०१
विश्वास-प्रस्तुतिः
प्रजा᳘पतिर्व्वै᳘ प्रजाः᳘ ससृजानो᳘ रिरिचान᳘ इवामन्यत॥
त᳘स्मात्प᳘राच्यः प्रजा᳘ ऽआसु᳘र्नास्य प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्याय तस्थिरे॥
मूलम् - श्रीधरादि
प्रजा᳘पतिर्व्वै᳘ प्रजाः᳘ ससृजानो᳘ रिरिचान᳘ इवामन्यत॥
त᳘स्मात्प᳘राच्यः प्रजा᳘ ऽआसु᳘र्नास्य प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्याय तस्थिरे॥
मूलम् - Weber
प्रजा᳘पतिर्वै᳘ प्रजाः᳘ ससृजानो᳘ रिरिचान᳘ इवामन्यत॥
त᳘स्मात्प᳘राच्यः प्रजा᳘ आसुॗर्नास्य प्रजाः᳘ श्रिॗये ऽन्ना᳘द्याय तस्थिरे॥
मूलम् - विस्वरम्
अथ पश्वेकादशिनी ।
प्रजापतिर्वै प्रजाः ससृजानो रिरिचान इवामन्यत । तस्मात्पराच्यः प्रजा आसुः । नास्य प्रजाः श्रिये अन्नाद्याय तस्थिरे ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
पश्वेकादशिनीं विधातुमाख्यायिकामाह- प्रजापतिर्वै प्रजाः ससृजान इत्यादिना । ‘रिरिचान इवामन्यत’ आत्मानं रिक्तमिवाबुद्ध्यत । कुत इत्यत आह- तस्मात् पराच्यः प्रजा आसुरिति । ‘तस्मात्’ प्रजापतेः सकाशात् ‘प्रजाः’ ‘पराच्यः’ पराङ्मुखा एव अभवन् । रिक्तत्वमेव विशदयति- नास्य प्रजा इति । लोके यथा बहुप्रजः कश्चित् ताभिरर्जितैर्धनादिभिः श्रीयुक्तो ऽन्नादिमांश्च भवति, एवमस्य तथा न स्थितवत्य इत्यर्थः ॥ १ ॥
Eggeling
०२
विश्वास-प्रस्तुतिः
स᳘ ऐक्षता᳘रिक्ष्य᳘हम्॥
(म᳘) अ᳘स्मा ऽनु का᳘माया᳘सृक्षि न᳘ मे स का᳘मः स᳘मार्द्धि प᳘राच्यो म᳘त्प्रजा᳘ अभूवन्न᳘ मे प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्यायास्थिषते᳘ति॥
मूलम् - श्रीधरादि
स᳘ ऐक्षता᳘रिक्ष्य᳘हम्॥
(म᳘) अ᳘स्मा ऽनु का᳘माया᳘सृक्षि न᳘ मे स का᳘मः स᳘मार्द्धि प᳘राच्यो म᳘त्प्रजा᳘ अभूवन्न᳘ मे प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्यायास्थिषते᳘ति॥
मूलम् - Weber
स᳘ ऐक्षता᳘रिक्ष्य᳘हम्॥
अ᳘स्मा उ का᳘माया᳘सृक्षि न᳘ मे स का᳘मः स᳘मार्धि प᳘राच्यो म᳘त्प्रजा᳘ अभूवन्न᳘ मे प्रजाः᳘ श्रिॗये ऽन्ना᳘द्यायास्थिषते᳘ति॥
मूलम् - विस्वरम्
स ऐक्षत- ‘अरिक्ष्यहम् । यस्मा ऽउ कामायासृक्षि- न मे स कामः समार्द्धि, पराच्यो मत्प्रजा अभूवन्- न मे प्रजाः श्रिये अन्नाद्यायास्थिषत इति ॥ २ ॥
सायणः
स ऐक्षतेति । विचारं कृतवान् ‘अरिक्षि’ अतिरिक्तो ऽभूवम् । रिचेर्लुङुत्तमैकवचने रूपम् । तदेव विशदयति- अहमस्मा उ कामायासृक्षीति । अहं यस्मै कामाय ‘असृक्षि’ प्रजासृष्टिमकार्षम् । ‘स कामो न मे’ समार्द्धि ‘समृद्धियुक्तो ऽभूत् । तमेव विशिनष्टि- न मे प्रजाः श्रिये चान्नाद्यायेति । प्रजाभ्यः सकाशात् श्रीलाभो ऽन्नलाभश्च तस्य काम इत्यर्थः ॥ २ ॥
Eggeling
- He thought within him, ‘I have exhausted
myself, and the object for which 3 I have created has not been accomplished: my creatures have turned away from me, the creatures have not abode with me for my joy and food.’
०३
विश्वास-प्रस्तुतिः
स᳘ ऐक्षत प्रजा᳘पतिः॥
कथं नु पु᳘नरात्मा᳘नमा᳘प्याययेयो᳘प मा प्रजाः᳘ समा᳘वर्त्तेरंस्ति᳘ष्ठेरन्मे प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्याये᳘ति॥
मूलम् - श्रीधरादि
स᳘ ऐक्षत प्रजा᳘पतिः॥
कथं नु पु᳘नरात्मा᳘नमा᳘प्याययेयो᳘प मा प्रजाः᳘ समा᳘वर्त्तेरंस्ति᳘ष्ठेरन्मे प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्याये᳘ति॥
मूलम् - Weber
स᳘ ऐक्षत प्रजा᳘पतिः॥
कथं नु पु᳘नरात्मा᳘नमा᳘प्याययेयो᳘प मा प्रजाः᳘ समा᳘वर्तेरंस्ति᳘ष्ठेरन्मे प्रजाः᳘ श्रिॗये ऽन्ना᳘द्याये᳘ति॥
मूलम् - विस्वरम्
स ऐक्षत प्रजापतिः- कथं नु पुनरात्मानमाप्यायेय, उप मा प्रजाः समावर्तेरन्, तिष्ठेरन्मे प्रजाः श्रिये ऽन्नाद्याय इति ॥ ३ ॥
सायणः
स ऐक्षत इति । अथ स एव प्रजापतिः केनोपायेनात्मन आप्यायनं करोमि तदर्थं ‘अर्चन्’ आत्मानं पूजयन् बुद्धिचाञ्चल्यान्निवत्य विचारे स्थापनमेवात्रपूजा, तदर्थं ‘श्राम्यन्’ आत्मानं खेदयन् ‘विचारः’ अयमेवोपायः इति । विचारविषयां बुद्धिं प्रसारितवानित्यर्थः ॥ ३ ॥
Eggeling
- Prajāpati thought within him, ‘How can I again strengthen myself: the creatures might then return to me; the creatures might abide with me for my joy and food!’
०४
विश्वास-प्रस्तुतिः
सो᳘ ऽर्चञ्छ्रा᳘म्यंश्चचार प्रजा᳘कामः॥
स᳘ ऽएता᳘मेकादशि᳘नीमपश्यत्स᳘ ऽएकादशि᳘न्येष्ट्वा᳘ प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययतो᳘पैनं प्रजाः᳘ समा᳘वर्तन्ता᳘तिष्ठन्तास्य प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्याय स व्व᳘सीयाने᳘वे᳘ष्ट्वा᳘भवत्॥
मूलम् - श्रीधरादि
सो᳘ ऽर्चञ्छ्रा᳘म्यंश्चचार प्रजा᳘कामः॥
स᳘ ऽएता᳘मेकादशि᳘नीमपश्यत्स᳘ ऽएकादशि᳘न्येष्ट्वा᳘ प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययतो᳘पैनं प्रजाः᳘ समा᳘वर्तन्ता᳘तिष्ठन्तास्य प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्याय स व्व᳘सीयाने᳘वे᳘ष्ट्वा᳘भवत्॥
मूलम् - Weber
सो᳘ ऽर्चञ्छ्रा᳘म्यंश्चचार प्रजा᳘कामः॥
स᳘ एता᳘मेकादशि᳘नीमपश्यत्स᳘ एकादशि᳘न्येष्ट्वा᳘ प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययतो᳘पैनम् प्रजाः᳘ समा᳘वर्तन्ता᳘तिष्ठन्तास्य प्रजाः᳘ श्रिॗये ऽन्ना᳘द्याय स व᳘सीयानेॗवेष्ट्वाभवत्॥
मूलम् - विस्वरम्
सो ऽर्चञ्च्छ्राम्यंश्चचार प्रजाकामः । स एतामेकादशिनीमपश्यत् । स एकादशिन्येष्ट्वा प्रजापतिः पुनरात्मानमाप्याययत- उपैनं प्रजाः समावर्तन्त- अतिष्ठन्तास्य प्रजाः श्रिये ऽन्नाद्याय- स वसीयानेवेष्ट्वाभवत् ॥ ४ ॥
सायणः
सो ऽर्च्चन्निति । यदा बाह्यव्यापारेणैव ‘अर्च्चन्’ ‘श्राम्यन्’ तपः ‘चचार’ इत्यर्थः । स एतामिति । ‘सः’ च एवं कृत्वा बहुत्वाय पश्वेकादशिनीम् ‘अपश्यत्’ प्रजाप्राप्तिसाधनत्वेन ज्ञातवान् । एकादशिन्येष्ट्वा प्रजापतिरित्यादि स्पष्टम् । वसीयानेवेष्ट्वाभवदिति । ‘वसीयान्’ वसुमत्तरः ॥ ४ ॥
Eggeling
- He went on praising and toiling, desirous of creatures (or progeny). He beheld that set of eleven (victims). By offering therewith Prajāpati again strengthened himself; the creatures returned to him, his creatures abode for his joy and food. By offering he truly became better.
०५
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘स्मै कमेकादशि᳘न्या यजेत॥
(तै) एव᳘ᳫं᳘ हैव᳘ प्रज᳘या पशु᳘भिरा᳘प्यायत उ᳘पैनं प्रजाः᳘ समा᳘वर्तन्ते ति᳘ष्ठन्ते ऽस्य प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्याय स व्व᳘सीयाने᳘वेष्ट्वा᳘ भवत्येत᳘स्मै कमेकादशि᳘न्या यजते॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘स्मै कमेकादशि᳘न्या यजेत॥
(तै) एव᳘ᳫं᳘ हैव᳘ प्रज᳘या पशु᳘भिरा᳘प्यायत उ᳘पैनं प्रजाः᳘ समा᳘वर्तन्ते ति᳘ष्ठन्ते ऽस्य प्रजाः᳘ श्रि᳘ये ऽन्ना᳘द्याय स व्व᳘सीयाने᳘वेष्ट्वा᳘ भवत्येत᳘स्मै कमेकादशि᳘न्या यजते॥
मूलम् - Weber
त᳘स्मै कमेकादशि᳘न्या यजेत॥
एव᳘ᳫं᳘ हैव᳘ प्रज᳘या पशु᳘भिरा᳘प्यायत उ᳘पैनम् प्रजाः᳘ समा᳘वर्तन्ते ति᳘ष्ठन्ते ऽस्य प्रजाः᳘ श्रिॗये ऽन्ना᳘द्याय स व᳘सीयानेॗवेष्ट्वा᳘ भवत्येत᳘स्मै कमेकादशि᳘न्या यजते॥
मूलम् - विस्वरम्
तस्मै कमेकादशिन्या यजेत । एवं हैव प्रजया पशुभिराप्यायते, उपैनं प्रजाः समावर्तन्ते, तिष्ठन्ते ऽस्य प्रजाः श्रिये ऽन्नाद्याय- स वसीयानेवेष्ट्वा भवति । एतस्मै कमेकादशिन्या यजते ॥ ५ ॥
सायणः
न केवलं प्रजापतेरेवैकादशिनीप्रयोगादेतदुक्तं फलम्, किन्तु इदानीन्तनमपि तत्फलं तदनुष्ठानाद्भवतीत्याह- तस्मै कमेकादशिन्या यजेतेत्यादिना । कमिति पुरुषम् । य एकादशिन्या यजते, ‘तस्मै’ आप्यायनादिकामाय । स यजमानः ‘प्रजया पशुभिः’ ‘आप्यायते’ प्रवर्द्धते । आप्यायनेन ‘एनं’ यजमानं ‘प्रजाः’ पुत्रभृत्यादिरूपाः ‘समावर्त्तन्ते’ प्रतिनिवर्त्तन्ते । आगत्य च तदाप्यायनाय ‘श्रिये अन्नाद्याय’ च ‘प्रजाः’ ‘तिष्ठन्ते’ आत्मानं प्रकाशयन्ति, अनेन श्रिया चाप्यायनं प्रसिद्धम् ॥ ५ ॥
Eggeling
- Therefore, then, let him offer with the set of eleven (victims), for thus he truly strengthens himself by offspring and cattle the creatures turn unto him, the creatures abide with him for his joy and food;–he truly becomes better by offering: therefore, then, let him offer with the set of eleven (victims).
०६
विश्वास-प्रस्तुतिः
स᳘ ऽआग्नेयं᳘ प्रथमं᳘ पशुमा᳘लभते॥
(ते ऽग्नि) अग्निर्व्वै᳘ देव᳘तानां मु᳘खं प्रजनयिता स᳘ प्रजा᳘पतिः स᳘ उ ऽएव य᳘जमानस्त᳘स्मादाग्नेयो᳘ भवति॥
मूलम् - श्रीधरादि
स᳘ ऽआग्नेयं᳘ प्रथमं᳘ पशुमा᳘लभते॥
(ते ऽग्नि) अग्निर्व्वै᳘ देव᳘तानां मु᳘खं प्रजनयिता स᳘ प्रजा᳘पतिः स᳘ उ ऽएव य᳘जमानस्त᳘स्मादाग्नेयो᳘ भवति॥
मूलम् - Weber
स᳘ आग्नेय᳘म् प्रथम᳘म् पशुमा᳘लभते॥
अग्निर्वै᳘ देव᳘तानाम् मु᳘खम् प्रजनयिता स᳘ प्रजा᳘पतिः स᳘ उ एव य᳘जमानस्त᳘स्मादाग्नेयो भवति॥
मूलम् - विस्वरम्
स आग्नेयं प्रथमं पशुमालभते । अग्निर्वै देवानां मुखम्, प्रजनयिता, स प्रजापतिः, स उ ऽएव यजमानः । तस्मादाग्नेयो भवति ॥ ६ ॥
सायणः
इत्थं सामान्येनैकादशिन्याः फलमभिधाय, तानेकादशिनान् पशून् क्रमेण विधाय, तत्फलं च विभज्य दर्शयति- स आग्नेयं प्रथमं पशुमालभत इत्यादिना 4 । अग्निर्देवता अस्य स आग्नेयः पशुः तम्, ‘प्रथममालभते’ । सत्स्वनेकदेवताकेषु प्रथममाग्नेयेन भवितव्यमित्येतस्मिन्नर्थे कारणमाह- अग्निर्वै देवतानां मुखं प्रजनयितेति । यः परिपाकहेतुत्वेन सर्वस्य प्रजनयिता अग्निः, सः ‘देवतानां मुखम्’ खलु । देवानां प्रमुखत्वम् “अग्निर्वै देवानामवमः” (ऐ. ब्रा. १ । १ । १) इति, “अग्निमुखा वै देवाः” (ता. ब्रा. २५ । १५ । ४)- इति श्रुत्यन्तराच्च सिद्धम् । अथवा देवानां मध्ये अग्निरेव ‘मुखम्’ प्रजनयिता, मुख्यत्वेनोत्पादकः, “तामग्निरिन्धते, सोमो रेतो दधातन, सविता प्राजनयत्"- इत्यादौ अग्नेरेवेन्धकत्वदर्शनात् 5 । ‘सः’ अग्निः प्रजापतिना समत्वात् ‘प्रजापतिः’ । ‘स एव’ अग्निः ‘यजमानः’ च गार्हपत्यः सन् यजमानरूपेणावस्थानात्, यज्ञनिष्पादकत्वसाम्याद्वा यजमानत्वम् । तस्मात् स्वात्मलाभाय आग्नेयः पशु, कर्त्तव्यः ॥ ६ ॥
Eggeling
- In the first place he seizes 6 a victim for Agni. For Agni is the head, the progenitor of the gods, he is the lord of creatures: and thereby the sacrificer truly becomes Agni’s own.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ सारस्वतम्[[!!]]॥
व्वाग्वै स᳘रस्वती व्वा᳘चैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत व्वा᳘गेनमुपसमा᳘वर्तत व्वा᳘चम᳘नुकामात्म᳘नो ऽकुरुत व्वा᳘चो ए᳘वैष᳘ ऽएत᳘दाप्या᳘यते व्वा᳘गेनमुपसमा᳘वर्तते व्वा᳘चम᳘नुकामात्म᳘ना कुरुते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ सारस्वतम्[[!!]]॥
व्वाग्वै स᳘रस्वती व्वा᳘चैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत व्वा᳘गेनमुपसमा᳘वर्तत व्वा᳘चम᳘नुकामात्म᳘नो ऽकुरुत व्वा᳘चो ए᳘वैष᳘ ऽएत᳘दाप्या᳘यते व्वा᳘गेनमुपसमा᳘वर्तते व्वा᳘चम᳘नुकामात्म᳘ना कुरुते॥
मूलम् - Weber
अ᳘थ सारस्वत᳘म्॥
वाग्वै स᳘रस्वती वाॗचैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत वा᳘गेनमुपसमा᳘वर्तत वा᳘चम᳘नुकामात्म᳘नो ऽकुरुत वाॗचो एॗवैष᳘ एत᳘दाप्या᳘यते वा᳘गेनमुपसमा᳘वर्तते वा᳘चम᳘नुकामात्म᳘नः कुरुते॥
मूलम् - विस्वरम्
अथ सारस्वतम् । वाग्वै सरस्वती । वाचैव तत् प्रजापतिः पुनरात्मानमाप्याययत, वागेनमुपसमावर्तत, वाचमनुकामात्मनो ऽकुरुत । वाचो एवैष एतदाप्यायते, वागेनमुपसमावर्तते, वाचमनुकामात्मना कुरुते ॥ ७ ॥
सायणः
अथ सारस्वतमिति। आलभत इति शेषः । या ‘सरस्वती’ अस्ति सा ‘वाग्वै’ वाग्रूपा खलु । ‘वाचैव’ द्वितीयपशोर्देवतया स्वातिरिक्तं स्वात्मानं ‘पुनराप्याययत’ । ‘वाग्’ वाग्रूपा प्रजा एनं प्रजापतिम् उपावृत्ततया ‘समावर्त्तत’ । ‘वाचमात्मनो ऽनुकां’ अनुकामयत इत्यनुका अनुकूलां अकरोत् । ‘वाचम्’ ‘अनु’ ‘एव’ ‘एषः’ यजमानः ‘आत्मनः’ कामनादिकं करोति ॥ एवमुत्तरेषां पशूनां 7 ब्राह्मणानि [च] व्याख्येयानि ॥ ७ ॥ ८ ॥
Eggeling
- Then one for Sarasvatī. For Sarasvatī is speech: by speech Prajāpati then again strengthened himself; speech turned unto him, speech he made subject to himself. And so does this one now become strong by speech, and speech turns unto him, and he makes speech subject to himself.
०८
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ सौम्यम्[[!!]]॥
(म᳘) अ᳘न्नं वै सोमो᳘ ऽन्नेनैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययता᳘न्नमेनमुपसमा᳘वर्तता᳘न्नम᳘नुकमात्म᳘नो ऽकुरुता᳘न्नेनो ऽए᳘वैष᳘ एत᳘दाप्यायते᳘[[!!]] ऽन्नमेनमुपसमा᳘वर्तते᳘ ऽन्नम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ सौम्यम्[[!!]]॥
(म᳘) अ᳘न्नं वै सोमो᳘ ऽन्नेनैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययता᳘न्नमेनमुपसमा᳘वर्तता᳘न्नम᳘नुकमात्म᳘नो ऽकुरुता᳘न्नेनो ऽए᳘वैष᳘ एत᳘दाप्यायते᳘[[!!]] ऽन्नमेनमुपसमा᳘वर्तते᳘ ऽन्नम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - Weber
अ᳘थ सौम्य᳘म्॥
अ᳘न्नं वै सोमो᳘ ऽन्नेनैव त᳘त्प्रजा᳘पतिः 8 पु᳘नरात्मा᳘नमा᳘प्याययता᳘न्नमेनमुपसमा᳘वर्तता᳘न्नम᳘नुकमात्म᳘नो ऽकुरुता᳘न्नेनो एॗवैष᳘ एत᳘दाप्या᳘यते᳘ ऽन्नमेनमुपसमा᳘वर्तते᳘ ऽन्नम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - विस्वरम्
अथ सौम्यम् । अन्नं वै सोमः । अन्नेनैव तत्प्रजापतिः पुनरात्मानमाप्याययत, अन्नमेनमुपसमावर्तत, अन्नमनु कमात्मनो ऽकुरुत । अन्नेनो ऽएवैष एतदाप्यायते, अन्नमेनमुपसमावर्तते, अन्नमनु कमात्मनः कुरुते ॥ ८॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- Then one for Soma. For Soma is food: by
food Prajāpati then again strengthened himself; food turned unto him, and he made food subject to himself. And so does this one now become strong by food; food turns unto him, and he makes food subject to himself.
०९
विश्वास-प्रस्तुतिः
तद्य᳘त्सारस्वतम᳘नुभ᳘वति॥
व्वाग्वै स᳘रस्वत्य᳘न्नᳫँ᳭सो᳘मस्त᳘स्माद्यो᳘ व्वाचा᳘ प्रसा᳘म्यन्नादो᳘ हैव᳘ भवति॥
मूलम् - श्रीधरादि
तद्य᳘त्सारस्वतम᳘नुभ᳘वति॥
व्वाग्वै स᳘रस्वत्य᳘न्नᳫँ᳭सो᳘मस्त᳘स्माद्यो᳘ व्वाचा᳘ प्रसा᳘म्यन्नादो᳘ हैव᳘ भवति॥
मूलम् - Weber
तद्य᳘त्सारस्वतम᳘नु भ᳘वति॥
वाग्वै स᳘रस्वत्यन्नᳫं सो᳘मस्त᳘स्माद्यो᳘ वाचा᳘ प्रसाम्य᳘न्नादो᳘ हैव᳘ भवति॥
मूलम् - विस्वरम्
तद् यत् सारस्वतमनुभवति । वाग्वै सरस्वती । अन्नं सोमः । तस्माद्यो वाचा प्रसामि- अन्नादो हैव भवति ॥ ९ ॥
सायणः
सौम्यस्य पशोः सारस्वतानन्तर्यं प्रशंसति- तद्यत्सारस्वतमनुभवतीति । वाग्वै सरस्वत्यन्नमिति । सोमस्यौषध्यधिपतित्वात् तत्स्वरूपमधिदैवम्, देवैरद्यमानत्वादधिभूतम्, ओषध्यात्मकत्वादन्नमिति । ‘तस्माद्’ ‘यः’ पुमान् ‘वाचा’ ‘प्रसामि’ अत्यल्पः, 7 सः ‘अन्नादो भवति’ । वाचो ऽन्नसाधनत्वात् सारस्वतानन्तरः सौम्यो युक्तः ॥ ९ ॥
Eggeling
- And as to why it comes after that for Sarasvatī,–Sarasvatī is speech, and Soma is food: he who is incomplete by (having only) speech, now becomes indeed an eater of food.
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ पौष्ण᳘म्॥
पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरेव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत पश᳘व ऽएनमुपसमा᳘वर्तन्त पशून᳘नुकानात्म᳘नो ऽकुरुत पशु᳘भिर्व्वे᳘वैष ऽएत᳘दाप्या᳘यते पश᳘व एनमुपसमा᳘वर्तन्ते पशून᳘नुकानात्म᳘नः कुरुते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ पौष्ण᳘म्॥
पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरेव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत पश᳘व ऽएनमुपसमा᳘वर्तन्त पशून᳘नुकानात्म᳘नो ऽकुरुत पशु᳘भिर्व्वे᳘वैष ऽएत᳘दाप्या᳘यते पश᳘व एनमुपसमा᳘वर्तन्ते पशून᳘नुकानात्म᳘नः कुरुते॥
मूलम् - Weber
अ᳘थ पौष्ण᳘म्॥
पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरेव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत पश᳘व एनमुपसमा᳘वर्तन्त पशून᳘नुकानात्म᳘नो ऽकुरुत पशु᳘भिर्वेॗवैष एत᳘दाप्या᳘यते पश᳘व एनमुपसमा᳘वर्तन्ते पशून᳘नुकानात्म᳘नः कुरुते॥
मूलम् - विस्वरम्
अथ पौष्णम् । पशवो वै पूषा । पशुभिरेव तत्- प्रजापतिः पुनरात्मानमाप्याययत, पशव एनमुपसमावर्तन्त, पशूननुकानात्मनो ऽकुरुत । पशुभिर्वेवैष एतदाप्यायते, पशव एनमुपसमावर्तन्ते, पशूननुकानात्मनः कुरुते ॥ १० ॥
सायणः
अथ पौष्णमिति । ‘अथ’ सौम्यानन्तरं ‘पौष्णं’ पूषदेवताकं पशुमालभते । पशवो वै पूषेत्यादि, पूर्ववत् ॥ १० ॥
Eggeling
- Then one for Pūshan. For Pūshan means cattle; by means of cattle Prajāpati then again strengthened himself; cattle turned unto him, he made cattle subject to himself. And so does this one now become strong by means of cattle; the cattle turn unto him, and he makes the cattle subject to himself.
११
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ बार्हस्पत्य᳘म्॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मणैवैत᳘त्प्रजा᳘पतिः[[!!]] पु᳘नरात्मा᳘नमा᳘प्याययत ब्र᳘ह्मैनमुपसमा᳘वर्तत ब्रह्मा᳘नुकमात्म᳘नो ऽकुरुत ब्र᳘ह्मणो ऽए᳘वैष᳘ ऽएत᳘दाप्या᳘यते ब्र᳘ह्मैनमुपसमा᳘वर्त्तते ब्रह्मा᳘नुकमात्म᳘नः कुरुते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ बार्हस्पत्य᳘म्॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मणैवैत᳘त्प्रजा᳘पतिः[[!!]] पु᳘नरात्मा᳘नमा᳘प्याययत ब्र᳘ह्मैनमुपसमा᳘वर्तत ब्रह्मा᳘नुकमात्म᳘नो ऽकुरुत ब्र᳘ह्मणो ऽए᳘वैष᳘ ऽएत᳘दाप्या᳘यते ब्र᳘ह्मैनमुपसमा᳘वर्त्तते ब्रह्मा᳘नुकमात्म᳘नः कुरुते॥
मूलम् - Weber
अ᳘थ बार्हस्पत्य᳘म्॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मणैॗवैत᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत ब्र᳘ह्मैनमुपसमा᳘वर्तत ब्रह्मा᳘नुकमात्म᳘नो ऽकुरुत ब्र᳘ह्मणो एॗवैष᳘ एत᳘दाप्या᳘यते ब्र᳘ह्मैनमुपसमा᳘वर्तते ब्रह्मा᳘नुकमात्म᳘नः कुरुते॥
मूलम् - विस्वरम्
अथ बार्हस्पत्यम् । ब्रह्म वै बृहस्पतिः । ब्रह्मणैवैतत्प्रजापतिः पुनरात्मानमाप्याययत, ब्रह्मैनमुपसमावर्तत, ब्रह्मानुकमात्मनो ऽकुरुत । ब्रह्मणो ऽएवैष एतदाप्यायते, ब्रह्मैनमुपसमावर्तते, ब्रह्मानुकमात्मनः कुरुते ॥ ११ ॥
सायणः
अथ बार्हस्पत्यमिति । ‘बार्हस्पत्यं’ बृहस्पतिदेवताकं पशुमालभते । बृहस्पतेर्मन्त्राभिमानिदेवत्वाद् 9 ब्रह्मत्वम्; अथवा ‘बृहस्पतिः’ ‘ब्रह्म वै’ ब्राह्मणजातिः खलु ॥ ११ ॥
Eggeling
- Then one for Br̥haspati. For Br̥haspati means the priesthood (brahman); by means of the priesthood Prajāpati then again strengthened himself; the priesthood turned unto him, he made the priesthood subject to himself. And so does this one now become strong by means of the Brahman; the priesthood turns unto him, he makes the priesthood subject to himself.
१२
विश्वास-प्रस्तुतिः
तद्य᳘त्पौष्णम᳘नुभ᳘वति॥
पश᳘वो वै᳘ पूषा ब्र᳘ह्म बृ᳘हस्प᳘तिस्त᳘स्माद्ब्राह्मणः᳘ पशू᳘नभिधृष्णु᳘तमः पुराहिता᳘ ह्यस्य[[!!]] भ᳘वन्ति मु᳘ख ऽआ᳘हितास्त᳘स्मादु त᳘त्स᳘र्व्वं द᳘त्त्वाजिनवासी᳘ चरति॥
मूलम् - श्रीधरादि
तद्य᳘त्पौष्णम᳘नुभ᳘वति॥
पश᳘वो वै᳘ पूषा ब्र᳘ह्म बृ᳘हस्प᳘तिस्त᳘स्माद्ब्राह्मणः᳘ पशू᳘नभिधृष्णु᳘तमः पुराहिता᳘ ह्यस्य[[!!]] भ᳘वन्ति मु᳘ख ऽआ᳘हितास्त᳘स्मादु त᳘त्स᳘र्व्वं द᳘त्त्वाजिनवासी᳘ चरति॥
मूलम् - Weber
तद्य᳘त्पौष्णम᳘नु भ᳘वति॥
पश᳘वो वै᳘ पूषा ब्र᳘ह्म बृ᳘हस्प᳘तिस्त᳘स्माद्ब्राह्मणः᳘ पशू᳘नभिधृष्णु᳘तमः पुराहिता ह्य᳘स्य भ᳘वन्ति मु᳘ख आ᳘हितास्त᳘स्मादु तत्स᳘र्वं दॗत्त्वाजिनवासी᳘ चरति॥
मूलम् - विस्वरम्
तद् यत् पौष्णमनु भवति । पशवो वै पूषा । ब्रह्म बृहस्पतिः । तस्माद् ब्राह्मणः पशूनभिधृष्णुतमः । पुराहिता ह्यस्य भवन्ति- मुख आहिताः । तस्मादु तत्सर्वं दत्त्वाजिनवासी चरति ॥ १२ ॥
सायणः
बार्हस्पत्यस्य पौष्णानन्तर्ये युक्तिमाह- तद्यत् पौष्णमनु भवतीति । पूष्णः पूषाधिदेवत्वात् 9 पशूनां पोषकत्वात् ‘पूषा’ पशवः । ‘तस्मात्’ बार्हस्पत्यस्य पौष्णानन्तर्याद्धेतोः ‘ब्राह्मणः’ ‘पशून्’ ‘अभिधृष्णुतमो भवति’ अत्यन्तधर्षको भवति । ‘अस्य’ एवंक्रमेणानुष्ठातुर्यजमानस्य ‘पुरोहिताः’ 10 पुरोहिताः, पुरः स्थापिताः ‘भवन्ति’ पशवः । तदेव व्याचष्टे- मुख आहिता इति । यस्माद्ब्राह्मणस्य पशुषु स्वामित्वमस्ति ‘तस्मादु’ तस्मादेव कारणात् ‘सर्वं’ ब्राह्मणेभ्यो ‘दत्त्वा’ ‘अजिनवासी’ अजिनमाच्छाद्य ‘सञ्चरति’ ।
सर्वस्वदक्षिणाके विश्वजिदादौ सर्वस्वं दत्त्वा अजिनवासोधारणं सामब्राह्मणे प्रपञ्चेनाम्नातम् (सा. ब्रा. १६ । ४ । ५ । ६) आपस्तम्बो ऽपि- “उदवसाय रोहिणं दशच्छदीः”- इति प्रक्रम्य, “बहिर्लोम परिधाय”- इति ॥ १२ ॥
Eggeling
- And as to why it comes after that for Pūshan,–Pūshan means cattle, and Br̥haspati the priesthood; hence the Brāhmaṇa (priest) has the most power over beasts, because they are placed in front (are protected) by him 11, because they are placed at the head (or in his mouth); therefore
having given all that, he walks clad in sheepskin 12.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ व्वैश्वदेवम्[[!!]]॥
(ᳫं᳭) स᳘र्व्वं वै व्वि᳘श्वे देवाः स᳘र्व्वेणैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत स᳘र्व्वमेनमुपसमा᳘वर्तत स᳘र्व्वम᳘नुकमात्म᳘नो ऽकुरुत स᳘र्व्वेणो ऽए᳘वैष᳘ एत᳘दाप्या᳘यते स᳘र्व्वमेनमुपसमा᳘वर्तते स᳘र्व्वम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ व्वैश्वदेवम्[[!!]]॥
(ᳫं᳭) स᳘र्व्वं वै व्वि᳘श्वे देवाः स᳘र्व्वेणैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत स᳘र्व्वमेनमुपसमा᳘वर्तत स᳘र्व्वम᳘नुकमात्म᳘नो ऽकुरुत स᳘र्व्वेणो ऽए᳘वैष᳘ एत᳘दाप्या᳘यते स᳘र्व्वमेनमुपसमा᳘वर्तते स᳘र्व्वम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - Weber
अ᳘थ वैश्वदेवं᳟॥
स᳘र्वं वै वि᳘श्वे देवाः स᳘र्वेणैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत स᳘र्वमेनमुपसमावर्तत स᳘र्वम᳘नुकमात्म᳘नो ऽकुरुत स᳘र्वेणो एॗवैष᳘ एत᳘दाप्या᳘यते स᳘र्वमेनमुपसमा᳘वर्तते स᳘र्वम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - विस्वरम्
अथ वैश्वदेवम् । सर्वं वै विश्वे देवाः । सर्वेणैव तत् प्रजापतिः पुनरात्मानमाप्याययत, सर्वमेनमुपसमावर्तत, सर्वमनुकमात्मनो ऽकुरुत । सर्वेणो ऽएवैष एतदाप्यायते, सर्वमेनमुपसमावर्तते, सर्वमनुकमात्मनः कुरुते ॥ १३ ॥
सायणः
अथ वैश्वदेवमिति । बार्हस्पत्यानन्तरं ‘वैश्वदेवं’ पशुमालभते । वैश्वदेवस्य बार्हस्पत्यानन्तर्यार्थवादः स्पष्टार्थः ॥ १३ ॥
Eggeling
- Then one for the Viśve devāḥ. For the All-gods mean everything (or the All); with everything Prajāpati then again strengthened himself; everything turned unto him, and he made everything subject to him. And so does this one now become strong by everything; everything turns to him, and he makes everything subject to himself.
१४
विश्वास-प्रस्तुतिः
तद्य᳘द्बार्हस्पत्यम᳘नु भ᳘वति॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिः स᳘र्व्वमिदं व्वि᳘श्वे देवा᳘ ऽअ᳘स्यै᳘वैतत्स᳘र्व्वस्य ब्र᳘ह्म मु᳘खं करोति त᳘स्मादस्य स᳘र्व्वस्य ब्राह्मणो मु᳘खम्॥
मूलम् - श्रीधरादि
तद्य᳘द्बार्हस्पत्यम᳘नु भ᳘वति॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिः स᳘र्व्वमिदं व्वि᳘श्वे देवा᳘ ऽअ᳘स्यै᳘वैतत्स᳘र्व्वस्य ब्र᳘ह्म मु᳘खं करोति त᳘स्मादस्य स᳘र्व्वस्य ब्राह्मणो मु᳘खम्॥
मूलम् - Weber
तद्य᳘द्बार्हस्पत्यम᳘नु भ᳘वति॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिः स᳘र्वमिदं वि᳘श्वे देवा᳘ अस्यैॗवैतत्स᳘र्वस्य ब्र᳘ह्म मु᳘खं करोति त᳘स्मादस्य स᳘र्वस्य ब्राह्मणो मु᳘खम्॥
मूलम् - विस्वरम्
तद् यद् बार्हस्पत्यमनु भवति । ब्रह्म वै बृहस्पतिः । सर्वमिदं विश्वे देवाः अस्यैवैतत् सर्वस्य ब्रह्म मुखं करोति । तस्मादस्य सर्वस्य ब्राह्मणो मुखम् ॥ १४ ॥
सायणः
तद्यद् बार्हस्पत्यमनु भवतीति । अस्यैवैतत् सर्वस्य ब्रह्म मुखं करोतीति । ‘अस्य’ ‘सर्वस्य’ अपि जगतः ‘एतत्’ एतेन सर्वरूपस्य वैश्वदेवस्य आदौ ब्राह्मणजात्यात्मकस्य बृहस्पतेः पुरोभावित्वसम्पादनेन ‘ब्रह्म मुखं 13 करोति’ ब्राह्मणजातिमेव मुखं 14 कृतवान् भवति ॥ १४ ॥
Eggeling
- And as to why it comes after that for Br̥haspati,–Br̥haspati means the priesthood, and the All-gods this All; he then makes the priesthood the head of this All; wherefore the Brahman is the head of this All.
१५
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थैन्द्र᳘म्॥
(मि) इन्द्रियं वै᳘ व्वीर्य᳘मि᳘न्द्र इन्द्रिये᳘णैव त᳘द्वी᳘र्येण प्रजा᳘पतिः पुनरात्मा᳘नमा᳘प्याययतेन्द्रिय᳘मेनं[[!!]] वीर्य᳘मुपसमा᳘वर्ततेन्द्रियं᳘ व्वीर्य᳘म᳘नुकमात्म᳘नो ऽकुरुतेन्द्रिये᳘णो ऽए᳘वैष᳘ एत᳘द्वी᳘र्येणाप्या᳘यत ऽइन्द्रिय᳘मेनं व्वीर्य᳘मुपसमा᳘वर्तत ऽइन्द्रियं᳘ वी᳘र्यम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थैन्द्र᳘म्॥
(मि) इन्द्रियं वै᳘ व्वीर्य᳘मि᳘न्द्र इन्द्रिये᳘णैव त᳘द्वी᳘र्येण प्रजा᳘पतिः पुनरात्मा᳘नमा᳘प्याययतेन्द्रिय᳘मेनं[[!!]] वीर्य᳘मुपसमा᳘वर्ततेन्द्रियं᳘ व्वीर्य᳘म᳘नुकमात्म᳘नो ऽकुरुतेन्द्रिये᳘णो ऽए᳘वैष᳘ एत᳘द्वी᳘र्येणाप्या᳘यत ऽइन्द्रिय᳘मेनं व्वीर्य᳘मुपसमा᳘वर्तत ऽइन्द्रियं᳘ वी᳘र्यम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - Weber
अ᳘थैन्द्र᳘म्॥
इन्द्रियं वै᳘ वीर्य᳘मि᳘न्द्रम् इन्द्रिये᳘णैव त᳘द्वीर्ये᳘ण प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययतेन्द्रिय᳘मेनं वीर्य᳘मुपसमा᳘वर्ततेन्द्रियं᳘ वीर्य᳘म᳘नुकमात्म᳘नो ऽकुरुतेन्द्रिये᳘णो एॗवैष᳘ एत᳘द्वीॗर्येणाप्या᳘यत इन्द्रिय᳘मेनं वीर्य᳘मुपसमा᳘वर्तत इन्द्रियं᳘ वीर्य᳘म᳘नुकमात्म᳘नः कुरुते॥
मूलम् - विस्वरम्
अथैन्द्रम् । इन्द्रियं वै वीर्यम् । इन्द्र इन्द्रियेणैव तद्वीर्येण प्रजापतिः पुनरात्मानमाप्याययत, इन्द्रियमेनं वीर्यमुपसमावर्तत इन्द्रियं वीर्यमनुकमात्मनो ऽकुरुत । इन्द्रियेणो ऽएवैष एतद्वीर्येणाप्यायते, इन्द्रियमेनं वीर्यमुपसमावर्तते, इन्द्रियं वीर्यमनु कमात्मनः कुरुते ॥ १५ ॥
सायणः
अथैन्द्रमिति । ‘ऐन्द्रं’ पशुमालभते । सप्तमस्य पशोर्यद्देवता इन्द्रो ऽन्ति, तम् । इन्द्रियं वै वीर्यमिति । इन्द्रेण सृष्टम् ‘इन्द्रियम्,’ तच्च ‘वीर्यं’ वीर्यात्मकम्, सृज्यस्रष्ट्रोरभेदात् ‘इन्द्रः’ एवैन्द्रियम्; शक्तिशक्तिमतोरभेदाद्वेन्द्रियत्वम् ॥ १५ ॥
Eggeling
- Then one for Indra. For Indra means power (indriya) and vigour; by power and vigour Prajāpati then again strengthened himself; power and vigour turned unto him, and he made power and vigour subject to himself. And so does this one now become strong by means of power and vigour; power and vigour turn to him, and he makes power and vigour subject to himself.
१६
विश्वास-प्रस्तुतिः
तद्य᳘द्वैश्वदेवम᳘नु भ᳘वति॥
क्षत्रं वा ऽइ᳘न्द्रो व्वि᳘शो व्वि᳘श्वे देवा᳘ अन्ना᳘द्यमे᳘वास्मा ऽएत᳘त्पुर᳘स्तात्करोति॥
मूलम् - श्रीधरादि
तद्य᳘द्वैश्वदेवम᳘नु भ᳘वति॥
क्षत्रं वा ऽइ᳘न्द्रो व्वि᳘शो व्वि᳘श्वे देवा᳘ अन्ना᳘द्यमे᳘वास्मा ऽएत᳘त्पुर᳘स्तात्करोति॥
मूलम् - Weber
तद्य᳘द्वैश्वदेवम᳘नु भ᳘वति॥
क्षत्रं वा इ᳘न्द्रो वि᳘शो वि᳘श्वे देवा᳘ अन्ना᳘द्यमेॗवास्मा एत᳘त्पुर᳘स्तात्करोति॥
मूलम् - विस्वरम्
तद् यद् वैश्वदेवमनु भवति । क्षत्रं वा ऽइन्द्रः । विशो विश्वे देवाः । अन्नाद्यमेवास्मा ऽएतत्पुरस्तात्करोति ॥ १६ ॥
सायणः
तद्यदिति । इन्द्रस्य देवेषु मध्ये क्षत्रियजातित्वमसकृदुक्तम्, विश्वेषां देवानां तु तदधीनत्वाद् बहुत्वसाम्याद् विशां रूपत्वम्; अत ऐन्द्रस्य वैश्वदेवानन्तर्यकरणम् । नास्य स्वामिन इन्द्रस्य पुरस्ताद्भाविनो विशः कृतत्वात् कृतं भवति ॥ १६ ॥
Eggeling
- And as to why it comes after that for the All-gods,–Indra is the nobility, and the All-gods are the clans (people); he thus places the food before him.
१७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ मारुतम्[[!!]]॥
व्वि᳘शो वै᳘ मरु᳘तो भू᳘मो वै व्वि᳘ड्भू᳘म्नैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत भू᳘मैनमुपसमा᳘वर्तत भूमानम᳘नुकमात्म᳘नो[[!!]] ऽकुरुत भू᳘म्नो ऽए᳘वैष᳘ एत᳘दाप्या᳘यते भू᳘मैनमुपसमा᳘वर्तते भूमा᳘नम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ मारुतम्[[!!]]॥
व्वि᳘शो वै᳘ मरु᳘तो भू᳘मो वै व्वि᳘ड्भू᳘म्नैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत भू᳘मैनमुपसमा᳘वर्तत भूमानम᳘नुकमात्म᳘नो[[!!]] ऽकुरुत भू᳘म्नो ऽए᳘वैष᳘ एत᳘दाप्या᳘यते भू᳘मैनमुपसमा᳘वर्तते भूमा᳘नम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - Weber
अ᳘थ मारुत᳘म्॥
विशो वै᳘ मरु᳘तो भूॗमो वै वि᳘ड्भूॗम्नैव त᳘त्प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययत भूॗमैनमुपसमा᳘वर्तत भूमा᳘नम᳘नुकमात्म᳘नो ऽकुरुत भूॗम्नो एॗवैष᳘ एत᳘दाप्या᳘यते भूॗमैनमुपसमा᳘वर्तते भूमा᳘नम᳘नुकमात्म᳘नः कुरुते॥
मूलम् - विस्वरम्
अथ मारुतम् । विशो वै मरुतः । भूमो वै विट् । भूम्नैव तत् प्रजापतिः पुनरात्मानमाप्याययत भूमैनमुपसमावर्तत, भूमानमनुकमात्मनो ऽकुरुत । भूम्नो ऽएवैष एतदाप्यायते भूमैनमुपसमावर्तते, भूमानमनुकमात्मनः कुरुते ॥ १७ ॥
सायणः
अथ मारुतमिति । ‘अथ’ ऐद्रानन्तरं ‘मारुतं’ मरुद्देवताकं पशुमालभते ॥ १७ ॥
Eggeling
- Then one for the Maruts. For the Maruts mean the clans, and a clan means abundance; with abundance Prajāpati then again strengthened himself; abundance turned unto him, and he made abundance subject to himself. And so does this one now become strong by abundance; abundance
turns unto him, and he makes abundance subject to himself.
१८
विश्वास-प्रस्तुतिः
तद्य᳘दैन्द्रम᳘नु भ᳘वति॥
क्षत्रं वा ऽइ᳘न्द्रो व्वि᳘शो व्वि᳘श्वे देवा व्वि᳘शो वै᳘ मरु᳘तो व्वि᳘शै᳘वैत᳘त्क्षत्रं[[!!]] प᳘रिबृᳫं᳭हति त᳘दिदं᳘ क्षत्र᳘मुभय᳘तो व्विशा प᳘रिबृढम्॥
मूलम् - श्रीधरादि
तद्य᳘दैन्द्रम᳘नु भ᳘वति॥
क्षत्रं वा ऽइ᳘न्द्रो व्वि᳘शो व्वि᳘श्वे देवा व्वि᳘शो वै᳘ मरु᳘तो व्वि᳘शै᳘वैत᳘त्क्षत्रं[[!!]] प᳘रिबृᳫं᳭हति त᳘दिदं᳘ क्षत्र᳘मुभय᳘तो व्विशा प᳘रिबृढम्॥
मूलम् - Weber
तद्य᳘दैन्द्रम᳘नु भ᳘वति॥
क्षत्रं वा इन्द्रो वि᳘शो वि᳘श्वे देवा वि᳘शो वै᳘ मरु᳘तो विॗशैवै᳘त᳘त्क्षत्रम् प᳘रिबृंहति त᳘दिदं᳘ क्षत्र᳘मुभय᳘तो विशा प᳘रिबृढम्॥
मूलम् - विस्वरम्
तद् यदैन्द्रमनु भवति । क्षत्रं वा इन्द्रः । विशो विश्वे देवाः । विशो वै मरुतः । विशे वैतत्क्षत्रं परिबृंहति । तदिदं क्षत्त्रमुभयतो विशा परिबृढम् ॥ १८ ॥
सायणः
तद्यदिति । तदिदं क्षत्रमुभयतो विशा परिबृढमिति । पूर्वत्र विश्वदेवात्मिकया विशा, उत्तरत्र मरुद्रूपयेति द्रष्टव्यम् ॥ १८ ॥
Eggeling
- And as to why it comes after that for Indra,–Indra is the nobility, and the All-gods are the clans, and the Maruts are the clans; he thus guards the nobility by the clan, and hence the nobility here is on both sides guarded by the clan.
१९
विश्वास-प्रस्तुतिः
(म) अ᳘थैन्द्राग्नम्[[!!]]॥
(न्ते᳘) ते᳘जो वा᳘ ऽअग्नि᳘रिन्द्रियं᳘ व्वीर्य᳘मि᳘न्द्र उभा᳘भ्यामेव त᳘द्वी᳘र्याभ्यां प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययतोभे᳘ ऽएनं व्वी᳘र्ये ऽउपसमा᳘वर्तेतामुभे᳘ व्वी᳘र्ये ऽअ᳘नुके ऽआत्म᳘नो ऽकुरुतोभा᳘भ्याम्वे᳘वैष᳘ एत᳘द्वी᳘र्याभ्यामाप्या᳘यत ऽउभे᳘ ऽएनं व्वी᳘र्ये ऽउपसमा᳘वर्तेते ऽउभे᳘ व्वी᳘र्ये ऽअ᳘नुके ऽआत्म᳘नः कुरुते॥
मूलम् - श्रीधरादि
(म) अ᳘थैन्द्राग्नम्[[!!]]॥
(न्ते᳘) ते᳘जो वा᳘ ऽअग्नि᳘रिन्द्रियं᳘ व्वीर्य᳘मि᳘न्द्र उभा᳘भ्यामेव त᳘द्वी᳘र्याभ्यां प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययतोभे᳘ ऽएनं व्वी᳘र्ये ऽउपसमा᳘वर्तेतामुभे᳘ व्वी᳘र्ये ऽअ᳘नुके ऽआत्म᳘नो ऽकुरुतोभा᳘भ्याम्वे᳘वैष᳘ एत᳘द्वी᳘र्याभ्यामाप्या᳘यत ऽउभे᳘ ऽएनं व्वी᳘र्ये ऽउपसमा᳘वर्तेते ऽउभे᳘ व्वी᳘र्ये ऽअ᳘नुके ऽआत्म᳘नः कुरुते॥
मूलम् - Weber
अ᳘थैन्द्राग्न᳘म्॥
ते᳘जो वा᳘ अग्नि᳘रिन्द्रियं᳘ वीर्य᳘मि᳘न्द्र उभा᳘भ्यामेव त᳘द्वीॗर्याभ्याम् प्रजा᳘पतिः पु᳘नरात्मा᳘नमा᳘प्याययतोभे᳘ एनं वीॗर्ये उपसमा᳘वर्तेतामुभे᳘ वीॗर्ये अ᳘नुके आत्म᳘नो कुरुतोभा᳘भ्याम्वेॗवैष᳘ एत᳘द्वीॗर्याभ्यामाप्या᳘यत उभे᳘ एनं वीॗर्ये उपसमा᳘वर्तेते उभे᳘ वीॗर्ये अ᳘नुके आत्म᳘नः कुरुते॥
मूलम् - विस्वरम्
अथैन्द्राग्नम् । तेजो वा ऽअग्निः । इन्द्रियम् वीर्यमिन्द्रः । उभाभ्यामेव तद्वीर्याभ्यां प्रजापतिः पुनरात्मानमाप्याययत, उभे ऽएनं वीर्ये ऽउपसमावर्तेताम् । उभे वीर्ये ऽअनुके ऽआत्मनो ऽकुरुत । उभाभ्याम्वेवैष एतद्वीर्याभ्यामाप्यायते । उभे ऽएनं वीर्ये ऽउपसमावर्तेते, उभे वीर्ये ऽअनुके ऽआत्मनःकुरुते ॥ १९ ॥
सायणः
अथैन्द्राग्नमिति । ‘अथ’ मारुतानन्तरम् ‘ऐन्द्राग्नम्’ इन्द्राग्निदेवताकम् ॥ १९ ॥
Eggeling
- Then one for Indra and Agni. For Agni means penetrating brilliance, and Indra means power and vigour; with these two energies Prajāpati then again strengthened himself; both energies turned unto him, and he made both energies subject to himself. And so does this one now become strong by both these energies; both energies turn unto him, and he makes both energies subject to himself.
२०
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ सावित्र᳘म्॥
(ᳫं᳭) सविता वै᳘ देवा᳘नां प्रसविता त᳘थो हास्मा ऽएते᳘ सवितृ᳘प्रसूता ऽएव स᳘र्व्वे का᳘माः स᳘मृद्ध्यन्ते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ सावित्र᳘म्॥
(ᳫं᳭) सविता वै᳘ देवा᳘नां प्रसविता त᳘थो हास्मा ऽएते᳘ सवितृ᳘प्रसूता ऽएव स᳘र्व्वे का᳘माः स᳘मृद्ध्यन्ते॥
मूलम् - Weber
अ᳘थ सावित्र᳘म्॥
सविता वै᳘ देवा᳘नाम् प्रसविता त᳘थो हास्मा एते᳘ सवितृ᳘प्रसूता एव स᳘र्वे का᳘माः स᳘मृध्यन्ते॥
मूलम् - विस्वरम्
अथ सावित्रम् । सविता वै देवानां प्रसविता । तथो हास्मा ऽएते सवितृप्रसूता ऽएव सर्वे कामाः समृद्ध्यन्ते ॥ २० ॥
सायणः
अथ सावित्रमिति । आलभते । सावित्रवारुणयोब्राह्मणे स्पष्टे ॥ २० ॥ २१ ॥
Eggeling
- Then one for Savitr̥. For Savitr̥ is the impeller (prasavitr̥) of the gods; and so all those wishes become accomplished for him, impelled as they are by Savitr̥.
२१
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ व्वारुण᳘मन्तत आ᳘लभते॥
त᳘देनᳫं᳭ स᳘र्व्वस्माद्वरुणपाशात्स᳘र्व्वस्माद्वरु᳘ण्यात्प्र᳘मुञ्चति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ व्वारुण᳘मन्तत आ᳘लभते॥
त᳘देनᳫं᳭ स᳘र्व्वस्माद्वरुणपाशात्स᳘र्व्वस्माद्वरु᳘ण्यात्प्र᳘मुञ्चति॥
मूलम् - Weber
अ᳘थ वारुण᳘मन्तत आ᳘लभते॥
त᳘देनᳫं स᳘र्वस्माद्वरुणपाशात्स᳘र्वस्माद्वरुॗण्यात्प्र᳘मुञ्चति॥
मूलम् - विस्वरम्
अथ वारुणमन्तत आलभते । तद् एनं सर्वस्माद्वरुणपाशात् सर्वस्माद्वरुण्यात्प्रमुञ्चति ॥ २१ ॥
सायणः
[व्याख्यानं विंशतितमे]
Eggeling
- Then finally he seizes one for Varuṇa; thereby he delivers him (the sacrificer) from every noose of Varuṇa, from every (guilt) against Varuṇa 15,
२२
विश्वास-प्रस्तुतिः
त᳘स्माद्य᳘दि यू᳘पैकादशिनी स्या᳘त्॥
(दा) आग्नेय᳘मे᳘वाग्निष्ठे नि᳘युञ्ज्यादथे᳘तरान्व्यु᳘पनयेयुर्यथापूर्वम्[[!!]]॥
मूलम् - श्रीधरादि
त᳘स्माद्य᳘दि यू᳘पैकादशिनी स्या᳘त्॥
(दा) आग्नेय᳘मे᳘वाग्निष्ठे नि᳘युञ्ज्यादथे᳘तरान्व्यु᳘पनयेयुर्यथापूर्वम्[[!!]]॥
मूलम् - Weber
त᳘स्माद्य᳘दि यू᳘पैकादशिनी स्या᳘त्॥
आग्नेय᳘मेॗवाग्निष्ठे नि᳘युञ्ज्यादथे᳘तरान्व्यु᳘पनयेयुर्यथापूर्व᳘म्॥
मूलम् - विस्वरम्
तस्माद्यदि यूपैकादशिनी स्यात्- आग्नेयमेवाग्निष्ठे नियुञ्ज्याद् । अथेतरान्व्युपनयेयुः- यथापूर्वम् ॥ २२ ॥
सायणः
तस्माद्यदीति 16 । ‘तस्मात्’ पशूनामेकादशत्वात् ‘यदि स्यादेकादशिनी’ स्यादेकादशयूपसम्मानम्, तदा प्रतिपशु यूपसम्भवात् ‘अग्निष्ठे’ पूर्वेद्युर्निखाते मध्ययूपे ‘आग्नेयमेव’ प्रथमं ‘पशुं’ नियुञ्जीत, ‘अथ’ ‘इतरान्’ पशून्; ‘यथापूर्वं व्युपनयेयुः’ यूपोच्छ्रयणानुक्रमेण प्रतियूपं पृथक् पृथक् नियुञ्जीरन्नित्यर्थः 17 । स च क्रमः- स उत्तरो ऽग्निष्ठात् स्यात्, तमेवाग्रे उच्छ्रयेदथ दक्षिणमथोत्तरमित्यादिना प्राङ्निर्द्दिष्टः (श. प. ब्रा. ३ । ७ । २ । ५) ॥ २२ ॥
Eggeling
- Hence if there be eleven sacrificial stakes, let him bind Agni’s (victim) to the one opposite the fire; and let them lead up the others one by one in the proper order.
२३
विश्वास-प्रस्तुतिः
य᳘द्यु प᳘श्वेकादशिनी स्या᳘त्॥
(दा) आग्नेय᳘मेव यू᳘प ऽआ᳘लभेरन्नथे᳘तरान्यथापूर्वम्[[!!]]॥
मूलम् - श्रीधरादि
य᳘द्यु प᳘श्वेकादशिनी स्या᳘त्॥
(दा) आग्नेय᳘मेव यू᳘प ऽआ᳘लभेरन्नथे᳘तरान्यथापूर्वम्[[!!]]॥
मूलम् - Weber
य᳘द्यु प᳘श्वेकादशिनी स्या᳘त्॥
आग्नेय᳘मेव यू᳘प आ᳘लभेरन्नथे᳘तरान्यथापूर्व᳘म्॥
मूलम् - विस्वरम्
यद्यु पश्वेकादशिनी स्यात्- आग्नेयमेव यूप ऽआलभेरन् । अथेतरान् यथापूर्वम् ॥ २३ ॥
सायणः
यद्यु पश्वेकादशिनीति 16 । ‘यद्यु’ यद्यपि ‘पश्वेकादशिनी स्यात्’, यूपस्त्वेक एव, तदा ‘आग्नेयमेव प्रथमं यूपे आलभेरन्’, ‘अथ’ ‘इतरान्’ सौम्यादिकान् ‘यथापूर्वम्’ तस्मिन्नेकयूपे नियुञ्जीत सञ्ज्ञपनार्थम् ॥ २३ ॥
Eggeling
- But if there be eleven victims 18, let them only immolate at the stake that for Agni, and after that the others in the proper order.
२४
विश्वास-प्रस्तुतिः
तान्यत्रो᳘दीचो न᳘यन्ति॥
(न्त्या) आग्नेय᳘मेव᳘ प्रथमं᳘ नयन्त्यथे᳘तरान्यथापूर्वम्[[!!]]॥
मूलम् - श्रीधरादि
तान्यत्रो᳘दीचो न᳘यन्ति॥
(न्त्या) आग्नेय᳘मेव᳘ प्रथमं᳘ नयन्त्यथे᳘तरान्यथापूर्वम्[[!!]]॥
मूलम् - Weber
तान्यत्रो᳘दीचो न᳘यन्ति॥
आग्नेय᳘मेव᳘ प्रथमं᳘ नयन्त्यथे᳘तरान्यथापूर्व᳘म्॥
मूलम् - विस्वरम्
तान्यत्रोदीचो नयन्ति । आग्नेयमेव प्रथमं नयन्ति । अथेतरान्यथापूर्वम् ॥ २४ ॥
सायणः
तान्यत्रोदीचो नयन्तीति । उदङ्ननयनकाले ऽपि ‘आग्नेयमेव प्रथमं नयेत्, अथेतरान्’ इदानीमुक्तक्रमेण नयेत् ॥ २४ ॥
Eggeling
- When they lead them northwards, they lead the one for Agni first, and then the others in the proper order.
२५
विश्वास-प्रस्तुतिः
तान्य᳘त्र निवि᳘द्ध्यन्ति॥
(न्त्या) आग्नेय᳘मेव᳘ प्रथमं᳘ दक्षिणा᳘र्द्ध्यं नि᳘वि᳘ध्यन्त्यथे᳘तरानु᳘दीचो ऽतिनी᳘य यथापूर्वम् [[!!]]॥
मूलम् - श्रीधरादि
तान्य᳘त्र निवि᳘द्ध्यन्ति॥
(न्त्या) आग्नेय᳘मेव᳘ प्रथमं᳘ दक्षिणा᳘र्द्ध्यं नि᳘वि᳘ध्यन्त्यथे᳘तरानु᳘दीचो ऽतिनी᳘य यथापूर्वम् [[!!]]॥
मूलम् - Weber
तान्य᳘त्र निवि᳘ध्यन्ति॥
आग्नेय᳘मेव᳘ प्रथमं᳘ दक्षिणार्ध्यं निवि᳘ध्यन्त्यथे᳘तरानु᳘दीचो ऽतिनी᳘य यथापूर्व᳘म्॥
मूलम् - विस्वरम्
तान्यत्र निविध्यन्ति । आग्नेयमेव प्रथमं दक्षिणार्द्ध्यं निविध्यन्ति । अथेतरानुदीचो ऽतिनीय यथापूर्वम् ॥ २५ ॥
सायणः
तान्यत्र निबध्यन्तीति 19 । सञ्ज्ञप्यानय्य ‘आग्नेयमेव प्रथमं दक्षिणार्द्ध्यं निविद्ध्येत, पीडयेत् ॥ २५ ॥
Eggeling
- When they throw them down, they throw down first the one for Agni, as the southernmost; then the others after leading them round northwards in the proper order.
२६
विश्वास-प्रस्तुतिः
ते᳘षां य᳘त्र व्वपा᳘भिः प्रच᳘रन्ति॥
(न्त्या) आग्नेय᳘स्यैव᳘ प्रथम᳘स्य व्वप᳘या प्र᳘चरन्त्यथे᳘तरेषां यथापूर्वम्[[!!]]॥
मूलम् - श्रीधरादि
ते᳘षां य᳘त्र व्वपा᳘भिः प्रच᳘रन्ति॥
(न्त्या) आग्नेय᳘स्यैव᳘ प्रथम᳘स्य व्वप᳘या प्र᳘चरन्त्यथे᳘तरेषां यथापूर्वम्[[!!]]॥
मूलम् - Weber
ते᳘षां य᳘त्र वपा᳘भिः प्रच᳘रन्ति॥
आग्नेय᳘स्यैव᳘ प्रथम᳘स्य वप᳘या प्र᳘चरन्त्यथे᳘तरेषां यथापूर्व᳘म्॥
मूलम् - विस्वरम्
तेषां यत्र वपाभिः प्रचरन्ति- आग्नेयस्यैव प्रथमस्य वपया प्रचरन्ति । अथेतरेषां यथापूर्वम् ॥ २६ ॥
सायणः
तेषां यत्र वपाभिः प्रचरन्तीति 19 । एवं वपाप्रचारे ऽप्याग्नेयस्यैव वपां प्रथमं प्रचरेत् । किं बहुना अङ्गानां यागावसरे ऽप्याग्नेयाङ्गानि प्रथमं यजेत्, ‘अथेतरेषाम्’ अङ्गानि ‘यथापूर्वम्’ ॥ २६ ॥ २७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे नवमाध्याये प्रथमं ब्राह्मणम् ॥ (३-९-१)
Eggeling
- When they perform (offerings) with the omenta, they perform first with the omentum of Agni’s (victim); then with those of the others in the proper order.
२७
विश्वास-प्रस्तुतिः
तैर्य᳘त्र प्रच᳘रन्ति॥
(न्त्या) आग्नेये᳘नैव᳘ प्रथमे᳘न प्र᳘चरन्त्यथे᳘तरैर्यथापूर्वम्[[!!]]॥
मूलम् - श्रीधरादि
तैर्य᳘त्र प्रच᳘रन्ति॥
(न्त्या) आग्नेये᳘नैव᳘ प्रथमे᳘न प्र᳘चरन्त्यथे᳘तरैर्यथापूर्वम्[[!!]]॥
मूलम् - Weber
तैर्य᳘त्र प्रच᳘रन्ति॥
आग्नेये᳘नैव᳘ प्रथमे᳘न प्र᳘चरन्त्यथे᳘तरैर्यथापूर्व᳘म्॥
मूलम् - विस्वरम्
तैर्यत्र प्रचरन्ति- आग्नेयेनैव प्रथमेन प्रचरन्ति । अथेतरैर्यथापूर्वम् ॥ २७ ॥
सायणः
[व्याख्यानं षड्विंशतितमे]
Eggeling
- When they perform with those (chief oblations), they perform first with that to Agni; then with the others in the proper order.
-
217:4 Riricānaḥ, lit. ’emptied,’ as āpyāy means ’to fill.’ ↩︎
-
217:5 ‘Prajā’ has likewise here the meaning of ‘people, subjects, constituting the power or glory (śrī) of the king. ↩︎
-
218:1 For ‘asmā u kāmāya’ we ought to read ‘yasmā u kāmāya,’ with Sāyaṇa and the Kāṇva text. ↩︎
-
आग्नेयः प्रथमो गच्छत्यन्वारब्धो ऽनुपूर्व्या इतरे । का. श्रौ. सू. ८ । २३१ । ↩︎
-
अग्निरेव प्रथमत्वदर्शनात् । इति क्व. पाठः । ↩︎
-
218:2 Ālabh, to touch, seize, is a euphemistic term for immolating. ↩︎
-
यथोछ्रित सवनीयानालभत एकतृणेनोपाकृत्याग्नेयसारस्वतसौम्यपौष्ण गार्हस्पत्यव्वैश्वदेवेंद्र मारुतैद्राग्नसावित्रवारुणान् । का. श्रौ. सू. ८ । २२९ । ↩︎ ↩︎
-
प्रस्वामि (?) Sây. ↩︎
-
‘पुराहिताः’- पुरा इत्यव्ययमग्रे इत्यर्थम् । फलितमाह- पुरोहिता इति । ↩︎
-
219:1 Purāhitāḥ (pura-āhitāḥ, Kāṇva rec.) has both the general meaning of ‘put before him (as food)’ and that of ‘being placed next in order before him.’ ↩︎
-
220:1 ‘Since the lordship over cattle belongs to the Brahman, therefore (the sacrificer) having given all his property to the Brahmans,’ &c, Sāy. ↩︎
-
‘मुखत्वं’ इ. प. । ↩︎
-
‘प्रमुखां’ इ. पा. । ↩︎
-
221:1 Varuṇyād evaitat sarvasmāt kilbishād enaso ’ntato varuṇapāśāt prajāḥ pramuñcati, Kāṇva rec. ↩︎
-
पश्वेकादशिनी द्विविधः- प्रतिपशुरूपा एकपशुरूपा च, इत्यादि ८ । ८ । २७ । कात्यायनसूत्रवृत्तौ द्रष्टव्यम् । ↩︎ ↩︎
-
एकयूपेपश्वैकादशिन्यामाग्नेयं नियुज्यत तस्मिंस्तस्मिन्नितरानुदीचः । ↩︎
-
221:2 That is, if there be eleven victims and only one stake, in that case Agni’s victim is tied to the stake, and each succeeding victim is tied to the neck of the preceding one. Kāty. VIII, 8, 28. ↩︎