०१
विश्वास-प्रस्तुतिः
प्राणो᳘ ह वा᳘ ऽअस्योपाᳫं᳭शुः᳘॥
(र्व्या) व्यान᳘ ऽउपाᳫं᳭शुस᳘वन ऽउदान᳘ ऽए᳘वान्तर्यामः[[!!]]॥
मूलम् - श्रीधरादि
प्राणो᳘ ह वा᳘ ऽअस्योपाᳫं᳭शुः᳘॥
(र्व्या) व्यान᳘ ऽउपाᳫं᳭शुस᳘वन ऽउदान᳘ ऽए᳘वान्तर्यामः[[!!]]॥
मूलम् - Weber
प्राणो᳘ ह वा᳘ अस्योपांशुः᳟॥
व्यान᳘ उपांशुस᳘वन उदान᳘ एॗवान्तर्यामः᳟॥
मूलम् - विस्वरम्
अथ ग्रहयागाः ।
तत्रादौ प्रातःसवनीयाः षोडश ग्रहाः । तत्रायमुपांशुग्रहः ॥ प्राणो ह वा ऽअस्योपांशुः, व्यान उपांशुसवनः, उदान एवान्तर्यामः ॥ १ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
प्रागुपांशुग्रहात्काण्डे तृतीये यन्निरूपितम् । तदादिसोमशेषो यश्चतुर्थे स निरूप्यते ॥ २ ॥
सायणः
एकाहाहीनसत्रात्मनां सोमयागानां प्रकृतिभूतस्य ज्योतिष्टोमस्य दीक्षिणीयाद्युपांशुग्रहात् प्राक्तनं प्रयोगजातमभिहितं तृतीये काण्डे । उपांशुग्रहणादिकः सकलः सोमशेषश्चतुर्थे ऽभिधीयते । उपांशुग्रहमन्त्रेष्वपि “आददे” इत्यारभ्य- ”वाचस्पतये" इत्यतः प्राक्तना मन्त्रास्तृतीयकाण्ड एव विनियुक्ता व्याख्याताश्च । “वाचस्पतये”- इति मन्त्रो बहिष्पवित्र उपांशुग्रहणे विनियुज्यते 1 । बहिर्ग्रहणस्य च प्रयोजनं प्राणस्य बहिः संचारप्राप्तिबन्धनिरासं वक्ष्यति ‘सो ऽस्यापं पराङेव’ इति । तदुपपादनायोपोद्धातत्वेनोपांशोः प्राणरूपतामाह- प्राणो ह वा ऽअस्योपांशुरिति । ‘अस्य’ सोमयागस्यादौ गृह्यमाणः यो ऽयम् ‘उपांशुः’ एषो ऽस्य क्रतोः सकलस्य वा लोकस्य प्राणत्वेन प्रसिद्धः । ‘ह वा’ इति निपातद्वयस्य प्रसिद्धिद्योतकत्वेनापौनरुक्त्यम् “तत्प्रयोगावसेयत्वाद्वाच्यस्तेषां स गम्यते । समुच्चयादिरर्थात्मा वाच्य एषां गवादिकः ॥” इति प्रपठ्य, उक्तं हि निपातानां द्योतकत्वम्- “षष्ठ्यभावादसत्त्वोक्तेरेकानुक्तेः परिस्थिते । गुणाभावात्स्मृतेश्चैषां द्योतकत्वं सुनिश्चितम् ॥" इति । यावता हि तन्तुजातेन यः पटो निष्पादितः स एव तन्त्वन्तरैर्न निष्पाद्यत इति स्वतन्त्राणामुपादानानामसमुच्चयो युक्तः । यः एव पटः एकेन दीपेन प्रकाश्यते स एवान्यैर्बहुभिरपि दीपैरिति निरपेक्षसाधनेष्वपि द्योतकेषु समुच्चयो न विरुध्यते । अथवा हशब्दोक्तां शाखान्तरगतप्राणत्वप्रसिद्धिं वैशब्दः स्मारयति । उक्तं हि तैत्तिरीयके- “प्राणो वा एष यदुपांशु:” - (तै. सं. ६ । ४ । ५) इति । उक्तमुपांशोः प्राणत्वं द्रढयितुम् उपांशुसहचारिणः उपांशुसवनस्य अन्तर्यामस्य च व्यानोदानतामाह- व्यान उपांशु इति । अन्तर्यामस्य चेतरद्वयसाहचर्यम् उपांश्वन्तर्यामयोर्मध्ये उपांशुसवनस्योभयसंस्पर्शेनासादनविधानात् । यदाह कात्यायनः- ”उपांशुसवनं पाणिना प्रमृज्योदञ्चं व्यानाय त्वेति संस्पृष्टम्, उपविष्टयो रभिषुण्वन्तिचत्वारः पर्युपवेशनसामर्थ्यात्” (का. श्रौ. सू. ९ । ९२ । ९३) इति । तैत्तिरीयके च- “यं कामयेत प्रमायुकः स्यादित्यसंस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ विच्छिनत्ति ताहास्य प्रमीयते 2 । यं कामयेत सर्वमायुरियादिति संस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ सन्तनोति सर्वमायुरेति"- (तै. सं. ६ । ४ । ६) इति ॥ १ ॥
Eggeling
- The Upāṁśu (graha), forsooth, is the out-breathing of the Sacrifice 3, the Upāṁśu-savana (press-stone) the through-breathing, and the Antaryāma (graha) the in-breathing.
०२
विश्वास-प्रस्तुतिः
(मो᳘) अ᳘थ य᳘स्मादुपाᳫं᳭शुर्ना᳘म॥
(मा) अᳫंशुर्व्वै ना᳘म ग्र᳘हः स᳘ प्रजा᳘पतिस्त᳘स्यैष᳘ प्राणस्तद्य᳘दस्यैष᳘ प्राणस्त᳘स्मादुपाᳫंशुर्ना᳘म॥
मूलम् - श्रीधरादि
(मो᳘) अ᳘थ य᳘स्मादुपाᳫं᳭शुर्ना᳘म॥
(मा) अᳫंशुर्व्वै ना᳘म ग्र᳘हः स᳘ प्रजा᳘पतिस्त᳘स्यैष᳘ प्राणस्तद्य᳘दस्यैष᳘ प्राणस्त᳘स्मादुपाᳫंशुर्ना᳘म॥
मूलम् - Weber
अ᳘थ य᳘स्मादुपांशुर्ना᳘म॥
अंशुर्वै ना᳘म ग्र᳘हः स᳘ प्रजा᳘पतिस्त᳘स्यैष᳘ प्राणस्तद्य᳘दस्यैष᳘ प्राणस्त᳘स्मादुपांशुर्ना᳘म॥
मूलम् - विस्वरम्
अथ यस्मादुपांशुर्नाम । अंशुर्वै नाम ग्रहः । स प्रजापतिः । तस्यैष प्राणः । तद्यदस्यैष प्राणः- तस्मादुपांशुर्नाम ॥ २ ॥
सायणः
उक्तमुपांशोः प्राणत्वं प्रश्नपूर्वकमुपांशुनामव्युत्पत्त्या ऽपि समर्थयितुं पृच्छति- अथ यस्मादुपांशुर्नामेति । यस्माच्छब्दप्रवृत्तिनिमित्तादयमुपांशुरिति प्रसिद्ध: किं तदिति ? ‘अथ’ शब्दद्योतितप्रश्नपदाध्याहारेण वाक्यं पूरणीयम् । उत्तरमाह- अंशुर्वै नामेति । गृह्यते ऽनेनेति करणव्युत्पत्त्या ‘ग्रहः’ दारुमयं पात्रमंशुनामकम् । तस्य यज्ञसाधनत्वेन यज्ञत्वोपचारात्, यज्ञस्य च “यज्ञो वै प्रजापतिः” (तै. ब्रा. १ । ३ । १०) इति प्रजापतित्वप्रसिद्धेः स ग्रहः प्रजापतिस्तस्य प्रजापत्यात्मकस्य ग्रहस्य प्राणवदन्तश्चरति तेनैष सोमरसः प्राणः । तत्सोमरसात्मकं द्रव्यं यस्मादस्यांशुग्रहात्मकप्रजापतेरेष उक्तोपपादनः प्राणस्तस्मादुपगतों ऽशुमिति विगृह्य “अत्यादयः क्रान्ताद्यर्थे द्वितीयया” इति- (पा. सू. १ । ४ । ७९ वा. २) द्वितीयासमासादुपांशुनामकत्वमित्यर्थः । यद्वा अंशुं गृह्णातीति विहितः सोमग्रहों ऽशुः, स चानिरुक्तया प्राजापत्यया गृह्यत इति प्रजापत्यात्मकः, तं प्राणरूपेणोपगतो ग्रह उपांशुः । शिष्टं समानम् । ननु प्राणत्वे नामव्युत्पत्तिर्हेतुरित्युक्तम् । नाम्नि च प्राणत्वं हेतुरधुनोय्यत इति विपरीतम् । न नामनिष्पत्तौ प्राणत्वं हेतुरधुनोक्तः । निष्पन्नं तु नाम प्राणत्वज्ञाने हेतुः प्रागुक्तः । कारकज्ञापकयोश्च हेतुहेतुमत्त्ववैपरीत्यं भूषणमेव न दूषणम् । यतो ऽग्निर्धूमस्योत्पत्तौ हेतु:, धूमश्चाग्नेर्ज्ञाने हेतुरिति ॥ २ ॥
Eggeling
- Now as to why it is called Upāṁśu. There is a graha called Aṁśu 4, that is Prajāpati: his out-breathing is this (graha); and because it is his out-breathing, therefore it is called Upāṁśu.
०३
विश्वास-प्रस्तुतिः
तं᳘ बहिष्पवित्रा᳘द्गृह्णाति॥
प᳘राञ्चमे᳘वास्मिन्नेत᳘त्प्राणं᳘ दधाति᳘ सो ऽस्यायं प᳘राङेव᳘ प्राणो नि᳘रर्दति त᳘मᳫं᳭शु᳘भिः पावयति पू᳘तो ऽसदि᳘ति षड्भिः᳘ पावयति षड्वा᳘ ऽऋत᳘व ऋतु᳘भिरे᳘वैनमेत᳘त्पावयति॥
मूलम् - श्रीधरादि
तं᳘ बहिष्पवित्रा᳘द्गृह्णाति॥
प᳘राञ्चमे᳘वास्मिन्नेत᳘त्प्राणं᳘ दधाति᳘ सो ऽस्यायं प᳘राङेव᳘ प्राणो नि᳘रर्दति त᳘मᳫं᳭शु᳘भिः पावयति पू᳘तो ऽसदि᳘ति षड्भिः᳘ पावयति षड्वा᳘ ऽऋत᳘व ऋतु᳘भिरे᳘वैनमेत᳘त्पावयति॥
मूलम् - Weber
त᳘म् बहिष्पवित्रा᳘द्गृह्णाति॥
प᳘राञ्चमेॗवास्मिन्नेत᳘त्प्राणं᳘ दधातिॗ सो ऽस्यायम् प᳘राङेव᳘ प्राणो नि᳘रर्दति त᳘मंशु᳘भिः पावयति पूॗतो ऽसदि᳘ति षड्भिः᳘ पावयति षड्वा᳘ ऋत᳘व ऋतु᳘भिरेॗवैनमेत᳘त्पावयति॥
मूलम् - विस्वरम्
तं बहिष्पवित्राद्गृह्णाति । पराञ्चमेवास्मिन्नेतत्प्राणं दधाति । सो ऽस्यायं पराङेव प्राणो निरर्दति । तमंशुभिः पावयति- पूतो ऽसदिति । षड्भिः पावयति । षड् वा ऽऋतवः । ऋतुभिरेवैनमेतत्पावयति ॥ ३ ॥
सायणः
उक्तस्य प्राणात्मकस्य सोमस्य गुणविशिष्टं ग्रहणं विधत्ते- तं बहिष्पवित्राद् गृह्णातीति । ‘तं’ प्रकृतं प्राणात्मकं सोमरसं, पवित्रात् दशापवित्रात् ‘बहिः’ पृथक् पवित्रमन्तरेण गृह्णातीत्यर्थः । अविधानादर्थसिद्वः पवित्रविरहो नान्तरिक्ष इतिवन्नित्यप्राप्तो ऽनूद्यते । नित्यप्राप्तत्वेन च कात्यायनेन बहिष्ट्वेन सूत्रितम् । आपस्तम्बेन तु अर्थसिद्धमपि विस्पष्टार्थं सूत्रितम् । “पवित्रमुपयामः सादनं च न विद्यते” इति । पवित्रविरहस्य प्रयोजनमाह- पराञ्चमेवेति । ‘एतद्’ इति निधानक्रियाया विशेषणम्, तस्याश्वाख्याताभिधेयां भावनां प्रति कर्मत्वादेतदिति तद्विशेषणे द्वितीया । ‘अस्मिन्’ ग्रहाख्ये प्रजापतौ ‘बहिः’ सुखसञ्चारक्षमप्राणकर्मकमेतन्निधानं करोति । एवं चास्य प्रजापतेस्तत्सृष्टतया वा तदात्मकस्य सकललोकस्य ‘सो ऽयं’ परिदृश्यमानः ‘प्राणः’ बहिरपि ‘निरर्द्दति’ निर्गच्छत्येव । “अर्द गतौ याचने च” (भ्वा. प. १८ ।) ननु प्रत्यगन्तरेवावतिष्ठते प्रत्यङ्मात्ररूपत्वं ह्यभिचारकर्मफलतया प्रतिकूलं श्रूयते- ”अभिचरता प्रतिलोमं होतव्याः प्राणानेवास्य प्रतीचः प्रतियौति”- (तै. सं. ३ । ४ । ८) इति । ततश्च श्वासप्रश्वासप्रतिबन्धो न कदाचिद्भवतीत्यर्थः । पवनसाधनदशापवित्राद् बहिस्त्वे विहितं ग्रहणमपूतस्यैव स्यात् । तथा मा भूदिति । पावनमंशुकरणकं विधत्ते- तमँशुभिः पावयतीति । पूतो ऽसदिति । इकारलोपः (पा. सू. ३ । ४ । ९७) “लेटो ऽडाटौ” (३ । ४ । ९४) इत्यडागमः । बिलस्योपरि अंशुं निधाय तत्र रसावनयनेन ‘तं’ रसं शोधयेदित्यर्थः । अतीतानामंशूनां विनियोगासंभवादर्थसिद्धमादानमिति ब्राह्मणेन न पृथग्विहितम् । विस्पष्टीकरणार्थं तु सूत्रकारेण उच्यते- ”प्रतिप्रस्थाताँ शून्षडादत्ते”- (का. श्रौ. सू. ९ । ६४) इति कात्यायनः । “षडार्द्रानंशून्संश्लिष्टानादाय चर्मणि निधाय” इत्यापस्तम्ब, श्रौ. सू. । अंशुभिरित्युक्तस्य बहुत्वसामान्यस्य तद्विशेषे पर्यवसानमाह- षड्भिः पावयतीति । विहिता षट्त्वसंख्या अंशूनामृतुरूपसम्पादकत्वेन स्तूयते- षड्वा ऋतव इति । सोमरसकर्मकमेतत्पावनमृतुरूपैरेवांशुभिः कृतवान् भवेदित्यर्थः । आत्तानां षण्णामंशूनां मध्ये वक्ष्यमाणेषु उपांशुग्रहणपर्यायेषु त्रिष्वप्येकैकस्मिन्पर्याये द्वौ द्वावंशू ग्रहबिले निदध्यात् । यदाह कात्यायनः- “आत्तानां च द्वौ द्वावन्तर्दधाति ग्रहणभेदात्, मन्त्रलिङ्गाच्च”- (का. श्रौ. सू. ९ । ७७ । ७८) इति । ग्रहणपर्यायाणां त्रित्वाद् “वृष्णो अँशुभ्यामिति”- (वा. सं. ७ । १) ग्रहणमन्त्रगतद्विवचनलिङ्गाच्चेत्युदाहृतसूत्रस्यार्थः । अस्मिन्पक्षे पर्यायत्रयगतांशुसंङ्ख्यां सङ्कलय्य “षड्भिः” इति ब्राह्मणे षट्त्वं द्रष्टव्यम् । “अंशुभ्यां ह्येनं पावयति” मन्त्रव्याख्यानब्राह्मणगतांशुद्वित्वपरामर्शादपि ‘षड्भिः’ इति बहुवचनं संकलनाभिप्रायमेवेति गम्यते । एकैकस्मिन् ग्रहणपर्याये अंशुषट्कविधिपरं “षड्भिः पावयति” इति । ब्राह्मणवाक्यमिति तु मत्वा कात्यायनेनोक्तम्- “षड्वा श्रुतिसामर्थ्यात्”- (का. श्रौ. सू. ९ । ७९) इति “अंशुभ्याम्” इति हि मन्त्रे द्विवचने लिङ्गम्, अंशुभ्यां ह्येनं पावयतीति तद्व्याख्यानं, ब्राह्मणवाक्यं च यथावस्थितमन्त्रार्थाविष्करणमात्रपरं; न तु द्वित्वविधिपरं, हीति च प्रसिद्धिर्मन्त्राभिप्रायविवक्षयैव । इत्थं मन्त्रलिङ्गाद्द्वित्वं, “षड्भिः” इति विधिश्रुत्या तु बहुत्वम् । श्रुतिश्च लिङ्गाद्बलीयसी यथा “कदाचनस्तरीरसि” इति (वा. सं. ३ । ३४) ऐन्द्र्या गार्हपत्यमुपतिष्ठत इत्यत्र कात्यायनस्याभिप्रायः । ‘षड्भिः पावयति’ इति वाक्यस्य प्रथमकृतव्याख्यानमनुसृत्य आपस्तम्बेनाप्युक्तम् । “अथ प्रतिप्रस्थातोपांशुपात्रं धारयन्नुपात्तानामुपरि द्वावंशू अन्तर्दधाति” (आप. श्रौ. सू.) इति ॥ ३ ॥
Eggeling
- This (graha) he draws without a strainer 5: whereby he puts the out-breathing into him as one tending away from him, and thus this forward-tending out-breathing of his streams forth from him. He purifies it with sprigs of Soma, thinking ‘it shall be pure.’ He purifies it with six (sprigs), for there are six seasons: it is by means of the seasons that he thus purifies it.
०४
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य᳘) य᳘दाᳫं᳭शु᳘भिरुपाᳫं᳭शुं᳘ पुना᳘ति स᳘र्व्वे सो᳘माः पवि᳘त्रपूता ऽअ᳘थ के᳘नास्याᳫं᳭श᳘वः पूता᳘ भवन्ती᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य᳘) य᳘दाᳫं᳭शु᳘भिरुपाᳫं᳭शुं᳘ पुना᳘ति स᳘र्व्वे सो᳘माः पवि᳘त्रपूता ऽअ᳘थ के᳘नास्याᳫं᳭श᳘वः पूता᳘ भवन्ती᳘ति॥
मूलम् - Weber
त᳘दाहुः॥
य᳘दांशु᳘भिरुपांशु᳘ पुना᳘ति स᳘र्वे सो᳘माः पवि᳘त्रपूता अ᳘थ के᳘नास्यांश᳘वः पूता᳘ भवन्ती᳘ति॥
मूलम् - विस्वरम्
तदाहुः- यद् अंशुभिरुपांशुं पुनाति । सर्वे सोमाः पवित्रपूताः । अथ केनास्यांशवः पूता भवन्तीति ॥ ४ ॥
सायणः
आत्तानामंशूनां पुनरपि सोमे योजनविधानाय याज्ञिकानां जिज्ञासामवतारयति- तदाहुरिति । ‘तत्’ तस्मिन् अंशुविषये किंचित् ‘आहुः’ जिज्ञासन्ते याज्ञिकाः । ‘यत्’ यस्मात् कारणादुपांशुसोमरस आस्ते, षड्भिरंशुभिः पूयते । अन्तर्यामादिसोमास्तु दशापवित्रेण पूयन्ते न च तृतीये पावनसाधनमस्ति । अत एते अंशवः केन पूयन्त इति ॥ ४ ॥
Eggeling
- As to this they say, ‘When he purifies the Upāṁśu by means of sprigs, and all (other) Soma-draughts
are purified by means of a strainer, whereby, then, do its sprigs become pure?’
०५
विश्वास-प्रस्तुतिः
ता᳘नुपनि᳘वपति॥
य᳘त्ते सोमा᳘दाभ्यं ना᳘म जा᳘गृवि त᳘स्मै ते सो᳘म सोमाय[[!!]] स्वाहे᳘ति त᳘दस्य स्वाहाकारे᳘णै᳘वाᳫं᳭श᳘वः पूता᳘ भवन्ति स᳘र्व्वं वा᳘ ऽएष ग्र᳘हः स᳘र्व्वेषाᳫं᳭ हि स᳘वनानाᳫं᳭ रूप᳘म्॥
मूलम् - श्रीधरादि
ता᳘नुपनि᳘वपति॥
य᳘त्ते सोमा᳘दाभ्यं ना᳘म जा᳘गृवि त᳘स्मै ते सो᳘म सोमाय[[!!]] स्वाहे᳘ति त᳘दस्य स्वाहाकारे᳘णै᳘वाᳫं᳭श᳘वः पूता᳘ भवन्ति स᳘र्व्वं वा᳘ ऽएष ग्र᳘हः स᳘र्व्वेषाᳫं᳭ हि स᳘वनानाᳫं᳭ रूप᳘म्॥
मूलम् - Weber
ता᳘नुपनि᳘वपति॥
य᳘त्ते सोमा᳘दाभ्यं ना᳘म जा᳘गृवि त᳘स्मै ते सोम सो᳘माय स्वाहे᳘ति त᳘दस्य स्वाहाकारे᳘णैॗवांश᳘वः पूता᳘ भवन्ति स᳘र्वं वा᳘ एष ग्र᳘हः स᳘र्वेषाᳫं हि स᳘वनानां रूप᳘म्॥
मूलम् - विस्वरम्
तानुपनिवपति । “यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा” (वा. सं. ७ । २) इति । तदस्य स्वाहाकारेणैवांशवः पूता भवन्ति । सर्वं वा ऽएष ग्रहः । सर्वेषां हि सवनानां रूपम् ॥ ५ ॥
सायणः
उक्तप्रश्नस्योत्तरत्वेन समन्त्रकमुपनिवापं विदधाति- तानुपनिवपतीति । ‘तान्’ षडंशूनन्तर्यामाद्यर्थे सन्निहिते सोमे ‘यत्ते’ 6 इत्यनेन मन्त्रेण क्षिपतीत्यर्थः । मन्त्रार्थस्तु- ‘हे सोम !’ त्वदीयं ‘यत्’ ‘नाम’ शत्रुभिः अदाम्यम् अतिरस्कार्यं ‘जागृवि’ जागरूकं हे ‘सोम’ ‘तस्मै’ सोमाय ‘ते’ तादृक्सोमनामधारिणे तुभ्यमिदं सोमांशुद्वयं ‘स्वाहा’ स्वाहुतमस्त्विति क्षेपे च सति तैरेवान्तर्यामादिसोमैः सह प्रक्षिप्तानामंशूनामपि वसतीवरीसंसर्गो ऽभिषवो दशापवित्रेण पवनमिति संस्कारा भविष्यन्ति, तदिदमाह- तदस्य स्वाहाकारेणैवांशवः पूता भवन्तीति । ‘तत्’ तथा सति ‘अस्य’ उपांशोरन्तर्धानार्थाः ‘अंशवः’ अपि स्वाहेति क्रियते यस्मिन् प्रक्षेपे तेन प्रक्षेपेण पूता भवन्ति इति योजना ॥
उपांशोरन्तर्धानाय पृथगात्तानामंशूनां सवनत्रयसम्बन्धिनि सोमे पुनः प्रक्षेपे हेतुमाह- सर्वं वा इति । अयं ‘ग्रहः’ सकलसोमयागात्मकः, यतः सवनत्रयरूपमिह दृश्यते । अतः सवनत्रयात्मकैतद्ग्रहसम्बन्धिनामंशूनां सवनत्रयसम्बन्धिनि सोमे योजनमुचितमिति भावः । अस्य ग्रहस्य सवनत्रयात्मकत्वमभिषवविधिब्रह्माणे 7 स्पष्टीभविष्यति ॥ ५ ॥
Eggeling
- He throws them down again (on the unpressed plants) with (Vāj. S. VII, 2), ‘What inviolable, quickening name is thine, to that Soma of thine, O Soma, be Hail!’ Thus his sprigs become purified by means of the Svāhā (‘Hail!’). But this graha means everything, for it is the type of all the pressings 8.
०६
विश्वास-प्रस्तुतिः
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘चक्रुस्ते᳘ होचुः स᳘ᳫं᳘स्थापयाम यज्ञं य᳘दि नो ऽसुररक्षसा᳘न्यास᳘जेयुः स᳘ᳫं᳘स्थित एव᳘ नो यज्ञः᳘ स्यादि᳘ति॥
मूलम् - श्रीधरादि
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘चक्रुस्ते᳘ होचुः स᳘ᳫं᳘स्थापयाम यज्ञं य᳘दि नो ऽसुररक्षसा᳘न्यास᳘जेयुः स᳘ᳫं᳘स्थित एव᳘ नो यज्ञः᳘ स्यादि᳘ति॥
मूलम् - Weber
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳟᳟॥
ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘ चक्रुस्ते᳘ होचुः स᳘ᳫं᳘स्थापयाम यज्ञं य᳘दि नो ऽसुररक्षका᳘न्यास᳘जेयुः स᳘ᳫं᳘स्थित एव᳘ नो यज्ञः᳘ स्यादि᳘ति॥
मूलम् - विस्वरम्
देवा ह वै यज्ञं तन्वानाः । ते ऽसुररक्षसेभ्य आसङ्गाद्विभयाञ्चक्रुः । ते होचुः- संस्थापयाम यज्ञम्- यदि नो ऽसुररक्षसान्यासजेयुः, संस्थित एव नो यज्ञः स्यादिति ॥ ६ ॥
सायणः
उपांशुग्रहस्य सवनत्रयात्मकत्वं प्रातःसवनस्य सवनत्रयात्मकत्वनिदर्शनेन द्रढयितुमाख्यायिकामाह- देवा ह वा इति । आ सायमनुष्ठीयमाने यज्ञे असुरा राक्षसा ज्ञात्वा आसक्ताः सन्तो जघ्नुरिति ॥ ६ ॥
Eggeling
- Now, once on a time, the gods, while performing sacrifice, were afraid of an attack from the Asura-Rakshas. They said, ‘Let us completely establish the sacrifice: if the Asura-Rakshas should then attack us, our sacrifice will at least be completely established.’
०७
विश्वास-प्रस्तुतिः
ते᳘ प्रातःसवन᳘ ऽएव॥
स᳘र्व्वं यज्ञᳫं᳭ स᳘मस्थापयन्नेत᳘स्मिन्नेव ग्र᳘हे यजुष्टः᳘ प्रथमे᳘ स्तोत्रे᳘ सामतः᳘ प्रथमे᳘ शस्त्र᳘ ऽऋक्तस्ते᳘न स᳘ᳫं᳘स्थितेनैवा᳘त ऊर्ध्वं᳘ यज्ञे᳘नाचरन्त्स᳘ एषो᳘ ऽप्येत᳘र्हि त᳘थैव᳘ यज्ञः सं᳘तिष्ठत ऽएत᳘स्मिन्नेव ग्र᳘हे यजुष्टः᳘ प्रथमे᳘ स्तोत्रे᳘ सामतः᳘ प्रथमे᳘ शस्त्र᳘ ऽऋक्तस्ते᳘न स᳘ᳫं᳘स्थितेनैवा᳘त ऊर्ध्वं᳘ यज्ञे᳘न चरति॥
मूलम् - श्रीधरादि
ते᳘ प्रातःसवन᳘ ऽएव॥
स᳘र्व्वं यज्ञᳫं᳭ स᳘मस्थापयन्नेत᳘स्मिन्नेव ग्र᳘हे यजुष्टः᳘ प्रथमे᳘ स्तोत्रे᳘ सामतः᳘ प्रथमे᳘ शस्त्र᳘ ऽऋक्तस्ते᳘न स᳘ᳫं᳘स्थितेनैवा᳘त ऊर्ध्वं᳘ यज्ञे᳘नाचरन्त्स᳘ एषो᳘ ऽप्येत᳘र्हि त᳘थैव᳘ यज्ञः सं᳘तिष्ठत ऽएत᳘स्मिन्नेव ग्र᳘हे यजुष्टः᳘ प्रथमे᳘ स्तोत्रे᳘ सामतः᳘ प्रथमे᳘ शस्त्र᳘ ऽऋक्तस्ते᳘न स᳘ᳫं᳘स्थितेनैवा᳘त ऊर्ध्वं᳘ यज्ञे᳘न चरति॥
मूलम् - Weber
ते᳘ प्रातःसवन᳘ एव॥
स᳘र्वं यज्ञᳫं स᳘मस्थापयन्नेत᳘स्मिन्नेव ग्र᳘हे यजुष्टः᳘ प्रथमे᳘ स्तोत्रे᳘ सामतः᳘ प्रथमे᳘ शस्त्र᳘ ऋक्तस्ते᳘न स᳘ᳫं᳘स्थितेनैवा᳘त ऊर्ध्वं᳘ यज्ञे᳘नाचरन्त्स᳘ एषो᳘ ऽप्येत᳘र्हि त᳘थैव᳘ यज्ञः सं᳘तिष्ठत एत᳘स्मिन्नेव ग्र᳘हे यजुष्टः᳘ प्रथमे᳘ स्तोत्रे᳘ सामतः᳘ प्रथमे᳘ शस्त्र᳘ ऋक्तस्ते᳘न स᳘ᳫं᳘स्थितेनैवा᳘त ऊर्ध्वं᳘ यज्ञे᳘न चरति॥
मूलम् - विस्वरम्
ते प्रातःसवन ऽएव सर्वं यज्ञे समस्थापयन्- एतस्मिन्नेव ग्रहे यजुष्टः, प्रथमे स्तोत्रे सामतः, प्रथमे शस्त्र ऽऋक्तः । तेनैवात ऊर्ध्वं यज्ञेनाचरन् । स एषो ऽप्येतर्हि तथैव यज्ञः सन्तिष्ठते- एतस्मिन्नेव ग्रहे यजुष्टः, प्रथमे स्तोत्रे सामतः, प्रथमे शस्त्र ऽऋक्तः । तेन संस्थितेनैवात ऊर्ध्वं यज्ञेन चरति ॥ ७ ॥
सायणः
प्रातःसवन एव सवनत्रयात्मकं यज्ञं समस्थापयन् । ऋग्यजुःसाममन्त्रैर्हिसवनत्रयात्मकं कर्म सम्पद्यते । अतः प्रातःसवने उपांशुग्रहगतयजुर्मन्त्रैरेव यजुष्ट्वाविशेषात् सवनान्तरवर्तियजुःसाध्यमपि कर्म सम्पन्नम् । एवं प्रथमस्तोत्रशस्त्रगताभ्यामृक्सामाभ्यामिति संग्रहेण संस्थिते एव तु द्वितीयतृतीयसवने पुनर्विस्तारेणान्वतिष्ठन्निति ॥
अत इदानीमपि तथा अतो यथा प्रातःसवनस्य सवनत्रयात्मकत्वम्, एवमुपांशुप्रहस्यापीति । असुराश्च रक्षांसि च ‘असुररक्षसानि’ “अनसन्तान्नपुंसकाच्छन्दसि” (पा. सू. ५ । ४ । १०३) इति समासान्तः (टच्) । असुररक्षसानां तदासङ्गस्य च भयहेतुत्वेन “भीत्रार्थानाम्” (पा. सू. १ । ४ । २५) इत्यपादानतयोभयत्र पञ्चमी ॥ ७ ॥
Eggeling
- Even at the morning Soma-feast they then completely established the entire sacrifice 9,–at this same (upāṁśu) graha by means of the Yajus; at the first chant (stotra) by means of the Sāman; and at the first recitation (śastra) by means of the R̥k: with that sacrifice thus completely established they subsequently worshipped. And in like manner does this sacrifice now become completely established,–by means of the Yajus at this same graha; by means of the Sāman at the first chant; and by means of the R̥k at the first recitation; and with this sacrifice thus completely established he subsequently worships.
०८
विश्वास-प्रस्तुतिः
स वा᳘ ऽअष्टौ कृ᳘त्वो ऽभि᳘षुणोति॥
(त्य) अष्टा᳘क्षरा वै᳘ गायत्री᳘ गायत्रं᳘ प्रातःसवनं᳘[[!!]] प्रातःसवन᳘मे᳘वैत᳘त्क्रियते॥
मूलम् - श्रीधरादि
स वा᳘ ऽअष्टौ कृ᳘त्वो ऽभि᳘षुणोति॥
(त्य) अष्टा᳘क्षरा वै᳘ गायत्री᳘ गायत्रं᳘ प्रातःसवनं᳘[[!!]] प्रातःसवन᳘मे᳘वैत᳘त्क्रियते॥
मूलम् - Weber
स वा᳘ अष्टौ कृ᳘त्वो ऽभिषुणोति॥
अष्टा᳘क्षरा वै गायत्री᳘ घायत्र᳘म् प्रा᳘तः सवन᳘म् प्रातःसवन᳘मेॗवैत᳘त्क्रियते॥
मूलम् - विस्वरम्
स वा ऽअष्टौ कृत्वो ऽभिषुणोति । अष्टाक्षरा वै गायत्री । गायत्रं प्रातःसवनम् । प्रातःसवनमेवैतत्क्रियते ॥ ८ ॥
सायणः
“स प्रहरति त्रिरभिषुणोति” इति विहिताभिषवपर्यायत्रयमध्ये प्रथमपर्याये प्रहारसंख्याविशेषं विधत्ते- स वा ऽष्टौ कृत्वो ऽभिषुणोतीति । ‘अभिषुणोति’ प्रहरति । संख्यासामान्येन प्रहारस्य गायत्र्यात्मकत्वात्तदात्मकप्रातःसवनरूपमेतत् कर्म सम्पन्नमित्यर्थः । प्रातिपदिकाद्विहितस्य (पा. सू. ५ । ४ । १७) कृत्वसुचः पदादुत्पत्तिर्विभक्त्यलोपश्च छान्दसौ ॥ ८ ॥
Eggeling
- He presses (the Soma) eight times; for of eight
syllables consists the Gāyatrī, and the morning Soma-feast belongs to the Gāyatrī; thus this (first turn of pressing) is made to be the morning Soma-feast.
०९
विश्वास-प्रस्तुतिः
स᳘ गृह्णाति॥
व्वाचस्प᳘तये पवस्वे᳘ति प्राणो वै᳘ व्वाचस्प᳘तिः प्राण᳘ एष ग्र᳘हस्त᳘स्मादाह व्वाचस्प᳘तये पवस्वे᳘ति वृ᳘ष्णो ऽअᳫं᳘शु᳘भ्यां ग᳘भस्तिपूत इ᳘ति सोमाᳫं᳭शु᳘भ्या᳘ᳫं᳘ ह्येनं पाव᳘यति त᳘स्मादाह वृ᳘ष्णो ऽअᳫं᳭शु᳘भ्यामि᳘ति ग᳘भस्तिपूत इ᳘ति पाणी वै ग᳘भस्ती पाणि᳘भ्या᳘ᳫं᳘ ह्येनं पाव᳘यति॥
मूलम् - श्रीधरादि
स᳘ गृह्णाति॥
व्वाचस्प᳘तये पवस्वे᳘ति प्राणो वै᳘ व्वाचस्प᳘तिः प्राण᳘ एष ग्र᳘हस्त᳘स्मादाह व्वाचस्प᳘तये पवस्वे᳘ति वृ᳘ष्णो ऽअᳫं᳘शु᳘भ्यां ग᳘भस्तिपूत इ᳘ति सोमाᳫं᳭शु᳘भ्या᳘ᳫं᳘ ह्येनं पाव᳘यति त᳘स्मादाह वृ᳘ष्णो ऽअᳫं᳭शु᳘भ्यामि᳘ति ग᳘भस्तिपूत इ᳘ति पाणी वै ग᳘भस्ती पाणि᳘भ्या᳘ᳫं᳘ ह्येनं पाव᳘यति॥
मूलम् - Weber
स᳘ गृह्णाति॥
वाचस्प᳘तये पवस्वे᳘ति प्राणो वै᳘ वाचस्पतिः प्राण᳘ एष ग्र᳘हस्त᳘स्मादाह वाचस्प᳘तये पवस्वे᳘ति वृ᳘ष्णो अंशु᳘भ्यां ग᳘भस्तिपूत इ᳘ति सोमांशु᳘भ्याᳫं ह्येनम् पाव᳘यति त᳘स्मादाह वृ᳘ष्णो अंशु᳘भ्यामि᳘ति ग᳘भस्तिपूत इ᳘ति पाणी वै ग᳘भस्ती पाणि᳘भ्याॗᳫंॗ ह्येनम् पाव᳘यति॥
मूलम् - विस्वरम्
स गृह्णाति । “वाचस्पतये पवस्व”- (वा. सं. ७ । १)- इति । “वृष्णो ऽअंशुभ्याम्”- (वा. सं. ७ । १) इति । सोमांशुभ्यां ह्येनं पावयति । तस्मादाह- वृष्णो ऽअंशुभ्यामिति । “गभस्तिपूतः”- (वा. सं. ७ । १) इति । पाणी वै गभस्ती । पाणिभ्यां ह्येनं पावयति ॥ ९ ॥
सायणः
बहिष्पवित्राद्गृह्णातीति विहितं ग्रहणं स गृह्णातीत्यनूद्य मन्त्रं विनियुज्य व्याचष्टे- स गृह्णाति वाचस्पतये पवस्व इत्यादिना 10 गभस्तिपूतः इत्यन्तेन मन्त्रेण । प्रथमपर्याये गृह्णातीत्यर्थः । मन्त्रं विभज्य क्रमेण व्याचष्टे- प्राणो वा इति । ‘वै’- शब्दः प्रसिद्धौ “एष एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः” (बृ. उ. १ । ३ । २०) इति बृहस्पतिपदनिर्वचने वागात्मिकां बृहतीं प्रति प्राणस्य पतित्वाभिधानाद्वाचस्पतित्वं प्राणस्य प्रसिद्धम् । उपांशुपात्रे गतस्य च सोमरसस्य प्राणत्वं प्रागुक्तम् “प्राणो ह वा अस्येति” (श. प. ४ । १ । १ । १) हे सोमरस त्वं वाचस्पतित्वाय प्राणत्वाय पूतो भवेति मन्त्रभागार्थः ॥
द्वितीयभागं व्याचष्टे- वृष्णो अंशुभ्यामिति । वर्षति रसमिति वृषा सोमः, तस्य ‘अंशुभ्यां गभस्तिपूत इति’ इति । अत्र पात्रधारणे पाण्योः करणत्वं तद्द्वारा ऽन्तर्द्धानेन तु सोमांशोरिति द्वारभेदादेकस्मिन्नपि पात्रे पाण्योरंशोश्च न विकल्पः ॥ ९ ॥
Eggeling
- He draws (the juice of the first turn of pressing into the cup) with (Vāj. S. VII, 1), ‘Grow thou pure for Vācaspati!’ for Vācaspati (lord of speech) is the out-breathing, and this (Upāṁśu) graha is the out-breathing: hence he says, ‘Grow thou pure for Vācaspati!’–‘purified by the hands with the sprigs of the bull;’ for he purifies it with sprigs of Soma: hence he says, ‘with the sprigs of the bull;’ and ‘purified by the hands (gabhasti-pūta 11),’ he says; for–‘gabhasti’ being the same as ‘pāni’ (hand)–he indeed purifies it with his hands.
१०
विश्वास-प्रस्तुतिः
(त्य) अथै᳘कादश कृ᳘त्वो ऽभि᳘षुणोति॥
(त्ये᳘) ए᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रै᳘ष्टुभं मा᳘ध्यन्दिनᳫं᳭ स᳘वनं मा᳘ध्यन्दिनमे᳘वैतत्स᳘वनं क्रियते॥
मूलम् - श्रीधरादि
(त्य) अथै᳘कादश कृ᳘त्वो ऽभि᳘षुणोति॥
(त्ये᳘) ए᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रै᳘ष्टुभं मा᳘ध्यन्दिनᳫं᳭ स᳘वनं मा᳘ध्यन्दिनमे᳘वैतत्स᳘वनं क्रियते॥
मूलम् - Weber
अथै᳘कादश कृ᳘त्वो ऽभि᳘षुणोति॥
ए᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रै᳘ष्टुभम् मा᳘ध्यन्दिनᳫं सवनम् मा᳘ध्यन्दिनमेॗवैतत्सवनं᳘ क्रियते॥
मूलम् - विस्वरम्
अथैकादश कृत्वो ऽभिषुणोति । एकादशाक्षरा वै त्रिष्टुप्, त्रैष्टुभं माध्यन्दिनं सवनम् । माध्यन्दिनमेवैतत्सवनं क्रियते ॥ १० ॥
सायणः
द्वितीये ग्रहणपर्याये प्रहारसंख्याविशेषं विधत्ते- अथेति । संख्यासामान्येन प्रहारं त्रिष्टुबात्मकमाध्यन्दिनसवनमेवैतत् कर्म भवतीत्यर्थः ॥ १० ॥
Eggeling
- He then presses eleven times; for of eleven syllables consists the Trishṭubh, and the midday Soma-feast belongs to the Trishṭubh: thus this (second turn of pressing) is made to be the midday Soma-feast.
११
विश्वास-प्रस्तुतिः
स᳘ गृह्णाति॥
देवो᳘ देवे᳘भ्यः पवस्वे᳘ति देवो᳘ ह्येष᳘ देवे᳘भ्यः प᳘वते ये᳘षां भागो ऽसी᳘ति ते᳘षामु᳘ ह्येष᳘ भागः[[!!]]॥
मूलम् - श्रीधरादि
स᳘ गृह्णाति॥
देवो᳘ देवे᳘भ्यः पवस्वे᳘ति देवो᳘ ह्येष᳘ देवे᳘भ्यः प᳘वते ये᳘षां भागो ऽसी᳘ति ते᳘षामु᳘ ह्येष᳘ भागः[[!!]]॥
मूलम् - Weber
स᳘ गृह्णाति॥
देवो᳘ देवे᳘भ्यः पवस्वे᳘ति देवोॗ ह्येष᳘ देवे᳘भ्यः प᳘वते ये᳘षाम् भागो ऽसी᳘ति ते᳘षामुॗ ह्येष᳘ भागः᳟॥
मूलम् - विस्वरम्
स गृह्णाति । “देवो देवेभ्यः पवस्व”- (वा० सं० ७ । १) इति । देवो ह्येष देवेभ्यः पवते । “येषां भागो ऽसि”- (वा० सं० ७ । १) इति । तेषामु ह्येष भागः ॥ ११ ॥
सायणः
द्वितीयग्रहणपर्याये मन्त्रं विनियुञ्जानः क्रमेण तद्भागौ व्याचष्टे- स गृह्णातीति । शुक्लप्रतिपदादितिथिषु चन्द्रस्यैकैककलावृद्धौ सोमलताया एकैकं पत्रमुत्पद्यते, कृष्णप्रतिपदादिषु चन्द्रस्यैकैककलाह्रासे सोमलताया एकैकं पत्रं निपततीति सुश्रुतादौ 12 प्रसिद्धम् । अतो ऽयं सोमश्चन्द्रात्मकतया ‘देवः’ सा प्रसिद्धिर्हिशब्देनोच्यते- देवो हीति । येषां भागो ऽसीति । तेषामु ह्येष भाग इति । ‘तेषां’ देवानाम् ॥ ११ ॥
Eggeling
- He draws (the juice into the cup) with, ‘Grow thou pure, a god, for the gods–;’ for he (Soma) is indeed a god, and for the gods he becomes pure;–‘whose portion thou art;’ for he indeed is their portion.
१२
विश्वास-प्रस्तुतिः
(गो᳘ ऽ) अ᳘थ द्वा᳘दश कृ᳘त्वो ऽभिषु᳘णोति[[!!]]॥
द्वा᳘दशाक्षरा वै ज᳘गती जा᳘गतं तृतीयसवनं᳘ तृतीयसवन᳘मे᳘वैत᳘त्क्रियते॥
मूलम् - श्रीधरादि
(गो᳘ ऽ) अ᳘थ द्वा᳘दश कृ᳘त्वो ऽभिषु᳘णोति[[!!]]॥
द्वा᳘दशाक्षरा वै ज᳘गती जा᳘गतं तृतीयसवनं᳘ तृतीयसवन᳘मे᳘वैत᳘त्क्रियते॥
मूलम् - Weber
अ᳘थ द्वा᳘दश कृ᳘त्वो ऽभि᳘षुणोति॥
द्वा᳘दशाक्षरा वै ज᳘गती जा᳘गतं तृतीयसवनं᳘ तृतीयसवन᳘मेॗवैत᳘त्क्रियते॥
मूलम् - विस्वरम्
अथ द्वादश कृत्वो ऽभिषुणोति । द्वादशाक्षरा वै जगती, जागतं तृतीयसवनम्, तृतीयसवनमेवैतत् क्रियते ॥ १२ ॥
सायणः
तृतीये ग्रहणपर्याये प्रहारसंख्याविशेषं विधत्ते- अथ द्वादश कृत्व इति । अत्रापि पूर्ववत्सङ्ख्यासामान्यात् तृतीयसवनात्मकत्वम् ॥ १२ ॥
Eggeling
- He then presses twelve times; for of twelve syllables consists the Jagatī, and the evening Soma-feast belongs to the Jagatī: thus this (third turn of pressing) is made to be the evening Soma-feast.
१३
विश्वास-प्रस्तुतिः
स᳘ गृह्णाति॥
म᳘धुमतीर्न इ᳘षस्कृधी᳘ति र᳘समे᳘वास्मिन्नेत᳘द्दधाति स्वद᳘यत्येवैनमेत᳘द्देवे᳘भ्यस्त᳘स्मादेष᳘[[!!]] हतो न᳘ पूयत्य᳘थ य᳘ज्जुहो᳘ति स᳘ᳫं᳘स्थापयत्ये᳘वैनमेत᳘त्॥
मूलम् - श्रीधरादि
स᳘ गृह्णाति॥
म᳘धुमतीर्न इ᳘षस्कृधी᳘ति र᳘समे᳘वास्मिन्नेत᳘द्दधाति स्वद᳘यत्येवैनमेत᳘द्देवे᳘भ्यस्त᳘स्मादेष᳘[[!!]] हतो न᳘ पूयत्य᳘थ य᳘ज्जुहो᳘ति स᳘ᳫं᳘स्थापयत्ये᳘वैनमेत᳘त्॥
मूलम् - Weber
स᳘ गृह्णाति॥
म᳘धुमतीर्न इ᳘षष्कृधी᳘ति र᳘समेॗवास्मिन्नेत᳘द्दधाति स्वद᳘यत्येॗवैनमेत᳘द्देवे᳘भ्यस्तस्मादेष᳘ हतो न᳘ पूयत्य᳘थ य᳘ज्जुहो᳘ति स᳘ᳫं᳘स्थापयत्येॗवैनमेत᳘त्॥
मूलम् - विस्वरम्
स गृह्णाति । “मधुमतीर्न इषस्कृधि”- (वा० सं० ७ । २) इति । रसमेवास्मिन्नेतद्दधाति । स्वदयत्येवैनमेतद्देवेभ्यः । तस्मादेष हतो न पूयति । अथ यज्जुहोति- संस्थापयत्येवैनमेतत् ॥ १३ ॥
सायणः
तृतीयपर्याये ग्रहणमनूद्य मन्त्रं विनियुङ्क्ते- स गृह्णाति मधुमतीर्न इषस्कृधीति (का. श्रौ. सू. ९ । ७५) । हे ‘सोम’ त्वं ‘नः’ अस्माकम् ‘इषः’ अन्नानि ‘मधुमतीः’ माधुर्योपेताः कुर्वित्यर्थः । अर्थात्त्वमपि देवानामन्नात्मकः स्वादुर्भवेति गम्यते । तदाह- रसमेवास्मिन्नेतद्दधाति स्वदयत्येवैनमेतद्देवेभ्यस्तस्मादेष हतो न पूयतीति । एतन्मन्त्रवाक्यम् । ‘तस्मात्’ स्वादूकरणात् अभिषुतो रसान्तरं नापद्यते ॥
गृहीतस्य सोमरसस्य होमं विधत्ते- अथ यज्जुहोतीति । यत्र ‘एतत्’ होमाख्यं कर्म एतदुपांशुग्रहव्यापारं परिपूरयत्येव अर्थाज्जुहुयादिति गम्यते ॥ १३ ॥
Eggeling
- He draws (the juice) with, ‘Make thou our draughts sweet!’ whereby he imbues him (Soma) with sap, and renders him palatable for the gods: hence, when slain, he does not become putrid 13. And when he offers (that graha) he thereby completely establishes him.
१४
विश्वास-प्रस्तुतिः
(द) अष्टा᳘वष्टौ कृ᳘त्वः॥
(त्वो) ब्रह्मवर्चस᳘कामस्याभि᳘षुणुयादि᳘त्याहुरष्टा᳘क्षरा वै᳘ गायत्री ब्र᳘ह्म गायत्री᳘ ब्रह्मवर्चसी᳘ हैव᳘ भवति॥
मूलम् - श्रीधरादि
(द) अष्टा᳘वष्टौ कृ᳘त्वः॥
(त्वो) ब्रह्मवर्चस᳘कामस्याभि᳘षुणुयादि᳘त्याहुरष्टा᳘क्षरा वै᳘ गायत्री ब्र᳘ह्म गायत्री᳘ ब्रह्मवर्चसी᳘ हैव᳘ भवति॥
मूलम् - Weber
अष्टा᳘वष्टौ कृ᳘त्वः॥
ब्रह्मवर्चस᳘कामस्याभिषुणुयादि᳘त्याहुरष्टा᳘क्षरा वै᳘ गायत्री ब्र᳘ह्म गायत्री᳘ ब्रह्मवर्चसी᳘ हैव᳘ भवति॥
मूलम् - विस्वरम्
अष्टावष्टौ कृत्वो ब्रह्मवर्चसकामस्याभिषुणुयादित्याहुः । अष्टाक्षरा वै गायत्री, ब्रह्म गायत्री, ब्रह्मवर्चसी हैव भवति ॥ १४ ॥
सायणः
अभिषवे काम्यं संख्याविशेषमाह- अष्टावष्टौ कृत्वो ब्रह्मवर्चसकामस्याभिषुणुयादित्याहुरिति । प्रतिपर्यायमष्टवारमभिषुणुयादित्यर्थः । अत्र (पा. सू. ५ । ४ । १७) कृत्वसुचा ऽभिषवस्यावृत्तय उच्यन्ते । आवृत्तिगता तु सङ्ख्या ऽष्टाविति पदेन । उक्तसङ्ख्याया आवृत्तेः पर्यायत्रयसम्बन्धो वीप्सयोच्यते । “इत्याहुः” इति परोक्तिरप्याप्तविषयत्वाद्विधिपरैव । विधेयामष्टसंख्यां ब्रह्मवर्चसफलसम्बन्धप्रदर्शनेन स्तौति- अष्टाक्षरा वै गायत्रीति । “स मुखतस्त्रिवृतं निरममीत तमग्निर्देवता ऽन्वसृज्यत गायत्रीछन्दः” (तै० सं० ७ । १ । १) इति श्रुतेः । सगुणब्रह्मणः प्रजापतेर्मुखादुत्पन्नत्वाद्गायत्र्या ब्रह्मत्वम् “गायत्री ब्रह्मवर्चसम्” (तै. सं. ७ । १ । १ । ४) इति श्रुतेः । गायत्र्यात्मकब्रह्मवर्चससम्बम्ध इत्यर्थः ॥ १४ ॥
Eggeling
- ‘For one desirous of spiritual lustre (brahmavarcasa) he should press eight times at each (turn),’ so they say;–for of eight syllables consists the Gāyatrī, and the Gāyatrī is the Brahman: he indeed becomes endowed with spiritual lustre.
१५
विश्वास-प्रस्तुतिः
तच्च᳘तुर्विᳫं᳭शतिं कृ᳘त्वो ऽभि᳘षुतं भवति॥
च᳘तुर्विᳫं᳭शतिर्वै᳘ संव्वत्सर᳘स्यार्धमासाः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैतत्स᳘ᳫं᳘स्थापयति॥
मूलम् - श्रीधरादि
तच्च᳘तुर्विᳫं᳭शतिं कृ᳘त्वो ऽभि᳘षुतं भवति॥
च᳘तुर्विᳫं᳭शतिर्वै᳘ संव्वत्सर᳘स्यार्धमासाः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैतत्स᳘ᳫं᳘स्थापयति॥
मूलम् - Weber
तच्च᳘तुर्विंशतिं कृ᳘त्वो ऽभि᳘षुतम् भवति॥
च᳘तुर्विंशतिर्वै᳘ संवत्सर᳘स्यार्धमासाः᳘ संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैतत्स᳘ᳫं᳘ स्थापयति॥
मूलम् - विस्वरम्
तच्चतुर्विंशतिं कृत्वो ऽभिषुतं भवति । चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः, संवत्सरः प्रजापतिः, प्रजापतिर्यज्ञः, स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत्संस्थापयति ॥ १५ ॥
सायणः
पर्यायत्रये ऽप्यष्टसङ्ख्याविधिं प्रकारान्तरेण स्तौति- तच्चतुर्विँशतिं कृत्व इति । “संवत्सरः प्रजापतेरात्मा” इति श्रुतेः संवत्सरस्य प्रजापत्यात्मकत्वम् । “यज्ञो वै प्रजापतिः” (तै. ब्रा. १ । ३ । १०) इति श्रुतेः प्रजापतेर्यज्ञत्वम् । ‘अस्य’ यज्ञस्य ‘यावती’ परम्परया सम्बन्धिनी ‘मात्रा’ परिच्छेदिनी । चतुर्विंशतिसङ्ख्या तद्योगाद् यावान्यज्ञःतावतः सकलस्यैव यज्ञस्यैतत् परिपूरणमिति पर्यायत्रयगतैस्त्रिभिरभिषुताष्टकृत्वश्चतुर्विंशतिसङ्ख्यानिष्पत्तेः प्राशस्त्यमित्यर्थः ॥ १५ ॥
Eggeling
- Thus the pressing amounts to twenty-four times (of beating). Now there are twenty-four half-moons in the year; and Prajāpati (the lord of creatures) is the year, and the sacrifice is Prajāpati: thus as great as the sacrifice is, as great as is its measure, so great he thereby establishes it.
१६
विश्वास-प्रस्तुतिः
प᳘ञ्च पञ्च कृ᳘त्वः॥
पशु᳘कामस्याभि᳘षुणुयादि᳘त्याहुः पा᳘ङ्क्ता पश᳘वः पशू᳘न् हैवा᳘वरुन्धे प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैतत्स᳘ᳫं᳘स्थापयति᳘ सो ऽएषा᳘ मीमा᳘ᳫं᳘सैवे᳘त᳘रं त्वेव᳘ क्रियते॥
मूलम् - श्रीधरादि
प᳘ञ्च पञ्च कृ᳘त्वः॥
पशु᳘कामस्याभि᳘षुणुयादि᳘त्याहुः पा᳘ङ्क्ता पश᳘वः पशू᳘न् हैवा᳘वरुन्धे प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैतत्स᳘ᳫं᳘स्थापयति᳘ सो ऽएषा᳘ मीमा᳘ᳫं᳘सैवे᳘त᳘रं त्वेव᳘ क्रियते॥
मूलम् - Weber
प᳘ञ्चपञ्च कृ᳘त्वः॥
पशु᳘काम स्याभि᳘षुणुयादि᳘त्याहुः पा᳘ङ्क्ता पश᳘वः पशू᳘न्हैवा᳘वरुन्द्धे प᳘ञ्च वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैतत्स᳘ᳫं᳘स्थापयतिॗ सो एषा᳘ मीमाॗᳫंॗसैवे᳘तॗरं त्वेव᳘ क्रियते॥
मूलम् - विस्वरम्
पञ्च पञ्च कृत्वः पशुकामस्याभिषुणुयादित्याहुः । पाङ्क्ताः पशवः, पशून् हैवावरुन्धे । पञ्च वा ऽऋतवः संवत्सरस्य, संवत्सरः प्रजापतिः, प्रजापतिर्यज्ञः, स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत् संस्थापयति । सो ऽएषा मीमांसैव । इतरं त्वेव क्रियते ॥ १६ ॥
सायणः
अभिषवावृत्तिषु फलान्तराय संख्यान्तरं विधत्ते- पञ्च पञ्च कृत्व इति । संख्यावीप्साकृत्वसुचो व्याख्याताः । पंक्तिगतां पञ्चत्वसंख्यां प्रशंसति- पाङ्क्ताः पशव इति । चतुर्भिः पादैरेकेन शिरसा च पञ्चसङ्ख्यायोगात्पञ्चाक्षरपंक्तिच्छन्दःसादृश्यात्पशूनां पांक्तत्वम् । तामेव पञ्चसंख्यामन्यथापि स्तौति- पञ्च वा ऋतव इति । हेमन्तशिशिरयोः समासेन ऋतूनां पञ्चत्वम् । इत्याहुरिति परोक्तिः सूचिता ऽननुरूपा नैतत् स्वमतमिति प्रतीयते, तद्विशदमाह- सो ऽएषा मीमांसैवेति । प्रशस्तविचारवचनो मीमांसाशब्दः । स चात्र विशेषणभूतां प्रशंसामेव लक्षयति यथा “नमस्तुङ्गं शिरस्तुवि” इत्यत्र तुबेर्वक्त्रसंयोगवाचिनो धातोरुत्पन्नः तुबिशब्दः संयोगमात्रं लक्षयति । अतस्त्रिष्वपि पर्यायेषु पञ्चत्वाष्टत्वयोः पशुब्रह्मवर्चसे फलमिति यत्परोक्त्या प्रतीयते न तत् फलं, किन्तु तयोः सङ्ख्ययोः प्रशंसैव सेत्यर्थः । तत् किं त्रिष्वपि पर्यायेषु अष्टत्वं पञ्चत्वं वा ऽनुष्ठेयमेव नेत्याह- इतरं त्वेव क्रियत इति । “नेतराच्छन्दसि” (पा० सू० ७ । १ । २६) इत्यद्डभावः । फलादितरसङ्ख्यासाम्यं सङ्ख्यावैषम्यकल्पेनानुष्ठेयमेवेत्यर्थः । अत एव तैत्तिरीयके- ”अष्टौ कृत्वो ऽग्रे ऽभिषुणोत्येषां विहितो द्वितीयस्तृतीयश्च” इति सङ्ख्यासाम्यं विधायैकादश कृत्वो द्वितीयं द्वादश कृत्वस्तृतीयमिति नित्यप्रयोगे संख्यावैषम्यं द्वैविध्यं च तत्रैव प्रयोगे-”अथो खल्वाहुरिति”- वैकल्पिकपक्षान्तरत्वेन “तस्मादष्टावष्टौ कृत्वो ऽभिषुत्यम्” इति संख्यासाम्यं विहितम् । अत एवापस्तम्बे “अष्टौ कृत्वो ऽग्रे ऽभिषुणोत्येवं विहितो द्वितीयस्तृतीयश्च” इति संख्यासाम्यं विधाय तत्रैव “अपि वैकादश कृत्वो द्वितीयमभिषुणोति द्वादश कृत्वस्तृतीयम्” इति संख्यासाम्येन सह संख्यावैषम्यं विकल्पितमाह । कात्यायनस्तु नित्ये प्रयोगे सङ्ख्यावैषम्यं विधाय सङ्ख्यासाम्यं काम्यमेवाह- “आसेचं निग्राभ्या, अष्टकृत्व एकादशकृत्वो द्वादशकृत्वः, सर्वे पञ्चवर्गाः पशुकामस्याष्टवर्गा ब्रह्मवर्चसकामस्य” इति (का. श्रौ. सू. । ९ । ६९ । ७१) । अस्मिन् पक्षे ब्राह्मणे “इत्याहुरिति परोक्तिकथनं नानूच्याभिप्रायं किन्तु सर्वेषामपि सम्मतत्वेन सङ्ख्यासाम्यस्य काम्यत्वं युक्तमेव इत्येवंपरम् । तमिमं परोक्त्यभिप्रायं श्रुतिः स्वयमेव विवृणोति- सो ऽएषा मीमांसैव इति । सा त्वेषा परोक्तिः ‘मीमांसा’ सर्वसंमत्या काम्यत्वस्य प्रशंसैव न पुनरनुच्येत्यर्थः । अरुचित्वशङ्का तु तैत्तिरीयके नित्यत्वदर्शनात् । यदि सफलत्वेन प्रशस्तं सङ्ख्यासाम्यं तत् किं सङ्ख्यावैषम्यमनुष्ठेयमेव; तत्राह- इतरं त्वेव क्रियते इति । इतरं सङ्ख्यावैषम्यं तु नित्यप्रयोगे गुणफलमनपेक्षमाणैः क्रियत एवेत्यर्थः ॥ १६ ॥
Eggeling
- ‘For one desirous of cattle he should press five times at each (turn),’ so they say;–the cattle (animal victims) consist of five parts: he indeed gains cattle; and there are five seasons in the year; and Prajāpati is the year, and the sacrifice is Prajāpati thus as great as the sacrifice is, as great as is its measure, so great he thereby establishes it. This, however, is mere speculation: it is the other (manner) which is practised.
१७
विश्वास-प्रस्तुतिः
तं᳘ गृहीत्वा प᳘रिमार्ष्टि॥
ने᳘द्व्यवश्चो᳘तदि᳘ति तं न᳘ सादयति प्राणो᳘ ह्यस्यैष[[!!]] त᳘स्मादयम᳘सन्नः प्राणः सं᳘चरति यदी᳘त्त्वभिच᳘रेद᳘थैनᳫं᳭[[!!]] सादयेदमु᳘ष्य त्वा प्राण᳘ᳫं᳘[[!!]] सादयामी᳘ति तथा᳘ ह त᳘स्मिन्न पु᳘नर᳘स्ति य᳘न्ना᳘नुसृज᳘ति ते᳘नो ऽअध्वर्युश्च[[!!]] य᳘जमानश्च ज्यो᳘ग्जीवतः॥
मूलम् - श्रीधरादि
तं᳘ गृहीत्वा प᳘रिमार्ष्टि॥
ने᳘द्व्यवश्चो᳘तदि᳘ति तं न᳘ सादयति प्राणो᳘ ह्यस्यैष[[!!]] त᳘स्मादयम᳘सन्नः प्राणः सं᳘चरति यदी᳘त्त्वभिच᳘रेद᳘थैनᳫं᳭[[!!]] सादयेदमु᳘ष्य त्वा प्राण᳘ᳫं᳘[[!!]] सादयामी᳘ति तथा᳘ ह त᳘स्मिन्न पु᳘नर᳘स्ति य᳘न्ना᳘नुसृज᳘ति ते᳘नो ऽअध्वर्युश्च[[!!]] य᳘जमानश्च ज्यो᳘ग्जीवतः॥
मूलम् - Weber
तं᳘ गृहीत्वा प᳘रिमार्ष्टि॥
ने᳘द्व्यवश्चो᳘तदि᳘ति तं न᳘ सादयति प्राणो ह्य᳘स्यैष त᳘स्मादयम᳘सन्नः प्राणः सं᳘चरति यदीत्त्व᳘भिच᳘रेद᳘थैनᳫं सादयेदमु᳘ष्य त्वा प्रा᳘णᳫं सादयामी᳘ति तथा᳘ह त᳘स्मिन्न पु᳘नर᳘स्ति यॗन्नानुसृज᳘ति ते᳘नो अध्वर्यु᳘श्च य᳘जमानश्च ज्यो᳘ग्जीवतः॥
मूलम् - विस्वरम्
तं गृहीत्वा परिमार्ष्टि, नेद्व्यवश्चोतदिति । तं न सादयति, प्राणो ह्यस्यैषः । तस्मादयमसन्नः प्राणः सञ्चरति । यदीत्त्वभिचरेद्, अथैनं सादयेत् । “अमुष्य त्वा प्राणं सादयामि”- (का० श्रौ० सू० ९-८२) इति । तथा ह तस्मिन्न पुनरस्ति, यन्नानुसृजति । तेनो अध्वर्युश्च यजमानश्च ज्योग्जीवतः ॥ १७ ॥
सायणः
ग्रहणानन्तरकृत्यमाह- तं गृहीत्वा परिमार्ष्टीति 14 । तत्र प्रयोजनमाह- नेद्व्यवश्चोतदिति । अपरिमार्जने रसो विश्चोतेत नेत् ततो महद्भयमित्यर्थः । नेदिति परिभये निपातः (निरु. १ । ३ । ५) यथा नेत्पाप्मानं मृत्युमन्ववायानीति । व्यवश्चोतदिति “छन्दसि लुङ्-लङ्-लिटः” “लिङर्थे लट्” (पा. सू. ३ । ४ । ६-७) इति लिङर्थे हेतौ लेट् । अन्नाद्यायाविश्चोतनप्रसङ्गाद्धेतोरित्यर्थः । ग्रहान्तरसाम्यादत्र शङ्कितस्य सादृश्याविधानादेव सिद्धमभावं स्तुत्या द्रढयितुमनूद्य स्तौति- तं न सादयतीति । ‘अस्य’ प्रजापत्यात्मकस्य ग्रहस्य ‘एषः’ सोमरसः ‘प्राणः’ इति काण्डादौ (श. ब्रा. ४ । १ । १) प्रसाधितम् । तां प्रसिद्धिं ‘हि’- शब्दो द्योतयति, ‘तस्मात्’ प्राणात्मकसोमरसानासादनात्, ‘असन्नः’ अन्तरे वा शीर्णः लोकानां ‘प्राणः’ बहिः ‘सञ्चरति’ इत्यर्थः । अभिचरतो मन्त्रविशिष्टं सादनमाह- यदीत्त्वभिचरेदिति 15 । ग्रहणमन्वेनं ग्रहम् ‘अविसृजन्’ सादयन् । हे सोम ! अमुकनाम्नः शत्रोः प्राणरूपं त्वां विशीर्णमवसन्नं वा करोमीति मन्त्रार्थः । तादृक्सादनफलमाह- तथा ह तस्मिन्निति । तथा कृते ‘तस्मिन्’ शत्रौ ‘पुनः’ स प्राणो न तिष्ठति किं तु तत्रैव विशीर्यत्यवसीदति वा यतः पात्रं न विसृजति । विसृजति चेदवसन्नः श्वासो निर्गच्छेदपि तेन शत्रोवसादनेनैव निरुपद्रवावध्वर्युयजमानौ चिरञ्जीवतः 16 ॥ १७ ॥
Eggeling
- Having drawn the graha, he wipes (the vessel) all round, lest any (Soma-juice) should trickle down. He does not deposit it; for this is his out-breathing, whence this out-breathing passes unceasingly. Should he, however, desire to exorcise, he may
deposit it 17 with, ‘I put thee down, the out-breathing of N.N.!’ Thus, forsooth, inasmuch as he (the Adhvaryu) does not quit his hold of it, it is not again in that (enemy); and thus both the Adhvaryu and the Sacrificer live long.
१८
विश्वास-प्रस्तुतिः
(त्तो᳘ ऽ) अ᳘थो ऽअ᳘प्ये᳘वैनं दध्यात्॥
(द) अमु᳘ष्य त्वा प्राणम᳘पि दधामी᳘ति तथा᳘ ह त᳘स्मिन्न पु᳘नर᳘स्ति यन्न᳘ साद᳘यति ते᳘नो प्राणान्न᳘ लोभयति॥
मूलम् - श्रीधरादि
(त्तो᳘ ऽ) अ᳘थो ऽअ᳘प्ये᳘वैनं दध्यात्॥
(द) अमु᳘ष्य त्वा प्राणम᳘पि दधामी᳘ति तथा᳘ ह त᳘स्मिन्न पु᳘नर᳘स्ति यन्न᳘ साद᳘यति ते᳘नो प्राणान्न᳘ लोभयति॥
मूलम् - Weber
अ᳘थो अ᳘प्येॗवैनं दध्यात्॥
अमु᳘ष्य त्वा प्राणम᳘पिदधामी᳘ति तथा᳘ह त᳘स्मिन्न पु᳘नर᳘स्ति यन्न साद᳘यति तेनो प्राणान्न᳘ लोभयति॥
मूलम् - विस्वरम्
अथो ऽअप्येवैनं दध्यात् । “अमुष्य त्वा प्राणमपिदधामि”- (का. श्रौ. सू. ९ । ८३) इति । तथा ह तस्मिन्न पुनरस्ति, यन्न सादयति । तेनो प्राणान्न लोभयति ॥ १८ ॥
सायणः
सादितस्य पात्रस्य समन्त्रकं पिधानमाह- अथो अपीति । अथो एनं ग्रहम् “अमुष्य” इत्यादिमन्त्रेण ‘अपि दध्याद्’ आच्छादयेत् ‘एव’ आच्छादने च ‘तस्मिन्’ प्राणो ‘न’ तिष्ठेत् । सादनापिधानयोरकरणे बाधकमाह- यन्न सादयतीति । ‘न लोभयति’ न विमोहयेत्, वा नाकुलीकुर्यादित्यर्थः ॥ १८ ॥
Eggeling
- Or he may merely cover (the vessel by his hand) with, ‘I shut thee off, the out-breathing of N.N.!’ Thus, forsooth, inasmuch as he does not deposit it, it is not again in that enemy; and thus he does not disorder the vital airs.
१९
विश्वास-प्रस्तुतिः
स वा᳘ ऽअन्त᳘रेव सन्त्स्वाहे᳘ति करोति॥
देवा᳘ ह वै᳘ बिभयां᳘चक्रुर्यद्वै᳘ नः पु᳘रै᳘वास्य ग्र᳘हस्य हो᳘मादसुररक्षसा᳘नीमं ग्र᳘हं न᳘ हन्युरि᳘ति त᳘मन्तरे᳘व स᳘न्तः स्वाहाकारे᳘णाजुहवुस्त᳘ᳫं᳘ हुत᳘मेव स᳘न्तमग्ना᳘वजुहवुस्त᳘थो ऽए᳘वैनमेष᳘ एत᳘दन्त᳘रेव सन्त्स्वाहाकारे᳘ण[[!!]] जुहोति त᳘ᳫं᳘ हुत᳘मेव स᳘न्तमग्नौ᳘ जुहोति॥
मूलम् - श्रीधरादि
स वा᳘ ऽअन्त᳘रेव सन्त्स्वाहे᳘ति करोति॥
देवा᳘ ह वै᳘ बिभयां᳘चक्रुर्यद्वै᳘ नः पु᳘रै᳘वास्य ग्र᳘हस्य हो᳘मादसुररक्षसा᳘नीमं ग्र᳘हं न᳘ हन्युरि᳘ति त᳘मन्तरे᳘व स᳘न्तः स्वाहाकारे᳘णाजुहवुस्त᳘ᳫं᳘ हुत᳘मेव स᳘न्तमग्ना᳘वजुहवुस्त᳘थो ऽए᳘वैनमेष᳘ एत᳘दन्त᳘रेव सन्त्स्वाहाकारे᳘ण[[!!]] जुहोति त᳘ᳫं᳘ हुत᳘मेव स᳘न्तमग्नौ᳘ जुहोति॥
मूलम् - Weber
स वा᳘ अन्त᳘रेव सन्त्स्वाहे᳘ति करोति॥
देवा᳘ ह वै᳘ बिभयां᳘ चक्रुर्यद्वै᳘ नः पुॗरैॗवास्य ग्र᳘हस्य हो᳘मादसुररक्षसा᳘नीमं ग्र᳘हं न᳘ हन्युरि᳘ति त᳘मन्तरे᳘व स᳘न्तः स्वाहाकारे᳘णाजुहवुस्त᳘ᳫं᳘ हुत᳘मेव स᳘न्तमग्ना᳘वजुहवुस्त᳘थो एॗवैनमेष᳘ एत᳘दन्त᳘रेव स᳘न्त्स्वाहाकारे᳘ण जुहोति त᳘ᳫं᳘ हुत᳘मेव स᳘न्तमग्नौ᳘ जुहोति॥
मूलम् - विस्वरम्
स वा ऽअन्तरेव सन् स्वाहेति करोति । देवा ह वै बिभयाञ्चक्रुः- यद्वै नः पुरैवास्य ग्रहस्य होमाद् असुररक्षसानीमं ग्रहं न हन्युरिति । तमन्तरेव सन्तः स्वाहाकारेणाजुहवुः । तं हुतमेव सन्तमग्नावजुहवुः । तथो ऽएवैनमेष एतदन्तरेव सन् स्वाहाकारेण जुहोति । तं हुतमेव सन्तमग्नौ जुहोति ॥ १९ ॥
सायणः
अभिचरता हि यत्तु प्राणा आकुलीकर्तव्याः इति विधत्ते- स वा अन्तरेवेति । हविर्द्धानमध्ये वर्तमान एव सन् ‘स्वाहा’ इत्युच्चरेदित्यर्थः । तथोच्चारणस्य प्रयोजनमाह- देवा ह वै बिभयांचक्रुरित्यादिना । होमात् प्रागसुरराक्षसकर्तृकं ग्रहस्य विघातं परिहर्तुं देवा हविर्द्धानमध्ये स्थितमेव सोमं स्वाहाकारमात्रेण हुत्वा पश्चाद् हुतमेव सन्तं ग्रहं “स्वांकृतः” (वा. सं. ७ । ३) इत्यादिमन्त्रेणाग्नावजुहवुः । अत इदानीमपि तथा कुर्यादित्यर्थः ॥ १९ ॥
Eggeling
- While he is still inside (the Havirdhāna) he utters ‘Hail!’ For the gods were afraid lest the Asura-Rakshas should destroy what part of this graha was previous to the offering. They offered it (symbolically) by means of the Svāhā, while they were still inside (the cart-shed), and what was thus offered they afterwards offered up in the fire. And in like manner does he now offer it up by means of the Svāhā, while he is still inside, and what has thus been offered he afterwards offers up in the fire.
२०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोपनि᳘ष्क्रामति॥
(त्यु᳘) उर्व᳘न्त᳘रिक्षम᳘न्वेमी᳘त्यन्त᳘रिक्षं वा ऽअ᳘नु र᳘क्षश्चरत्यमूल᳘मुभय᳘तः प᳘रिच्छिन्नं य᳘था ऽयं पु᳘रुषो ऽमूल᳘ ऽउभय᳘तः प᳘रिच्छिन्नो ऽन्त᳘रिक्षमनुच᳘रत्येतद्वै य᳘जुर्ब्र᳘ह्म रक्षोहा स᳘ एते᳘न ब्र᳘ह्मणा ऽन्त᳘रिक्षम᳘भयमनाष्ट्रं᳘ कुरुते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोपनि᳘ष्क्रामति॥
(त्यु᳘) उर्व᳘न्त᳘रिक्षम᳘न्वेमी᳘त्यन्त᳘रिक्षं वा ऽअ᳘नु र᳘क्षश्चरत्यमूल᳘मुभय᳘तः प᳘रिच्छिन्नं य᳘था ऽयं पु᳘रुषो ऽमूल᳘ ऽउभय᳘तः प᳘रिच्छिन्नो ऽन्त᳘रिक्षमनुच᳘रत्येतद्वै य᳘जुर्ब्र᳘ह्म रक्षोहा स᳘ एते᳘न ब्र᳘ह्मणा ऽन्त᳘रिक्षम᳘भयमनाष्ट्रं᳘ कुरुते॥
मूलम् - Weber
अ᳘थोपनि᳘ष्क्रामति॥
उर्व᳘न्त᳘रिक्षम᳘न्वेमी᳘त्यन्त᳘रिक्षं वा अ᳘नु र᳘क्षश्चरत्यमूलमुभय᳘तः प᳘रिछिन्नं य᳘थायम् पु᳘रुषो ऽमूल᳘ उभय᳘तः प᳘रिछिन्नो ऽन्त᳘रिक्षमनुच᳘रत्येतद्वै य᳘जुर्ब्र᳘ह्म रक्षोहा स᳘ एतेन ब्र᳘ह्मणान्तरिक्षम᳘भयमनाष्ट्रं᳘ कुरुते॥
मूलम् - विस्वरम्
अथोपनिष्क्रामति । “उर्वन्तरिक्षमन्वेमि”- (वा० सं० ७ । २) इति । अन्तरिक्षं वा अनु रक्षश्चरत्यमूलमुभयतः परिच्छिन्नम् । यथा ऽयं पुरुषो ऽमूल उभयतः परिच्छिन्नो ऽन्तरिक्षमनुचरति । एतद्वै यजुर्ब्रह्म रक्षोहा, स एतेन ब्रह्मणा ऽन्तरिक्षमभयमनाष्ट्रं कुरुते ॥ २० ॥
सायणः
स्वाहाकारोच्चारणानन्तरं हविर्धानान्निर्गमनमाह- अथोपनिष्क्रामतीति 18 । तत्र मन्त्रमाह- उर्वन्तरिक्षमन्वेमीति । विस्तीर्णेनान्तरिक्षपथेनाहमाहवनीयं गच्छामि, न भूपथेनाहमाहवनीयं गच्छामि, न भूपथेन इति मन्त्रार्थं भावयन् गच्छेत् । तथा भावने कारणमाह- अन्तरिक्षं वा इति । मूले भूलोकेन, अग्रे च स्वर्गलोकेनेति ‘उभयतो’ लोकद्वयेन परिच्छिन्नेन अमूलेन भुवं ‘रक्षश्चरति’ इति प्रसिद्धम् । तृतीयादौ कर्मप्रवचनेनानुपयोगात् स्पृशन् अन्तरिक्षमिति द्वितीया । येनोक्तरूपेणान्तरिक्षपथेन ‘अयं पुरुषश्चरति’ । तत्र मन्त्रात्मकमिदं ‘यजुः’ रक्षोजातिं हन्ति । तथा सति ‘सः’ अध्वर्युर्नाष्ट्राणां रक्षसामभावेन ‘अन्तरिक्षमभयं’ ‘कुरुते’ इत्यर्थः । वीप्सार्थस्य यथाशब्देनैवाभिधानात् “नित्यवीप्सयोः” (पा० सू० ८ । १ । ४ ।) इति न द्विर्भावः । सादृश्ये च यथार्थे नित्यस्याव्ययीभावश्छान्दसः 19 (पा० सू० २ । १ । ७) । पुरुषरूपस्यामूलत्वमुभयतः परिच्छेदश्च भावनामात्रसिद्धादपि तादृगन्तरिक्षपथेन गमनाद्भूपृष्ठस्य चान्तरिक्षभागस्याधोभागतया मूलत्वम् । वृक्षादेरधोभागो हि मूलम्, उपरिभागश्चाग्रमिति ॥ २० ॥
Eggeling
- He then walks out (of the Havirdhāna) with, ‘I walk along the wide air 20.’ For along the air
the Rakshas roams rootless and unfettered on both sides, even as man here roams along the air, rootless and unfettered on both sides 21; and, that formula being the Brahman (prayer), a slayer of the Rakshas, he, by means of that Brahman, renders the air free from danger and injury.
२१
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ व᳘रं वृणीते॥
ब᳘लवद्ध वै᳘ देवा᳘ एत᳘स्य ग्र᳘हस्य हो᳘मं प्रे᳘प्सन्ति᳘ ते ऽस्मा ऽएतं व᳘रᳫं᳭ स᳘मर्धयन्ति क्षिप्रे᳘ न इमं ग्र᳘हं जुहवदि᳘ति त᳘स्माद्व᳘रं वृणीते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ व᳘रं वृणीते॥
ब᳘लवद्ध वै᳘ देवा᳘ एत᳘स्य ग्र᳘हस्य हो᳘मं प्रे᳘प्सन्ति᳘ ते ऽस्मा ऽएतं व᳘रᳫं᳭ स᳘मर्धयन्ति क्षिप्रे᳘ न इमं ग्र᳘हं जुहवदि᳘ति त᳘स्माद्व᳘रं वृणीते॥
मूलम् - Weber
अ᳘थ व᳘रं वृणीते॥
ब᳘लवद्ध वै᳘ देवा᳘ एत᳘स्य ग्र᳘हस्य हो᳘मम् प्रे᳘प्सन्तिॗ ते ऽस्मा एतं व᳘रᳫं स᳘मर्धयन्ति क्षिप्रे᳘ न इमं ग्र᳘हं जुहवदि᳘ति त᳘स्माद्व᳘रं वृणीते॥
मूलम् - विस्वरम्
अथ वरं वृणीते । बलवद्ध वै देवा एतस्य ग्रहस्य होमं प्रेप्सन्ति । ते ऽस्मा ऽएतं वरं समर्धयन्ति क्षिप्रे न इमं ग्रहं जुहवदिति । तस्माद् वरं वृणीते ॥ २१ ॥
सायणः
वरवरणं विधत्ते- अथ वरं वृणीत इति 18 । निष्क्रमानन्तरं वरप्रार्थनाहेतुमाह- बलवद्ध वै देवा इति । ‘एतस्य’ उपांशुसोमरसस्य ‘होमं’ ‘देवाः’ अत्यन्तमिच्छन्ति । इत्थम् ‘अस्मै’ अध्वर्यवे तं यजमानार्थं वृतं वरं समृद्धं कुर्वन्ति । समर्द्धयतां च देवानामयमाशयः- समृद्धिमभिलक्षयन्यजमानो ऽध्वर्यवे वरं ददातु, दत्तवरश्चाध्वर्युस्तुष्टः सन् अस्माकम् ‘इमं’ उपांशुग्रहमसुरसमागमात्प्रागेव त्वरया जुहोत्विति । देवानां च त्वराकारणं सवनत्रयात्मके अस्मिन् यज्ञे 19 असुरसमागमात्प्राक् क्षिप्रं हुते सति संपूर्णो यज्ञो नः सम्पन्नः स्यादिति यस्माद्देवकृतां समृद्धिमिच्छन् यजमानो ऽवश्यं दास्यति । तस्मादध्वर्युर्वरं वृणीते ॥ २१ ॥
Eggeling
- Thereupon he (the Sacrificer) asks a boon. For the gods, forsooth, greatly desire to obtain the offering of that graha, and they grant to him that boon, in order that he may forthwith offer that graha to them: this is why he asks a boon.
२२
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
स्वां᳘कृतो ऽसी᳘ति प्राणो वा᳘ ऽअस्यैष ग्र᳘हः स᳘ स्वय᳘मेव᳘ कृतः᳘ स्वयं᳘ जातस्त᳘स्मादाह स्वां᳘कृतो ऽसी᳘ति वि᳘श्वेभ्य इन्द्रिये᳘भ्यो दिव्ये᳘भ्यः पा᳘र्थिवेभ्य इ᳘ति स᳘र्वाभ्यो᳘ ह्येष᳘ प्रजा᳘भ्यः स्वयं᳘ जातो म᳘नस्त्वा ऽष्ट्वि᳘ति प्रजा᳘पतिर्वै म᳘नः प्रजा᳘पतिष्ट्वा ऽश्नुतामि᳘त्ये᳘वैत᳘दाह स्वा᳘हा त्वा सुभव सूर्याये᳘ति[[!!]] तद᳘वरᳫं᳭ स्वाहाकारं᳘ करो᳘ति प᳘रां दे᳘व᳘ताम्॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
स्वां᳘कृतो ऽसी᳘ति प्राणो वा᳘ ऽअस्यैष ग्र᳘हः स᳘ स्वय᳘मेव᳘ कृतः᳘ स्वयं᳘ जातस्त᳘स्मादाह स्वां᳘कृतो ऽसी᳘ति वि᳘श्वेभ्य इन्द्रिये᳘भ्यो दिव्ये᳘भ्यः पा᳘र्थिवेभ्य इ᳘ति स᳘र्वाभ्यो᳘ ह्येष᳘ प्रजा᳘भ्यः स्वयं᳘ जातो म᳘नस्त्वा ऽष्ट्वि᳘ति प्रजा᳘पतिर्वै म᳘नः प्रजा᳘पतिष्ट्वा ऽश्नुतामि᳘त्ये᳘वैत᳘दाह स्वा᳘हा त्वा सुभव सूर्याये᳘ति[[!!]] तद᳘वरᳫं᳭ स्वाहाकारं᳘ करो᳘ति प᳘रां दे᳘व᳘ताम्॥
मूलम् - Weber
स᳘ जुहोति॥
स्वां᳘कृतो ऽसी᳘ति प्राणो वा᳘ अस्यैष ग्र᳘हः स᳘ स्वय᳘मेव᳘ कृतः᳘ स्वयं᳘ जातस्त᳘स्मादाह स्वां᳘कृतो ऽसी᳘ति वि᳘श्वेभ्य इन्द्रिये᳘भ्यो दिव्ये᳘भ्यः पा᳘र्थिवेभ्य इ᳘ति स᳘र्वाभ्योॗ ह्येष प्रजा᳘भ्यः स्वयं᳘ जातो म᳘नस्त्वाष्ट्वि᳘ति प्रजा᳘पतिर्वै म᳘नः प्रजा᳘पतिष्ट्वाश्नुतामि᳘त्येॗवैत᳘दाह स्वा᳘हा त्वा सुभव सू᳘र्याये᳘ति तद᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां दे᳘व᳘ताम्॥
मूलम् - विस्वरम्
स जुहोति । “स्वांकृतो ऽसि”-(वा. सं. ७ । ३) इति । प्राणो वा ऽअस्यैष ग्रहः । स स्वयमेव कृतः, स्वयं जातः । तस्मादाह स्वाङ्कृतो ऽसीति । “विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः”- (वा. सं. ७ । ३) इति । सर्वाभ्यो ह्येष प्रजाभ्यः स्वयं जातः । “मनस्त्वा ऽष्टु”- (वा. सं. ७ । ३) इति । प्रजापतिर्वै मनः, प्रजापतिष्ट्वा ऽश्नुतामित्येवैतदाह । “स्वाहा त्वा सुभव सूर्याय”- (वा. सं. ७ । ३) इति । तदवरं स्वाहाकारं करोति, परां देवताम् ॥ २२ ॥
सायणः
समन्त्रकं होमं विधत्ते- स जुहोतीत्यादिना । तत्र “स्वांकृतः” इत्यादिः, “सूर्याय” इत्यन्तो मन्त्रः । तं चतुर्द्धा विभज्य प्रथमं भागं व्याख्यातुमाह- “स्वांकृतो ऽसीति 22 । व्याचष्टे- प्राणो वा इति । ‘अस्य’ सोमयागस्य सम्बन्धी ‘एषः’ उपांशुग्रहः गृह्यत इति व्युत्पत्त्या सोमरसः, स प्राणो वै । “स प्रजापतिस्तस्यैष प्राणः” इति हि प्रागुक्तम् (श. प. ४ । १ । १ । २) । प्राणश्च हिरण्यगर्भः परं ब्रह्म तच्च कर्त्रन्तराभावात् स्वात्मनैव कृतम् । श्रूयते हि- ”तदात्मानं स्वयमकुरुत,” (तै. उ. आ. व. अनु. ७) इति । स्वात्मना कृतं स्वयं जातमेव । स्वयंकृत इत्यत्र छान्दसे यलोपे सवर्णदीर्घत्वे च स्वाङ्कृत इति जातम् । द्वितीयं भागमाह- विश्वेभ्य इति । व्याचष्टे- सर्वाभ्यो ह्येष प्रजाभ्यः स्वयं जात इति । दिव्यानि यानि देवानामिन्द्रियाणि पार्थिवानि च मनुष्याणां तेषां तृप्त्यर्थः सोम इति । “वाग्देवी जुषाणा सोमस्य तृप्यतु-” इति (वा. सं. ८ । ३७) मन्त्रे प्रसिद्धः । सा प्रसिद्धिः ‘हि’- शब्देनोच्यते । तृतीयमाह- मनस्त्वा ऽष्ट्विति । व्याचष्टे- प्रजापतिर्वै मन इति । ‘मन इव हि प्रजापतिः’ इति श्रुत्यन्तरान्मनसः प्रजापतित्वम् । चतुर्थमाह- स्वाहा त्वा सुभव सूर्यायेति । तं व्याचष्टे- तदवरं स्वाहाकारमिति । अग्नये स्वाहेत्यादिषु हि मन्त्रेषु प्रथमं देवतापदं, चरमं च स्वाहापदम्, इह तु तद्वैपरीत्यं, तत्रायं हेतुः ‘य एषः’ सूर्यः ‘तपति’ सर्वात्मको हि सः, ‘अमुष्मिन्’ सूर्ये एष उपांशुग्रहो हूयते एष च परार्द्धतया सर्वस्योपरि व्यवहर्तव्यः, स्वाहाकारे पुनरुपरि प्रयुज्यमाने स व्यवहारो न स्यादिति । इत्थं च हे उपांशुसोमदेव ! मनुष्याणां सर्वेन्द्रियतृप्त्यर्थं प्राणात्मकतया त्वं स्वात्मनैव निर्म्मितो ऽसि अतः सर्वेन्द्रियसहकारी मनोरूपः प्रजापतिरपि ‘त्वा’ त्वाम् व्याप्नोतु । हे शोभनजन्मन् ! सोम जुहोमि त्वां सूर्यायेति मन्त्रार्थः ॥ २२ ॥ २३॥
Eggeling
- He (the Adhvaryu) offers with (Vāj. S. VII, 3), ‘Self-made thou art,’ for, this graha being his (Yajña’s) out-breathing, it is indeed made by itself, born of itself 23: hence he says, ‘Self-made thou art;’–‘for all powers, divine and earthly,’–for it is born of itself for all creatures 24;–‘May the mind obtain thee!’–the mind being Prajāpati, he thereby means to say, ‘may Prajāpati obtain thee!’ ‘Hail! thee, O well-born, for Sūrya!’ thus he utters the second 25
(or inferior) ‘Hail!’ with regard to a subsequent 26 (or higher; the highest) deity.
२३
विश्वास-प्रस्तुतिः
(म) अमु᳘ष्मिन्वा᳘ ऽएत᳘महौषीत्॥
(द्य᳘) य᳘ एष त᳘पति स᳘र्व्वं वा᳘ ऽएष त᳘देनᳫं᳭ स᳘र्व्वस्यैव᳘ परा᳘र्ध्यं[[!!]] करोत्य᳘थ यद᳘वरां देव᳘तां कुर्यात्प᳘रᳫं᳭ स्वाहाकारᳫं᳭ स्या᳘दु है᳘वामु᳘ष्मादादित्यात्प᳘रं त᳘स्माद᳘वरᳫं᳭ स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘ताम्॥
मूलम् - श्रीधरादि
(म) अमु᳘ष्मिन्वा᳘ ऽएत᳘महौषीत्॥
(द्य᳘) य᳘ एष त᳘पति स᳘र्व्वं वा᳘ ऽएष त᳘देनᳫं᳭ स᳘र्व्वस्यैव᳘ परा᳘र्ध्यं[[!!]] करोत्य᳘थ यद᳘वरां देव᳘तां कुर्यात्प᳘रᳫं᳭ स्वाहाकारᳫं᳭ स्या᳘दु है᳘वामु᳘ष्मादादित्यात्प᳘रं त᳘स्माद᳘वरᳫं᳭ स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘ताम्॥
मूलम् - Weber
अमु᳘ष्मिन्वा᳘ एत᳘महौषीत्॥
य᳘ एष त᳘पति स᳘र्वं वा᳘ एष त᳘देनᳫं स᳘र्वस्यैव᳘ परार्ध्यं᳘ करोत्य᳘थ यद᳘वरां देव᳘तां कुर्यात्प᳘रᳫं स्वाहाकारᳫं स्या᳘दु हैॗवामु᳘ष्मादादित्यात्प᳘रं त᳘स्माद᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘ताम्॥
मूलम् - विस्वरम्
अमुष्मिन् वा ऽएतमहौषीद् य एष तपति । सर्वं वा ऽएषः । तदेनं सर्वस्यैव परार्घ्यं करोति । अथ यद् अवरां देवतां कुर्यात्, परं स्वाहाकारम् । स्याद् उ हैवामुष्मादादित्यात्परम् । तस्मादवरं स्वाहाकारं करोति, परां देवताम् ॥ २३ ॥
सायणः
[व्याख्यानं द्वाविंशतितमे]
Eggeling
- Now it is in him that burns yonder (the sun) that he has just offered that (libation); and the latter is the All: hence he makes that (sun) the highest of the All. But were he to utter the second (or higher) ‘Hail!’ with regard to a preceding (or lower) deity 27, then it would be even higher than yonder sun: therefore he utters the second ‘Hail!’ with regard to a subsequent deity.
२४
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ हु᳘त्वोर्ध्वं ग्र᳘हमु᳘न्मार्ष्टि॥
प᳘राञ्चमे᳘वास्मिन्नेत᳘त्प्राणं᳘ दधात्य᳘थोत्ताने᳘न पाणि᳘ना मध्यमे᳘ परिधौ प्रागु᳘पमार्ष्टि प᳘राञ्चमे᳘वास्मिन्नेत᳘त्प्राणं᳘ द᳘धाति देवे᳘भ्यस्त्वा मरीचिपे᳘भ्य इ᳘ति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ हु᳘त्वोर्ध्वं ग्र᳘हमु᳘न्मार्ष्टि॥
प᳘राञ्चमे᳘वास्मिन्नेत᳘त्प्राणं᳘ दधात्य᳘थोत्ताने᳘न पाणि᳘ना मध्यमे᳘ परिधौ प्रागु᳘पमार्ष्टि प᳘राञ्चमे᳘वास्मिन्नेत᳘त्प्राणं᳘ द᳘धाति देवे᳘भ्यस्त्वा मरीचिपे᳘भ्य इ᳘ति॥
मूलम् - Weber
अ᳘थ हुॗत्वोर्ध्वं ग्र᳘हमु᳘न्मार्ष्टि॥
प᳘राञ्चमेॗवास्मिन्नेत᳘त्प्राणं᳘ दधात्य᳘थोत्ताने᳘न पाणि᳘ना मध्यमे᳘ परिधौ प्रागुपमार्ष्टि प᳘राञ्चमेॗवास्मिन्नेत᳘त्प्राणं᳘ दधाति देवे᳘भ्यस्त्वा मरीचिपे᳘भ्य इ᳘ति॥
मूलम् - विस्वरम्
अथ हुत्वोर्ध्वं ग्रहमुन्मार्ष्टि, पराञ्चमेवास्मिन्नेतत्प्राणं दधाति । अथोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्टि, पराञ्चमेवास्मिन्नेतत्प्राणं दधाति । “देवेभ्यस्त्वा मरीचिपेभ्यः”- (वा० सं० ७ । ३) इति ॥ २४ ॥
सायणः
होमानंतरं कर्तव्यं विधत्ते- अथ हुत्वोर्ध्वं ग्रहमुन्मार्ष्टीति 28 । होमोत्तरकाले ‘अथ’ अनन्तरमविलम्बमानः ऊर्ध्वमुखत्वेन स्थितं ‘ग्रहं’ मूलत आरभ्याग्रपर्यन्तं गृह्यादित्यर्थः । होममार्जनयोः पौर्वापर्यं क्त्वाप्रत्ययेनोच्यते, तच्च तयोः कालव्यवधाने ऽपि भवति, तथा मा भूदित्यव्यवधानम् ‘अथ’- शब्दार्थः । मार्जनस्योन्मुखतां स्तौति- पराञ्चमेवास्मिन्नेतत्प्राणं दधातीति । ‘एतत्’ उन्मार्जनम् ‘अस्मिन्’ यजमाने ‘प्राणम्’ अप्रतिबद्धोर्ध्वसञ्चारं करोति । उन्मार्जनानंतरं कर्तव्यं विधत्ते- अथोत्तानेनेति । ‘प्राक्’ प्रागपवर्गँ तिर्यङ् मृज्यात् । स्तौति- पराञ्चमेवेति । उन्मुखस्य प्राणस्य बहिःसञ्चारप्रतिबन्धनिरसनमुपमार्जनस्य फलम् । तत्र मन्त्रं विधत्ते- देवेभ्यस्त्वा मरीचिपेभ्य इतीति ॥ २४ ॥
Eggeling
- And, having offered, he wipes the (vessel of the) graha upwards; whereby he puts that out-breathing into him as one tending away from him. Thereupon he rubs (the wiped-off Soma) upon the middle enclosing stick from west to east with the palm of his hand turned upwards 29–whereby he puts that out-breathing into him as one tending away from him–with, ‘Thee to the gods sipping motes of light!’
२५
विश्वास-प्रस्तुतिः
(त्य) अमु᳘ष्मिन्वा᳘ ऽएतं म᳘ण्डले ऽहौषीत्॥
(द्य᳘) य᳘ एष त᳘पति त᳘स्य ये᳘ रश्म᳘यस्ते᳘ देवा᳘ मरीचिपास्ता᳘ने᳘वैत᳘त्प्रीणाति त᳘ ऽएनं देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति॥
मूलम् - श्रीधरादि
(त्य) अमु᳘ष्मिन्वा᳘ ऽएतं म᳘ण्डले ऽहौषीत्॥
(द्य᳘) य᳘ एष त᳘पति त᳘स्य ये᳘ रश्म᳘यस्ते᳘ देवा᳘ मरीचिपास्ता᳘ने᳘वैत᳘त्प्रीणाति त᳘ ऽएनं देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति॥
मूलम् - Weber
अमु᳘ष्मिन्वा᳘ एतम् म᳘ण्डले ऽहौषीत्॥
य᳘ एष त᳘पति त᳘स्य ये᳘ रश्म᳘यस्ते᳘ देवा᳘ मरीचिपास्ता᳘नेॗवैत᳘त्प्रीणाति त᳘ एनं देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति॥
मूलम् - विस्वरम्
अमुष्मिन्वा ऽएतं मण्डले ऽहौषीद्, य एष तपति । तस्य ये रश्मयः । ते देवा मरीचिपास्तानेवैतत्प्रीणाति । त ऽएनं देवाः प्रीताः स्वर्गं लोकमभिवहन्ति ॥ २५ ॥
सायणः
व्याचष्टे- अमुष्मिन्वा इति । ‘य एषः’ आदित्यः ‘तपति’ ‘अमुष्मिन्’ मण्डलरूपेण स्थिते ‘एतम्’ उपांशुम् ‘अहौषीत्’ “स्वाहा त्वा सुभव सूर्याय” इति । तत्सम्बन्धिनो ‘ये’ रश्मयः ‘देवाः’ ते मरीचय एव सन्तः संकृतिरित्यादयो याज्यान् पिबन्तीति ‘मरीचिपाः’ । ‘एतत्’ मध्यमपरिधौ सोमलेपस्योपमार्जनं ‘तान्’ देवान् ‘प्रीणात्येव’ ‘प्रीताश्च’ ‘ते’ ‘एनं’ यजमानं ‘स्वर्गं’ प्रापयन्ति । श्रुतौ- ”देवेभ्यः” इत्यादिमार्जनमन्त्रः 28 ॥ २५ ॥
Eggeling
- For in that orb which burns yonder he has just offered this (libation), and those rays thereof are the gods sipping motes of light: it is these he thereby gratifies; and thus gratified those gods convey him to the heavenly world.
२६
विश्वास-प्रस्तुतिः
त᳘स्य वा ऽएत᳘स्य ग्र᳘हस्य᳘॥
नानुवाक्या᳘ ऽस्ति न᳘ या᳘ज्या तं म᳘न्त्रेण जुहोत्येते᳘नो हास्यै᳘षो ऽनुवा᳘क्यवान्भ᳘वत्येते᳘न[[!!]] या᳘ज्यवान᳘थ[[!!]] य᳘द्यभिच᳘रे᳘द्यो ऽस्याᳫं᳭शुरा᳘श्लिष्टः स्या᳘द्बाह्वोर्वो᳘रसि वा᳘ व्वा᳘ससि वा तं᳘ जुहुयाद्दे᳘वाᳫं᳭शो य᳘स्मै त्वे᳘डे त᳘त्सत्य᳘मुपरिप्रु᳘ता भङ्गे᳘न ह᳘तो ऽसौ फडि᳘ति य᳘था ह वै᳘ हन्य᳘मानानामपधा᳘वेदेव᳘मे᳘षो ऽभिषूय᳘माणानाᳫं᳭ स्कन्दति त᳘था ह त᳘स्य᳘ नैव धा᳘व᳘न्नापधा᳘वत्प᳘रिशिष्यते य᳘स्मा ऽएवं᳘ करो᳘ति त᳘ᳫं᳘ सादयति प्राणा᳘य त्वे᳘ति प्राणो᳘ ह्यस्यैषः᳘॥
मूलम् - श्रीधरादि
त᳘स्य वा ऽएत᳘स्य ग्र᳘हस्य᳘॥
नानुवाक्या᳘ ऽस्ति न᳘ या᳘ज्या तं म᳘न्त्रेण जुहोत्येते᳘नो हास्यै᳘षो ऽनुवा᳘क्यवान्भ᳘वत्येते᳘न[[!!]] या᳘ज्यवान᳘थ[[!!]] य᳘द्यभिच᳘रे᳘द्यो ऽस्याᳫं᳭शुरा᳘श्लिष्टः स्या᳘द्बाह्वोर्वो᳘रसि वा᳘ व्वा᳘ससि वा तं᳘ जुहुयाद्दे᳘वाᳫं᳭शो य᳘स्मै त्वे᳘डे त᳘त्सत्य᳘मुपरिप्रु᳘ता भङ्गे᳘न ह᳘तो ऽसौ फडि᳘ति य᳘था ह वै᳘ हन्य᳘मानानामपधा᳘वेदेव᳘मे᳘षो ऽभिषूय᳘माणानाᳫं᳭ स्कन्दति त᳘था ह त᳘स्य᳘ नैव धा᳘व᳘न्नापधा᳘वत्प᳘रिशिष्यते य᳘स्मा ऽएवं᳘ करो᳘ति त᳘ᳫं᳘ सादयति प्राणा᳘य त्वे᳘ति प्राणो᳘ ह्यस्यैषः᳘॥
मूलम् - Weber
त᳘स्य वा एत᳘स्य ग्र᳘हस्य᳟᳟॥
नानुवाक्या᳘स्ति न᳘ याॗज्या तम् म᳘न्त्रेण जुहोत्येते᳘नो हास्यैॗषो ऽनुवाक्य᳘वान्भवत्येते᳘न याज्य᳘वान᳘थ य᳘द्यभिचरेॗद्यो ऽस्यांशुराश्लिष्टः स्या᳘द्बाह्वोर्वो᳘रसि वा वा᳘ससि वा तं᳘ जुहुयाद्दे᳘वांशो य᳘स्मै त्वे᳘डे त᳘त्सत्य᳘मुपरिप्रु᳘ता भङ्गे᳘न हॗतो ऽसौ फडि᳘ति य᳘था ह वै᳘ हन्य᳘मानानामपधा᳘वेदेव᳘मेॗषो ऽभिषूय᳘माणानाᳫं स्कन्दति त᳘था ह त᳘स्यॗ नैव धा᳘वॗन्नापधा᳘वत्प᳘रिशिष्यते य᳘स्मा एवं᳘ करो᳘ति त᳘ᳫं᳘ सादयति प्राणा᳘य त्वे᳘ति प्राणो ह्यस्यैषः᳟॥
मूलम् - विस्वरम्
तस्य वा ऽएतस्य ग्रहस्य नानुवाक्या ऽस्ति । न याज्या । तं मन्त्रेण जुहोति । एतेनो हास्यैषो ऽनुवाक्यवान्भवति, एतेन याज्यवान् । अथ यद्यभिचरेत्, यो ऽस्यांशुराश्लिष्टः स्याद्- बाह्वोर्वा, उरास वा, वाससि वा, तं जुहुयात् । “देवांशो यस्मै त्वेडे तत्सत्यम् । उपरिप्रुता भङ्गेन हतो ऽसौ फट्”- (वा. सं. ७ । ३) इति । यथा ह वै हन्यमानानामपधावेद्, एवमेषो ऽभिषूयमाणानां स्कन्दति । तथा ह- तस्य नैव धावन्नापधावत्परिशिष्यते । यस्मा ऽएवं करोति तं सादयति । “प्राणाय त्वा”- (वा० सं० ७ । ३ ।) इति । प्राणो ह्यस्यैषः ॥ २६ ॥
सायणः
“स्वांकृतः” इत्यादिहोममन्त्रमधुना स्तौति- तस्य वा एतस्य ग्रहस्येति । शुक्रामन्थ्यादिग्रहहोममन्त्रो हि सः प्रथमः, संकृतिरित्यादयो याज्यानुवाक्ये अपेक्षन्ते । “स्वाङ्कृतः” इत्याद्युपांशुहोममन्त्रस्तु याज्यानुवाक्ये अनपेक्ष्य तत्कृत्यमपि स्वयमेव करोतीति प्रशस्त इत्यर्थः । अस्य मन्त्रस्य सम्बन्धी ‘एषः’ ग्रहः ‘एतेन’ एव मन्त्रेणोभयवान् भवति । ‘अनुवाक्यवान् याज्यवान्’ इति । “ङ्यापोः संज्ञाछन्दसोर्बहुलम्” (पा० सू० ६ । ३ । ६३) इति आपो ह्रस्वत्वम् । अभिचरतो बाह्वादिश्लिष्टांशुहोममाह- यद्यभिचरेदिति 30 । तत्र होममन्त्रः । “देवांशो यस्मै त्वेडे तत् सत्यमुपरिप्रुता भङ्गेन हतो ऽसौ फट्” इति । हे ‘देवांशो’ हे सोमांशो । ‘यस्मै’ शत्रुवधाय ‘त्वा’ त्वाम् ‘ईडे’ स्तुवे ‘तद्’ वधकर्म ‘सत्यम्’ अस्तु ‘भङ्गेन’ अभिषवामर्देन ‘उपरिप्रुता’ उपरिभावाय वा ऽऽगतेन त्वया ‘असौ’ एतन्नामा शत्रुः ‘हतः’ सन् ‘फट्’ विशीर्यताम् । “ञिफला विशरणे” (धा. पा. ५१८) इत्यस्य क्विपि लडयोरभेदश्छान्दसः । अभिचारे स्वाहाकारस्य स्थाने ‘फट्’ इति प्रयुज्यत एव । “वषड्रवश्ये षडुच्चाटे फट् द्वेष्ये पौष्टिके स्वधा” इति वचनात् । एतन्मन्त्रकरणकं विहितं होमं स्तौति- यथा ह वा इति । ‘हन्यमानानां’ शत्रूणां मध्ये ‘यथा’ यः कश्चिदेकः ‘अपधावेत्’ पलायेत तद्वत् ‘अभिषूयमाणानां’ सोमांशूनां मध्ये ‘एषः’ बाह्वादिलग्नांशुः ‘स्कन्दति’ अपगच्छति ‘यस्मै’ पुनर्यजमानाय ‘एवम्’ उक्तमन्त्रकं स्कन्नांशुहोमं करोति ‘अस्य’ यजमानस्य तथा होमदेवते अभिषुते । सोमे स्थितो वा एवमपधावन्वा कोप्यंशुर्न परिश्लिष्यत इति । खरे सादनं विधत्ते- त ँ सादतीति 31 । तत्र मन्त्रः- प्राणाय त्वेति । ‘प्राणाय’ ‘त्वा’ त्वां सादयामि इति शेषः । व्याचष्टे- प्राणो ह्यस्यैष इति । ‘अस्य’ सोमयागस्य ‘एषः’ उपांशुग्रहः प्राणो हि प्रागुक्तस्य रसस्य धारणात् अतस्तत्सादनस्य प्राणनार्थता मन्त्रेणोच्यते इति हि शब्दः ॥ २६ ॥
Eggeling
- For this same graha there is neither an invitatory prayer nor an offering prayer 32: he offers it
with a (Yajus) formula, and thereby it becomes for him supplied with both an invitatory and an offering prayer. And if he desire to exorcise, let him offer some spray (of Soma) which may adhere either to his arm, or to his breast, or to his garment, with, ‘O divine plant, let that be true wherefore I pray thee: let N.N. be struck down by destruction falling from above, crash!’ Even as one of (enemies) that are being slain might escape, so does this (sprig) fly away from those that are being pressed: thus nothing (hostile)–either running thither or running away 33–remains to him for whom he performs this. He deposits that (cup) with, ‘Thee for the out-breathing!’ for this (graha) indeed is his out-breathing.
२७
विश्वास-प्रस्तुतिः
(ष᳘ द) दक्षिणार्धे है᳘के सादयन्ति॥
(न्त्ये) एता᳘ᳫं᳘ ह्येष दि᳘शम᳘नु संच᳘रती᳘ति त᳘दु त᳘था न᳘ कुर्यादुत्तरार्ध᳘ ऽए᳘वैनᳫं᳭ साद᳘ये᳘न्नो᳘ ह्येत᳘स्या आ᳘हुतेः का᳘चन परा᳘ ऽस्ति त᳘ᳫं᳘ सादयति प्राणा᳘य त्वे᳘ति प्राणो᳘ ह्यस्यैषः᳘[[!!]]॥
मूलम् - श्रीधरादि
(ष᳘ द) दक्षिणार्धे है᳘के सादयन्ति॥
(न्त्ये) एता᳘ᳫं᳘ ह्येष दि᳘शम᳘नु संच᳘रती᳘ति त᳘दु त᳘था न᳘ कुर्यादुत्तरार्ध᳘ ऽए᳘वैनᳫं᳭ साद᳘ये᳘न्नो᳘ ह्येत᳘स्या आ᳘हुतेः का᳘चन परा᳘ ऽस्ति त᳘ᳫं᳘ सादयति प्राणा᳘य त्वे᳘ति प्राणो᳘ ह्यस्यैषः᳘[[!!]]॥
मूलम् - Weber
दक्षिणार्धे है᳘के सादयन्ति॥
एताॗᳫंॗ ह्येष दि᳘शम᳘नु संच᳘रती᳘ति त᳘दु त᳘था न᳘ कुर्यादुत्तरार्ध᳘ एॗवैनᳫं साद᳘येॗन्नोॗ ह्येत᳘स्या आ᳘हुतेः का᳘ चन परा᳘स्ति त᳘ᳫं᳘ सादयति प्राणा᳘य त्वे᳘ति प्राणो ह्य᳘स्यैषः᳟॥
मूलम् - विस्वरम्
दक्षिणार्धे हैके सादयन्ति- एतां ह्येष दिशमनु सञ्चरतीति । तदु तथा न कुर्यात् । उत्तरार्ध ऽएवैनं सादयेत् । नो ह्येतस्या आहुतेः काचन परा ऽस्ति । तं सादयति । “प्राणाय त्वा”- (वा० सं० ७ । ३) इति । प्राणो ह्यस्यैषः ॥ २७ ॥
सायणः
विहितस्य सादनस्योत्तरार्धं स्थानं विधातुं मतान्तरमनूद्य निरस्य स्वाभिमतं दधाति- दक्षिणार्धे हैके सादयन्तीति । ‘एके’ याज्ञिका होमानन्तरमेतं ग्रहं खरस्य दक्षिणभागे ‘सादयन्ति’ तत्रोपपत्तिं च ते कथयन्ति ग्रहणात् प्राक् खरे पात्राणामासादनकाले ‘एषः’ ग्रह उपांशुपात्रमुत्तरादाग्नीध्रमण्डपादासादनाय खरं प्रत्यानीयमानम् ‘एतां’ दक्षिणां दिशम् ‘अनुसञ्चरति’ गच्छतीति । तथा चापस्तम्बः- “दक्षिणें ऽश उपांशुपात्रम्” इति । ‘तत्’ तु सादनं ‘तथा’ दक्षिणांशे ‘न कुर्यात्’ इति परमतं निरस्य उत्तरभाग एवैनं ग्रहं सादयेदिति स्वमतविधिः । विहितमुत्तरार्द्धं स्तोति- नो ह्येतस्या इति । ‘एतस्याः’ उपांशुसोमाहुतेः ‘परा’ प्रशस्ता ‘न’ काचिदाहुतिः ‘अस्ति’ । सवनत्रयात्मिका हीयमित्युक्तम् । अतस्तदीयपात्रासादनस्य उत्तरभागो युक्तः, सो ऽपि तर्हि प्रशस्तः “तस्मादुत्तरार्द्धस्तेजस्वितरः” इति श्रुतेः । सादने विहितं मन्त्रं स्तोतुमनुवदति- तं सादयति प्राणाय त्वेति । स्तौति- प्राणो ह्यस्यैष इति । यतः ‘अस्य’ पात्रस्य सम्बन्धी ‘एषः’ सोमः ‘प्राणः’ । अतो ऽस्यानेन मन्त्रेण सादनं प्रशस्तमित्यर्थः ॥ २७ ॥
Eggeling
- Now some deposit it on the south part (of the khara 34), for, they say, it is in that direction that
yonder (sun) moves. Let him, however, not do this, but let him deposit it on the north (uttara) part (of the khara), because there is not any higher (uttara) graha than this. He deposits it with, ‘Thee for the out-breathing!’ for this (graha) is indeed his out-breathing.
२८
विश्वास-प्रस्तुतिः
(षो᳘ ऽथो) अ᳘थोपाᳫं᳭शुस᳘वनमा᳘दत्ते॥
तं न᳘ दशा᳘भिर्न᳘ पवि᳘त्रेणो᳘पस्पृशति य᳘था᳘ ह्यद्भिः[[!!]] प्र᳘णिक्तमेवं तद्य᳘द्यᳫं᳭शुरा᳘श्लिष्टः स्या᳘त्पाणि᳘नैव᳘ प्रध्वᳫं᳭स्यो᳘दञ्चमुपनि᳘पादयेद्व्याना᳘य[[!!]] त्वे᳘ति व्यानो᳘ ह्यस्यैषः[[!!]]॥
मूलम् - श्रीधरादि
(षो᳘ ऽथो) अ᳘थोपाᳫं᳭शुस᳘वनमा᳘दत्ते॥
तं न᳘ दशा᳘भिर्न᳘ पवि᳘त्रेणो᳘पस्पृशति य᳘था᳘ ह्यद्भिः[[!!]] प्र᳘णिक्तमेवं तद्य᳘द्यᳫं᳭शुरा᳘श्लिष्टः स्या᳘त्पाणि᳘नैव᳘ प्रध्वᳫं᳭स्यो᳘दञ्चमुपनि᳘पादयेद्व्याना᳘य[[!!]] त्वे᳘ति व्यानो᳘ ह्यस्यैषः[[!!]]॥
मूलम् - Weber
अ᳘थोपांशुस᳘वनमा᳘दत्ते॥
तं न᳘ दशाभिर्न᳘ 35 विवि᳘त्रेणो᳘पस्पृशति य᳘था ह्य᳘द्भिः प्र᳘णिक्तमेवं तद्य᳘द्यंशुरा᳘श्लिष्टः स्या᳘त्पाणिनैव᳘ प्रध्वंस्यो᳘दञ्चमुपनि᳘पादयेद्व्या᳘नाय त्वे᳘ति व्यानो ह्य᳘स्यैषः᳟॥
मूलम् - विस्वरम्
अथोपांशुसवनमादत्ते । तं न दशाभिर्न पवित्रेणोपस्पृशति । यथा ह्यद्भिः प्रणिक्तमेवं तत् । यद्यंशुराश्लिष्टः स्यात्, पाणिनैव प्रध्वंस्योदंचमुपनिपादयेत् । “व्यानाय त्वा”**- (वा० सं० ७ । ३) इति । व्यानो ह्यस्यैषः ॥ २८ ॥ इत्युपांशुग्रहः ।
सायणः
उपांशुसवनमादानं विधत्ते- अथोपाँशुसवनमादत्ते इति । उपांशुग्रहसादनानन्तरमुपांशुसवनं ग्रावाणमाददीत । सोमलेपापनोदाय प्रसक्तं दशापवित्रेणोपस्पर्शं निषेधति- तं न दशाभिरिति । पवनसाधनेन वस्त्रेण तद्दशाभिर्वा सोमलेपापनोदाय ‘तं’ पाषाणं ‘न’ उन्मृज्यात् । तत्रानुपस्पर्शे कारणमाह- यथा ह्यद्भिः प्रणिक्तमेवमिति । ‘प्रणिक्तं’ प्रक्षालितं- “णिजिर् शौचपोषणयोः”- (धा. पा. जु. प. ११) “उपसर्गादसमासे ऽपि णोपदेशस्य” (पा. सू. ८ । ४ । १४) इति णत्वम् । यथा शुद्ध्यर्थं जलेन क्षालितं वस्तु जललेपापनोदाय न पुनर्जलान्तरेण क्षाल्यते । जललेपस्य शुद्धत्वात् । ‘एवं’ सोमशेषलिप्तं ‘तद्’ ग्रावस्वरूपम् । सोमशेषस्यापि पवित्रत्वादित्यर्थः । तत् किं सोमसेकवद्ग्राव्णि लग्नः सोमांशुरपि नापनेयः ? अपनीय वा स ग्राव्णः सकाशादासादनीयस्तत्राह- यद्यंशुरिति । उपर्यन्तर्यामग्रहहोमतदासादनोत्तरकाले सादितयोरुपांश्वन्तर्यामयोर्मध्ये उदगग्रं स्थापयेत् । तथा च कात्यायनः- ”उपाँशुसवनं पाणिना प्रमृज्योदञ्चं व्यानाय त्वेति संस्पृष्टम्, उपविष्टयोः” (का. श्रौ. सू. ९ । ९२, । ९३) इति ‘उपविष्टयोः’ सादितयोरुपांश्वंतर्यामयोर्मध्ये तदुभयसंस्पृष्टमिति सूत्रार्थः । ग्रावसादने मन्त्रः- ”व्यानाय त्वा” इति । हे ग्रावन् ! यज्ञस्य ‘व्यानाय’ व्यापाराय त्वामिह सादयामि । व्याचष्टे- व्यानो ह्यस्यैष इति । प्राणापानात्मकग्रहद्वयसन्धै वर्त्तमानत्वाद्वा ग्राव्णो व्यानत्वम् । तदुभयसन्धौ वर्त्तमानस्य व्यानत्वप्रसिद्धेः “अथ यः प्राणापानयोः सन्धिः स व्यानः” इति छन्दोगोपनिषदि (छां. उ. १ । ३ । ३) स्थितिं ‘हि’ शब्द आह ॥ २८ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये चतुर्थकाण्डे प्रथमाध्याये प्रथमं ब्राह्मणम् ॥ ४-१-१ ॥
Eggeling
- He then takes the Upāṁśu-savana (pressing-stone). He neither touches it with the fringe nor with the straining-cloth, for that would be like rinsing it in water. If there be any spray adhering to it, let him remove it with his hand, and then lay down (the stone) beside (the Upāṁśu cup), with the face towards the north, with, ‘Thee for the through-breathing!’ for this (stone) is indeed his (Yajña’s) through-breathing.
-
उपाँशुं च गृह्णाति व्वाचस्पतये देवो देवेभ्यो मधुमतीरिति । का. श्रौ. सू. ९ । ७५ । ↩︎
-
‘प्रमिन्वते’ इ. क्व. पा. । ↩︎
-
248:1 That is, the sacrificial man, or the sacrifice personified in Soma and the sacrificer. ↩︎
-
248:2 Lit. ’the Soma-plant,’ hence the (Soma)-sacrifice itself, or Prajāpati. See IV, 6, 1, 1 seq. ↩︎
-
248:3 Bahishpavitrāt, lit. from (a vessel, or Soma) having the strainer outside (away from) it. While no proper strainer is used for the Upāṁśu-graha, the Soma-juice being poured through Soma-plants (see p. 244, note 2); at the great pressing it is passed through a fringed straining-cloth (daśāpavitra) spread over the Droṇakalaśa (the largest of the three Soma-troughs, the others being the Ādhavanīya and Pūtabhr̥t). See IV, 1, 2, 3. ↩︎
-
यत्त इत्यात्तान्त्सोमे निदधाति । का. श्रौ. सू. ९ । ८० । ↩︎
-
अस्मिन्नेव ब्राह्मणे ऽष्टमीं कण्डिकामारभ्य षोडशीकण्डिकापर्यन्तमित्यवगन्तव्यम् । ↩︎
-
249:1 Viz. inasmuch as the Upāṁśu-graha is obtained by three turns of pressing, and each of the three Savanas (pressings, Soma-feasts) consists of three rounds of pressing of three turns each. See p. 256, note 1. ↩︎
-
249:2 Cf. Taitt. S. VI, 4, 5, where this theory (divested of its legendary form) is ascribed to Aruṇa Aupaveśi. ↩︎
-
उपाशुँ च गृह्णाति वाचस्पतये देवो देवेभ्यो मधुमतीरिति । का० श्रौ० सू० ९ । ७५ । ↩︎
-
250:1 Sāyaṇa, on Taitt. S. I, 4, 2, interprets it, ‘Having been purified by the ray of the sun (while growing in the forest), do thou now become pure for the gods through the sprigs of the bull!’ Cf., however, Taitt. S. VI, 4, 5, ‘gabhastinā hy enam pavayati,’ where ‘gabhasti’ would seem to be taken in the sense of hand’ (? the forked one). See p. 244, note 2. ↩︎
-
सुश्रुते चिकित्सितस्थाने २९ अध्याये २५-२७ लोका द्रष्टव्याः ॥ ↩︎
-
251:1 The Kāṇva text adds, ‘while whosoever else is slain becomes putrid.’ ↩︎
-
परिमृज्यासादनमुपाँ श्वन्तर्यामयोः । का. श्रौ. सू. ९ । ८१ । ↩︎
-
अभिचरन्त्सादयेदविसृजन्नमुष्य त्वा प्राणँ सादयामीत्युदाममित्यन्तर्यामम् । का. श्रौ. सू. ९ । ८२ । ↩︎
-
पाणिना चापिदधात्यमुष्य त्वा प्राणमपिदधामीत्युदानमित्यन्तर्यामम् । का. श्रौ. सू. ९ । ८३ । ↩︎
-
252:1 That is, he may set it down on the khara for a moment without quitting his hold of it. While the subsequent cups of Soma are deposited in their respective places after they have been drawn, the Upāṁśu and Antaryāma are offered immediately. ↩︎
-
स्वाहेत्युक्त्वोर्व्वंतरिक्षमिति निष्क्रमणम् । का. श्रौ. सू. ९ । ८४ । ↩︎ ↩︎
-
अत्र प्रकरणे ऽव्ययीभावस्यानुपलभ्यमानत्वाद्भाष्यकाराणां समासविचारो न संगच्छते । ↩︎ ↩︎
-
252:2 With the Taittirīyas the order of proceeding is somewhat different: The Adhvaryu pours the Soma through the Soma-plants into the Upāṁśu cup after each turn of pressing, with, ‘Become pure for Vācaspati, O courser!’–‘The bull purified by the hand with the plants of the bull!’–‘Thou, a god, art a purifier of the gods whose share thou art: thee, to them!’ respectively. He then takes the cup from the Pratiprasthātr̥ with, ‘Thou art self-made’ eyes it with, ‘Make our drinks sweet;’ and wipes it clean upwards with, ‘Thee for all powers, divine and earthly!’ He then rises with, ‘May the mind obtain thee!’ steps to the Āhavanīya with, ‘I move along the wide air,’ and offers, while the sacrificer holds on to him from behind, with, ‘Hail! thee, O well-born, to Sūrya!’ ↩︎
-
253:1 See III, 1, 3, 13. ↩︎
-
स्वांकृत इति हुत्वा । का. श्रौ. सू. ९ । ८७ । ↩︎
-
253:2 ‘For this libation is the out-breathing, and the out-breathing is he that blows yonder (the wind); and he indeed is made by himself, begotten (jāta) of himself, since there is no other maker nor begetter of him.’ Kāṇva text. ↩︎
-
253:3 Perhaps we ought to translate the passage, ‘from all the powers, divine and earthly,’ for it is born by itself from all the creatures. But cf. Taitt. S. VI, 4, 5: ‘Thereby he puts out-breathing both into gods and men.’ ↩︎
-
253:4 While, in its force of ‘subsequent,’ avara here refers back to the first Svāhā, pronounced by the Adhvaryu (par. 19); it also has here the meaning of ’lower,’ and, developed out of this, that of ‘preceding’ (in which meaning it occurs in the R̥kprātiśākhya). Hence it is quite impossible adequately to render this play on the words avara, ‘subsequent, lower, preceding,’ and para, ‘higher, subsequent.’ ↩︎
-
254:1 That is, coming after Svāhā in the formula. ↩︎
-
254:2 The Kāṇva text reads: etasmin vā etan maṇḍale ’haushīd ya esha tapati; sarvam u vā esha grahaḥ; sarvasmād evaitad asmād enam uttaraṁ karoti ya esho ’smāt sarvasmād uttaro yad dhāvarāṁ devatāṁ kuryāt paraṁ svāhākāram anyad dhaitasmād uttaraṁ kuryāt. ↩︎
-
स्वांकृत इति हुत्वा पात्रमुन्मार्ष्टि । का० श्रौ० सू० ९ । ८७ । ↩︎ ↩︎
-
254:3 That is to say, he is to pass his hand, palm upwards, under the middle enclosing stick. ↩︎
-
व्वासउरोबाहुषु श्लिष्टम ँ शुमभिचरन् जुहुयाद्देवा ँ शाविति । का. श्रौ. सू. ९ । ८९ । ↩︎
-
प्राणाय त्वेति पात्रसादनम् । का. श्रौ. सू. ९ । ९१ । ↩︎
-
254:4 Such (R̥k verses) as are ordinarily recited by the Hotr̥: When the Upāṁśu cup is drawn, the Hotr̥ says, ‘Restrain the out-breathing (prāṇa)! Hail! thee, O well-calling one, to Sūrya!’ whereupon he breathes into (or towards) the cup with, ‘O out-breathing, restrain my out-breathing!’ After that he remains silent till the Antaryāma is drawn, when he addresses that graha with, ‘Restrain the in-breathing (apāna)! Hail! thee, O well-calling one, to Sūrya!’ whereupon he draws in his breath over the cup, and says, ‘O in-breathing, restrain my in-breathing!’ He then touches the pressing-stone with, ‘Thee to the through-breathing!’ and therewith frees his speech from restraint. Ait. Br. II, 21. On the terms out-breathing (prāṇa) and in-breathing (apāna, or up-breathing, udāna) see part i, p. 19, note 2; J. S. Speijer, Jātakarma, p. 64; Sāyaṇa on Taitt. S. I, 4, 3 (vol. i, p.603); Taitt. S. VI, 4: 6. Different Haug, Ait. Br. Transl. p. 118. ↩︎
-
255:1 ‘Na dhāvan nāpadhāvat pariśishyate;’ perhaps we ought to read ’nāpadhāvan;’ unless indeed ’tasya’ refers to Soma, as Sāyaṇa seems to take it. The Kāṇva text has: tathā ha teshāṁ nāpadhāvañs cana mucyate yebhyas tathā karoti. ↩︎
-
255:2 According to the Sūtras of the Black Yajus (cf. Sāyaṇa on Taitt. S. I, 4, 2, p. 598), the Upāṁśu cup is ‘deposited’ on the south-east and the Antaryāma cup on the north-east corner of the khara or mound; the Upāṁśu-savana stone being placed between them. Before depositing the vessel, the Adhvaryu pours some of the residue of Soma-juice from the Upāṁśu cup into the Āgrayaṇasthālī, and having put a large twig of Soma into it for the evening pressing (? the Adābhya graha, cf. Sāy. on Taitt. S. I, 603), he deposits it on the mound. ↩︎
-
तन्न᳘ दशा᳘भिर्न᳘ AB ↩︎