṁh. I, 3, 4-5. ↩︎
-
263:2 ‘Apīd (vai)’ seems to have much the same meaning (‘perhaps’) as the later ‘api nāma.’ Cf. I, 9, 1, 19. ↩︎
-
प्रथमे च न्युब्जेन पाणिना प्रत्यक् । का. श्रौ. सू. ९ । १२७ । ↩︎ ↩︎
-
263:3 He offers the entire Soma in the Antaryāma cup, without leaving any, or pouring any juice into the Āgrayaṇasthālī. ↩︎
-
264:1 According to the Kāṇva text he is to place the Antaryāma cup on the south-east corner (dakshiṇārdhe) of the khara (see p. 255, n. 2); while, according to Kāty. IX, 2, I, both the Upāṁśu and Antaryāma are to be placed on the north-east corner, the former south of the latter. This arrangement, however, would scarcely agree with IV, I, 1, 27-28. The Upāṁśu-savana stone, doubtless, is to lie between the two cups, with its face towards the Upāṁśu. ↩︎
-
प्र᳘त्युज्यन्ते A. ↩︎
-
‘क्रियमाणानां’ इति क्व. पाठ । ↩︎