०१
विश्वास-प्रस्तुतिः
सो ऽत्यु᳘पयजति॥
यज्ञं᳘ गच्छ स्वाहेत्या᳘पो वै᳘ यज्ञ आ᳘पो रे᳘तो रे᳘त ए᳘वैत᳘त्सिञ्चति॥
मूलम् - श्रीधरादि
सो ऽत्यु᳘पयजति॥
यज्ञं᳘ गच्छ स्वाहेत्या᳘पो वै᳘ यज्ञ आ᳘पो रे᳘तो रे᳘त ए᳘वैत᳘त्सिञ्चति॥
मूलम् - Weber
सो ऽत्यु᳘पयजति॥
यज्ञं᳘ गछ स्वाहेत्या᳘पो वै᳘ यज्ञ आ᳘पो रे᳘तो रे᳘त एॗवैत᳘त्सिञ्चति॥
मूलम् - विस्वरम्
सो ऽत्युपयजति- “यज्ञं गच्छ स्वाहा” - (वा. सं. ६ । २१) इति । आपो वै यज्ञः आपो- रेतः । रेत एवैतत् सिञ्चति ॥ १ ॥
सायणः
अत्युपयाजमन्त्रान् विधाय पुनः सृष्ट्यभिवृद्धिहेतुतया प्रशंसति- सो ऽत्युपयजति यज्ञं गच्छ स्वाहेत्यादिना । “यत्र वै यज्ञस्य शिरो ऽच्छिद्यत तस्य रसो द्रुत्वापः प्रविवेश” (श. प. ३. ९. २. १)- इति वक्ष्यमाणत्वात् यज्ञरसानुप्रवेशेन यज्ञस्याब्रूपत्वम् ॥ १ ॥
Eggeling
- He makes the additional by-offerings:–with ‘Go thou to the sacrifice 1, Hail!’ The sacrifice is water, and seed is water: he thus casts seed.
०२
विश्वास-प्रस्तुतिः
सो᳘मं गच्छ स्वाहे᳘ति॥
रे᳘तो वै सो᳘मो रे᳘त ए᳘वैत᳘त्सिञ्चति॥
मूलम् - श्रीधरादि
सो᳘मं गच्छ स्वाहे᳘ति॥
रे᳘तो वै सो᳘मो रे᳘त ए᳘वैत᳘त्सिञ्चति॥
मूलम् - Weber
सो᳘मं गछ स्वाहे᳘ति॥
रे᳘तो वै सो᳘मो रे᳘त एॗवैत᳘त्सिञ्चति॥
मूलम् - विस्वरम्
“सोमं गच्छ स्वाहा”- (वा. सं. ६ । २१) इति । रेतो वै सोमः रेत, एवैतत् सिञ्चति ॥ २ ॥
सायणः
सोमं गच्छेति । सोमस्य रसात्मकत्वाद्वौषधित्वाद्वौषधिविकारत्वाद्वा रेतस इति वा सोमस्य रेतस्त्वम् ॥ २ ॥
Eggeling
- ‘Go thou to Soma, Hail!’ Soma is seed: he thus casts seed.
०३
विश्वास-प्रस्तुतिः
दिव्यं न᳘भो गच्छ स्वाहे᳘ति॥
(त्या᳘) आ᳘पो वै᳘ दिव्यं न᳘भ ऽआ᳘पो रे᳘तो रे᳘त ए᳘वैत᳘त्सिञ्चति॥
मूलम् - श्रीधरादि
दिव्यं न᳘भो गच्छ स्वाहे᳘ति॥
(त्या᳘) आ᳘पो वै᳘ दिव्यं न᳘भ ऽआ᳘पो रे᳘तो रे᳘त ए᳘वैत᳘त्सिञ्चति॥
मूलम् - Weber
दिव्यं न᳘भो गछ स्वाहे᳘ति॥
आ᳘पो वै᳘ दिव्यं न᳘भ आ᳘पो रे᳘तो रे᳘त एॗवैत᳘त्सिञ्चति॥
मूलम् - विस्वरम्
“दिव्यं नभो गच्छ स्वाहा” (वा. सं. ६ । २१) इति । आपो वै दिव्यं नभः आपो रेतः । रेत एवैतत् सिञ्चति ॥ ३ ॥
सायणः
दिव्यं नभ इति । ‘दिव्यं नभः’ लोकः; ततो वृष्ट्युत्पत्तेस्तस्याब्रूपत्वम्; अधिष्ठानाधिष्ठात्रोरभेदोपचारात् ॥ ३ ॥
Eggeling
- ‘Go thou to the heavenly ether, Hail!’ The heavenly ether is water, and seed is water: he thus casts seed.
०४
विश्वास-प्रस्तुतिः
(त्य) अग्निं᳘ व्वैश्वानरं᳘ गच्छ स्वाहे᳘ति॥
(ती) इयं वै᳘ पृथि᳘व्यग्नि᳘र्व्वैश्वानरः᳘[[!!]] सेयं᳘ प्रति᳘ष्ठेमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभिप्र᳘जनयति[[!!]]॥
मूलम् - श्रीधरादि
(त्य) अग्निं᳘ व्वैश्वानरं᳘ गच्छ स्वाहे᳘ति॥
(ती) इयं वै᳘ पृथि᳘व्यग्नि᳘र्व्वैश्वानरः᳘[[!!]] सेयं᳘ प्रति᳘ष्ठेमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभिप्र᳘जनयति[[!!]]॥
मूलम् - Weber
अग्निं᳘ वैश्वानरं᳘ गछ स्वाहे᳘ति॥
इयं वै᳘ पृथिव्य᳘ग्नि᳘र्वैश्वानॗरः सेय᳘म् प्रतिष्ठे᳘मा᳘मेवैत᳘त्प्रतिष्ठा᳘मभिप्र᳘जनयति॥
मूलम् - विस्वरम्
“अग्निं वैश्वानरं गच्छ स्वाहा”- (वा. सं. ६ । २१) इति । इयं वै पृथिव्यग्निर्वैश्वानरः । सेयं प्रतिष्ठा । इमामेवैतत्प्रतिष्ठामभिप्रजनयति ॥ ४ ॥
सायणः
अग्निं वैश्वानरमिति । इयं पृथिव्यग्निर्वैश्वानरः (निरु. ७ । २१-३१) इत्युच्यते, तस्याः सर्वगतत्वेन प्रतिष्ठारूपत्वं स्पष्टमेव ॥ ४ ॥
Eggeling
- ‘Go thou to Agni Vaiśvānara, Hail!’ Agni Vaiśvānara (‘belonging to all men’) is this earth, and she is a safe resting-place: upon that safe resting-place he thus produces (creatures).
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ मु᳘खं व्वि᳘मृष्टे॥
म᳘नो मे हा᳘र्द्दि यच्छे᳘ति त᳘थो होपय᳘ष्टात्मानं᳘[[!!]] नानुप्र᳘वृणक्ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ मु᳘खं व्वि᳘मृष्टे॥
म᳘नो मे हा᳘र्द्दि यच्छे᳘ति त᳘थो होपय᳘ष्टात्मानं᳘[[!!]] नानुप्र᳘वृणक्ति॥
मूलम् - Weber
अ᳘थ मु᳘खं वि᳘मृष्टे॥
म᳘नो मे हा᳘र्दि यछे᳘ति त᳘थो होपयष्टात्माॗनं नानुप्र᳘वृणक्ति॥
मूलम् - विस्वरम्
अथ मुखं विमृष्टे- “मनो मे हार्द्दि यच्छ”- (वा. सं. ६ । २१) इति । तथो होपयष्टात्मानं नानुप्रवृणक्ति ॥ ५ ॥
सायणः
अथ मुखं विमृष्टे मनो मे हार्द्दीत्यादि 2 । मुखविमर्शनमन्त्रस्यायमर्थः- हे प्राणरूप गुद ! ‘मे’ ‘हार्द्दि’ हृदयसम्बन्धि ‘मनो’ ‘यच्छ’ । यद्वा ‘हार्द्दि’ हृदये स्थापितम् । पशोः प्राणरूपस्य गुदस्य विच्छिद्य होमात् उपयष्टुः मनो ऽपि प्राणाविनाभूतं अपगच्छति, अत एवं प्रार्थ्यते । तथा होपयष्टेति । स्पष्टम् ॥ ५ ॥
Eggeling
- He then touches his mouth, with, ‘Give me mind and heart!’ thus indeed the by-offerer does not throw himself after (the oblations into the fire).
०६
विश्वास-प्रस्तुतिः
(क्त्य᳘) अ᳘थ जा᳘घन्या प᳘त्नीः सं᳘याजयन्ति॥
जघनार्द्धो वै जा᳘घनी जघनार्द्धाद्वै यो᳘षायै प्रजाः प्र᳘जायन्ते त᳘त्प्रै᳘वैत᳘ज्जनयति यज्जा᳘घन्या प᳘त्नीः संयाज᳘यन्ति॥
मूलम् - श्रीधरादि
(क्त्य᳘) अ᳘थ जा᳘घन्या प᳘त्नीः सं᳘याजयन्ति॥
जघनार्द्धो वै जा᳘घनी जघनार्द्धाद्वै यो᳘षायै प्रजाः प्र᳘जायन्ते त᳘त्प्रै᳘वैत᳘ज्जनयति यज्जा᳘घन्या प᳘त्नीः संयाज᳘यन्ति॥
मूलम् - Weber
अ᳘थ जा᳘घन्या प᳘त्नीः सं᳘याजयन्ति॥
जघनार्धो वै जा᳘घनी जघनार्धाद्वै यो᳘षायै प्रजाः प्र᳘जायन्ते तॗत्प्रैॗवैत᳘ज्जनयति यज्जा᳘घन्या प᳘त्नीः संयाज᳘यन्ति॥
मूलम् - विस्वरम्
अथ जाघन्या पत्नीः संयाजयन्ति । जघनार्द्धो वै जाघनी जघनार्द्धाद्वै योषायै प्रजाः प्रजायन्ते । तत् प्रैवैतज्जनयति- जघन्या पत्नीः सं याजयन्ति ॥ ६ ॥
सायणः
अथ जाघन्या पत्नीः संयाजयन्तीति 3 । जाघनी बालदण्डः तया पत्नीः पत्न्युपलक्षिताः सोमत्वष्ट्राद्या देवताः संयाजयेत् । जघनार्द्धो वै जाघनीत्यादि । स्पष्टम् ॥ ६ ॥
Eggeling
- Thereupon 4 they perform the Patnīsaṁyājas
with the tail (of the victim), for the tail is the hind-part, and from the hind-part of woman offspring is produced: hence offspring is produced by the Patnīsaṁyājas being performed with the tail.
०७
विश्वास-प्रस्तुतिः
(त्य) अन्तरतो᳘ देवा᳘नां प᳘त्नीभ्यो᳘ ऽवद्यति॥
(त्य) अन्तरतो वै यो᳘षायै प्रजाः प्र᳘जायन्त ऽउप᳘रिष्टादग्न᳘ये गृह᳘पतय ऽउप᳘रिष्टाद्वै व्वृ᳘षा यो᳘षाम᳘धिद्रवति॥
मूलम् - श्रीधरादि
(त्य) अन्तरतो᳘ देवा᳘नां प᳘त्नीभ्यो᳘ ऽवद्यति॥
(त्य) अन्तरतो वै यो᳘षायै प्रजाः प्र᳘जायन्त ऽउप᳘रिष्टादग्न᳘ये गृह᳘पतय ऽउप᳘रिष्टाद्वै व्वृ᳘षा यो᳘षाम᳘धिद्रवति॥
मूलम् - Weber
अन्तरतो᳘ देवा᳘नाम् प᳘त्नीभ्यो᳘ ऽवद्यति॥
अन्तरतो वै यो᳘षायै प्रजाः प्र᳘जायन्त उप᳘रिष्टादग्न᳘ये गृह᳘पतय उप᳘रिष्टाद्वै वृ᳘षा यो᳘षाम् अधिद्रवति॥
मूलम् - विस्वरम्
अन्तरतो देवानां पत्नीभ्यो ऽवद्यति । अन्तरतो वै योषायै प्रजाः प्रजायन्ते- उपरिष्टादग्नये गृहपतये । उपरिष्टाद्वै वृषा योषामधिद्रवति ॥ ७ ॥
सायणः
जाघन्या अपि प्रदेशविशेषमाह- अन्तरतो देवानां पत्नीभ्यो ऽवद्यतीति 3 । देवानां पत्नीभ्य इति चतुर्थी, तासामर्थाय । ‘अन्तरतः’ ऊर्ध्वमुत्थितस्य बालस्य ‘अन्तरतः’ अलोमकप्रदेशादित्यर्थः । उपरिष्टादग्नये गृहपतय इति । सरोमके बाह्यप्रदेशे ॥ ७ ॥
Eggeling
- For the wives of the gods he cuts portions from the inside, since it is from the inside of woman that offspring is produced; for Agni the householder from above, since it is from above that the male approaches the female.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ हृदयशूले᳘नावभृथं᳘ यन्ति॥
पशो᳘र्ह वा᳘ ऽआलभ्य᳘मानस्य हृ᳘दयᳫं᳭ शु᳘क्समभ्य᳘वैति हृ᳘दयाद्धृदयशूलम᳘थ य᳘च्छृत᳘स्य परितृन्द᳘न्ति त᳘दल᳘ञ्जुषं त᳘स्मादु परितृ᳘द्यैव᳘ शूला᳘कुर्यात्त᳘त्त्रिः प्रच्युते᳘ पशौ हृ᳘दयं प्रवृ᳘ह्योत्तमं᳘ प्रत्य᳘वदधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ हृदयशूले᳘नावभृथं᳘ यन्ति॥
पशो᳘र्ह वा᳘ ऽआलभ्य᳘मानस्य हृ᳘दयᳫं᳭ शु᳘क्समभ्य᳘वैति हृ᳘दयाद्धृदयशूलम᳘थ य᳘च्छृत᳘स्य परितृन्द᳘न्ति त᳘दल᳘ञ्जुषं त᳘स्मादु परितृ᳘द्यैव᳘ शूला᳘कुर्यात्त᳘त्त्रिः प्रच्युते᳘ पशौ हृ᳘दयं प्रवृ᳘ह्योत्तमं᳘ प्रत्य᳘वदधाति॥
मूलम् - Weber
अ᳘थ हृदयशूले᳘नावभृथं᳘ यन्ति॥
पशो᳘र्ह वा᳘ आलभ्य᳘मानस्य हृ᳘दयं शु᳘क्समभ्य᳘वैति हृ᳘दयाद्धृदयशूलम᳘थ य᳘छृत᳘स्य परितृन्द᳘न्ति त᳘दलं᳘जुषं त᳘स्मादु परितृ᳘द्यैव᳘ शूला᳘कुर्यात्त᳘त्त्रिःप्रच्युते᳘ पशौ हृ᳘दयम् प्रवृ᳘ह्योत्तम᳘म् प्रत्य᳘वदधाति॥
मूलम् - विस्वरम्
अथ हृदयशूलेनावभृथं यन्ति । पशो ऽर्ह वा ऽआलभ्यमानस्य हृदयं शुक् समभ्यवैति । हृदयाद्धृदयशूलम् । अथ यच्छृतस्य परितृन्दन्ति; तदलञ्जुषम् । तस्मादु परितृद्यैव शूलाकुर्यात् । तत् त्रिःप्रच्युते पशौ हृदयं प्रवृह्योत्तमं प्रत्यवदधाति ॥ ८ ॥
सायणः
अथ हृदयशूलेनेत्यादि 3 । हृदयशूलस्यावभृथनयनस्य प्रयोजनमाह- पशोर्ह वा इति । सुखदुःखयोर्हृदये ऽनुभूयमानत्वान्निरुद्धश्वासस्य पशोः शुक् शोको हृदयमभिगच्छति हृदयाद्धृदयशूलमभिगच्छति । तत्प्रकारमाह- अथ यदिति । शृतस्य पक्वस्य । हृदयस्य पश्चात् शूलेन परितर्द्दने ‘तत्’ जोषाय भक्षणाय ‘अलं’ पर्याप्तं भवति; शुगनुविद्धत्वान्न यागार्हं स्यादित्यर्थः । तस्मात् पाकात् पूर्वं शूलं ‘परितृद्य’ पाकं कुर्यात् । ”शूलात् पाके” (पा. सू. ५ । ६ । ६५ ।) इति डाजन्तः । अतः पाकात् पूर्वं शूलेन परितर्द्दनात् ‘शुक्’ हृदयशूलं प्राप्नोतीत्यर्थः । त्रिः प्रच्युते पशौ’ पाकोत्तरकालं ‘हृदयं’ शूलात् ‘प्रवृह्य’ ‘उत्तमं प्रत्यवदधाति’ इतरावयवानामुपरि स्थापयेत् ॥ ८ ॥
Eggeling
- Thereupon they betake themselves, with the heart-spit, to the purificatory bath 5. Now, the anguish of the victim, in being slaughtered, concentrates itself into the heart, and from the heart into the heart-spit; and whatever part of cooked (food) is pierced that becomes palatable 6: therefore let him roast it on the spit after piercing it. Uppermost on the thrice-moved (portions of the) victim he places that heart after pulling it off (the spit).
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ हृदयशू᳘लं प्र᳘य᳘च्छति॥
तन्न᳘ पृथिव्यां᳘ परा᳘स्ये᳘न्नाप्सु स य᳘त्पृथिव्यां᳘ परा᳘स्येदो᳘षधीश्च व्व᳘नस्प᳘तींश्चैषा᳘ शुक्प्र᳘विशेद्य᳘दप्सु᳘ परा᳘स्येदप᳘ ऽएषा शुक्प्र᳘विशेत्त᳘स्मान्न᳘ पृथिव्यां᳘ ना᳘प्सु॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ हृदयशू᳘लं प्र᳘य᳘च्छति॥
तन्न᳘ पृथिव्यां᳘ परा᳘स्ये᳘न्नाप्सु स य᳘त्पृथिव्यां᳘ परा᳘स्येदो᳘षधीश्च व्व᳘नस्प᳘तींश्चैषा᳘ शुक्प्र᳘विशेद्य᳘दप्सु᳘ परा᳘स्येदप᳘ ऽएषा शुक्प्र᳘विशेत्त᳘स्मान्न᳘ पृथिव्यां᳘ ना᳘प्सु॥
मूलम् - Weber
अ᳘थ हृदयशूलम् प्र᳘यछति॥
तन्न᳘ पृथिव्या᳘म् परा᳘स्येॗन्नाप्सु स य᳘त्पृथिव्या᳘म् परा᳘स्येदो᳘षधीश्च व᳘नस्प᳘तींश्चैषा शुक्प्र᳘विशेद्य᳘दप्सु᳘ परा᳘स्येदप᳘ एषा शुक्प्र᳘विशेत्त᳘स्मान्न᳘ पृथिव्यांॗ नाॗप्सु॥
मूलम् - विस्वरम्
अथ हृदयशूलं प्रयच्छति । तन्न पृथिव्यां परास्येत्; नाप्सु । स यत् पृथिव्यां परास्येद्- ओषधीश्च वनस्पतींश्चैषा शुक् प्रविशेत् । यदप्सु परास्येद्- अप एषा शुक् प्रविशेत् । तस्मान्न पृथिव्याम्, नाप्सु ॥ ९ ॥
सायणः
अथ हृदयशूलं प्रयच्छतीति 7 । परिकर्मिणे प्रयच्छति । स ‘तत्’ शूलं ‘पृथिव्याम्’ ‘अप्सु’ च सुन परास्येत्सु । परास्यतो दोषमाह- ओषधीश्चेति । ‘ओषधीश्च वनस्पतींश्च एषा शुक् प्रविशेत्’, ‘यत्’ यदि ‘पृथिव्यां परास्येत्’ । तस्यामुत्पन्नेष्वोषधिवनस्पतिषु प्रवेशो युक्तः ॥ ९ ॥
Eggeling
- He (the slaughterer) then hands the heart-spit (to the Adhvaryu). Let him not throw it on the
ground, nor into the water; for were he to throw it on the ground, that anguish would enter into the plants and trees; and were he to throw it into the water, that anguish would enter into the water: hence neither on the ground, nor into the water.
१०
विश्वास-प्रस्तुतिः
(प्स्व) अप᳘ ए᳘वाभ्यवे᳘त्य॥
य᳘त्र शु᳘ष्कस्य चार्द्र᳘स्य च सन्धिः स्यात्तदु᳘पगूहेद्य᳘द्यु ऽअभ्यवा᳘यनाय ग्ला᳘येद᳘ग्रेण यू᳘पमुदपात्रं᳘ निनी᳘य य᳘त्र शु᳘ष्कस्य चार्द्र᳘स्य च सन्धिर्भ᳘वति तदु᳘पगूहति[[!!]] मापो मौ᳘षधीर्हिᳫं᳭सीरि᳘ति त᳘था᳘ नापो नौ᳘षधीर्हिनस्ति धा᳘म्नो धाम्नो राजंस्त᳘तो व्वरुण नो मुञ्च॥ य᳘दाहु᳘रघ्न्या इ᳘ति व्व᳘रुणे᳘ति श᳘पामहे त᳘तो व्वरुण नो मुञ्चे᳘ति त᳘देनᳫं᳭ स᳘र्व्वस्माद्वरुणपाशात्स᳘र्व्वस्माद्वरु᳘ण्यात्प्र᳘मुञ्चति॥
मूलम् - श्रीधरादि
(प्स्व) अप᳘ ए᳘वाभ्यवे᳘त्य॥
य᳘त्र शु᳘ष्कस्य चार्द्र᳘स्य च सन्धिः स्यात्तदु᳘पगूहेद्य᳘द्यु ऽअभ्यवा᳘यनाय ग्ला᳘येद᳘ग्रेण यू᳘पमुदपात्रं᳘ निनी᳘य य᳘त्र शु᳘ष्कस्य चार्द्र᳘स्य च सन्धिर्भ᳘वति तदु᳘पगूहति[[!!]] मापो मौ᳘षधीर्हिᳫं᳭सीरि᳘ति त᳘था᳘ नापो नौ᳘षधीर्हिनस्ति धा᳘म्नो धाम्नो राजंस्त᳘तो व्वरुण नो मुञ्च॥ य᳘दाहु᳘रघ्न्या इ᳘ति व्व᳘रुणे᳘ति श᳘पामहे त᳘तो व्वरुण नो मुञ्चे᳘ति त᳘देनᳫं᳭ स᳘र्व्वस्माद्वरुणपाशात्स᳘र्व्वस्माद्वरु᳘ण्यात्प्र᳘मुञ्चति॥
मूलम् - Weber
अप᳘ एॗवाभ्यवे᳘त्य॥
य᳘त्र शु᳘ष्कस्य चार्द्र᳘स्य च संधिः स्यात्तदु᳘पगूहेद्य᳘द्यु अभ्यवा᳘यनाय ग्ला᳘येद᳘ग्रेण यू᳘पमुदपात्रं᳘ निनी᳘य य᳘त्र शु᳘ष्कस्य चार्द्र᳘स्य च संधिर्भ᳘वति तदु᳘पगूहतिॗ नापो नौ᳘षधीर्हिंसीरि᳘ति त᳘थाॗ नापो नौ᳘षधीर्हिनस्ति धा᳘म्नोधाम्नो राजंस्त᳘तो वरुण नो मुञ्च य᳘दाहु᳘रघ्न्या इ᳘ति व᳘रुणे᳘ति श᳘पामहे त᳘तो वरुण नो मुञ्चे᳘ति त᳘देनᳫं स᳘र्वस्माद्वरुणपाशात्स᳘र्वस्माद्वरुॗण्यात्प्र᳘मुञ्चति॥
मूलम् - विस्वरम्
अप एवाभ्यवेत्य यत्र शुष्कस्य चार्द्रस्य च सन्धिः स्यात्- तदुपगूहेत् । यद्यु ऽअभ्यवायनाय ग्लायेद्- अग्रेण यूपमुदपात्रं निनीय यत्र शुष्कस्य चार्द्रस्य च सन्धिर्भवति- तदुपगूहति । “मापो मौषधीर्हिंसीः”- (वा. सं. ६ । २२ ।) इति । तथा नापो नौषधीर्हिनस्ति- “धाम्नो धाम्नो राजंस्ततो वरुण नो मुञ्च । यदाहुरघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुंच”- (वा. सं. ६ । २२ ।) इति । तदेनं सर्वस्माद्वरुणपाशात्, सर्वस्माद्वरुण्यात् प्रमुञ्चति ॥ १० ॥
सायणः
उक्तदोषाभावोपायमाह- अप एवेति । ‘अपः’ सम्प्राप्य तत्समीपे ‘यत्र’ देशे अतीवारसः सरसश्च न भवति, ‘तत्’ तत्र ‘उपगूहेत्’ । अपामेवातिदूरत्वे उपायान्तरमाह- यद्यु इति ।
यदाब्विषये ग्लानिं प्राप्नुयात्, तदा यूपस्य प्राग्देशे उदपात्रनिनयनं कृत्वा, तत्रापीषदार्द्रदेशे उपगूहेत् । तत्र मन्त्रः- “मापो मौषधीर्हिंसीः"- इति । हे शूल ! अपामोषधीनाञ्च हिंसां मा कुरु । ईषदार्द्रे उपगूहनादपां हिंसाप्रसङ्गः, पृथिव्यामुपगूहनात् तदीयौषधीनां बाधप्रसङ्गः, अतस्तत्रोभयत्र हिंसापरिहारः प्रार्थ्यते ॥
तत्र मन्त्रः- धाम्नो धाम्नो राजन्निति 7 । निगूहनस्य बन्धनरूपत्वात्, तस्य वरुणाधिष्ठातृकत्वात् वरुणस्य सम्बोधनम्- हे ‘राजन्’ वरुण ! यस्मिन् पापरूपबन्धने अवस्थाने बद्धाः स्मः, ‘ततः’ तस्मात् धाम्नो बन्धस्थानात् ‘नः’ अस्मान् ‘मुञ्च’ पापेन विमुक्तान् कुरु । किञ्च ‘यत्’ यस्मिन् आगसि सम्भाविते, आगस्कर्त्तारो ऽपि ‘अघ्न्याः’ अहन्तव्याः, रक्षणीयाः ‘वरुण’ ‘इति’ ‘वयमित्याहुः’ मनुष्याः वयमपि इत्येवं प्रकारेणाराधीनो ऽप्यघ्न्याः वयं किं तु पालयितव्या इति शपामहे आक्रोशामः । ततो ऽपि नो ऽस्मान्मुंच । तत्ते न धाम्नो धाम्न इत्यादि मंत्रपाठेन वरुण्यादिति पुनरभिधानात्पाशव्यतिरिक्तात्सर्वस्मात्पाशाद्विमोक्षः प्रार्थ्यते ॥ १० ॥
Eggeling
- But on going down to the water, let him bury it at the place where the dry and the moist meet. But if he feel disinclined to going down (to the water), he pours out a vessel of water in front of the sacrificial stake and buries (the spit) at the place where the dry and the moist meet, with (Vāj. S. VI, 22), ‘Injure thou not the waters nor the plants!’ thus it injures neither the waters nor the plants; ‘From every fetter 8–therefrom deliver us, O king Varuṇa! That they say, we swear by the “Inviolable (cows),” by “Varuṇa 9,”
therefrom deliver us, O Varuṇa!’ Thereby he delivers him 10 from every noose of Varuṇa, from all (guilt) against Varuṇa.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाभि᳘मन्त्रयन्ते॥
सुमि᳘त्रिया᳘ न ऽआ᳘प ऽओ᳘षधयः सन्तु दुर्मित्रियास्त᳘स्मै सन्तु᳘ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च व्वयं᳘ द्विष्म इ᳘ति य᳘त्र वा᳘ ऽएते᳘न प्रच᳘रन्त्या᳘पश्च ह वा᳘ ऽअस्मात्ता᳘वदो᳘ष᳘धयश्चापक्र᳘म्येव तिष्ठन्ति त᳘दु ता᳘भिर्मित्रधे᳘यं कुरुते त᳘थो हैनं ताः पु᳘नः प्र᳘विशन्त्ये᳘षो त᳘त्र प्रा᳘यश्चित्तिः क्रियते स वै᳘ नाग्नीषोमी᳘यस्य पशोः᳘ करो᳘ति᳘ नाग्नेय᳘स्य व्वशा᳘या ऽए᳘वानूब᳘न्ध्यायै ताᳫँ᳭ हि सर्व्वा᳘ ऽनु यज्ञः᳘ सन्ति᳘ष्ठत᳘ ऽएतदु[[!!]] हास्याग्नीषोमी᳘यस्य च पशो᳘राग्नेय᳘स्य च हृदयशूले᳘न चरित्ं᳘ भवति य᳘द्वशा᳘याश्च᳘रन्ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाभि᳘मन्त्रयन्ते॥
सुमि᳘त्रिया᳘ न ऽआ᳘प ऽओ᳘षधयः सन्तु दुर्मित्रियास्त᳘स्मै सन्तु᳘ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च व्वयं᳘ द्विष्म इ᳘ति य᳘त्र वा᳘ ऽएते᳘न प्रच᳘रन्त्या᳘पश्च ह वा᳘ ऽअस्मात्ता᳘वदो᳘ष᳘धयश्चापक्र᳘म्येव तिष्ठन्ति त᳘दु ता᳘भिर्मित्रधे᳘यं कुरुते त᳘थो हैनं ताः पु᳘नः प्र᳘विशन्त्ये᳘षो त᳘त्र प्रा᳘यश्चित्तिः क्रियते स वै᳘ नाग्नीषोमी᳘यस्य पशोः᳘ करो᳘ति᳘ नाग्नेय᳘स्य व्वशा᳘या ऽए᳘वानूब᳘न्ध्यायै ताᳫँ᳭ हि सर्व्वा᳘ ऽनु यज्ञः᳘ सन्ति᳘ष्ठत᳘ ऽएतदु[[!!]] हास्याग्नीषोमी᳘यस्य च पशो᳘राग्नेय᳘स्य च हृदयशूले᳘न चरित्ं᳘ भवति य᳘द्वशा᳘याश्च᳘रन्ति॥
मूलम् - Weber
अ᳘थाभि᳘मन्त्रयते॥
सुमित्रिया᳘ न आ᳘प ओ᳘षधयः सन्तु दुर्मित्रियास्त᳘स्मै सन्तुॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्म इ᳘ति य᳘त्र वा᳘ एते᳘न प्रच᳘रन्त्या᳘पश्च ह वा᳘ अस्मात्ता᳘वदो᳘षधयश्चापक्र᳘म्येव तिष्ठन्ति त᳘दु ता᳘भिर्मित्रधे᳘यं कुरुते त᳘थो हैनं ताः पु᳘नः प्र᳘विशन्त्येॗषो त᳘त्र प्रा᳘यश्चित्तिः क्रियते स वैॗ नाग्नीषोमी᳘यस्य पशोः᳘ करो᳘तिॗ नाग्नेय᳘स्य वशा᳘या एॗवानूबॗन्ध्यायै ताᳫं हि सर्वो᳘ ऽनु यज्ञः᳘ संति᳘ष्ठत एत᳘दु हास्याग्नीषोमी᳘यस्य च पशो᳘राग्नेय᳘स्य च हृदयशूले᳘न चरित᳘म् भवति य᳘द्वशा᳘याश्च᳘रन्ति॥
मूलम् - विस्वरम्
अथाभिमन्त्रयते- “सुमित्रिया न आप ओषधयः सन्तु, दुर्मित्रियास्तस्मै सन्तु- यो ऽस्मान् द्वेष्टि, यं च वयं द्विष्मः”- (वा. सं. ६ । २२)- इति । यत्र वा ऽएतेन प्रचरन्ति । आपश्च ह वा ऽअस्मात्तावदोषधयश्चापक्रम्येव तिष्ठन्ति । तदु ताभिर्मित्रधेयं कुरुते । तथो हैनं ताः पुनः प्रविशन्ति । एषो तत्र प्रायश्चित्तिः क्रियते । स वै नाग्नीषोमीयस्य पशोः करोति, नाग्नेयस्य । वशाया ऽएवानूबन्ध्यायै । तां हि सर्वो ऽनुयज्ञः सन्तिष्ठते । एतदु हास्याग्नीषोमीयस्य च पशोराग्नेयस्य च हृदयशूलेन चरितं भवति- यद् वशायाश्चरन्ति ॥ ११ ॥ इत्यग्नीषोमीयपशुयागः ॥
सायणः
अथाभिमन्त्रयन्त इति । अध्वर्युप्रभृतयः । सुमित्रिया न इति । ‘नः’ अस्मदर्थम् ‘आपः ओषधयः’ च ‘सुमित्रियाः’ शोभनमित्रेषु साधवः ‘सन्तु’ मित्रवद्धितकारिण्यो भवन्तु । ‘यः’ ‘अस्मान् द्वेष्टि’ अस्मासु द्वेषमाचरन्ति ‘यं च वयं द्विष्मः तस्मै तदर्थं दुर्मित्रियास्सन्तु द्वेषिण्यो भवन्तु’ । अत्र सूत्रकारः- “सुमित्रिया न इत्युपस्पृशन्त्यपः, उपगूहनशेषो वा पूर्वः, अभिमन्त्रणं वोत्तरेण"- (का. श्रौ. सू. ६ । २२२-२२४) इति ॥
एतत्प्रशंसति- यत्र वा एतेनेति । ‘एतेन’ हृदयशूलनिगूहनेन ‘आपश्च’ ‘ओषधयश्च’ ‘अस्मात्’ स्थानात् ‘अपक्रम्य’ अपसृत्य ‘इव’ ‘तिष्ठन्ति’ । ‘तदु’ तस्मादेव कारणात् ‘ताभिः’ सह “सुमित्रिया”- इति पाठेन मित्रत्वं कृतवान् भवति । स्पृष्टमन्यत् ॥
शूलोपगूहनं विषयविशेषे निषेधति- स वै नाग्नीषोमीयस्य पशोः करोतीत्यादिना । ‘स वै’ सो ऽध्वर्युः । “न सोमे ऽनूबन्ध्यावर्जम्”- (का. श्रौ. सू. ६ । २२५) इति । सूत्रम् ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे अष्टमे ऽध्याये पञ्चमं ब्राह्मणम् ॥ ३-८-५ ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ २ ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः ॥ ३ ॥
आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ ४ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे अष्टमो ऽध्यायः समाप्तः ॥ ३ ॥ ८ ॥
Eggeling
- He then addresses (the water) 11 with, ‘May the waters and plants be friendly unto us, unfriendly to him who hateth us, and whom we hate!’ For when they proceed with that (spit), the waters, forsooth, as well as the plants, keep as it were receding from him; but hereby he now makes a covenant with them, and so they again approach to him, and that expiation is performed (to them). He does not perform (the spit-bath) at the animal offering to Agni and Soma, nor at that to Agni, but only at that of the Anūbandhyā-cow 12, for therewith the whole sacrifice attains to completion. And in that they perform (the ceremony) with the heart-spit at the cow (offering), thereby indeed it comes to be performed also for the animal offering to Agni and Soma, as well as for that to Agni.
-
214:2 The Kāṇva text (as the Taitt. S.) reverses the order of this and the following formula. Nor does it begin a new Brāhmaṇa here. ↩︎
-
प्रतिवषट्कार ँ हुत्वा मनो म इति मुखोपस्पर्शनम् । का० श्रौ० सू० ६ । २०९ । ↩︎
-
214:3 Having completed the last after-offering, the Adhvaryu, in the first place, throws the first chip of the sacrificial stake into the fire, in accordance with III, 7, 1, 32. For the four Patnīsaṁyājas, the deities of which are Soma, Tvashṭr̥, the wives of the gods, and Agni the householder, see part i, p. 256, The first two offerings may consist only of ghee, or, as the last two, of a piece of the tail. ↩︎
-
215:1 The technical term for this purificatory ceremony is śūlāvabhr̥tha, or spit-bath.’ On the present occasion it is not performed (see paragraph 11), but it is inserted here because it forms the conclusion of the ordinary animal offering, not connected with the Soma-sacrifice (nirūḍḥa-paśu), as well as of the offering of a sterile cow (termed anūbandhyā) to Mitra and Varuṇa, which concludes the Soma-sacrifice. See part i, p. 379, note 1, and IV, 5, 2, 1 seq. ↩︎
-
215:2 ? Alaṁjusha, ‘sufficient for eating,’ Sāyaṇa, ‘sufficient in itself,’ St. Petersburg Dict. The Kāṇva text has the probably preferable reading,–atha alaṁgushaṁ śritam eva paritr̥ndanti,–they then pierce (with the spit) what is already sufficiently cooked. ↩︎
-
अभ्यवेत्य शुष्काद्रसन्धौ हृदयशूलमुपगूहति श्रुगसि तमभिशोच यो ऽस्मान् द्वेष्टि यंच व्वयं द्विष्मो मापो मौषधीरिति च । का. श्रौ. सू. ६ । १२० । ↩︎ ↩︎
-
216:1 This is a doubtful rendering in accordance with the suggestion in the St. Petersburg Dict., that ‘dhāmno-dhāmnaḥ’ in this passage is an old corruption of ‘dāmno-dāmnaḥ.’ The Taitt. S. has the sane reading. Sāyaṇa and Mahīdhara take it in the sense of ‘from every place (infested by enemies, or, rendered fearful by thy noose) deliver us!’ Could ‘dhāmno-dhāmnaḥ’ be taken as gen. to ‘rājan?’ ↩︎
-
216:2 ? Or, ‘That they say (i.e. mention the word) “Cows,”–that we swear by “Varuṇa,”–therefrom deliver us, O Varuṇa!’ If the mentioning of words for cow (as well as the taking in vain of Varuṇa’s name) is meant to he censured in this passage, Śat. Br. II, 2, 4, 14 (part i, p. 326 note) may be compared. It seems, however, doubtful whether the author of the Brāhmaṇa took the term aghnyāḥ as referring to ‘cows’ here. The St. Petersburg Dict., s.v. śap, translates, ‘when we swear by the name of Varuṇa.’ Instead of ‘Yad āhur aghnyā iti varuṇeti śapāmahe,’ the Taitt. S (I, 3, 11, 1) reads ‘Yad āpo aghniyā varuṇeti śapāmahe,’ which Sāyaṇa explains by ‘O ye waters, O ye Aghnyāḥ (? inviolable ones, cows, waters), O Varuṇa! thus we solicit thee (to avert evil from us);’ adding a passage to the effect that he who approaches his better (addressing him) by name, wishes him ‘puṇyārti;’ while in the present mantra, he contends there is no mere ’taking the name of Varuṇa in vain.’ ↩︎
-
217:1 I.e. the sacrificer (or the victim representing the sacrificer). ↩︎
-
217:2 According to the Kāṇva text and Kāty. VI, 10, 5 they (the priests and sacrificer) touch the water while muttering the formula–‘From every fetter . . . . and whom we hate.’ ↩︎
-
217:3 See IV, 5, 1, 5 seq. ↩︎