०१

विश्वास-प्रस्तुतिः

ता᳘न्त्सम्प्र᳘बोधयन्ति᳘॥
ते ऽप᳘ उपस्पृश्या᳘ग्नीद्ध्रमुपसमा᳘यन्ति त ऽआ᳘ज्यानि गृह्णते गृहीत्वा᳘ज्यान्या᳘यन्त्यासाद्या᳘ज्यानि॥

मूलम् - श्रीधरादि

ता᳘न्त्सम्प्र᳘बोधयन्ति᳘॥
ते ऽप᳘ उपस्पृश्या᳘ग्नीद्ध्रमुपसमा᳘यन्ति त ऽआ᳘ज्यानि गृह्णते गृहीत्वा᳘ज्यान्या᳘यन्त्यासाद्या᳘ज्यानि॥

मूलम् - Weber

ता᳘न्त्सम्प्र᳘बोधयन्ति᳟᳟॥
ते ऽप᳘ उपस्पृश्या᳘ग्नीध्रमुपसमा᳘यन्ति त आ᳘ज्यानि गृह्णते गृहीत्वा᳘ज्यान्या᳘यन्त्यासाद्या᳘ज्यानि॥

मूलम् - विस्वरम्

तान्त्सम्प्रबोधयन्ति 1 । ते ऽप उपस्पृश्याग्नीद्ध्रमुपसमायन्ति । त ऽआज्यानि गृह्णते । गृहीत्वाज्यान्यायन्ति । आसाद्याज्यानि ॥ १ ॥

सायणः

अथ सुत्यादिवसे प्रातःकालीनं सवनीयपश्वर्थं प्रयोगमाह- तान्त्सम्प्रबोधयन्तीत्यादिना । ‘तान्’ ऋत्विजः रात्रेरपरभागे प्रबोधयेयुरध्वर्यवः । “अपररात्रे ऋत्विजः प्रबोधयन्ति”- (का. श्रौ. सू. ९ । १) इति सूत्रम् । उदकोपस्पर्शनं विहितकर्मण उपलक्षणम् । गृहीत्वाज्यान्यायन्तीति । उत्तरवेदिसमीपम् । अत्र प्रयोग उक्तः सूत्रे- “अप उपस्पृश्य शालाद्वार्ये परिस्तरणपात्रसंसादनप्रोक्षणाज्यानिर्वपणाधिश्रयणस्रुक्सम्मार्जनोद्वासनावेक्षणानि कृत्वाग्नीद्ध्र उत्पूय पश्वाज्यग्रहणम्, आज्यान्यादाय सोमं चार्थवच्चाहवनीय इध्मप्रोक्षणादि करोति, अग्नीषोमीयवत् स्तरणम्, आज्यासादनात् कृत्वेषान्तरेणार्द्धसोममद्रिषु सम्मुखेषु निदधाति हृदे त्वेति”- (का. श्रौ. सू. ९ । २-५) इति ॥ १ ॥

Eggeling
  1. They (the priests) are wakened (towards morning). Having touched water 2, they proceed together to the Āgnīdhra (fire-house) and take the portions of ghee (for the Savanīya animal offerings). Having taken the portions of ghee, they betake themselves (to the high altar). When they have deposited the ghee,–

०२

विश्वास-प्रस्तुतिः

(न्य᳘) अ᳘थ रा᳘जानमुपा᳘वहरति॥
(ती) इयं वै᳘ प्रतिष्ठा᳘ जनू᳘रासां᳘ प्रजा᳘नामिमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभ्युपा᳘वहरति त᳘मस्यै᳘ त᳘नुते तमस्यै᳘[[!!]] जनयति॥

मूलम् - श्रीधरादि

(न्य᳘) अ᳘थ रा᳘जानमुपा᳘वहरति॥
(ती) इयं वै᳘ प्रतिष्ठा᳘ जनू᳘रासां᳘ प्रजा᳘नामिमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभ्युपा᳘वहरति त᳘मस्यै᳘ त᳘नुते तमस्यै᳘[[!!]] जनयति॥

मूलम् - Weber

अ᳘थ रा᳘जानमुपा᳘वहरति॥
इयं वै᳘ प्रतिष्ठा᳘ जनू᳘रासा᳘म् प्रजा᳘नामिमा᳘मेॗवैत᳘त्प्रतिष्ठा᳘मभ्युपा᳘वहरति त᳘मस्यै᳘ तनुते त᳘मस्यै᳘ जनयति॥

मूलम् - विस्वरम्

अथ राजानमुपावहरति । इयं वै प्रतिष्ठा जनूरासां प्रजानाम् । इमामेवैतत् प्रतिष्ठामभ्युपावहरति । तमस्यै तनुते । तमस्यै जनयति ॥ २ ॥

सायणः

तदिदं सोमोपावहरणं समन्त्रकं विधत्ते- अथ राजानमुपावहरतीति । अधिषवणचर्म्मोपरिप्रदेशं प्रति अधो नयेत् । अधःप्रापणं प्रशंसति- इयं वै प्रतिष्ठा जनूरिति । ‘आसाम्’ उत्पत्तिमतीनां सर्वासां परिदृश्यमानानां ‘प्रजानाम्’ ‘इयं’ खलु भूमिः ‘प्रतिष्ठा’ । अस्य इदं ‘जनूः’ जन्मभूमिः । अस्यापि प्रजान्तःपातित्वात् ‘इमां’ ‘प्रतिष्ठाम्’ ‘अभि’ लक्ष्य ‘एव’ ‘उपावहरति’ उपावहरणं कृतवान् भवति । तथा सति ‘तं’ सोमम् ‘अस्यै’ अस्याः सकाशात् ‘तनुते’ विस्तारितवान् भवति, ’ ‘अस्यै’ अस्याः सकाशात् उत्पादितवांश्च भवति ॥ २ ॥

Eggeling
  1. He (the Adhvaryu) takes down the king (Soma) 3. Now this (earth) is a safe resting-place, and the birth-place of living beings; it is to this safe resting-place that he now takes him down; he spreads him thereon, produces him therefrom.

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘न्तरेणेष᳘ ऽउपा᳘वहरति॥
यज्ञो वा ऽअ᳘नस्त᳘न्न्वेव᳘ यज्ञान्न᳘ बहिर्द्धा᳘ करोति ग्रा᳘वसु सम्मुखे᳘ष्वधिनि᳘दधाति क्षत्रं वै सो᳘मो व्वि᳘शो ग्रा᳘वाणः क्षत्र᳘मे᳘वैत᳘द्विश्य᳘ध्यूहति तद्य᳘त्सम्मुखा भ᳘वन्ति व्वि᳘शमे᳘वैत᳘त्सम्मुखां᳘ क्षत्रि᳘यमभ्य᳘विवादिनीं करोति त᳘स्मात्सम्मुखा᳘ भवन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘न्तरेणेष᳘ ऽउपा᳘वहरति॥
यज्ञो वा ऽअ᳘नस्त᳘न्न्वेव᳘ यज्ञान्न᳘ बहिर्द्धा᳘ करोति ग्रा᳘वसु सम्मुखे᳘ष्वधिनि᳘दधाति क्षत्रं वै सो᳘मो व्वि᳘शो ग्रा᳘वाणः क्षत्र᳘मे᳘वैत᳘द्विश्य᳘ध्यूहति तद्य᳘त्सम्मुखा भ᳘वन्ति व्वि᳘शमे᳘वैत᳘त्सम्मुखां᳘ क्षत्रि᳘यमभ्य᳘विवादिनीं करोति त᳘स्मात्सम्मुखा᳘ भवन्ति॥

मूलम् - Weber

अ᳘न्तरेणेष᳘ उपा᳘वहरति॥
यज्ञो वा अ᳘नस्तॗन्न्वेव᳘ यज्ञान्न᳘ बहिर्धा᳘ करोति ग्रा᳘वसु सम्मुखे᳘ष्वधिनि᳘दधाति क्षत्रं वै सो᳘मो वि᳘शो ग्रा᳘वाणः क्षत्र᳘मेॗवैत᳘द्विश्य᳘ध्यूहति तद्य᳘त्सम्मुखा भ᳘वन्ति वि᳘शमेॗवैत᳘त्सम्मुखां᳘ क्षत्रि᳘यमभ्य᳘विवादिनीं करोति त᳘स्मात्सम्मुखा᳘ भवन्ति॥

मूलम् - विस्वरम्

अन्तरेणेषे ऽउपावहरति । यज्ञो वा ऽअनः । तन्वेव यज्ञान्न बहिर्द्धा करोति । ग्रावसु सम्मुखेष्वधिनिदधाति । क्षत्रं वै सोमः । विशो ग्रावाणः । क्षत्रमेवैतद् विश्यध्यूहति । तद्यत्सम्मुखा भवन्ति- विशमेवैतत्समुखां क्षत्रियमभ्यविवादनीं करोति । तस्मात्सम्मुखा भवन्ति ॥ ३ ॥

सायणः

उपावहरणमार्गमाह- अन्तरेणेष इति । ‘ईषे’ आयतौ 1 शकटदण्डौ । यज्ञसाधनसोमाश्रयत्वात् ‘अनसः’ शकटस्य यज्ञत्वम् । तयोरन्तरालादधः सुप्त्वावरोहणेन ‘यज्ञाद्’ हविर्द्धानाद् बाह्यं न कृतवान् भवति । ग्राव्णां मध्ये स्थापनं विधाय प्रशंसति- ग्रावसु सम्मुखेष्विति । सोमस्य वेदेषु क्षत्रियजातित्वमसकृदुक्तम्; ग्राव्णां तु बहुत्वात् शेषत्वेनोपसर्जनत्वाच्च विशो रूपत्वम् । मध्ये स्थापनेन यत् सर्वग्रावसाम्मुख्यम्, तत् प्रशंसति- तद्यत्सम्मुखा भवन्तीति । ‘क्षत्रियम्’ क्षत्रियजातिं ‘अभि’-लक्ष्य विशेषम् ‘अविवादिनीम्’ अविवादनशीलां ‘करोति’ ॥ ३ ॥

Eggeling
  1. He takes him down between the shafts; for the cart is (a means of) the sacrifice, and thus alone he does not put him outside the sacrifice. He puts him on the pressing stones lying there with their heads (mukha, mouths) 4 towards each other; for Soma is the nobility, and the stones are the clans (people); he thereby raises the nobility over the clan. And as to why they are lying with their heads together,–he thereby makes the clan of one head (or mouth) with, and uncontentious towards, the nobles; therefore they are lying with their heads towards each other.

०४

विश्वास-प्रस्तुतिः

स᳘ उपा᳘वहरति॥
हृदे᳘ त्वा म᳘नसे त्वे᳘ति य᳘जमानस्यैतत्का᳘मायाह हृ᳘दयेन हि म᳘नसा य᳘जमानस्तं का᳘मं काम᳘यते य᳘त्काम्या᳘ यजते[[!!]] त᳘स्मादाह हृदे[[!!]] त्वा म᳘नसे त्वे᳘ति॥

मूलम् - श्रीधरादि

स᳘ उपा᳘वहरति॥
हृदे᳘ त्वा म᳘नसे त्वे᳘ति य᳘जमानस्यैतत्का᳘मायाह हृ᳘दयेन हि म᳘नसा य᳘जमानस्तं का᳘मं काम᳘यते य᳘त्काम्या᳘ यजते[[!!]] त᳘स्मादाह हृदे[[!!]] त्वा म᳘नसे त्वे᳘ति॥

मूलम् - Weber

स᳘ उपा᳘वहरति॥
हृदे᳘ त्वा म᳘नसे त्वे᳘ति य᳘जमानस्यैतत्का᳘मायाह हृ᳘दयेन हि म᳘नसा य᳘जमानस्तं का᳘मं काम᳘यते यत्काम्या य᳘जते त᳘स्मादाह हृदे᳘ त्वा म᳘नसे त्वे᳘ति॥

मूलम् - विस्वरम्

स उपावहरति । “हृदे त्वा मनसे त्वा”- (वा. सं. ६ । २५ ।) इति । यजमानस्यैतत्कामायाह । हृदयेन हि मनसा यजमानस्तं कामं कामयते- यत्काम्या यजते । तस्मादाह- हृदे त्वा मनसे त्वेति ॥ ४ ॥

सायणः

उपावहरणप्रकारमभिधायोपावहरणे मन्त्रमाह- स उपावहरति हृदे त्वा मनसे त्वेति- (का. श्रौ. सू. ९ । ५) 5 । हे सोम ! त्वां ‘हृदे’ हरति । दूरस्थं विषयमिति विषयाभिमुखं स्वोपहितमात्मानं हरतीति वा । हृदयमन्तःकरणम्, तद्विशेषरूपं सङ्कल्पविकल्पात्मकं मनः, यजमानसम्बन्धिनोस्तयोरुभयोर्विषयो ऽयं कामः, तस्य लाभार्थम् ‘उपावहरामि’ । कर्मकारकस्य द्विराम्नानादुपावहरामीति द्विरभ्यासः; अतो वाक्यद्वयम्; न व्याख्यान व्याख्येयभावः ॥ ४ ॥

Eggeling
  1. He takes (Soma) down, with (Vāj. S. VI, 25), ‘Thee for the heart, thee for the mind!’ This he says for the (accomplishment of the) sacrificer’s wish, since it is with the heart and mind that the sacrificer entertains the wish for which he sacrifices; therefore he says, ‘Thee for the heart, thee for the mind!’

०५

विश्वास-प्रस्तुतिः

दिवे᳘ त्वा सू᳘र्याय त्वे᳘ति॥
देवलोका᳘य त्वे᳘त्ये᳘वैत᳘दाह यदा᳘ह दिवे त्वे᳘ति सू᳘र्याय त्वे᳘ति देवे᳘भ्यस्त्वे᳘त्ये᳘वैत᳘दाहोर्ध्व᳘मिम᳘मध्वरं᳘ दिवि᳘ देवे᳘षु हो᳘त्रा यच्छे᳘त्यध्वरो वै᳘ यज्ञ᳘ ऊर्ध्व᳘मिमं᳘ यज्ञं᳘ दिवे᳘ देवे᳘षु धेही᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

दिवे᳘ त्वा सू᳘र्याय त्वे᳘ति॥
देवलोका᳘य त्वे᳘त्ये᳘वैत᳘दाह यदा᳘ह दिवे त्वे᳘ति सू᳘र्याय त्वे᳘ति देवे᳘भ्यस्त्वे᳘त्ये᳘वैत᳘दाहोर्ध्व᳘मिम᳘मध्वरं᳘ दिवि᳘ देवे᳘षु हो᳘त्रा यच्छे᳘त्यध्वरो वै᳘ यज्ञ᳘ ऊर्ध्व᳘मिमं᳘ यज्ञं᳘ दिवे᳘ देवे᳘षु धेही᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

दिवे᳘ त्वा सू᳘र्याय त्वे᳘ति॥
देवलोका᳘य त्वे᳘त्येॗवैत᳘दाह यदा᳘ह दिवे त्वे᳘ति सू᳘र्याय त्वे᳘ति देवे᳘भ्यस्त्वे᳘त्येॗवैत᳘दाहोर्ध्व᳘मिम᳘मध्वरं᳘ दिवि᳘ देवे᳘षु हो᳘त्रा यछे᳘त्यध्वरो वै᳘ यज्ञ᳘ ऊर्द्व᳘मिमं᳘ यज्ञं᳘ दिवे᳘ देवे᳘षु धेही᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“दिवे त्वा सूर्याय त्वा”- (वा. सं. ६ । २५) इति । देवलोकाय त्वेत्येवैतदाह- यदाह- दिवे त्वेति । सूर्याय त्वेति । देवेभ्यस्त्वेत्येवैतदाह- ऊर्ध्वमिममध्वरं दिवि देवेषु होत्रा यच्छेति । अध्वरो वै यज्ञः । ऊर्ध्वमिमं यज्ञं दिवि देवेषु धेहीत्येवैतदाह ॥ ५ ॥

सायणः

तथा ‘दिवे’ देवलोकाय त्वाम् । ‘सूर्याय त्वा’ एतद्रश्मिभूतानां देवानामुपलक्षणम् । सर्वत्रोपावहरामीति योज्यम् । किञ्च हे सोम ! ‘ऊर्ध्वम्’ उपरि, तायमानत्वेनोन्नतम् ‘इमं’ सोमयागं ‘दिवि’ द्युलोके ‘देवेषु’ ‘यच्छ’; ‘होत्राः’ होत्रकाश्च देवेषु यच्छन्त्वित्यर्थः ॥ ५ ॥

Eggeling
  1. ‘Thee for the sky, thee for the sun!’ This, on the other hand, he says with a view to the world of the gods. When he says, ‘Thee for the sky, thee

for the sun,’ he means to say, ‘Thee for the gods!’ ‘Upwards convey thou to the sky, to the gods, this cult, these invocations!’ Cult, doubtless, means sacrifice: he thereby means to say, ‘Upwards carry thou this sacrifice to the sky, to the gods!’

०६

विश्वास-प्रस्तुतिः

सो᳘म राजन्वि᳘श्वास्त्वं᳘ प्रजा᳘ उपा᳘वरोहे᳘ति॥
त᳘देनमासां᳘ प्रजा᳘नामा᳘धिपत्याय राज्या᳘योपा᳘वहरति॥

मूलम् - श्रीधरादि

सो᳘म राजन्वि᳘श्वास्त्वं᳘ प्रजा᳘ उपा᳘वरोहे᳘ति॥
त᳘देनमासां᳘ प्रजा᳘नामा᳘धिपत्याय राज्या᳘योपा᳘वहरति॥

मूलम् - Weber

सो᳘म राजन्वि᳘श्वास्त्व᳘म् प्रजा᳘ उपा᳘वरोहे᳘ति॥
त᳘देनमासा᳘म् प्रजा᳘नामा᳘धिपत्याय राज्या᳘योपा᳘वहरति॥

मूलम् - विस्वरम्

“सोम राजन् विश्वास्त्वं प्रजा उपावरोह”- (वा. सं. ६ । २६) इति । तदेनमासां प्रजानामाधिपत्याय राज्यायोपावहरति ॥ ६ ॥

सायणः

तदर्थं हे ‘सोम राजन् !’ ‘त्वं’ ‘विश्वाः प्रजाः’ ‘उप’ लक्ष्य ‘अवरोह’ इति ॥ ६ ॥

उपावरोहमन्त्रं विभज्य व्याचष्टे- हृदे त्वा मनसे त्वेति यजमानस्यैतत्कामायेत्यादिना । सूर्याय त्वेत्यत्र सूर्यशब्दः सर्वदेवतोपलक्षक इति व्याचष्टे- देवेभ्यस्त्वेत्येवैतदाहेति । “रश्मयो ह्यस्य विश्वे देवाः”- इति (श. ब्रा. कां. ३. अ. ९ ब्रा. २ कं. ६ इत्यत्र) प्रागुक्तत्वादित्यभिप्रायः । ऊर्ध्वमिममित्यादेर्ब्राह्मणं स्पष्टम् ॥ ६ ॥

Eggeling
  1. [Vāj. S. VI, 26], ‘O Soma, king, descend unto all thy people!’ whereby he brings him down for the lordship, for the sovereignty of these people (creatures).

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थानुसृज्यो᳘पतिष्ठते॥
व्वि᳘श्वास्त्वां᳘ प्रजा᳘ ऽउपा᳘वरोहन्त्वित्य᳘यथायथमिव वा᳘ ऽएत᳘त्करोति यदा᳘ह व्वि᳘श्वास्त्वां[[!!]] प्रजा᳘ उपा᳘वरोहे᳘ति क्षत्रं वै सो᳘मस्त᳘त्पापवस्यस᳘ङ्करोति त᳘द्धेदम᳘नु पापवस्यसं᳘ क्रियते ऽथा᳘त्र यथायथं᳘ करोति यथापूर्वं यदा᳘ह व्वि᳘श्वास्त्वां᳘ प्रजा᳘ उपा᳘वरोहन्त्वि᳘ति त᳘देनमाभिः᳘ प्रजा᳘भिः प्रत्य᳘वरोहयति त᳘स्मादु क्षत्रि᳘यमाय᳘न्तमिमाः᳘ प्रजा व्वि᳘शः प्रत्य᳘वरोहन्ति त᳘मध᳘स्तादु᳘पासत ऽउ᳘पसन्नो हो᳘ता प्रातरनुवाक᳘मनुवक्ष्यन्भ᳘वति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थानुसृज्यो᳘पतिष्ठते॥
व्वि᳘श्वास्त्वां᳘ प्रजा᳘ ऽउपा᳘वरोहन्त्वित्य᳘यथायथमिव वा᳘ ऽएत᳘त्करोति यदा᳘ह व्वि᳘श्वास्त्वां[[!!]] प्रजा᳘ उपा᳘वरोहे᳘ति क्षत्रं वै सो᳘मस्त᳘त्पापवस्यस᳘ङ्करोति त᳘द्धेदम᳘नु पापवस्यसं᳘ क्रियते ऽथा᳘त्र यथायथं᳘ करोति यथापूर्वं यदा᳘ह व्वि᳘श्वास्त्वां᳘ प्रजा᳘ उपा᳘वरोहन्त्वि᳘ति त᳘देनमाभिः᳘ प्रजा᳘भिः प्रत्य᳘वरोहयति त᳘स्मादु क्षत्रि᳘यमाय᳘न्तमिमाः᳘ प्रजा व्वि᳘शः प्रत्य᳘वरोहन्ति त᳘मध᳘स्तादु᳘पासत ऽउ᳘पसन्नो हो᳘ता प्रातरनुवाक᳘मनुवक्ष्यन्भ᳘वति[[!!]]॥

मूलम् - Weber

अ᳘थानुसृज्यो᳘पतिष्ठते॥
वि᳘श्वास्त्वा᳘म् प्रजा᳘ उपा᳘वरोहन्त्वित्य᳘यथायथमिव वा᳘ एत᳘त्करोति यदा᳘ह वि᳘श्वास्त्व᳘म् प्रजा᳘ उपा᳘वरोहे᳘ति क्षत्रं वै सो᳘मस्त᳘त्पापवस्यसं᳘ करोति त᳘द्धेदम᳘नु पापवस्यसं᳘ क्रियते ऽथा᳘त्र यथायथं᳘ करोति यथापूर्वं यदा᳘ह वि᳘श्वास्त्वा᳘म् प्रजा᳘ उपा᳘वरोहन्त्वि᳘ति त᳘देनमाभिः᳘ प्रजा᳘भिः प्रत्य᳘वरोहयति त᳘स्मादु क्षत्रि᳘यमाय᳘न्तमिमाः᳘ प्रजा वि᳘शः प्रत्य᳘वरोहन्ति त᳘मध᳘स्तादु᳘पासत उ᳘पसन्नो हो᳘ता प्रातरनुवाक᳘मनुवक्ष्य᳘न्भवति॥

मूलम् - विस्वरम्

अथानुसृज्योपतिष्ठते । “विश्वास्त्वां प्रजा उपावरोहन्तु” - (वा. सं. ६ । २६) इति । अयथायथमिव वा ऽएतत्करोति- यदाह- विश्वास्त्वां प्रजा उपावरोहेति । क्षत्रं वै सोमः । तत् पापवस्यसं करोति । तद्धेदमनु पापवस्यसं क्रियते । अथात्र यथायथं करोति- यथापूर्वम्- यदाह- विश्वास्त्वां प्रजा उपावरोहन्त्विति । तदेनमाभिः प्रजाभिः प्रत्यवरोहयति । तस्मादु क्षत्रियमायन्तमिमाः प्रजा विशः प्रत्यवरोहन्ति । तमधस्तादुपासते । उपसन्नो होता प्रातरनुवाकमनुवक्ष्यन् भवति ॥ ७ ॥

सायणः

उपावहृतस्य सोमस्य समन्त्रकमुपस्थानमाह- अथानुसृज्योपतिष्ठत 6 इति । ‘अनुसृज्य’ वेष्टितं वस्त्रं विसृज्येत्यर्थः । विश्वास्त्वामिति । मन्त्रार्थः स्पष्टः । अयथायथमिव वा इत्यादि । उपावहरणे यो विश्वास्त्वामिति मन्त्रशेषः, तत्र विश्वाः प्रजा उद्दिश्य तुच्छजनवत् परिचारकपुरुषनिष्पादितावरोहणमन्तरेण स्वत एवावरोहणस्य प्रजाः प्रति सोमस्यापसर्जनलक्षणस्य च प्रतीतिः । तस्याश्च क्षत्रियभूतस्य सोमस्यानुचितत्वाद् विश्वास्त्वामित्यभिधानेन ‘अयथायथम्’ यथास्वरूपस्य यदुचितं तस्य तद्वैपरीत्यं कृतं भवति । ‘तत्’ च ‘पापवस्यसं’ पापं च वसीयश्च पापवस्यसम्, साध्वसाधुमिश्रणम् । तन्मूलत्वेनेदानीमपि जनैः ‘पापवस्यसं क्रियते’ । अत उक्तवैलक्षण्येनोपस्थानमन्त्रे विश्वास्त्वामित्यभिधानाद् विश्वाभिः ‘प्रजाभिः’ सोमोपावरोहणस्य कृतत्वात्, अवतरन्तं प्रति विश्वासां प्रजानां स्वस्वस्थानादवतरणस्योक्तत्वाद्वा नोक्तदोषावकाशः । पूर्वस्मिन्यथा ‘अवरोहन्तु’ अवरोहयन्त्वित्यर्थः । ‘तस्मात्’ त्वामवरोहन्त्विति विधानात् हेतोः ‘राजानं प्रति’ प्रजानामुपक्षीणत्वसम्पादनादिदानीमपि सम्पादयन्तमवरोहन्तं ‘क्षत्रियं’ सर्वाः ‘प्रजाः’ परिवाररूपाः 7 ‘अवरोहन्ति’ । यद्वा ‘आयन्तं’ ‘प्रति’ सर्वाः प्रजाः स्वस्थस्थानाद् ‘अवरोहन्ति,’ तदनन्तरं राजानमुपरि कृत्वा ‘अंधस्तात् उपासते’ प्रजाः । यद्वेदं पृथगेव वाक्यम्,- ‘तम्’ एव तीर्णम् ‘अधस्तात् उपासते’ ऋत्विजो ऽध्वर्युप्रमुखाः ॥ प्रातरनुवाकप्रयोगमाह- उपसन्नो होतेत्यादि । ‘होता’ ‘उपसन्नः’ स्वसूत्रोक्तप्रकारेण प्रातरनुवाकस्थाने उपविष्टः । अथ होतर्युपसन्ने सति स एव प्रातरनुवाकसम्प्रैषकाल इत्यर्थः ॥ ७ ॥

Eggeling
  1. Having quitted his hold (of Soma) he sits down by him, with, ‘May all thy people descend to thee.’ Now, in saying, ‘Descend unto all thy people,’ he does what is unseemly, for Soma being the nobility, he thereby, as it were, confounds good and bad 8,–and, indeed, in consequence thereof, people now confound good and bad. But in this (formula) he does what is right and according to order,–in saying, ‘May all thy people descend to thee,’ he makes all his subjects go down (on their knees) before him; and hence when a noble approaches, all these subjects, the people, go down before him, crouch down by him on the ground 9. Sitting near (Soma), the Hotr̥ is about to recite the morning-prayer.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ समि᳘धमभ्याद᳘धदाह॥
देवे᳘भ्यः प्रातर्य्या᳘वभ्यो᳘ ऽनुब्रूही᳘ति च्छ᳘न्दाᳫँ᳭सि वै᳘ देवाः᳘ प्रातर्या᳘वाणश्छ᳘न्दाᳫँ᳭स्यनुयाजा᳘ देवे᳘भ्यः प्रे᳘ष्य देवा᳘न्यजे᳘ति वा᳘ अनुयाजै᳘श्चरन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ समि᳘धमभ्याद᳘धदाह॥
देवे᳘भ्यः प्रातर्य्या᳘वभ्यो᳘ ऽनुब्रूही᳘ति च्छ᳘न्दाᳫँ᳭सि वै᳘ देवाः᳘ प्रातर्या᳘वाणश्छ᳘न्दाᳫँ᳭स्यनुयाजा᳘ देवे᳘भ्यः प्रे᳘ष्य देवा᳘न्यजे᳘ति वा᳘ अनुयाजै᳘श्चरन्ति॥

मूलम् - Weber

अ᳘थ समि᳘धमभ्याद᳘धदाह॥
देवे᳘भ्यः प्रातर्या᳘वभ्यो᳘ ऽनुब्रूही᳘ति छ᳘न्दांसि वै᳘ देवाः᳘ प्रातर्या᳘वाणश्छ᳘न्दांस्यनुयाजा᳘ देवे᳘भ्यः प्रे᳘ष्य देवा᳘न्यजे᳘ति वा᳘ अनुयाजै᳘श्चरन्ति॥

मूलम् - विस्वरम्

अथ समिधमभ्यादधदाह । देवेभ्यः प्रातर्य्यावभ्यो ऽनुब्रूहीति । छन्दांसि वै देवाः प्रातर्यावाणः छन्दांस्यनुयाजाः । देवेभ्यः प्रेष्य, देवान्यजेति वा अनुयाजैश्चरन्ति ॥ ८ ॥

सायणः

अथ समिधमभ्यादधदिति 10 । “देवेभ्यो ऽनुब्रूहि”- इत्येवालम्, किम् “प्रातर्यावभ्यः”- इति विशेषणेनेत्याशङ्क्य तदुपयोगं दर्शयति- छन्दांसि वै देवा इत्यादिना । प्रातःकाले यान्ति यज्ञं गच्छन्तीति ‘प्रातर्यावाणः’ । ते चानुयाजदेवाश्चोभये ऽपि ‘छन्दांसि’ एव, गायत्र्यादिच्छन्दोरूपाः । एवं च सति अनुयाजच्छन्दोदेवानां प्रैषानुवचनसमये “देवेभ्य प्रेष्य देवान् यज”- ‘इति’ सर्वत्र केवलदेवशब्देन व्यवहारादत्रापि तथैव प्रैषे सति, अत्रापि “छन्दोदेवान् यज”- इति प्रैषादनुयाजदेवताच्छन्दांस्यपि आगमिष्यन्तीति तद्व्यावर्त्तनाय “देवेभ्यः प्रातर्यावभ्यः"- इति विशेषणेन भवितव्यमित्यर्थः ॥ ८ ॥

Eggeling
  1. Then, while putting a kindling-stick (on the fire), he (the Adhvaryu) says, ‘Recite to the gods

the early-coming!’ Now the early-coming gods are the metres, as the after-offerings are the metres; and the after-offerings are performed with, ‘Prompt (the Hotr̥ to recite) to the gods! Recite (the offering-prayer) to the gods!’

०९

विश्वास-प्रस्तुतिः

त᳘दु है᳘क आहुः॥
(र्दे) देवेभ्यो᳘ ऽनुब्रूही᳘ति त᳘दु त᳘था न᳘ ब्रूयाच्छ᳘न्दाᳫँ᳭सि वै᳘ देवाः᳘ प्रातर्या᳘वाणश्छ᳘न्दाᳫँ᳭स्यनुयाजा᳘ देवे᳘भ्यः प्रे᳘ष्य देवा᳘न्यजे᳘ति वा᳘ अनुयाजै᳘श्चरन्ति त᳘स्मादु ब्रूयाद्देवे᳘भ्यः प्रातर्या᳘वभ्यो᳘ ऽनुब्रूही᳘त्येव[[!!]]॥

मूलम् - श्रीधरादि

त᳘दु है᳘क आहुः॥
(र्दे) देवेभ्यो᳘ ऽनुब्रूही᳘ति त᳘दु त᳘था न᳘ ब्रूयाच्छ᳘न्दाᳫँ᳭सि वै᳘ देवाः᳘ प्रातर्या᳘वाणश्छ᳘न्दाᳫँ᳭स्यनुयाजा᳘ देवे᳘भ्यः प्रे᳘ष्य देवा᳘न्यजे᳘ति वा᳘ अनुयाजै᳘श्चरन्ति त᳘स्मादु ब्रूयाद्देवे᳘भ्यः प्रातर्या᳘वभ्यो᳘ ऽनुब्रूही᳘त्येव[[!!]]॥

मूलम् - Weber

त᳘दु है᳘क आहुः॥
देवेभ्यो᳘ ऽनुब्रूही᳘ति त᳘दु त᳘था न᳘ ब्रूयाच्छ᳘न्दांसि वै᳘ देवाः᳘ प्रातर्या᳘वाणश्छ᳘न्दांस्यनुयाजा᳘ देवे᳘भ्यः प्रे᳘ष्य देवा᳘न्यजे᳘ति वा᳘ अनुयाजै᳘श्चरन्ति त᳘स्मादु ब्रूयाद्देवे᳘भ्यः प्रातर्या᳘वभ्यो᳘ ऽनुब्रूही᳘त्येव᳟॥

मूलम् - विस्वरम्

तदु हैक आहुः- देवेभ्यो ऽनुब्रूहीति । तदु तथा न ब्रूयात् । छन्दांसि वै देवाः प्रातर्यावाणः । छन्दांस्यनुयाजाः । देवेभ्यः प्रेष्य देवान्यजेति वा ऽअनुयाजैश्चरन्ति । तस्मादु ब्रूयाद्- देवेभ्यः प्रातर्यावभ्यो ऽनुब्रूहीत्येव ॥ ९ ॥

सायणः

तदु हैक आहुरिति । अत्र देवेभ्य इत्येवालं किं प्रातर्यावभ्य इति विशेषणेनेति ‘एके’ शाखिनो ब्रुवते । ‘तदु’ ‘तथा’ उक्तप्रकारेण ‘न ब्रूयात्’ । तेषां मतातिक्रमे उपपत्तिस्तु अनुयाजव्यावृत्तिसिद्धिरेवेत्याह- छन्दांसि वै देवा इत्यादि । अत्र सूत्रम्- “देवेभ्यः प्रातर्यावभ्यो ऽनुब्रूहीति समिधमादधात्, देवेभ्य इत्येके” (का. श्रौ. ९ ।१० । ११) इति ॥ ९ ॥

Eggeling
  1. And so some say, ‘Recite to the gods 11!’ But let him not say so; for the early-coming gods are the metres, as the after-offerings are the metres, and the after-offerings are performed with, ‘Prompt–to the gods! Recite (the offering-prayer) to the gods!’ therefore let him say, ‘Recite to the gods, the early-coming!’

१०

विश्वास-प्रस्तुतिः

(वा᳘) अ᳘थ य᳘त्समि᳘धमभ्याद᳘धाति॥
छ᳘न्दाᳫँ᳭स्येवैतत्स᳘मिन्धे᳘ ऽथ[[!!]] यद्धो᳘ता प्रातरनुवाक᳘मन्वा᳘ह च्छ᳘न्दाᳫँ᳭स्ये᳘वैतत्पु᳘नरा᳘प्याययत्य᳘यात᳘यामानि करोति यातयामानि[[!!]] वै᳘ देवैश्छ᳘न्दाᳫँ᳭सि च्छ᳘न्दोभिर्हि᳘ देवाः᳘ स्वर्गं᳘ लोक᳘ᳫँ᳘समा᳘श्नुवत न वा ऽअ᳘त्र स्तुव᳘ते न᳘ शᳫँ᳭सन्ति तच्छ᳘न्दाᳫँ᳭स्ये᳘वैतत्पु᳘नरा᳘प्याययत्य᳘यातयामानि करोति तैर᳘यातयामैर्यज्ञं᳘ त᳘न्वते तस्माद्धो᳘ता[[!!]] प्रातरनुवाकम᳘न्वा᳘ह॥

मूलम् - श्रीधरादि

(वा᳘) अ᳘थ य᳘त्समि᳘धमभ्याद᳘धाति॥
छ᳘न्दाᳫँ᳭स्येवैतत्स᳘मिन्धे᳘ ऽथ[[!!]] यद्धो᳘ता प्रातरनुवाक᳘मन्वा᳘ह च्छ᳘न्दाᳫँ᳭स्ये᳘वैतत्पु᳘नरा᳘प्याययत्य᳘यात᳘यामानि करोति यातयामानि[[!!]] वै᳘ देवैश्छ᳘न्दाᳫँ᳭सि च्छ᳘न्दोभिर्हि᳘ देवाः᳘ स्वर्गं᳘ लोक᳘ᳫँ᳘समा᳘श्नुवत न वा ऽअ᳘त्र स्तुव᳘ते न᳘ शᳫँ᳭सन्ति तच्छ᳘न्दाᳫँ᳭स्ये᳘वैतत्पु᳘नरा᳘प्याययत्य᳘यातयामानि करोति तैर᳘यातयामैर्यज्ञं᳘ त᳘न्वते तस्माद्धो᳘ता[[!!]] प्रातरनुवाकम᳘न्वा᳘ह॥

मूलम् - Weber

अ᳘थ य᳘त्समि᳘धमभ्याद᳘धाति॥
छ᳘न्दांस्येॗवैतत्स᳘मिन्द्धे᳘ ऽथ यद्धो᳘ता प्रातरनुवाक᳘मन्वा᳘ह छ᳘न्दांस्येॗवैतत्पु᳘नरा᳘प्याययत्य᳘यातयामानि करोति यात᳘यामानि वै᳘ देवैश्छ᳘न्दांसि छ᳘न्दोभिर्हि᳘ देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवत न वा अ᳘त्र स्तुव᳘ते न᳘ शंसन्ति तच्छ᳘न्दांस्येॗवैतत्पु᳘नरा᳘प्याययत्य᳘यातयामानि करोति तैर᳘यातयामैर्यज्ञं᳘ तन्वते त᳘स्माद्धो᳘ता प्रातरनुवाकम᳘न्वाह॥

मूलम् - विस्वरम्

अथ यत् समिधमभ्यादधाति । छन्दांस्येवैतत्समिन्धे । अथ यद् यद्धोता प्रातरनुवाकमन्वाह- छन्दांस्येवैतत्पुनराप्याययति । अयातयामानि करोति । यातयामानि वै देवैश्छन्दांसि । छन्दोभिर्हि देवाः स्वर्गं लोकं समाश्नुवत । न वा ऽअत्र स्तुवते, न शंसन्ति । तत् छन्दांस्येवैतत् पुनराप्याययति । अयातयामानि करोति । तैरयातयामैर्यज्ञं तन्वते । तस्माद्धोता प्रातरनुवाकमन्वाह ॥ १० ॥

सायणः

प्रातरनुवाकोपक्रमाङ्गभूतं समिदाधानं छन्दोदेवतासमिन्धनरूपत्वेन प्रशंसति- अथ यत्समिधमभ्यादधातीति । होतृकर्त्तव्यं प्रातरनुवाकानुवचनं छन्दसां पुनराप्यानरूपत्वेन प्रशंसति- अथ यद्धोता प्रातरनुवाक मन्वाहेति । तेनाप्यायनेन ‘छन्दांसि’ एव ‘अयातयामानि’ अगतसाराणि ‘करोति’ I उक्तस्याप्यायनस्य सार्थकत्वाय गतसारत्वप्रसक्तिं दर्शयति- यातयामानि वा इति । देवैः कृतानीति शेषः । छन्दोभिर्हि देवाः स्वर्गं लोकमिति । स्वर्गार्थमुपयुक्तत्वात् तेषां यातयामत्वप्राप्तिः तदेव यातयामत्वं प्रातरनुवाकस्य स्तुतशस्त्रत्वाभिधानेन समर्थयते- न वा अत्रेति । स्तौति शंसति वोभयोरभावात् अनुवचनाभिधानाच्च निगमयति- तस्माद्धोता प्रातरनुवाकमन्वाहेति (‘सुब्रह्मण्यां च प्रेष्यति’ का. श्रौ. सू. ९ । १२) ॥ १०॥

Eggeling
  1. And when he puts on a kindling-stick, it is the metres he thereby kindles. And when the Hotr̥ recites the morning-prayer 12, he thereby

again strengthens the metres, makes them to be of unimpaired vigour; for the metres had their vigour impaired by the gods, since it was through the metres that the gods reached the heavenly worlds; they neither sing praises (chants) nor recite (śastras) here. Hereby he now again strengthens the metres and makes them to be of unimpaired vigour; and by means of them, thus unimpaired in vigour, they

perform the sacrifice; this is why the Hotr̥ recites the morning-prayer.

११

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
कः᳘ प्रातरनुवाक᳘स्य प्रतिगर इ᳘ति जा᳘ग्रद्धै᳘वाध्वर्युरु᳘पासीत स य᳘न्निमिष᳘ति स᳘ है᳘वास्य प्रतिगरस्त᳘दु त᳘था न᳘ कुर्याद्यदि[[!!]] निद्रायाद᳘पि का᳘मᳫँ᳭स्वप्यात्स य᳘त्र हो᳘ता प्रातरनुवाकं᳘ परिद᳘धाति त᳘त्प्रचरणी᳘ति स्रु᳘ग्भवति त᳘स्यां चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ जुहोति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
कः᳘ प्रातरनुवाक᳘स्य प्रतिगर इ᳘ति जा᳘ग्रद्धै᳘वाध्वर्युरु᳘पासीत स य᳘न्निमिष᳘ति स᳘ है᳘वास्य प्रतिगरस्त᳘दु त᳘था न᳘ कुर्याद्यदि[[!!]] निद्रायाद᳘पि का᳘मᳫँ᳭स्वप्यात्स य᳘त्र हो᳘ता प्रातरनुवाकं᳘ परिद᳘धाति त᳘त्प्रचरणी᳘ति स्रु᳘ग्भवति त᳘स्यां चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ जुहोति॥

मूलम् - Weber

त᳘दाहुः॥
कः᳘ प्रातरनुवाक᳘स्य प्रतिगर इ᳘ति जा᳘ग्रद्धैॗवाध्वर्युरु᳘पासीत स य᳘न्निमिष᳘ति स᳘ हैॗवास्य प्रतिगरस्त᳘दु त᳘था न᳘ कुर्याद्य᳘दि निद्रायाद᳘पि का᳘मᳫं स्वप्यात्स य᳘त्र हो᳘ता प्रातरनुवाक᳘म् परिद᳘धाति त᳘त्प्रचरणी᳘ति स्रु᳘ग्भवति त᳘स्यां चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ जुहोति॥

मूलम् - विस्वरम्

तदाहुः कः प्रातरनुवाकस्य प्रतिगर इति । जाग्रद्धैवाध्वर्युरुपासीत । स यन्निमिषति- स हैवास्य प्रतिगरः । तदु तथा न कुर्याद् । यदि निद्रायात्- अपि कामं स्वप्यात् । स यत्र होता प्रातरनुवाकं परिदधाति- तत्प्रचरणीति स्रुग्भवति; तस्यां चतुर्गृहीतमाज्यं गृहीत्वा जुहोति ॥ ११ ॥

सायणः

प्रातरनुवाकस्य प्रतिगरविषये केषाञ्चिन्मतं प्राप्तिपूर्वकमुदाहृत्य निराचष्टे- तदाहुः कः प्रातरनुवाकस्येति । केचन महषयः एवं ब्रुवते,- होतुः प्रातरनुवाककाले अध्वर्युः विनिद्रः सनिमेषं करोति । सनिमेषव्यापार एव प्रतिगरणक्रियावत्वात्प्रतिगरस्थानीय इति । ‘तदु तथा न कुर्यात्’ निद्राभङ्गं निमेषं च न कुर्यादित्यर्थः । तर्हि किं कुर्यात् ? ‘यदि निद्रा आयात्’ निद्रामात्मन इच्छेत्, ‘अपि कामं’ ‘स्वप्यात्’ यथेच्छं स्वापं कुर्यात् । अत्र सूत्रम्- “प्रातरनुवाकं जाग्रदुपासीताध्वर्युः, स्वप्याद्वा”- (का. श्रौ. सू. ९ । १३ । १४) इति ॥

अत्र मध्ये- “अग्नीदैन्द्रमेकादशकपालम्” इत्यादि- (का.श्रौ. सू. ९ । १५) सूत्रोक्तः सवनीय निर्वाणः, ग्रहचमसंपात्राणामासादनप्रयोगश्च द्रष्टव्यः 13

एकधनाख्यानामुदकानामानयनार्थं यः प्रचरण्या होमो ऽस्ति, तं विधाय प्रशंसति- स यत्र होतेति । ‘यत्र’ यस्मिन् समये ‘स होता’ ‘तं प्रातरनुवाकं’ ‘परिदधाति’, परिधानीयाम् “अभूदुषा” (ऋ. सं. ५ । ७५ । ९ । कं.) इत्येतां ब्रूयात्, ‘तत्’ तदा ‘प्रचरणी’ । प्रचरन्त्यनया जुहूपभृतोर्व्यापारदशायामिति ‘प्रचरणी’ । सा ‘स्रुग् भवति’ । ‘तस्यां चतुर्गृहीतमाज्यं गृहीत्वा’ ‘जुहोति’ जुहुयात् । प्रातरनुवाकपरिधानप्रचरणीहोमयोरभिन्नकर्तृकत्वात् कालार्थसम्प्रयोगः ॥ ११ ॥

Eggeling
  1. Here now they say, ‘What is the (Adhvaryu’s) response to the morning-prayer 14?’ The Adhvaryu should wait through (the prayer) waking, and when he blinks, this is his response. But let him not do this; if he fall asleep (again) he may as well sleep. When the Hotr̥ brings his morning-prayer to a close 15,–there is an offering-spoon called Pracaraṇī,–having therein taken ghee in four ladlings, he (the Adhvaryu) offers it.

१२

विश्वास-प्रस्तुतिः

य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत᳘॥
त᳘स्य र᳘सो द्रु᳘त्वा ऽऽपः प्र᳘विवेश त᳘मदः᳘ पूर्व्वेद्यु᳘र्व्वसतीव᳘रीभिरा᳘हरत्य᳘थ यो᳘ ऽत्र यज्ञ᳘स्य र᳘सः प᳘रिशिष्टस्त᳘मे᳘वैतद᳘च्छैति॥

मूलम् - श्रीधरादि

य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत᳘॥
त᳘स्य र᳘सो द्रु᳘त्वा ऽऽपः प्र᳘विवेश त᳘मदः᳘ पूर्व्वेद्यु᳘र्व्वसतीव᳘रीभिरा᳘हरत्य᳘थ यो᳘ ऽत्र यज्ञ᳘स्य र᳘सः प᳘रिशिष्टस्त᳘मे᳘वैतद᳘च्छैति॥

मूलम् - Weber

य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽछिद्यत॥
त᳘स्य र᳘सो द्रुॗत्वापः प्र᳘विवेश त᳘मदः᳘ पूर्वेद्यु᳘र्वसतीव᳘रीभिरा᳘हरत्य᳘थ यो᳘ ऽत्र यज्ञ᳘स्य र᳘सः प᳘रिशिष्टस्त᳘मेॗवैतद᳘छैति॥

मूलम् - विस्वरम्

यत्र वै यज्ञस्य शिरो ऽच्छिद्यत । तस्य रसो द्रुत्वापः प्रविवेश- तमदः पूर्वेद्युर्वसतीवरीभिराहरति । अथ यो ऽत्र यज्ञस्य रसः परिशिष्टः तमेवैतदच्छैति ॥ १२ ॥

सायणः

होमं प्रशंसति- यत्र वै यज्ञस्येति । ‘द्रुत्वा’ गत्वा ‘रसः’ यज्ञरसः सः ‘अपः’ ‘प्रविवेश’ । यः प्रविष्टो यज्ञरसः ‘पूर्वेद्युः’ वसतीवर्यब्रूपेणावशिष्टो ऽस्ति, ‘तमेव’ रसम् ‘अच्छ’ अभिमुखीकृत्याभिगच्छति । पशुहोमाभावे यज्ञरसहरणार्थगमनासम्भवात् प्रचरण्याज्याहुतिहोम एव यज्ञरसाभिमुखगमनमित्यभिप्रायः ॥ १२ ॥

Eggeling
  1. For when the head of Yajña (the sacrifice) was struck off, his sap, running, entered the waters; that (sap) he fetched yesterday with the Vasatīvarī water; and he now goes for what sap of the sacrifice remains therein.

१३

विश्वास-प्रस्तुतिः

य᳘द्धै᳘वैतामा᳘हुतिं जुहो᳘ति॥
(त्ये) एत᳘मे᳘वैत᳘द्यज्ञ᳘स्य र᳘समभिप्र᳘स्तृणीते तमा᳘रुन्धे या᳘भ्य उ चै᳘वैतां᳘ देव᳘ताभ्य आ᳘हुतिं जुहो᳘ति ता᳘ ए᳘वैत᳘त्प्रीणाति ता᳘ अस्मै तृप्ताः᳘ प्रीता᳘ ऽएतं᳘ यज्ञ᳘स्य र᳘सᳫं᳭ स᳘न्नमन्ति॥शतम्॥१२००॥

मूलम् - श्रीधरादि

य᳘द्धै᳘वैतामा᳘हुतिं जुहो᳘ति॥
(त्ये) एत᳘मे᳘वैत᳘द्यज्ञ᳘स्य र᳘समभिप्र᳘स्तृणीते तमा᳘रुन्धे या᳘भ्य उ चै᳘वैतां᳘ देव᳘ताभ्य आ᳘हुतिं जुहो᳘ति ता᳘ ए᳘वैत᳘त्प्रीणाति ता᳘ अस्मै तृप्ताः᳘ प्रीता᳘ ऽएतं᳘ यज्ञ᳘स्य र᳘सᳫं᳭ स᳘न्नमन्ति॥शतम्॥१२००॥

मूलम् - Weber

य᳘द्धैॗवैतामा᳘हुतिं जुहो᳘ति॥
एत᳘मेॗवैत᳘द्यज्ञ᳘स्य र᳘समभिप्र᳘स्तृणीते तमा᳘रुन्द्धे या᳘भ्य उ चैॗवैतां᳘ देव᳘ताभ्य आ᳘हुतिं जुहो᳘ति ता᳘ एॗवैत᳘त्प्रीणाति ता᳘ अस्मै तृप्ताः᳘ प्रीता᳘ एतं᳘ यज्ञ᳘स्य र᳘सᳫं सं᳘नमन्ति॥

मूलम् - विस्वरम्

यद्धवैतामाहुतिं जुहोति- एतमेवैतद् यज्ञस्य रसमभिप्रस्तृणीते । तमारुन्धे । याभ्य उ चैवैतां देवताभ्य आहुतिं जुहोति- ता एवैतत्प्रीणाति । ता अस्यै तृप्ताः प्रीता एतं यज्ञस्य रसं सन्नमन्ति ॥ १३ ॥

सायणः

आहुतिप्रस्तरणात्मनापि प्रशंसति- यद्वैवैतामाहुतिं जुहोतीति । ‘यद्ध एव’ यद्धैव । ‘एतत्’ एतेन होमेन ‘एतमेव’ अवशिष्टमेव ‘यज्ञस्य रसम् अभिप्रस्तृणीते’ रसस्य स्तरणं कृतवान् भवति । तेन च ‘तमारुन्धे’ स्वाधीनं कृतवान् भवति । न केवलमेतावदेव, अपि च ‘याभ्यो देवताभ्यः’ अग्न्यादिभ्यः ‘एतामाहुतिं जुहोति’ ‘ता एव’ ‘एतत्’ एतेन होमेन ‘प्रीणाति’ । ताः ‘रसं’ ‘सन्नमन्ति’ प्रापयन्ति ॥ १३ ॥

Eggeling
  1. And when he offers that offering, he pours out (the ghee) towards that same sap of the sacrifice (in the water) and draws it to him. And, indeed, he pleases those deities to whom he offers that offering, and thus satisfied and pleased, they fit that sap of the sacrifice together 16 for him.

१४

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
शृणो᳘त्वग्निः᳘ समिधा[[!!]] ह᳘वं म ऽइ᳘ति शृणो᳘तु म ऽइद᳘मग्निर᳘नु मे जानात्वि᳘त्ये᳘वैत᳘दाह शृण्वन्त्वा᳘पो धिष᳘णाश्च देवीरि᳘ति शृण्व᳘न्तु म ऽइदमापो᳘ ऽनु मे जानन्त्वि᳘त्ये᳘वैत᳘दाह श्रो᳘ता ग्रावाणो व्विदु᳘षो न᳘ यज्ञमि᳘ति शृण्व᳘न्तु म ऽइदं ग्रा᳘वाणो᳘ ऽनु मे जानन्त्वि᳘त्ये᳘वैत᳘दाह व्विदु᳘षो न᳘ यज्ञमि᳘ति व्विद्वा᳘ᳫँ᳘सो हि ग्रा᳘वाणः शृणो᳘तु देवः᳘ सविता ह᳘वं मे स्वाहे᳘ति शृणो᳘तु म ऽइदं᳘ देवः᳘ सविता᳘नु मे जानात्वि᳘त्ये᳘वैत᳘दाह सविता वै᳘ देवा᳘नां प्रसविता त᳘त्सवितृ᳘प्रसूत ए᳘वैत᳘द्यज्ञ᳘स्य र᳘सम᳘च्छैति॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
शृणो᳘त्वग्निः᳘ समिधा[[!!]] ह᳘वं म ऽइ᳘ति शृणो᳘तु म ऽइद᳘मग्निर᳘नु मे जानात्वि᳘त्ये᳘वैत᳘दाह शृण्वन्त्वा᳘पो धिष᳘णाश्च देवीरि᳘ति शृण्व᳘न्तु म ऽइदमापो᳘ ऽनु मे जानन्त्वि᳘त्ये᳘वैत᳘दाह श्रो᳘ता ग्रावाणो व्विदु᳘षो न᳘ यज्ञमि᳘ति शृण्व᳘न्तु 17 म ऽइदं ग्रा᳘वाणो᳘ ऽनु मे जानन्त्वि᳘त्ये᳘वैत᳘दाह व्विदु᳘षो न᳘ यज्ञमि᳘ति व्विद्वा᳘ᳫँ᳘सो हि ग्रा᳘वाणः शृणो᳘तु देवः᳘ सविता ह᳘वं मे स्वाहे᳘ति शृणो᳘तु म ऽइदं᳘ देवः᳘ सविता᳘नु मे जानात्वि᳘त्ये᳘वैत᳘दाह सविता वै᳘ देवा᳘नां प्रसविता त᳘त्सवितृ᳘प्रसूत ए᳘वैत᳘द्यज्ञ᳘स्य र᳘सम᳘च्छैति॥

मूलम् - Weber

स᳘ जुहोति॥
शृणो᳘त्वग्निः᳘ समि᳘धा ह᳘वम् म इ᳘ति शृणो᳘तु म इद᳘मग्निर᳘नु मे जानात्वि᳘त्येॗवैत᳘दाह शृण्वन्त्वा᳘पो धिष᳘णाश्च देवीरि᳘ति शृण्व᳘न्तु म इदमापो᳘ ऽनु मे जानन्त्वि᳘त्येॗवैत᳘दाह श्रो᳘ता ग्रावाणो विदु᳘षो न᳘ यज्ञमि᳘ति शृण्व᳘न्तु म इदं ग्रा᳘वाणो᳘ ऽनु मे जानन्त्वि᳘त्येॗवैत᳘दाह विदु᳘षो न᳘ यज्ञमि᳘ति विद्वा᳘ᳫं᳘सो हि ग्रा᳘वाणः शृणो᳘तु देवः᳘ सविता ह᳘वम् मे स्वाहे᳘ति शृणो᳘तु म इदं᳘ देवः᳘ सविता᳘नु मे जानात्वि᳘त्येॗवैत᳘दाह सविता वै᳘ देवा᳘नाम् प्रसविता त᳘त्सवितृ᳘प्रसूत एॗवैत᳘द्यज्ञ᳘स्य र᳘सम᳘छैति॥

मूलम् - विस्वरम्

स जुहोति- “शृणोत्वग्निः समिधा हवं मे”- (वा. सं. ६ । २६) इति । शृणोतु म ऽइदमग्निः- अनु मे जानातु- इत्येवैतदाह- “शृण्वन्त्वापो धिषणाश्च’ देवीः” (वा. सं. ६ । २६) इति । शृण्वन्तु म ऽइदमापो- अनु मे जानन्तु- इत्येवैतदाह- “श्रोता ग्रावाणो विदुषो न यज्ञम्” (वा. सं. ६ । २६) इति । शृण्वन्तु म ऽइदं ग्रावाणो- अनु मे जानन्तु, इत्येवैतदाह- “विद्वेषो न यज्ञम्” इति । विद्वांसो हि ग्रावाणः- “शृणोतु देवः सविता हवं मे स्वाहा” (वा. सं. ६ । २६) इति । शृणोतु म ऽइदं देवः सविता- अनु मे जानातु- इत्येवैतदाह । सविता वै देवानां प्रसविता । । तत्- सवितृप्रसूत एवैतद् यज्ञस्य रसमच्छैति ॥ १४ ॥

सायणः

होममन्त्रं विच्छिद्यनूद्य व्याचष्टे- स जुहोति शृणोत्यग्निरित्यादिना । (का. श्रौ. सू. ९ । ३७)। ‘अग्निः’, ‘आपः’, ‘धिषणाः’ वाचः, ‘देवीः’ देव्यः, ‘विदुषो न ग्रावाणः’, ‘सविता’ च, मे ‘हवम्’ आह्वानं ‘यज्ञमिमं शृण्वन्तु’- इति संग्रहार्थः । अत्र सर्वत्र “शृणोतु” ‘शृण्वन्तु’- इति, “अनुजानातु” ‘अनुजानन्तु’- इति चार्थपरतया व्याख्यातम् । ‘श्रोता ग्रावाणः’- इत्यत्र “द्व्यचो ऽतस्तिङः”-(पा. सू. ६ । ३ । १३५) इति दीर्घः । ‘विदुषः,- इत्येतद् ग्रावविशेषणतया व्याचष्टे- विद्वांसो हि ग्रावाण इति । प्रथमाबहुवचने छान्दसं द्वितीयाबहुवचनम् । चरमपादे सवितृशब्दप्रयोगस्य तात्पर्यमाह- सविता वै देवानां प्रसवितेति ॥ १४ ॥

Eggeling
  1. He offers with, ‘May Agni, with his flame, hear my prayer;’ whereby he means to say, ‘May he hear this prayer of mine, may he vouchsafe it to me;’–‘May the waters and the Soma-bowls hear, the divine!’ whereby he means to say, ‘May the waters hear this (prayer) of mine, may they vouchsafe it to me.’–‘Hear me, ye stones,

as knowing the sacrifice!’ whereby he means to say, ‘May the (pressing) stones hear this (prayer) of mine, may they vouchsafe it to me;’ and ‘as knowing the sacrifice,’ he says, because the stones are indeed knowing 18. ‘May the divine Savitr̥ hear my prayer, Hail!’ whereby he means to say, ‘May the divine Savitr̥ hear this (prayer) of mine, may he vouchsafe it to me;’ for Savitr̥ is the impeller of the gods; impelled by him he goes for that sap of the sacrifice.

१५

विश्वास-प्रस्तुतिः

(त्य) अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृहीत्वा[[!!]]॥
(त्वो᳘) उ᳘दङ्प्रय᳘न्नाहाप᳘ ऽइष्य होतरि᳘त्यप᳘ इच्छ होतरि᳘त्ये᳘वैत᳘दाह तद्यद᳘तो हो᳘तान्वा᳘हैत᳘मे᳘वैत᳘द्यज्ञ᳘स्य र᳘समभिप्र᳘स्तृणीते तमा᳘रुन्ध ऽएता᳘नु चै᳘वैतद᳘नुतिष्ठते ने᳘देनानन्तरा᳘ नाष्ट्रा र᳘क्षाᳫँ᳭सि हिन᳘सन्निति[[!!]]॥

मूलम् - श्रीधरादि

(त्य) अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृहीत्वा[[!!]]॥
(त्वो᳘) उ᳘दङ्प्रय᳘न्नाहाप᳘ ऽइष्य होतरि᳘त्यप᳘ इच्छ होतरि᳘त्ये᳘वैत᳘दाह तद्यद᳘तो हो᳘तान्वा᳘हैत᳘मे᳘वैत᳘द्यज्ञ᳘स्य र᳘समभिप्र᳘स्तृणीते तमा᳘रुन्ध ऽएता᳘नु चै᳘वैतद᳘नुतिष्ठते ने᳘देनानन्तरा᳘ नाष्ट्रा र᳘क्षाᳫँ᳭सि हिन᳘सन्निति[[!!]]॥

मूलम् - Weber

अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳟॥
उ᳘दङ् प्रय᳘न्नाहाप᳘ इष्य होतरि᳘त्यप᳘ इछ होतरि᳘त्येॗवैत᳘दाह तद्यद᳘तो हो᳘तान्वा᳘हैत᳘मेॗवैत᳘द्यज्ञ᳘स्य र᳘समभिप्र᳘स्तृणीते तमा᳘रुन्द्ध एता᳘नु चैॗवैतद᳘नुतिष्ठते ने᳘देनानन्तरा᳘ 19 नाष्ट्रा र᳘क्षांसि हिन᳘सन्नि᳘ति॥

मूलम् - विस्वरम्

अथापरं चतुर्गृहीतमाज्यं गृहीत्वोदङ् प्रयन्नाह- अप इच्छ 17 होतरित्येवैतदाह । तद् यदतो होतान्वाह- एतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते । तमारुन्धे । एतानु चैवेतदनुतिष्ठते । नेदेनानन्तग नाष्ट्रा रक्षांसि हिनसन्निति ॥ १५ ॥

सायणः

अथापरं चतुर्गृहीतमिति 17 पूर्वमेकवारग्रहणस्योक्तत्वादपरमित्युक्तम् । चत्वारि गृहीतानि ग्रहणानि यस्याज्यस्य तच्चतुर्गृहीतम् । अप्सु होमार्थं गृहीत्वा उदङ्मुखं गच्छन् व्रजमानः प्रैषान् ब्रूयात् ॥

तत्र प्रथमप्रैषमुक्त्वा व्याचष्टे- अप 20 इष्य होतरिति- इत्यादि । हे ‘होतः !’ ‘अपः’ प्रति ‘इष्य’ इच्छ, अपः प्रतिगमनोचितं “प्रदेवत्रा” (ऋ. सं. १० । ३० सू.)- इति अपोनप्त्रीयमनुब्रूहीत्यर्थः 21 । (ऐ. ब्रा. २ । ३ । १) इष्यतेरिच्छतिरर्थ इति व्याचष्टे- अप इच्छ होतरित्येवैतदाहेति पदं व्यख्याय तात्पर्यमाचष्टे- तद्यदतो होतान्वाहेति । गतो ऽर्थः । एता उ चैवेतदाहेति । ‘उ’- शब्दो ऽप्यर्थे । अपि च ‘एताः’ एकधनाख्या अप उद्दिश्य ‘एतत्’ अनुतिष्ठते । एतदित्युक्तम्, किं तदित्याह- नेदेना इति । ‘एनाः’ अपः । ‘नाष्ट्रा’ नाशकानि ‘रक्षांसि’ ‘हिनसन्’ हिंस्युः । नेदिति परिभवे । “नेत्येषु इदित्येतेन सम्प्रयुज्यते परिभवे”- (निरु १ । ३ । ५) इति नैरुक्तम् । अतस्तासां हिंसा माभूदित्यर्थः ॥ १५ ॥

Eggeling
  1. Having then a second time taken ghee by four ladlings, he says, while going forth towards the north, ‘Summon the waters!’ whereby he means to say, ‘Desire the waters, O Hotar!’ The reason why the Hotr̥ then recites 22 is this: by that

(oblation) he (the Adhvaryu) pours out (the ghee) towards that sap of the sacrifice (in the water), and draws it to him; and he (the Hotr̥) then stands by those (Ekadhana pitchers) lest the evil spirits should injure them on the way.

१६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सम्प्रे᳘ष्यति॥
मै᳘त्रावरुणस्य चमसाध्वर्यवे᳘हि ने᳘ष्टः प᳘त्नीरुदा᳘नयै᳘कधनिन एता᳘ग्नीच्चा᳘त्वाले व्वसतीव᳘रीभिः प्रत्यु᳘पतिष्ठासै होतृचमसे᳘न चे᳘ति सम्प्रैष᳘ ए᳘वैषः[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सम्प्रे᳘ष्यति॥
मै᳘त्रावरुणस्य चमसाध्वर्यवे᳘हि ने᳘ष्टः प᳘त्नीरुदा᳘नयै᳘कधनिन एता᳘ग्नीच्चा᳘त्वाले व्वसतीव᳘रीभिः प्रत्यु᳘पतिष्ठासै होतृचमसे᳘न चे᳘ति सम्प्रैष᳘ ए᳘वैषः[[!!]]॥

मूलम् - Weber

अ᳘थ सम्प्रे᳘ष्यति॥
मै᳘त्रावरुणस्य चमसाध्वर्यवे᳘हि ने᳘ष्टः प᳘त्नीरुदा᳘नयैकधनिन एता᳘ग्नीच्चा᳘त्वाले वसतीव᳘रीभिः प्रत्यु᳘पतिष्ठासै होतृचमसे᳘न चे᳘ति सम्प्रैष᳘ एॗवैषः᳟॥

मूलम् - विस्वरम्

अथ सम्प्रेष्यति- मैत्रावरुणस्य चमसाध्वर्यो ! एहि । नेष्ठः ! पत्नीरुदानय । एकधनिनः ! एत । अग्नीत् ! चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै । होतृचमसेन चेति । सम्प्रैष एवैषः ॥ १६ ॥

सायणः

अन्यान् प्रैषान् दर्शयति- अथ सम्प्रेष्यतीति । मैत्रावरुणस्य चमसाध्वर्यवेहीति 23 । दश चमसाध्वर्यवः चमसप्रयोक्तारः, तेषु यो मैत्रावरुणस्य चमसाधर्युः, स सम्बोध्यते ।‘एहि’ उदकानयनार्थमागच्छेति ॥

नेष्टः पत्नीरुदानयेति । हे ‘नेष्टः !’ त्वं ‘पत्नीः’ पान्नेजनोदकाहरणार्थम् ‘उदानय’ एकधनिन एतेति । एकधना उदकानि, तेषां धारकाः कुम्भा वा; प्रत्यगेकधनानयुग्मानिच्छासादनाभिधानात्; तेषां ग्रहीतारः ‘एकधनिनः’ ‘एत’ आगच्छत ॥

अग्नीच्चात्वाल इति । हे ‘अग्नीत् !’ त्वं पूर्वेद्युर्गृहीताभिः वसतीवरीभिः ‘होतृचमसेन’ ‘च’ युक्तः सन्, चात्वालदेशे यावदागमनं ‘प्रति’ ‘उपतिष्ठसि’ उपतिष्ठेति निर्दिष्टः । एतेन मन्त्राश्चेद् व्याख्यातव्याः विधयश्चेत् स्तोतव्या इत्याशङ्क्याह- सम्प्रैष एवैष इति । ‘एषः’ “मैत्रावरुणस्य चमसाध्वर्यो’- इत्यादिकः कर्त्तव्यः ‘सम्प्रैष एव’ विस्मृतिपरिहारार्थं प्रेरणमित्यर्थः 20 ॥ १६ ॥

Eggeling
  1. He (the Adhvaryu) then gives directions, ‘Come hither, cup-bearer of the Maitrāvaruṇa! Neshṭar, lead up the wives! Ye bearers of the Ekadhana (cups), come hither! Agnīdh, step ever against the pit with the Vasatīvarī water and the Hotr̥’s cup!’ this is a composite direction.

१७

विश्वास-प्रस्तुतिः

(प त) त ऽउ᳘दञ्चो नि᳘ष्क्रामन्ति॥
जघ᳘नेन चा᳘त्वालमग्रेणा᳘ग्नीद्ध्रᳫँ᳭ स य᳘स्यां त᳘तो दिश्या᳘पो भ᳘वन्ति त᳘द्यन्ति ते वै᳘ सह प᳘त्नीभिर्यन्ति तद्य᳘त्सह प᳘त्नीभिर्य᳘न्ति॥

मूलम् - श्रीधरादि

(प त) त ऽउ᳘दञ्चो नि᳘ष्क्रामन्ति॥
जघ᳘नेन चा᳘त्वालमग्रेणा᳘ग्नीद्ध्रᳫँ᳭ स य᳘स्यां त᳘तो दिश्या᳘पो भ᳘वन्ति त᳘द्यन्ति ते वै᳘ सह प᳘त्नीभिर्यन्ति तद्य᳘त्सह प᳘त्नीभिर्य᳘न्ति॥

मूलम् - Weber

त उ᳘दञ्चो नि᳘ष्क्रामन्ति॥
जघ᳘नेन चा᳘त्वालमग्रेणा᳘ग्नीध्रᳫं स य᳘स्यां त᳘तो दिश्या᳘पो भ᳘वन्ति त᳘द्यन्ति ते वै᳘ सह प᳘त्नीभिर्यन्ति तद्य᳘त्सह प᳘त्नीभिर्य᳘न्ति॥

मूलम् - विस्वरम्

त उदञ्चो निष्क्रामन्ति- जघनेन चात्वालम्, अग्रेणाग्नीद्ध्रम् । स यस्यां ततो दिश्यापो भवन्ति- । तद्यन्ति । ते वै सह पत्नीभिर्यन्ति । तद् यत्सह पत्नीभिर्यन्ति ॥ १७ ॥

सायणः

तेषां जलानयनार्थं निर्गमनमार्गमाह- त उदञ्चो निष्क्रामन्तीति । अग्नीद्ध्रचात्वालयोरन्तरालदेशेन उदग्देशेन । तत्र नोपलभ्यन्ते कथमित्यत आह- स यस्यां ततो दिशीति । निर्गमने एव उदङ्नियमः । गमनसमये पत्नीसाहित्यं विधाय तदाख्यानमुखेन प्रशंसति- सहपत्नीभिर्यन्तीति ॥ १७ ॥

Eggeling
  1. They walk northwards out (of the sacrificial ground)–by the back of the pit and the front side of the Āgnīdhra; whereupon they proceed in the direction in which the water is. They go thither together with the wives. The reason why they go thither with the wives is this.

१८

विश्वास-प्रस्तुतिः

य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत᳘॥
त᳘स्य र᳘सो द्रु᳘त्वापः प्र᳘विवेश त᳘मेते᳘ गन्धर्व्वाः᳘ सोमरक्षा᳘ जुगुपुः॥

मूलम् - श्रीधरादि

य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत᳘॥
त᳘स्य र᳘सो द्रु᳘त्वापः प्र᳘विवेश त᳘मेते᳘ गन्धर्व्वाः᳘ सोमरक्षा᳘ जुगुपुः॥

मूलम् - Weber

य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽछिद्यत॥
त᳘स्य र᳘सो द्रुॗत्वापः प्र᳘विवेश त᳘मेते᳘ गन्धर्वाः᳘ सोमरक्षा᳘ जुगुपुः॥

मूलम् - विस्वरम्

यत्र वै यज्ञस्य शिरो ऽच्छिद्यत- तस्य रसो द्रुत्वापः प्रविवेश । तमेते गन्धर्वाः सोमरक्षा जुगुपुः ॥ १८ ॥

सायणः

यत्र वै यज्ञस्येत्यादि । पुरा किल देवैर्यज्ञशिरश्छेदाद्गतो रसः पलाय्य अप्सु निविष्टः, तं रसं गन्धर्वाः सोमपालकाः ररक्षुः ॥ १८ ॥

Eggeling
  1. When the head of the sacrifice was struck off, its sap, running, entered the waters; those Gandharva Soma-wardens watched it.

१९

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ ह देवा᳘ ऊचुः॥
(रि) इय᳘मु न्वे᳘वेह᳘ नाष्ट्रा य᳘दिमे᳘ गन्धर्व्वा᳘ क᳘थं न्विमम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘हरेमे᳘ति॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ ह देवा᳘ ऊचुः॥
(रि) इय᳘मु न्वे᳘वेह᳘ नाष्ट्रा य᳘दिमे᳘ गन्धर्व्वा᳘ क᳘थं न्विमम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘हरेमे᳘ति॥

मूलम् - Weber

ते᳘ ह देवा᳘ ऊचुः॥
इय᳘मु न्वेॗवेह᳘ नाष्ट्रा य᳘दिमे᳘ गन्धर्वाः᳘ कॗथं न्विमम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘हरेमे᳘ति॥

मूलम् - विस्वरम्

ते ह देवा ऊचुः- ‘इयमु न्वेवेह नाष्ट्रा- यदिमे गन्धर्वाः- कथं न्विममभये ऽनाष्ट्रे यज्ञस्य रसमाहरेम’ इति ॥ १९ ॥

सायणः

ते ह देवा इति । ‘ते देवा ऊचुः’- ‘इमे गन्धर्वाः’ एव ‘नाष्ट्राः’ नाशकरूपाः, ‘कथम्’ ‘अनाष्ट्रे’ नाशरहिते देशे ‘रस’ यज्ञरसम् ‘आहरेम’ ‘इति’ ॥ १९ ॥

Eggeling
  1. The gods then said, ‘Those Gandharvas, surely, are a great danger to us here, how can we carry off the sap of the sacrifice to a place free from danger and injury?’

२०

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र्यो) योषि᳘त्कामा वै᳘ गन्धर्वाः᳘ स᳘हैव प᳘त्नीभिरयाम ते प᳘त्नीष्वेव᳘ गन्धर्वा᳘ गर्द्धिष्यन्त्य᳘थैतम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘हरिष्याम इ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र्यो) योषि᳘त्कामा वै᳘ गन्धर्वाः᳘ स᳘हैव प᳘त्नीभिरयाम ते प᳘त्नीष्वेव᳘ गन्धर्वा᳘ गर्द्धिष्यन्त्य᳘थैतम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘हरिष्याम इ᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
योषि᳘त्कामा वै᳘ गन्धर्वाः᳘ सह प᳘त्नीभिरयाम ते प᳘त्नीष्वेव᳘ गन्धर्वा᳘ गर्धिष्यन्त्य᳘थैतम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘हरिष्याम इ᳘ति॥

मूलम् - विस्वरम्

ते होचुः । योषित्कामा वै गन्धर्वाः । सहैव पत्नीभिरयाम । ते पत्नीष्वेव गन्धर्वा गर्द्धिष्यन्ति । अथैतमभये ऽनाष्ट्रे यज्ञस्य रसमाहरिष्याम इति ॥ २० ॥

सायणः

एवं विचार्य- ते होचुर्योषित्कामा इति । गन्धर्वा योषित्प्रियाः, तद्वयं पत्नीभिः सहिता एव गच्छामः, ते च गन्धर्वाः पत्नीषु कांक्षन्ति, तस्मिन् समये वयमभये ऽनाष्ट्रे यज्ञस्य रसमाहरिष्याम इति ॥ २० ॥

Eggeling
  1. They said, ‘Well, the Gandharvas are fond of women; let us go together with the wives! The Gandharvas, surely, will hanker after the wives, and we shall carry off that sap of the sacrifice to a place free from danger and injury.’

२१

विश्वास-प्रस्तुतिः

ते᳘ सह प᳘त्नीभिरीयुः॥
(स्ते) ते प᳘त्नीष्वेव᳘ गन्धर्वा᳘ जगृधुर᳘थैतम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘जह्रुः॥

मूलम् - श्रीधरादि

ते᳘ सह प᳘त्नीभिरीयुः॥
(स्ते) ते प᳘त्नीष्वेव᳘ गन्धर्वा᳘ जगृधुर᳘थैतम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘जह्रुः॥

मूलम् - Weber

ते᳘ सह प᳘त्नीभिरीयुः॥
ते प᳘त्नीष्वेव᳘ गन्धर्वा᳘ जगृधुर᳘थैतम᳘भये नाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘जह्रुः॥

मूलम् - विस्वरम्

ते सह पत्नीभिरीयुः । ते पत्नीष्वेव गन्धर्वा जगृधुः । अथैतमभये ऽनाष्ट्रे यज्ञस्य रसमाजह्रुः ॥ २१ ॥

सायणः

ते सह पत्नीभिरीयुरिति । ताभिः सह गताः ते च तथैव तास्वाकांक्षां कृतवन्तः । तस्मिन् समये देवाः यज्ञरसम् ‘आजह्रुः’ ॥ २१ ॥

Eggeling
  1. They went with the wives; the Gandharvas did indeed hanker after the wives, and they (the

gods) carried off that sap of the sacrifice to a place free from danger and injury.

२२

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘थो ऽए᳘वैष᳘ एत᳘त्॥
(त्स᳘) स᳘हैव प᳘त्नीभिरेति ते प᳘त्नीष्वेव᳘ गन्धर्वा᳘ गृ᳘द्ध्यन्त्य᳘थैतम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘हरति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘थो ऽए᳘वैष᳘ एत᳘त्॥
(त्स᳘) स᳘हैव प᳘त्नीभिरेति ते प᳘त्नीष्वेव᳘ गन्धर्वा᳘ गृ᳘द्ध्यन्त्य᳘थैतम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘हरति॥

मूलम् - Weber

त᳘थो एॗवैष᳘ एत᳘त्॥
मॗहैव प᳘त्नीभिरेति ते प᳘त्नीष्वेव᳘ गन्धर्वा᳘ गृ᳘ध्यन्त्य᳘थैतम᳘भये ऽनाष्ट्रे᳘ यज्ञ᳘स्य र᳘समा᳘हरति॥

मूलम् - विस्वरम्

तथो ऽएवैष एतत् सहैव पत्नीभिरेति । ते पत्नीष्वेव गन्धर्वा गृह्णन्ति । अथैतमभये ऽनाष्ट्रे यज्ञस्य रसमाहरन्ति ॥ २२ ॥

सायणः

तथो एवैष एतदिति । यथा पुरा, इदानीमपि तथैव । तदेतेन पत्नीभिः सह गमनेन एते गन्धर्वाः पत्नीषु कांक्षां कुर्वन्तो भवन्ति, तथा अबाधितस्थले रसमाहृतवान् भवति ॥ २२ ॥

Eggeling
  1. And so does that (Adhvaryu) now go (to the water) with the wives; the Gandharvas hanker after the wives, and he carries off that sap of the sacrifice to a place free from danger and injury.

२३

विश्वास-प्रस्तुतिः

सो᳘ ऽपो ऽभि᳘जुहोति॥
(त्ये) एता᳘ᳫं᳭ ह वा ऽआ᳘हुतिᳫं᳭ हुता᳘मेष᳘ यज्ञ᳘स्य र᳘स ऽउपसमै᳘ति तां᳘ प्रत्यु᳘त्तिष्ठति त᳘मे᳘वैत᳘दाविष्कृ᳘त्य गृह्णाति॥

मूलम् - श्रीधरादि

सो᳘ ऽपो ऽभि᳘जुहोति॥
(त्ये) एता᳘ᳫं᳭ ह वा ऽआ᳘हुतिᳫं᳭ हुता᳘मेष᳘ यज्ञ᳘स्य र᳘स ऽउपसमै᳘ति तां᳘ प्रत्यु᳘त्तिष्ठति त᳘मे᳘वैत᳘दाविष्कृ᳘त्य गृह्णाति॥

मूलम् - Weber

सोॗ ऽपो ऽभि᳘जुहोति॥
एता᳘ᳫं᳘ ह वा आ᳘हुतिᳫं हृता᳘मेष᳘ यज्ञ᳘स्य र᳘स उपसमे᳘ति ता᳘म् प्रत्यु᳘त्तिष्ठति त᳘मेॗवैतदाविष्कृ᳘त्य गृह्णाति॥

मूलम् - विस्वरम्

सो ऽपो ऽभिजुहोति । एतां ह वा ऽआहुतिं हुतामेष यज्ञस्य रस उपसमैति । तां प्रत्युत्तिष्ठति । तमेवैतदाविष्कृत्य गृह्णाति ॥ २३ ॥

सायणः

प्रचरणीगृहीतस्याज्यस्याप्सु होमं विधाय प्रशंसति- सो ऽपो ऽभिजुहोतीति 24 । ‘हुतामाहुतिम्’ अनुसृत्य ‘एषः’ अनुप्रविष्टः ‘यज्ञस्य रसः’ ‘उपसमेति’ अभिमुखं सम्प्राप्नोति । एतस्यैव व्याख्यानम्- तां प्रत्युत्तिष्ठतीति । ‘तमेव’ रसम् ‘एतत्’ एतेन होमेन ‘आविष्कृत्य’ उदकेष्वनुप्रविष्टं प्रादुर्भाव्य गृहीतवान् भवति ॥ २३ ॥

Eggeling
  1. He offers (the ghee) upon the water; for that sap of the sacrifice, indeed, draws near to that oblation, when offered; it rises (to the surface) to meet it; and having thus brought it to light, he seizes it.

२४

विश्वास-प्रस्तुतिः

य᳘द्धै᳘वैतामा᳘हुतिं जुहो᳘ति॥
(त्ये) एत᳘मे᳘वैत᳘द्यज्ञ᳘स्य र᳘समभिप्र᳘स्तृणीते तमा᳘रुन्धे त᳘मपो᳘ याचति या᳘भ्य उ चै᳘वैतां᳘ देव᳘ताभ्य आ᳘हुतिं जुहो᳘ति ता᳘ ए᳘वैत᳘त्प्रीणाति ता᳘ अस्मै तृप्ताः᳘ प्रीता᳘ ऽएतं᳘ यज्ञ᳘स्य र᳘सᳫं᳭ स᳘न्नमन्ति॥

मूलम् - श्रीधरादि

य᳘द्धै᳘वैतामा᳘हुतिं जुहो᳘ति॥
(त्ये) एत᳘मे᳘वैत᳘द्यज्ञ᳘स्य र᳘समभिप्र᳘स्तृणीते तमा᳘रुन्धे त᳘मपो᳘ याचति या᳘भ्य उ चै᳘वैतां᳘ देव᳘ताभ्य आ᳘हुतिं जुहो᳘ति ता᳘ ए᳘वैत᳘त्प्रीणाति ता᳘ अस्मै तृप्ताः᳘ प्रीता᳘ ऽएतं᳘ यज्ञ᳘स्य र᳘सᳫं᳭ स᳘न्नमन्ति॥

मूलम् - Weber

य᳘द्वेॗवैतामा᳘हुतिं जुहो᳘ति॥
एत᳘मेॗवैत᳘द्यज्ञ᳘स्य र᳘समभिप्र᳘स्तृणीते तमा᳘रुन्द्धे त᳘मपो᳘ याचति या᳘भ्य उ चैॗवैतां᳘ देव᳘ताभ्य आ᳘हुतिं जुहो᳘ति ता᳘ एॗवैत᳘त्प्रीणाति ता᳘ अस्मै तृप्ताः᳘ प्रीता᳘ एतं᳘ यज्ञ᳘स्य र᳘सᳫं सं᳘नमन्ति॥

मूलम् - विस्वरम्

यद्धैवैतामाहुतिं जुहोति । एतमेवैतद् यज्ञस्य रसमभिप्रस्तृणीते तमारुन्धे । तमपो याचति । याभ्य उ चैवैतां देवताभ्य आहुतिं जुहोति- ता एवैतत्प्रीणाति । ता अस्मै तृप्ताः प्रीता एतं यज्ञस्य रसं सन्नमन्ति ॥ २४ ॥

सायणः

प्रकारांतरेणापि प्रशंसति- यद्धेवैतामाहुतिं जुहोतीति । न केवलं रसार्थं प्रस्तरणं किन्तु तं प्रवर्द्धन्तं रसमारुद्धवान् भवति । किञ्च ‘तम्’ अपेक्षितं यज्ञरसम् ‘अपः’ उदकानि ‘याचति’ ‘उ’ अपि च ‘याभ्यः देवताभ्यः एताम् आहुतिं जुहोति’, ‘ता एव’ ‘एतत्’ एतेन ‘प्रीणाति’ । ‘तृप्ताः’ ‘प्रीताः’ च ‘ताः’ ‘अस्मै’ यजमानाय ‘एतं यज्ञस्य रसं’ ‘सन्नमन्ति’ सन्नमयन्ति, यजमानाधीनं कुर्वन्ति ॥ २४ ॥

Eggeling
  1. And again why he offers this oblation: he thereby pours out (ghee) towards that sap of the sacrifice, and draws it to him, and craves it of the waters. And, indeed, he pleases those deities to whom he offers that oblation, and thus satisfied and pleased they fit that sap of the sacrifice together for him.

२५

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
दे᳘वीरापो ऽअपान्नपादि᳘ति दे᳘व्यो ह्या᳘पस्त᳘स्मादाह दे᳘वीरापो ऽअपान्नपादि᳘ति यो᳘ व ऊर्म्मिर्हवि᳘ष्य[[!!]] इ᳘ति यो᳘ व ऊर्मि᳘र्यज्ञि᳘य इ᳘त्ये᳘वैत᳘दा᳘हेन्द्रिया᳘वान्मदि᳘न्तम इ᳘ति व्वीर्य᳘वानि᳘त्ये᳘वैत᳘दाह यदा᳘हेन्द्रिया᳘वानि᳘ति मदि᳘न्तम इ᳘ति स्वा᳘दिष्ठ इ᳘त्ये᳘वैत᳘दाह तं᳘ देवे᳘भ्यो देवत्रा᳘ दत्ते᳘त्येत᳘देना अयाचिष्ट यदा᳘ह तं᳘ देवे᳘भ्यो देवत्रा᳘ दत्ते᳘ति शुक्रपे᳘भ्य इ᳘ति सत्यं वै᳘ शुक्र᳘ᳫं᳘ सत्यपे᳘भ्य इ᳘त्ये᳘वैत᳘दाह ये᳘षां भागः स्थ स्वाहे᳘ति ते᳘षामु [[!!]] ह्येष᳘ भागः [[!!]]॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
दे᳘वीरापो ऽअपान्नपादि᳘ति दे᳘व्यो ह्या᳘पस्त᳘स्मादाह दे᳘वीरापो ऽअपान्नपादि᳘ति यो᳘ व ऊर्म्मिर्हवि᳘ष्य[[!!]] इ᳘ति यो᳘ व ऊर्मि᳘र्यज्ञि᳘य इ᳘त्ये᳘वैत᳘दा᳘हेन्द्रिया᳘वान्मदि᳘न्तम इ᳘ति व्वीर्य᳘वानि᳘त्ये᳘वैत᳘दाह यदा᳘हेन्द्रिया᳘वानि᳘ति मदि᳘न्तम इ᳘ति स्वा᳘दिष्ठ इ᳘त्ये᳘वैत᳘दाह तं᳘ देवे᳘भ्यो देवत्रा᳘ दत्ते᳘त्येत᳘देना अयाचिष्ट यदा᳘ह तं᳘ देवे᳘भ्यो देवत्रा᳘ दत्ते᳘ति शुक्रपे᳘भ्य इ᳘ति सत्यं वै᳘ शुक्र᳘ᳫं᳘ सत्यपे᳘भ्य इ᳘त्ये᳘वैत᳘दाह ये᳘षां भागः स्थ स्वाहे᳘ति ते᳘षामु [[!!]] ह्येष᳘ भागः [[!!]]॥

मूलम् - Weber

स᳘ जुहोति॥
दे᳘वीरापो अपांनपादि᳘ति देॗव्यो ह्या᳘पस्त᳘स्मादाह दे᳘वीरापो अपांनपादि᳘ति यो᳘ व ऊर्मि᳘र्हविष्य᳘ इ᳘ति यो᳘ व ऊर्मि᳘र्यज्ञि᳘य इत्येॗवैत᳘दाहेन्द्रिया᳘वान्मदि᳘न्तम इ᳘ति वीर्य᳘वानि᳘त्येॗवैत᳘दाह यदा᳘हेन्द्रिया᳘वानि᳘ति मदि᳘न्तम इ᳘ति स्वा᳘दिष्ठ इ᳘त्येॗवैत᳘दाह तं᳘ देवे᳘भ्यो देवत्रा᳘ दत्ते᳘त्येत᳘देना अयाचिष्ट यदा᳘ह तं᳘ देवे᳘भ्यो देवत्रा᳘ दत्ते᳘ति शुक्रपे᳘भ्य इ᳘ति सत्यं वै᳘ शुक्र᳘ᳫं᳘ सत्यपे᳘भ्य इ᳘त्येॗवैत᳘दाह ये᳘षाम् भाग स्थ स्वाहे᳘ति ते᳘षामुॗ ह्येष᳘ भागः᳟॥

मूलम् - विस्वरम्

स जुहोति । “देवीरापो ऽअपान्नपाद्”- (वा. सं. ६ । २७) इति । देव्यो ह्यापः । तस्मादाह- देवीरापो ऽअपान्नपादिति- “यो व ऊर्म्मिर्हविष्यः”- (वा. सं. ६ । २७) इति । यो व ऊर्मिर्यज्ञिय इत्येवैतदाह- “इन्द्रियावान्मदिन्तमः”- (वा. सं. ६ । २७) इति । वीर्यवानित्येवैतदाह- यदाहेन्द्रियावानिति । मदिन्तम इति । स्वादिष्ठ इत्येवैतदाह- “तं देवेभ्यो देवत्रा दत्त”- (वा. सं. ६ । २७) इति । एतदेना अयाचिष्ट- यदा- तं देवभ्यो देवत्रा दत्तेति । “शुक्रपेभ्यः”- (वा. सं. ६ । २७) इति । सत्यं वै शुक्रम् । सत्यपेभ्य इत्येवैतदाह- “येषां भागस्थ स्वाहा”- (वा. सं. ६ । २७) इति । तेषामु ह्येष भागः ॥ २५ ॥

सायणः

मन्त्रं विधाय विच्छिद्य व्याचष्टे- स जुहोतीति । देवीराप इति । हविष्य इति पदं व्याचष्टे- यो व ऊर्म्मिर्हविष्य इति, यो व ऊर्म्मिर्यज्ञिय इत्येवैतदाहेति । हविश्शब्देन तत्साध्यो यज्ञो लभ्यते, द्रव्यदेवतयोर्हि दीप्तं यज्ञस्वरूपत्वात्। इन्द्रियशब्दस्य वीर्यमर्थ इति व्याचष्टे- इन्द्रियावान् मन्दिन्तम इति वीर्यवानित्येवैतदाहेति । स्पष्टमेतत् । तत्रैव वाक्ये मदिन्तमशब्दस्यार्थमाह- मदिन्तम इति, स्वादिष्ठ इत्येवैतदाहेति । यत् स्वदन्तमुन्मादयतीति व्याप्तिदर्शनात् । “तं देवेभ्यः”- इति भागस्य प्रार्थनायां तात्पर्यमिति व्याचष्टे- ‘एतत्’ एतेन ‘अयाचिष्ट’ ‘यदाह तं देवेभ्यो देवत्रा दत्तेति’ । “लोट् च”- (पा. सू. ३ । ३ । १६२) इति लोटो विध्याद्यर्थेषु मध्ये प्रार्थनायाः सम्भवात् ‘एतत्’ एतेन मन्त्रभागेन ‘एनाः’ अपः ‘अयाचिष्ट’ देवतार्थं याचितवान् भवति । “देवेभ्यः”- इत्यस्य यत् “शुक्रपेभ्यः”- इति विशेषणम् । तस्य तात्पर्यमाह- सत्यं वै शुक्रम्, सत्यपेभ्य इत्येवैतदाहेति । शुक्रं दीप्तं रसाख्यं वस्तु, तत् सत्यम् । सोमद्वारेण सत्यस्यामृतत्वधर्मस्य साधनत्वात् सत्यमित्युच्यते । तादृशस्य पातृभ्य इत्येतदेवैतत् शुक्रपेभ्य इति वाक्यमाहेत्यर्थः । “येषां भागः स्थ स्वाहा”- इति चरमभागस्य तात्पर्यमाह- तेषामु ह्येष भाग इति । ‘एषः’ अपां शुक्ररसरूपो भागः, ‘तेषामु’ तेषां शुक्रपानां देवानां ‘भागः’ प्रतिनियतांशः खलु, अतो येषामिति मन्त्रे निर्द्दिष्ट इत्यभिप्रायः । मन्त्रस्यायमर्थः- हे ‘देवीः’ देव्यः ! ‘आपः’ ! हे ‘अपान्नपात् !’ न पातयति तत् (निरु. १० । २ । ५) ‘यः’ अयं ‘वः’ युष्माकं सम्बन्धी ‘ऊर्म्मिः’ प्रवृद्धः ‘हविष्यः’ रसः, ‘इन्द्रियावान्’ “मन्त्रे सोमाश्वेन्द्रिय-” इत्यादिना (पा. सू. ६ । ३ । १३१) दीर्घः, इन्द्रियावान्, ‘मदिन्तमः’ मादयितृतमः, ‘तं’ रसं ‘देवत्रा’ “देवमनुष्ये०” (पा. सू. ५। ६ । १६) इत्यादिना- सप्तम्यर्थे त्रा-प्रत्ययः । देवेषु मध्ये ‘शुक्रपेभ्यो देवेभ्यः’ ‘दत्त’ प्रयच्छत । हे आपः ! यूयं ‘येषां’ देवानां ‘भागः’ ‘स्थ’ भवथ, तदर्थं ‘स्वाहा’ इदं द्रव्यं स्वाहुतमस्त्विति ॥ २५ ॥

Eggeling
  1. He offers with (Vāj. S. VI, 27), ‘Ye divine waters,–the son of waters;’ the waters are indeed divine, hence he says, ‘Ye divine waters,–the son of waters;’ ‘That wave of yours, suitable for offering;’ whereby he means to say, ‘That wave of yours which is suitable for the sacrifice;’ ‘Mighty, most grateful;’ by ‘mighty’ he means to say ‘powerful,’ and by ‘most grateful’ he means to say ‘most sweet;’ ‘Give ye that unto those gods among the gods,’ in saying this he has craved it of them; ‘The drinkers of the pure (Soma);’ the pure, doubtless, is the truth; in saying, ’the drinkers (pa) of the pure,’ he means to say, ’the defenders (pa) of the truth;’ ‘Whose portion ye are, Hail!’ for this indeed is their portion.

२६

विश्वास-प्रस्तुतिः

(गो᳘ ऽथ) अ᳘थ मैत्रावरुणचमसे᳘नैतामा᳘हुतिम᳘पप्लावयति॥
का᳘र्षिरसी᳘ति य᳘था वा ऽअ᳘ङ्गारो ऽग्नि᳘ना प्सातः स्या᳘देव᳘मेषा᳘हुतिरेत᳘या देव᳘तया प्साता᳘ भवति रा᳘जानं वा᳘ ऽएता᳘भिरद्भि᳘रुपस्रक्ष्य᳘न्भवति या᳘ एता᳘ मैत्रावरुणचमसे व्व᳘ज्रो वा ऽआ᳘ज्यᳫं᳭ रे᳘तः सो᳘मो नेद्व᳘ज्रेणा᳘ज्येन रे᳘तः सो᳘मᳫं᳭ हिन᳘सानी᳘ति त᳘स्माद्वा ऽअ᳘पप्लावयति॥

मूलम् - श्रीधरादि

(गो᳘ ऽथ) अ᳘थ मैत्रावरुणचमसे᳘नैतामा᳘हुतिम᳘पप्लावयति॥
का᳘र्षिरसी᳘ति य᳘था वा ऽअ᳘ङ्गारो ऽग्नि᳘ना प्सातः स्या᳘देव᳘मेषा᳘हुतिरेत᳘या देव᳘तया प्साता᳘ भवति रा᳘जानं वा᳘ ऽएता᳘भिरद्भि᳘रुपस्रक्ष्य᳘न्भवति या᳘ एता᳘ मैत्रावरुणचमसे व्व᳘ज्रो वा ऽआ᳘ज्यᳫं᳭ रे᳘तः सो᳘मो नेद्व᳘ज्रेणा᳘ज्येन रे᳘तः सो᳘मᳫं᳭ हिन᳘सानी᳘ति त᳘स्माद्वा ऽअ᳘पप्लावयति॥

मूलम् - Weber

अ᳘थ मैत्रावरुणचमसे᳘नैतामा᳘हुतिम᳘पप्लावयति॥
का᳘र्षिरसी᳘ति य᳘था वा अ᳘ङ्गारो ऽग्नि᳘ना प्सातः स्या᳘देव᳘मेषा᳘हुतिरेत᳘या देव᳘तया प्साता᳘ भवति रा᳘जानं वा᳘ एता᳘भिरद्भि᳘रुपस्रक्ष्य᳘न्भवति या᳘ एता᳘ मैत्रावरुणचमसे व᳘ज्रो वा आ᳘ज्यं रे᳘तः सो᳘मो नेद्व᳘ज्रेणा᳘ज्येन रे᳘तः सो᳘मᳫं हिन᳘सानी᳘ति त᳘स्माद्वा अ᳘पप्लावयति॥

मूलम् - विस्वरम्

अथ मैत्रावरुणचमसेनैतामाहुतिमपप्लावयति । “कार्षिरसि”- (वा. सं. ६ । २८) इति । यथा वा ऽअङ्गारो ऽग्निना प्सातः स्याद्- एवमेषाहुतिरेतया देवतया प्साता भवति । राजानं वा ऽएताभिरद्भिरुपस्रक्ष्यन् भवति- या एता मैत्रावरुणचमसे । वज्रो वा ऽआज्यम् । रेतः सोमः । नेद्वज्रेणाज्येन रेतः सोमं हिनसानीति । तस्माद्वा ऽअपप्लावयति ॥ २६ ॥

सायणः

हुताया आहुत्या अपसारणं समन्त्रकं विधत्ते- अथ मैत्रावरुणचमसेनेति 25 । तत्र मन्त्रः-“कार्षिरसीति” । हे हुताज्यपदार्थ ! त्वं ‘कार्षिः’ कृषेर्देवतायाः, कर्षणस्य भक्षणस्य वा सम्बन्धी ‘असि’ । अतस्त्वां ‘समुद्रस्य’ समुन्दनरूपस्योदकस्य ‘अक्षित्यै’ अक्षीणतायै ‘त्वा’ त्वाम् ‘अपनयामि’ अपसारयामि । उक्तस्यापसारणस्य प्रयोजकं सातत्वमाह- यथा वा अङ्गारो ऽग्निना प्सातः स्यादिति । ‘प्सातः’ भक्षितः; ‘अग्निना’ भक्षितः ‘अङ्गारः’ ‘यथा’ करीषभावेन त्याज्यो भवति, ‘एवम्’ ‘एषा आहुतिः’ ‘एतया’ अब्देवतया ‘प्साता भत्रति’ । सोमहिंसापरिहारत्वेनापि परित्यक्तव्यमित्याह- राजानं वा एताभिरिति । ‘मैत्रावरुणचमसेः’ ‘याः’ ‘एताः’ इदानीं गृह्यमाणा आपः सन्ति, ‘एताभिः’ अद्भिः ‘उपस्रक्ष्यन्’ अभिषवकाले सोमस्य संसर्गं करिष्यन् ‘भवति’ अत एव “आधवनीये समवनयति”- (श. प. ब्रा. ३ । ९ । ३ । ३०) इति वक्ष्यते; आधवनीये संस्पृष्टस्योदकस्य सोमरसेन संसृज्यमानत्वात् । “वज्रो वा आज्यम्”- इत्यादि, प्रागसकृद् व्याख्यातम्, (श. प. ब्रा. १ । ५ । ३ । ४) “घृतं खलु वै देवा वज्रं कृत्वा” (तै. सं. ६ । ३ । ७ । ५ । ६) इत्यादिप्रदर्शनेन ॥ २६ ॥

Eggeling
  1. Thereupon he makes that oblation (ghee) float away by means of the Maitrāvaruṇa’s cup, with (Vāj. S. VI, 28), ‘Thou art furrowing!’ Even

as a coal is consumed by Fire, so is that oblation consumed by that deity. Now that water, which is in the Maitrāvaruṇa’s cup, he will have to pour on the king (Soma); and ghee being a thunderbolt, and Soma seed, he makes (the ghee) float away lest he should injure that seed, Soma, by that thunderbolt, the ghee.

२७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ गृह्णाति॥
समुद्र᳘स्य त्वा᳘क्षित्या ऽउ᳘न्नयामीत्या᳘पो वै᳘ समु᳘द्रो᳘ ऽप्स्वे᳘वैतद᳘क्षितिं[[!!]] दधाति त᳘स्मादा᳘प ऽएता᳘वति भो᳘गे भुज्य᳘माने न᳘ क्षीयन्ते तदन्वे᳘कधनानुन्न᳘यन्ति[[!!]] तद᳘नु पान्ने᳘जनान्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ गृह्णाति॥
समुद्र᳘स्य त्वा᳘क्षित्या ऽउ᳘न्नयामीत्या᳘पो वै᳘ समु᳘द्रो᳘ ऽप्स्वे᳘वैतद᳘क्षितिं[[!!]] दधाति त᳘स्मादा᳘प ऽएता᳘वति भो᳘गे भुज्य᳘माने न᳘ क्षीयन्ते तदन्वे᳘कधनानुन्न᳘यन्ति[[!!]] तद᳘नु पान्ने᳘जनान्॥

मूलम् - Weber

अ᳘थ गृह्णाति॥
समुद्र᳘स्य त्वा᳘क्षित्या उ᳘न्नयामीत्या᳘पो वै᳘ समुॗद्रोॗ ऽप्स्वेवैत᳘द᳘क्षितिं दधाति त᳘स्मादा᳘प एता᳘वति भो᳘गे भुज्य᳘माने न᳘ क्षीयन्ते तदन्वे᳘कधनानु᳘न्नयन्ति तद᳘नु पान्ने᳘जनान्॥

मूलम् - विस्वरम्

अथ गृह्णाति । “समुद्रस्य त्वाक्षित्या ऽउन्नयामि”- (वा. सं. ६ । २८) इति । आपो वै समुद्रः । अप्स्वेवैतदक्षितिं दधाति । तस्मादाप ऽएतावति भोगे भुज्यमाने न क्षीयन्ते । तदन्वेकधनानुन्नयन्ति । तदनु पान्नेजनान् ॥ २७ ॥

सायणः

समन्त्रकं मैत्रावरुणचमसेनोन्नयनं विधत्ते- अथ गृह्णाति समुद्रस्य त्वेति । यद्यप्यत्र मैत्रावरुणचमसेनेति न श्रुतम्, तथापि “समुद्रस्य त्वेति तेन गृह्णाति”- (का. श्रौ. सू. ९ । ४२) । इति सूत्राद् गम्यते । अपां सङ्घातात्मकत्वात् समुद्रस्य “आपो वै समुद्रः”- इत्येकदेशस्य कृत्स्नात्मना स्तुतिः । ‘एतत्’ एतेन “समुद्रस्य त्वाक्षित्यै”- इति पाठेन ‘अप्सु एव’ ‘अक्षितिम्’ अक्षयमक्षीणत्वं ‘दधाति’ स्थापितवान् भवति । ‘तस्मात्’ “अक्षित्यैः"- इत्युक्तत्वात् ‘एतावति भोगे भुज्यमाने’ स्थावरजङ्गमात्मकजगत्पर्याप्ते ऽपि भोगे सर्वैर्भुज्यमाने ऽपि ‘न क्षीयन्ते’ क्षयं न प्राप्नुवन्ति, अजस्रं प्रवहन्त्येव । तदन्वित्यादि । होतृचमसोन्नयनानन्तरमेकधनानां पान्नेजनानां चानुक्रमेणोन्नयनम् 26 एकधनाः सोमरसाभिवृद्ध्यर्था उदकविशेषाः पाच्छब्देनोरुप्रदेशो लक्ष्यते पत्न्या ऊरुक्षालनसाधनोदकविशेषाः पान्नेजनाः । ताः पत्न्यो गृह्णीयुः । तथाच सूत्रम् । “पान्नेजनाँश्च पत्न्यो” इति (का. श्रौ. सू. ९ । ४४) ॥ २७ ॥

Eggeling
  1. He then takes (water) with, ‘I draw thee up for the imperishableness of the ocean;’ for the ocean is water; he thus confers imperishableness upon the waters; wherefore, in spite of so much food (and drink) being consumed, the waters are not diminished. Thereupon they draw (water in) the Ekadhana pitchers, and thereupon the vessels for washing the feet 27.

२८

विश्वास-प्रस्तुतिः

(नांस्त) तद्य᳘न्मैत्रावरुणचमसे᳘न गृह्णा᳘ति॥
य᳘त्र वै᳘ देवे᳘भ्यो य᳘ज्ञो ऽपा᳘क्रामत्तमेत᳘द्देवाः᳘[[!!]] प्रैषै᳘रेव प्रै᳘षमै᳘च्छन्पुरोरु᳘ग्भिः प्रा᳘रोचयन्निवि᳘द्भि᳘र्न्यवेदयंस्त᳘स्मान्मैत्रावरुणचमसे᳘न[[!!]] गृह्णाति॥

मूलम् - श्रीधरादि

(नांस्त) तद्य᳘न्मैत्रावरुणचमसे᳘न गृह्णा᳘ति॥
य᳘त्र वै᳘ देवे᳘भ्यो य᳘ज्ञो ऽपा᳘क्रामत्तमेत᳘द्देवाः᳘[[!!]] प्रैषै᳘रेव प्रै᳘षमै᳘च्छन्पुरोरु᳘ग्भिः प्रा᳘रोचयन्निवि᳘द्भि᳘र्न्यवेदयंस्त᳘स्मान्मैत्रावरुणचमसे᳘न[[!!]] गृह्णाति॥

मूलम् - Weber

तद्य᳘न्मैत्रावरुणचमसे᳘न गृह्णा᳘ति॥
य᳘त्र वै᳘ देवे᳘भ्यो यॗज्ञो ऽपा᳘क्रामत्त᳘मेत᳘द्देवाः᳘ प्रैषै᳘रेव प्रै᳘षमै᳘छन्पुरोरु᳘ग्भिः प्रा᳘रोचयन्निवि᳘द्भिर्न्य᳘वेदयंस्त᳘स्मान्मैत्रावरुणचमसे᳘न गृह्णाति॥

मूलम् - विस्वरम्

तद्यन्मैत्रावरुणचमसेन गृह्णाति । यत्र वै देवेभ्यो यज्ञो ऽपाक्रामत्- तमेतद्देवाः प्रैषैरेव प्रैषमैच्छन्, पुरोरुग्भिः प्रारोचयन्, निविद्भिर्न्यवेदयन् । तस्मान्मैत्रावरुणचमसेन गृह्णाति ॥ २८ ॥

सायणः

सत्स्वितरेषां चमसेषु किं मैत्रावरुणचमसेनेत्यत आह- तद्यन्मैत्रावरुणचमसेनेति । यस्माद् देवेभ्यो ऽपक्रान्तं यज्ञम्, एतेन मैत्रावरुणाख्येनर्त्विजा ‘प्रैषैः’ तत्कृतिगमनसाधनैः आह्वानवाक्यैः ‘प्रैषं’ यज्ञस्य गमनम्, ‘ऐच्छन्’ ‘निविद्भिः’ निवेदनसाधनैः “अग्निर्देवेद्धः”- (ऐ. ब्रा. २ । ५ । २ ।) इत्यादिभिर्वाक्यैः ‘न्यवेदयन्’ परस्परं निवेदितवन्तः ‘पुरोरुग्भिः’ ‘पुरः’ याज्यानुवाक्याभ्यां पुरस्तात् ‘रुचिम्’ इच्छां जनयन्ति देवताया इति पुरोरुचो “वायुरग्रेगाः" (ऐ. ब्रा. ३ । १ । ९)- इत्याद्याः, ताभिः ‘प्रारोचयन्’ प्ररोचनामजनयन् । अतो मैत्रावरुणस्य प्रैषादिसाधनत्वात् तदीयश्चमसः प्रशस्त इत्यर्थः । तस्मान्मैत्रावरुणचमसेन गृह्णातीति ॥ २८ ॥

Eggeling
  1. The reason why he takes (water) with the Maitrāvaruṇa’s cup is this. When the sacrifice escaped from the gods, the gods endeavoured to call it up by means of (sacrificial) calls (praisha) 28; by means of the puroruc (‘shining before’) formulas 29 they pleased it (pra-rocaya), and by the nivids they made (their wishes) known (ni-vid) to it. Therefore he takes (water) with the Maitrāvaruṇa’s cup.

२९

विश्वास-प्रस्तुतिः

त ऽआ᳘यन्ति॥
प्रत्यु᳘पतिष्ठते ऽग्नीच्चा᳘त्वाले व्वसतीव᳘रीभिश्च होतृचमसे᳘न च स᳘ उप᳘र्युपरि चा᳘त्वालᳫँ᳭स᳘ᳫं᳘स्पर्शयति व्वसतीव᳘रीश्च मैत्रावरुणचमसं᳘ च समा᳘पो ऽअद्भि᳘रग्मत समो᳘षधीभिरो᳘षधीरि᳘ति य᳘श्चासौ पूर्व्वेद्युराहृतो᳘ यज्ञ᳘स्य र᳘सो य᳘श्चाद्याहृतस्त᳘मे᳘वैत᳘दुभ᳘यᳫँ᳭स᳘ᳫँ᳘सृजति॥

मूलम् - श्रीधरादि

त ऽआ᳘यन्ति॥
प्रत्यु᳘पतिष्ठते ऽग्नीच्चा᳘त्वाले व्वसतीव᳘रीभिश्च होतृचमसे᳘न च स᳘ उप᳘र्युपरि चा᳘त्वालᳫँ᳭स᳘ᳫं᳘स्पर्शयति व्वसतीव᳘रीश्च मैत्रावरुणचमसं᳘ च समा᳘पो ऽअद्भि᳘रग्मत समो᳘षधीभिरो᳘षधीरि᳘ति य᳘श्चासौ पूर्व्वेद्युराहृतो᳘ यज्ञ᳘स्य र᳘सो य᳘श्चाद्याहृतस्त᳘मे᳘वैत᳘दुभ᳘यᳫँ᳭स᳘ᳫँ᳘सृजति॥

मूलम् - Weber

त आ᳘यन्ति॥
प्रत्यु᳘पतिष्ठते ऽग्नीच्चा᳘त्वाले वसतीव᳘रीभिश्च होतृचमसे᳘न च स᳘ उप᳘र्युपरि चा᳘त्वालᳫं स᳘ᳫं᳘स्पर्शयति वसतीव᳘रीश्च मैत्रावरुणचमसं᳘ च समा᳘पो अद्भि᳘रग्मत समो᳘षधीभिरो᳘षधीरि᳘ति य᳘श्चासौ पूर्वेद्युराहृतो᳘ यज्ञ᳘स्य र᳘सो य᳘श्चाद्याहृतस्त᳘मेॗवैत᳘दुभ᳘यᳫं स᳘ᳫं᳘सृजति॥

मूलम् - विस्वरम्

त ऽआयन्ति । प्रत्युपतिष्ठते अग्नीच्चात्वाले वसतीवरीभिश्च होतृचमसेन च स उपर्युपरि चात्वालं संस्पर्शयति- वसतीवरीश्च, मैत्रावरुणचमसं च । “समापो ऽअद्भिरग्मतसमोषधीभिरोषधीः” “-(वा. सं. ६ । २८) इति । यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो, यश्चाद्याहृत- स्तमेवैतदुभयं संसृजति ॥ २९ ॥

सायणः

अप्सम्भरणानन्तरमनुष्ठेयं विधत्ते- त आयन्तीति । पुनर्देवयजनं प्रति आगच्छेयुः । ‘अग्नीत्’ च निर्गमनकाले सम्प्रेषितप्रकारेण ‘चात्वाले’ ‘वसतीवरीभिः’ अद्धि ‘होतृचमसेन च’ युक्तः सन् प्रत्युपस्थानं कुर्यात् । यदुक्तं सूत्रकृता- “प्रत्येत्य चात्वालस्योपरि मैत्रावरुणचमसं वसतीवरीश्च संस्पर्शयति समाप इति, इतरस्मिन् व्यानयन्त्येके, मैत्रावरुणचमसे प्रथमम् (का. श्रौ. सू. ९ । ४५-४६) इति । तदिदं सर्वं विधत्ते- स उपर्युपरि चात्वालं संस्पर्शयति, वसतीवरीश्च मैत्रावरुणचमसञ्चेति । स्पष्टम् । तत्र मन्त्रमाह- समापो अद्भिरिति । ‘आपः’ मैत्रावरुणचमसगताः, ‘अद्भिः’ होतृचमसस्थाभिर्वसतीवरीभिः ‘समग्मत’ सङ्गता अभवन् । तथा ‘ओषधीः’ ओषध्य, वर्द्धनीयाः व्राह्यादिरूपाः, ‘ओषधीभिः’ व्रीह्यादिरूपाभिः ‘समग्मत’ । यद्वा, उभयत्र ओषधिशब्देन प्रकृता मैत्रावरुणहोतृचमसगता आपो विवक्ष्यन्ते- यश्चासौ पूर्वेद्युरित्यादि स्पष्टम् ॥ २९ ॥

Eggeling
  1. They come back. The Agnīdh takes up his position opposite to the pit with the Vasatīvarī water and the Hotr̥’s cup. Close over the pit he

(the Adhvaryu) makes the Vasatīvarī water and the Maitrāvaruṇa’s cup touch one another, with, ‘Water hath united with water, plants with plants!’ the sap of the sacrifice which was fetched yesterday and that fetched to-day, both kinds he thereby mixes together.

३०

विश्वास-प्रस्तुतिः

तद्धैके᳘[[!!]]॥
(क ऽ) ऐव᳘ मैत्रावरुणचमसे᳘ व्वसतीव᳘रीर्न᳘यन्त्या᳘ मैत्रावरुणचमसा᳘द्वसतीव᳘रीषु य᳘श्चासौ᳘ पूर्व्वेद्युराहृतो᳘ यज्ञ᳘स्य र᳘सो य᳘श्चाद्याहृतस्त᳘मे᳘वैत᳘दुभ᳘यᳫँ᳭ स᳘ᳫँ᳘सृजाम इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद्यद्वा᳘ ऽआधवनी᳘ये समवन᳘यति त᳘दे᳘वैष᳘ उभ᳘यो यज्ञ᳘स्य र᳘सः स᳘ᳫं᳘सृज्यते᳘ ऽथ होतृचमसे᳘ व्वसतीव᳘रीर्गृह्णाति निग्रा᳘भ्याभ्यस्तद्य᳘दुप᳘र्युपरि चा᳘त्वालᳫँ᳭सᳫंस्पर्श᳘यत्य᳘तो वै᳘ देवा दि᳘वमुपो᳘दक्रामंस्तद्यजमानमे᳘वैत᳘त्स्व᳘र्ग्यं[[!!]] प᳘न्थानमनुस᳘ङ्ख्यापयति॥

मूलम् - श्रीधरादि

तद्धैके᳘[[!!]]॥
(क ऽ) ऐव᳘ मैत्रावरुणचमसे᳘ व्वसतीव᳘रीर्न᳘यन्त्या᳘ मैत्रावरुणचमसा᳘द्वसतीव᳘रीषु य᳘श्चासौ᳘ पूर्व्वेद्युराहृतो᳘ यज्ञ᳘स्य र᳘सो य᳘श्चाद्याहृतस्त᳘मे᳘वैत᳘दुभ᳘यᳫँ᳭ स᳘ᳫँ᳘सृजाम इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद्यद्वा᳘ ऽआधवनी᳘ये समवन᳘यति त᳘दे᳘वैष᳘ उभ᳘यो यज्ञ᳘स्य र᳘सः स᳘ᳫं᳘सृज्यते᳘ ऽथ होतृचमसे᳘ व्वसतीव᳘रीर्गृह्णाति निग्रा᳘भ्याभ्यस्तद्य᳘दुप᳘र्युपरि चा᳘त्वालᳫँ᳭सᳫंस्पर्श᳘यत्य᳘तो वै᳘ देवा दि᳘वमुपो᳘दक्रामंस्तद्यजमानमे᳘वैत᳘त्स्व᳘र्ग्यं[[!!]] प᳘न्थानमनुस᳘ङ्ख्यापयति॥

मूलम् - Weber

तद्धै᳘के᳟᳟॥
एव᳘ मैत्रावरुणचमसे᳘ वसतीव᳘रीर्न᳘यन्त्या᳘ मैत्रावरुणचमसा᳘द्वसतीव᳘रीषु य᳘श्चासौ᳘ पूर्वेद्युराहृतो᳘ यज्ञ᳘स्य र᳘सो य᳘श्चाद्याहृतस्त᳘मेॗवैत᳘दुभ᳘यᳫं स᳘ᳫं᳘सृजाम इ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद्यद्वा᳘ आधवनी᳘ये समवन᳘यति त᳘देॗवैष᳘ उभ᳘यो यज्ञ᳘स्य र᳘सः स᳘ᳫं᳘सृज्यते᳘ ऽथ होतृचमसे᳘ वसतीव᳘रीर्गृह्णाति निग्राॗभ्याभ्यस्तद्य᳘दुप᳘र्युपरि चा᳘त्वालᳫं संस्पर्श᳘यत्य᳘तो वै᳘ देवा दि᳘वमुपो᳘दक्रामंस्तद्य᳘जमानमेॗवैत᳘त्स्वर्ग्य᳘म् 30 प᳘न्थानमनुसं᳘ख्यापयति॥

मूलम् - विस्वरम्

तद्धैके- आ एव मैत्रावरुणचमसे वसतीवरीर्नयन्ति । आ मैत्रावरुणचमसाद् वसतीवरीषु । यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो, यश्चाद्याहृतः- तमेवैतदुभयं संसृजाम- इति वदन्तः । तदु तथा न कुर्याद् । यद्वा ऽआधवनीये समवनयति- तदेवैष उभयो यज्ञस्य रसः सं सृज्यते । अथ होतृचमसे वसतीवरीगृह्णाति- निग्राभ्याभ्यः । तद् यदुपर्युपरि चात्वालं संस्पर्शयति । अतो वै देवा दिवमुपोदक्रामन् । तद् यजमानमेवैतत् स्वर्ग्यं पन्थानमनु सङ्ख्यापयति ॥ ३० ॥

सायणः

अथ 31 केषाञ्चित्साक्षादुदकसंसर्जनपक्षमुदाहृत्य तदभिप्रायमप्याविष्कृत्य तस्यान्यथासिद्धित्वप्रदर्शनेन निराचष्टे- तद्धैक इति । ‘ऐव 32 नयन्ति’- इति सम्बन्धः, आनयन्त्येवेत्यर्थः । ‘आ मैत्रावरुणचमसाद् वसतीवरीषु’ उपसर्गवशान्नयन्तीत्यनुषज्यते । एवं कुर्वतां पूर्वेद्युराहृतस्य यज्ञरसस्य, अद्याहृतस्य च संसर्ग एवोपेक्षितः स उपरिष्टात् आधवनीये समवनयनाद् भविष्यति, अतः ‘तत् तथा न कुर्यात्’ इत्यर्थः । यदुक्तम्- “होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छति निग्राभ्याः” (का. श्रौ. सू. ९ । ४७) इति, तदेतदाह- अथ होतृचमस इति । अग्नीद्ध्रहस्तस्थं होतृचमसमध्वर्युरादाय पूर्वेद्युराहृता ‘वसतीवरीः’ अध्वर्युः ‘गृह्णाति’ । कस्मै उपयोगाय ? ‘निग्राभ्याभ्यः’ होतृचमसे निगृह्यमाणत्वात् “निग्राभ्या”- इति सञ्ज्ञा; निग्राभ्यासु च्यावयति, निग्राभ्यासु संसिञ्चति, इत्येवमर्थाय । पूर्वं यदुक्तम्- “यश्चासौ पूर्वेद्युरित्यादिना वसतीवरीमैत्रावरुणचमसयोः संसर्गार्थवाद उक्तः । इदानीं तस्य संसर्गस्य चात्वालोपरिभावित्त्वम्, तत् प्रशंसति- तद्यदुपर्युपरि चात्वालमिति । ‘अतः’ अस्माच्चात्वालोपरिप्रदेशात् ‘देवा दिवमुपोदक्रामन्’ ‘तत्’ तस्मात् कारणात् ‘एतत्’ एतेन चात्वालोपरि संस्पर्शेन ‘यजमानम्’ अयं स्वर्गस्य पन्था इति ‘पन्थानम्’ ‘अनुसङ्ख्यापयति’ अनुक्रमेण सङ्ख्यापयति सम्यक् प्रख्यापयतीति प्रकाशयतीति यावत् ॥ ३० ॥

Eggeling
  1. Now some indeed pour (some of) the Vasatīvarī water into the Maitrāvaruṇa’s cup, and from the Maitrāvaruṇa’s cup (back) to the Vasatīvarī water, arguing, ‘Thereby we mix together both the sap of the sacrifice which was fetched yesterday and that fetched to-day.’ But let him not do this; for when he pours (the water) together into the Ādhavanīya trough 33, then both kinds of sap are mixed together. Thereupon he pours the Vasatīvarī water into the Hotr̥’s cup for the Nigrābhyās 34. And as to why he makes them touch one another close over the pit, it was from thence, forsooth, that the gods rose to heaven; he thus makes the sacrificer look along the road to heaven.

३१

विश्वास-प्रस्तुतिः

त आ᳘यन्ति॥
तᳫं᳭ हो᳘ता पृच्छत्य᳘ध्वर्यो᳘ ऽवेरपा ३ ऽइत्य᳘विदो ऽपा ३ ऽइ᳘त्ये᳘वैत᳘दाह तं प्र᳘त्याहो᳘तेव नन्नमुरित्य᳘विदम᳘थो मे ऽनᳫं᳭सते᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

त आ᳘यन्ति॥
तᳫं᳭ हो᳘ता पृच्छत्य᳘ध्वर्यो᳘ ऽवेरपा ३ ऽइत्य᳘विदो ऽपा ३ ऽइ᳘त्ये᳘वैत᳘दाह तं प्र᳘त्याहो᳘तेव नन्नमुरित्य᳘विदम᳘थो मे ऽनᳫं᳭सते᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

त आ᳘यन्ति॥
तᳫं हो᳘ता पृछत्य᳘ध्वर्यो᳘ ऽवेरपा इत्य᳘विदो ऽपा इ᳘त्येॗवैत᳘दाह तम् प्र᳘त्याहोॗतेव नंनमुरित्य᳘विदम᳘थो मे ऽनंसते᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

त आयन्ति । तं होता पृच्छति- “अध्वर्यो ऽवेरपा३ऽ” इति । “अविदो ऽपां ३ऽ” इत्येवैतदाह । तं प्रत्याह- “उतेव नन्नमुः” इति । अविदम् । अथो मे ऽनंसत इत्येवैतदाह ॥ ३१ ॥

सायणः

त आयन्तीति । अथाध्वर्युमुद्दिश्याब्विषयं होतुः प्रश्नमवतारयति- तं होता पृच्छत्यध्वर्यो ऽवेरपा ३ 35 इति । ‘तम्’ अध्वर्युं होता ‘पृच्छति’, हे ‘अध्वर्यो !’ ‘अपः’ उदकानि ‘अवेः’ लब्धवानसि । “प्लुतिः प्रश्नार्थे” (पा. सू. ८ । २ । १००) । “अवेः”- इत्यस्य ‘अविदः’ इत्यर्थ इति व्याचष्टे- अविदो ऽपा ३ इत्येवैतदाहेति । अथाध्वर्योर्होतारं प्रति प्रतिवचनमाह- तं प्रत्याहोतेव नन्नमुरितीति (का. श्रौ. सू. ९ । ४८) वयमिदानीं न केवलमपो लब्धार एव, अपि च ‘नन्नमुः’ अत्यर्थमानता अभवन् । प्रतिवचनस्य तात्पर्यमाह- अविदमथो मे ऽनंसतेत्येवैतदाहेति । ‘अविदम्’ अपो लब्धवानस्मि ‘अथो’ अपि च मे आपः ‘अनंसत’ आनता आगता अभूवन् ‘इत्येव’ ‘एतत्’ उत्तररूपं वाक्यम् ‘आह’ ॥ ३१ ॥

Eggeling
  1. They return (to the Havirdhāna). The Hotr̥ asks him, ‘Adhvaryu, hast thou gained the waters?’ whereby he means to say, ‘Hast thou obtained the waters?’ He replies to him, ‘Yea, they have yielded themselves!’ whereby he means to say, ‘I have obtained them and they have yielded to me.’

३२

विश्वास-प्रस्तुतिः

स य᳘द्यग्निष्टोमः स्यात्[[!!]]॥
(द्य᳘) य᳘दि प्रचरण्या᳘ᳫं᳘ सᳫँ᳭स्रवः प᳘रिशिष्टो᳘ ऽलᳫं᳭ हो᳘माय स्यात्तं᳘ जुहुयाद्य᳘द्यु ना᳘लᳫं᳭ हो᳘माय स्याद᳘परं चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ जुहोति य᳘मग्ने पृत्सु म᳘र्त्यम᳘वा व्वा᳘जेषु यं᳘ जुनाः॥ स य᳘न्ता श᳘श्वतीरि᳘षः स्वाहे᳘त्याग्नेय्या᳘ जुहोत्यग्निर्व्वा᳘ ऽअग्निष्टोमस्त᳘दग्ना᳘वग्निष्टोमं प्र᳘तिष्ठापयति म᳘र्त्तवत्या पु᳘रुषसम्मितो वा᳘ ऽअग्निष्टोम᳘ ऽएवं᳘ जुहुयाद्य᳘द्यग्निष्टोमः स्यात्॥

मूलम् - श्रीधरादि

स य᳘द्यग्निष्टोमः स्यात्[[!!]]॥
(द्य᳘) य᳘दि प्रचरण्या᳘ᳫं᳘ सᳫँ᳭स्रवः प᳘रिशिष्टो᳘ ऽलᳫं᳭ हो᳘माय स्यात्तं᳘ जुहुयाद्य᳘द्यु ना᳘लᳫं᳭ हो᳘माय स्याद᳘परं चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ जुहोति य᳘मग्ने पृत्सु म᳘र्त्यम᳘वा व्वा᳘जेषु यं᳘ जुनाः॥ स य᳘न्ता श᳘श्वतीरि᳘षः स्वाहे᳘त्याग्नेय्या᳘ जुहोत्यग्निर्व्वा᳘ ऽअग्निष्टोमस्त᳘दग्ना᳘वग्निष्टोमं प्र᳘तिष्ठापयति म᳘र्त्तवत्या पु᳘रुषसम्मितो वा᳘ ऽअग्निष्टोम᳘ ऽएवं᳘ जुहुयाद्य᳘द्यग्निष्टोमः स्यात्॥

मूलम् - Weber

स य᳘द्यग्निष्टोमः स्या᳘त्॥
य᳘दि प्रचरण्या᳘ᳫं᳘ संस्रवः प᳘रिशिष्टो᳘ ऽलᳫं हो᳘माय स्यात्तं᳘ जुहुयाद्य᳘द्यु ना᳘लᳫं हो᳘माय स्याद᳘परं चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ जुहोति य᳘मग्ने पृत्सु म᳘र्त्यम᳘वा वा᳘जेषु यं᳘ जुनाः स य᳘न्ता श᳘श्वतीरि᳘षः स्वाहे᳘त्याग्नेय्या᳘ जुहोत्यग्निर्वा᳘ अग्निष्टोमस्त᳘दग्ना᳘वग्निष्टोमम् प्र᳘तिष्ठापयति म᳘र्तवत्या पु᳘रुषसम्मितो वा᳘ अग्निष्टोम᳘ एवं᳘ जुहुयाद्य᳘द्यग्निष्टोमः स्यात्॥

मूलम् - विस्वरम्

स यद्यग्निष्टोमः स्यात्- यदि प्रचरण्यां संस्रवः परिशिष्टो ऽलं होमाय स्यात्- तं जुहुयात् । यद्यु नालं होमाय स्यात्- अपरं चतुर्गृहीतमाज्यं गृहीत्वा जुहोति- “यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः स यन्ता शाश्वतीरिषः स्वाहा”- (वा. सं. ६ । २९) इत्याग्नेय्या जुहोति । अग्निर्वा ऽअग्निष्टोमः । तद् अग्नावग्निष्टोमं प्रतिष्ठापयति । मर्तवत्या । पुरुषसम्मितो वा ऽअग्निष्टोमः । एवं जुहुयाद्- यद्यग्निष्टोमः स्यात् ॥ ३२ ॥

सायणः

यदुक्तं सूत्रकृता- “प्रचरणीसंस्रवमग्निष्टोमे जुहोत्यभावे चतुर्गृहीतं यमग्न इति । उक्थे प्रथमं परिधिमालभते, प्रविशत्येवान्यत्र”- (का. श्रौ. सू. ९ । ४९, ५०, ५१) इति, तदेतत् क्रमेण दर्शयन्नादावग्निष्टोममाह- स यद्यग्निष्टोमः स्यादिति । ‘सः’ वर्तमानः क्रतुरग्निष्टोमसंस्थश्चेत् ‘प्रचरण्यां’ यः ‘संस्रवः’ अवशिष्टः ‘होमाय’ ‘अलम्’ पर्याप्तः ‘स्यात्,’ तदा ‘तम्’ एव जुहुयात् नो चेत् पुनश्च ‘चतुर्गृहीतमाज्यं’ ‘गृहीत्वा’ “यमग्ने पृत्सु”- इति मन्त्रेण जुहुयात् । मन्त्रस्यायमर्थः- हे ‘अग्ने !’ ‘यम्’ ‘मर्त्त्यं’ मनुष्यं ‘पृत्सु’ संग्रामेषु ‘अवाः’ रक्षसि, तथा ‘वाजेषु’ अन्नेषु निमित्तभूतेषु ‘यम्’ मर्त्त्यं ‘जुनाः’ जवतिर्गत्यर्थः । प्राप्तवानसि ‘सः’ उभयविषयो जनः ‘शश्वतीः’ शाश्वतीः ‘इषः’ अन्नानि ‘यन्ता’ प्राप्तवान् भवति; ‘स्वाहा’ सुहुतमस्तु । मन्त्रस्याग्नेयत्वं प्रकृते ज्योतिष्टोमकर्मणि सङ्गतमिति व्याचष्टे- आग्नेय्याजुहोतीति । अग्निर्वा अग्निष्टोम इति । यज्ञायज्ञीयस्यान्तिमस्तोत्रस्याग्निदेवताकत्वात् अग्निष्टोमो ऽग्निः; ततो ऽग्न्यात्मकमग्निष्टोममाग्नेय्या होमेन ‘अग्नौ’ एव प्रतिष्ठापितवान् भवति । मन्त्रे यन्मर्त्यलिङ्गकत्वम्, तत् प्रशंसति- मर्त्तवत्त्या पुरुषसम्मितो वा अग्निष्टोम इति । “द्वौ स्तोमौ प्रातस्सवनं वहतो यथा प्राणश्चापानश्च” इत्युपक्रम्य तैत्तिरीयके “पुरुषसम्मितो वा एष यज्ञः” (तै. सं. ७ । १ । १ । १) इति श्रुतत्वात् पुरुषसम्मितत्वमस्य यतः, अत एवैतया मर्त्तवत्या होमो युक्त इत्यर्थः । निगमयति- एवं जुहुयात् तद्यग्निष्टोमः स्यादिति ॥ ३२ ॥

Eggeling
  1. And if it be an Agnishṭoma, and there be left a residue (of ghee poured together) in the pracaraṇī

spoon sufficient for an oblation, let him offer that. But if it be not sufficient for an oblation, he takes another portion of ghee in four ladlings and offers it, with (Vāj. S. VI, 29; Rig-veda I, 27, 7), ‘Whatever mortal thou favourest in battles, whomsoever thou speedest in the race, he winneth unfailing strength, Hail!’ He offers with (a prayer) to Agni, because the Agnishṭoma (‘Agni’s praise’) means Agni; thus he establishes the Agnishṭoma in Agni. [He offers] with (a verse) containing the word ‘mortal,’ because the Agnishṭoma is of the same measure as man. Let hire then offer in this manner, if it be an Agnishṭoma.

३३

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘द्यु᳘क्थ्यः[[!!]] स्या᳘त्॥
(न्म) मध्यमं᳘ परिधिमु᳘पस्पृशेत्त्र᳘यः परिध᳘यस्त्री᳘ण्युक्था᳘न्येतै᳘रु हि त᳘र्हि यज्ञः᳘ प्रतिति᳘ष्ठति य᳘द्यु ऽअतिरात्रो᳘ वा षोडशी᳘ वा स्या᳘न्नैव᳘ जुहुयान्न᳘ मध्यमं᳘ परिधिमु᳘पस्पृशेत्समु᳘द्यैव᳘ तूष्णीमे᳘त्य प्र᳘पद्येत त᳘द्यथायथं᳘ यज्ञक्रतून्व्या᳘वर्त्तयति॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘द्यु᳘क्थ्यः[[!!]] स्या᳘त्॥
(न्म) मध्यमं᳘ परिधिमु᳘पस्पृशेत्त्र᳘यः परिध᳘यस्त्री᳘ण्युक्था᳘न्येतै᳘रु हि त᳘र्हि यज्ञः᳘ प्रतिति᳘ष्ठति य᳘द्यु ऽअतिरात्रो᳘ वा षोडशी᳘ वा स्या᳘न्नैव᳘ जुहुयान्न᳘ मध्यमं᳘ परिधिमु᳘पस्पृशेत्समु᳘द्यैव᳘ तूष्णीमे᳘त्य प्र᳘पद्येत त᳘द्यथायथं᳘ यज्ञक्रतून्व्या᳘वर्त्तयति॥

मूलम् - Weber

य᳘द्युक्थ्यः᳘ स्या᳘त्॥
मध्यम᳘म् परिधिमु᳘पस्पृशेत्त्र᳘यः परिध᳘यस्त्री᳘ण्युक्था᳘न्येतै᳘रु हि त᳘र्हि यज्ञः᳘ प्रतिति᳘ष्ठति य᳘द्यु अतिरात्रो वा षोडशी᳘ वा स्याॗन्नैव᳘ जुहुयान्न᳘ मध्यम᳘म् परिधिम् उ᳘पस्पृशेत्समु᳘द्यैव᳘ तूष्णीमे᳘त्य प्र᳘पद्येत त᳘द्यथायथं᳘ यज्ञक्रतून्व्या᳘वर्तयति॥

मूलम् - विस्वरम्

यद्युक्थ्यः स्यात् । मध्यमं परिधिमुपस्पृशेत् । त्रयः परिधयः- त्रीण्युक्थानि । एतै रु हि तर्हि यज्ञः प्रतितिष्ठति । यद्यु ऽअतिरात्रो वा षोडशी वा स्यात्- नैव जुहुयात् । न मध्यमं परिधिमुपस्पृशेत् । समुद्यैव तूष्णीमेत्य प्रपद्येत । तद् यथायथं यज्ञक्रतून् व्यावर्तयति ॥ ३३ ॥

सायणः

उक्थसंस्थायां तु कथमित्यत आह- यद्युक्थ्यः स्यान्मध्यमं परिधिमुपस्पृशेदिति । (का. श्रौ. सू. ९ । ५०) अग्नेः परितो निधीयमाना परिधयः । प्राच्यां दिशि सूर्य्यस्यैव परिधित्वात् ते त्रय एव । ‘उक्थानि’ अग्निष्टोमादुपारि उक्थसंस्थे क्रतौ स्तोतव्यानि “त्रीणि” उक्थस्तोत्राणि । अस्तु त्रित्वम्, किं तत इत्यत आह- एतैरु हि तर्हीति । यतः ‘एतैः’ उक्थैः यज्ञः ‘प्रतितिष्ठति’, अतस्त्रिषु परिधिषु ‘मध्यमं परिधिं’ पश्चाद्दिग्गतं प्रचरण्या ‘उपस्पृशेत्’ अतिरात्रषोडशिनोस्तु कथमित्यत आह- यद्यु अतिरात्रो वा षोडशी वा, स्यात् (का. श्रौ. सू. ५ । ५१ ।) इति तत्रोभयत्र होममुपस्पर्शनं च न कुर्यात्, किन्तु ‘समुद्यैव’ यमग्रे पृत्सु”- इति मन्त्रमुक्त्वैव ‘तूष्णीमेत्य’ देवयजनं ‘प्रपद्येत’ । ‘तत्’ तथा सति क्वचिद्धोमः क्वचित् परिधिसंस्पर्शः, क्वचित् तूष्णीमिति ‘यथायथं’ पृथक्पृथक्प्रकारेण ‘यज्ञक्रतून्’ अग्निष्टोमादिकान् ‘व्यावर्त्तयति’ परस्परव्यावृत्तान् करोति । तथाच तैतिरीयकम्- “यद्यग्निष्टोमो जुहोति यद्युक्थः परिधौ निर्मार्ष्टि यद्यतिरात्रो यजुर्वदन् प्रपद्यते यज्ञक्रतूनां व्यावृत्त्यै”- (तै. सं. ६ । ४ । २ । ५) इति । कात्यायनस्तु अतिरात्रषोडशनौ प्रति विकल्पमुक्तवान्- “रराट्यालम्भनं वा षोडशिनि, छदिरतिरात्रे” (का. श्रौ. ९ । ५२)- इति ॥ ३३ ॥

Eggeling
  1. And if it be an Ukthya, let him touch the middle enclosing-stick,–there are three enclosing-sticks and three recitations (uktha) 36; and by means of them the sacrifice is there established. And if it be either an Atirātra or a Shoḍaśin 37, let him neither make an oblation nor touch the middle enclosing-stick; having merely muttered (the above verse), let him silently betake himself (to the Havirdhāna) and enter it 38. In this way he duly distinguishes the forms of sacrifice from one another.

३४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘युङ्गा ऽअयुङ्गा ऽए᳘कधना भवन्ति॥
त्र᳘यो वा प᳘ञ्च वा प᳘ञ्च वा सप्त᳘ वा सप्त᳘ वा न᳘व वा न᳘व वै᳘कादश वै᳘कादशं वा त्र᳘योदश वा त्र᳘योदश वा प᳘ञ्चदश वा द्वन्द्वम᳘ह मिथुनं᳘ प्रज᳘ननम᳘थ य᳘ एष ए᳘को ऽतिरिच्य᳘ते स य᳘जमानस्य श्रि᳘यमभ्य᳘तिरिच्यते स वा᳘ एषाᳫं᳭सधनं यो य᳘जमानस्य श्रि᳘यमभ्यतिरिच्य᳘ते तद्य᳘देषाᳫँ᳭सध᳘नं त᳘स्मादे᳘कधना ना᳘म॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘युङ्गा ऽअयुङ्गा ऽए᳘कधना भवन्ति॥
त्र᳘यो वा प᳘ञ्च वा प᳘ञ्च वा सप्त᳘ वा सप्त᳘ वा न᳘व वा न᳘व वै᳘कादश वै᳘कादशं वा त्र᳘योदश वा त्र᳘योदश वा प᳘ञ्चदश वा द्वन्द्वम᳘ह मिथुनं᳘ प्रज᳘ननम᳘थ य᳘ एष ए᳘को ऽतिरिच्य᳘ते स य᳘जमानस्य श्रि᳘यमभ्य᳘तिरिच्यते स वा᳘ एषाᳫं᳭सधनं यो य᳘जमानस्य श्रि᳘यमभ्यतिरिच्य᳘ते तद्य᳘देषाᳫँ᳭सध᳘नं त᳘स्मादे᳘कधना ना᳘म॥

मूलम् - Weber

अ᳘युङ्गा-अयुङ्गा ए᳘कधना भवन्ति॥
त्र᳘यो वा प᳘ञ्च वा प᳘ञ्च वा सप्त᳘ वा न᳘व वा न᳘व वै᳘कादश वै᳘कादश वा त्र᳘योदश वा त्र᳘योदश वा प᳘ञ्चदश वा द्वन्द्वम᳘ह मिथुन᳘म् प्रज᳘ननम᳘था थ᳘ एष ए᳘को ऽतिरिच्य᳘ते स य᳘जमानस्य श्रि᳘यमभ्य᳘तिरिच्यते स वा᳘ एषाᳫं सधनं यो य᳘जमानस्य श्रि᳘यमभ्यतिरिच्य᳘ते तद्य᳘देषाᳫं सध᳘नं 39 त᳘स्मादे᳘कधना ना᳘म॥

मूलम् - विस्वरम्

अयुङ्गा अयुङ्गा एकधना भवन्ति । त्रयो वा पञ्च वा । पञ्च वा सप्त वा । सप्त वा नव वा । नव वा एकादश वा । एकादश वा त्रयोदश वा । त्रयोदश वा पञ्चदश वा । द्वन्द्वमह मिथुनं प्रजननम् । अथ य एष एको ऽतिरिच्यते- स यजमानस्य श्रियमभ्यतिरिच्यते । स वा एषां सधनम्- यो यजमानस्य श्रियमभ्यतिरिच्यते । तद् यदेषां सधनम्- तस्मादेकधना नाम ॥ ३४ ॥

सायणः

इदानीमेकधननामघटानामयुग्मसङ्ख्याविकल्पमाह- अयुङ्गा अयुङ्गा एकधना भवन्तीति । वक्ष्यमाणत्रिपञ्चादिपक्षबहुत्वाभिप्रायेण वीप्सा । ‘अयुङ्गाः’ त्रिःपञ्चादयः । तानेवायुग्मविकल्पानुदाहरति- त्रयो वा पञ्च वेत्यादिना । त्रयो वा पञ्च वेत्येको ऽयुग्मविकल्पः, पञ्च वा सप्त वेत्यपरः । एवमुत्तरेष्वपि द्रष्टव्यम् । तथा चासादनप्रस्तावे कात्यायनः- “प्रत्यगेकवचनानयुग्मानुदहरणांस्त्रिप्रभृत्यापञ्चदशभ्यः”- (का. श्रौ. सू. ९ । ३७) इति ॥

अथ युग्मसङ्ख्यया एकधनशब्दनिर्वचनं प्रदर्शयन् प्रशंसति- द्वन्द्वमह मिथुनं प्रजननमथ य एष एको ऽतिरिच्यत इत्यादिना । एषु विकल्पेषु मध्ये यदि त्रयस्तदा द्वावेकं द्वन्द्वं तृतीयो ऽतिरिच्यते; यदि पञ्च, तदा द्वे द्वन्द्वे पञ्चमो ऽतिरिच्यते । एवं सप्त-नवैकादश-त्रयोदश-पञ्चदशस्वपि योज्यम् । तत्र यत् ‘द्वन्द्वं’ तत् ‘मिथुनम्’, तच्च यजमानस्य पुत्रपौत्रादिप्रजननरूपम्; ‘य एषो ऽतिरिच्यते’ तृतीयादिकः ‘सः’ सर्वो ऽपि ‘यजमानस्य’ ‘श्रियम्’ ‘अभि’ लक्ष्य ‘अतिरिच्यते’ । ‘स वै’ सो ऽतिरिक्तः ‘एषां’ विकल्पितानां युग्मानां ‘सधनम्’ समानमेकमेव धनम्; तदन्तःपातित्वात् । यस्मादपां सधनमासीत् अतिरिक्तः ‘तस्मात्’ अयुग्मसङ्ख्याका उदकविशेषा एकधननामकाः सम्पन्नाः । अत एकधनात्मकत्वात् अयुग्मसङ्ख्याका एकधनाः प्रशस्ता इति स्तुतिः ॥ ३४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीये काण्डे नवमाध्याये तृतीयं ब्राह्मणम् ॥ ३-९-३ ॥

Eggeling
  1. The Ekadhana pitchers are always of uneven number,–either three, or five, or seven, or nine, or eleven, or thirteen, or fifteen 40. Now two and two

(an even number) means a productive pair; and the one that remains over, remains over for the sacrificer’s prosperity. And, moreover, that which remains over for the sacrificer’s prosperity is the common property (sa-dhana) of these (others); and because it is the common property of these, therefore they are called Ekadhana (having one as their common property).


  1. “असूर्या उपसूर्ये” इत्यादिमन्त्र इहाधिकः संहितायाम् । ↩︎ ↩︎

  2. 226:2 After performing their ablutions they have to perform the preliminary work and ceremonies, such as preparing the Gārhapatya, fetching and arranging the vessels, cleaning of spoons, &c. up to the depositing of the ghee, near the high altar. ↩︎

  3. 227:1 According to Kāty. VIII, 9, 24-25, on the previous evening,–immediately after the carrying round And depositing of the Vasatīvarī water,–the Soma is placed on a seat (āsandi) in the Āgnīdhra fire house, where the sacrificer has to watch over it during that night. This is not mentioned in the Brāhmaṇa, and from what follows it would rather seem that the Soma is taken down from the cart (see III, 6, 3, 17 seq.). Otherwise we might translate, ‘He brings him down (from the Āgnīdhra).’ ↩︎

  4. 227:2 That is, with their broad sides turned towards each other. ↩︎

  5. आज्यासादनात् कृत्वेषान्तरेण र्धसोममद्रिषु संमुखेषु निदधाति हृदे त्वेति । इति । ↩︎

  6. व्विश्वास्त्वमिति व्विसृज्योपतिष्ठते । का. श्रौ. सू. ९ । ६ । ↩︎

  7. ‘परिचारकरूपाः इति क्व. पा. । ↩︎

  8. 228:1 ‘He commits a pāpavasyasaṁ, i.e. according to Haug, Ait. Br. p. 413, ‘a breach of the oath of allegiance,’ (where Sāyaṇa explains it by ’exceedingly bad’); or ‘an (act of) perversity,’ Weber, Ind. Stud. IX, p. 300. Sāyaṇa, to our passage, explains it by ‘mixing the bad with the good (or better).’ The literal translation is ‘a bad-bettering.’ What is chiefly implied in the term is evidently the showing of disrespect by an inferior to a superior person. ↩︎

  9. 228:2 Tasmāt kshatriyam upary āsīnam adhastād viśa imāḥ prajā upāsate. Kāṇva text. ↩︎

  10. प्राग्वाचंप्रवदितोः प्रातरनुवाकोपाकरणं देवेभ्यः प्रातर्यावभ्यो ऽनुब्रू३हीति समिधमादधत् । का. श्रौ. सू. ९ । १० । इति सूत्रपूर्व भागः । ↩︎

  11. 229:1 Here now, some say only, ‘Recite to the early-coming!’ not ’to the . . . gods!’ but let him not say this. Kāṇva text. ↩︎

  12. 229:2 The Prātar-anuvāka, or morning-prayer (matin chant), has to be recited by the Hotr̥ in the latter part of the night before any sound (of birds, &c.) is to be heard. It may begin immediately after midnight, and conclude as soon as daylight appears. When called upon by the Adhvaryu to recite the morning-prayer, the Hotr̥ first makes an oblation of ghee on the Āgnīdhra fire, with the mantra, ‘Protect me from the spell of the mouth, from every imprecation, Hail!’ and then two oblations on the Āhavanīya with appropriate mantras. Thereupon he betakes himself to the Havirdhāna (cart-shed), in entering which, by the east door, he touches successively the front-wreath (rarāṭā, cf. III, 5, 3, 9) and the doorposts, with formulas. He then squats down between the yoke-pieces of the two Soma-carts, and begins his recitation with Rig-veda X, 30, 12, ‘Ye, O wealthy waters, verily possess good things; ye confer desirable energy and immortality; ye command riches with abundant offspring: may Sarasvatī (the river S., and Speech) bestow on the bard that vital vigour!’ The ’early-coming’ deities to whom the recitation is successively addressed, are Agni, Ushas (the dawn), and the two Aśvins (the precursors of the sun); the prayer thus consisting of three sections, termed kratu (Agnikratu , &c.). The hymns and detached verses making up these sections are arranged according to the seven metres (thus forming seven sub-sections of each), viz. gāyatrī, anushṭubh, trishṭubh, br̥hatī, ushṇih, jagatī, and paṅkti. The prayer may consist of as many verses as can be recited between midnight and daybreak; but there should be at least one hymn in each of the seven metres to each of the three deities; nor should the recitation consist of less than a hundred verses. From the beginning of the recitation up to the end of the last hymn but one, Rig-veda I, 112, there is to be a gradual modulation of the voice so as to pass upwards through the seven tones (yama) of the deep scale (mandrasvara). Moreover, that hymn is to be repeated (if necessary) till daylight appears. As soon as this is the case, he passes on without any break from the last (25th) verse to the last hymn (v. 75, 1-9), which he intones in the lowest tone of the middle scale, after shifting his place further east towards the gate. The recitation of the first eight verses of this hymn again gradually ascends through the whole of the middle scale; when–after once more shifting his place so as to be seated between the two door-posts–he intones the last verse–‘The Dawn hath appeared with her shining kine, Agni hath been kindled at his appointed time: your car hath been yoked, ye mighty, mead-loving(?) Aśvins, showerers of wealth, hear my call!’ in reciting which he makes his voice pass through the several tones of the high scale. The Subrahmaṇyā, likewise, has to chant the Subrahmaṇyā litany (see III, 3, 4, 17 seq.)–as he had to do on the previous evening–inserting in it the names of the sacrificer’s father and son. The Agnīdh, in the meantime, prepares the five havis-oblations (savanīyāḥ puroḍaśāḥ) to be offered at the morning-pressing (cf. IV, 2, 4, 18), and the Unnetr̥ puts the numerous Soma-vessels in their respective places on the khara, and about the Soma-carts. ↩︎

  13. अग्नीदैद्रमेकादशकपालं निर्व्वपति हरिभ्यां धानाः पूष्णे करंभ ँ सरस्वत्यै दधि मित्रावरुणाभ्यां पयस्याम् । इन्द्राय वा हरिपूषसरस्वतिमित्रावरुणवते धानादीनि यथासंख्यम् । उन्नेतुः पात्रयोजनम् । खरोत्तरपूर्वार्द्ध उपाँ श्वंतर्यामयोः । दक्षिणमुपाँ शोः । तदपरेण द्विदेवत्यानि प्रत्यंचि । रास्नावमैंद्रवायवम् । अजकावं मैत्रावरुणम् । औष्ठमाश्विनम् । दक्षिणपूर्व्वार्द्धे शुक्रामंथिनोः । दक्षिणँ शुक्रस्याप्रयणस्थालीमध्ये । दक्षिणोक्थ्यस्थाली सपात्रा । तथादित्यस्थाल्युत्तरा । ऋतुपात्रे पूर्व्वे स्रुक्पुष्कराकृती उभयतो मुखे कार्ष्मर्यमये आश्वत्थे वा । ऊर्ध्वानीतराणि प्रादेशमात्राणि मध्यसंगृहीतानि । आग्रयणादपरां परिप्लवाँ स्रुक्पुष्करामधो ऽधो ऽक्षं प्रत्यंचं द्रोणकलशमत्युह्योपर्युपर्यक्षं पवित्रमस्मिन् करोति । शुक्लं जीवोर्णानाम् । उभयतोदशं परिप्लवायाम् । पूर्वेणोपस्तंभनमुत्तरं ध्रुवस्थालीमनंतर्हितै । धुरि प्रचरणीम् । पूर्व्वेणाक्षमुपरि पूतभृतम् । परेणाधवनीयम् । प्रागक्षाद्दशचमसान्त्सव्वृंन्तानधः प्रत्यगेकधनानयुग्मानुदहरणां- स्त्रिप्रभृत्यापचंदशभ्यो ऽभूद्दुषा रुशत्पशुरित्युच्यमाने चतुर्गृहीतं प्रचरण्या जुहोति शृणोत्वग्निरिति । का. श्रौ. सू. ९-१५-३७ । (आश्वलायनानां तु अभूदुषारुशत्पशुरग्निधात्वृत्विजः । इति ।) (अयोजिवां वृषण्वसूदयोदस्रावयत्यो ३ म् । इति) । (शांखायनानां प्रातरनुवाकपरिधानीया अभूदुषारुशत्पशुरग्निरधाय्यृत्विजो योजिषां वृषण्वसू । रथोदस्राचमसोर्माध्वीमम श्रुतोहवो ३ म् । इति ।) ↩︎

  14. 231:1 Cf. IV, 3, 2, 1 seq. ↩︎

  15. 231:2 That is, when he recites the last verse, ‘Ushas hath appeared,’ &c. ↩︎

  16. 231:3 Literally, ‘Bend together (saṁ-nam),’ which refers to the ‘bending together’ of the cups at the Aponaptrīya ceremony. ↩︎

  17. इतो ऽग्रे- “शृण्वन्तु म इदं ग्रावाणो ऽनु मे जानन्त्वित्येवैतदाह विदुषो न यज्ञमिति” इति पाठस्तु क्व. पुस्तके विशेषः स प्रामादिकः । ↩︎ ↩︎ ↩︎

  18. 232:1 The text has rather to be construed, ‘Ye stones, hear (my prayer) as (of one) knowing the sacrifice.’ ↩︎

  19. एता उ and नेदेना अन्तरा Sây. ↩︎

  20. ‘इमौ प्रैषमन्त्रौ संहितायां न स्तः । ↩︎ ↩︎

  21. अपोनप्तृदेवताकं सूक्तमपोनप्त्रीयं’ इति ऋ. सं. १० । ३० । ‘अपोनप्त्रीयं’ इति क्व. पा. । ↩︎

  22. 232:2 While the Adhvaryu and assistants go to the water to fill the Ekadhana pitchers, the Hotr̥ recites the so-called Aponaptrīya hymn (Rig-veda X, 30) to the waters, omitting verse twelve, which was already recited as the opening verse of the morning-prayer. The first verse is recited thrice, and the tenth verse is recited after the eleventh, while the priests are returning with the water. As soon as they are in sight, the Hotr̥ recites verse 13, followed by Rig-veda V, 43, 1; and (when the Ekadhanā and Vasatīvarī waters meet together, paragraph 29) Rig-veda II, 35, 3; and, in case some of the water is actually poured over into the Hotr̥’s cup, I, 83, 2. When the water is brought to the Havirdhāna, the Hotr̥ addresses the Adhvaryu as stated in paragraph 31; whereupon he pronounces a ’nigada’ (for which see Ait. Br. II, 20; Āśv. Sr. V, 1, 14-17), followed by Rig-veda I, 23, i6; while the Ekadhana pitchers are carried past him. The water in the Maitrāvaruṇa cup and one third of both the Vasatīvarī and Ekadhanā water having been poured into the Ādhavanīya trough (standing on the northern cart), the pitchers with the remaining water are then deposited in their respective places behind the axle of the northern cart, whereupon the Hotr̥ recites the two remaining verses (24 and 15) of the Aponaptrīya hymn, and sits down in front of the Soma, behind the northern door-post of the Havirdhāna (cart-shed). ↩︎

  23. प्रेष्यति च मैत्रावरुणस्य चमसाध्वर्यवेहि नेष्टः पत्नीरुदानयैकधनिन एताग्नीच्चात्वाले व्वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन चेति । का. श्रौ. सू. ९-३९ । ↩︎

  24. अप गत्वा देवीराप इत्यप्सु जुहोति । का० श्रौ० सू ९ । ४० । ↩︎

  25. कार्षिरसीति मैत्रावरुणचमसेनाज्यमपोहति । का. श्रौ. सू. ९ । ४१ । ↩︎

  26. एकधानांश्चोन्नयन्ति । का. श्रौ. सू. ९ । ४३ । पान्नेजनांश्च पत्न्यो द्वौ द्वौ । ९ । ४४ । ↩︎

  27. 235:1 These are filled by the sacrificer’s wife, or, if there be more than one sacrificer (or, if the sacrificer have more than one wife), by all the wives, each having two vessels. For the use of this water, see note on IV, 4, 2, 18. ↩︎

  28. 235:2 The praishas or sacrificial directions to the Hotr̥, for the recitations of offering-formulas, are given by the Maitrāvaruṇa; see p. 183, note 2. ↩︎

  29. 235:3 See note on IV, 1, 3, 15; the nivids, part i, p. 114, note 2. ↩︎

  30. मुपोद᳘क्रा AB ↩︎

  31. ‘अत्र’- इति क्व. पु. पा. । ↩︎

  32. ‘एवं’ नयन्ति इ. क्व. पा. । ↩︎

  33. 236:1 See p. 232, note 2 to paragraph 15. ↩︎

  34. 236:2 Nigrābhyāḥ is the technical name the Vasatīvarī water in the Hotr̥’s cup henceforth bears. It is handed to the sacrificer to carry to the Havirdhāna; and is afterwards used for moistening the Soma plants (or, for being poured thereon) at the time of the pressing. See III, 9, 4, 14 seq. ↩︎

  35. शांखायनो होता चेत् । अध्वर्यवै वीरपा ३ इत्यध्वर्युं पृच्छति । आश्वलायनश्चेत् । अवेरपो ऽव्वर्यो ३ इत्यध्वर्युं पृच्छति । शतपथे तु अध्वर्यो ऽवेरपा ३ इति पृच्छति । का. सूत्रकर्कभाष्ये तु अवेरपो ऽध्वर्यो इति । ↩︎

  36. 237:1 See note on IV, 4, 2, 18; Haug, Ait. Br., Transl. p. 251. ↩︎

  37. 237:2 And if it be a Shoḍaśin, or an Atirātra, or a Vājapeya. Kāṇva rec. See note on IV, 5, 3, 1. ↩︎

  38. 237:3 According to Kāty. IX, 3, 20-21 he may, while muttering that verse, touch the front wreath at the Shoḍaśin, and the side-mat at the Atirātra. ↩︎

  39. सध᳘नं यो. ↩︎

  40. 237:4 The original has,–either three, or five, or five, or seven, or seven, or nine, &e. The Kāṇva text, on the other hand, has merely,–either three, or five, or sevens or nine, or nineteen. ↩︎