०१
विश्वास-प्रस्तुतिः
त्री᳘णि ह वै᳘ पशो᳘रेकादशानि[[!!]]॥
(न्ये᳘) ए᳘कादश प्रयाजा ए᳘कादशानुयाजा ऽए᳘कादशोपय᳘जो द᳘श पा᳘ण्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यान ऽइ᳘त्येता᳘वान्वै पु᳘रुषो यः᳘ परा᳘र्द्ध्यः पशूनां यᳫं᳭ सर्व्वे᳘ ऽनु पश᳘वः॥
मूलम् - श्रीधरादि
त्री᳘णि ह वै᳘ पशो᳘रेकादशानि[[!!]]॥
(न्ये᳘) ए᳘कादश प्रयाजा ए᳘कादशानुयाजा ऽए᳘कादशोपय᳘जो द᳘श पा᳘ण्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यान ऽइ᳘त्येता᳘वान्वै पु᳘रुषो यः᳘ परा᳘र्द्ध्यः पशूनां यᳫं᳭ सर्व्वे᳘ ऽनु पश᳘वः॥
मूलम् - Weber
त्री᳘णि ह वै᳘ पशो᳘रेकादशा᳘नि॥
ए᳘कादश प्रयाजा ए᳘कादशानुयाजा ए᳘कादशोपय᳘जो द᳘श पाॗण्या अङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणाः᳘ प्राण᳘ उदानो᳘ व्यान इ᳘त्येता᳘वान्वै पु᳘रुषो यः᳘ परार्ध्यः᳘ पशूनां यᳫं सर्वे᳘ ऽनु पश᳘वः॥
मूलम् - विस्वरम्
त्रीणि ह वै पशोरेकादशानि- एकादश प्रयाजाः, एकादशानुयाजाः, एकादशोपयजः । दश पाण्या अंगुलयः, दश पाद्याः, दश प्राणाः, प्राण उदानो व्यानः- इत्येतावान्वै पुरुषो- यः परार्द्ध्यः पशूनाम्- सर्वे ऽनु पशवः ॥ १ ॥
सायणः
प्राणस्य श्रेष्ठत्वकरणाभिधानमुखेन गुदस्य प्रधानस्विष्टकृदुपयडिष्ट्यर्थं त्रेधा विभज्य विनियोगं प्रशंसन् प्रयाजादीनामितराङ्गत्वमाह- त्रीणि ह वै पशोरेकादशानीत्यादिना । प्रयाजा अनुयाजाश्च एकादशैकादश प्रसिद्धाः, अनुयाजानन्तरं यष्टव्या एकादशोपयाजा उपरिष्टादाम्नास्यन्ते; एकादशत्रयं मिलित्वा त्रयस्त्रिंशत् सम्पद्यन्ते । पशुपूत्कृष्टस्य पुरुषस्य द्विपात्पशोरपि शीर्षण्याः प्राणाः सप्त, अवाञ्चौ द्वौ, नाभिर्दशमीति ‘दश प्राणाः’ । ते च पाणिपादगतविंशत्यंगुलिभिः सहिताः त्रिंशद् भवन्ति; प्राण उदानो व्यान इति त्रयो मुख्यप्राणाः; इति त्रयस्त्रिंशदेव सन्ति यज्ञाङ्गानि ॥ १ ॥
Eggeling
- Now there are three elevens at the animal offering,–eleven fore-offerings, eleven after-offerings, and eleven by-offerings: ten fingers, ten toes, ten vital airs, and the out-breathing, in-breathing and through-breathing–this much constitutes man, who is the highest of animals, after whom 1 are all animals.
०२
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
किं त᳘द्यज्ञे᳘ क्रियते ये᳘न प्राणः स᳘र्व्वेभ्यो᳘ ऽङ्गेभ्यः शिव इ᳘ति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
किं त᳘द्यज्ञे᳘ क्रियते ये᳘न प्राणः स᳘र्व्वेभ्यो᳘ ऽङ्गेभ्यः शिव इ᳘ति॥
मूलम् - Weber
त᳘दाहुः॥
किं त᳘द्यज्ञे᳘ क्रियते ये᳘न प्राणः स᳘र्वेभ्यो᳘ ऽङ्गेभ्यः शिव इ᳘ति॥
मूलम् - विस्वरम्
तदाहु:- किं तद् यज्ञे क्रियते- येन प्राणः सर्वेभ्यो ऽङ्गेभ्यः शिव इति ॥ २ ॥
सायणः
तदाहुरिति । ‘शिवः’ श्रेष्ठः । पुरुषपशोर्हस्तपादांगुलयः प्राणरूपाङ्गानि भवन्ति; तथाच मुख्यप्राणस्यापि इतरांगुलिवत् साधारण्यमेव प्राप्तम्, न श्रेष्ठत्वम्; अतो यज्ञे सर्वेभ्यो ऽङ्गेभ्यः सकाशात् प्राणस्य श्रेष्ठत्वं केन प्रकारेण कृतमिति प्रश्नः ॥ २ ॥
Eggeling
- Now they say,’ What, then, is done at the sacrifice whereby the vital air is kindly to all the limbs?’
०३
विश्वास-प्रस्तुतिः
य᳘देव᳘ गुदं᳘ त्रेधा᳘ करो᳘ति॥
प्राणो वै᳘ गुदः᳘[[!!]] सो ऽयं प्राङा᳘ततस्त᳘मयं᳘ प्रा᳘णो ऽनुस᳘ञ्चरति॥
मूलम् - श्रीधरादि
य᳘देव᳘ गुदं᳘ त्रेधा᳘ करो᳘ति॥
प्राणो वै᳘ गुदः᳘[[!!]] सो ऽयं प्राङा᳘ततस्त᳘मयं᳘ प्रा᳘णो ऽनुस᳘ञ्चरति॥
मूलम् - Weber
य᳘देव᳘ गुदं᳘ त्रेधा᳘ करो᳘ति॥
प्राणो वै᳘ गुॗदः सो ऽयम् प्राङा᳘ततस्त᳘मय᳘म् प्राॗणो ऽनुसं᳘चरति॥
मूलम् - विस्वरम्
यदेव गुदं त्रेधा करोति । प्राणो वै गुदः । सो ऽयं प्राङाततः । तमयं प्राणो ऽनु सञ्चरति ॥ ३ ॥
सायणः
तस्योत्तरमुच्यते- यदेव गुदं त्रेधा करोतीत्यादिना । तेन प्राणः सर्वेभ्यो ऽङ्गेभ्यः शिवः- इत्यन्तेन प्राणो वै गुदः । तस्मात् प्राणसञ्चरणाधिष्ठानत्वात् ‘प्राणः’ एव गुद इत्युक्तम् ॥ कथं गुदस्य प्राणत्वमिति तदुपपादयति । सो ऽयं प्राङातत इति । गुदः प्राङाततः शरीरमध्ये ब्रह्मरन्ध्रपर्यन्तं ऊर्ध्वं प्रवृत्तः सन्वर्तते तं गुदमन्वयं प्राणः संचरति । अतः प्राणसंचारणाधिष्ठानत्वात्प्राण एव गुदः । तस्य प्रधानस्विष्टकृदुपयड्भेदेन त्रिषु स्थानेषु विभज्य विनियोग एव सर्वेभ्यो ऽङ्गेभ्यः श्रेष्ठत्वकारणमित्यर्थः ॥ ३ ॥ ४ ॥
Eggeling
- When he divides the hind-part into three portions,–the hind-part being (an opening of the) vital air, and that (animal) extending from thence forward, that vital air pervades it all through.
०४
विश्वास-प्रस्तुतिः
स य᳘देव᳘ गुदं᳘ त्रेधा᳘ करो᳘ति॥
तृ᳘तीय᳘मुपयड्भ्यस्तृ᳘तीयं जुह्वां तृ᳘तीयमुपभृ᳘ति ते᳘न प्राणः स᳘र्व्वेभ्यो᳘ ऽङ्गेभ्यः शिवः[[!!]]॥
मूलम् - श्रीधरादि
स य᳘देव᳘ गुदं᳘ त्रेधा᳘ करो᳘ति॥
तृ᳘तीय᳘मुपयड्भ्यस्तृ᳘तीयं जुह्वां तृ᳘तीयमुपभृ᳘ति ते᳘न प्राणः स᳘र्व्वेभ्यो᳘ ऽङ्गेभ्यः शिवः[[!!]]॥
मूलम् - Weber
स य᳘देव᳘ गुदं᳘ त्रेधा᳘ करो᳘ति॥
तृ᳘तीयमुपय᳘ड्भ्यस्तृ᳘तीयं जुह्वां तृ᳘तीयमुपभृ᳘ति ते᳘न प्राणः स᳘र्वेभ्यो᳘ ऽङ्गेभ्यः शिवः᳟॥
मूलम् - विस्वरम्
स यदेव गुदं त्रेधा करोति । तृतीयमुपयड्भ्यः, तृतीयं जुह्वाम्, तृतीयमुपभृति । तेन प्राणः सर्वेभ्यो ऽङ्गेभ्यः शिवः ॥ ४ ॥
सायणः
[व्याख्यानं तृतीये]
Eggeling
- And in that he cuts the hind-part into three portions,–one third for the by-offerings, one third into the juhū, and one third into the upabhr̥t,–thereby the vital air is kindly to all the limbs.
०५
विश्वास-प्रस्तुतिः
स᳘ ह᳘ त्वेव᳘ पशुमा᳘लभेत॥
य᳘ एनं मे᳘धमुपन᳘येद्य᳘दि कृशः स्याद्य᳘दुद᳘र्य्यस्य मे᳘दसः परिशिष्ये᳘त त᳘द्गुदे᳘ न्यृषेत्प्राणो वै᳘ गुदः᳘ सो ऽयं प्राङा᳘ततस्त᳘मयं᳘ प्रा᳘णो ऽनुस᳘ञ्चरति प्राणो वै᳘ पशुर्या᳘व᳘द्ध्येव᳘ प्राणे᳘न प्रा᳘णिति ता᳘वत्पशुर᳘थ य᳘दास्मात्प्रा᳘णो ऽपक्रामति[[!!]] दा᳘र्व्वेव त᳘र्हि भू᳘तो ऽनर्थ्यः᳘ शेते॥
मूलम् - श्रीधरादि
स᳘ ह᳘ त्वेव᳘ पशुमा᳘लभेत॥
य᳘ एनं मे᳘धमुपन᳘येद्य᳘दि कृशः स्याद्य᳘दुद᳘र्य्यस्य मे᳘दसः परिशिष्ये᳘त त᳘द्गुदे᳘ न्यृषेत्प्राणो वै᳘ गुदः᳘ सो ऽयं प्राङा᳘ततस्त᳘मयं᳘ प्रा᳘णो ऽनुस᳘ञ्चरति प्राणो वै᳘ पशुर्या᳘व᳘द्ध्येव᳘ प्राणे᳘न प्रा᳘णिति ता᳘वत्पशुर᳘थ य᳘दास्मात्प्रा᳘णो ऽपक्रामति[[!!]] दा᳘र्व्वेव त᳘र्हि भू᳘तो ऽनर्थ्यः᳘ शेते॥
मूलम् - Weber
स᳘ हॗ त्वेव᳘ पशुमा᳘लभेत॥
य᳘ एनम् मे᳘धमुपन᳘येद्य᳘दि कृशः स्याद्य᳘दुदर्य᳘स्य मे᳘दसः परिशिष्य᳘त त᳘द्गुदेॗ न्यृषेत्प्राणो वै᳘ गुॗदः सो ऽयम् प्राङा᳘ततस्त᳘मय᳘म् प्राॗणो ऽनुसं᳘चरति प्राणो वै᳘ पशुर्या᳘वॗद्ध्येव᳘ प्राणे᳘न प्रा᳘णिति ता᳘वत्पशुर᳘थ यॗदास्मात्प्राॗणो ऽपक्रा᳘मति दाॗर्वेव त᳘र्हि भूॗतो ऽनर्थ्यः᳘ शेते॥
मूलम् - विस्वरम्
स ह त्वेव पशुमालभेत- य एनं मेधमुपनयेत् । यदि कृशः स्यात् यद् उदर्यस्य मेदसः परिशिष्येत तद् गुदे न्यृषेत् । प्राणो वै गुदः । सो ऽयं प्राङाततः । तमयं प्राणो ऽनु सञ्चरति । प्राणो वै पशुः यावद्ध्येव प्राणेन प्राणिति- तावत्पशुः । अथ यदा ऽस्मात् प्राणो ऽपक्रामति- दार्वेव तर्हि भूतो ऽनर्थ्यः शेते ॥ ५ ॥
सायणः
अथ गुदस्य प्राणत्वेन श्रेष्ठत्वाभिधानप्रसङ्गात् यदि कथञ्चित् तत्पशोः कृशत्वं स्यात्, तर्हि गुदस्य सम्पूर्णत्वाय उदर्यं मांसं तेन सह मिश्रणीयमित्याह- स ह त्वेव पशुमालभेतेत्यादिना । ‘सः’ एव ‘पशुमालभेत’ ‘यः’ यजमानः ‘एतं’ ‘मेधं’ मेधार्हम् प्रवृद्धमित्यर्थः । पशुम् ‘उपनयेत्’ उपगच्छेत्, प्राप्नुयात् सर्वावयवपूर्णमेव पशुमालभेत न कृशं पशुम्; अयमेव मुख्यः पक्षः । ‘यदि’ पशुः ‘कृशो लब्धः स्यात्’ तदा अकरणात् करणस्य श्रैष्ठ्यात् वक्ष्यमाणप्रकारं कुर्यात् । ‘उदर्यस्य’ उदरे भवमुदर्यम्, तस्य ‘मेदसः’ सकाशादिडार्थमुद्धृत्य यन्मांसं ‘परिशिष्येत्’, ‘तत्’ आदाय अल्पीयसि ‘गुदे’ ‘न्यृषेत्’ निगमयेत्, तेन तं प्रवर्द्धयेदित्यर्थः । प्राणौ वै गुद इत्यादि, व्याख्यातम् ॥ ५ ॥
Eggeling
- He alone, however, may slay an animal who can supply it with the sacrificial essence 2. And if it be lean, let him stuff into the hind-part whatever may be left of the fat of the belly: the hind-part being (an opening of) the vital air, and that (animal) extending from thence forward, that vital air pervades it all through. The animal, forsooth, is breath; for only so long (does) the animal (live), as it breathes with the breath; but when the breath departs from it, it lies there useless, even (as) a block of wood.
०६
विश्वास-प्रस्तुतिः
गुदो᳓ वै᳓ पशुः᳓॥
(र्मे᳘) मे᳓दो वै मे᳓धस्, त᳓द् एनं मे᳓धम् उ᳓पनयति,
य᳓द्य् उ ऽअंसलो᳓ भ᳓वति
स्वयम्-उपेत᳓ एव᳓ त᳓र्हि मे᳓धं भवति॥
मूलम् - श्रीधरादि
गुदो वै᳘ पशुः[[!!]]॥
(र्मे᳘) मे᳘दो वै मे᳘धस्त᳘देनं मे᳘धमु᳘पनय᳘ति यद्यु[[!!]] ऽअं᳘सलो भ᳘वति स्वयमुपेत᳘ एव त᳘र्हि मे᳘धं भवति॥
मूलम् - Weber
गुदो वै᳘ पशुः᳘॥
मे᳘दो वै मे᳘धस्त᳘देनम् मे᳘धमु᳘पनयति य᳘द्यु अंसलो भ᳘वति स्वयमुपेत᳘ एव त᳘र्हि मेधम् भवति॥
मूलम् - विस्वरम्
गुदो वै पशुः । मेदो वै मेधः । तदेनं मेधमुपनयति । यद्यु ऽअंसलो भवति- स्वयमुपेत एव- तर्हि मेधं भवति ॥ ६ ॥
सायणः
गुदो वै पशुरिति । ‘यद्यु’ यद्यपि पशुः ‘अंसलः’ प्रवृद्धांसः, पुष्टांगो (न) भवेत्, ‘तर्हि’ स्वयम् एव ‘मेधं’ प्राप्तवान् भवति ॥ ६ ॥
Eggeling
- The hind-part is (part of) the animal, and fat means sacrificial essence 3: thus he supplies it with the sacrificial essence. But if it be tender (juicy), then it has itself obtained the sacrificial essence.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ पृषदाज्यं᳘ गृह्णाति॥
द्वयं वा᳘ ऽइद᳘ᳫँ᳘ सर्पि᳘श्चैव द᳘धि च द्वन्द्वं वै᳘ मिथुनं᳘ प्रज᳘ननं मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ पृषदाज्यं᳘ गृह्णाति॥
द्वयं वा᳘ ऽइद᳘ᳫँ᳘ सर्पि᳘श्चैव द᳘धि च द्वन्द्वं वै᳘ मिथुनं᳘ प्रज᳘ननं मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - Weber
अ᳘थ पृषदाज्यं᳘ गृह्णाति॥
द्वयं वा᳘ इद᳘ᳫं᳘ सर्पि᳘श्चैव द᳘धि च द्वन्द्वं वै᳘ मिथुन᳘म् प्रज᳘ननम् मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - विस्वरम्
अथ पृषदाज्यं गृह्णाति । द्वयं वा ऽइदम्- सर्पिश्चैव दधि च । द्वन्द्वं वै मिथुनं प्रजननम् । मिथुनमेवैतत् प्रजननं क्रियते ॥ ७ ॥
सायणः
अनुयाजार्थं पृषदाज्यग्रहणं विधाय प्रशंसति- अथ पृषदाज्यं गृह्णातीत्यादिना 4 । ‘इदं’ वक्ष्यमाणं द्वयं खलु ‘द्वन्द्वम्’ । इदंशब्दार्थमाह- सर्पिश्चैव दधि चेति । अस्तु द्वयम्, ततः किमित्यत आह- द्वन्द्वं वै मिथुनमिति । तच्च ‘प्रजननम्’ अन्यस्योत्पादकम् । अतः पृषदाज्यग्रहणेन प्रजननमिथुनमेव कृतवान् भवति ॥ ७॥
Eggeling
- Thereupon he takes clotted ghee; for twofold indeed is this (clotted ghee),–to wit, both ghee
and sour milk 5,–and a productive union means a couple: thus a productive union is thereby effected.
०८
विश्वास-प्रस्तुतिः
ते᳘नानुयाजे᳘षु चरति॥
पश᳘वो वा᳘ ऽअनुयाजाः प᳘यः पृषदाज्यं त᳘त्पशु᳘ष्वे᳘वैतत्प᳘यो दधाति त᳘दिदं᳘ पशु᳘षु प᳘यो हितं᳘ प्राणो हि᳘ पृषदाज्यम᳘न्नᳫँ᳭हि᳘ पृषदाज्यम᳘न्नᳫँ᳭ हि᳘ प्राणः[[!!]]॥
मूलम् - श्रीधरादि
ते᳘नानुयाजे᳘षु चरति॥
पश᳘वो वा᳘ ऽअनुयाजाः प᳘यः पृषदाज्यं त᳘त्पशु᳘ष्वे᳘वैतत्प᳘यो दधाति त᳘दिदं᳘ पशु᳘षु प᳘यो हितं᳘ प्राणो हि᳘ पृषदाज्यम᳘न्नᳫँ᳭हि᳘ पृषदाज्यम᳘न्नᳫँ᳭ हि᳘ प्राणः[[!!]]॥
मूलम् - Weber
ते᳘नानुयाजे᳘षु चरति॥
पश᳘वो वा᳘ अनुयाजाः प᳘यः पृषदाज्यं त᳘त्पशु᳘ष्वेॗवैतत्प᳘यो दधाति त᳘दिद᳘म् पशु᳘षु प᳘यो हित᳘म् प्राणो हि᳘ पृषदाज्यम᳘न्नᳫं हि᳘ पृषदाज्यम᳘न्नᳫं हि᳘ प्राणः᳟॥
मूलम् - विस्वरम्
तेनानुयाजेषु चरति । पशवो वा ऽअनुयाजाः, पयः पृषदाज्यम् । तत् पशुष्वेवैतत्पयो दधाति । सदिदं पशुषु पयो हितम् । प्राणो हि पृषदाज्यम् । अन्नं हि पृषदाज्यम् । अन्नं हि प्राणः ॥ ८ ॥
सायणः
तेनानुयाजेष्विति । ‘तेन’ पृषदाज्येन ‘अनुयाजेषु चरति’ अनुयाजान् यजेदित्यर्थः । तदुभयं प्रशंसति- पशवो वा अनुयाजा इति । अनुयाजानां फलोपभोगहेतुकत्वात् पशुत्वम्, पयोविकारत्वात् ‘पृषदाज्यम्’ एव ‘पयः’; ‘तत्’ तेनानुयाजानुष्ठानेन ‘पशुषु’ ‘एव’ पयःस्थापनम् ‘भवति’ ।
विहिताननुयाजान् विधास्यमानैरुपयड्भिः सह पुरस्तादुपरिष्टाच्च विधास्यन् प्राणात्मना प्रशंसति- प्राणो हि पृषदाज्यमिति । ‘हि’ शब्दद्योत्यां प्रसिद्धिमुपपादयति- ‘पृषदाज्यं’ तावत् ‘अन्नम्’ तत् ‘अन्नं’ अन्वयव्यतिरेकानुविधायित्वात् ‘प्राणः’; अतः ‘पृषदाज्यं प्राणः’ ॥ ८ ॥
Eggeling
- Therewith they perform at the after-offerings. The after-offerings mean cattle, and clotted ghee means milk: hence he thereby puts milk into the cattle, and thus milk is here contained (or beneficial, Nita) in the cattle; for clotted ghee means breath, because clotted ghee is food, and breath is food.
०९
विश्वास-प्रस्तुतिः
(स्ते᳘) ते᳘न पुर᳘स्तादनुयाजे᳘षु चरति॥
स᳘ यो ऽयं᳘ पुर᳘स्तात्प्राणस्त᳘मे᳘वैत᳘द्दधाति ते᳘न पश्चादु᳘पयजति स᳘ यो ऽयं᳘ पश्चा᳘त्प्राणस्तमे᳘वैत᳘द्दधाति[[!!]] ता᳘विमा᳘ ऽउभय᳘तः प्राणौ᳘ हितौ य᳘श्चाय᳘मुप᳘रिष्टाद्य᳘श्चाध᳘स्तात्॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘न पुर᳘स्तादनुयाजे᳘षु चरति॥
स᳘ यो ऽयं᳘ पुर᳘स्तात्प्राणस्त᳘मे᳘वैत᳘द्दधाति ते᳘न पश्चादु᳘पयजति स᳘ यो ऽयं᳘ पश्चा᳘त्प्राणस्तमे᳘वैत᳘द्दधाति[[!!]] ता᳘विमा᳘ ऽउभय᳘तः प्राणौ᳘ हितौ य᳘श्चाय᳘मुप᳘रिष्टाद्य᳘श्चाध᳘स्तात्॥
मूलम् - Weber
ते᳘न पुर᳘स्तादनुयाजे᳘षु चरति॥
स᳘ यो ऽय᳘म् पुर᳘स्तात्प्राणस्त᳘मेॗवैत᳘द्दधाति ते᳘न पश्चादु᳘पयजति सॗ यो ऽय᳘म् पश्चात्प्राणस्त᳘मेॗवैत᳘द्दधाति ता᳘विमा᳘ उभय᳘तः प्राणौ᳘ हितौ य᳘श्चाय᳘मुप᳘रिष्टाद्य᳘श्चाध᳘स्तात्॥
मूलम् - विस्वरम्
तेन पुरस्तादनुयाजेषु चरति । स यो ऽयं पुरस्तात्प्राणः- तमेवैतद्दधाति । तेन पश्चादुपयजति । स यो ऽयं पश्चात्प्राणः- तमेवैतद्दधाति । ताविमा ऽउभयतः प्राणौ हितौ- यश्चायमुपरिष्टाद्यश्चाधस्तात् ॥ ९ ॥
सायणः
तेन पुरस्तादिति । उपयड्भ्यः ‘पुरस्तात् अनुयाजेषु’ पृषदाज्यानुष्ठानेन पुरस्तात्- प्राणं मुखस्थप्राणं अप्राणे पशौ निहितवान् भवति; ‘पश्चात्’ उपयडनुष्ठानस्य पश्चात्- ‘प्राणम्’ उदानाख्यं पशौ स्थापितवान् भवति । मिलित्वा ‘यः’ ‘अयम्’ प्राणिषु ‘उपरिष्टाच्चाधस्ताच्च’ प्राणः, तत् प्राणद्वयं स्थापितवान् भवति ॥ ९ ॥
Eggeling
- Therewith he (the Adhvaryu) performs in front (on the Āhavanīya) at the after-offerings,—whereby he puts into (the victim) that vital air which is here in front;–and therewith he (the Pratiprasthātr̥) performs behind (the altar) at the by-offerings 6,–whereby he puts into it that vital air which is here behind: thus two vital airs are here contained (or beneficial) on both sides, the one above and the one below.
१०
विश्वास-प्रस्तुतिः
तद्वा᳘ ऽएतदे᳘को द्वा᳘भ्यां व्व᳘षट्करोति॥
(त्य) अर्ध्वर्य᳘वे च य᳘श्चैष᳘ उपय᳘जत्य᳘थ यद्य᳘जन्तमुपय᳘जति त᳘स्मादुपय᳘जो नामा᳘थ य᳘दुपय᳘जति᳘ प्रै᳘वैत᳘ज्जनयति पश्चा᳘द्ध्युपय᳘जति पश्चाद्धि यो᳘षायै प्रजाः प्र᳘जायन्ते॥
मूलम् - श्रीधरादि
तद्वा᳘ ऽएतदे᳘को द्वा᳘भ्यां व्व᳘षट्करोति॥
(त्य) अर्ध्वर्य᳘वे च य᳘श्चैष᳘ उपय᳘जत्य᳘थ यद्य᳘जन्तमुपय᳘जति त᳘स्मादुपय᳘जो नामा᳘थ य᳘दुपय᳘जति᳘ प्रै᳘वैत᳘ज्जनयति पश्चा᳘द्ध्युपय᳘जति पश्चाद्धि यो᳘षायै प्रजाः प्र᳘जायन्ते॥
मूलम् - Weber
तद्वा᳘ एतदे᳘को द्वा᳘भ्यां व᳘षट्करोति॥
अध्वर्य᳘वे च य᳘श्चैष᳘ उपय᳘जत्य᳘थ यद्य᳘जन्तमुपय᳘जति त᳘स्मादुपय᳘जो नामा᳘थ य᳘दुपय᳘जतिॗ प्रैॗवैत᳘ज्जनयति पश्चाॗद्ध्युपय᳘जति पश्चाद्धि यो᳘षायै प्रजाः प्र᳘जायन्ते॥
मूलम् - विस्वरम्
तद्वा ऽएतदेको द्वाभ्यां वषट्करोति- अध्वर्यवे च, यश्चैष उपयजति । अथ यद्यजन्तमुपयजति- तस्मादुपयजो नाम । अथ यदुपयजति- प्रैवैतज्जनयति । पश्चाद्ध्युपयजति । पश्चाद्धि योषायै प्रजाः प्रजायन्ते ॥ १० ॥
सायणः
तद्वा एतदित्यादि । ‘एकः’ होता, ‘द्वाभ्याम्’ ‘अध्वर्यवे’ ‘उपयष्ट्रे’ प्रतिप्रस्थात्रे ‘च,’ प्रयाजार्थम् उपयड्यागार्थं च ‘वषट्’ कुर्यात् ॥
उपयजं नामनिर्वचनेन प्रशंसति- अथ यद् यजन्तम् उपयजति, तस्मादुपयजो नामेति । ‘यजन्तम्’ अध्वर्युम् ‘उप’ लक्ष्य एतान्यङ्गानि प्रतिप्रस्थाता ‘यजति’ इति पश्चाद्यष्टव्या उपयज “विजुपे छन्दसि” (पा. सू. ३ । २ । ७३) इत्यर्थः ॥
अथ यदुपयजति प्रैवैतज्जनयतीति । पृषदाज्यरूपैरनुयाजैः प्रजननस्य कृतत्वादुपयड्भिर्जनयति । कथमेतेन प्रजनयति ? उच्यते- पश्चाद्ध्युपयजतीति । योषायाः पश्चाद्भागेन प्रजा उत्पद्यन्ते ॥ १० ॥
Eggeling
- Here now, one (Hotr̥) pronounces the Vashaṭ for two,–for the Adhvaryu (who performs the after-offerings)
and for him (the Pratiprasthātr̥) who performs the by-offerings. And because he offers them by (in addition to) the offering (Adhvaryu), therefore they are called by-offerings. And in performing the by-offerings, he produces (offspring) 7, since he performs the by-offerings behind (the altar), and from behind offspring is produced from woman.
११
विश्वास-प्रस्तुतिः
स उ᳘पयजति॥
समुद्रं᳘ गच्छ स्वाहेत्या᳘पो वै᳘ समुद्र ऽआ᳘पो रे᳘तो रे᳘त ए᳘वैत᳘त्सिञ्चति॥
मूलम् - श्रीधरादि
स उ᳘पयजति॥
समुद्रं᳘ गच्छ स्वाहेत्या᳘पो वै᳘ समुद्र ऽआ᳘पो रे᳘तो रे᳘त ए᳘वैत᳘त्सिञ्चति॥
मूलम् - Weber
स उ᳘पयजति॥
समुद्रं᳘ गछ स्वाहेत्या᳘पो वै᳘ समुद्र आ᳘पो रे᳘तो रे᳘त एॗवैत᳘त्सिञ्चति॥
मूलम् - विस्वरम्
स उपयजति- “समुद्रं गच्छ स्वाहा”- (वा. सं. ६ । २१) इति । आपो वै समुद्रः । आपो रेतः । रेत एवैतत्सिञ्चति ॥ ११ ॥
सायणः
स उपयजतीति । “समुद्रं गच्छ-” इत्यादय उपयड्यागमन्त्राः । हे गुदावयवरूप हविः ! त्वं ‘समुद्रं’ समुद्राभिमानिनं देवं ‘गच्छ’ ‘स्वाहा’ इदं द्रव्यं सुहुतमस्तु । एवमुत्तरत्रापि द्रष्टव्यम् । एषु मन्त्रेषु मध्ये यत्र देवता स्पष्टं न प्रतिभाति, तत्र तदभिमानिदेवता द्रष्टव्या ॥ उपयाजानां प्रजननरूपत्वस्योक्तत्वात् तदनुकूलप्रयत्नपरतया मन्त्रान् व्याचष्टे- आपो वै समुद्र आपो रेत इति । पदार्थस्तु स्पष्ट एव ॥
अत्र कात्यायनः- “शामित्रादङ्गारानाहृत्य वेदिश्रोण्यां निवपत्युत्तरस्याम्, आग्नीध्रीयाद्वा- सोमे होतृधिष्ण्ये, प्रतिप्रस्थातोपयजति गुदतृतीयस्य प्रच्छेदमनुयाजेषु समुद्रं गच्छेति प्रतिमन्त्रम् प्रतिवषट्कारम्-" (का. श्रौ. सू. ६ । २०६-२०८) इति ॥ ११-१७ ॥
Eggeling
- He offers the by-offerings with (Vāj. S. VI, 21), ‘Go thou to the sea, Hail!’ The sea is water, and seed is water: he thereby casts seed.
१२
विश्वास-प्रस्तुतिः
(त्य) अन्त᳘रिक्षं गच्छ स्वाहे᳘ति॥
(त्य) अन्त᳘रिक्षं वा ऽअ᳘नु प्रजाः प्र᳘जायन्ते ऽन्त᳘रिक्षमे᳘वैतद᳘नु प्र᳘जनयति॥
मूलम् - श्रीधरादि
(त्य) अन्त᳘रिक्षं गच्छ स्वाहे᳘ति॥
(त्य) अन्त᳘रिक्षं वा ऽअ᳘नु प्रजाः प्र᳘जायन्ते ऽन्त᳘रिक्षमे᳘वैतद᳘नु प्र᳘जनयति॥
मूलम् - Weber
अन्त᳘रिक्षं गछ स्वाहे᳘ति॥
अन्त᳘रिक्षं वा अ᳘नु प्रजाः प्र᳘जायन्ते ऽन्त᳘रिक्षमेॗवैतद᳘नु प्र᳘जनयति॥
मूलम् - विस्वरम्
“अन्तरिक्षं गच्छ स्वाहा”- (वा. सं. ६ । २१) इति । अन्तरिक्षं वा ऽअनु प्रजाः प्रजायन्ते । अन्तरिक्षमेवैतदनु प्रजनयति ॥ १२ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- ‘Go thou to the air, Hail!’ It is into (along) the air that offspring is born: into the air he produces (offspring).
१३
विश्वास-प्रस्तुतिः
देव᳘ᳫँ᳘सविता᳘रं गच्छ स्वाहे᳘ति॥ सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूत ए᳘वैतत्प्र᳘जनयति॥
मूलम् - श्रीधरादि
देव᳘ᳫँ᳘सविता᳘रं गच्छ स्वाहे᳘ति॥ सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूत ए᳘वैतत्प्र᳘जनयति॥
मूलम् - Weber
देव᳘ᳫं᳘ सविता᳘रं गछ स्वाहे᳘ति सविता वै᳘ देवा᳘नाम् प्रसविता᳘ सवितृ᳘प्रसूत एॗवैतत्प्र᳘जनयति॥
मूलम् - विस्वरम्
“देवं सवितारं गच्छ स्वाहा” (वा. सं. ६ । २१) इति । सविता वै देवानां प्रसविता । सवितृप्रसूत एवैतत् प्रजनयति ॥ १३ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- ‘Go thou to the divine Savitr̥, Hail!’ Savitr̥ is the impeller of the gods: impelled by Savitr̥ he thus produces creatures.
१४
विश्वास-प्रस्तुतिः
मित्राव᳘रुणौ गच्छ स्वाहे᳘ति॥
प्राणोदानौ वै᳘ मित्राव᳘रुणौ प्राणोदाना᳘वे᳘वैत᳘त्प्रजा᳘सु दधाति॥
मूलम् - श्रीधरादि
मित्राव᳘रुणौ गच्छ स्वाहे᳘ति॥
प्राणोदानौ वै᳘ मित्राव᳘रुणौ प्राणोदाना᳘वे᳘वैत᳘त्प्रजा᳘सु दधाति॥
मूलम् - Weber
मित्राव᳘रुणौ गछ स्वाहे᳘ति॥
प्राणोदानौ वै᳘ मित्राव᳘रुणौ प्राणोदाना᳘वेॗवैत᳘त्प्रजा᳘सु दधाति॥
मूलम् - विस्वरम्
“मित्रावरुणौ गच्छ स्वाहा” - (वा. सं. ६ । २१) इति । प्राणोदानौ वै मित्रावरुणौ प्राणोदानावेवैतत् प्रजासु दधाति ॥ १४ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- ‘Go thou to Mitra and Varuṇa, Hail!’ Mitra and Varuṇa are the out-breathing and in-breathing: he thus bestows out-breathing and in-breathing on the creatures.
१५
विश्वास-प्रस्तुतिः
(त्य) अहोरात्रे᳘ गच्छ स्वाहे᳘ति॥
(त्य) अहोरात्रे वा ऽअ᳘नु प्रजाः प्र᳘जायन्ते ऽहोरात्रे᳘ ऽए᳘वैतद᳘नुप्र᳘जनयति॥
मूलम् - श्रीधरादि
(त्य) अहोरात्रे᳘ गच्छ स्वाहे᳘ति॥
(त्य) अहोरात्रे वा ऽअ᳘नु प्रजाः प्र᳘जायन्ते ऽहोरात्रे᳘ ऽए᳘वैतद᳘नुप्र᳘जनयति॥
मूलम् - Weber
अहोरात्रे᳘ गछ स्वाहे᳘ति॥
अहोरात्रे वा अ᳘नु प्रजाः प्र᳘जायन्ते ऽहोरात्रे᳘ एॗवैतद᳘नु प्र᳘जनयति॥
मूलम् - विस्वरम्
“अहोरात्रे गच्छ स्वाहा”- (वा. सं. ६ । २१) इति । अहोरात्रे वा ऽअनु प्रजाः प्रजायन्ते । अहोरात्रे ऽएवैतदनुप्रजनयति ॥ १५ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- ‘Go thou to the day and the night, Hail! It is through (along) day and night that offspring is born: through day and night he causes creatures to be born.
१६
विश्वास-प्रस्तुतिः
छ᳘न्दाᳫंसि गच्छ स्वाहे᳘ति॥
सप्त वै छ᳘न्दᳫंसि सप्त᳘ ग्राम्याः᳘ पश᳘वः स᳘प्तारण्यास्ता᳘ने᳘वैत᳘दुभ᳘यान्प्र᳘जनयति॥
मूलम् - श्रीधरादि
छ᳘न्दाᳫंसि गच्छ स्वाहे᳘ति॥
सप्त वै छ᳘न्दᳫंसि सप्त᳘ ग्राम्याः᳘ पश᳘वः स᳘प्तारण्यास्ता᳘ने᳘वैत᳘दुभ᳘यान्प्र᳘जनयति॥
मूलम् - Weber
छ᳘न्दांसि गछ स्वाहे᳘ति॥
सप्त वै छ᳘न्दांसि सप्त᳘ ग्राम्याः᳘ पश᳘वः सॗप्तारण्यास्ता᳘नेॗवैत᳘दुभ᳘यान्प्र᳘जनयति॥
मूलम् - विस्वरम्
“छन्दांसि गच्छ स्वाहा” (वा. सं. ६ । २१) इति सप्त वै छन्दांसि- सप्त ग्राम्याः पशवः सप्तारण्याः तानेवैतदुभयान्प्रजनयति ॥ ॥ १६ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- ‘Go thou to the metres, Hail!’ There are seven metres; and there are seven domestic and seven wild animals: both kinds he thus causes to be produced.
१७
विश्वास-प्रस्तुतिः
द्या᳘वापृथिवी᳘ गच्छ स्वाहे᳘ति॥
प्रजा᳘पतिर्व्वै᳘ प्रजाः᳘ सृष्ट्वा ता द्या᳘वापृथिवी᳘भ्यां प᳘र्यगृह्णात्ता᳘ इमा द्या᳘वापृथिवी᳘भ्यां प᳘रिगृहीतास्त᳘थो ऽए᳘वैष᳘ ऽएत᳘त्प्रजाः᳘ सृष्ट्वा ता द्या᳘वापृथिवी᳘भ्यां प᳘रिगृह्णाति॥
मूलम् - श्रीधरादि
द्या᳘वापृथिवी᳘ गच्छ स्वाहे᳘ति॥
प्रजा᳘पतिर्व्वै᳘ प्रजाः᳘ सृष्ट्वा ता द्या᳘वापृथिवी᳘भ्यां प᳘र्यगृह्णात्ता᳘ इमा द्या᳘वापृथिवी᳘भ्यां प᳘रिगृहीतास्त᳘थो ऽए᳘वैष᳘ ऽएत᳘त्प्रजाः᳘ सृष्ट्वा ता द्या᳘वापृथिवी᳘भ्यां प᳘रिगृह्णाति॥
मूलम् - Weber
द्या᳘वापृथिवी᳘ गछ स्वाहे᳘ति॥
प्रजा᳘पतिर्वै᳘ प्रजाः᳘ सृष्ट्वा ता द्या᳘वापृथिवी᳘भ्याम् प᳘र्यगृह्णात्ता᳘ इमा द्या᳘वापृथिवी᳘भ्याम् प᳘रिगृहीतास्त᳘थो एॗवैष᳘ एत᳘त्प्रजाः᳘ सृष्ट्वा ता द्या᳘वापृथिवी᳘भ्याम् प᳘रिगृह्णाति॥
मूलम् - विस्वरम्
“द्यावापृथिवी गच्छ स्वाहा” (वा. सं. ६ । २१) इति । प्रजापतिर्वै प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्यां पर्यगृह्णात् । ता इमा द्यावापृथिवीभ्यां परिगृहीताः । तथो ऽएवैष एतत्प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्यां परिगृह्णाति ॥ १७ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- ‘Go thou to heaven and earth, Hail!’ For, Prajāpati, having created the living beings,
enclosed them between heaven and earth, and so these beings are enclosed between heaven and earth. And in like manner does this (offerer), having created living beings, enclose them between heaven and earth.
१८
विश्वास-प्रस्तुतिः
(त्य) अथात्यु᳘पयजति[[!!]]॥
स य᳘न्नात्युपय᳘जेद्या᳘वत्यो हैवा᳘ग्रे प्रजाः᳘ सृष्टास्ता᳘वत्यो हैव᳘ स्युर्न प्र᳘जायेरन्न᳘थ य᳘दत्युपय᳘जति᳘ प्रै᳘वैत᳘ज्जनयति त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते᳘॥
मूलम् - श्रीधरादि
(त्य) अथात्यु᳘पयजति[[!!]]॥
स य᳘न्नात्युपय᳘जेद्या᳘वत्यो हैवा᳘ग्रे प्रजाः᳘ सृष्टास्ता᳘वत्यो हैव᳘ स्युर्न प्र᳘जायेरन्न᳘थ य᳘दत्युपय᳘जति᳘ प्रै᳘वैत᳘ज्जनयति त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते᳘॥
मूलम् - Weber
अ᳘थात्यु᳘पयजति॥
स यॗन्नात्युपय᳘जेद्या᳘वत्यो हैवा᳘ग्रे प्रजाः᳘ सृष्टास्ता᳘वत्यो हैव᳘ स्युर्न प्र᳘जायेरन्न᳘थ य᳘दत्युपयजतिॗ प्रैॗवैत᳘ज्जनयति त᳘स्मादिमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तम् प्र᳘जायन्ते॥
मूलम् - विस्वरम्
अथात्युपयजति । स यन्नात्युपयजेत् । यावतो हैवाग्रे प्रजाः सृष्टाः- तावत्यो हैव स्युः- न प्रजायेरन् । अथ यद् अत्युपयजति- प्रैवैतज्जनयति । तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ॥ १८ ॥
सायणः
अत्युपयाजं विधत्ते- अथात्युपयजतीति । अत्युपयाजनामकाश्चत्वार 8 उपयागाः सप्तकानामनन्तरमाधिक्येन यष्टव्याः । विहितानत्युपयागानन्वयव्यतिरेकाभ्यां पुनः पुनः प्रजाभिवृद्धिहेतुतया प्रशंसति- स यन्नात्युपयजेद्यावत्यो हैवाग्रे प्रजाः सृष्टा इत्यादिना 9 ॥ १८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे अष्टमाध्याये चतुर्थं ब्राह्मणम् ॥ (३-८-४) ॥
Eggeling
- He then makes additional by-offerings (atiupayaj). Were he not to make additional by-offerings, there would only be as many living beings as were created in the beginning; they would not be propagated; but by making additional by-offerings he indeed propagates them; whence creatures are again born here repeatedly 10.
-
210:3 That is, inferior to whom, or, after the manner of whom. ↩︎
-
211:1 Sāyaṇa takes ‘medham’ as apposition to ’enam,’ and explains it by ‘medhārha, pravr̥ddha,’ and ‘upanayet’ by ‘prāpnuyāt’ (it is, doubtless, ‘zuführen’). The Kāṇva text, however, reads,–Tad āhuḥ sa vai paśuṁ labheteti ya enaṁ medha upanayed iti. ↩︎
-
211:2 Gudo vai paśuḥ, medo vai medhas; this is one of many exceptions to the rule laid down by Professor Delbrück regarding the order of subject and predicate, Synt. Forsch., III, p. 26. Copulative sentences with a tertium comparationis likewise do not generally conform to that rule. ↩︎
-
ध्रुवायाः पुरस्तात् पृषदाज्यमाज्यं दधिमिश्रं पंचगृहीतं ज्योतिरसीति समिदंतेन । अनुयाजार्थँ सर्व्वत्र । का. श्रौ. सू. ५ । १०३ । १०४ । ↩︎
-
212:1 See p. 156, note 3. ↩︎
-
212:2 When the priests and sacrificer have eaten their portions of the Iḍā, the Agnīdh fetches hot coals from the Śāmitra (or, at the animal offering connected with the Soma-sacrifice), optionally from the Āgnīdhra, and puts them on the Hotr̥’s hearth (p. 148, note 4),–or at the ordinary animal offering (nirūḍḥa paśu), on the north hip (north-west corner) of the altar after removing the sacrificial grass. On these coals the Pratiprasthātr̥ performs the by-offerings (upayaj), while the Adhvaryu performs the after-offerings (anuyāja) on the Āhavanīya. For the by-offerings the Pratiprasthātr̥ cuts the respective part and the hind-quarter (III, 8, 3, 18) into eleven parts, and at each Vashaṭ throws one piece thereof with his hand into the fire. The recipients of the first eight and the last after-offerings, on the other hand, are the same as those of the nine after-offerings at the Seasonal sacrifices (part i, p. 404). The Hotr̥’s formulas for the additional two offerings, inserted before the last, are: 9. The divine lord of the forest [10. The divine barhis of water-plants] may graciously accept (the offering) for abundant obtainment of abundant gift! Vaushaṭ!’ (cf. part i, p. 235; Āśv. Śr. III, 6, 13.) ↩︎
-
213:1 Praivainaṁ taj janayati, ‘he causes it (the victim) to be born (again).’ Kāṇva rec. The above passage has apparently to be understood in a general sense, ‘he causes birth to take place among living creatures.’ ↩︎
-
‘अत्युपयड्ढोमकाश्चत्वार उपयागसप्तकानामनन्तरमाधिक्येन इति क्व. पा. । ↩︎
-
तै. सं. ६ । ३ । ११ अनुवाको द्रष्टव्यः । ↩︎
-
214:1 Or, ‘by making additional by-offerings he reproduces them: whence creatures are born here returning again and again’ (metempsychosis). ↩︎