०१

विश्वास-प्रस्तुतिः

अ᳘थाधिषव᳘णे[[!!]] पर्यु᳘पविशन्ति॥
(न्त्य᳘) अ᳘थास्याᳫँ᳭हि᳘रण्यं बध्नीते द्वयं वा᳘ ऽइदं न᳘ तृती᳘यमस्ति सत्यं᳘ चैवा᳘नृतं च सत्य᳘मेव᳘ देवा अ᳘नृतं मनु᳘ष्या अग्निरेतसं वै हि᳘रण्यᳫँ᳭ सत्ये᳘नाᳫँ᳭ शू᳘नुपस्पृशा᳘नि सत्ये᳘न सो᳘मं प᳘राहणानी᳘ति त᳘स्माद्वा᳘ ऽअस्याᳫँ᳭ हि᳘रण्यं बध्नीते॥

मूलम् - श्रीधरादि

अ᳘थाधिषव᳘णे[[!!]] पर्यु᳘पविशन्ति॥
(न्त्य᳘) अ᳘थास्याᳫँ᳭हि᳘रण्यं बध्नीते द्वयं वा᳘ ऽइदं न᳘ तृती᳘यमस्ति सत्यं᳘ चैवा᳘नृतं च सत्य᳘मेव᳘ देवा अ᳘नृतं मनु᳘ष्या अग्निरेतसं वै हि᳘रण्यᳫँ᳭ सत्ये᳘नाᳫँ᳭ शू᳘नुपस्पृशा᳘नि सत्ये᳘न सो᳘मं प᳘राहणानी᳘ति त᳘स्माद्वा᳘ ऽअस्याᳫँ᳭ हि᳘रण्यं बध्नीते॥

मूलम् - Weber

अ᳘थाधिष᳘वणे पर्यु᳘पविशन्ति॥
अ᳘थास्याᳫं हि᳘रण्यम् बध्नीते द्वयं वा᳘ इदं न᳘ तृती᳘यमस्ति सत्यं᳘ चैवा᳘नृतं च सत्य᳘मेव᳘ देवा अ᳘नृतम् मनुॗष्या अग्निरेतसं वै हि᳘रण्यᳫं सत्ये᳘नांशू᳘नुपस्पृशा᳘नि सत्ये᳘न सो᳘मम् प᳘राहणानी᳘ति त᳘स्माद्वा अस्याᳫं हि᳘रण्यम् बध्नीते॥

मूलम् - विस्वरम्

अथ निग्राभ्याप्रयोगः ।

अथाधिषवणे पर्युपविशन्ति । अथास्यां हिरण्यं बध्नीते । द्वयं वा ऽइदं न तृतीयमस्ति- सत्यं चैवानृतं च । सत्यमेव देवाः, अनृतं मनुष्याः । अग्निरेतसं वै हिरण्यम् । सत्येनांशूनुपस्पृशानि, सत्येन सोमं पराहणानीति । तस्माद्वा ऽअस्यां हिरण्यं बध्नीते ॥ १ ॥

सायणः

इत्थमभिषवसाधनानामपां ग्रहणमभिधाय अथ सोमाभिषवप्रयोगं वक्तुमुपक्रमते- अथाधिषवणे पर्युपविशन्तीति (का. श्रौ. सू. ९ । ५६) । ‘अधि’ उपरि सूयेते इत्यधिषवणे दारुमये फलके, तयोरुपरि ते ‘उपविशन्ति’ । उपवेशनप्रकारः सूत्रे दर्शितः- “उत्तरतो ऽध्वर्युयजमानौ, पूर्वो ऽध्वर्युः, अपरेण परीत्येतरे त्रयः देवस्य त्वेत्यादिना (का. श्रौ. सू. ९ । ५७-५९) । ‘इतरे’ अध्वर्युपुरुषा इत्यर्थः । हिरण्यबन्धनं विधाय, तत् सत्यरूपत्वेन प्रशंसति- अथास्यां हिरण्यं बध्नीते द्वयं वा इदं न तृतीयमस्तीत्यादिना । ‘अस्याम्’ अनामिकांगुल्यामित्यर्थः । “द्वयं वा” इत्यादि । प्रागसकृद् व्याख्यातम् (श. प. ब्रा १ । १ । १ । ४) ६ । ३ । २३ कं.) अब्रेतस्त्वं हिरण्यस्येत्थं श्रूयते- “आपो वरुणस्य पत्नय आसन्, ता अग्निरभ्यध्यायत्, ताः समभवत्, तस्य रेतः परापतत्, तद्धिरण्यमभवत्” इति । (तै. सं. ५ । ५ । ४ । १) अध्वर्योर्मनुष्यत्वेनानृतरूपत्वात् सत्यभूतस्याग्निरेतसो हिरण्यस्यात्राभिषवसमये स्पर्शनेनानृतबाधात् ‘सत्येन’ ‘अंशून्’ सोमांशून् ‘उपस्पृशनि,’ ‘सत्येन’ ‘सोमम्’ ‘पराहणानि’ अभिषुणोमीत्यभिप्रायेण हिरण्यं बध्नीयात् ॥ १ ॥

Eggeling
  1. Thereupon they sit down round the two press-boards 1. He (the Adhvaryu) then ties a piece of gold to that (nameless finger). For twofold, verily, is this; there is no third, namely, the truth and the untruth; the gods, forsooth, are the truth, and men are the untruth. And the gold has sprung from Agni’s seed: ‘With the truth I will touch the stalks, with the truth I will take hold of Soma,’ thus he thinks, and therefore he ties a piece of gold to that (ring-finger).

०२

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ ग्रा᳘वणमा᳘दत्ते॥
ते वा᳘ ऽए᳘ते ऽश्मम᳘या ग्रा᳘वाणो भवन्ति देवो वै सो᳘मो दिवि हि सो᳘मो व्वृत्रो वै सो᳘म ऽआसीत्त᳘स्यैतच्छ᳘रीरं य᳘द्गिर᳘यो यद᳘श्मानस्तच्छ᳘रीरेणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्मादश्मम᳘या भवन्ति घ्न᳘न्ति वा᳘ ऽएनमेतद्य᳘दभिषुण्व᳘न्ति त᳘मेते᳘न घ्न᳘न्ति तथा᳘त ऽउ᳘देति त᳘था स᳘ञ्जीवति त᳘स्मादश्मम᳘या ग्रा᳘वाणो भवन्ति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ ग्रा᳘वणमा᳘दत्ते॥
ते वा᳘ ऽए᳘ते ऽश्मम᳘या ग्रा᳘वाणो भवन्ति देवो वै सो᳘मो दिवि हि सो᳘मो व्वृत्रो वै सो᳘म ऽआसीत्त᳘स्यैतच्छ᳘रीरं य᳘द्गिर᳘यो यद᳘श्मानस्तच्छ᳘रीरेणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्मादश्मम᳘या भवन्ति घ्न᳘न्ति वा᳘ ऽएनमेतद्य᳘दभिषुण्व᳘न्ति त᳘मेते᳘न घ्न᳘न्ति तथा᳘त ऽउ᳘देति त᳘था स᳘ञ्जीवति त᳘स्मादश्मम᳘या ग्रा᳘वाणो भवन्ति॥

मूलम् - Weber

अ᳘थ ग्रा᳘वाणमा᳘दत्ते॥
ते वा᳘ एॗते ऽश्मम᳘या ग्रा᳘वाणो भवन्ति देवो वै सो᳘मो दिवि हि सो᳘मो वृत्रो वै सो᳘म आसीत्त᳘स्यैतछ᳘रीरं य᳘द्गिर᳘यो यद᳘श्मानस्तछ᳘रीरेणैॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्मादश्मम᳘या भवन्ति घ्न᳘न्ति वा᳘ एनमेतद्य᳘दभिषुण्व᳘न्ति त᳘मेते᳘न घ्नन्ति तथा᳘त उ᳘देति त᳘था सं᳘जीवति त᳘स्मादश्मम᳘या ग्रा᳘वाणो भवन्ति॥

मूलम् - विस्वरम्

अथ ग्रावाणमादत्ते । ते वा ऽएते ऽश्ममया ग्रावाणो भवन्ति । देवो वै सोमः । दिवि हि सोमः । वृत्रो वै सोम आसीत् । तस्यैतच्छरीरम्- यद्गिरयः, यदश्मानः । तच्छरीरेणैवेनमेतत्समर्द्धयति- कृत्स्नं करोति । तस्मादश्ममया भवन्ति । घ्नन्ति वा ऽएनमेतद्; यदभिषुण्वन्ति । तमेतेन घ्नन्ति । तथा त उदेति, तथा सञ्जीवति । तस्मादश्ममया ग्रावाणो भवन्ति ॥ २ ॥

सायणः

अथेति । ‘अथ’ अंशुग्राहाभिषवार्थम् अध्वर्युः ‘ग्रावाणमादत्ते’ । अभिषवसाधनस्य ग्राव्णो ऽश्ममयत्वं विधाय प्रशंसति- ते वा एत इति । सोमस्य देवत्वसमर्थनाय दिवि हीति । ‘हि’- शब्दः “तृतीयस्यामितो दिवि सोम आसीत्” (तै. सं. ३ । ५ । ७ । १) इत्यादिश्रुत्यन्तरप्रसिद्ध्यर्थः । तस्य द्युस्थस्य सोमस्य वृत्रत्त्वप्रकारः प्राग्वर्णितः (श. प. ३ । ६ । ३ । १३) । तस्य वृत्रीभूतस्य सोमस्य ‘शरीरं’ परिदृश्यमानाः ‘गिरयः’ तदवयवाः ‘अश्मानः’ । अतः ‘एतत्’ एतेन ग्राव्णामश्ममयत्वकरणेन ‘एनं’ सोमं समृद्धं कृतवान् भवति । न हि स्वशरीरं स्वस्य बाधकं भवति, अतस्तेनाभिषवेणापि समृद्धिरेवेत्यर्थः । किञ्चापरावयविनौ विश्लिष्टाविदानीं सोमाभिषवव्याजेन सम्बन्धयन् सोमं ‘कृत्स्नं’ सकलं कृतवान् भवति । किञ्चाभिषवो नामास्य वधः, तं कुर्वन्तो ऽप्येते अश्ममया ग्रावाणः तदवयवत्वात् ‘न घ्नन्ति’ न हिंसन्ति । ‘अतः’ ‘अस्मात्’ अभिषवस्थानात् सोमः ‘उदेति’ पुनरुदितो भवति । तथैव ‘सञ्जीवति’ च पुनः सम्यग्जीवोपेतो भवति । तस्मादिति पुनरुपसंहारः ॥ २ ॥

Eggeling
  1. He then takes a press-stone 2. Now those

press-stones are of rock, and Soma is a god–for Soma was in the sky, Soma was Vr̥tra; those mountains, those rocks are his body–he thus perfects him by means of his body, makes him whole; therefore they are of rock. Moreover, in pressing him they slay him, they slay him by means of that (stone, Soma’s own body); thus he rises from thence, thus he lives; therefore the press-stones are of rock.

०३

विश्वास-प्रस्तुतिः

तमा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामा᳘ददे रा᳘वासी᳘ति सविता वै᳘ देवा᳘नां प्रसविता त᳘त्सवितृ᳘प्रसूत ए᳘वैनमेतदा᳘दत्ते ऽश्वि᳘नोर्बाहु᳘भ्यामि᳘त्यश्वि᳘नावध्वर्यू तत्त᳘योरेव᳘ बाहु᳘भ्यामादत्ते[[!!]] न स्वा᳘भ्यां पूष्णो ह᳘स्ताभ्यामि᳘ति पूषा᳘ भागदुघस्तत्तस्यैव[[!!]] ह᳘स्ताभ्यामादत्ते[[!!]] न स्वा᳘भ्यां व्व᳘ज्रो वा᳘ ऽएष त᳘स्य न᳘ मनु᳘ष्यो भर्त्ता तमेता᳘भिर्द्देव᳘ताभिरादत्ते[[!!]]॥

मूलम् - श्रीधरादि

तमा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामा᳘ददे रा᳘वासी᳘ति सविता वै᳘ देवा᳘नां प्रसविता त᳘त्सवितृ᳘प्रसूत ए᳘वैनमेतदा᳘दत्ते ऽश्वि᳘नोर्बाहु᳘भ्यामि᳘त्यश्वि᳘नावध्वर्यू तत्त᳘योरेव᳘ बाहु᳘भ्यामादत्ते[[!!]] न स्वा᳘भ्यां पूष्णो ह᳘स्ताभ्यामि᳘ति पूषा᳘ भागदुघस्तत्तस्यैव[[!!]] ह᳘स्ताभ्यामादत्ते[[!!]] न स्वा᳘भ्यां व्व᳘ज्रो वा᳘ ऽएष त᳘स्य न᳘ मनु᳘ष्यो भर्त्ता तमेता᳘भिर्द्देव᳘ताभिरादत्ते[[!!]]॥

मूलम् - Weber

तमा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्यामा᳘ददे रा᳘वासी᳘ति सविता वै᳘ देवा᳘नाम् प्रसविता त᳘त्सवितृ᳘प्रसूत एॗवैनमेतदा᳘दत्ते ऽश्वि᳘नोर्बाहु᳘भ्यामि᳘त्यश्वि᳘नावध्वर्यू तत्त᳘योरेव᳘ बाहु᳘भ्यामा᳘दत्ते न स्वा᳘भ्याम् पूष्णो ह᳘स्ताभ्यामि᳘ति पूषा᳘ भागदुघस्तत्त᳘स्यैव ह᳘स्ताभ्यामा᳘दत्ते न स्वा᳘भ्यां व᳘ज्रो वा᳘ एष त᳘स्य न᳘ मनुॗष्यो भर्ता त᳘मेता᳘भिर्देव᳘ताभिरा᳘दत्ते॥

मूलम् - विस्वरम्

तमादत्ते- “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे रावासि” - (वा. सं. ६ । ३०) इति । सविता वै देवानां प्रसविता । तत् सवितृप्रसूत एवैनमेतदादत्ते- अश्विनोर्बाहुभ्यामिति- अश्विनावध्यर्यू । तत् तयोरेव बाहुभ्यामादत्ते- न स्वाभ्याम् । पूष्णो हस्ताभ्यामिति । पूषा भागदुघः तत् तस्यैव हस्ताभ्यामादत्ते न स्वाभ्याम् । वज्रो वा ऽएष तस्य न मनुष्यो भर्ता तमेताभिर्द्देवताभिरादत्ते ॥ ३ ॥

सायणः

अथ तत्र मन्त्रं विधाय व्याचष्टे- तमादत्ते देवस्य त्वेत्यादिना । गतमेवैतत् । पूषा भागदुघ इति । “दुहेः कब्घश्च”- (पा. सू. ३ । २ । ७०) इति कप्, घकारश्च । किं कारणं सवित्राद्यभिधानम् ? उच्यते- वज्रो वा एष इति । ‘एषः’ ग्रावाप्रक्षेपसाधनत्वसाम्यात् सारवत्त्वाच्च ‘वज्रः’ ‘अतः’ ‘तस्य’ अस्य देवः ‘भर्ता’ स्वामी ‘न मनुष्यः’; यत एवमतः ‘तं’ ग्रावाणन् ‘एताभिः’ सवित्रादिभिः ‘देवताभिः’ ‘आदत्ते’ अध्वर्युः 3 ॥ ३ ॥

Eggeling
  1. He takes it with (Vāj. S. VI, 30), ‘At the impulse of the divine Savitr̥ I take thee with the arms of the Aśvins, with the hands of Pūshan; thou art a giver!’ For Savitr̥ is the impeller of the gods; thus he takes it, impelled by Savitr̥. ‘With the arms of the Aśvins,’ he says,–the Aśvins are the Adhvaryus (of the gods): with their arms he thus takes it, not with his own. ‘With the hands of Pūshan,’ he says,–Pūshan is the distributor of portions: with his hands he thus takes it, not with his own. Moreover, that (stone) is a thunderbolt, and no man can hold it: by means of those deities he takes it.

०४

विश्वास-प्रस्तुतिः

(त्त ऽ) आ᳘ददे रा᳘वासी᳘ति॥
यदा वा᳘ ऽएनमेते᳘नाभिषुण्वन्त्यथा᳘हुतिर्भवति यदा᳘हुतिं जुहोत्य᳘थ द᳘क्षिणा ददात्येत᳘द्ध्येष᳘ द्वयᳫं᳭ रा᳘सत ऽआ᳘हुतीश्च द᳘क्षिणाश्च त᳘स्मादाह रा᳘वासी᳘ति॥

मूलम् - श्रीधरादि

(त्त ऽ) आ᳘ददे रा᳘वासी᳘ति॥
यदा वा᳘ ऽएनमेते᳘नाभिषुण्वन्त्यथा᳘हुतिर्भवति यदा᳘हुतिं जुहोत्य᳘थ द᳘क्षिणा ददात्येत᳘द्ध्येष᳘ द्वयᳫं᳭ रा᳘सत ऽआ᳘हुतीश्च द᳘क्षिणाश्च त᳘स्मादाह रा᳘वासी᳘ति॥

मूलम् - Weber

आ᳘ददे रा᳘वासी᳘ति॥
यदा वा᳘ एनमेते᳘नाभिषुण्वन्त्यथा᳘हुतिर्भवति यदा᳘हुतिं जुहोत्य᳘थ द᳘क्षिणा ददात्येतॗद्ध्येष᳘ द्वयं रा᳘सत आ᳘हुतीश्च द᳘क्षिणाश्च त᳘स्मादाह रा᳘वासी᳘ति॥

मूलम् - विस्वरम्

आददे रावासीति । यदा वा ऽएनमेतेनाभिषुण्वन्ति- अथाहुतिर्भवति । यदाहुतिं जुहोति- अथ दक्षिणा ददाति । एतद्ध्येष द्वयं रासते- आहुतीश्च दक्षिणाश्च । तस्मादाह- रावासीति ॥ ४ ॥

सायणः

आददे रावासीति । मन्त्रभागे ग्रावाणं सम्बोध्य त्वं रावासीति मन्त्रो ऽभिधत्ते, तस्य तथात्वं कुत इत्याशङ्क्य परम्परया भविष्यतीत्युपपादयति- यदा वा एनमेतेनाभिषुण्वन्तीत्यादिना । अभिषवाभावे आहुत्यसम्भवात्, आहुत्यभावे दक्षिणानामप्रसक्तेः ‘आहुतीश्च दक्षिणाश्च’ इति ‘एतद्’ द्वयम् ‘एषः’ ग्रावा ‘रासते’ ददाति । अतो ‘रासत इति रावेति; रासतेर्दानार्थात्’ (निघं० ३ । २२ । ५) रावशब्दो निष्पन्न इत्यभिप्रायेण मन्त्रो ‘रावासीति आह’ इत्यर्थः ॥ ४ ॥

Eggeling
  1. ‘I take thee: thou art a giver,’ he says; for when they press him by means of that (stone), then there is an oblation; and when he offers an oblation, then he gives sacrificial gifts,–thus, then, that (stone) gives twofold, oblations and sacrificial gifts; wherefore he says, ‘Thou art a giver.’

०५

विश्वास-प्रस्तुतिः

गभीर᳘मिम᳘मध्वरं᳘ कृधी᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञो᳘ महा᳘न्तमिमं᳘ यज्ञं᳘ कृधी᳘त्ये᳘वैत᳘दाहे᳘न्द्राय सुषू᳘तममिती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राये᳘ति मुषू᳘तममि᳘ति सु᳘सुतममि᳘त्यै᳘वैत᳘दाहोत्तमे᳘न पविने᳘त्येष वा᳘ ऽउत्तमः᳘ पविर्यत्सो᳘मस्त᳘स्मादाहोत्तमे᳘न पविनेत्यू᳘र्ज्जस्वन्तं म᳘धुमन्तं प᳘यस्वन्तमि᳘ति र᳘सवन्तमि᳘त्ये᳘वैत᳘दाह यदाहो᳘र्ज्जस्वन्तं म᳘धुमन्तं प᳘यस्वन्तमिति॥

मूलम् - श्रीधरादि

गभीर᳘मिम᳘मध्वरं᳘ कृधी᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञो᳘ महा᳘न्तमिमं᳘ यज्ञं᳘ कृधी᳘त्ये᳘वैत᳘दाहे᳘न्द्राय सुषू᳘तममिती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राये᳘ति मुषू᳘तममि᳘ति सु᳘सुतममि᳘त्यै᳘वैत᳘दाहोत्तमे᳘न पविने᳘त्येष वा᳘ ऽउत्तमः᳘ पविर्यत्सो᳘मस्त᳘स्मादाहोत्तमे᳘न पविनेत्यू᳘र्ज्जस्वन्तं म᳘धुमन्तं प᳘यस्वन्तमि᳘ति र᳘सवन्तमि᳘त्ये᳘वैत᳘दाह यदाहो᳘र्ज्जस्वन्तं म᳘धुमन्तं प᳘यस्वन्तमिति॥

मूलम् - Weber

गभीर᳘मिम᳘मध्वरं᳘ कृधी᳘ति॥
अध्वरो वै᳘ यज्ञो᳘ महा᳘न्तमिमं᳘ यज्ञं᳘ कृधी᳘त्येॗवैतदाहे᳘न्द्राय सुषू᳘तममिती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राये᳘ति सुषू᳘तममि᳘ति सु᳘सुतममि᳘त्येॗवैत᳘दाहोत्तमे᳘न पविने᳘त्येष वा᳘ उत्तमः᳘ पविर्यत्सो᳘मस्त᳘स्मादाहोत्तमे᳘न पविनेत्यू᳘र्जस्वन्तम् म᳘धुमन्तम् प᳘यस्वन्तमि᳘ति र᳘सवन्तमि᳘त्येॗवैत᳘दाह यदाहो᳘र्जस्वन्तम् म᳘धुमन्तम् प᳘यस्वन्तमिति॥

मूलम् - विस्वरम्

“गभीरमिममध्वरं कृधि”- (वा. सं. ६ । ३०) इति । अध्वरो वै यज्ञः । महान्तमिमं यज्ञं कृधीत्येवैतदाह । “इन्द्राय सुषूतमम्”- (वा. सं. ६ । ३०) इति । इन्द्रो वै यज्ञस्य देवता । तस्मादाह- इन्द्रायेति । सुषूतममिति । सुसुतमममित्येवैतदाह । “उत्तमेन पविना"- (वा. सं. ६ । ३०) इति एष वा ऽउत्तमः पविः- यत्सोमः । तस्मादाह उत्तमेन पविनेति । “ऊर्ज्जस्वन्तं मधुमन्तं पयस्वन्तम्”- (वा. सं. ६ । ३०) इति । रसवन्तमित्येवैतदाह- यदाह ऊर्ज्जस्वन्तं मधुमन्तं पयस्वन्तमिति ॥ ५ ॥

सायणः

गभीरमिममध्वरमिति मन्त्रं व्याचष्टे- यो ऽयम् ‘अध्वरः’ सः ‘यज्ञः’ ‘वै’ एव, उभौ शब्दौ पर्यायावित्यर्थः । यदतिगुम्फितत्वेन महत्, तद् ‘गभीरम्’ इति लोके व्यवह्रियते । अतो गभीरे महत्वदर्शनात् ‘इमम् अध्वरं महान्तं कृधि’ ‘इत्याह’ मन्त्रः । सुषूतममित्यत्र सुसुतममिति वक्तव्ये सकारलोपो दीर्घश्च छान्दस इत्यभिप्रायेण व्याचष्टे- सुषूतममिति सुसुततममित्येवैतदाहेति । पविशब्दस्य वज्रादौ प्रसिद्धत्वादत्र सोमार्थ इति व्याचष्टे- एष वा उत्तमः पविः, यत् सोम इति । पवतिर्गतिकर्मा (निघ. २ । १४ । १०८) पवति, दशापवित्रे स्रवतीति पविः सोमः । अथ वा पविवद्बलरूपत्वात् पविः सोमः । सोम ‘इति’ यदस्ति, ‘एषः’ सोमः ‘उत्तमः’ ‘पविः’ खलु, सोमपानेन प्रबलस्येन्द्रस्य वृत्रादिवधश्रवणादत्र मधुररसानां वाचका ये ऊर्ज-मधु-पयः-शब्दाः, तेषां तात्पर्यतो रस एवार्थ इति व्याचष्टे- ऊर्जस्वन्तं पयस्वन्तमित्यादिना । अत्रोर्जमधुपयसां रसविशेषरूपत्वात् सामान्यविशेषरूपादिति भावः । नैते माधुर्यार्थतया प्रसिद्धाः, अतः कथं त एवं सङ्गच्छन्त इत्यस्या आशङ्काया अपनोदनाय, पुनर्निर्द्देशः कृतः- यदाहोर्जस्वन्तं मधुमन्तं पयस्वन्तमितीति । मन्त्रस्यायमर्थः- हे ग्रावन् ! त्वं ‘रावासि’, अतस्त्वां ‘सवितुः देवस्य’ अनुज्ञायां सत्याम् ‘अश्विनोर्बाहुभ्यां’ ‘पूष्णो हस्ताभ्याम्’ च ‘आददे’ । उक्तो बाहुहस्तविभागः । ‘इदम्’ ‘अध्वरं’ यज्ञं ‘गभीरं’ महान्तं ‘कृधि’ कुरु । ‘इन्द्राय’ इन्द्रार्थं ‘सुषूतमं’ सुष्ठ्वभिषुतं कुरु । ‘उत्तमेन पविना’ सोमेन युक्तं चेममध्वरम् ऊर्जादेराश्रयभूतरसोपेतं कुर्विति ॥ ५ ॥

Eggeling
  1. ‘Perform thou this deep cult!’ Cult means sacrifice; he thereby means to say, ‘Perform thou this great sacrifice!’–‘well-gotten for Indra;’ by ‘well-gotten’ he means to say, ‘well-produced;’ and Indra is the deity of the sacrifice, wherefore he says, ‘for Indra;’–‘by the most excellent bolt,’

for he, Soma, is indeed the most excellent bolt 4, therefore he says, ‘by the most excellent bolt;’–’the (cult) rich in food and sweetness and drink,’ whereby he means to say, ’the (cult) rich in sap.’

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वा᳘चं यच्छति॥
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वाना᳘स्ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्विभया᳘ञ्चक्रुस्ते᳘ होचुरुपाᳫं᳭शु᳘ यजाम व्वा᳘चं यच्छामे᳘ति त᳘ ऽउपा᳘ᳫं᳘श्वयजन्वा᳘चमयच्छन्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वा᳘चं यच्छति॥
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वाना᳘स्ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्विभया᳘ञ्चक्रुस्ते᳘ होचुरुपाᳫं᳭शु᳘ यजाम व्वा᳘चं यच्छामे᳘ति त᳘ ऽउपा᳘ᳫं᳘श्वयजन्वा᳘चमयच्छन्[[!!]]॥

मूलम् - Weber

अ᳘थ वा᳘चं यछति॥
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाॗस्ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘ चक्रुस्ते᳘ होचुरुपांशु᳘ यजाम वा᳘चं यछामे᳘ति त᳘ उपांश्व᳘यजन्वा᳘चमयछन्॥

मूलम् - विस्वरम्

अथ वाचं यच्छति । देवा ह वै यज्ञं तन्वानाः । ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयाञ्चक्रुः । ते होचुः- उपांशु यजाम, वाचं यच्छामेति । त ऽउपांश्वयजन्, वाचमयच्छन् ॥ ६ ॥

सायणः

अथ वाचं यच्छतीति । वाग्यमनार्थवादो देवा ह वा इत्यादिः, प्राग्व्याख्यातः । वाग्यमनस्यावधिः सूत्रे दर्शितः- “देवस्य त्वेत्यद्रिमादाय, वाचं यच्छति प्राग्विङ्कारात्”- (का . श्रौ. सू. ९ । ५९) इति ॥ ६ ॥

Eggeling
  1. Thereupon he restrains-speech. For once on a time, the gods, while performing sacrifice, were afraid of an attack from the Asura-Rakshas. They said, ‘Let us sacrifice in a low voice, let us restrain speech!’ They sacrificed (with formulas muttered) in a low voice and restrained speech.

०७

विश्वास-प्रस्तुतिः

(न्न᳘) अ᳘थ निग्रा᳘भ्या आ᳘हरति॥
ता᳘स्वेनं व्वाचयति निग्रा᳘भ्या स्थ देवश्रु᳘तस्तर्प᳘यत मा म᳘नो मे तर्पयत व्वा᳘चं मे तर्पयत प्राणं᳘ मे तर्पयत च᳘क्षुर्मे तर्पयत श्रो᳘त्रं मे तर्पयतात्मा᳘नं मे तर्पयत प्रजां᳘ मे तर्पयत पशू᳘न्मे तर्पयत गणा᳘न्मे तर्पयत गणा᳘ मे मा व्वि᳘तृषन्नि᳘ति र᳘सो वा ऽआ᳘पस्ता᳘स्वे᳘वैता᳘माशि᳘षमा᳘शास्ते स᳘र्वं च म ऽआत्मा᳘नं तर्प᳘यत प्रजां᳘मे तर्पयत पशू᳘न्मे तर्पयत गणा᳘न्मे तर्पयत गणा᳘ मे मा व्वि᳘तृषन्नि᳘ति स य᳘ एष᳘ उपाᳫंशुस᳘वनः स व्वि᳘वस्वानादित्यो᳘ निदा᳘नेन᳘ सो ऽस्यैष᳘ व्यानः[[!!]]॥

मूलम् - श्रीधरादि

(न्न᳘) अ᳘थ निग्रा᳘भ्या आ᳘हरति॥
ता᳘स्वेनं व्वाचयति निग्रा᳘भ्या स्थ देवश्रु᳘तस्तर्प᳘यत मा म᳘नो मे तर्पयत व्वा᳘चं मे तर्पयत प्राणं᳘ मे तर्पयत च᳘क्षुर्मे तर्पयत श्रो᳘त्रं मे तर्पयतात्मा᳘नं मे तर्पयत प्रजां᳘ मे तर्पयत पशू᳘न्मे तर्पयत गणा᳘न्मे तर्पयत गणा᳘ मे मा व्वि᳘तृषन्नि᳘ति र᳘सो वा ऽआ᳘पस्ता᳘स्वे᳘वैता᳘माशि᳘षमा᳘शास्ते स᳘र्वं च म ऽआत्मा᳘नं तर्प᳘यत प्रजां᳘मे तर्पयत पशू᳘न्मे तर्पयत गणा᳘न्मे तर्पयत गणा᳘ मे मा व्वि᳘तृषन्नि᳘ति स य᳘ एष᳘ उपाᳫंशुस᳘वनः स व्वि᳘वस्वानादित्यो᳘ निदा᳘नेन᳘ सो ऽस्यैष᳘ व्यानः[[!!]]॥

मूलम् - Weber

अ᳘थ निग्राॗभ्या आ᳘हरति॥
ता᳘स्वेनं वाचयति निग्राॗभ्या स्थ देवश्रु᳘तस्तर्प᳘यत मा म᳘नो मे तर्पयत वा᳘चम् मे तर्पयत प्राण᳘म् मे तर्पयत च᳘क्षुर्मे तर्पयत श्रो᳘त्रम् मे तर्पयतात्मा᳘नम् मे तर्पयत प्रजा᳘म् मे तर्पयत पशू᳘न्मे तर्पयत गणा᳘न्मे तर्पयत गणा᳘ मे मा वि᳘तृषन्नि᳘ति र᳘सो वा आ᳘पस्ता᳘स्वेॗवैता᳘माशि᳘षमा᳘शास्ते स᳘र्वं च म आत्मा᳘नं तर्प᳘यत प्रजा᳘म् मे तर्पयत पशू᳘न्मे तर्पयत गणा᳘न्मे तर्पयत गणा᳘ मे मा वि᳘तृषन्नि᳘ति स य᳘ एष᳘ उपांशुस᳘वनः स वि᳘वस्वानादित्यो᳘ निदा᳘नेनॗ सो ऽस्यैष᳘ व्यानः᳟॥

मूलम् - विस्वरम्

अथ निग्राभ्या आहरति । तास्वेनं वाचयति- “निग्राम्यास्थ देवश्रुतस्तर्पयत, मा मनो मे (६ । ३० ।) तर्पयत, वाचं मे तर्पयत, प्राणं मे तर्पयत, चक्षुर्मे तर्पयत, श्रोत्रं मे तर्पयत, आत्मानं मे तर्पयत, प्रजां मे तर्पयत पशून्मे तर्पयत, गणान्मे तर्पयत, गणा मे मावितृषन्”- (वा. सं. ६ । ३१) इति । रसो वा ऽआपः । तास्वेवैतामाशिषमाशास्ते । सर्वञ्च म ऽआत्मानं तर्पयत, प्रजां तर्पयत, पशून्मे तर्पयत, गणान्मे तर्पयत, गणा मे मा वितृषन्निति । स य एष उपांशुसवनः- स विवस्वानादित्यो निदानेन । सो ऽस्यैष व्यानः ॥ ७ ॥

सायणः

यदुक्तं सूत्रकृता- “निग्राभ्या सुवाचयति उरस्येना निगृह्य निग्राभ्याः स्थेति” (का. श्रौ. सू. ९ । ६१) तदिदमाह- अथ निग्राभ्या आहरति, तास्वेनं वाचयति निग्राभ्याः स्थ देवश्रुत इत्यादिना । ‘तासु’ आगतासु ‘एनं’ यजमानं ‘निग्राभ्याः स्थ’ इत्यादि-मन्त्रं ‘वाचयति’ अध्वर्युः । हे आपः ! ‘देवश्रुतः’ देवेषु प्रसिद्धाः सत्यो यूयं ‘निग्राभ्याः स्थ’ इन्द्रेणोरसि गृहीतत्वात् । वक्ष्यति हि- “तद्यदेना उरसि न्यगृह्णीत, तस्मान्निग्राभ्या नाम”- इति । तादृश्यो यूयं ‘मा’ मां ‘तर्पयत’ प्रीणयत ॥

सगृह्योक्तमवयवशो ऽभिधत्ते- मनो म इत्यादिना । ‘आत्मानं’ शरीरम् । ‘प्रजां’ पुत्रादिकाम् । ‘गणान्’ बन्धुभृत्यादीन् । युष्माभिस्तर्पिता अस्मदीयाः ‘गणाः’ ‘मा वितृषन्’ विवृद्धतृष्णा मा भूवन् । आपः स्वल्पमेव तर्पणसाधनं द्रव्यम्, तर्पयितव्यास्तु बहवः, अतस्तासां तादृशी शक्तिः कुत इत्याशङ्कायामाह- रसो वा आपस्तास्वेवैतामाशिषमाशास्त इति । अपां ‘रसरूपत्वात् तास्वप्स्वेवैतां तृप्तिरूपामाशिषमाशास्ते; अतः सारवतामाशासनं युक्तम् । मन आदिकं सर्वमपि सङ्गृह्यानुवदति- सर्वं च म इति आत्मानमित्यादिर्विविच्यानुवादः ॥

“उपांशुसवने सोमं मिमीत इन्द्राप त्वा वसुमत” इत्यादिसूत्रोक्तमर्थं दर्शयति- य एष उपांशुसवनः, स विवस्वानादित्यो निदानेन सो ऽस्यैष व्यान इति । उपांशुग्रहार्थः सोमो ऽभिषूयते येन, स ‘उपांशुसवनः’ पाषाणः ‘सः’ ‘निदानेन’ मूलकारणविचारेण विवस्वत्सञ्ज्ञक आदित्य एव । तस्यैवैतदात्मनावस्थानात् । ‘स एषः’ ‘अस्य’ यज्ञस्य ‘व्यानः’; प्राणापानरूपयोरुपांश्वन्तर्यामयोर्मध्ये स्थाप्यत्वात् । “अथ यः प्राणापानयोः सन्धिः स व्यानः”- (छां. ब्रा. ५ । ३ । ३) इति श्रुतेरस्य व्यानत्वम् । उपांशुसवन इति वैदिकी संज्ञा व्यवहारार्था, तदुपांशुसवनेन मिश्रयतीत्येवमर्था ॥ ७ ॥

Eggeling
  1. He then fetches the Nigrābhyās (waters), and makes him (the sacrificer) mutter over them 5, ‘Ye are the Nigrābhyās, heard by the gods; satisfy me, satisfy my mind, satisfy my speech, satisfy my breath, satisfy mine eye, satisfy mine ear, satisfy my soul, satisfy mine offspring, satisfy my flocks, satisfy my followers, let not my followers thirst!’ For water is sap, and over it he invokes this blessing, ‘Satisfy ye my whole self, satisfy my offspring, satisfy my followers, let not my followers thirst!’ Now that Upāṁśusavana (stone), forsooth, is in reality Āditya Vivasvant (the sun), it is the pervading vital air (vyāna) of this (sacrifice).

०८

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘मभि᳘मिमीते॥
घ्न᳘न्ति वा᳘ ऽएनमेतद्य᳘दभिषुण्व᳘न्ति त᳘मेते᳘न घ्नन्ति तथा᳘त उ᳘देति त᳘था स᳘ञ्जीवति य᳘द्वेव मिमी᳘ते[[!!]] त᳘स्मान्मा᳘त्रा मनु᳘ष्येषु मा᳘त्रो᳘ यो चा᳘प्यन्या मा᳘त्रा॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘मभि᳘मिमीते॥
घ्न᳘न्ति वा᳘ ऽएनमेतद्य᳘दभिषुण्व᳘न्ति त᳘मेते᳘न घ्नन्ति तथा᳘त उ᳘देति त᳘था स᳘ञ्जीवति य᳘द्वेव मिमी᳘ते[[!!]] त᳘स्मान्मा᳘त्रा मनु᳘ष्येषु मा᳘त्रो᳘ 6 यो चा᳘प्यन्या मा᳘त्रा॥

मूलम् - Weber

त᳘मभि᳘मिमीते॥
घ्न᳘न्ति वा᳘ एनमेतद्य᳘दभिषुण्व᳘न्ति त᳘मेते᳘न घ्नन्ति तथा᳘त उ᳘देति त᳘था सं᳘जीवति य᳘द्वेव मि᳘मीते त᳘स्मान्मा᳘त्रा मनुॗष्येषु मा᳘त्रोॗ यो चा᳘प्यन्या मा᳘त्रा॥

मूलम् - विस्वरम्

तमभिमिमीते । घ्नन्ति वा ऽएनमेतद्- यदभिषुण्वति । तमेतेन घ्नन्ति । तथा त उदेति, तथा सञ्जीवति । यद्वेव मिमीते- तस्मान्मात्रा- मनुष्येषु । मात्रो यो चाप्यन्या मात्रा ॥ ८ ॥

सायणः

तमभिमिमीत इति । ‘तम्’ उपांशुसवनम् ‘अभि’ तस्योपरि सोमं ‘मिमीते’ क्रयकालीनमानेन सोमं संस्कुर्यात् । “घ्नन्ति वा” इत्यादिरूपोपांशुसवनरूपोपरिमानार्थवादवद् व्याख्यायमानस्य ग्रावोपरिभावं प्रशस्येदानीं मानं प्रशंसति- यद्वेव मिमीते तस्मान्मात्रा मनुष्येष्विति । ‘उ’ शब्दो ऽप्यर्थः । या ऽपि मात्रा सोमे कृता, ‘तस्मात्’ सोमस्य मितत्वात् ‘मनुष्येषु’ व्यवहारार्थं प्रस्थ-कुडवाढकद्रोणादिका ‘मात्रा’ सम्पन्ना । “यो चापि”- इत्यत्र उकारः प्रश्लेषः । ‘अपि च’ ‘या उ’ च ‘अन्या मात्रा’ एकद्वित्र्यादिसङ्ख्याप्रयुक्ता, सापि सोममानप्रयुक्तेत्यर्थः ॥ ८ ॥

Eggeling
  1. Thereon he metes out (the Soma). For in pressing him they slay him, they slay him by means of that (stone); thus 7 he rises from hence, thus he

lives. And because he metes him out, therefore there is a measure,–both the measure among men 8, and what other measure there is.

०९

विश्वास-प्रस्तुतिः

स᳘ मिमीते॥
(त ऽ) इ᳘न्द्राय त्वा व्व᳘सुमते रुद्र᳘वत ऽइती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राय त्वे᳘ति व्व᳘सुमते रुद्र᳘वत इ᳘ति तदि᳘न्द्रमेवा᳘नु व᳘सूंश्च रुद्रांश्चा᳘भजती᳘न्द्राय त्वादित्य᳘वत ऽइ᳘ति तदि᳘न्द्रमेवा᳘न्वादित्याना᳘भजती᳘न्द्राय त्वाभिमातिघ्न ऽइति[[!!]] सपत्नो [[!!]] वा᳘ ऽअभि᳘मातिरि᳘न्द्राय त्वा सपत्नघ्न ऽइ᳘त्ये᳘वैत᳘दाह᳘ सो ऽस्योद्धारो य᳘था श्रे᳘ष्ठन्योद्धार᳘ एव᳘मस्यैष᳘ ऽऋते᳘ देवे᳘भ्यः॥

मूलम् - श्रीधरादि

स᳘ मिमीते॥
(त ऽ) इ᳘न्द्राय त्वा व्व᳘सुमते रुद्र᳘वत ऽइती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राय त्वे᳘ति व्व᳘सुमते रुद्र᳘वत इ᳘ति तदि᳘न्द्रमेवा᳘नु व᳘सूंश्च रुद्रांश्चा᳘भजती᳘न्द्राय त्वादित्य᳘वत ऽइ᳘ति तदि᳘न्द्रमेवा᳘न्वादित्याना᳘भजती᳘न्द्राय त्वाभिमातिघ्न ऽइति[[!!]] सपत्नो [[!!]] वा᳘ ऽअभि᳘मातिरि᳘न्द्राय त्वा सपत्नघ्न ऽइ᳘त्ये᳘वैत᳘दाह᳘ सो ऽस्योद्धारो य᳘था श्रे᳘ष्ठन्योद्धार᳘ एव᳘मस्यैष᳘ ऽऋते᳘ देवे᳘भ्यः॥

मूलम् - Weber

स᳘ मिमीते॥
इ᳘न्द्राय त्वा व᳘सुमते रुद्र᳘वत इती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राय त्वे᳘ति व᳘सुमते रुद्र᳘वत इ᳘ति तदि᳘न्द्रमेवा᳘नु व᳘सूंश्च रुद्रांश्चा᳘भजती᳘न्द्राय त्वादित्य᳘वत इ᳘ति तदि᳘न्द्रमेवा᳘न्वादित्याना᳘भजती᳘न्द्राय त्वाभिमातिघ्न इ᳘ति सप᳘त्नो वा अभि᳘मातिरि᳘न्द्राय त्वा सपत्नघ्न इ᳘त्येॗवैत᳘दाहॗ सो ऽस्योद्धारो य᳘था श्रे᳘ष्ठन्योद्धार᳘ एव᳘मस्यैष᳘ ऋते᳘ देवे᳘भ्यः॥

मूलम् - विस्वरम्

स मिमीते- “इन्द्राय त्वा वसुमते रुद्रवते”- (वा. सं. ६ । ३२) इति । इन्द्रो वै यज्ञस्य देवता । तस्मादाह- इन्द्रायत्वेति, वसुमते रुद्रवत इति । तदिन्द्रमेवानु वसूंश्च रुद्रांश्चाभजति । “इन्द्राय त्वादित्यवते”- (वा. सं. ६ । ३२) इति । तदिन्द्रमेवान्वादित्यानाभजति । “इन्द्राय त्वाभिमातिघ्न”- (वा. सं. ६ । ३२) इति । सपत्नो वा ऽअभिमाति । इन्द्राय त्वा सपत्नघ्न ऽइत्येवैतदाह । सो ऽस्योद्धारो- यथा श्रेष्ठस्योद्धारः- एवमस्यैष- ऋते देवेभ्यः ॥ ९ ॥

सायणः

सोमोन्माने मन्त्रं विधाय व्याचष्टे- स मिमीत इन्द्राय त्वा वसुमत इत्यादिना । इन्द्रस्य विशेष्यतया निर्द्देशस्य वसुरुद्राणां तद्विशेषणतया निर्द्देशस्य च प्रयोजनमाह- इन्द्रो वै यज्ञस्य देवतेत्यादिना । ‘यज्ञस्य’ सोमयागस्य ‘इन्द्रो देवता’; “प्रातःसुतमपिबो हर्यश्वमाध्यन्दिनं सवनं केवलं ते । समृभुभिः पिबस्व रत्नधेभिः"- (ऋ. सं. ४ । ३२ । ७) इत्यादिमन्त्रलिङ्गात्सवनत्रये ऽपि इन्द्रस्य प्राधान्यात् “इन्द्रो वै यज्ञस्य देवता”- इत्युक्तम् । ‘वसुमते रुद्रवते’ इत्यादौ वस्वादेरिन्द्रशेषत्वप्रतीतेः इन्द्रप्रधानभूतं मुख्यं भागिनं कृत्वा वस्वादीनपि ‘अन्वाभजति’ पश्चाद्भागिनः करोति, इन्द्रस्यानुचरान् कृतवान् भवतीति यावत् । “इन्द्राय त्वाभिमातिघ्ने”-इत्यत्राभिमातिशब्दः सपत्नमभिधत्त इत्याह- सपत्नो वा अभिमातिरिति । “इन्द्राय त्वाभिमातिघ्ने”- इत्यत्र देवतान्तरसम्बन्धवैधुर्यं प्रशंसति- सो ऽस्योद्धारो यथा श्रेष्ठस्येति । यथा धान्यादिविभागसमये मुख्यस्य राज्ञो देयो भागः प्रातिस्विकः, तं प्रथममेवापोद्धृत्य पश्चात् स्वं स्वमंशं विभजन्ति, एवं 9 रुद्रवस्विन्द्रेभ्यः देवतान्तरसहभावमन्तरेण केवल उद्धारः कृतो भवति । श्रेष्ठत्वे बीजमभिमातिहन्तृत्वम् । यतो ऽयमभिमातिहाः, अत उद्धारार्ह इत्यभिप्रायः ॥ ९ ॥

Eggeling
  1. He metes out with (Vāj. S. VI, 32), ‘Thee for Indra, with the Vasus, with the Rudras!’ For Indra is the deity of the sacrifice: therefore he says, ‘Thee for Indra;’ and by saying ‘with the Vasus, with the Rudras,’ he assigns a share, along with (or after) Indra, to the Vasus and the Rudras.–‘Thee for Indra, with the Ādityas!’ whereby he assigns a share to the Ādityas along with Indra.–‘Thee for Indra, the slayer of foes!’ a foe is an enemy: ‘Thee for Indra, the slayer of enemies,’ he means to say. This is his (Indra’s) special share: as there is a special share for a chief, so is this his special share apart from the (other) gods.

१०

विश्वास-प्रस्तुतिः

श्येना᳘य त्वा सोमभृ᳘त ऽइ᳘ति॥
त᳘द्गायत्र्यै᳘ मिमीते ऽग्न᳘ये त्वा रायस्पोषद ऽइ᳘त्यग्निर्वै᳘ गायत्री त᳘द्गायत्र्यै᳘ मिमीते स य᳘द्गायत्री᳘ श्येनो᳘ भूत्वा᳘ दिवः सो᳘ममा᳘हरत्ते᳘न सा᳘ श्येनः सोमभृत्ते᳘नै᳘वास्या एत᳘द्वी᳘र्येण द्विती᳘यᳫँ᳭मिमीते॥

मूलम् - श्रीधरादि

श्येना᳘य त्वा सोमभृ᳘त ऽइ᳘ति॥
त᳘द्गायत्र्यै᳘ मिमीते ऽग्न᳘ये त्वा रायस्पोषद ऽइ᳘त्यग्निर्वै᳘ गायत्री त᳘द्गायत्र्यै᳘ मिमीते स य᳘द्गायत्री᳘ श्येनो᳘ भूत्वा᳘ दिवः सो᳘ममा᳘हरत्ते᳘न सा᳘ श्येनः सोमभृत्ते᳘नै᳘वास्या एत᳘द्वी᳘र्येण द्विती᳘यᳫँ᳭मिमीते॥

मूलम् - Weber

श्येना᳘य त्वा सोमभृ᳘त इ᳘ति॥
त᳘द्गायत्र्यै᳘ मिमीते ऽग्न᳘ये त्वा रायस्पोषद इ᳘त्यग्निर्वै᳘ गायत्री त᳘द्गायत्र्यै᳘ मिमीते स य᳘द्गायत्री᳘ श्येनो᳘ भूत्वा᳘ दिवः सो᳘ममा᳘हरत्ते᳘न मा᳘ श्येनः सोमभृत्ते᳘नैॗवास्या एत᳘द्वीॗर्येण द्विती᳘यम् मिमीते॥

मूलम् - विस्वरम्

“श्येनाय त्वा सोमभृते”- (वा. सं. ६ । ३२) इति । तद् गायत्र्यै मिमीते । “अग्नये त्वा रायस्पोषदे” - (वा. सं. ६ । ३२) इति । अग्निर्वै गायत्री । तद् गायत्र्यै मिमीते । स यद् गायत्री श्येनो भूत्वा दिवः सोममाहरत्- तेन सा श्येनः सोमभृत् । तेनैवास्या एतद्वीर्येण द्वितीयं मिमीते ॥ १० ॥

सायणः

श्येनाय त्वेति । ‘श्येनाय त्वा’- ‘अग्नये त्वा’- इति वाक्यद्वयस्य तात्पर्यमाह- तद्गायत्र्यै मिमीत इति । ‘सोमभृते श्येनाय’ इति सोमोन्माने कृते गायत्र्यर्थत्वं कथं स्यादित्याशङ्क्य तदुपपादयति- स यद् गायत्री श्येनो भूत्वा दिवः सोममाहरदिति । अग्न्यर्थमितस्य, गायत्र्यर्थत्वं तु स्पष्टत्वाद् ब्राह्मणे उपेक्षितम् । तत्रेत्थमेवावगन्तव्यम्- “अग्नेर्गायत्र्यभवत्”- इति मन्त्रवर्णात् गायत्र्या निदानमग्निः; अतो जन्यजनकयोरभेदोपचारेण गायत्र्यर्थता स्यादित्यभिप्रेत्य “तद्गायत्र्यै मिमीते”- इत्युक्तम् ॥ १० ॥

Eggeling
  1. ‘Thee for the Soma-bearing falcon!’ this he metes out for Gāyatrī.–‘Thee for Agni, the bestower of growth of wealth!’ Now Agni is Gāyatrī: he metes this out for Gāyatrī. And since Gāyatrī, as a falcon, fetched Soma from heaven, therefore she is (called) the Soma-bearing falcon: for that prowess of hers he metes out (for her) a second portion.

११

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ यत्प᳘ञ्चकृ᳘त्वो मि᳘मीते॥
संव्वत्सर᳘सम्मितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य तं᳘ पञ्च᳘भिराप्नोति त᳘स्मात्प᳘ञ्चकृ᳘त्वो मिमीते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ यत्प᳘ञ्चकृ᳘त्वो मि᳘मीते॥
संव्वत्सर᳘सम्मितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य तं᳘ पञ्च᳘भिराप्नोति त᳘स्मात्प᳘ञ्चकृ᳘त्वो मिमीते॥

मूलम् - Weber

अ᳘थ यत्प᳘ञ्च कृ᳘त्वो मि᳘मीते॥
संवत्सर᳘सम्मितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऋत᳘वः संवत्सर᳘स्य तम् पञ्चभिराप्नोति त᳘स्मात्प᳘ञ्च कृ᳘त्वाम् मिमीते॥

मूलम् - विस्वरम्

अथ यत् पञ्चकृत्वो मिमीते । सम्वत्सरसम्मितो वै यज्ञः । पञ्च वा ऽऋतवः सम्वत्सरस्य । तं पञ्चभिराप्नोति । तस्मात्पञ्चकृत्वो मिमीते ॥ ११ ॥

सायणः

मानगतपञ्चसङ्ख्यां प्रशंसति- अथ यत्पञ्चकृत्वो मिमीत इति । “एकमन्त्राणि कर्माणि” इति न्यायस्यौत्सर्गिकत्वान्मन्त्राणां पञ्चत्वान्मानमपि पञ्चकृत्व इत्यर्थसिद्धम् । गवामयनादिसत्रस्य संवत्सरसम्मितयज्ञत्व 9 प्रसिद्धम् । ‘तस्मात्’ ‘पञ्च कृत्वः’ मानं प्रशस्तम् । “इन्द्राय त्वा वसुमते रुद्रवत इति पञ्चकृत्वः प्रतिमन्त्रम्” (का. श्रौ. सू. ९ । ६२) इति सूत्रम् ॥ ११ ॥

Eggeling
  1. Now as to why he metes out five times 10,–the sacrifice is of the same measure as the year, and there are five seasons in the year: he takes possession of it in five (divisions); hence he metes out five times.

१२

विश्वास-प्रस्तुतिः

त᳘मभि᳘मृशति॥
य᳘त्ते सोम दिवि ज्यो᳘तिर्य᳘त्पृथिव्यां य᳘दुरा᳘वन्त᳘रिक्षे। ते᳘नास्मै य᳘जमानायोरु᳘ राये᳘ कृद्ध्य᳘धि दात्रे᳘ व्वोच ऽइ᳘ति य᳘त्र वा᳘ ऽएषो᳘ ऽग्रे देवा᳘नाᳫँ᳭ हवि᳘र्बभू᳘व त᳘द्धेक्षा᳘ञ्चक्रे᳘ मैव स᳘र्व्वेणेवात्म᳘ना देवा᳘नाᳫँ᳭ हवि᳘र्भूवमि᳘ति स᳘ एता᳘स्तिस्र᳘स्तनू᳘रेषु᳘ लोके᳘षु व्विन्य᳘धत्त॥

मूलम् - श्रीधरादि

त᳘मभि᳘मृशति॥
य᳘त्ते सोम दिवि ज्यो᳘तिर्य᳘त्पृथिव्यां य᳘दुरा᳘वन्त᳘रिक्षे। ते᳘नास्मै य᳘जमानायोरु᳘ राये᳘ कृद्ध्य᳘धि दात्रे᳘ व्वोच ऽइ᳘ति य᳘त्र वा᳘ ऽएषो᳘ ऽग्रे देवा᳘नाᳫँ᳭ हवि᳘र्बभू᳘व त᳘द्धेक्षा᳘ञ्चक्रे᳘ मैव स᳘र्व्वेणेवात्म᳘ना देवा᳘नाᳫँ᳭ हवि᳘र्भूवमि᳘ति स᳘ एता᳘स्तिस्र᳘स्तनू᳘रेषु᳘ लोके᳘षु व्विन्य᳘धत्त॥

मूलम् - Weber

त᳘मभि᳘मृशति॥
य᳘त्ते सोम दिवि ज्यो᳘तिर्य᳘त्पृथिव्यां य᳘दुरा᳘वन्त᳘रिक्षे ते᳘नास्मै य᳘जमानायोरु᳘ राये᳘ कृध्य᳘धि दात्रे᳘ वोच इ᳘ति य᳘त्र वा᳘ एषो᳘ ऽग्रे देवा᳘नाᳫं हवि᳘र्बभू᳘व त᳘द्धेक्षां᳘ चक्रेॗ मैव स᳘र्वेणेवात्म᳘ना देवा᳘नाᳫं हवि᳘र्भूवमि᳘ति स᳘ एता᳘स्तिस्र᳘स्तनू᳘रेषु᳘ लोके᳘षु विन्य᳘धत्त॥

मूलम् - विस्वरम्

तमभिमृशति- **“यत्ते सोम दिवि ज्योतिर्यत पृथिव्यां यदुरावन्तरिक्षे । तेनास्मै यजमानायोरु राये कृद्ध्यधि दात्रे वोचः" **- (वा. सं. ६ । ३३) इति । यत्र वा एषो ऽग्रे देवानां हविर्बभूव । तद्धेक्षाञ्चक्रे- मैव सर्वेणेवात्मना देवानां हविर्भूवमिति । स एतास्तिस्रस्तनूरेषु लोकेषु विन्यधत्त ॥ १२ ॥

सायणः

मितस्य सोमस्य समन्त्रकमभिमर्शनं विधत्ते- तमभिमृशति यत्ते सोम दिवि ज्योतिरिति । (“यत्त इति मितालम्भनम्” इति का. श्रौ. सू. ९ । ६३) हे सोम ! ‘ते’ तव ‘यत्’ ‘ज्योतिः’ द्युतिमत्त्वं ‘दिवि’ अस्ति, ‘यत्’ ‘पृथिव्यां’ ज्योतिः वल्लीरूपः सोमः ‘यद्’ अपि ‘उरौ’ विस्तीर्णे ‘अन्तरिक्षे’ षोडशकलात्मकः, ‘तेन’ सर्वेण तव स्वरूपेण सहितः सन् ‘अस्मै’ अभिषुण्वते ‘यजमानाय’ ‘राये’ तस्य धनार्थम् ‘उरु कृधि’ प्रभूतं कुरु । तव शरीरमिति शेषः । ‘दात्रे’ हविःप्रदात्रे ‘अधिवोचः’ यजमानेन वचनमधिवचनम्, मदीयो ऽयं सर्वथा अनुग्राह्य इति प्रब्रूहीत्यर्थः ।

सोमस्य लोकान्तरस्थाय्यंशस्य यत् परिग्रहाभिधानम्, तदाख्यायिकामुखेन प्रशंसति- यत्र वा एषो ऽग्रे देवानामित्यादिना । ‘यत्र’ यत्काले ‘अग्रे’ सृष्टेः प्राक् ‘देवानां’ ‘हविः बभूव’ सोमः, ‘तत्’ तदा अहं ‘सर्वेणात्मना’ ‘देवानां’ ‘हविः’ ‘मा भूवम्’ न भवामि ‘इति’ विचार्य, ‘एषु’ त्रिषु ‘लोकेषु’ स्वाः ‘तनूः’ ‘विन्यधत्त’ विभज्य स्थापितवान् ॥ १२ ॥

Eggeling
  1. He touches it with (Vāj. S. VI, 33), ‘What light of thine there is in the heavens, O Soma, what on earth, and what in the wide air, therewith make wide room for this sacrificer, for his prosperity: speak thou for the giver!’ Now when he (Soma) first became sacrificial food for the gods, he thought within himself, ‘I must not become sacrificial food for the gods with my whole self!’ Accordingly he deposited those three bodies of his in these worlds.

१३

विश्वास-प्रस्तुतिः

तद्वै᳘ देवा᳘ अस्पृण्वत᳘॥
ते ऽस्यैते᳘नै᳘वैता᳘स्तनू᳘राप्नुवन्त्स᳘ कृत्स्न᳘ ऽएव᳘ देवा᳘नाᳫं हवि᳘रभवत्त᳘थो ऽए᳘वास्यैष᳘ ऽएते᳘नै᳘वैता᳘स्तनू᳘राप्नोति स᳘ कृत्स्न᳘ एव᳘ देवा᳘नाᳫँ᳭ हवि᳘र्भवति त᳘स्मादेव᳘मभि᳘मृशति॥

मूलम् - श्रीधरादि

तद्वै᳘ देवा᳘ अस्पृण्वत᳘॥
ते ऽस्यैते᳘नै᳘वैता᳘स्तनू᳘राप्नुवन्त्स᳘ कृत्स्न᳘ ऽएव᳘ देवा᳘नाᳫं हवि᳘रभवत्त᳘थो ऽए᳘वास्यैष᳘ ऽएते᳘नै᳘वैता᳘स्तनू᳘राप्नोति स᳘ कृत्स्न᳘ एव᳘ देवा᳘नाᳫँ᳭ हवि᳘र्भवति त᳘स्मादेव᳘मभि᳘मृशति॥

मूलम् - Weber

तद्वै᳘ देवा᳘ अस्पृण्वत᳟᳟॥
ते ऽस्यैते᳘नैॗवैता᳘स्तनू᳘राप्नुवन्त्स᳘ कृत्स्न᳘ एव᳘ देवा᳘नाᳫं हवि᳘रभवत्त᳘थो एॗवास्यैष᳘ एते᳘नैवैता᳘स्तनू᳘राप्नोति स᳘ कृत्स्न᳘ एव᳘ देवा᳘नाᳫं हवि᳘र्भवति त᳘स्मादेव᳘मभि᳘मृशति॥

मूलम् - विस्वरम्

तद्वै देवा अस्पृण्वत । ते ऽस्यैतेनैवैतास्तनूराप्नुवन् । स कृत्र एव देवानां हविरभवत् । तथो ऽएवास्यैष एतेनैवैतास्तनूराप्नोति । स कृत्स्न एव देवानां हविर्भवति । तस्मादेवमभिमृशति ॥ १३ ॥

सायणः

तद्वै देवा अस्पृण्वतेति । ‘तद्’ वृत्तान्तं ‘देवाः’ ‘अस्पृण्वत’ । “स्पृ प्रीतिबलनयोः” (धा. पा. स्वा. प. १३) बलोपलक्षितव्यापारं कृतवन्तः, ज्ञातवन्त इत्यर्थः । ‘ते’ देवाः ‘अस्य’ अग्नेः ‘एताः’ लोकत्रयस्थिताः ‘तनूः’ ‘एतेन’ “यत् ते सोम दिवि ज्योतिः”- इत्यादिमन्त्रेण ‘आप्नुवन्’ प्राप्तवन्तः ‘सः’ ‘कृत्स्न एव’ अविकल एव ‘देवानां हविरभवत्’ । तथो एवेत्यादि, दृष्टान्तवाक्यवद्व्याख्येयम् । तस्मादेवमिति निगमयति ॥ १३ ॥

Eggeling
  1. The gods then were victorious. They obtained those bodies by means of this same (formula), and he became entirely the sacrificial food of the gods. And in like manner does this (priest) now thereby obtain those bodies of his, and he (Soma) becomes entirely the food of the gods: this is why he thus touches it.

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ निग्रा᳘भ्याभिरु᳘पसृजति॥
(त्या᳘) आ᳘पो ह वै᳘ व्वृत्रं᳘ जघ्नुस्ते᳘नै᳘वैत᳘द्वी᳘र्येणा᳘पः स्यन्दन्ते त᳘स्मादेनाः स्य᳘न्दमाना न कि᳘ञ्चन प्र᳘तिधारयते ता᳘ ह स्व᳘मेव व्व᳘शञ्चेरुः क᳘स्मै नु᳘ व्वयं᳘ तिष्ठेमहि या᳘भिरस्मा᳘भिर्व्वृत्रो᳘ हत इ᳘ति स᳘र्व्वं वा᳘ ऽइदमि᳘न्द्राय तस्थान᳘मास य᳘दिदं किञ्चा᳘पि᳘ यो ऽयं प᳘वते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ निग्रा᳘भ्याभिरु᳘पसृजति॥
(त्या᳘) आ᳘पो ह वै᳘ व्वृत्रं᳘ जघ्नुस्ते᳘नै᳘वैत᳘द्वी᳘र्येणा᳘पः स्यन्दन्ते त᳘स्मादेनाः स्य᳘न्दमाना न कि᳘ञ्चन प्र᳘तिधारयते ता᳘ ह स्व᳘मेव व्व᳘शञ्चेरुः क᳘स्मै नु᳘ व्वयं᳘ तिष्ठेमहि या᳘भिरस्मा᳘भिर्व्वृत्रो᳘ हत इ᳘ति स᳘र्व्वं वा᳘ ऽइदमि᳘न्द्राय तस्थान᳘मास य᳘दिदं किञ्चा᳘पि᳘ यो ऽयं प᳘वते॥

मूलम् - Weber

अ᳘थ निग्राॗभ्याभिरु᳘पसृजति॥
आ᳘पो ह वै᳘ वृत्रं᳘ जघ्नुस्ते᳘नैॗवैत᳘द्वीॗर्येणा᳘पः स्यन्दन्ते त᳘स्मादेनाः स्य᳘न्दमाना न किं᳘ चन प्र᳘तिघारयति 11 ता᳘ ह स्व᳘मेव व᳘शं चेरुः क᳘स्मै नु᳘ वयं᳘ तिष्ठेमहि या᳘भिरस्मा᳘भिर्वृत्रो हत इ᳘ति स᳘र्वं वा᳘ इदमिन्द्राय तस्थान᳘मास य᳘दिदं किं चा᳘पिॗ यो ऽयम् प᳘वते॥

मूलम् - विस्वरम्

अथ निग्राभ्याभिरुपसृजति । आपो ह वै वृत्रं जघ्नुः । तेनैवैतद्वीर्येणापः स्यन्दन्ते । तस्मादेनाः स्यन्दमाना न किञ्चन प्रतिधारयते । ता ह स्वमेव वशं चेरुः । कस्मै नु वयं तिष्ठेमहि, याभिरस्माभिर्वृत्रो हत इति । सर्वं वा ऽइदमिन्द्राय तस्थानमास- यदिदं किञ्च- अपि यो ऽयं पवते ॥ १४ ॥

सायणः

अथ निग्राभ्योदकैः सोमसेचनं विधत्ते- अथ निग्राभ्याभिरुपसृजतीति 12 । मिश्रयेदित्यर्थः । मिश्रणमाख्यामुखेन प्रशंसति- आपो ह वै वृत्रं जघ्नुरित्यादिना । ‘तेनैव वीर्येण’ केनाप्यवध्यो वृत्रो ऽस्माभिर्हत इत्येवमात्मकेन ‘एतत्’ इदानीमपि ‘आपः’ ‘स्यन्दन्ते’ वेगेन गच्छन्ति । यस्मादेवं तस्मात् ‘स्यन्दमानाः’ ‘एनाः’ आपः ‘न किञ्चन’ वस्तु, लोष्टकाष्ठपाषाणादिकं ‘प्रतिधारयति’ प्रतिबध्नाति, किन्तु, ‘ताः’ आपः ‘स्वमेव वशं’ स्वतन्त्रं यथा भवति तथा विश्रम्भेण ‘चेरुः’ अगच्छन् । तेषां स्वातन्त्र्ये कारणमाह- कस्मै नु वयं तिष्ठेमहि, याभिरस्माभिर्वृत्रो हत इतीति । सर्वस्यापि लोकस्य घातको वृत्रः, सो ऽप्यस्माभिर्घातितः; अतो ‘वयं’ ‘कस्मै’ अन्यस्मै ‘तिष्ठेमहि’ आत्मानं प्रकाशयेमेति । इत्थमपः स्वातन्त्र्यं प्रतिपाद्य, तासामिन्द्राधीनत्वं प्रतिपादयति- सर्वं वा इदमिन्द्राय तस्थानमासेति । ‘तस्थानम्’ इति तिष्ठतेः कानचि रूपम् । (पा. सू. ३ । २ । १०५ । १०६ सू.) कैमुतिकन्यायसिद्ध्यर्थमाह- अपि यो ऽयं पवत इति । ‘यो ऽयं’ दुर्वहत्वेन प्रसिद्धो वायुः ‘पवते’ सो ऽपि इन्द्राधीनः स्थितवान् किल, किमु वक्तव्यमेतत् सर्वमिन्द्रवशे स्थितमिति ॥ १४ ॥

Eggeling
  1. He then pours Nigrābhyā water on it. Now the waters, forsooth, slew Vr̥tra and by virtue of that prowess of theirs they now flow. Wherefore nothing whatsoever can check them when they flow; for they followed their own free will, thinking, ‘To whom, forsooth, should we submit (or stop), we by whom Vr̥tra was slain!’ Now all this (universe), whatsoever there is, had submitted 13 to Indra, even he that blows yonder.

१५

विश्वास-प्रस्तुतिः

स इ᳘न्द्रो ऽब्रवीत्॥
(त्स᳘) स᳘र्व्वं वै᳘ म ऽइदं᳘ तस्थानं य᳘दिदं कि᳘ञ्च ति᳘ष्ठध्वमेव᳘ म ऽइ᳘ति ता᳘ होचुः किं᳘ नस्त᳘तः स्यादि᳘ति प्रथमभक्ष᳘ एव᳘ वः सो᳘मस्य रा᳘ज्ञ ऽइ᳘ति तथे᳘ति ता᳘ अस्मा ऽअतिष्ठन्त ता᳘स्तस्थाना उ᳘रसि᳘ न्यगृह्णीत[[!!]] तद्य᳘देना उ᳘रसि न्य᳘गृह्णीत᳘ तस्मान्निग्रा᳘भ्या[[!!]] ना᳘म त᳘थै᳘वैता एतद्य᳘जमान उ᳘रसि नि᳘गृह्णीते स᳘ आसामेष᳘ प्रथमभक्षः सो᳘मस्य रा᳘ज्ञो य᳘न्निग्रा᳘भ्याभिरुपसृज᳘ति॥

मूलम् - श्रीधरादि

स इ᳘न्द्रो ऽब्रवीत्॥
(त्स᳘) स᳘र्व्वं वै᳘ म ऽइदं᳘ तस्थानं य᳘दिदं कि᳘ञ्च ति᳘ष्ठध्वमेव᳘ म ऽइ᳘ति ता᳘ होचुः किं᳘ नस्त᳘तः स्यादि᳘ति प्रथमभक्ष᳘ एव᳘ वः सो᳘मस्य रा᳘ज्ञ ऽइ᳘ति तथे᳘ति ता᳘ अस्मा ऽअतिष्ठन्त ता᳘स्तस्थाना उ᳘रसि᳘ न्यगृह्णीत[[!!]] तद्य᳘देना उ᳘रसि न्य᳘गृह्णीत᳘ तस्मान्निग्रा᳘भ्या[[!!]] ना᳘म त᳘थै᳘वैता एतद्य᳘जमान उ᳘रसि नि᳘गृह्णीते स᳘ आसामेष᳘ प्रथमभक्षः सो᳘मस्य रा᳘ज्ञो य᳘न्निग्रा᳘भ्याभिरुपसृज᳘ति॥

मूलम् - Weber

स इ᳘न्द्रो ऽब्रवीत्॥
स᳘र्वं वै᳘ म इदं᳘ तस्थानं य᳘दिदं किं च ति᳘ष्ठध्वमेव᳘ म इ᳘ति ता᳘ होचुः किं᳘ नस्त᳘तः स्यादि᳘ति प्रथमभक्ष᳘ एव᳘ वः सो᳘मस्य रा᳘ज्ञ इ᳘ति तथे᳘ति ता᳘ अस्मा अतिष्ठन्त ता᳘स्तस्थाना उ᳘रसि न्य᳘गृह्णीत तद्य᳘देना उ᳘रसि न्य᳘गृह्णीत त᳘स्मान्निग्राॗभ्या ना᳘म त᳘थैॗवैता एतद्य᳘जमान उ᳘रसि नि᳘गृह्णीते स᳘ आसामेष᳘ प्रथमभक्षः सो᳘मस्य रा᳘ज्ञो य᳘न्निग्राॗभ्याभिरुपसृज᳘ति॥

मूलम् - विस्वरम्

स इन्द्रो ऽब्रवीत् । सर्वं वै म ऽइदं तस्थानम्- यदिदं किञ्च तिष्ठध्वमेव । म ऽइति । ता होचुः- किं नस्ततः स्यादिति । प्रथमभक्ष एव वः सोमस्य राज्ञ इति । तथेति । ता अस्मा ऽअतिष्ठन्त । तास्तस्थाना उरसि न्यगृह्णीत । तद् यदेना उरसि न्यगृह्णीत । तस्मान्निग्राभ्या नाम । तथैवैता एतद्यजमान उरसि निगृह्णीते । स आसामेष प्रथमभक्षः सोमस्य राज्ञः, यन्निग्राभ्याभिरुपसृजति ॥ १५ ॥

सायणः

स इन्द्रो ऽब्रवीदिति । अथ ‘स इन्द्रः’ एवम् ‘अब्रवीत्’ । ‘यत्’ ‘किञ्च’ ‘इदं’ भूतजातं ‘मे’ मदर्थं स्थितम्, अतो यूयमपि ‘तिष्ठध्वमेव’ न गच्छत ‘इति’ । अथ तेन तथोक्ताः ‘ताः’ आपः, वयं तिष्ठेमहि, ‘नः’ अस्माकं ‘ततः’ ‘किं’ लब्धं ‘स्यात्’ ? ‘इति’ अब्रुवन् । अथ तासामिन्द्रः ‘सोमस्य राज्ञः प्रथमभक्षे’ इतरेभ्यो देवेभ्यः प्राक्, अभिषवकाले ‘एव’ ‘वः’ अस्तु ‘इति’ प्रादात् । ‘ताः’ अस्तु ‘तथेति’ अङ्गीकृत्य ‘अस्मै’ इन्द्राय ‘अतिष्ठन्त’ ॥

प्रसङ्गात् निग्राभ्यशब्दनिर्वचनमाह- तास्तस्थाना उरसि न्यगृह्णीत इति । इन्द्रेणोरसि निगृहीतत्वात् ‘निग्राभ्याः’ इति तासामपां नाम सम्पन्नम् । “ह्रग्रहोर्भश्छन्दसि” (वै. प्र. ३ । १ । ८४ वा १.) इति हकारस्य भत्वम् । निग्राह्या इत्यर्थः । कर्मणि कृत्यः । तथैवैताः एतद्यजमान उरसि निगृह्णीत इत्यर्थः । अत्र विधिरुन्नयो निगृह्णीयादिति । न चात्र प्रथमभक्षः श्रूयत इत्याशङ्क्य अभिषवकाले ताभिः संसर्ग एव भक्ष इत्याह- स आसामेष इति ॥ १५ ॥

Eggeling
  1. Indra spake, ‘Verily, all this (universe), whatsoever there is, has submitted unto me: submit ye also to me!’–They said, ‘What shall be our (reward) then?’–‘The first draught of king Soma shall be yours!’–‘So be it!’ thus they submitted to

him; and they having submitted, he drew (ni-grabh) them to his breast; and because he thus drew them to his breast, therefore they are called Nigrābhyās. And in like manner does this sacrificer now draw them to his breast: and this is their first draught of king Soma, in that he pours Nigrābhyā water thereon.

१६

विश्वास-प्रस्तुतिः

स उ᳘पसृजति॥
श्वात्रा᳘ स्थ व्वृत्रतु᳘र इ᳘ति शिवा ह्या᳘पस्त᳘स्मादाह श्वात्रा स्थे᳘ति व्वृत्रतु᳘र इ᳘ति व्वृत्त्र᳘ᳫं᳘ ह्येता अ᳘घ्नन्रा᳘धो गूर्त्ता ऽअमृ᳘तस्य प᳘त्नीरि᳘त्यमृ᳘ता ह्या᳘पस्ता᳘ देवीर्द्देव᳘त्रेमं᳘ यज्ञं᳘ नयते᳘ति ना᳘त्र तिरो᳘हितमिवास्त्युपहूताः[[!!]] सो᳘मस्य पिबते᳘ति तदु᳘पहूता एव᳘ प्रथमभक्षᳫं᳭ सो᳘मस्य रा᳘ज्ञो भक्षयन्ति॥

मूलम् - श्रीधरादि

स उ᳘पसृजति॥
श्वात्रा᳘ स्थ व्वृत्रतु᳘र इ᳘ति शिवा ह्या᳘पस्त᳘स्मादाह श्वात्रा स्थे᳘ति व्वृत्रतु᳘र इ᳘ति व्वृत्त्र᳘ᳫं᳘ ह्येता अ᳘घ्नन्रा᳘धो गूर्त्ता ऽअमृ᳘तस्य प᳘त्नीरि᳘त्यमृ᳘ता ह्या᳘पस्ता᳘ देवीर्द्देव᳘त्रेमं᳘ यज्ञं᳘ नयते᳘ति ना᳘त्र तिरो᳘हितमिवास्त्युपहूताः[[!!]] सो᳘मस्य पिबते᳘ति तदु᳘पहूता एव᳘ प्रथमभक्षᳫं᳭ सो᳘मस्य रा᳘ज्ञो भक्षयन्ति॥

मूलम् - Weber

स उ᳘पसृजति॥
श्वात्रा᳘ स्थ वृत्रतु᳘र इ᳘ति शिवा ह्या᳘पस्त᳘स्मादाह श्वात्रा स्थे᳘ति वृत्रतु᳘र इ᳘ति वृत्रᳫं ह्येता अ᳘घ्नन्रा᳘धोगूर्ता अमृ᳘तस्य प᳘त्नीरि᳘त्यमृ᳘ता ह्या᳘पस्ता᳘ देवीर्देव᳘त्रेमं᳘ यज्ञं᳘ नयते᳘ति ना᳘त्र तिरो᳘हितमिवास्त्यु᳘पहूताः सो᳘मस्य पिबते᳘ति तदु᳘पहूता एव᳘ प्रथमभक्षᳫं सो᳘मस्य रा᳘ज्ञो भक्षयन्ति॥

मूलम् - विस्वरम्

स उपसृजति- “श्वात्रा स्थ वृत्रतुरः”- (वा. सं. ६ । ३४) इति । शिवा ह्यापः । तस्मादाह- श्वात्रा स्थेति वृत्रतुर इति । वृत्रं ह्येता अघ्नन् । “राधो गूर्ता ऽअमृतस्य पत्नीः"- (वा. सं. ६ । ३४) इति । अमृता ह्यापः । “ता देवीर्देवत्रेमं यज्ञं नयत”- (वा. सं. ६ । ३४) इति । नात्र तिरोहितमिवास्ति । “उपहूताः सोमस्य पिबत”- (वा. सं. ६ । ३४) इति । तद् उपहूता एव प्रथमभक्षं सोमस्य राज्ञो भक्षयन्ति ॥ १६ ॥

सायणः

उपसर्गे मन्त्रमभिधाय व्याचष्टे- स उपसृजति श्वात्राः स्थ वृत्रतुर इत्यादिना । श्वात्र-शब्दस्याभिप्रायमाह- शिवा ह्याप इति । यद्यपि “श्वात्रमिति क्षिप्रनाम (निघं. ४ । २ । १४) आशु अतनं भवति”- (निरु. ५ । १ । ३) इति निरुक्तम्, तथाप्यक्षरसामान्यान्निर्ब्रूयादितिन्यायेन 14 श्वात्रशब्दविश्लेषणेन शिवशब्द- प्रतिभानादपां च सर्वाप्यायनरूपत्वेन शिवत्वप्रसिद्धेः “श्वात्राः स्थ” इत्यभ्युक्तमित्यर्थः । यस्मात् ‘एताः’ आपः ‘वृत्रमघ्नन्’ तस्माद् वृत्रतुरः । इति मन्त्रो ब्रूते । तुर्वी हिंसार्थः (धा. पा. भ्वा. प. ५७१) । वृत्रं तुर्वन्ति घ्नन्तीति वृत्रतुरः । ‘अमृतस्य’ ‘पत्नीः’ पालयित्र्यः । यदि ह्यापो ऽमृता न भवेयुः, तर्हि तादृशीनामपां स्वामित्वमेव नोपपद्यत इत्यनया प्रसिद्ध्या “अमृता ह्यापः”- इति ब्राह्मणम् । प्रसिद्धिवाचकं हिशब्दमाह- ता देवीर्देवत्रेति । मन्त्रभागस्य स्पष्टार्थतामाह- नात्र तिरोहितमिवास्तीति । इदानीन्तनं सोमपानविषयमुपह्वानम् “उपहूताः सोमस्य पिबतेति” मन्त्राभिधानादायातमिति दर्शयति- उपहूता एवप्रथमभक्षं सोमस्य राज्ञो भक्षयन्तीति । मन्त्रस्यायमर्थः सम्पन्नः- हे निग्राभ्या आपः ! यूयं ‘श्वात्राः स्थ’ शिवा भवथ, ‘वृत्रतुरः’ वृत्रस्य हिंसकाः स्थ, ‘राधः’ धनस्य ‘गूर्ताः’ उद्यमयित्र्यः । “गुरी उद्यमने” (धा. पा. तु. आ. १५) “नसत्तनिषत्त-" इत्यादिना निपातितो गूर्त-शब्दः (पा. सू. ८ । २ । ६१) । ‘अमृतस्य’ ‘पत्नीः’ पालयित्र्यः स्थ । अतस्तादृङ्महिमोपेताः ‘देवीः’ हे देव्यः ! ‘देवत्रा’ देवान् प्रति ‘इमं यज्ञं’ सोमात्मकं ‘नयत’ प्रापयत, ‘उपहूताः’ अनुज्ञाताः सत्यो यूयं ‘सोमस्य’ सोमं पिबतेति मन्त्रार्थः । “श्वात्रा स्थेत्यासिञ्चति निग्राभ्याः”- (का. श्रौ. सू. ९ । ६५) इति कात्यायनः ॥ १६ ॥

Eggeling
  1. He pours it with (Vāj. S. VI, 34), ‘Ye are grateful, the subduers of Vr̥tra;’–the waters indeed are propitious: therefore he says, ‘Ye are grateful;’ and ’the subduers of Vr̥tra’ he says because they did slay Vr̥tra;–’the beneficent wives of the immortal (Soma);’ for the waters are immortal;–‘Ye goddesses, lead this sacrifice to the gods!’ there is nothing obscure in this; ‘Invited, drink ye of Soma!’ Thus invited they drink the first draught of king Soma.

१७

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ प्रहरिष्यन्[[!!]]॥
(न्यं᳘) यं᳘ द्विष्यात्तं म᳘नसा ध्यायेदमु᳘ष्मा ऽअहं प्र᳘हरामि न तु᳘भ्यमि᳘ति यो᳘ न्वे᳘वेमं᳘ मानुषं᳘ ब्राह्मणᳫं᳭ ह᳘न्ति[[!!]] तं᳘ न्वेव प᳘रिचक्षते᳘ ऽथ किं य᳘ एतं᳘ देवो हि सो᳘मो घ्न᳘न्ति वा᳘ ऽएनमेतद्य᳘दभिषुण्व᳘न्ति त᳘मेते᳘न घ्नन्ति तथा᳘ त उ᳘देति त᳘था स᳘ञ्जीवति त᳘था ऽनेनस्यं᳘ भवति य᳘द्यु न᳘ द्विष्याद᳘पि तृ᳘णमेव म᳘नसा ध्यायेत्त᳘थो ऽअनेनस्यं᳘ भवति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ प्रहरिष्यन्[[!!]]॥
(न्यं᳘) यं᳘ द्विष्यात्तं म᳘नसा ध्यायेदमु᳘ष्मा ऽअहं प्र᳘हरामि न तु᳘भ्यमि᳘ति यो᳘ न्वे᳘वेमं᳘ मानुषं᳘ ब्राह्मणᳫं᳭ ह᳘न्ति[[!!]] तं᳘ न्वेव प᳘रिचक्षते᳘ ऽथ किं य᳘ एतं᳘ देवो हि सो᳘मो घ्न᳘न्ति वा᳘ ऽएनमेतद्य᳘दभिषुण्व᳘न्ति त᳘मेते᳘न घ्नन्ति तथा᳘ त उ᳘देति त᳘था स᳘ञ्जीवति त᳘था ऽनेनस्यं᳘ भवति य᳘द्यु न᳘ द्विष्याद᳘पि तृ᳘णमेव म᳘नसा ध्यायेत्त᳘थो ऽअनेनस्यं᳘ भवति॥

मूलम् - Weber

अ᳘थ प्रहरिष्य᳘न्॥
यं᳘ द्विष्यात्तम् म᳘नसा ध्यायेदमु᳘ष्मा अहम् प्र᳘हरामि न तु᳘भ्यमि᳘ति योॗ न्वेॗवेम᳘म् मानुष᳘म् ब्राह्मणᳫं ह᳘न्तिॗ तं न्वेव 15 प᳘रिचक्षते᳘ ऽथ किं य᳘ एतं᳘ देवी हि सो᳘मो घ्न᳘न्ति वा᳘ एनमेतद्य᳘दभिषुण्व᳘न्ति त᳘मेते᳘न घ्नन्ति तथा᳘त उ᳘देति त᳘था सं᳘जीवति त᳘थानेनस्य᳘म् भवति यद्यु न᳘ द्विष्याद᳘पि तृ᳘णमेव म᳘नसा ध्यायेत्त᳘थो अनेनस्य᳘म् भवति॥

मूलम् - विस्वरम्

अथ प्रहरिष्यन्- यं द्विष्यात्तं मनसा ध्यायेद्- अमुष्या ऽअहं प्रहरामि, न तुभ्यमिति । यो न्वेवेमं मानुषं ब्राह्मणं हन्ति- तं न्वेव परिचक्षते अथ किम्- य एतम् । देवो हि सोमः । घ्नन्ति वा ऽएनमेतद्- यदभिषु एण्वन्ति । तमेतेन घ्नन्ति । तथा त उदेति, तथा सञ्जीवति, तथा ऽनेनस्यं भवति । यद्यु न द्विष्याद्- अपि तृणमेव मनसा ध्यायेत् । तथो ऽअनेनस्यं भवति ॥ १७ ॥

सायणः

यदुक्तं तेन “प्रहरिष्यन् द्वेष्यं मनसा ध्यायेदमुष्मा अहं प्रहरामि, न तुभ्यं सोमेति । अभावे तृणम् । मा भेरिति प्रहरति । एवं त्रिः- (का. श्रौ. सूं ९ । ६६-६९) 14 इति, तदिदमाह- अथ प्रहरिष्यन्नित्यादिना । ‘अमुष्मै’ द्वेष्ट्रे; अत्र सोमशर्म्मण इति द्वेष्टुर्नाम मनसा गृह्णीयात्, प्रहरामि प्रक्षिपामि, पाषाणरूपं वज्रमिति शेषः । हे सोम ! ‘न तुभ्यमिति’ 16 नैव प्रहरणं चेत् को बाध इति, तत्राह- यो न्वेवेमं मानुषं ब्राह्मणमिति । अत्यन्तदोषाविष्करणमितीमं ब्राह्मणमिति विशेषितम् । ‘तं’ ब्राह्मणस्य हन्तारं ‘परिचक्षते’ ‘न्वेव’ खल्वेव । ‘परिख्यानं’ दूष्यत्वेन वर्जनम्, ‘अथ’ ‘किं’, वक्तव्यमिति शेषः । ‘एतं’ माहात्म्यवन्तं पुरोवर्तिनं यो हन्ति, तं परिचक्षत इति किमुतेत्यर्थः । कैमुतिकन्यायस्य बीजमाह- देवो हि सोम इति । हि-शब्दो “देवो वै सोमः”- इत्यादिश्रुतिप्रसिद्धिद्योतनार्थः । अस्तु तथा, यदि हन्तिः स्यात्, सैवात्र कुत इत्यत आह- घ्नन्ति वा एनमिति । प्राग्व्याख्यातमिदम् । ‘एते’ शत्रुनामग्रहणपूर्वकमभिषुण्वन्तः ‘तं’ सोमं ‘न घ्नन्ति’ ‘तथा’ द्वेष्यत्वभावनायां सत्याम् । ‘अतः’ अस्माद्धननसकाशात्, अस्मात् स्थानाद्वा । ‘तथा’ सति अभिषुण्वन्तो ऽध्वर्योः ‘अनेनस्यं भवति’ न विद्यते एनः पापं यस्य सः अनेनाः, तस्य भावः अनेनस्यं भवति ॥

द्वेष्याभावे तत् कथमित्याशङ्क्याह- यद्यु न द्विष्यादपि तृणमेव मनसा ध्यायेदिति । अमुष्मै तृणाय वज्रं प्रहरामि, हे सोम ! न तुभ्यमिति ध्यायेदित्यर्थः ॥ १७ ॥

Eggeling
  1. Being about to beat (the Soma with the pressing-stone), let him think in his mind of him he hates: ‘Herewith I strike N.N., not thee!’ Now whosoever kills a human Brāhman here, he, forsooth, is deemed guilty 17,–how much more so he who strikes him (Soma), for Soma is a god. But they do kill him when they press him;–they kill him with that (stone): thus he rises from thence, thus he lives; and thus no guilt is incurred.. But if he hate no one, he may even think of a straw, and thus no guilt is incurred.

१८

विश्वास-प्रस्तुतिः

स प्र᳘हरति॥
मा᳘ भेर्मा सं᳘विक्था इ᳘ति मा᳘ त्वं᳘ भैषीर्मा सं᳘विक्था ऽअमु᳘ष्मा ऽअहं प्र᳘हरामि न तु᳘भ्यमि᳘त्ये᳘वैत᳘दाहो᳘र्ज्जं धत्स्वे᳘ति र᳘सं धत्स्वे᳘त्ये᳘वैत᳘दाह धि᳘षणे व्वीड्वी᳘ सती᳘ व्वीडयेथामू᳘र्ज्जं दधाथामि᳘तीमे᳘ ऽए᳘वैतत्फ᳘लके आहुरि᳘त्युहै᳘क ऽआहुः किन्नु त᳘त्र यो᳘ ऽप्येते फ᳘लके भिन्द्या᳘दिमे᳘ ह वै द्या᳘वापृथिवी᳘ ऽएत᳘स्माद्व᳘ज्रादु᳘द्यतात्स᳘ᳫँ᳘रेजेते त᳘दाभ्या᳘मे᳘वैनमेतद्द्या᳘वापृथिवी᳘भ्याᳫँ᳭ शमयति त᳘थेमे᳘ शान्तो न᳘ हिनस्त्यू᳘र्ज्जं दधाथामि᳘ति र᳘सं दधाथामि᳘त्ये᳘वैत᳘दाह पाप्मा᳘ हतो न सो᳘म इ᳘ति त᳘दस्य स᳘र्व्वं पाप्मा᳘नᳫँ᳭ हन्ति॥

मूलम् - श्रीधरादि

स प्र᳘हरति॥
मा᳘ भेर्मा सं᳘विक्था इ᳘ति मा᳘ त्वं᳘ भैषीर्मा सं᳘विक्था ऽअमु᳘ष्मा ऽअहं प्र᳘हरामि न तु᳘भ्यमि᳘त्ये᳘वैत᳘दाहो᳘र्ज्जं धत्स्वे᳘ति र᳘सं धत्स्वे᳘त्ये᳘वैत᳘दाह धि᳘षणे व्वीड्वी᳘ सती᳘ व्वीडयेथामू᳘र्ज्जं दधाथामि᳘तीमे᳘ ऽए᳘वैतत्फ᳘लके आहुरि᳘त्युहै᳘क ऽआहुः किन्नु त᳘त्र यो᳘ ऽप्येते फ᳘लके भिन्द्या᳘दिमे᳘ ह वै द्या᳘वापृथिवी᳘ ऽएत᳘स्माद्व᳘ज्रादु᳘द्यतात्स᳘ᳫँ᳘रेजेते त᳘दाभ्या᳘मे᳘वैनमेतद्द्या᳘वापृथिवी᳘भ्याᳫँ᳭ शमयति त᳘थेमे᳘ शान्तो न᳘ हिनस्त्यू᳘र्ज्जं दधाथामि᳘ति र᳘सं दधाथामि᳘त्ये᳘वैत᳘दाह पाप्मा᳘ हतो न सो᳘म इ᳘ति त᳘दस्य स᳘र्व्वं पाप्मा᳘नᳫँ᳭ हन्ति॥

मूलम् - Weber

स प्र᳘हरति॥
मा᳘ भेर्मा सं᳘विक्था इ᳘ति मा᳘ त्वम् भैषीर्मा सं᳘विक्था अमु᳘ष्मा अहम् प्र᳘हरामि न तु᳘भ्यमि᳘त्येॗवैत᳘दाहो᳘र्जं धत्स्वे᳘ति र᳘सं धत्स्वे᳘त्येॗवैत᳘दाह धि᳘षणे वीड्वी᳘ सती᳘ वीडयेथामू᳘र्जं दधाथामि᳘तोमे᳘ एॗवैतत्फ᳘लके आहुरि᳘त्यु है᳘क आहुः किं नु त᳘त्र यो᳘ ऽप्येते फ᳘लके भिन्द्या᳘दिमे᳘ हवै द्या᳘वापृथिवी᳘ एत᳘स्माद्व᳘ज्रादु᳘द्यतात्सं᳘रेजेते त᳘दाभ्या᳘मेॗवैनमेतद्द्या᳘वापृथिवी᳘भ्यां शमयति त᳘थेमे᳘ शान्तो न᳘ हिनस्त्यू᳘र्जं दधाथामि᳘ति र᳘सं दधाथामि᳘त्येॗवैत᳘दाह पाप्मा᳘ हतो न सो᳘म इ᳘ति त᳘दस्य स᳘र्वम् पाप्मा᳘नᳫं हन्ति॥

मूलम् - विस्वरम्

स प्रहरति- ”माभेर्मा सं विक्थाः”- (वा. सं. ६ । ३५) इति । मा त्वं भैषीः, मा त्वं भैषीः, मा सं विक्थाः, अमुष्मा ऽअहं प्रहरामि- न तुभ्यम्- इत्येवैतदाह- ”ऊर्ज्जं धत्स्व”- (वा. सं. ६ । ३५) इति । रसं धत्स्वेत्येवैतदाह । “धिषणे वीड्वी सती वीडयेथामूर्ज्जं दधाथाम्”- (वा. सं. ६ । ३५) इति । इमे ऽएवैतत् फलके आहुः- इत्यु हैक ऽआहुः । किं नु तत्र- यो ऽन्ये फलके भिन्द्यात् । इमे ह वै द्यावापृथिवी । एतस्माद्वज्रादुद्यतात्संरेजेते । तदाभ्यामेवैनमेतद् द्यावापृथिवीभ्यां शमयति तथेमे । शान्तो न हिनस्ति । ऊर्ज्जं दधाथाम्- इति । रसं दधाथामित्येवैतदाह । ”पाप्मा हतो न सोमः”- (वा. सं. ६ । ३५) इति । तदस्य सर्वं पाप्मानं हन्ति ॥ १८ ॥

सायणः

प्रहरणमनूद्य मन्त्रं विधाय व्याचष्टे- स प्रहरति माभेरित्यादिना । मा भेरिति पदं व्याकुर्वन्नेव द्वेष्यत्वभावनायां यत् प्रयोजनं प्रागुक्तम्, तदेव माभेरिति मन्त्रभागस्यापि तात्पर्यमिति व्याचष्टे- माभेर्मा संविक्था इति, मा त्वं भैषीर्मा संविक्था अमुष्मा अहं प्रहरामि, न तुभ्यमित्येवैतदाहेति । ‘एतत्’ माभेरिति मन्त्रवाक्यम् । ऊर्क्शब्दस्यान्ननामसु पाठात् (निघं. २ । ७ । १५) अत्रान्नसारो रसो विवक्षित इति व्याचष्टे- रसं धत्स्वेत्येवैतदाहेति । “धिषणे वीड्वी” - इति मन्त्रभागस्य धिषणफलके अर्थ इति केषाञ्चिदाचार्याणां मतम्; तन्मतं निराकर्त्तुमुदाहरति- इमे एवैतत् फलके आहुरित्यु हैक आहुरित्यादिना । प्रथमम् ‘आहुः’ इति शब्दस्य पदानि ‘धिषणे’ इत्यादीनि । ‘एतत्’ एतस्मिन् वाक्ये ‘इमे’ सोमाधारभूते ‘फलके’ ब्रुवते 18 इत्यर्थः । ‘इति’ अमुमर्थमेकशाखिन आहुः ! ‘नु’ प्रश्ने । ‘किं’ ‘तत्र’ त्वदभिमते, विद्यत इति शेषः । विद्यत एवेत्याशङ्क्यायाह- यो ऽप्येते फलके भिन्द्यादिति । यद्येते च 19 द्वे स्यातां, तर्हि कदाचिदपि भग्ने स्याताम्, 20 अतः किन्नु तत्रेत्यर्थः । इदानीं स्वाभिमतमर्थं सोपपत्तिकं दर्शयति- इमे ह वै द्यावापृथिवी इत्यादिना । अत्र धिषणे अनूद्येते, तयोर्दार्ढ्यमाशास्यते, तच्च सति शैथिल्यकारणे उपपद्यते; अतस्तत्प्रसक्तिमाह- एतस्माद् वज्रादुद्यतात् संरेजेते इति । वज्रवद्धिंसकात् अभिषवायोद्यतशस्त्रसकाशात् 21 ‘इमे’ द्यावापृथिवी ‘संरेजेते’ कम्पेते । ‘द्यावापृथिवीभ्याम्’ इति चतुर्थीद्विवचनम् । ‘एतत्’ इदानीम्, आभ्यामर्थाय ‘एनं’ यज्ञं 22 ‘शमयति’ शान्तं करोति, यथासौ उत्क्षेकावक्षेपाभ्यां द्यावापृथिव्यौ न हिनस्ति तथा करोति । ‘तथा’ सति, “धिषणे वीड्वी सती वीडयेथाम्”**- इत्यभिधाने सति ‘शान्तः’ असौ यज्ञ इति ‘इमे’ द्यावापृथिव्यौ ‘न हिनस्ति’, प्रोत्साहनेन तयोर्दृढत्वस्य प्राप्तत्वादिति भावः । गत ऊर्गर्थवादः । “पाप्मा हतो न सोम इति तदस्य सर्वं पाप्मानं हन्तीत्यार्थवादिकं फलं मा मा सन्ताप्तमिति च देवताभूतस्य सोमस्याभिषवरूपो वधो ऽध्वर्योरेव सम्भावित इति तस्यैवेति मन्तव्यम् ॥ १८ ॥

Eggeling
  1. He beats with (Vāj. S. VI, 35), ‘Fear not, tremble not!’ whereby he means to say, ‘Be not afraid, do not tremble, it is N.N. I strike, not thee!’–‘Take thou strength!’ whereby he means to say, ‘Take sap!’–‘Both ye bowls, that are

firm, remain firm, take strength!’–‘Surely, it is those two (pressing-)boards that are thereby meant,’ so say some;–what, then, if one were to break those two boards 23? But, forsooth, it is these two, heaven and earth, that tremble for fear of that raised thunderbolt (the stone): hereby now he propitiates it for those two, heaven and earth; and thus propitiated it does not injure them. By ‘Take strength!’ he means to say, ‘Take sap!’–‘The evil is slain, not Soma!’ he thereby slays every evil of his.

१९

विश्वास-प्रस्तुतिः

स वै त्रि᳘रभिषुणो᳘ति॥
त्रिः स᳘म्भरति चतु᳘र्न्निग्राभमु᳘पैति तद्द᳘श द᳘शाक्षरा वै᳘ व्विरा᳘ड्वैराजः सो᳘मस्त᳘स्माद्द᳘शकृ᳘त्वः स᳘म्पादयति॥

मूलम् - श्रीधरादि

स वै त्रि᳘रभिषुणो᳘ति॥
त्रिः स᳘म्भरति चतु᳘र्न्निग्राभमु᳘पैति तद्द᳘श द᳘शाक्षरा वै᳘ व्विरा᳘ड्वैराजः सो᳘मस्त᳘स्माद्द᳘शकृ᳘त्वः स᳘म्पादयति॥

मूलम् - Weber

स वै त्रि᳘रभिषुणो᳘ति॥
त्रिः स᳘म्भरति चतु᳘र्निग्राभमु᳘पैति तद्द᳘श द᳘शाक्षरा वै᳘ विरा᳘ड्वैराजः सो᳘मस्त᳘स्माद्द᳘श कृ᳘त्वः स᳘म्पादयति॥

मूलम् - विस्वरम्

स वै त्रिरभिषुणोति, त्रिःसम्भरति, चतुर्न्निग्राभमुपैति- तद्दश । दशाक्षरा वै विराड् वैराजः सोमः । तस्माद्दशकृत्वः सम्पादयति ॥ १९ ॥

सायणः

यदुक्तं कात्यायनेन- ”एवं त्रिरभिषुणोति” 18- इति, तदिदं त्रित्वं विधाय सम्भरणनिग्राभोपायनयोः सङ्ख्यया सह समुच्चित्य प्रशंसति- स वै त्रिरभिषुणोतीत्यादिना । ‘त्रिः संभरति’ त्रिः सन्निषीदयति 19 । निग्राभोपायनम् प्रागपादित्यादि मन्त्रजपः, तच्चतुर्वारं कर्त्तव्यम् । ‘तत्’ मिलित्वा ‘दश’ सम्पद्यन्ते; विराट्छन्दसश्च दशाक्षराणि, सोमो ऽपि वैराजः विराट्सम्बन्धी; पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीमिति दशसङ्ख्यया मितत्वात्; अतो वैराजस्य सोमस्य समत्वाय अभिषवादिगता दशसङ्ख्या प्रशस्ता । ततो ऽत्र सम्भरणत्रित्वस्य निग्राभोपायनचतुष्टयस्य च विधिर्निर्द्देशादेव द्रष्टव्यः 20 (श. प. ४ । १ । १४-१६) ॥ १९ ॥

Eggeling
  1. Thrice he presses 24, thrice he gathers together,

four times he performs the Nigrābha,–this makes ten, for of ten syllables consists the virāj, and Soma is of virāj nature: therefore he completes (the ceremony) in ten times.

२०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘न्निग्राभ᳘मुपै᳘ति॥
य᳘त्र वा᳘ ऽएषो᳘ ऽग्रे देवा᳘नाᳫँ᳭ हवि᳘र्बभू᳘व त᳘द्धेमा दि᳘शो ऽभि᳘दध्यावाभि᳘र्द्दिग्भिर्मिथुनेन [[!!]] प्रिये᳘ण धा᳘म्ना स᳘ᳫं᳘स्पृशेये᳘ति त᳘मेत᳘द्देवा᳘ आभि᳘र्द्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘मस्पर्शयन्य᳘न्निग्राभमुपा᳘यंस्त᳘थो[[!!]] ऽए᳘वैनमेष᳘ एत᳘दाभि᳘र्द्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘ᳫं᳘स्पर्शय᳘ति यन्निग्राभ᳘मुपै᳘ति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘न्निग्राभ᳘मुपै᳘ति॥
य᳘त्र वा᳘ ऽएषो᳘ ऽग्रे देवा᳘नाᳫँ᳭ हवि᳘र्बभू᳘व त᳘द्धेमा दि᳘शो ऽभि᳘दध्यावाभि᳘र्द्दिग्भिर्मिथुनेन [[!!]] प्रिये᳘ण धा᳘म्ना स᳘ᳫं᳘स्पृशेये᳘ति त᳘मेत᳘द्देवा᳘ आभि᳘र्द्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘मस्पर्शयन्य᳘न्निग्राभमुपा᳘यंस्त᳘थो[[!!]] ऽए᳘वैनमेष᳘ एत᳘दाभि᳘र्द्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘ᳫं᳘स्पर्शय᳘ति यन्निग्राभ᳘मुपै᳘ति[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘न्निग्राभ᳘मुपै᳘ति॥
य᳘त्र वा᳘ एषो᳘ ऽग्रे देवा᳘नाᳫं हवि᳘र्बभू᳘व त᳘द्धेमा दि᳘शो ऽभि᳘दध्यावाभि᳘र्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘ᳫं᳘स्पृशेये᳘ति त᳘मेत᳘द्देवा᳘ आभि᳘र्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘मस्पर्शयन्य᳘न्निग्राभ᳘मुपा᳘यंस्त᳘थो एॗवैनमेष᳘ एत᳘दाभि᳘र्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘ᳫं᳘स्पर्शयति य᳘न्निग्राभ᳘मुपै᳘ति॥

मूलम् - विस्वरम्

अथ यन्निग्राभमुपैति । यत्र वा ऽएषो ऽग्रे देवानां हविर्बभूव- तद्धेमा दिशो ऽभिदध्यौ, आभिर्द्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पृशेयेति । तमेतद्देवा आभिर्द्दिग्भिर्मिथुनेन प्रियेण धाम्ना समस्पर्शयन्- यन्निग्राभमुपायन् । तथो ऽएवैनमेष ऽएतदाभिर्द्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पर्शयति- यन्निग्राभमुपैति ॥ २० ॥

सायणः

अथ निग्राभोपायनमनूद्य प्रशंसति- अथ यन्निग्राभमुपैति, यत्र वा एषो ऽग्रे देवानां हविर्बभूवेत्यादिना । इमा दिशो ऽभिदध्याविति ! अभिध्यानं मैथुनविषयं ध्यानम् । अभिध्यानप्रकारमाह- आभिर्दिग्भिरिति । ‘मिथुनेन’ तद्योगेन, ‘प्रियेण’ दिशामभिमतेन, ‘धाम्ना’ मम शरीरेण ‘संस्पृशेयेति’ । यद्वा, दिग्भिः मिथुनेन प्रियेण ‘धाम्ना’ दिशां मिथुनार्हेण प्रियेण धाम्ना शरीरेण संस्पृशेयेति व्याख्येयम् । एवं कामयमानस्य सोमस्य निग्राभोपायनेन ‘देवाः’ ‘आभिर्दिग्भिः’ सह ‘मिथुनेन प्रियेण धाम्ना’ ‘समस्पर्शयन्’ संयोगमकारयन्, निग्राम्भोपायनमेव संस्पर्श इत्यर्थः । तथो एवैनमिति । दार्ष्टान्तिकं वाक्यं दृष्टान्तवद् व्याख्येयम् । यद्वा पूर्वत्र सङ्ख्याविधिः सः, यन्निग्राभमित्यत्र तु यच्छब्दमुपेक्ष्य विधिरवगन्तव्यः ॥ २० ॥

Eggeling
  1. Then as to why he performs the Nigrābha. Now when he (Soma) first became sacrificial food for the gods, he set his heart on those (four) regions, thinking, ‘Could I but consort with those regions as my mate, my loved resort!’ By performing the Nigrābha, the gods then made him consort with the regions as his mate, his loved resort; and in like manner does this (sacrificer) now, by performing the Nigrābha, make him (Soma) consort with those regions as his mate, his loved resort.

२१

विश्वास-प्रस्तुतिः

स उ᳘पैति॥
प्राग᳘पागु᳘दगधरा᳘क्सर्व्व᳘तस्त्वा दि᳘श ऽआ᳘धावन्त्वि᳘ति त᳘देनमाभि᳘र्द्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘ᳫं᳘स्पर्शयत्य᳘म्ब नि᳘ष्पर स᳘मरी᳘र्व्विदामि᳘ति यो᳘षा वा ऽअ᳘म्बा यो᳘षा दि᳘शस्त᳘स्मादाहा᳘म्ब[[!!]] नि᳘ष्परे᳘ति स᳘मरी᳘र्व्विदामि᳘ति प्रजा वा᳘ ऽअरीः स᳘म्प्रजा᳘ जानतामि᳘त्ये᳘वैत᳘दाह त᳘स्माद्या ऽअ᳘पि वि᳘दूरमिव प्रजा भ᳘वन्ति स᳘मेव ता᳘ जानते त᳘स्मादाह स᳘मरी᳘र्व्विदामिति[[!!]]॥

मूलम् - श्रीधरादि

स उ᳘पैति॥
प्राग᳘पागु᳘दगधरा᳘क्सर्व्व᳘तस्त्वा दि᳘श ऽआ᳘धावन्त्वि᳘ति त᳘देनमाभि᳘र्द्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘ᳫं᳘स्पर्शयत्य᳘म्ब नि᳘ष्पर स᳘मरी᳘र्व्विदामि᳘ति यो᳘षा वा ऽअ᳘म्बा यो᳘षा दि᳘शस्त᳘स्मादाहा᳘म्ब[[!!]] नि᳘ष्परे᳘ति स᳘मरी᳘र्व्विदामि᳘ति प्रजा वा᳘ ऽअरीः स᳘म्प्रजा᳘ जानतामि᳘त्ये᳘वैत᳘दाह त᳘स्माद्या ऽअ᳘पि वि᳘दूरमिव प्रजा भ᳘वन्ति स᳘मेव ता᳘ जानते त᳘स्मादाह स᳘मरी᳘र्व्विदामिति[[!!]]॥

मूलम् - Weber

स उ᳘पैति॥
प्राग᳘पागु᳘दगधरा᳘क्सर्व᳘तस्त्वा दि᳘श आ᳘धावन्त्वि᳘ति त᳘देनमाभिर्दिग्भि᳘र्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘ᳫं᳘स्पर्शयत्य᳘म्ब नि᳘ष्पर स᳘मरी᳘र्विदामि᳘ति यो᳘षा वा अ᳘म्बा यो᳘षा दि᳘शस्त᳘स्मादा᳘हाम्ब नि᳘ष्परे᳘ति स᳘मरी᳘र्विदामि᳘ति प्रजा वा᳘ अरीः स᳘म् प्रजा᳘ जानतामि᳘त्येॗवैत᳘दाह त᳘स्माद्या अ᳘पि वि᳘टूरमिव प्रजा भ᳘वन्ति स᳘मेव ता᳘ जानते त᳘स्मादाह स᳘मरी᳘र्विदामि᳘ति॥

मूलम् - विस्वरम्

स उपैति- ”प्रागपागुदगधराक् सर्वतस्त्वा दिश आधावन्तु”- (वा. सं. ६ । ३६) इति । तदेनमाभिर्द्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पर्शयति । “अम्ब निप्पर समरीर्विदाम्”- (वा. सं. ६ । ३६) इति । योषा वा ऽअम्बा । योषा दिशः, तस्मादाह- अम्ब निष्परेति । समरीर्विदामिति । प्रजा वा ऽअरीः । संप्रजा जानतामित्येवैतदाह । तस्माद् या अपि विदूरमिव प्रजा भवन्ति समेव ता जानते । तस्मादाह- समरीर्विदामिति ॥ २१ ॥

सायणः

तत्र मन्त्रं विधाय प्रशंसति- स उपैति प्रागपागित्यादिना 25 । अपाञ्चतीत्यपाक्, प्रतीची दिक् । अधरागिति, उदक्प्रतियोगिनी दक्षिणा दिगुच्यते (“अञ्चेर्लुक्” इति । पा. सू. ५ । ३ । ३०) पश्चात्पुरस्तादधरादुदक्तादित्यादिषु तथा दर्शनात् । प्रागाद्या दिशस्तदभिमानिन्यो देवताः हे सोम त्वां सर्वतः सर्वस्मात्स्थानात्, आधावन्तु सम्भोगार्थमागच्छन्तु । हे अम्ब हे योषे निष्पर नितरां सोमस्य कामं पूरयेति परस्परं ब्रुवाणा इत्यर्थः । तद्या अरीः अर्थः प्रजाः पुत्रादिरूपाः संविदां विप्रकृष्टमपि सोमं विदतां संजानतामित्यर्थः । प्रागपागित्यादेर्मंत्रप्रथमभागस्य तात्पर्यमाह- ‘तदेनमाभिर्द्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पर्शयतीति’ । तत्तेन मन्त्रपाठेन । गतमन्यत् । अम्ब निष्परेत्यस्य तात्पर्यमाह- ‘योषा वा अम्बेति’ । अम्बेति मातरि प्रसिद्धेः । स्वाभिमतयोषित्सामान्यरूपो ऽर्थ उक्तः । समरीर्व्विदामित्येतद्व्याचष्टे । प्रजा वा अरीरित्यादिना । अर्तेरिदं रूपं इयर्ति पुत्रादिप्रवाहरूपेण गच्छन्तीत्यर्थः । प्रजाः संविदां संजानतामित्येवैतदाहेति वा ऽर्तेरिदं रूपमिति व्याकृतं भवति । सञ्जानतां सञ्जानमेकमनस्कत्वं प्राप्नुवन्त्वित्यर्थः । उक्तमर्थमिदानींतनव्यवहारप्रसिद्ध्या समर्थयति । तस्माद्या अपि विदूरमिव प्रजा भवंति समेव जानत इति । यस्मान्मन्त्र एवमुक्तं तस्मात्पितुर्विदूरमिव दूरदेशे ऽपि प्रजा भवंति ताः संजानत एव ॥ २१ ॥

Eggeling
  1. He performs with (Vāj. S. VI, 36), ‘From east, from west, from north, from south–from every side may the regions resort to thee!’ whereby he makes him consort with the regions as his mate, his loved resort. ‘O mother, satisfy (him)! may the noble meet together 26!’ A mother

(ambā) is a woman, and the regions (diś, fem.) are women: therefore he says, ‘O mother, satisfy (him)!–May the noble meet together!’ The noble doubtless means people (creatures, offspring): he thus means to say, ‘May the people live in harmony with each other!’ Even the people that are far away (from each other) live in harmony with each other: therefore he says, ‘May the noble meet together.’

२२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘स्मात्सो᳘मो ना᳘म॥
य᳘त्र वा᳘ ऽएषो᳘ ऽग्रे देवा᳘नाᳫं᳭ हवि᳘र्बभू᳘व त᳘द्धेक्षा᳘ञ्चक्रे᳘ मैव स᳘र्व्वेणेवात्म᳘ना देवा᳘नाᳫं᳭ हवि᳘र्भूवमि᳘ति त᳘स्य या जु᳘ष्टतमातनूरा᳘स ता᳘मपनि᳘दधे तद्वै᳘ देवा᳘ अस्पृण्वत ते᳘ होचुरु᳘पै᳘वैतां प्र᳘बृहस्व स᳘हैव᳘ न एत᳘या हवि᳘रेधी᳘ति तां᳘ दूर᳘ ऽइवोपप्रा᳘बृहत स्वा वै᳘ म ऽएषे᳘ति त᳘स्मात्सो᳘मो नाम[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘स्मात्सो᳘मो ना᳘म॥
य᳘त्र वा᳘ ऽएषो᳘ ऽग्रे देवा᳘नाᳫं᳭ हवि᳘र्बभू᳘व त᳘द्धेक्षा᳘ञ्चक्रे᳘ मैव स᳘र्व्वेणेवात्म᳘ना देवा᳘नाᳫं᳭ हवि᳘र्भूवमि᳘ति त᳘स्य या जु᳘ष्टतमातनूरा᳘स ता᳘मपनि᳘दधे तद्वै᳘ देवा᳘ अस्पृण्वत ते᳘ होचुरु᳘पै᳘वैतां प्र᳘बृहस्व स᳘हैव᳘ न एत᳘या हवि᳘रेधी᳘ति तां᳘ दूर᳘ ऽइवोपप्रा᳘बृहत स्वा वै᳘ म ऽएषे᳘ति त᳘स्मात्सो᳘मो नाम[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘स्मात्सो᳘मो ना᳘म॥
य᳘त्र वा᳘ एषो᳘ ऽग्रे देवा᳘नाᳫं हवि᳘र्बभू᳘व त᳘द्धेक्षां᳘ चक्रेॗ मैव स᳘र्वेणेवात्म᳘ना देवा᳘नाᳫं हवि᳘र्भूवमि᳘ति त᳘स्य या जु᳘ष्टतमा तनूरा᳘स ता᳘मपनि᳘दधे तद्वै᳘ देवा᳘ अस्पृण्वत ते᳘ होचुरु᳘पैॗवैताम् प्र᳘वृहस्व सॗहैव᳘ न एत᳘या हवि᳘रेधी᳘ति तां᳘ दूर᳘ इवोपप्रा᳘वृहत स्वा वै᳘ म एषे᳘ति त᳘स्मात्सो᳘मो ना᳘म॥

मूलम् - विस्वरम्

अथ यस्मात्सोमो नाम । यत्र वा ऽएषो ऽग्रे देवानां हविर्बभूव । तद्धेक्षाञ्चक्रे- मैव सर्वेणेवात्मना देवानां हविर्भूवमिति । तस्य या जुष्टतमा तनूरास- तामपनिदधे । तद्वै देवा अस्पृण्वत । ते होचुः- उपैवैतां प्रवृहस्व, सहैव न एतया हविरेधीति । तां दूर ऽइवोपप्राबृहत- स्वा वै म ऽएषेति । तस्मात्सोमो नाम ॥ २२ ॥

सायणः

अथ सोमस्याभिषवप्रसंगात्तन्नामनिर्वचनं दर्शयति- अथ यस्मात्सोमो नाम यत्र वा एषो ऽग्र इत्यादिना । एतत्सोमाभिमर्शनमंत्रार्थवादवद्व्याख्येयम् । अपि निदधे अपगमय्यान्यत्र स्थापितवान् । एतामपसारितां तनूं उपप्रबृहस्व तव समीपं प्रापय । एतया तन्वा सहैव नो हविरेधि भव । एवमुक्तः सोमः तां दूरतर इव अत्यंत दूरदेश एवोपप्राबृहत उपागमयत् । किं कुर्वन् ? स्वा वै म एषेति वदन् । एषा तनूः मे मम स्वा स्वकीया आत्मीयेतिब्रुवन् । ‘स्वा मे’ इत्युक्तत्वात्सोमनाम सम्पन्नम् । पृषोदरादित्वादभिमतरूपसिद्धिः ॥ २२ ॥

Eggeling
  1. Now as to why he is called Soma. When he first became sacrificial food for the gods, he thought within him, ‘I must not become, sacrificial food for the gods with my whole self!’ That form of his which was most pleasing he accordingly put aside. Thereupon the gods were victorious; they said, ‘Draw that unto thee, for therewith shalt thou become our food!’ He drew it to him even from afar, saying, verily, that is mine own (svā me): hence he was called Soma.

२३

विश्वास-प्रस्तुतिः

(मा᳘) अ᳘थ य᳘स्माद्यज्ञो ना᳘म॥
घ्न᳘न्ति वा᳘ ऽएनमेतद्य᳘दभिषुण्व᳘न्ति तद्य᳘देनं तन्व᳘ते त᳘देनं जनयन्ति स[[!!]] ताय᳘मानो जायते स य᳘ञ्जायते त᳘स्माद्यञ्जो᳘ यञ्जो᳘ ह वै ना᳘मैतद्य᳘द्यज्ञ इ᳘ति॥

मूलम् - श्रीधरादि

(मा᳘) अ᳘थ य᳘स्माद्यज्ञो ना᳘म॥
घ्न᳘न्ति वा᳘ ऽएनमेतद्य᳘दभिषुण्व᳘न्ति तद्य᳘देनं तन्व᳘ते त᳘देनं जनयन्ति स[[!!]] ताय᳘मानो जायते स य᳘ञ्जायते त᳘स्माद्यञ्जो᳘ यञ्जो᳘ ह वै ना᳘मैतद्य᳘द्यज्ञ इ᳘ति॥

मूलम् - Weber

अ᳘थ य᳘स्माद्यज्ञो ना᳘म॥
घ्न᳘न्ति वा᳘ एनमेतद्य᳘दभिषुण्व᳘न्ति तद्य᳘देनं जनयन्ति स᳘ ताय᳘मानो जायते स यन्जा᳘यते त᳘स्माद्यञ्जो᳘ यञ्जो᳘ हवै 27 ना᳘मैतद्य᳘द्यज्ञ इ᳘ति॥

मूलम् - विस्वरम्

अथ यस्माद्यज्ञो नाम । घ्नन्ति वा ऽएनमेतद्- यदभिषुण्वन्ति । तद् यदेनं तन्वते- तदेनं जनयन्ति । स तायमानो जायते । स यन् जायते तस्माद्यञ्जः, यञ्जो ह वै नामैतद्- यद्- यज्ञ इति ॥ २३॥

सायणः

अथ सोमास्याभिषवसम्भरणादिप्रसङ्गाद्यज्ञनामनिर्वचनं दर्शयति- अथ यस्माद् यज्ञो नामेति । ‘यस्मात्’ प्रवृत्तिनिमित्ताद् यज्ञस्य ‘यज्ञः’ ‘इति’ ‘नाम’ अभूत् । तस्योत्तरम्- घ्नन्तीत्यादि । अभिषवेन हतम् ‘एनं’ सोमं ‘तन्वते’ सम्भरणग्रहणहोमादिना विस्तारयन्तीति यावत्, तदेव तस्य पुनरुत्पादनम् । ‘सः’ सोमः ‘तायमानः’ सन् ‘जायते’, अतो ‘यन्’ परम्परया आहुतिभावं गच्छन् ‘जायते’ पुनः पुनः सम्भवति । अतो यन् जायत इति ‘यञ्जः’ । अतो वस्तुतो ‘यञ्चः’ इति तस्य ‘नाम,’ ‘तद्यज्ञ इति’ परोक्षेण व्यवहरति (निरु. ३ । ४ । २) ॥ २३ ॥

Eggeling
  1. Then as to why he is called Yajña (sacrifice). Now, when they press him, they slay him; and when they spread him 28, they cause him to be born. He is born in being spread along, he is born moving (yan gāyate): hence yan-ja, for ‘yañja’ they say, is the same as ‘yajña.’

२४

विश्वास-प्रस्तुतिः

त᳘त्रैताम᳘पि वा᳘चमुवाद॥
त्व᳘मङ्ग प्र᳘शᳫं᳭सिषो देवः᳘ शविष्ठ म᳘र्त्त्यम्॥ न त्व᳘दन्यो᳘ मघवन्नस्ति मर्डिते᳘न्द्र ब्र᳘वीमि ते व्व᳘च इ᳘ति म᳘र्त्त्यो है᳘वैतद्भ᳘वन्नुवाच त्व᳘मे᳘वेतो᳘ जनयिता᳘सि᳘ नान्यस्त्वदिति[[!!]]॥

मूलम् - श्रीधरादि

त᳘त्रैताम᳘पि वा᳘चमुवाद॥
त्व᳘मङ्ग प्र᳘शᳫं᳭सिषो देवः᳘ शविष्ठ म᳘र्त्त्यम्॥ न त्व᳘दन्यो᳘ मघवन्नस्ति मर्डिते᳘न्द्र ब्र᳘वीमि ते व्व᳘च इ᳘ति म᳘र्त्त्यो है᳘वैतद्भ᳘वन्नुवाच त्व᳘मे᳘वेतो᳘ जनयिता᳘सि᳘ नान्यस्त्वदिति[[!!]]॥

मूलम् - Weber

त᳘त्रैताम᳘पि वा᳘चमुवाद॥
त्व᳘मङ्ग प्र᳘शंसिषो देवः᳘ शविष्ठ म᳘र्त्यं न त्व᳘दन्यो᳘ मघवन्नस्ति मर्डिते᳘न्द्र ब्र᳘वीमि ते व᳘च इ᳘ति म᳘र्त्यो हैॗवैतद्भ᳘वन्नुवाच 29 त्व᳘मेॗवेतो᳘ जनयिता᳘सिॗ नान्यस्त्वदि᳘ति॥

मूलम् - विस्वरम्

तत्रैतामपि वाचमुवाद- ”त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मर्डिता । इन्द्र ! ब्रवीमि ते वचः”- (वा. सं. ६ । ३७) इति । मर्त्यो हैवतैद् भवन्नुवाच । त्वमेवेतो जनयितासि- नान्यस्त्वदिति ॥ २४ ॥

सायणः

उक्तार्थसंवादत्वेन सोमप्रार्थनारूपं मन्त्रसंवादं दर्शयति- तत्रैतामपि वाचमुवाद, त्वमङ्ग प्रशंसिष इति । ‘तत्र’ तस्मिन्नभिषवकाले ‘एतां’ प्रार्थनारूपां त्वमङ्गेति ‘वाचम्’ ‘उवाद’ उक्तवान् । हे ‘शविष्ठ’ अतिशयेन बलवन् ! ‘अङ्ग’ हे इन्द्र ! ‘देवः’ ‘त्वं’ ‘मर्त्त्यं’ मरणवर्माणं मां सोमं ‘प्रशंसिषः’ प्रशस्तं कुरु, आहुत्यात्मना विस्तारयन् देवात्मना पुनरुत्पादयेत्यर्थः । “शंसु स्तुतौ” (धा. पा. भ्वा. प. ७२९) “सिब्बहुलं लेटि” (पा. सू. ३ । १ । ३४) इति सिप्, आर्द्धधातुकत्वाटिद् (पा. सू. ५ । २ । ३५) “इतश्च लोपः”- (पा. सू. ३ । ४ । ९७) इतीकारलोपः, “लेटो ऽडाटौ”- (पा. सू. ३ । ४ । ९४) इत्यडागमः । अस्त्यन्यो देवः किमिन्द्रप्रार्थनयेति तत्राह- ‘हे मघवन् !’ तत् ‘त्वत्तः’ ‘अन्यः’ ‘मर्डिता’ सुखयिता ‘न अस्ति’, यत एवम् अतः ‘ते’ तुभ्यं ‘वचः’ प्रशंसाप्रार्थनारूपम् ‘ब्रवीमि’। अस्य मन्त्रस्य तात्पर्यमाह- मर्त्यो हैवैतद् भवन्नुवाच, त्वमेवैतो जनयितासि नान्यस्त्वादिति । स्पष्टो ऽर्थः ॥ २४॥

Eggeling
  1. Also this speech did he then utter (Vāj. S. VI, 37;

Rig-veda I, 84, 19), ‘Verily thou, a god, shalt extol the mortal, O most mighty! than thee there is no other giver of joy 30, O lord! unto thee do I speak this word, O Indra!’ For it was indeed as a mortal that he uttered this, ‘Thou alone wilt produce (me) from here, no other but thee!’

२५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ निग्रा᳘भ्याभ्यो ग्र᳘हान्विगृह्णते[[!!]]॥
(त ऽ) आ᳘पो ह वै᳘ व्वृत्रं᳘ जघ्नुस्ते᳘नै᳘वैत᳘द्वी᳘र्येणा᳘पः स्यन्दन्ते स्य᳘न्दमानानां वै᳘ व्वसतीव᳘रीर्गृह्णाति व्वसतीव᳘रीभ्यो निग्रा᳘भ्या निग्रा᳘भ्याभ्यो ग्र᳘हान्वि᳘गृह्णते ते᳘नै᳘वैत᳘द्वी᳘र्येण ग्र᳘हान्वि᳘गृह्णते होतृचमसाद्योषा[[!!]] वा ऽऋग्घो᳘ता यो᳘षायै वा᳘ ऽइमाः᳘ प्रजाः प्र᳘जायन्ते त᳘देनमेत᳘स्यै यो᳘षाया ऽऋचो हो᳘तुः प्र᳘जनयति त᳘स्माद्धोतृचमसात्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ निग्रा᳘भ्याभ्यो ग्र᳘हान्विगृह्णते[[!!]]॥
(त ऽ) आ᳘पो ह वै᳘ व्वृत्रं᳘ जघ्नुस्ते᳘नै᳘वैत᳘द्वी᳘र्येणा᳘पः स्यन्दन्ते स्य᳘न्दमानानां वै᳘ व्वसतीव᳘रीर्गृह्णाति व्वसतीव᳘रीभ्यो निग्रा᳘भ्या निग्रा᳘भ्याभ्यो ग्र᳘हान्वि᳘गृह्णते ते᳘नै᳘वैत᳘द्वी᳘र्येण ग्र᳘हान्वि᳘गृह्णते होतृचमसाद्योषा[[!!]] वा ऽऋग्घो᳘ता यो᳘षायै वा᳘ ऽइमाः᳘ प्रजाः प्र᳘जायन्ते त᳘देनमेत᳘स्यै यो᳘षाया ऽऋचो हो᳘तुः प्र᳘जनयति त᳘स्माद्धोतृचमसात्[[!!]]॥

मूलम् - Weber

अ᳘थ निग्राॗभ्याभ्यो ग्र᳘हान्वि᳘गृह्णते॥
आ᳘पो ह वै᳘ वृत्रं᳘ जघ्नुस्ते᳘नैॗवैत᳘द्वीॗर्येणा᳘पः स्यन्दन्ते स्य᳘न्दमानानां वै᳘ वसतीव᳘रीर्गृह्णाति वसतीव᳘रीभ्यो निग्राॗभ्या निग्राॗब्याभ्यो ग्र᳘हान्वि᳘गृह्णते ते᳘नैॗवैत᳘द्वीॗर्येण ग्र᳘हान्वि᳘गृह्णते होतृचमसाद्यो᳘षा वा ऋग्घो᳘ता यो᳘षायै वा᳘ इमाः᳘ प्रजाः प्र᳘जायन्ते त᳘देनमेत᳘स्यै यो᳘षाया ऋचो हो᳘तुः प्र᳘जनयति त᳘स्माद्धोतृचमसा᳘त्॥

मूलम् - विस्वरम्

अथ निग्राभ्याभ्यो ग्रहान्विगृह्णते । आपो ह वै वृत्रं जघ्नुः । तेनैवैतद्वीर्येणापः स्यन्दन्ते । स्यन्दमानानां वै वसतीवरीर्गृह्णाति, वसतीवरीभ्यो निग्राभ्याः, निग्राभ्याभ्यो ग्रहान्विगृह्णते । तेनैवैतद्वीर्येण ग्रहान्विगृह्णते- होतृचमसात् । योषा वा ऽऋग्घोता । योषायै वा ऽइमाः प्रजाः प्रजायन्ते । तदेनमेतस्यै योषाया ऽऋचो होतुः प्रजनयति, तस्माद्धोतृचमसात् ॥ २५ ॥ इति निग्राभ्याप्रयोगः ॥

सायणः

अथ निग्राभ्याभ्यो ऽद्भ्यो होतृचमसेन यद् ग्रहणम्, तत्प्रशंसति- अथ निग्राभ्याभ्यो ग्रहान् विगृह्णत इति । (का. श्रौ. सू. ९ । ७२-७४) 31 । ‘निग्राभ्याः’ अभिषवसमये सोमोपसर्गायोपयुक्ता आपः । कथं ताभ्यो ग्रहणमिति परम्परयेति दर्शयति- आपो ह वै वृत्रं जघ्नुरित्यादिना । वीर्यवत्यः स्यन्दमाना आपः, ताभ्यो वसतीवरीणां ग्रहणम्, ताभ्यश्च होतृचमसनिग्राभ्याणां ग्रहणम्, निग्राभ्याभ्यः सकाशात् सोमरसद्वारा ग्रहान् विगृह्णते । तदा ‘तेनैव’ वृत्रवधप्रयुक्तसामर्थ्येनैव ‘एतत्’ एतेन निग्राभ्याभ्यो ‘ग्रहान् विगृह्णते’ । तच्च ग्रहणं होतृचमससकाशाद् भवति; होतृचमसं दशापवित्रस्योपरि धारयित्वा, तत्र सोमरसमासिच्य, धारा सम्पाद्य ग्रहग्रहणात् । ‘योषा वै’ स्त्री खलु ‘ऋक्’ सैव ‘होता’ ऋचः शस्त्राद्यवयवरूपायाः होतृप्रयोज्यत्वादभेदविवक्षया ऋग्घोतेति सामानाधिकरण्यम् । तदेनमेतस्या इति । ‘एतस्यै योषायै’ षष्ठ्यर्थे चतुर्थी । (पा. सू. २ । ३ । ६२ । सू. वा. १) । एतस्या योषायाः ऋग्घोतृलक्षणायाः सम्बन्धितया ‘एनं’ सोमम् ‘एतद्’ एतेन होतृचमसाद् ग्रहणेन ‘प्रजनयति’ पुनरुत्पादयति । तस्माद्धोतृचमसादिति पुनर्निर्गमनम् । तस्मान्निग्राभ्योदकैर्होतृचमसेन ग्रहान् गृह्णीयादिति विधिः ॥ २५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे नवमाध्याये चतुर्थं ब्राह्मणम् ॥ ३-९-४ ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ १ ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ २॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे नवमो ऽध्यायः समाप्तः ॥ ३-९ ॥

इति श्रीशतपथब्राह्मणे सायणभाष्यसमेतं अध्वरं नाम तृतीयं काण्डं समाप्तम् ।

Eggeling
  1. And from the Nigrābhyā water they draw the several grahas (cups or libations of Soma). For it was the waters that slew Vr̥tra, and in virtue of this prowess they flow; and it is from flowing water that he takes the Vasatīvarī water, and from the Vasatīvarī the Nigrābhyā water; and from the Nigrābhyā water the several grahas are drawn. In virtue of that prowess, then, the grahas are drawn from the Hotr̥’s cup. Now the Hotr̥ means the R̥k (fem.), a woman; and from woman creatures are born here on earth: hence he makes him (Soma) to be born from that woman, the R̥k, the Hotr̥; wherefore (he takes the grahas) from the Hotr̥’s cup.

  1. 238:1 The Adhvaryu and sacrificer sit north of them, looking towards the south; and the assistants of the former–viz. the Pratiprasthātr̥; Neshṭr̥, and Unnetr̥–on the south side, looking northwards. The press-boards were laid down on the ‘sound-holes,’ under the fore-part of the southern Soma-cart, and the pressing-skin was spread over them; see III, 5, 4, 22-23. The Udgātr̥s, or chanters, are seated behind the carts. ↩︎

  2. 238:2 Viz. the upāṁśusavana, or ’low-voiced pressing (stone),’ (see paragraph 6,) with which the Soma for the Upāṁśu libation (or cup, graha) is pressed. ↩︎

  3. ‘देवस्यत्वेत्यद्रिमादाय’ का. श्रौ. सू. ९ । ५९ । ↩︎

  4. 240:1 It is doubtful what ‘pavi’ may mean here. It seems to mean originally a metallic mounting, especially of a shaft. The commentators explain it by ’thunderbolt.’ ↩︎

  5. 240:2 The sacrificer holds the Hotr̥’s cup with the Nigrābhyāḥ to his breast. ↩︎

  6. ‘पात्रो’ इति वैदिकपाठपुस्तके पाठः । ↩︎

  7. 240:3 Viz. by being placed upon the stone. which is identical with the sun (?); but cf. III, 8, 2, 27. ↩︎

  8. 241:1 Tasmād v iyaṁ manushyeshu mātrā yat kaushṭḥo yat kumbhī yeyaṁ kā ca manushyeshu mātrā. Kāṇva text. ↩︎

  9. ‘तद्वदनु’ इति क्व. पु. पाठः । ↩︎ ↩︎

  10. 241:2 According to Taitt. S. VI, 4, 4 he metes out five times with the above texts, and five times silently. ↩︎

  11. प्रतिधारयते Sây. ↩︎

  12. श्वात्राःस्थेत्यासिंचति निग्राभ्याः । का. श्रौ. सू. ९ । ६५ । ↩︎

  13. 242:1 The Kāṇva MS. has twice ’tatsthāna,’ as Ait. Br. VI, 5, and twice ’tasthāna;’ cf. Weber, Ind. Stud. IX, p. 295. ↩︎

  14. “अविद्यमाने सामान्ये ऽप्यक्षरवर्णसामान्यान्निर्ब्रूयान्नत्वेव निर्ब्रूयात्” इति निरु. २ । १ । १ । ↩︎ ↩︎

  15. त᳘न्न्वेव AB. ↩︎

  16. ‘तस्मै’ इति क्व. पु. अधिकः पाठः । ↩︎

  17. 243:1 ‘Paricakshate’ ought rather to mean ’they despise him.’ ↩︎

  18. ‘अब्रुवत’ इ. क्व. पा. । ↩︎ ↩︎

  19. ‘वड्वी’ इत्याधिकः पाठः क्वचित् । ↩︎ ↩︎

  20. ‘माभूतां’- इ. क्व. पा. । ↩︎ ↩︎

  21. ‘द्यताद्व्राव्णः सकाशात्’ इ. क्व. पा. । ↩︎

  22. ‘वज्रं’ इ. क्व. पाठः । ↩︎

  23. 244:1 That is to say, in that case the formula would prove to have been a failure. According to the Taitt. Kalpas., quoted to Taitt. S. I, 4, 1 (p. 590), he presses the skin down upon the two press-boards while muttering this formula. The Kāṇva text argues somewhat differently,–ime evaitat phalake āhur iti haika āhus tad u kim ādriyeta yad athaite bhidyeyātām eveme haiva dyāvāpr̥thivyāv etasmād vajrād udyatāt saṁrejete,–‘Some say those two boards are thereby meant; but who would care if they should get broken; for it is rather those two, heaven and earth,’ &c.? ↩︎

  24. 244:2 The pressing of the Upāṁśu-graha–also called the ‘small’ pressing, distinguished from the ‘great pressing’ (mahābhishava) for the subsequent cups or libations (graha)–consists of three turns of eight, eleven, and twelve single beatings respectively. Before each turn Nigrābhyā water is poured upon the Soma plants by the sacrificer from the Hotr̥’s cup. After each turn of pressing the Adhvaryu throws the completely-pressed stalks into the cup, and when they have become thoroughly soaked, he presses them out and takes them out again; this being the ‘gathering together’ referred to above. At the same time he mutters the Nigrābha formula (paragraph 21); after which the pressed-out juice, absorbed by the water, is poured into the Upāṁśu vessel in the following manner. Before the pressing the Pratiprasthātr̥ had taken six Soma-stalks, and put two each between the fingers of his left hand. After each turn of pressing he takes the Upāṁśu vessel with his right hand and holds one pair of the Soma-stalks over it (or, according to others, all six at the same time), through which (as through a strainer) the Adhvaryu then pours the Soma-juice from the pressing-skin into the vessel. After the third turn the pressing-stone itself is put into the Hotr̥’s cup, either with or without the muttering of the Nigrābha formula. According to the commentary on Kāty. IX, 4, 27, the Soma-juice is transferred from the skin to the Upāṁśu cup, by the straining-cloth being made to imbibe the juice and then being pressed out so as to trickle down through the plants between the Pratiprasthātr̥’s fingers. The description given by Haug, Ait. Br., Transl. p. 489, is somewhat different. ↩︎

  25. प्रतिवर्गं निग्राभं व्वाचयति होतृचमस ऽल्पानँ शूनवधाय प्रागपागिति । अद्रिणा चतुर्थम् । का. श्रौ. सू. ९ । ७२-७३ । ↩︎

  26. 245:1 The interpretation of this formula is very doubtful. The author evidently takes ‘arīḥ’ as nom. plur. of ‘ari’ (= ārya); but it does not appear how he takes ’nishpara,’ while Mahīdhara explains it by ‘pūraya (give him, Soma, his fill).’ The St. Petersburg Dict. suggests that ’nishpara’ may mean ‘come out!’ and that ‘arīḥ’ seems to be a nom. sing. here. I take the last part of the formula to mean, ‘May he (Soma) win (or, perhaps, join) the longing (waters)!’ some of the Nigrābhyā water being poured on the Soma at each turn of pressing; and small stalks of Soma being, besides, thrown into the Hotr̥’s cup containing that water. As to the first part of the formula, it may perhaps mean, ‘Well, pour out (or, pour forth, intrans.).’ Professor Ludwig, Rig-veda IV, p. xvi, thinks that ’nishpara’ is a correction of the Taitt, reading ’nishvara,’ which Sāyaṇa interprets, ‘O mother (Soma), come out (from the stalks, in the form of juice),’ and according to the Sūtra quoted by him, the sacrificer is at the same time to think of the wife he loves. ↩︎

  27. यंजा᳘यते त᳘स्माद्यंजो᳘ यंजो᳘ ह AB. ↩︎

  28. 246:1 That is, when they perform the Soma-sacrifice. ↩︎

  29. द्भगवन्नुवाच Sây. ↩︎

  30. 247:1 This is the traditional meaning (sukhayitr̥) assigned to marḍayitr̥ (the merciful, comforter); but it is not quite clear how the author of the Brāhmaṇa interprets it. ↩︎

  31. तूष्णीं वा. का. श्रौ. सू. ९ । ७४ । ↩︎