०१
विश्वास-प्रस्तुतिः
य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत॥
त᳘स्य र᳘सो द्रु᳘त्वापः प्र᳘विवेष ते᳘नै᳘वैतद्र᳘सेना᳘पः स्यन्दन्ते त᳘मे᳘वैतद्र᳘सᳫँ᳭ स्य᳘न्दमानं मन्यन्ते॥
मूलम् - श्रीधरादि
य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत॥
त᳘स्य र᳘सो द्रु᳘त्वापः प्र᳘विवेष ते᳘नै᳘वैतद्र᳘सेना᳘पः स्यन्दन्ते त᳘मे᳘वैतद्र᳘सᳫँ᳭ स्य᳘न्दमानं मन्यन्ते॥
मूलम् - Weber
य᳘त्र वै᳘ यज्ञ᳘स्य शिरो᳘ ऽछिद्यत॥
त᳘स्य र᳘सो द्रुॗत्वापः प्र᳘विवेष ते᳘नैॗवैतद्र᳘सेना᳘पः स्यन्दन्ते त᳘मेॗवैतद्र᳘सᳫं स्य᳘न्दमानम् मन्यन्ते॥
मूलम् - विस्वरम्
वसतीवरीग्रहणम् ।
यत्र यज्ञस्य शिरो ऽच्छिद्यत- तस्य रसो दुत्वापः प्रविवेश । तेनैव तद्रसेनापः स्यन्दन्ते, तमेवैतद्रसं स्यन्दमानं मन्यन्ते ॥ १ ॥
सायणः
अथ सोमाभिषवार्थं वसतीवरीणां ग्रहणं विधातुमाह- यत्र वै यज्ञस्येत्यादि । यस्मिन् काले यज्ञरूपस्य विष्णोः देवतानां यश आहृत्य गतवत्यो वधार्थं देवैः प्रेषिता उपदीका तत्कृतधनुर्ज्याच्छेदनेन तच्छिरः चिच्छिदुः, स कालो “यत्र वै यज्ञस्य”- इत्यनेन परामृश्यते । तत्प्रकारः प्रवर्ग्ये प्रपञ्चितः (श. प. ब्रा. १४ । १ । १) पुरा ‘यत्र’ यस्मिन् काले ‘यज्ञस्य’ ‘शिरः’ ‘अच्छिद्यत’ छिन्नमभूत्, तस्मिन् काले छिन्नशिरसो यज्ञस्यरसो ऽद्रवत् । ‘रसः’ ‘द्रुत्वा’ धावित्वा अपः उदकानि ‘प्रविवेश’, ‘तेनैव रसेन’ ‘एतत्’ इदानीमपि यथापूर्वमस्यन्दनस्वभावाः ‘आपः’ ‘स्यन्दन्ते’ । ‘तमेव’ छिन्नशिरस्काद् यज्ञादुद्भूतमेव ‘रसम्’ इदानीमप्सु ‘स्यन्दमानं’ प्रवहन्तं ‘मन्यन्ते’ अभिज्ञाः ॥ १ ॥
Eggeling
- Now, when the head of the sacrifice (victim) was struck off, its sap, running, entered the waters. It is by that very sap that those waters flow; that very sap is believed to be flowing there 1.
०२
विश्वास-प्रस्तुतिः
स य᳘द्वसतीव᳘रीरच्छै᳘ति॥
त᳘मे᳘वैतद्र᳘समाहृ᳘त्य यज्ञे᳘ दधाति र᳘सवन्तं यज्ञं᳘ करोति त᳘स्माद्व᳘सतीवरीर᳘च्छैति[[!!]]॥
मूलम् - श्रीधरादि
स य᳘द्वसतीव᳘रीरच्छै᳘ति॥
त᳘मे᳘वैतद्र᳘समाहृ᳘त्य यज्ञे᳘ दधाति र᳘सवन्तं यज्ञं᳘ करोति त᳘स्माद्व᳘सतीवरीर᳘च्छैति[[!!]]॥
मूलम् - Weber
स य᳘द्वसतीव᳘रीरछै᳘ति॥
त᳘मेॗवैतद्र᳘समाहृ᳘त्य यज्ञे᳘ दधाति र᳘सवन्तं यज्ञं᳘ करोति त᳘स्माद्वसतीव᳘रीर᳘छैति॥
मूलम् - विस्वरम्
स यद्वसतीवरीरच्छैति- तमेवैतद्रसमाहृत्य यज्ञे दधाति, रसवन्तं यज्ञं करोति । तस्माद्वसतीवरीरच्छैति ॥ २ ॥
सायणः
अथ वसतीवरीग्रहणं विधत्ते- स यद् वसतीवरीरच्छैतीति ‘अच्छैति’ अभिमुखं गच्छति ‘तमेव रसं पुनराहृत्य यज्ञे सन्दधाति’ वसतीवरीग्रहणकालः सूत्रे उक्तः- “अग्नीषोमीयस्य वपामार्जनान्ते वसतीवरीग्रहणम्” (का. श्रौ. सू. ८ । २४८) इति ॥ २ ॥
Eggeling
- And when he goes for the Vasatīvarī water, he fetches that same sap and puts it into the sacrifice, and makes the sacrifice sapful; this is why he goes for the Vasatīvarī water.
०३
विश्वास-प्रस्तुतिः
ता वै स᳘र्व्वेषु स᳘वनेषु व्वि᳘भजति॥
स᳘र्व्वेष्वे᳘वैतत्स᳘वनेषु र᳘सं दधाति स᳘र्व्वाणि स᳘वनानि र᳘सवन्ति करोति त᳘स्मात्स᳘र्वेषु स᳘वनेषु विभजति[[!!]]॥
मूलम् - श्रीधरादि
ता वै स᳘र्व्वेषु स᳘वनेषु व्वि᳘भजति॥
स᳘र्व्वेष्वे᳘वैतत्स᳘वनेषु र᳘सं दधाति स᳘र्व्वाणि स᳘वनानि र᳘सवन्ति करोति त᳘स्मात्स᳘र्वेषु स᳘वनेषु विभजति[[!!]]॥
मूलम् - Weber
ता वै स᳘र्वेषु स᳘वनेषु वि᳘भजति॥
स᳘र्वेष्वेॗवैतत्स᳘वनेषु र᳘सं दधाति स᳘र्वाणि स᳘वनानि र᳘सवन्ति करोति त᳘स्मात्स᳘र्वेषु वि᳘भजति॥
मूलम् - विस्वरम्
ता वै सर्वेषु सवनेषु विभजति- सर्वेष्वेवैतत्सवनेषु रसं दधाति । सर्वाणि सवनानि रसवन्ति करोति । तस्मात्सर्वेषु सवनेषु विभजति ॥ ३ ॥
सायणः
गृहीतानां सवनत्रयार्थं विभागमाह- ता वै सर्वेषु सवनेषु विभजतीति ॥ ३ ॥
Eggeling
- He distributes it over all the Savanas (Soma-pressings) 2; thereby he imbues all the pressings
with that sap, makes all the pressings sapful: this is why he distributes it over all the pressings.
०४
विश्वास-प्रस्तुतिः
ता वै स्य᳘न्दमानानां गृह्णीयात्॥
(दै) ऐद्धि स᳘ यज्ञ᳘स्य र᳘सस्त᳘स्मात्स्य᳘न्दमानानां गृह्णीयात्॥
मूलम् - श्रीधरादि
ता वै स्य᳘न्दमानानां गृह्णीयात्॥
(दै) ऐद्धि स᳘ यज्ञ᳘स्य र᳘सस्त᳘स्मात्स्य᳘न्दमानानां गृह्णीयात्॥
मूलम् - Weber
ता वै स्य᳘न्दमानानां गृह्णीयात्॥
ऐद्धि स᳘ यज्ञ᳘स्य र᳘सस्तस्मात्स्य᳘न्दमानानां गृह्णीयात्॥
मूलम् - विस्वरम्
ता वै स्यन्दमानानां गृह्णीयात् । ऐद्धि स यज्ञस्य रसः । तस्मात् स्यन्दमानानां गृह्णीयात् ॥ ४ ॥
सायणः
गृहीतव्यानि उदकानि विशिनष्टि- ता वै स्यन्दमानानामिति (का. श्रौ. सू. ८ । २४८) 3 ‘हि’ यस्मात् ‘स’ यज्ञरसः ‘ऐत्’ अस्रवत्, अथ ततो गच्छन्तीनामेवापां सम्बन्धिनीः ‘गृह्णीयात्’ ॥ ४ ॥
Eggeling
- Let him take it from flowing (water); for that sap of the sacrifice was moving 4: let him therefore take it from flowing (water).
०५
विश्वास-प्रस्तुतिः
(द्गो) गोपीथा᳘य वा᳘ ऽएता᳘ गृह्यन्ते॥
स᳘र्व्वं वा᳘ ऽइद᳘मन्य᳘दिलय᳘ति य᳘दिदं किञ्चा᳘पि᳘ यो ऽयं प᳘वते᳘ ऽथैता᳘ एव᳘ नेलयन्ति त᳘स्मात्स्य᳘न्दमानानां गृह्णीयात्॥
मूलम् - श्रीधरादि
(द्गो) गोपीथा᳘य वा᳘ ऽएता᳘ गृह्यन्ते॥
स᳘र्व्वं वा᳘ ऽइद᳘मन्य᳘दिलय᳘ति य᳘दिदं किञ्चा᳘पि᳘ यो ऽयं प᳘वते᳘ ऽथैता᳘ एव᳘ नेलयन्ति त᳘स्मात्स्य᳘न्दमानानां गृह्णीयात्॥
मूलम् - Weber
गोपीथा᳘य वा᳘ एता᳘ गृह्यन्ते॥
स᳘र्वं वा᳘ इद᳘मन्य᳘दिलयति य᳘दिदं किं चा᳘पिॗ यो ऽयम् प᳘वते᳘ ऽथैता᳘ एवॗ नेलयन्ति त᳘स्मात्स्य᳘न्दमानानां गृह्णीयात्॥
मूलम् - विस्वरम्
गोपीथाय वा ऽएता गृह्यन्ते । सर्वं वा ऽइदमन्यदिलयति- यदिदं किंचापि यो ऽयं पवते । अथैता एव नेलयन्ति । तस्मात्स्यन्दमानानां गृह्णीयात् ॥ ५ ॥
सायणः
स्यन्दमानग्रहणे उपपत्त्यन्तरमाह- गोपीथाय वा इत्यादि । यज्ञरसानाम् ‘अन्यत्’ प्रवाहोदकव्यतिरिक्तं ‘सर्वम्’ ‘इलयति’ इतस्ततश्चलति । ‘इदं’ शब्दार्थं विशिनष्टि- यदिदं किञ्चेति । ‘यत् किञ्च’ ‘इदं’ परिदृश्यमानं जगत् । इदं शब्दोक्तानां मध्ये प्रसिद्धं किञ्चिदिहोदाहरति- अपि यो ऽयं पवत इति । ‘यो ऽयं’ वायुः ‘पवते’ गच्छति, सो ऽपि नियतचलनवान् । ‘एता एव’ ‘नेलयन्ति’ न प्रतिनिवर्त्तन्ते 3 । यद्यपि स्यन्दमानानामितरेषां च पदार्थानां चलनं साधारणम्, तथापि स्यन्दमानानां व्यावृत्तेरपेक्षितत्वादिलनमितस्ततश्चलनं विवक्षितम् । ‘स्यन्दमानानाम्’ एकरूपेण प्रवहन्तीनामपां तथाविधचाञ्चाल्याभावात् ‘गोपीथाय स्यन्दमाना गृह्णीयात्’ ॥ ५ ॥
Eggeling
- Moreover, it is taken for the purpose of protection. Now, everything else here on earth, whatever it be, takes rest, even yonder blowing (wind); but these (waters) alone take no rest: therefore let him take it from flowing (water).
०६
विश्वास-प्रस्तुतिः
(द्दि᳘) दि᳘वा गृह्णीयात्॥
(त्प᳘) प᳘श्यन्य᳘ज्ञ᳘स्य र᳘सं गृह्णानी᳘ति त᳘स्माद्दि᳘वा गृह्णीयादेत᳘स्मै वै᳘ गृह्णाति य᳘ एष त᳘पति व्वि᳘श्वेभ्यो᳘ ह्येना देवे᳘भ्यो गृह्णाति[[!!]] रश्म᳘यो᳘ ह्यस्य[[!!]] व्वि᳘श्वे देवास्त᳘स्माद्दि᳘वा गृह्णीयाद्दि᳘वेव वा᳘ एष त᳘स्माद्वेव दि᳘वा गृह्णीयात्॥
मूलम् - श्रीधरादि
(द्दि᳘) दि᳘वा गृह्णीयात्॥
(त्प᳘) प᳘श्यन्य᳘ज्ञ᳘स्य र᳘सं गृह्णानी᳘ति त᳘स्माद्दि᳘वा गृह्णीयादेत᳘स्मै वै᳘ गृह्णाति य᳘ एष त᳘पति व्वि᳘श्वेभ्यो᳘ ह्येना देवे᳘भ्यो गृह्णाति[[!!]] रश्म᳘यो᳘ ह्यस्य[[!!]] व्वि᳘श्वे देवास्त᳘स्माद्दि᳘वा गृह्णीयाद्दि᳘वेव वा᳘ एष त᳘स्माद्वेव दि᳘वा गृह्णीयात्॥
मूलम् - Weber
दि᳘वा गृह्णीयात्॥
प᳘श्यन्यज्ञ᳘स्य र᳘सं गृह्णानी᳘ति त᳘स्माद्दि᳘वा गृह्णीयादेत᳘स्मै वै᳘ गृह्णाति य᳘ एष त᳘पति वि᳘श्वेभ्योॗ ह्येना देवे᳘भ्यो गृह्णा᳘ति रश्म᳘यो ह्य᳘स्य वि᳘श्वे देवास्त᳘स्माद्दि᳘वा गृह्णीयाद्दि᳘वेव वा᳘ एष त᳘स्माद्वेव दि᳘वा गृह्णीयात्॥
मूलम् - विस्वरम्
दिवा गृह्णीयात् पश्यन् यज्ञस्य रसं गृह्णानीति । तस्माद् दिवा गृह्णीयाद् एतस्मै वै गृह्णाति य एष तपति । विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वे देवाः । तस्माद्दिवा गृह्णीयात् । दिवेव वा एषः । तस्माद्वेव दिवा गृह्णीयात् ॥ ६ ॥
सायणः
दिवा गृह्णीयादिति । दिवाग्रहणस्याभिप्रायमाह- पश्यन् यज्ञस्य रसं गृह्णातीति । दर्शनपूर्वकग्रहणे सति यज्ञरसस्य परिज्ञातत्वात् तथाविधाभिरद्भिः क्रियमाणो ऽभिषवः साङ्गो भवतीत्यभिप्रायः । दिवाग्रहणस्य प्रयोजनान्तरमाह- एतस्मै वै गृह्णाति य एष तपतीति । कथमेतदर्थतेति तत्र हेतुमाह- विश्वेभ्यो ह्येना देवेभ्यो गृह्णातीति । हि यस्माद् विश्वेभ्यो देवेभ्यो गृह्णाति तस्मादेतस्मै गृह्णाति । तेषामत्र कथं सम्भावनेति तत्राह- रश्मयो ह्यस्य विश्वे देवा इति । सूर्यस्य 5 चन्द्रवद्विभूतिरूपाणां विश्वेषां देवानां रश्म्यात्मनावस्थानादित्यभिप्रायः । अतो रस्मिरूपाणां विश्वेषां देवानाम्, तदधिपतेः सवितुश्च दिवैव सम्भवाद् दिवैव गृह्णीयादित्यर्थः । किञ्चैष आदित्यो दिवैव प्रकाशमनो भवति, तस्मादपि दिवैव गृह्णीयात् ॥ ६ ॥
Eggeling
- Let him take it by day, thinking, ‘Seeing, I will take the sap of the sacrifice 6:’ therefore let him take it by day. For it is for him that burns yonder (the sun) that he takes it, since he takes it for all the gods, and all the gods are his rays of light: therefore let him take it by day. For it is by day alone that he (shines): therefore, then, let him take it by day.
०७
विश्वास-प्रस्तुतिः
(दे) एत᳘द्ध वै व्वि᳘श्वे देवाः᳘॥
(वा) य᳘जमानस्य गृहाना᳘गच्छन्ति स यः᳘ पु᳘रादित्य᳘स्यास्तमया᳘द्वसतीव᳘रीर्गृह्णा᳘ति य᳘था श्रे᳘यस्यागमिष्य᳘त्यावसथेनो᳘पकॢप्तेनोपा᳘सीतैवं तत्त᳘ ऽएत᳘द्धविः प्र᳘विशन्ति त᳘ ऽएता᳘सु व्वसतीवरीषू᳘पवस᳘न्ति[[!!]] स[[!!]] ऽउपवसथः[[!!]]॥
मूलम् - श्रीधरादि
(दे) एत᳘द्ध वै व्वि᳘श्वे देवाः᳘॥
(वा) य᳘जमानस्य गृहाना᳘गच्छन्ति स यः᳘ पु᳘रादित्य᳘स्यास्तमया᳘द्वसतीव᳘रीर्गृह्णा᳘ति य᳘था श्रे᳘यस्यागमिष्य᳘त्यावसथेनो᳘पकॢप्तेनोपा᳘सीतैवं तत्त᳘ ऽएत᳘द्धविः प्र᳘विशन्ति त᳘ ऽएता᳘सु व्वसतीवरीषू᳘पवस᳘न्ति[[!!]] स[[!!]] ऽउपवसथः[[!!]]॥
मूलम् - Weber
एत᳘द्ध वै वि᳘श्वे देवाः᳟॥
य᳘जमानस्य गृहाना᳘गछन्ति स यः᳘ पुॗरादित्य᳘स्यास्तमया᳘द्वसतीव᳘रीर्गृह्णा᳘ति य᳘था श्रे᳘यस्यागमिष्य᳘त्यावसथेनो᳘पकॢप्तेनोपा᳘सीतैवं तत्त᳘ एत᳘द्धविः प्र᳘विशन्ति त᳘ एता᳘सु वसतीव᳘रीषू᳘पवसन्ति स᳘ उपवसथः᳟॥
मूलम् - विस्वरम्
एतद्ध वै विश्वे देवा यजमानस्य गृहानागच्छन्ति । स यः पुरादित्यस्यास्तमयाद्वसतीवरीर्गृह्णाति- यथा श्रेयस्यागमिष्यत्यावसथेनोपल्कृप्तेनोपासीत- एवं तत् । त ऽएतद्धविः प्रविशन्ति । त ऽएतासु वसतीवरीषूपवसन्ति । स उपवसथः ॥ ७ ॥
सायणः
अस्तमयात् पूर्वकालीनं ग्रहणं प्रशंसति । एतद्ध वा इत्यादि । अग्नीषोमीये ऽहनि रात्रौ विश्वेषां देवानां प्रातर्यष्टव्यत्वात्, तत्पूर्वम् यजमानगृहं प्रत्यागमनसंभवात् । श्रेयस्यागमिष्यतीति । यथा लोके गुर्वादेः पूज्यस्यागमनात्पूर्वम् । ‘उपक्लृप्तेन’ सम्पन्नेनैव ‘आवसथेन’ आवसथमावासस्थानम्, तत्तदादिकं सर्वं यज्ञोपकरणमुपलक्ष्यते, तत्संस्करोति, तेन सत्कारोचितेन पूजोपकरणेन सम्भावयति । ‘एतद्धह वै’ एतत् खलु अतिथिभूतानां विश्वेषां देवानामागमनात् पूर्वं यदि चैव ग्रहणमस्ति, ‘तत्’ तत्स्थानीयमित्यर्थः । शब्दनिर्वचनं दर्शयति- एतद्धविः प्रविशन्तीति । सोमरसेष्वनुप्रवेशाद्धविः सम्पद्यते । प्रसङ्गादुपवसथशब्दनिर्वचनं दर्शयति- त एतासु वसतीवरीषूपवसन्तीति । उपवसन्त्यासु वसतीवरीषु देवा अस्मिन् काले इत्युपवसथः, उपवासकाल इत्यर्थः ॥ ७ ॥
Eggeling
- And again, all the gods, forsooth, now come to the sacrificer’s house; and if one takes the Vasatīvarī water before the setting of the sun, it is as when one’s better comes to visit one, he would honour him by trimming his house. They draw nigh to that sacrificial food, and abide (upa-vas) in that Vasatīvarī 7 water,–that is the Upavasatha (preparation-day).
०८
विश्वास-प्रस्तुतिः
स यस्या᳘ गृहीता अभ्यस्तमियात्[[!!]]॥
(त्त᳘) त᳘त्र प्रा᳘यश्चित्तिः क्रियते य᳘दि पु᳘रेजानः स्या᳘न्निना᳘ह्याद्गृह्णीयाद्दिवा[[!!]] हि त᳘स्य ताः᳘ पुरा᳘ गृहीताभ᳘वन्ति य᳘द्यु ऽअ᳘नीजानः स्याद्य᳘ एन᳘मीजान[[!!]] उपा᳘वसितो वा पर्य᳘वसितो वा स्यात्त᳘स्य निना᳘ह्याद् गृह्णीयाद्दि᳘वा हि त᳘स्य ताः᳘ पुरा᳘ गृहीता भ᳘वन्ति॥
मूलम् - श्रीधरादि
स यस्या᳘ गृहीता अभ्यस्तमियात्[[!!]]॥
(त्त᳘) त᳘त्र प्रा᳘यश्चित्तिः क्रियते य᳘दि पु᳘रेजानः स्या᳘न्निना᳘ह्याद्गृह्णीयाद्दिवा[[!!]] हि त᳘स्य ताः᳘ पुरा᳘ गृहीताभ᳘वन्ति य᳘द्यु ऽअ᳘नीजानः स्याद्य᳘ एन᳘मीजान[[!!]] उपा᳘वसितो वा पर्य᳘वसितो वा स्यात्त᳘स्य निना᳘ह्याद् गृह्णीयाद्दि᳘वा हि त᳘स्य ताः᳘ पुरा᳘ गृहीता भ᳘वन्ति॥
मूलम् - Weber
स यस्या᳘गृहीता अभ्यस्तमिया᳘त्॥
तत्र प्रा᳘यश्चित्तिः क्रियते य᳘दि पुॗरेजानः स्या᳘न्निना᳘ह्याद्गृह्णीयाद्दि᳘वा हि त᳘स्य ताः᳘ पुरा᳘ गृहीता भ᳘वन्ति य᳘द्यु अ᳘नीजानः स्याद्य᳘ एनमीजान᳘ उपा᳘वसितो वा पर्य᳘वसितो वा स्यात्त᳘स्य निना᳘ह्याद्गृह्णीयाद्दि᳘वा हि त᳘स्य ताः᳘ पुरा᳘ गृहीता भ᳘वन्ति॥
मूलम् - विस्वरम्
स यस्या गृहीता अभ्यस्तमियात्- तत्र प्रायश्चित्तिः क्रियते । यदि पुरेजानः स्यात्- निनाह्याद्- गृह्णीयात् । दिवा हि तस्य ताः पुरा गृहीता भवन्ति । यद्यु ऽअनीजानः स्याद्- य एनमीजान उपावसितो वा पर्यवसितो वा स्यात्- तस्य निनाह्याद् गृह्णीयाद् । दिवा हि तस्य ताः पुरा गृहीता भवन्ति ॥ ८ ॥
सायणः
वसतीवरीग्रहणात्प्रागस्तमये सति तद्ग्रहणोपायमाह- स यस्या गृहीता अभ्यस्तमियात्, तत्र प्रायश्चित्तिः क्रियत इति । प्रायश्चित्तिभिर्दिवाग्रहणाकरणे दोषस्पर्शाभावोपायः क्रियत इत्यर्थः । तत्प्रकारः प्रदर्श्यते- यदीति । स यजमानो ‘यदि’ पुरेजानः, इष्टप्रथमसोमयागः ‘स्यात्’ स ‘निनाह्यात्’ स्वगृहस्थितप्रभूतघटादेः सकाशात् ‘गृह्णीयात्’ ‘ताः’ आपः ‘पुरा’ अस्तमयात् पूर्वं तस्य ‘गृहीता भवन्ति’; प्रथमानुष्ठाने ऽस्तमयात् पुरा गृहीतत्वादित्यभिप्रायः । स्वयम् ‘अनीजानः’ चेद्, ‘यः’ ‘एनं’ यजमानम् ‘ईजानः’ इष्टवान्, अन्यः ‘उपावसितः’ 8 समीपे गृहे अवस्थितः, ‘पर्यवसितो वा’ दूरगृहस्थितो वा ईजानः ‘स्यात्’ ‘तस्य’ ‘निनाह्याद्’ घटादेः सकाशाद् ‘गृह्णीयात्’ । एवं सति ताः पुरा दिवा परिगृहीता भवन्ति । “ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात्”- (तै. सं. ६ । ४ । २ । २) इति श्रुत्यन्तरम् ॥ ८ ॥
Eggeling
- And if the sun were to set on any one’s (Vasatīvarīs) not having been taken, then expiation is made. If he have performed a (Soma-)sacrifice before this, let him (the Adhvaryu) take it from his tank 9, since
that (water) of his has been taken before (sunset) by day. But should he not have offered before, if there be one who has offered (Soma) settled close by or somewhere thereabout 10, let him take it from his tank, since that (water) of his has been taken before, by day.
०९
विश्वास-प्रस्तुतिः
य᳘द्यु ऽएत᳘दुभ᳘यं न᳘ व्विन्दे᳘त्॥
(दु) उल्कुषी᳘मे᳘वादा᳘योपप᳘रेयात्ता᳘मुप᳘र्युपरि धार᳘यन्गृह्णीयाद्धि᳘रण्यं वोप᳘र्युपरि धार᳘यन्गृह्णीयात्त᳘देत᳘स्य रूपं᳘ क्रिय᳘ते य[[!!]] एष त᳘पति॥
मूलम् - श्रीधरादि
य᳘द्यु ऽएत᳘दुभ᳘यं न᳘ व्विन्दे᳘त्॥
(दु) उल्कुषी᳘मे᳘वादा᳘योपप᳘रेयात्ता᳘मुप᳘र्युपरि धार᳘यन्गृह्णीयाद्धि᳘रण्यं वोप᳘र्युपरि धार᳘यन्गृह्णीयात्त᳘देत᳘स्य रूपं᳘ क्रिय᳘ते य[[!!]] एष त᳘पति॥
मूलम् - Weber
य᳘द्यु एत᳘दुभ᳘यं न᳘ विन्दे᳘त्॥
उल्कुषी᳘मेॗवादा᳘योपप᳘रेयात्ता᳘मुप᳘र्युपरि धार᳘यन्गृह्णीयाद्धि᳘रण्यं वोप᳘र्युपरि धार᳘यन्गृह्णीयात्त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पति॥
मूलम् - विस्वरम्
यद्यु ऽएतदुभयं न विन्देत्- उल्कुषीमेवादायोपपरेयात् । तामुपर्युपरि धारयन् गृह्णीयात् । हिरण्यं वोपर्युपरि धारयन् गृह्णीयात् । तदेतस्य रूपं क्रियते- य एष तपति ॥ ९ ॥
सायणः
तदुभयासम्भवे आह- यद्यु एतदुभयं न विन्देदित्यादिना । ‘उल्कुषीम्’ उल्कामित्यर्थः । ‘एतस्य’ इत्यस्य व्याख्यानम्- य एष तपतीति । उल्काया हिरण्यस्य च सूर्यवर्णसाम्यात्तद्रूपकरणम् । अत्र सूत्रम्- “अस्तमितश्चेत् निनाह्यात् पुरेजानश्चेत् । अनीजानो ऽन्यस्यापि समीपवासितस्य पुरेजानस्य । उभयाभाव ऽउल्कुषीᳫं हिरण्यं वोपर्युपरि धारयन् हविष्मतीरित्यनेन मंत्रेण गृह्णाति” 8 (का. श्रौ. सू. २४९-२५१) इति ॥ ९ ॥
Eggeling
- But if he cannot obtain either kind (of water), let him seize a firebrand and betake himself (to the flowing water), and let him take thereof while holding that (firebrand) close above it; or let him take it while holding a piece of gold close above it: thus it is made like yonder burning (sun).
१०
विश्वास-प्रस्तुतिः
(त्य) अथातो गृह्णा᳘त्येव᳘॥
हवि᳘ष्मतीरिमा ऽआ᳘प इ᳘ति यज्ञ᳘स्य᳘ ह्यासु र᳘सः प्रा᳘विशत्त᳘स्मादाह हवि᳘ष्मतीरिमा[[!!]] आ᳘प इ᳘ति हविष्मा३ँ ऽआ᳘विवासती᳘ति हवि᳘ष्मा᳘न्ह्येना य᳘जमान आवि᳘वासति त᳘स्मादा᳘ह हवि᳘ष्मा३ँ ऽआ᳘विवासती᳘ति॥
मूलम् - श्रीधरादि
(त्य) अथातो गृह्णा᳘त्येव᳘॥
हवि᳘ष्मतीरिमा ऽआ᳘प इ᳘ति यज्ञ᳘स्य᳘ ह्यासु र᳘सः प्रा᳘विशत्त᳘स्मादाह हवि᳘ष्मतीरिमा[[!!]] आ᳘प इ᳘ति हविष्मा३ँ ऽआ᳘विवासती᳘ति हवि᳘ष्मा᳘न्ह्येना य᳘जमान आवि᳘वासति त᳘स्मादा᳘ह हवि᳘ष्मा३ँ ऽआ᳘विवासती᳘ति॥
मूलम् - Weber
अथातो गृह्णा᳘त्येव᳟॥
हवि᳘ष्मतीरिमा 11 आ᳘प इ᳘ति यज्ञ᳘स्यॗ ह्यासु र᳘सः प्रा᳘विशत्त᳘स्मादाह हवि᳘ष्मतीरि᳘मा आ᳘प इति हविष्मान् आ᳘विवासती᳘ति हवि᳘ष्माॗन्ह्येना य᳘जमान आवि᳘वासति त᳘स्मादाह हवि᳘ष्मान् आ᳘विवासती᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “हविष्मतीरिमा आपः”- (वा. सं. ६ । २३ ।)- इति । यज्ञस्य ह्यासु रसः प्राविशत्- तस्मादाह- हविष्मतीरिमा आप इति । “हविष्माँ ३ आविवासति”- (वा. सं. ६ । २३) इति । हविष्मान् ह्येना यजमान आविवासति । तस्मादाह- हविष्माँ३ आविवासतीति ॥ १० ॥
सायणः
ग्रहणस्य मन्त्रं विधत्ते- अथातो गृह्णात्येव हविष्मतीरिमा आप इति । इमाः’ गृह्यमाणाः ‘आपः’ ‘हविष्मतीः’ अभिषूयमाणेन सोमरूपान्नेन हविषा, स्वासु प्रविष्टेन यज्ञरसरूपेण हविषा वा तद्वत्यः । एताभिर्निष्पन्नेन सोमेन हविषा ‘हविष्मान्’, ‘यजमानः’ ‘आविवासति’ परिचरति एता वसतीवरीः ॥ १० ॥
Eggeling
- He takes therefrom with the text (V4;. S. VI, 23), ‘Rich in havis are these waters,’–for the sap of the sacrifice entered into them, wherefore he says, ‘Rich in havis (sacrificial food) are these waters;’–‘One rich in havis wooeth for (them),’ for the sacrificer, rich in havis, woos for (wishes to obtain) them; wherefore he says, ‘One rich in havis wooeth for (them).’
११
विश्वास-प्रस्तुतिः
हवि᳘ष्मान्देवो᳘ ऽअध्वर इ᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञस्तद्य᳘स्मै यज्ञा᳘य गृह्णा᳘ति त᳘ᳫं᳘ हवि᳘ष्मन्तं करोति त᳘स्मादाह हवि᳘ष्मान्देवो᳘ ऽअध्वर इ᳘ति॥
मूलम् - श्रीधरादि
हवि᳘ष्मान्देवो᳘ ऽअध्वर इ᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञस्तद्य᳘स्मै यज्ञा᳘य गृह्णा᳘ति त᳘ᳫं᳘ हवि᳘ष्मन्तं करोति त᳘स्मादाह हवि᳘ष्मान्देवो᳘ ऽअध्वर इ᳘ति॥
मूलम् - Weber
हवि᳘ष्मान्देवो᳘ अध्वर इ᳘ति॥
अध्वरो वै᳘ यज्ञस्तद्य᳘स्मै यज्ञा᳘य गृह्णा᳘ति त᳘ᳫं᳘ हवि᳘ष्मन्तं करोति त᳘स्मादाह हवि᳘ष्मान्देवो᳘ अध्वर इ᳘ति॥
मूलम् - विस्वरम्
“हविष्मान् देवो ऽअध्वरः”- (वा. सं. ६ । २३) इति । अध्वरो वै यज्ञः । तद्यस्मै यज्ञाय गृह्णाति- तं हविष्मन्तं करोति । तस्मादाह- हविष्मान् देवो अध्वर इति ॥ ११ ॥
सायणः
हविष्मान् देवो अध्वर इतीति । ‘देवः’ द्योत्तमानः ‘अध्वरः’ हिंसारहितः ‘यज्ञः’ गृह्यमाणैर्वसतीवरीलक्षणैर्हविर्भिः ‘हविष्मान्’ भवति ॥ ११ ॥
Eggeling
- ‘Rich in havis (may be) the divine cult;’ cult, namely, means the sacrifice; thus he makes the sacrifice for which he takes it rich in sacrificial food, therefore he says, ‘Rich in havis is the divine cult.’
१२
विश्वास-प्रस्तुतिः
हवि᳘ष्मा३ँ ऽअस्तु सू᳘र्य इ᳘ति॥
(त्ये) एत᳘स्मै वै᳘ गृह्णाति य᳘ एष त᳘पति व्वि᳘श्वेभ्यो᳘ ह्येना देवे᳘भ्यो गृह्णा᳘ति रश्म᳘यो᳘ ह्यस्य[[!!]] व्वि᳘श्वे देवास्त᳘स्मादाह हवि᳘ष्मा३ँ ऽअस्तु सू᳘र्य इ᳘ति॥
मूलम् - श्रीधरादि
हवि᳘ष्मा३ँ ऽअस्तु सू᳘र्य इ᳘ति॥
(त्ये) एत᳘स्मै वै᳘ गृह्णाति य᳘ एष त᳘पति व्वि᳘श्वेभ्यो᳘ ह्येना देवे᳘भ्यो गृह्णा᳘ति रश्म᳘यो᳘ ह्यस्य[[!!]] व्वि᳘श्वे देवास्त᳘स्मादाह हवि᳘ष्मा३ँ ऽअस्तु सू᳘र्य इ᳘ति॥
मूलम् - Weber
हवि᳘ष्मान् 12 अस्तु सू᳘र्य इ᳘ति॥
एत᳘स्मै वै᳘ गृह्णाति य᳘ एष त᳘पति वि᳘श्वेभ्योॗ ह्येना देवे᳘भ्यो गृह्णा᳘ति रश्म᳘यो ह्य᳘स्य वि᳘श्वे देवास्त᳘स्मादाह हवि᳘ष्मान् अस्तु सू᳘र्य इ᳘ति॥
मूलम् - विस्वरम्
“हविष्माँ ३ ऽअस्तु सूर्यः”- (वा. सं. ६ । २३) इति । एतस्मै वै गृह्णाति; य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति । रश्मयो ह्यस्य विश्वे देवाः । तस्मादाह- हविष्माँ ३ ऽअस्तु सूर्य इति ॥ १२ ॥
सायणः
हविष्माँ ३ ऽअस्तु सूर्य इतीति । ग्रहणस्य विश्वेदेवार्थत्वात्, विश्वेषां देवानां रश्मिरूपत्वात्, तद्वान् सूर्यो ऽपि गृह्यमाणैर्वसतीवरीलक्षणैर्हविर्भिर्हविष्मान् भवति । मन्त्रं प्रतिपादं विभज्य व्याचष्टे- हविष्मतीरिमा आप इति यज्ञस्य ह्यासु रसः प्राविशत् तस्मादाह हविष्मतीरित्यादिना । ‘आसु’ अप्सु ॥ १२ ॥
Eggeling
- ‘May Sūrya be rich in havis!’ For he takes it for yonder burning (sun), since he takes it for all the gods, and all the gods are his (the sun’s) rays of light; therefore he says, ‘May Sūrya (the sun) be rich in havis!’
१३
विश्वास-प्रस्तुतिः
ता᳘ आहृ᳘त्य जघ᳘नेन गा᳘र्हपत्यᳫं᳭ सादयति॥
(त्य) अग्नेर्व्वो᳘ ऽपन्नगृहस्य स᳘दसि सादयामी᳘त्यग्नेर्व्वो᳘ ऽनार्त्तगृहस्य स᳘दसि सादयामी᳘त्ये᳘वैत᳘दाहा᳘थ य᳘दाग्नीषोमी᳘यः पशुः᳘ सन्ति᳘ष्ठते᳘ ऽथ प᳘रिहरति व्यु᳘त्क्रामते᳘त्याहा᳘ग्रेण हविर्द्धा᳘ने य᳘जमान आस्ते ता आ᳘दत्ते॥
मूलम् - श्रीधरादि
ता᳘ आहृ᳘त्य जघ᳘नेन गा᳘र्हपत्यᳫं᳭ सादयति॥
(त्य) अग्नेर्व्वो᳘ ऽपन्नगृहस्य स᳘दसि सादयामी᳘त्यग्नेर्व्वो᳘ ऽनार्त्तगृहस्य स᳘दसि सादयामी᳘त्ये᳘वैत᳘दाहा᳘थ य᳘दाग्नीषोमी᳘यः पशुः᳘ सन्ति᳘ष्ठते᳘ ऽथ प᳘रिहरति व्यु᳘त्क्रामते᳘त्याहा᳘ग्रेण हविर्द्धा᳘ने य᳘जमान आस्ते ता आ᳘दत्ते॥
मूलम् - Weber
ता᳘ आहृ᳘त्य जघ᳘नेन गा᳘र्हपत्यᳫं सादयति॥
अग्नेर्वो᳘ ऽपन्नगृहस्य स᳘दसि सादयामी᳘त्यग्नेर्वो᳘ ऽनार्तगृहस्य स᳘दसि सादयामी᳘त्येॗवैत᳘दाहा᳘थ यॗदाग्नीषोमी᳘यः पशुः᳘ संति᳘ष्ठते᳘ ऽथ प᳘रिहरति व्यु᳘त्क्रामते᳘त्याहा᳘ग्रेण हविर्धा᳘ने य᳘जमान आस्ते ता आ᳘दत्ते॥
मूलम् - विस्वरम्
ता आहृत्य जघनेन गार्हपत्यं सादयति- “अग्नेर्वो ऽपन्नगृहस्य सदसि सादयामि”- (वा. सं. ६ । २४) इति । अग्नेर्वो ऽनार्तगृहस्य सदसि सादयामीत्येवैतदाह । अथ यदाग्नीषोमीयः पशुः सन्तिष्ठते- अथ परिहरति व्युत्क्रामतेत्याह । अग्रेण हविर्द्धाने यजमान आस्ते । ता आदते ॥ १३ ॥
सायणः
आहृतानामपां गार्हपत्यस्य पश्चाद्भागे सादनं तन्मन्त्रं च विधते- ता आहृत्येति 13 । अग्नेर्वो ऽपन्नगृहस्येति । ‘अपन्नगृहस्य’ अपतितगृहस्य, अशीर्णगृहस्येत्यर्थः । तस्य ‘अग्नेः’ ‘सदसि’ स्थाने ‘सादयामि’ । ‘अथ यदाग्नीषोमीयः पशुः सन्तिष्ठते’ पत्नीसंयाजान्तः समाप्तो भवति । ‘अथ’ तदा ‘परिहरति’ वसतीवरीर्वेदेः 14 परितो नयेत् । वेदिमध्ये स्थिता दीक्षिताः ! ‘व्युत्क्रामत’ ‘इत्याह’ अध्वर्युस्त्रिर्ब्रूयात् “व्युत्क्रामतेत्याह त्रिः” 15 इति कात्यायनः । ‘हविर्द्धाने’ हविर्द्धानस्य पुरोदेशे ‘यजमानः आस्ते’ । “उत्तरवेदिमपरेण यजमान उपस्थे सोमं कृत्वा”- (का. श्रौ. सू. ८ । २५६) इति सूत्रम् ॥ १३ ॥
Eggeling
- Having fetched it, he deposits it behind the Gārhapatya 16, with (Vāj. S. VI, 24), ‘I seat you in
the seat of Agni, the safe-housed;’ whereby he means to say, ‘I seat you (waters) in the seat of Agni, whose house is unimpaired.’ And when the animal offering to Agni and Soma comes to a close, then he carries (the Vasatīvarī water) round. He says (thrice), ‘Disperse!’ The sacrificer is seated in front of the Soma-carts (holding Soma on his lap 17). He (the Adhvaryu) takes it (the water standing behind the Gārhapatya).
१४
विश्वास-प्रस्तुतिः
स द᳘क्षिणेन नि᳘ष्क्रामति॥
ता द᳘क्षिणायाᳫं᳭ श्रो᳘णौ सादयतीन्द्राग्न्यो᳘र्भागधे᳘यी स्थे᳘ति व्वि᳘श्वेभ्यो[[!!]] ह्येना देवे᳘भ्यो गृह्णा᳘तीन्द्राग्नी हि व्वि᳘श्वे देवास्ताः पु᳘नराहृत्या᳘ग्रेण प᳘त्नीᳫं᳭ सादयति स᳘ जघ᳘नेन प᳘त्नीं पर्ये᳘त्य ता आ᳘दत्ते॥
मूलम् - श्रीधरादि
स द᳘क्षिणेन नि᳘ष्क्रामति॥
ता द᳘क्षिणायाᳫं᳭ श्रो᳘णौ सादयतीन्द्राग्न्यो᳘र्भागधे᳘यी स्थे᳘ति व्वि᳘श्वेभ्यो[[!!]] ह्येना देवे᳘भ्यो गृह्णा᳘तीन्द्राग्नी हि व्वि᳘श्वे देवास्ताः पु᳘नराहृत्या᳘ग्रेण प᳘त्नीᳫं᳭ सादयति स᳘ जघ᳘नेन प᳘त्नीं पर्ये᳘त्य ता आ᳘दत्ते॥
मूलम् - Weber
स द᳘क्षिणेन नि᳘ष्क्रामति॥
ता द᳘क्षिणायां श्रो᳘णौ सादयतीन्द्राग्न्यो᳘र्भागधे᳘यी स्थे᳘ति वि᳘श्वेभ्योॗ ह्येना देवे᳘भ्यो गृह्णा᳘तीन्द्राग्नी हि वि᳘श्वे देवास्ताः पु᳘नराहृत्या᳘ग्रेण प᳘त्नीᳫं सादयति स᳘ जघ᳘नेन प᳘त्नीम् पर्ये᳘त्य ता आ᳘दत्ते॥
मूलम् - विस्वरम्
स दक्षिणेन निष्क्रामति । ता दक्षिणायां श्रोणौ सादयति । “इन्द्राग्न्योर्भागधेयी स्थ”- (वा. सं. ६ । २४) इति । विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति । इन्द्राग्नी हि विश्वे देवाः । ताः पुनराहृत्याग्रेण पत्नीं सादयति । स जघनेन पत्नीं पर्येत्य ता आदत्ते ॥ १४ ॥
सायणः
स दक्षिणेन निष्क्रामतीति । अथ ‘ताः’ अध्वर्युरादाय, ‘दक्षिणेन’ द्वारेण प्राग्वंशान्निष्क्रम्य उत्तरवेद्या दक्षिणश्रोणौ ‘सादयति’ 18 “इन्द्राग्न्योर्भागधेयी स्थ”- ‘इति’ भागधेय्यौ । मन्त्रं व्याचष्टे- विश्वेभ्यो ह्येना इति । “ते देवा बिभ्यतो ऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवताः” इति हि तैत्तिरीयकश्रुतिः (तै. सं. १ । ८ । १ । साय. भा.) अत्रेव काण्डे- “देवानामुह दीक्षितानाम्”- (श. ब्रा. ३ कां. ४ अ. ३ ब्रा. ६ कं.) इत्यत्र “ते विदुरयं वै नो विरक्षस्तमो ऽस्यैव रूपमसाम” (श. ब्रा. ३ कां. ४ अ. ३ ब्रा. ८ कं.) इति देवानामग्निरूपधारणसाधारण्यस्योक्तत्वाच्चाग्नेः सर्वदेवमयत्वम् । इन्द्रस्य तु देवाधिपतित्वं प्रसिद्धम् । अत इन्द्राग्न्योर्भागधेयी स्थेत्यभिधानम् ॥
ताः पुनराहृत्याग्रेण पत्नीं सादयतीति 14 । पत्न्याः पश्चाद्देशेन ‘पर्येत्य’ पत्न्याः पुरोदेशे ऽवस्थिताः ‘ताः’ वसतीवरीः ‘आदत्ते’ (का. श्रौ. सू. ८ । २३० । २६१) ॥ १४ ॥
Eggeling
- He walks out (of the hall) by the south (door), and puts it down on the south hip (of the high altar), with, ‘Ye (waters) are Indra and Agni’s share!’ for he takes it for all the gods, and Indra and Agni are all the gods. He takes it up again and puts it down in front of the lady (who, seated behind the Gārhapatya, touches the water-jar). Walking round behind the lady he (again) takes it.
१५
विश्वास-प्रस्तुतिः
स उ᳘त्तरेण निष्क्रामति[[!!]]॥
ता उ᳘त्तरायाᳫं᳭ श्रो᳘णौ सादयति मित्राव᳘रुणयोर्भागधे᳘यी स्थे᳘ति᳘ नैव᳘ᳫं᳘ सादयेद᳘तिरिक्तमेत᳘न्नैव᳘ᳫं᳘ सम्पत्स᳘म्पद्यत ऽइन्द्राग्न्यो᳘र्भागधे᳘यी स्थे᳘त्येव᳘ ब्रूयात्त᳘देवा᳘नतिरिक्तं त᳘था सम्पत्स᳘म्पद्यते॥
मूलम् - श्रीधरादि
स उ᳘त्तरेण निष्क्रामति[[!!]]॥
ता उ᳘त्तरायाᳫं᳭ श्रो᳘णौ सादयति मित्राव᳘रुणयोर्भागधे᳘यी स्थे᳘ति᳘ नैव᳘ᳫं᳘ सादयेद᳘तिरिक्तमेत᳘न्नैव᳘ᳫं᳘ सम्पत्स᳘म्पद्यत ऽइन्द्राग्न्यो᳘र्भागधे᳘यी स्थे᳘त्येव᳘ ब्रूयात्त᳘देवा᳘नतिरिक्तं त᳘था सम्पत्स᳘म्पद्यते॥
मूलम् - Weber
स उ᳘त्तरेण नि᳘ष्क्रामति॥
ता उ᳘त्तरायां श्रो᳘णौ सादयति मित्राव᳘रुणयोर्भागधे᳘यी स्थे᳘तिॗ नैव᳘ᳫं᳘ सादयेद᳘तिरिक्तमेतॗन्नैव᳘ᳫं᳘ सम्पत्स᳘म्पद्यत इन्द्राग्न्यो᳘र्भागधे᳘यी स्थे᳘त्येव᳘ ब्रूयात्त᳘देवा᳘नतिरिक्तं त᳘था सम्पत्स᳘म्पद्यते॥
मूलम् - विस्वरम्
स उत्तरेण निष्क्रामति । ता उत्तरायां श्रोणौ सादयति । “मित्रावरुणयोर्भागधेयी स्थ”- (वा. सं. ६ । २४) इति । नैव सादयेत् । अतिरिक्तमेतत् । नैवं सम्पत्सम्पद्यते । इन्द्राग्न्योर्भागधेयी स्थेत्येव ब्रूयात् । तदेवानतिरिक्तम् । तथा सम्पत्सम्पद्यते ॥ १५ ॥
सायणः
आदाय, ‘उत्तरेण’ 18 मार्गेण ‘निष्क्रामति’ । निष्क्रम्य, उत्तरवेदेरुत्तरश्रोणौ सादयेत् । उत्तरश्रोणौ सादने कञ्चिन्मन्त्रं निर्दिश्य तस्य वक्ष्यमाणसम्पदतिरेकेण प्रातिकूल्यमभिधाय, दक्षिणवेदिश्रोणिसादनमन्त्रमेव सम्पदनुकूलत्वात् सिद्धान्तयति- मित्रावरुणयोर्भागधेयी स्थेति नैवं सादयेदित्यादिना 14 । ‘एवं’ यस्मादयं मन्त्रः ‘अतिरिक्तः’ अधिकः, अतो वक्ष्यमाणा सप्तपदोपेतशक्वरीच्छन्दःप्राप्तिलक्षणा ‘सम्पत्’ ‘न सम्पद्यते’ “इन्द्राग्स्योः”- इत्यनेनैव चेदनतिरेकात् सम्पद्यते ॥ १५ ॥
Eggeling
- He walks out (of the hall by the east door), along the north side (of the altar), and puts down (the water) on the north hip (of the high altar), with, ‘Ye are Mitra and Varuṇa’s share!’ Let him not put it down in this way 19 that is redundant, and no fitting conclusion is thus attained. Let him rather (here also) say, ‘Ye are Indra and Agni’s share!’ only thus there is nothing redundant, and so a fitting conclusion is obtained.
१६
विश्वास-प्रस्तुतिः
गु᳘प्त्यै वा᳘ ऽएताः प᳘रिह्रियन्ते॥
(न्ते ऽग्निः) अग्निः[[!!]] पुर᳘स्ताद᳘थैताः᳘ समन्तं प᳘ल्यङ्ग्यन्ते नाष्ट्रा र᳘क्षाᳫं᳭स्यपघ्न᳘त्यस्ता आ᳘ग्नीध्रे सादयति व्वि᳘श्वेषां देवा᳘नां भागधे᳘यी स्थे᳘ति त᳘दासु व्वि᳘श्वान्देवान्त्सं᳘वेशयत्येते वै व्व᳘सतां व᳘रं त᳘स्माद्वसतीव᳘र्यो ना᳘म व्व᳘सताᳫं᳭ ह वै व्व᳘रं भवति य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
गु᳘प्त्यै वा᳘ ऽएताः प᳘रिह्रियन्ते॥
(न्ते ऽग्निः) अग्निः[[!!]] पुर᳘स्ताद᳘थैताः᳘ समन्तं प᳘ल्यङ्ग्यन्ते नाष्ट्रा र᳘क्षाᳫं᳭स्यपघ्न᳘त्यस्ता आ᳘ग्नीध्रे सादयति व्वि᳘श्वेषां देवा᳘नां भागधे᳘यी स्थे᳘ति त᳘दासु व्वि᳘श्वान्देवान्त्सं᳘वेशयत्येते वै व्व᳘सतां व᳘रं त᳘स्माद्वसतीव᳘र्यो ना᳘म व्व᳘सताᳫं᳭ ह वै व्व᳘रं भवति य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - Weber
गु᳘प्त्यै वा᳘ एताः प᳘रिह्रियन्ते॥
अग्निः᳘ पुर᳘स्ताद᳘थैताः᳘ समन्तम् प᳘ल्यङ्ग्यन्ते नाष्ट्रा र᳘क्षांस्यपघ्न᳘त्यस्ता आ᳘ग्नीध्रे सादयति वि᳘श्वेषां देवा᳘नाम् भागधे᳘यी स्थे᳘ति त᳘दासु वि᳘श्वान्देवान्त्सं᳘वेशयत्येते वै व᳘सतां व᳘रं त᳘स्माद्वसतीव᳘र्यो ना᳘म व᳘सताᳫं ह वै व᳘रम् भवति य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - विस्वरम्
गुप्त्यै वा ऽएताः परिह्रियन्ते । अग्निः पुरस्तात् । अथैताः समन्तं पल्यङ्ग्यन्ते नाष्ट्रा रक्षांस्यपघ्नत्यः । ता आग्नीध्रे सादयति । “विश्वेषां देवानां भागधेयी स्थ"- (वा. सं. ६ । २४) इति । तदासु विश्वान् देवान्त्संवेशयति । एते वै वसतां वरम् । तस्माद्वसतीवर्यो नाम । वसतां ह वै वरं भवति । य एवमेतद्वेद ॥ १६ ॥
सायणः
सर्वतः परिहरणमुत्तरवेदेरपरिहरणञ्च प्रशंसति- गुप्त्यै वा एताः परिह्रियन्त इति । अपां वज्रत्वेन रक्षोविघातकत्वात् सर्वतः परिहरणेन यज्ञस्य रक्षस्सकाशात् सर्वतो गुप्तिर्भवति । साक्षाद्रक्षोद्वेषिणो ऽग्नेः पुरस्ताद् वर्त्तमानत्वान्न तदपेक्षा, पुरस्तात् परिहारापेक्षा नास्ति । ‘पल्यङ्ग्यन्ते’ परितो ऽङ्ग्यन्ते, ह्रियन्त इत्यर्थः । ‘ता आग्नीद्ध्रे’ इति । उत्तरश्रोणितश्चादाय आग्नीद्ध्रमण्डपे “विश्वेषां देवानामिति” मन्त्रेण सादयेत् 20 । ‘तत्’ तेन, “विश्वेषां देवानाम्"- इति मन्त्रपाठेन । संवेशनप्रसङ्गाद् वसतीवरीशब्दं निर्वक्ति- एते वै वसतां वरं तस्माद् वसतीवर्यो नामेति । ‘वसतां’ क्वचित् क्वचित् स्थानेषु निवसतां मध्ये ‘एते’ खलु देवाः ‘वरम्’ एतेषां वासो वरं श्रेष्ठ इत्यर्थः । वसतां देवानां श्रेष्ठत्वापादकत्वाद् वसतीवर्य इति नाम निष्पन्नम् । यद्वा एतेषु ‘एताः’ आपः ‘वसतां’ विश्वेषां देवानां ‘वरम्’ उत्कृष्टं स्थानमिति वसतीवर्य इति नाम । उक्तार्थज्ञं प्रशंसति- वसतां ह वै वरं भवतीति ॥ १६ ॥
Eggeling
- That (Vasatīvarī water) is carried round for the sake of protection; Agni is in front (of the sacrificial ground), and now that (water) moves about all round, repelling the evil spirits. He puts it
down in the Āgnīdhra (fire-house) with, ‘Ye are all the gods’ share!’ whereby he makes all the gods enter it. It is a desirable object (vara) to the dwellers (vasat), hence the name Vasatīvarī 21, and verily he who knows this, becomes a desirable object to the dwellers.
१७
विश्वास-प्रस्तुतिः
ता᳘नि वा᳘ ऽएता᳘नि सप्त य᳘जूᳫँ᳭षि भवन्ति॥
चतु᳘र्भिर्गृह्णात्ये᳘केन जघ᳘नेन गार्हपत्यᳫँ᳭सादयत्ये᳘केन प᳘रिहरत्ये᳘केना᳘ग्नीध्रे ता᳘नि सप्त य᳘त्र वै᳘ व्वाचः प्र᳘जातानि छ᳘न्दाᳫँ᳭सि सप्त᳘पदा वै ते᳘षां परा᳘र्द्ध्या श᳘क्वर्येता᳘मभिसम्प᳘दं त᳘स्मात्सप्त य᳘जूᳫँ᳭षि भवन्ति॥
मूलम् - श्रीधरादि
ता᳘नि वा᳘ ऽएता᳘नि सप्त य᳘जूᳫँ᳭षि भवन्ति॥
चतु᳘र्भिर्गृह्णात्ये᳘केन जघ᳘नेन गार्हपत्यᳫँ᳭सादयत्ये᳘केन प᳘रिहरत्ये᳘केना᳘ग्नीध्रे ता᳘नि सप्त य᳘त्र वै᳘ व्वाचः प्र᳘जातानि छ᳘न्दाᳫँ᳭सि सप्त᳘पदा वै ते᳘षां परा᳘र्द्ध्या श᳘क्वर्येता᳘मभिसम्प᳘दं त᳘स्मात्सप्त य᳘जूᳫँ᳭षि भवन्ति॥
मूलम् - Weber
ता᳘नि वा᳘ एता᳘नि सप्त य᳘जूंषि भवन्ति॥
चतु᳘र्भिर्गृह्णात्ये᳘केन जघ᳘नेन गार्हपत्यᳫं सादयत्ये᳘केन प᳘रिहरत्ये᳘केना᳘ग्नीध्रे ता᳘नि सप्त य᳘त्र वै᳘ वाचः प्र᳘जातानि छ᳘न्दांसि सप्त᳘पदा वै ते᳘षाम् पराॗर्ध्या श᳘क्वर्येता᳘मभिसम्प᳘दं त᳘स्मात्सप्त य᳘जूंषि भवन्ति॥
मूलम् - विस्वरम्
तानि वा ऽएतानि सप्त यजूंषि भवन्ति । चतुर्भिर्गृह्णाति, एकेन जघनेन गार्हपत्यं सादयति, एकेन परिहरति, एकेनाग्नीध्रे । तानि सप्त । यत्र वै वाचः प्रजातानि छन्दांसि । सप्तपदा वै तेषां परार्द्ध्या शक्वरी एतामभिसम्पदम् । तस्मात्सप्त यजूंषि भवन्ति ॥ १७ ॥
सायणः
वसतीवरीग्रहणप्रभृतीनामाग्नीद्ध्रसादनान्तानां मन्त्राणां या सप्तसङ्ख्या, तां शक्वरीत्वसम्पत्या प्रशंसति- तानि वा एतानि सप्त यजूंषीत्यादिना । चतुर्भिर्गृह्णातीत्यादि । सङ्ख्याविभागस्तु स्पष्ट एव । यत्र वै वाचः प्रजातानि छन्दांसीति । वाचः सकाशाच्छन्दसामुत्पत्तिः सोमाहरणप्रस्तावे “वागेव सुपर्णी”- इत्युक्त्वा “तथेति सा छन्दांसि ससृजे”- (श. प. ब्रा. ३ । ६ । २ । २-८) । इति प्राक् प्रतिपादिता । ‘तेषां’ मध्ये ‘परार्ध्या’ परार्द्धे भवा श्रेष्ठा ‘शक्वरी’ सप्तपदा सप्तभिः पादैरुपेता । परार्द्ध्यत्वं प्रधानभूतानां सप्तच्छंदसामुपरि भावित्वम् । एतां संख्याद्वारा शक्वरीप्राप्तिलक्षणां संपदमभिलक्ष्य सप्त मंत्राः कृता भवति । तस्मात्सप्तेति निगमनम् । एतामेव संपदमभिप्रेत्य प्राक्सम्पत्तिः- सप्तपदसद्भावरूपा ऋक् निर्वृत्ता ॥ १७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे नवमाध्याये तृतीयं ब्राह्मणम् ॥ (३-९-३) ॥
Eggeling
- Now there are here seven formulas; with four he takes (the water), with one he puts it down behind the Gārhapatya, with one he carries it round, with one (he puts it down) in the Āgnīdhra,–this makes seven. For when the metres were produced from Vāc (speech), the one consisting of seven feet, the Śakvarī, was the last (highest) of them;–that completeness (he brings about): hence there are seven formulas.
-
222:1 Yatra vai yajñasya śiro ’chḥidyata tasya raso drutvāpaḥ prāviśat sa esha rasa eti yā etā āpaḥ syandante tenaivainā etad rasena syandamānā manyante yaḥ sa yajñasya rasas tam evaitad rasaṁ syandamānam manyante, Kāṇva rec. ↩︎
-
222:2 ‘He divides it into three parts for all the pressings,’ Kāṇva text. See note on IV, 2, 3, 4. ↩︎
-
223:1 Aid hi; see p. 222, note 1. ↩︎
-
‘सूर्यस्यैवेन्द्रत्वात्तद्विभूतीनां’ इ. पा. । ↩︎
-
223:2 Or perhaps, ‘I will take it while I see the sap of the sacrifice.’ ↩︎
-
223:3 ‘Vasatīvarī’ seems to mean ‘affording dwelling;’ or perhaps, ’that (water) which abides, remains (over night).’ Cf. par. 16. ↩︎
-
223:4 ‘Nināhya’ (ninā́hyaḥ kumbháḥ, Kāṇva rec. each time); a vessel or cistern, dug into the ground for keeping water cool. ↩︎
-
224:1 Upāvasito vā paryavasito (prátiveśo, Kāṇva text instead) vā. ↩︎
-
हवि᳘ष्मां३ऽ A. ↩︎
-
हवि᳘ष्मां३ऽ A. ↩︎
-
अग्नेर्व्व इति निदधाति शालाद्वार्यमपरेण । का. श्रौ. सू. । ८ । २५२ । ↩︎
-
दक्षिणाग्निहोमान्तमग्नीषोमीयमस्तमितेसँ स्थाप्य व्युत्क्रामतेत्याह त्रिः । ↩︎
-
224:2 That is, behind the old Āhavanīya of the Prācīnavaṁśa, where the altar would be prepared at the ordinary haviryajña. ↩︎
-
225:1 According to Kāty. VIII, 9, 16. ↩︎
-
निर्हृत्यदक्षिणस्यामुत्तरवेदिश्रोणौ निदघातींद्राग्न्योः । ↩︎ ↩︎
-
225:2 ‘Some put it down with this (formula), but let him not put it down so, for thus completeness is left behind (or, has a surplus, sampad ricyate).’ Kāṇva text. ↩︎
-
व्विश्वेषां देवानामित्याग्नीध्रे का. श्रौ. सू. ८ । २६३ । ↩︎
-
226:1 Cf. Taitt. S. VI, 4, 2, ‘devāḥ . . . abruvan, vasatu nu na idam iti, tad vasatīvarīṇāṁ vasatīvaritvam.’ ↩︎