०१

विश्वास-प्रस्तुतिः

यद्देव᳘त्यः᳘ पशुर्भ᳘वति॥
तद्देव᳘त्यं पुरोडा᳘शमनुनि᳘र्व्वपति तद्य᳘त्पुरोडा᳘शमनुनिर्व्व᳘पति स᳘र्व्वेषां वा᳘ ऽएष᳘ पशूनां मे᳘धो य᳘द्व्रीहियवौ ते᳘नै᳘वैनमेतन्मे᳘धेन स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्मात्पुरोडा᳘शमनुनि᳘र्व्वपति॥

मूलम् - श्रीधरादि

यद्देव᳘त्यः᳘ पशुर्भ᳘वति॥
तद्देव᳘त्यं पुरोडा᳘शमनुनि᳘र्व्वपति तद्य᳘त्पुरोडा᳘शमनुनिर्व्व᳘पति स᳘र्व्वेषां वा᳘ ऽएष᳘ पशूनां मे᳘धो य᳘द्व्रीहियवौ ते᳘नै᳘वैनमेतन्मे᳘धेन स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्मात्पुरोडा᳘शमनुनि᳘र्व्वपति॥

मूलम् - Weber

यद्देव᳘त्यः पशुर्भ᳘वति॥
तद्देव᳘त्यम् पुरोडा᳘शमनुनि᳘र्वपति तद्य᳘त्पुरोडा᳘शमनुनिर्व᳘पति स᳘र्वेषां वा᳘ एष᳘ पशूनाम् मे᳘धो य᳘द्व्रीहियवौ ते᳘नैॗवैनमेतन्मे᳘धेन स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्मात्पुरोडा᳘शमनुनि᳘र्वपति॥

मूलम् - विस्वरम्

यद्देवत्यः पशुर्भवति, तद्देवत्यं पुरोडाशमनुनिर्वपति । तद् यत्पुरोडाशमनुनिर्वपति । सर्वेषां वा ऽएष पशूनां मेधो यद्व्रीहियवौ । तेनैवैनमेतन्मेधेन समर्द्धयति । कृत्स्नं करोति । तस्मात्पुरोडाशमनुनिर्वपति ॥ १ ॥

सायणः

अथानुनिर्वाप्यपुरोडाशं तद्देवतां च विधत्ते- यद्देवत्य इति 1 । या देवता पशोः पुरोडाशो ऽपि तद्देवताकः कर्त्तव्यः । पुरोडाशानुनिर्वापं पूर्यमाणस्य पशोः समृद्धिहेतुत्वेन प्रशंसति- सर्वेषां वा एष पशूनामिति । सर्वपशूनां मेधरूपत्वमैतरेयब्राह्मणे “पुरुषं वै देवाः पशुमालभन्त, तस्मादालब्धान्मेध उदक्रामत्” (ऐ. ब्रा. २ । १ । ८) इत्यादिना प्रपञ्चितम् ॥ १ ॥

Eggeling
  1. For the same deity for which there is a victim, he subsequently prepares a sacrificial cake 2. The reason why he subsequently prepares a cake is this. Rice and barley, truly, are the sacrificial essence of all animals (victims) 3; with that same essence he now completes that (victim) and makes it whole. This is why he subsequently prepares a sacrificial cake.

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘द्वप᳘या प्रच᳘र्य॥
(र्यै) एते᳘न पुरोडा᳘शेन प्र᳘चरति[[!!]] मध्यतो वा᳘ ऽइमां᳘ व्वपामु᳘त्खिदन्ति मध्यत᳘ ऽए᳘वैनमेते᳘न मे᳘धेन स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्माद्वप᳘या प्रच᳘र्यैते᳘न पुरोडा᳘शेन प्र᳘चरत्येष᳘ न्वे᳘वैत᳘स्य ब᳘न्धुर्य᳘त्र क्व[[!!]] चैष᳘ पशुं᳘ पुरोडा᳘शो ऽनुनिरुप्यते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘द्वप᳘या प्रच᳘र्य॥
(र्यै) एते᳘न पुरोडा᳘शेन प्र᳘चरति[[!!]] मध्यतो वा᳘ ऽइमां᳘ व्वपामु᳘त्खिदन्ति मध्यत᳘ ऽए᳘वैनमेते᳘न मे᳘धेन स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्माद्वप᳘या प्रच᳘र्यैते᳘न पुरोडा᳘शेन प्र᳘चरत्येष᳘ न्वे᳘वैत᳘स्य ब᳘न्धुर्य᳘त्र क्व[[!!]] चैष᳘ पशुं᳘ पुरोडा᳘शो ऽनुनिरुप्यते॥

मूलम् - Weber

अ᳘थ य᳘द्वप᳘या प्रच᳘र्य॥
एते᳘न पुरोडा᳘शेन प्रच᳘रति मध्यतो 4 वा᳘ इमां᳘ वपामु᳘त्खिदन्ति मध्यत᳘ एॗवैनमेते᳘न मे᳘धेन स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्माद्वप᳘या प्रच᳘र्यैते᳘न पुरोडा᳘शेन प्र᳘चरत्येषॗ न्वेॗवैत᳘स्य ब᳘न्धुर्य᳘त्र क्व᳘ चैष᳘ पशु᳘म् पुरोडा᳘शो ऽनुनिरुप्यते॥

मूलम् - विस्वरम्

अथ यद्वपया प्रचर्य- एतेन पुरोडाशेन प्रचरति, मध्यतो वा ऽइमां वपामुत्खिदन्ति, मध्यत एवेनमेतेन मेधेन समर्द्धयति, कृत्स्नं करोति । तस्माद्वपया प्रचर्यैतेन पुरोडाशेन प्रचरति । एष न्वेवै- तस्य बन्धुः- यत्र क्व चैष पशुं पुरोडाशो ऽनुनिरूप्यते ॥ २ ॥

सायणः

पुरोडाशस्य वपानन्तर्यं प्रशंसति- अथ यद्वपया प्रचर्येति । पशुपुरोडाशस्य पशुच्छिद्रपूर्तिरूपप्रयोजनं सर्वेषु पशुष्वतिदिशति- एष न्वेवैतस्य बन्धुरिति ॥ २ ॥

Eggeling
  1. And why he proceeds with that cake after performing (offering) with the omentum is this. It is from the middle (of the victim) that this omentum is pulled out, and from the middle he now completes that (victim) by means of that sacrificial essence and makes it whole; therefore he proceeds with that cake after performing with the omentum. The relation of

this (cake to the animal offering), indeed, is one and the same everywhere; that cake is prepared after (and supplementary to) a victim.

०३

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ पशुं व्वि᳘शास्ति॥
त्रिः प्र᳘च्यावय᳘तात्त्रिः प्रच्युत᳘स्य हृ᳘दयमुत्तमं᳘ कुरुतादि᳘ति त्रिवृद्धि᳘ यज्ञः[[!!]]॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ पशुं व्वि᳘शास्ति॥
त्रिः प्र᳘च्यावय᳘तात्त्रिः प्रच्युत᳘स्य हृ᳘दयमुत्तमं᳘ कुरुतादि᳘ति त्रिवृद्धि᳘ यज्ञः[[!!]]॥

मूलम् - Weber

अ᳘थ पशुं वि᳘शास्ति॥
त्रिः प्र᳘च्यावयतात्त्रिःप्रच्युत᳘स्य हृ᳘दयमुत्तमं᳘ कुरुतादि᳘ति त्रिवृद्धि᳘ यज्ञः᳟॥

मूलम् - विस्वरम्

अथ पशुं विशास्ति । त्रिः प्रच्यावयता (त्) त्रिः प्रच्युतस्य हृदयमुत्तमं कुरुताद्- इति । त्रिवृद्धि यज्ञः ॥ ३ ॥

सायणः

अथ पशुं विशास्तीति 1 । (धा. पा. भ्वा. प. ७२७) । शमिता । तदा शमितुरेवमनुशासनं कुर्यात्- हे शमितः ! ‘त्रिः प्रच्यावय’ 5 प्रधानस्विष्टकृदुपयङ्भेदेन त्रिविधाङ्गानि त्रिविधचिह्नानि यथा स्युः, तथा प्रच्यावय ‘त्रिः प्रच्युतस्य’ पशोः ‘हृदयम्’ अवयवम् ‘उत्तमम्’ उपरिभावं ‘कुरुतात्’ ‘इति’ । यद्वा ‘त्रिः प्रच्यावय’ अवयवान् यथाङ्गानि त्रिः प्रच्युतानि स्युः, तथा पाकं कुरु । ‘त्रिः प्रच्युतस्य’ पक्वस्य ‘हृदयं’ शूलाग्रेण पक्वम् ‘उत्तमम्’ उपरिवर्त्तमानं कुरु । प्रच्यावनस्य त्रित्वं प्रशंसति- त्रिवृद्धि यज्ञ इति । उक्तं त्रिवृत्त्वम् ॥ ३ ॥

Eggeling
  1. Thereupon he cuts up the victim: ‘Move thrice 6, and make the heart the uppermost of the thrice-moved!’ thus (he says to the slaughterer), for threefold is the sacrifice.

०४

विश्वास-प्रस्तुतिः

(ज्ञो᳘ ऽथ) अ᳘थ शमिता᳘रᳫं᳭ स᳘ᳫं᳘शास्ति॥
य᳘त्त्वा पृच्छा᳘च्छृत᳘ᳫं᳭ हविः᳘ शमिता ३ रि᳘ति शृतमि᳘त्येव᳘ ब्रूतान्न᳘ शृतं᳘ भगवो न᳘ शृतᳫं᳭ हीति॥

मूलम् - श्रीधरादि

(ज्ञो᳘ ऽथ) अ᳘थ शमिता᳘रᳫं᳭ स᳘ᳫं᳘शास्ति॥
य᳘त्त्वा पृच्छा᳘च्छृत᳘ᳫं᳭ हविः᳘ शमिता ३ रि᳘ति शृतमि᳘त्येव᳘ ब्रूतान्न᳘ शृतं᳘ भगवो न᳘ शृतᳫं᳭ हीति॥

मूलम् - Weber

अ᳘थ शमिता᳘रᳫं सं᳘शास्ति॥
य᳘त्त्वा पृछा᳘छूत᳘ᳫं᳘ हविः᳘ शमितारि᳘ति शृतमि᳘त्येव᳘ ब्रूतान्न᳘ शृत᳘म् भगवो न᳘ शृतᳫं ही᳘ति॥

मूलम् - विस्वरम्

अथ शमितारं संशास्ति- यत्त्वा पृच्छात्- शृतं हविः शमिताः ३- इति- शृतमित्येव ब्रूतात् न शृतं भगवो न शृतं हीति ॥ ४ ॥

सायणः

अथ शमितारं संशास्तीति 7 । अनुशासनं कुर्यात् । यत् यदा हे शमितः !- त्वा त्वां पृच्छात् पृच्छेत् । प्रश्न प्रकारमाह- शृतं ह विः शमिता ३ रिति प्रश्नार्थे प्लुतः । तदा शृतं चेच्छृतमित्येव ब्रूतात् । अशृतं चेत् हे भगवन्नदानीमपि न शृतमिति ब्रूतात् । प्रमादाद् शृतस्य शृतत्वाभिधानभीत्या प्रथमत एव संशासनम् ॥ ४ ॥

Eggeling
  1. He then instructs the slaughterer: ‘If one ask thee, “Is the sacrificial food cooked, O Śamitar?” say thou only “Cooked!” not “Cooked, reverend sir!” nor “Cooked, forsooth!”’

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ जुह्वा᳘ पृषदाज्य᳘स्योपह᳘त्य॥
(त्या) अध्वर्यु᳘रुपनिष्क्र᳘म्य पृच्छति शृत᳘ᳫं᳘ हविः᳘ शमिता ३ रि᳘ति शृतमि᳘त्याह त᳘द्देवा᳘नामि᳘त्युपा᳘ᳫं᳭श्वध्वर्युः[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ जुह्वा᳘ पृषदाज्य᳘स्योपह᳘त्य॥
(त्या) अध्वर्यु᳘रुपनिष्क्र᳘म्य पृच्छति शृत᳘ᳫं᳘ हविः᳘ शमिता ३ रि᳘ति शृतमि᳘त्याह त᳘द्देवा᳘नामि᳘त्युपा᳘ᳫं᳭श्वध्वर्युः[[!!]]॥

मूलम् - Weber

अ᳘थ जुह्वा᳘ पृषदाज्य᳘स्योपह᳘त्य॥
अध्वर्यु᳘रुपनिष्क्र᳘म्य पृछति शृत᳘ᳫं᳘ हविः᳘ शमितारि᳘ति शृतमि᳘त्याह त᳘द्देवा᳘नामि᳘त्युपां᳘श्वध्वर्युः᳟॥

मूलम् - विस्वरम्

अथ जुह्वा पृषदाज्यस्योपहत्य, अध्वर्युरुपनिष्क्रम्य, पृच्छति- शृतं हविः शमिताः ३ इति । शृतमित्याह । तद्देवानामित्युपांश्वध्वर्युः ॥ ५ ॥

सायणः

अथ जुह्वेति । अथ पाकानन्तरं जुह्वा ‘पृषदाज्यस्योपहत्य’ जुह्वां पृषदाज्यं हृदयावदानार्थमादाय शामित्रं प्रति गत्वा ‘शमितारं’ ‘श्रुतं हविः’ ? ‘इति’ पृच्छेत् । ‘शृतम्’ ‘इति’ प्रत्युक्ते ‘तद् देवानाम्’ ‘इति’ ‘उपांशु’ ब्रूयात् ॥ ५ ॥

Eggeling
  1. Having then taken clotted ghee with the juhū, the Adhvaryu, stepping up (from the altar) to (the Śāmitra), asks, ‘Is the sacrificial food cooked, O Śāmitar?’ ‘Cooked,’ he says. ‘That is of the gods,’ says the Adhvaryu in a low voice.

०६

विश्वास-प्रस्तुतिः

(स्त) तद्य᳘त्पृच्छ᳘ति॥
शृतं वै᳘ देवा᳘नाᳫँ᳭ हविर्ना᳘शृतᳫँ᳭शमिता वै त᳘द्वेद य᳘दि शृतं᳘ वा भ᳘वत्य᳘शृतं वा॥

मूलम् - श्रीधरादि

(स्त) तद्य᳘त्पृच्छ᳘ति॥
शृतं वै᳘ देवा᳘नाᳫँ᳭ हविर्ना᳘शृतᳫँ᳭शमिता वै त᳘द्वेद य᳘दि शृतं᳘ वा भ᳘वत्य᳘शृतं वा॥

मूलम् - Weber

तद्य᳘त्पृछ᳘ति॥
शृतं वै᳘ देवा᳘नाᳫं हविर्ना᳘शृतं शमिता वै त᳘द्वेद य᳘दि शृतं᳘ वा भ᳘वत्य᳘शृतं वा॥

मूलम् - विस्वरम्

तद् यत्पृच्छति- शृतं वै देवानां हविः, नाशृतम् । शमिता वै तद्वेद यदि शृतं वा भवत्यशृतं वा ॥ ६ ॥

सायणः

प्रश्नप्रयोजनमाह- तद् यत् पृच्छतीति । प्रश्नाभावपक्षे ‘अशृतम्’ इति । ‘शृतं वा’ स्यात् । तच्च रौद्रं नैर्ऋतं वा भवेत्, न दैवम्; “यो विदग्धः स नैर्ऋतो यो ऽशृतः स रौद्रो यः शृतः स दैवः” (तै. सं. २ । ६ । ३ । ४) इति हि तैत्तिरीयकम् । अतः शृताशृतविभागं शमिता जानातीति “शृतं हविः शमितः ३” ?- इति प्रश्नो युज्यत इत्यर्थः ॥ ६ ॥

Eggeling
  1. The reason why he asks is this. Cooked, forsooth, not uncooked (must be) the gods’ food; and the Śamitr̥ indeed knows whether it is cooked or uncooked.

०७

विश्वास-प्रस्तुतिः

तद्य᳘त्पृच्छ᳘ति॥
शृते᳘न प्र᳘चराणी᳘ति तद्य᳘द्यशृतं[[!!]] भ᳘वति शृत᳘मेव᳘ देवा᳘नाᳫँ᳭ हविर्भ᳘वति शृतं य᳘जमानस्यानेना᳘ ऽअध्वर्यु᳘र्भवति शमित᳘रि तदे᳘नो भवति त्रिष्कृ᳘त्वः पृच्छति त्रिवृद्धि᳘ यज्ञो᳘ ऽथ यदा᳘ह त᳘द्देवा᳘नामि᳘ति तद्धि᳘ देवा᳘नां य᳘च्छृतं त᳘स्मादाह त᳘द्देवानामि᳘ति॥

मूलम् - श्रीधरादि

तद्य᳘त्पृच्छ᳘ति॥
शृते᳘न प्र᳘चराणी᳘ति तद्य᳘द्यशृतं[[!!]] भ᳘वति शृत᳘मेव᳘ देवा᳘नाᳫँ᳭ हविर्भ᳘वति शृतं य᳘जमानस्यानेना᳘ ऽअध्वर्यु᳘र्भवति शमित᳘रि तदे᳘नो भवति त्रिष्कृ᳘त्वः पृच्छति त्रिवृद्धि᳘ यज्ञो᳘ ऽथ यदा᳘ह त᳘द्देवा᳘नामि᳘ति तद्धि᳘ देवा᳘नां य᳘च्छृतं त᳘स्मादाह त᳘द्देवानामि᳘ति॥

मूलम् - Weber

तद्य᳘त्पृछ᳘ति॥
शृते᳘न प्र᳘चराणी᳘ति तद्यद्य᳘शृतम् भ᳘वति शृत᳘मेव᳘ देवा᳘नाᳫं हविर्भ᳘वति शृतं य᳘जमानस्यानेना᳘ अध्वर्यु᳘र्भवति शमित᳘रि तदे᳘नो भवति त्रिष्कृ᳘त्वः पृछति त्रिवृद्धि᳘ यज्ञो᳘ ऽथ यदा᳘ह त᳘द्देवा᳘नामि᳘ति तद्धि᳘ देवा᳘नां य᳘छूतं त᳘स्मादाह त᳘द्देवा᳘नामि᳘ति॥

मूलम् - विस्वरम्

तद् यत् पृच्छति- शृतेन प्रचराणीति । तद् यद्यशृतं भवति- शृतमेव देवानां हविर्भवति, शृतं यजमानस्य । अनेनाः- अध्वर्युर्भवति । शमितरि तदेनो भवति । त्रिष्कृत्वः पृच्छति, त्रिवृद्धि यज्ञः । अथ यदाह- तद्देवानामिति । तद्धि देवानाम्- यच्छृतम् । तस्मादाह- तद्देवानामिति ॥ ७ ॥

सायणः

तद्यत् पृच्छतीति । अत एव प्रश्नसामर्थ्यात् प्रमादादशृतमपि 7 भवेत् । ‘यजमानस्य शृतं भवति’ शृतं यत् फलं तदविकलं भवतीत्यर्थः । अत एव प्रश्नादेव ‘अध्वर्युः’ ‘अनेनाः’ अपापः ‘भवति’; शमितारमेव ‘तदेनः’ आश्रयति । त्रिः कृत्वः इत्यादि । स्पष्टम् ॥ ७ ॥

Eggeling
  1. And again, why he asks. ‘I will perform with cooked (food),’ so he thinks; and if that sacrificial food be uncooked, it is yet cooked food for the gods, and is cooked as regards the Sacrificer; and the Adhvaryu is guiltless; on the slaughterer that guilt lies. Thrice he asks, for threefold is the sacrifice. And as to his saying, ‘That is of the gods,’ that which is cooked, indeed, belongs to the gods; therefore he says, ‘That is of the gods.’

०८

विश्वास-प्रस्तुतिः

स हृ᳘दयमेवा᳘ग्रे ऽभि᳘घारयति॥
(त्या) आत्मा वै म᳘नो हृ᳘दयं प्राणः᳘ पृषदाज्य᳘मात्म᳘न्ये᳘वैतन्म᳘नसि प्राणं᳘ दधाति त᳘थैत᳘ज्जीव᳘मेव᳘ देवा᳘नाᳫं᳭ हविर्भ᳘वत्यमृ᳘तममृ᳘ताना᳘म्॥

मूलम् - श्रीधरादि

स हृ᳘दयमेवा᳘ग्रे ऽभि᳘घारयति॥
(त्या) आत्मा वै म᳘नो हृ᳘दयं प्राणः᳘ पृषदाज्य᳘मात्म᳘न्ये᳘वैतन्म᳘नसि प्राणं᳘ दधाति त᳘थैत᳘ज्जीव᳘मेव᳘ देवा᳘नाᳫं᳭ हविर्भ᳘वत्यमृ᳘तममृ᳘ताना᳘म्॥

मूलम् - Weber

स हृ᳘दयमेवा᳘ग्रे ऽभिघारयति॥
आत्मा वै म᳘नो हृ᳘दयम् प्राणः᳘ पृषदाज्य᳘मात्म᳘न्येॗवैतन्म᳘नसि प्राणं᳘ दधाति त᳘थैत᳘ज्जीव᳘मेव᳘ देवा᳘नाᳫं हविर्भ᳘वत्यमृ᳘तममृ᳘तानाम्॥

मूलम् - विस्वरम्

स हृदयमेवाग्रे ऽभिघारयति । आत्मा वै मनो, हृदयम्, प्राणः पृषदाज्यम् । आत्मन्येवैतन्मनसि प्राणं दधाति । तज्जीवमेव देवानां हविर्भवति- अमृतममृतानाम् ॥ ८ ॥

सायणः

स हृदयमेवाग्रे ऽभिघारयतीति 8 । हृदयाभिघारणं प्रशंसति- आत्मा वै मन इत्यादिना । यदेतद्हृदयाख्यमङ्गम्, तन्मन आख्यकः ‘आत्मा’ खलु; “एतं मनोमयमात्मानमुपसंक्रामति”- (तै. उ. ब्र. व. अनु. ८) इत्यादौ आत्मत्वव्यवहारात् । अथवा मनउपाधिकः ‘आत्मा’ खलु, परिपूर्णस्य परमात्मनः परिच्छेदेन जीवभाव:, मनस उपाधित्वात् । उक्तं पृषदाज्यस्य प्राणत्वम् अतः एतेन हृदयाभिघारणेन आत्मभूते मनसि प्राणं स्थापितवान् भवति । तथा सति हृदयद्वारा प्राणप्रज्ञयोः स्थापितत्वात् ‘देवानाम्’ इदं सजीवं ‘हविः’ सम्पद्यते । अशब्दश्रुतेः सामर्थ्यादितराण्यङ्गान्यपि पश्चादाज्येनाभिघारयेत् ॥ ८ ॥

Eggeling
  1. The heart he bastes (with clotted ghee) first of all; for the heart is the self (soul), the mind; and the clotted ghee is the breath; he thus puts the breath into its (the victim’s) self, into its mind; and thus it verily becomes the living food of the gods, and immortal for the immortals.

०९

विश्वास-प्रस्तुतिः

(ᳫं᳘) सो ऽभि᳘घारयति॥
स᳘ ते म᳘नो म᳘नसा सं᳘ प्राणः᳘ प्राणे᳘न गच्छतामि᳘ति न स्वा᳘हाकरोति न᳘ ह्येषा᳘हुतिरु᳘द्वासयन्ति पशुम्[[!!]]॥

मूलम् - श्रीधरादि

(ᳫं᳘) सो ऽभि᳘घारयति॥
स᳘ ते म᳘नो म᳘नसा सं᳘ प्राणः᳘ प्राणे᳘न गच्छतामि᳘ति न स्वा᳘हाकरोति न᳘ ह्येषा᳘हुतिरु᳘द्वासयन्ति पशुम्[[!!]]॥

मूलम् - Weber

सो ऽभि᳘घारयति॥
सं᳘ ते म᳘नो म᳘नसा स᳘म् प्राणः᳘ प्राणे᳘न गछतामि᳘ति न स्वा᳘हाकरोति नॗ ह्येषा᳘हुतिरु᳘द्वासयन्ति पशु᳘म्॥

मूलम् - विस्वरम्

सो ऽभिघारयति- “सं ते मनो मनसा सं प्राणः प्राणेन गच्छताम्”- (वा. सं. ६ । १८) इति । न स्वाहाकरोति न ह्येषाहुतिः, उद्वासयन्ति पशुम् ॥ ९ ॥

सायणः

सो ऽभिघारयतीत्यादि । मन्त्रस्यार्थः- हे अभिवार्यमाण हृदय ! ‘ते’ ‘मनः’ । मनःप्राणयोर्हृद्यवस्थानात् आश्रयाश्रयिणोरभेदात् ‘ते’ मनः इति स्वस्वामिभावसम्बन्धोपचारः । ‘मनसा’ पृषदाज्यलक्षणेन । पृषदाज्यस्य मनोलक्षणत्वेन स्तुतत्वात् प्राणमनसोरवियोगात् पृषदाज्यमपि मन इत्युच्यते । तेन ‘सङ्गच्छताम्’ सङ्गतं भवतु । तथा ‘ते’ ‘प्राणः’ ‘प्राणेन’ पृषदाज्यलक्षणेन ‘सङ्गच्छताम्’ । यद्वा- हे ‘पशो’ ! ‘ते’ यौ मनःप्रणौ अपगतौ, ताभ्यां मनःप्राणाभ्यां हृदयरूपेणावस्थिताभ्यां सङ्गच्छतामित्यर्थः । न ह्येषाहुतिरिति । अभिघारणरूपत्वेनाहुतिसंस्कारत्वात् स्वत आहुतित्वाभावान्न स्वाहा कुर्यात् ॥ ९ ॥

Eggeling
  1. He bastes it with (Vāj. S. VI, 18), ‘May thy mind unite with the mind; thy breath with the breath!’ He utters no Svāhā (‘hail’), for this is not an oblation. They remove the victim (from the cooking-fire) 9.

१०

विश्वास-प्रस्तुतिः

तं᳘ जघ᳘नेन चा᳘त्वालम᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति॥
तद्य᳘त्सम᳘या न ह᳘रन्ति ये᳘नान्या᳘नि हवी᳘ᳫँ᳘षि ह᳘रन्ति शृतᳫँ᳭ स᳘न्तं ने᳘दङ्गशो व्वि᳘कृत्तेन क्रूरी᳘कृतेन सम᳘या यज्ञं᳘ प्रस᳘जामे᳘ति य᳘दु बा᳘ह्येन न ह᳘रन्त्य᳘ग्रेण यू᳘पं बहिर्द्धा᳘ ह यज्ञा᳘त्कुर्युस्त᳘स्माद᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति दक्षिणतो᳘ निधा᳘य प्रतिप्रस्थाता᳘वद्यति प्लक्षशाखा᳘ ऽउत्तरबर्हि᳘र्भवन्ति ता᳘ अध्यवद्य᳘ति[[!!]] तद्यत्प्लक्षशाखा᳘ ऽउत्तरबर्हिर्भ᳘वन्ति[[!!]]॥

मूलम् - श्रीधरादि

तं᳘ जघ᳘नेन चा᳘त्वालम᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति॥
तद्य᳘त्सम᳘या न ह᳘रन्ति ये᳘नान्या᳘नि हवी᳘ᳫँ᳘षि ह᳘रन्ति शृतᳫँ᳭ स᳘न्तं ने᳘दङ्गशो व्वि᳘कृत्तेन क्रूरी᳘कृतेन सम᳘या यज्ञं᳘ प्रस᳘जामे᳘ति य᳘दु बा᳘ह्येन न ह᳘रन्त्य᳘ग्रेण यू᳘पं बहिर्द्धा᳘ ह यज्ञा᳘त्कुर्युस्त᳘स्माद᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति दक्षिणतो᳘ निधा᳘य प्रतिप्रस्थाता᳘वद्यति प्लक्षशाखा᳘ ऽउत्तरबर्हि᳘र्भवन्ति ता᳘ अध्यवद्य᳘ति[[!!]] तद्यत्प्लक्षशाखा᳘ ऽउत्तरबर्हिर्भ᳘वन्ति[[!!]]॥

मूलम् - Weber

तं᳘ जघ᳘नेन चा᳘त्वालम᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति॥
तद्य᳘त्सम᳘या न ह᳘रन्ति ये᳘नान्या᳘नि हवीं᳘षि ह᳘रन्ति शृतᳫं स᳘न्तं ने᳘दङ्गशो वि᳘कृत्तेन क्रूरी᳘कृतेन सम᳘या यज्ञ᳘म् प्रस᳘जामे᳘ति य᳘दु बा᳘ह्येन न ह᳘रन्त्य᳘ग्रेण यू᳘पम् बहिर्धा᳘ ह यज्ञा᳘त्कुर्युस्त᳘स्माद᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति दक्षिणतो निधा᳘य प्रतिप्रस्थाता᳘वद्यति प्लक्षशाखा᳘ उत्तरबर्हि᳘र्भवन्ति ता᳘ अध्य᳘वद्यति तद्य᳘त्प्लक्षशाखा᳘ उत्तरबर्हिर्भ᳘वन्ति॥

मूलम् - विस्वरम्

तं जघनेन चात्वालम्- अन्तरेण यूपं चाग्निं च हरन्ति । तद् यत्समया न हरन्ति- येनान्यानि हवींषि हरन्ति- शृतं सन्तं नेदङ्गशो विकृतेन क्रूरीकृतेन समया यज्ञं प्रसजामेति । यदु बाह्येन न हरन्ति- अग्रेण यूपम्- बहिर्द्धा ह यज्ञात् कुर्युः । तस्मादन्तरेण यूपं चाग्निं च हरन्ति । दक्षिणतो निधाय प्रतिप्रस्थातावद्यति । प्लक्षशाखा उत्तरबर्हिर्भवन्ति । ता अध्यवद्यति । तद् यत्प्लक्षशाखा उत्तरबर्हिर्भवन्ति ॥ १० ॥

सायणः

तं जघनेनेत्यादि (“वनिष्टुजाघनी चावद्यति” का. श्रौ. सू. ६ । १५८) । पूर्ववद् व्याख्येयम् । संसर्जनस्य निषेधोपयोगसिद्धये हविषः क्रूरतामाह- नेदङ्गश इति । अङ्गशः अङ्गादङ्गात् । “सङ्ख्यैकवचनाच्च वीप्सायाम्”- (पा. सू. ५ । ४ । ४३) इति शस् । दक्षिणत आहृतं हविः ‘प्रतिप्रस्थाता’ अवद्येत् । प्लक्षशाखा उत्तरबर्हिर्भवन्तीति । बर्हिष उपरिभूताः स्युः । बर्हिष उपरि हविषामवदानार्थमाच्छादयेत्, तासामुपरि अवद्येत् । प्लक्षशाखाः प्रशंसति- तद् यत् प्लक्षशाखा इत्यादिना 10 ॥ १० ॥

Eggeling
  1. ‘They take it along the back of the pit, and

between the sacrificial stake and the (Āhavanīya) fire. The reason why, though it is cooked, they do not take it across the middle (of the altar), as they take other sacrificial dishes, is ’lest they should bring the sacrifice in the middle in connection with that which is cut up by limbs and mangled.’ And why they do not take it outside (the altar) in front of the stake, is that they would thereby put it outside the sacrifice: therefore they take (the flesh) along between the stake and the fire. When they have put it down south (of the fire), the Pratiprasthātr̥ cuts off (the portions). There are Plaksha branches 11 (Ficus Infectoria) by way of an upper barhis (covering of altar); thereon he cuts. The reason why there are Plaksha branches by way of an upper barhis is this.

११

विश्वास-प्रस्तुतिः

य᳘त्र वै᳘ देवाः[[!!]]॥
(ऽ) अ᳘ग्रे᳘ पशु᳘मालेभिरे तं त्व᳘ष्टा शीर्षतो᳘ ऽग्रे᳘ ऽभ्युवामो᳘तैवं᳘ चिन्ना᳘लभेरन्नि᳘ति त्व᳘ष्टुर्हि᳘ पश᳘वः स᳘ ऽएष᳘ शीर्ष᳘न्मस्ति᳘ष्कोनू᳘क्यश्च मज्जा त᳘स्मात्स᳘ व्वान्त᳘ इव त्व᳘ष्टा᳘ ह्येत᳘मभ्य᳘वमत्तस्मात्तं[[!!]] नाश्नीयात्त्वष्टुर्ह्येतदभिवान्तम्[[!!]]॥

मूलम् - श्रीधरादि

य᳘त्र वै᳘ देवाः[[!!]]॥
(ऽ) अ᳘ग्रे᳘ पशु᳘मालेभिरे तं त्व᳘ष्टा शीर्षतो᳘ ऽग्रे᳘ ऽभ्युवामो᳘तैवं᳘ चिन्ना᳘लभेरन्नि᳘ति त्व᳘ष्टुर्हि᳘ पश᳘वः स᳘ ऽएष᳘ शीर्ष᳘न्मस्ति᳘ष्कोनू᳘क्यश्च मज्जा त᳘स्मात्स᳘ व्वान्त᳘ इव त्व᳘ष्टा᳘ ह्येत᳘मभ्य᳘वमत्तस्मात्तं[[!!]] नाश्नीयात्त्वष्टुर्ह्येतदभिवान्तम्[[!!]]॥

मूलम् - Weber

य᳘त्र वै᳘ देवाः᳟॥
अ᳘ग्रे᳘ पशु᳘मालेभिरे तं त्व᳘ष्टा शीर्षतो᳘ ऽग्रेॗ ऽभ्युवामोॗतैवं᳘ चिन्ना᳘लभेरन्नि᳘ति त्व᳘ष्टुर्हि᳘ पश᳘वः स᳘ एष᳘ शीर्ष᳘न्मस्ति᳘ष्को ऽनू᳘क्यश्च मज्जा त᳘स्मात्स᳘ वान्त᳘ इव त्व᳘ष्टाॗ ह्येत᳘मभ्य᳘वमत्त᳘स्माॗत्तं नाश्नीयात्त्व᳘ष्टुॗर्ह्येत᳘दभि᳘वान्तम्॥

मूलम् - विस्वरम्

यत्र वै देवाः अग्रे पशुमालेभिरे, तं त्वष्टा शीर्षतो ऽग्रे ऽभ्युवाम- उतैवं चिन्नालभेरन्निति । त्वष्टुर्हि पशवः । स एष शीर्षन् मस्तिष्को ऽनूक्यश्च मज्जा । तस्मात् स वान्त इव । त्वष्टा ह्येतमभ्यवमत् । तस्मात्तं नाश्नीयात् । त्वष्टुर्ह्येतदभिवान्तम् ॥ ११ ॥

सायणः

यत्र वै देवा इति । पुरा देवानां पश्वालम्भनसमये ‘त्वष्टा’ देवः, पशुस्वामी । एवमेवोत्तरकाले ऽपि आलम्भनं करिष्यति, स न भवेदिति पशुशिरसि वमनं कृतवान्, स उच्छिष्टपदार्थः, शिरसि मस्तिष्कादिरूपेण परिणतो ऽभूत् । अथवा शिरसः उच्छिष्टसंस्पर्शनात् ‘स एषः शिरःसम्बद्धो’ ‘मस्तिष्कः’ कपालः, ‘अनूक्यश्च’ तन्मांसम्, ‘मज्जा’ तदाश्रितः सार इत्यभक्ष्यो ऽभूत् ॥ ११ ॥

Eggeling
  1. For when the gods, at first, seized an animal to sacrifice), Tvashṭr̥ first spat upon its head, thinking, ‘Surely, thus they will not touch it!’ for animals belong to Tvashṭr̥. That (spittle became) the brain in the head and the marrow in the neck-bone 12: hence that (substance) is like spittle, for Tvashṭr̥ spat it. Let him therefore not eat that, since it was spitten by Tvashṭr̥.

१२

विश्वास-प्रस्तुतिः

तस्या᳘वाङ्मे᳘धः पपात॥
स᳘ ऽएष व्व᳘नस्प᳘तिरजायत तं᳘ देवाः प्रा᳘पश्यंस्त᳘स्मात्प्रख्यः᳘ प्रख्यो᳘ ह वै ना᳘मैतद्य᳘त्प्लक्ष इ᳘ति ते᳘नै᳘वैनमेतन्मे᳘धेन स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्मात्प्लक्षशाखा᳘ उत्तरबर्हि᳘र्भवन्ति॥

मूलम् - श्रीधरादि

तस्या᳘वाङ्मे᳘धः पपात॥
स᳘ ऽएष व्व᳘नस्प᳘तिरजायत तं᳘ देवाः प्रा᳘पश्यंस्त᳘स्मात्प्रख्यः᳘ प्रख्यो᳘ ह वै ना᳘मैतद्य᳘त्प्लक्ष इ᳘ति ते᳘नै᳘वैनमेतन्मे᳘धेन स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्मात्प्लक्षशाखा᳘ उत्तरबर्हि᳘र्भवन्ति॥

मूलम् - Weber

तस्या᳘वाङ् मे᳘धः पपात॥
स᳘ एष व᳘नस्प᳘तिरजायत तं᳘ देवाः प्रा᳘पश्यंस्त᳘स्मात्प्रख्यः᳘ प्रख्यो᳘ ह वै ना᳘मैतद्य᳘त्प्लक्ष इ᳘ति ते᳘नैॗवैनमेतन्मे᳘धेन स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्मात्प्लक्षशाखा᳘ उत्तरबर्हि᳘र्भवन्ति॥

मूलम् - विस्वरम्

तस्यावाङ्मेधः पपात । स एष वनस्पतिरजायत । तं देवाः प्रापश्यन् । तस्मात्प्रख्यः । प्रख्यो ह वै नामैतद्- यत्प्लक्ष इति । तेनैवैनमेतन्मेधेन समर्द्धयति । कृत्स्नं करोति । तस्मात् प्लक्षशाखा उत्तरबर्हिर्भवन्ति ॥ १२ ॥

सायणः

तस्यावाङ्मेध इति । ‘तस्य’ देवैरालभ्यमानस्य पशोः सकाशादेव अवाङ् मध्ये ‘मेधः’ तु अधः ‘पपात’ । पतितो वृक्षो ऽभूत् । वृक्षत्वेनाभ्युत्पन्नं ‘तं’ ‘देवाः’ ‘प्रापश्यन्’ अतो देवैः प्रकर्षेणाख्यानात् ‘प्रख्यः’ इत्युच्यते । इदानीं यः ‘प्लक्षः इति’ उच्यते, स वस्तुतः ‘प्रख्य’ इत्यर्थः ॥ १२ ॥

Eggeling
  1. Its sacrificial essence flowed down and there a tree sprang up. The gods beheld it; wherefore it (was called) ‘prakhya’ (visible), for ‘plaksha,’

doubtless, is the same as ‘prakhya.’ With that same sacrificial essence he now completes it (the victim), and makes it whole: hence there are Plaksha branches as an upper covering.

१३

विश्वास-प्रस्तुतिः

(न्त्य) अथा᳘ज्यमु᳘पस्तृणीते॥
जुह्वां᳘ चोपभृ᳘ति च व्वसाहोमह᳘वन्याᳫं᳭ समवत्तधा᳘न्याम᳘थ हिरण्यशकलाव᳘वदधाति जुह्वां᳘ चोपभृ᳘ति च॥

मूलम् - श्रीधरादि

(न्त्य) अथा᳘ज्यमु᳘पस्तृणीते॥
जुह्वां᳘ चोपभृ᳘ति च व्वसाहोमह᳘वन्याᳫं᳭ समवत्तधा᳘न्याम᳘थ हिरण्यशकलाव᳘वदधाति जुह्वां᳘ चोपभृ᳘ति च॥

मूलम् - Weber

अथा᳘ज्यमु᳘पस्तृणीते॥
जुह्वां᳘ चोपभृ᳘ति च वसाहोमह᳘वन्याᳫं समवत्तधा᳘न्याम᳘थ हिरण्यशकलाव᳘वदधाति जुह्वां᳘ चोपभृ᳘ति च॥

मूलम् - विस्वरम्

अथाज्यमुपस्तृणीरो- जुह्वां चोपभृति च वसाहोमहवन्यां समवत्तधान्याम् । अथ हिरण्यशकलाववदधाति- जुह्वां चोपभृति च ॥ १३ ॥

सायणः

अथाज्यमिति । जुह्वादिषु ‘उपस्तृणीते’ 13 । ‘जुह्वाम्’ 14 प्रधानपश्वङ्गावदानार्थम् । ‘उपभृति’ स्विष्टकृदर्थम् । वसाहोमार्थं वसाहोमहवन्याम् । ‘समवत्तधान्याम्’ समवत्तधानी इडापात्रम् । जुहूपभृतोर्हिरण्यशकलमवधायावदीयमानस्य हविषः सम्बन्धिन्यै मनोतादेवतायै अनुवचनार्थं होतारं ब्रूयात् । मनोतानामनिर्वचनेन तदनुवचनं प्रशंसति- तद्यन्मनोताया इत्यादिना । ‘ओतानि’ सम्बद्धानि मनांसि यस्याम् । अत्र “त्वँ ह्यग्ने प्रथमो मनोता-” (ऋ. सं. ६ । १ । १) इति मन्त्रवर्णात् ‘अग्निः’ ‘मनोता’ पशोर्मनस्सम्बन्धः । सम्बन्धस्य निमित्तमाह- सर्वासां देवानामिति । ‘पशौ’ आज्यवत्प्रियत्वसाधारण्यात् ‘तानि’ ‘मनांसि’ ‘ओतानि’ । ‘एतत्’ एतेन आग्नेयेनानुवचनेन । स्पष्टमन्यत् ॥ १३ ॥ १४ ॥

Eggeling
  1. He then makes an ‘underlayer’ of ghee both in the juhū and the upabhr̥t, and in the vasāhomahavanī 15, and the samavattadhānī 16; and puts a piece of gold 17 both in the juhū and the upabhr̥t.

१४

विश्वास-प्रस्तुतिः

(चा᳘) अ᳘थ मनो᳘तायै हवि᳘षो᳘ ऽनु व्वा᳘च आह॥
तद्य᳘न्मनो᳘तायै हवि᳘षो ऽनुव्वा᳘च आ᳘ह स᳘र्व्वा ह वै᳘ देव᳘ताः पशु᳘मालभ्य᳘मानमुपस᳘ङ्गच्छन्ते म᳘म ना᳘म ग्रहीष्यति म᳘म ना᳘म ग्रहीष्यती᳘ति स᳘र्व्वासाᳫं᳭ हि᳘ देव᳘तानाᳫं᳭ हविः᳘ पशुस्ता᳘साᳫं᳭ स᳘र्व्वासां देव᳘तानां पशौ म᳘नाᳫं᳭स्यो᳘तानि भवन्ति ता᳘न्ये᳘वैत᳘त्प्रीणाति त᳘थो हा᳘मोघाय देव᳘तानां म᳘नाᳫं᳭स्युपस᳘ङ्गतानि भवन्ति त᳘स्मान्मनो᳘तायै हवि᳘षो ऽनुवा᳘च आह॥

मूलम् - श्रीधरादि

(चा᳘) अ᳘थ मनो᳘तायै हवि᳘षो᳘ ऽनु व्वा᳘च आह॥
तद्य᳘न्मनो᳘तायै हवि᳘षो ऽनुव्वा᳘च आ᳘ह स᳘र्व्वा ह वै᳘ देव᳘ताः पशु᳘मालभ्य᳘मानमुपस᳘ङ्गच्छन्ते म᳘म ना᳘म ग्रहीष्यति म᳘म ना᳘म ग्रहीष्यती᳘ति स᳘र्व्वासाᳫं᳭ हि᳘ देव᳘तानाᳫं᳭ हविः᳘ पशुस्ता᳘साᳫं᳭ स᳘र्व्वासां देव᳘तानां पशौ म᳘नाᳫं᳭स्यो᳘तानि भवन्ति ता᳘न्ये᳘वैत᳘त्प्रीणाति त᳘थो हा᳘मोघाय देव᳘तानां म᳘नाᳫं᳭स्युपस᳘ङ्गतानि भवन्ति त᳘स्मान्मनो᳘तायै हवि᳘षो ऽनुवा᳘च आह॥

मूलम् - Weber

अ᳘थ मनो᳘तायै हवि᳘षो ऽनुवा᳘च आह॥
तद्य᳘न्मनो᳘तायै हवि᳘षो ऽनुवा᳘च आ᳘ह स᳘र्वा ह वै᳘ देव᳘ताः पशु᳘मालभ्य᳘मानमुपसं᳘गछन्ते म᳘म ना᳘म ग्रहीष्यति म᳘म ना᳘म ग्रहीष्यती᳘ति स᳘र्वासाᳫं हि᳘ देव᳘तानाᳫं हविः᳘ पशुस्ता᳘साᳫं स᳘र्वासां देव᳘तानाम् पशौ म᳘नांस्यो᳘तानि भवन्ति ता᳘न्येॗवैत᳘त्प्रीणाति त᳘थो हा᳘मोघाय देव᳘तानाम् म᳘नांस्युपसं᳘गतानि भवन्ति त᳘स्मान्मनो᳘तायै हवि᳘षो ऽनुवा᳘च आह॥

मूलम् - विस्वरम्

अथ मनोतायै हविषो ऽनुवाच आह । तद् यन्मनोतायै हविषो ऽनुवाच आह । सर्वा ह वै देवताः पशुमालभ्यमानमुपसङ्गच्छन्ते- मम नाम ग्रहीष्यति, मम नाम ग्रहीष्यतीति । सर्वासां हि देवतानां हविः पशुः । तासां सर्वासां देवतानां पशौ मनांस्योतानि भवन्ति । तान्येवैतत् प्रीणाति । तथो हामोघाय देवतानां मनांस्युपसङ्गतानि भवन्ति । तस्मान्मनोतायै हविषो ऽनुवाच आह ॥ १४ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. Thereupon he addresses (the Hotr̥) for the recitation on the havis to the manotā deity 18. The reason why he addresses him for the recitation on the havis to the manotā deity is this. All the deities draw nigh to the victim while it is immolated, thinking, ‘My name he will choose, my name he will choose!’ for the animal victim is sacrificial food for all deities. The minds (manas), then, of all those deities are, fixed upon (ota) that victim; those (minds of theirs) he thereby satisfies, and thus the minds of the gods have not drawn nigh in vain. For this reason he addresses him for the recitation on the havis to the manotā deity.

१५

विश्वास-प्रस्तुतिः

स हृ᳘दयस्यैवाग्रे᳘ ऽवद्यति॥
तद्य᳘न्मध्यतः᳘ सतो हृ᳘दयस्या᳘ग्रे ऽवद्य᳘ति प्रा᳘णो वै हृ᳘दयम᳘तो᳘ ह्यय᳘मूर्ध्वः᳘[[!!]] प्राणः᳘ सञ्च᳘रति प्राणो वै᳘ पशुर्या᳘व᳘द्ध्येव᳘ प्राणे᳘न प्रा᳘णिति ता᳘वत्पशुर᳘थ य᳘दास्मात्प्रा᳘णो ऽपक्रा᳘मति दा᳘र्व्वेव त᳘र्हि भू᳘तो ऽनर्थ्यः᳘ शेते॥

मूलम् - श्रीधरादि

स हृ᳘दयस्यैवाग्रे᳘ ऽवद्यति॥
तद्य᳘न्मध्यतः᳘ सतो हृ᳘दयस्या᳘ग्रे ऽवद्य᳘ति प्रा᳘णो वै हृ᳘दयम᳘तो᳘ ह्यय᳘मूर्ध्वः᳘[[!!]] प्राणः᳘ सञ्च᳘रति प्राणो वै᳘ पशुर्या᳘व᳘द्ध्येव᳘ प्राणे᳘न प्रा᳘णिति ता᳘वत्पशुर᳘थ य᳘दास्मात्प्रा᳘णो ऽपक्रा᳘मति दा᳘र्व्वेव त᳘र्हि भू᳘तो ऽनर्थ्यः᳘ शेते॥

मूलम् - Weber

स हृ᳘दयस्यैवाग्रे᳘ ऽवद्यति॥
तद्य᳘न्मध्यतः᳘ सतो हृ᳘दयस्या᳘ग्रे ऽवद्य᳘ति प्राणो वै हृ᳘दयम᳘तो ह्य᳘य᳘मूर्ध्वः᳘ प्राणः᳘ संच᳘रति 19 प्राणो वै᳘ पशुर्या᳘वॗद्ध्येव᳘ प्राणे᳘न प्रा᳘णिति ता᳘वत्पशुर᳘थ यॗदास्मात्प्रा᳘णो ऽपक्रा᳘मति दाॗर्वेव त᳘र्हि भूॗतो ऽनर्थ्यः᳘ शेते॥

मूलम् - विस्वरम्

स हृदयस्यैवाग्रे ऽवद्यति । तद् यन्मध्यतः सतो हृदयस्याग्रे ऽवद्यति । प्राणो वै हृदयम् । अतो ह्ययमूर्ध्वः प्राणः सञ्चरति । प्राणो वै पशुः । यावद्ध्येव प्राणेन प्राणिति- तावत्पशुः । अथ यदस्मात् प्राणो ऽपक्रामति- दार्वेव तर्हि भूतो ऽनर्थ्यः शेते ॥ १५ ॥

सायणः

प्रधानार्थावद्यमानाङ्गानि तत्क्रमं च विधाय प्रशंसति- स हृदयस्यैवाग्र इत्यादिना । हृदयस्यावदानप्रदेशं विशिनष्टि- तद्यन्मध्यतः सत इति । ‘सतः’ देहमध्यप्रदेशे वर्त्तमानस्य । हृदयस्य प्राणत्वं तदुत्पत्तिस्थानत्वेनेत्याह- अतो ह्ययमूर्द्ध्वः प्राणः सम्भवतीति । प्राणपशुत्वब्राह्मणं प्राग्व्याख्यातम् । अत एव प्रागस्याभावे पशुत्वाभावाद्धृदयस्य प्रथमं समवदाने सति हृदयव्यतिरिक्तानामङ्गानामवदानमपि सम्पन्नम्; यदि प्रमादात् किञ्चिदेवाङ्गहीनमपि स्यात्, तथापि कृत्स्नपश्ववदानं सम्पद्यत इत्यर्थः । तस्माद्धृदयमेवाग्रे ऽवद्येत् ‘अथ’ ‘यथापूर्वं’ पशोः पूर्वमङ्गमनतिक्रम्य ॥ १५ ॥ १६ ॥

Eggeling
  1. He first makes a portion of the heart 20. The reason why he first makes a portion of the heart which is in the middle, is that the heart is the breath, since it is from there that this breath moves upward 21; and the animal is breath, for only so long does the animal (live) as it breathes with the breath; but when the breath departs from it, it lies there useless, even (as) a block of wood.

१६

विश्वास-प्रस्तुतिः

हृ᳘दयमु वै᳘ पशुः[[!!]]॥
(स्त᳘) त᳘दस्यात्म᳘न ऽएवाग्रे᳘ ऽवद्यति त᳘स्माद्य᳘दि कि᳘ञ्चिदवदा᳘नᳫं᳭ हीये᳘त न तदा᳘द्रियेत स᳘र्व्वस्य है᳘वास्य त᳘त्पशोर᳘वत्तं भवति यद्धृ᳘दयस्या᳘ग्रे ऽवद्य᳘ति त᳘स्मान्मध्यतः᳘ सतो हृ᳘दयस्यैवाग्रे᳘ ऽवद्यत्य᳘थ यथापूर्व्व᳘म्॥

मूलम् - श्रीधरादि

हृ᳘दयमु वै᳘ पशुः[[!!]]॥
(स्त᳘) त᳘दस्यात्म᳘न ऽएवाग्रे᳘ ऽवद्यति त᳘स्माद्य᳘दि कि᳘ञ्चिदवदा᳘नᳫं᳭ हीये᳘त न तदा᳘द्रियेत स᳘र्व्वस्य है᳘वास्य त᳘त्पशोर᳘वत्तं भवति यद्धृ᳘दयस्या᳘ग्रे ऽवद्य᳘ति त᳘स्मान्मध्यतः᳘ सतो हृ᳘दयस्यैवाग्रे᳘ ऽवद्यत्य᳘थ यथापूर्व्व᳘म्॥

मूलम् - Weber

हृ᳘दयमु वै᳘ पशुः᳟॥
त᳘दस्यात्म᳘न एवाग्रे᳘ ऽवद्यति त᳘स्माद्य᳘दि किं᳘चिदवदा᳘नᳫं हीये᳘त न तदा᳘द्रियेत स᳘र्वस्य हैॗवास्य त᳘त्पशोर᳘वत्तम् भवति यद्धृ᳘दयस्या᳘ग्रे ऽवद्य᳘ति त᳘स्मान्मध्यतः᳘ सतो हृ᳘दयस्यैवाग्रे᳘ ऽवद्यत्य᳘थ यथापूर्व᳘म्॥

मूलम् - विस्वरम्

हृदयमु वै पशुः । तस्यात्मन एवाग्रे ऽवद्यति । तस्माद्यदि किञ्चिदवदानं हीयेत- न तदाद्रियेत । सर्वस्य हैवास्य तत् पशोरवत्तं भवति- यद् हृदयस्याग्रे ऽवद्यति । तस्मान्मध्यतः सतो हृदयस्यैवाग्रे ऽवद्यति । अथ यथापूर्वम् ॥ १६ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. The heart, then, is the animal; thus he first makes a portion of its very self (or soul). And, accordingly, if any portion were omitted, he need not heed this, since it is of his entire animal victim that the first portion is made which is made of the heart. He therefore first makes a portion of the heart, that being in the middle. Thereupon according to the proper order.

१७

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ जिह्वा᳘यै॥
सा᳘ हीयं᳘ पूर्व्वार्द्धा᳘त्प्रति᳘ष्ठत्य᳘थ व्व᳘क्षसस्तद्धि ततो᳘ ऽथैकचर᳘स्य दोष्णो᳘ ऽथ पार्श्व᳘योर᳘थ त᳘निम्नो᳘ ऽथ व्वृक्क᳘योः॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ जिह्वा᳘यै॥
सा᳘ हीयं᳘ पूर्व्वार्द्धा᳘त्प्रति᳘ष्ठत्य᳘थ व्व᳘क्षसस्तद्धि ततो᳘ ऽथैकचर᳘स्य दोष्णो᳘ ऽथ पार्श्व᳘योर᳘थ त᳘निम्नो᳘ ऽथ व्वृक्क᳘योः॥

मूलम् - Weber

अ᳘थ जिह्वा᳘यै॥
साॗ हीय᳘म् पूर्वार्धा᳘त्प्रति᳘ष्ठत्य᳘थ व᳘क्षसस्तद्धि ततो᳘ ऽथैकचर᳘स्य दोष्णो᳘ ऽथ पार्श्व᳘योर᳘थ त᳘निम्नो ऽथ वृक्क᳘योः॥

मूलम् - विस्वरम्

अथ जिह्वायै । सा हीयं पूर्वार्द्धात्प्रतिष्ठति । अथ वक्षसः । तद्धि ततः । अथैकचरस्य दोष्णः । अथ पार्श्वयोः । अथ तनिम्नः । अथ वृक्कयोः ॥ १७ ॥

सायणः

सङ्ग्रहेणोक्तं विवृणोति- अथ जिह्वाया इति । जिह्वायाः सकाशात्सा खल जिह्वा पूर्वार्द्धात्पूर्वार्द्धे प्रतिष्ठिता । अतः पूर्वस्य पूर्वमवदानाय जिह्वाया अवद्येत् । अथ जिह्वानन्तरं वक्षोपि पूर्वार्द्धे प्रतितिष्ठति । ‘तद्धि ततो ऽथ’ अथापि वक्षोनन्तरम्, ‘पूर्वार्द्धात् प्रतिष्ठति’ । ‘एकचरस्य दोष्णः’ सव्यादित्यर्थः । ‘अथ’ ‘तनिम्नः’ यकृत्तः इत्यर्थः । तस्य चातिकोमलत्वात् तनिमत्वम् । ‘वृक्कः’ वृक्कं कुक्ष्युभयपार्श्वस्थमाम्रफलाकारं मांसद्वयम् । एवं हृदयादीनि नव सम्पन्नानि ॥ १७ ॥

Eggeling
  1. Then of the tongue, for that stands out from its fore-part. Then of the breast, for that also (stands out) therefrom 22. Then of the simultaneously moving (left) fore-foot 23. Then of the flanks. Then of the liver. Then of the kidneys.

१८

विश्वास-प्रस्तुतिः

(र्गु) गुदं᳘ त्रेधा᳘ करोति॥
स्थ᳘विमोपय᳘ड्भ्यो म᳘ध्यं जुह्वां᳘ द्वेधा᳘कृत्वा᳘ ऽवद्यत्य᳘णिम त्र्यङ्गेष्व᳘थैकचरा᳘यै श्रो᳘णेरेता᳘वन्नु᳘ जुह्वा᳘मवद्यति[[!!]]॥

मूलम् - श्रीधरादि

(र्गु) गुदं᳘ त्रेधा᳘ करोति॥
स्थ᳘विमोपय᳘ड्भ्यो म᳘ध्यं जुह्वां᳘ द्वेधा᳘कृत्वा᳘ ऽवद्यत्य᳘णिम त्र्यङ्गेष्व᳘थैकचरा᳘यै श्रो᳘णेरेता᳘वन्नु᳘ जुह्वा᳘मवद्यति[[!!]]॥

मूलम् - Weber

गुदं᳘ त्रेधा᳘ करोति॥
स्थ᳘विमोपय᳘ड्द्भ्यो म᳘ध्यं जुह्वां᳘ द्वेधा᳘ कृत्वा᳘वद्यत्य᳘णिम त्र्यङ्गेष्व᳘थैकचरा᳘यै श्रो᳘णेरेता᳘वन्नु᳘ जुह्वा᳘मवद्य᳘ति॥

मूलम् - विस्वरम्

गुदं त्रेधा करोति । स्थविमोपयड्भ्यो मध्यं जुह्वां द्वेधा कृत्वावद्यति । अणिम त्र्यङ्गेषु । अथैकचरायै श्रोणेः । एतावन्नु जुह्वामवद्यति ॥ १८ ॥

सायणः

दशमं वक्तुमाह- ** गुदं त्रेधे**ति । त्रिधाकृतेषु गुदेषु गुदाङ्गेषु यदतिस्थूलं तदुपयाजार्थमवद्येत्; मध्यमं जुह्वां प्रधानहोमार्थं द्विधाकृत्वा ऽवद्येत्, यद्ध्यणुतरं त्र्यङ्गेषु, तन्मध्ये 24 अवद्येत् ॥

एकादशं दर्शति- गुदं त्रेधा करोतीति । अथैकचरायै 25 श्रोणेरीति । दक्षिणाया इत्यर्थः ॥ १८ ॥

Eggeling
  1. The hind-part he divides into three parts; the broad piece (he reserves) for the by-offerings 26; the middle one he cuts into the guhū after dividing it in two; the narrow piece (he reserves) for the

tryaṅga 27. Then of the simultaneously moving (right) haunch 28. This much, then, he cuts into the juhū.

१९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थोपभृ᳘ति॥
त्र्य᳘ङ्ग्यस्य[[!!]] दोष्णो᳘ गुदं᳘ द्वेधा᳘ कृत्वा᳘वद्यति त्र्य᳘ङ्ग्यायै श्रो᳘णेर᳘थ हिरण्य᳘शकलाव᳘वदधात्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थोपभृ᳘ति॥
त्र्य᳘ङ्ग्यस्य[[!!]] दोष्णो᳘ गुदं᳘ द्वेधा᳘ कृत्वा᳘वद्यति त्र्य᳘ङ्ग्यायै श्रो᳘णेर᳘थ हिरण्य᳘शकलाव᳘वदधात्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति॥

मूलम् - Weber

अ᳘थोपभृ᳘ति॥
त्र्यङ्ग्य᳘स्य दोष्णो᳘ गुदं᳘ द्वेधा᳘ कृत्वा᳘वद्यति त्र्यॗङ्ग्यायै श्रो᳘णेरथ हिरण्यशकलाव᳘वदधात्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति॥

मूलम् - विस्वरम्

अथोपभृति । त्र्यङ्ग्यस्य दोष्णो गुदं द्वेधा कृत्वावद्यति । त्र्यङ्ग्यायै श्रोणेः । अथ हिरण्यशकलाववदधाति । अथोपरिष्टादाज्यस्याभिघारयति ॥ १९ ॥

सायणः

स्विष्टकृदर्थमाह- अथोपभृति अङ्गस्येति । त्रीणि अङ्गानि यस्येति त्र्यङ्गम्, सौविष्टकृतं हविः । तान्येवाह- दोष्ण इति । सव्यस्य प्रधानार्थत्वविहितत्वाद् दक्षिणस्य दोष्णः सकाशादित्यर्थः । ‘गुदं’ गुदस्याणुभागं ‘द्वेधा कृत्वा’ उपभृति स्विष्टकृदर्थम् ‘अवद्यति’ अवद्येत् । ‘त्र्यङ्गायै श्रोणेः’ स्विष्टकृदर्थायाः श्रोणेः सकाशात्, सव्यायाः श्रोणेरित्यर्थः । प्रधानस्य इडायाश्चावदानं प्रत्यङ्गं द्विर्द्विः कुर्यात् । “सुचोरवद्यति यथोक्तं द्विर्द्विः” (का. श्रौ. सू. ६-१८५)- इति सूत्रात् ॥

अथ हिरण्यशकलाविति । जुह्वामुपभृति तस्योपरि हिरण्यशकलौ स्थापयेत्, अथाभिघारयेत् ॥ १९ ॥

Eggeling
  1. Then into the upabhr̥t, he makes a portion of the upper part of the fore-foot belonging to the tryaṅga (viz. the right one); of the (narrow piece of the) hind-part, after dividing it in two; and of the haunch belonging to the tryaṅga (viz. the left). Thereupon he puts two pieces of gold on (the flesh oblations in the spoons) and pours ghee thereon.

२०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वसाहोमं᳘ गृह्णाति॥
रे᳘डसी᳘ति लेल᳘येव᳘ हि यूस्त᳘स्मादाह रे᳘डसी᳘त्यग्नि᳘ष्ट्वा श्रीणात्वि᳘त्यग्नि᳘र्ह्येत᳘च्छ्रप᳘यति त᳘स्मादाहाग्नि᳘ष्ट्वा श्रीणात्वित्या᳘पस्त्वा स᳘मरिणन्नित्या᳘पो᳘ ह्येतम᳘ङ्गेभ्यो र᳘सᳫँ᳭ सम्भ᳘रन्ति त᳘स्मादाहा᳘पस्त्वा स᳘मरिणन्नि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वसाहोमं᳘ गृह्णाति॥
रे᳘डसी᳘ति लेल᳘येव᳘ हि यूस्त᳘स्मादाह रे᳘डसी᳘त्यग्नि᳘ष्ट्वा श्रीणात्वि᳘त्यग्नि᳘र्ह्येत᳘च्छ्रप᳘यति त᳘स्मादाहाग्नि᳘ष्ट्वा श्रीणात्वित्या᳘पस्त्वा स᳘मरिणन्नित्या᳘पो᳘ ह्येतम᳘ङ्गेभ्यो र᳘सᳫँ᳭ सम्भ᳘रन्ति त᳘स्मादाहा᳘पस्त्वा स᳘मरिणन्नि᳘ति॥

मूलम् - Weber

अ᳘थ वसाहोमं᳘ गृह्णाति॥
रे᳘डसी᳘ति लेल᳘येव हि यूस्त᳘स्मादाह रे᳘डसी᳘त्यग्नि᳘ष्ट्वा श्रीणात्वि᳘त्यग्निॗर्ह्येत᳘छ्रप᳘यति त᳘स्मादाहाग्नि᳘ष्ट्वा श्रीणात्वित्या᳘पस्त्वा स᳘मरिणन्नित्या᳘पोॗ ह्येतम᳘ङ्गेभ्यो र᳘सᳫं सम्भ᳘रन्ति त᳘स्मादाहा᳘पस्त्वा म᳘मरिणन्नि᳘ति॥

मूलम् - विस्वरम्

अथ वसाहोमं गृह्णाति । “रेडसि”- (वा. सं. ६ । १८) इति । लेलयेव हि यूस्तस्मादाह- रेडसीति । “अग्निष्ट्वा श्रीणातु”- (वा. सं. ६ । १८) इति । अग्निर्ह्येतच्छ्रपयति । तस्मादाह- अग्निष्ट्वा श्रीणात्विति । “आपस्त्वा समरिणन्”- (वा० सं० ६ । १८) इति । आपो ह्येतमङ्गेभ्यो रसं सम्भरन्ति । तस्मादाह- आपरत्वा समरिणन्निति ॥ २० ॥

सायणः

अथ वसाहोमं 24 गृह्णातीति । रेडसीति वसाहोमं गृह्णीयात्; हूयत इति यत् होमद्रव्यम्, तद् वसाहोमहवन्यां गृह्णीयादित्यर्थः ॥

मन्त्रस्यायमर्थः- हे वसाद्रव्य ! त्वं ‘रेडसि’ हिंसकमसि रिषेर्हिंसार्थस्य विचि लघूपधगुणे रेडिति रूपम्; (धा. पा. ६९५) ब्राह्मणानुगुणं लत्वा ऽदिकं 25 कृत्वा ‘लेलया’- रूपम् । लेलयेवेति । द्रवद्रव्यत्वात् इतस्ततश्चलनं विवक्षित्वा 29 व्याख्यातम् । तादृशं ‘त्वा’ त्वाम् ‘अग्निः’ ‘श्रीणातु’ श्रपयतु तेन सह मिश्रयतु वा । ‘आपस्त्वा समरिणन्’ “री गतिरेषणयोः” (धा. पा. प. २८)- इत्यस्य लुङि रूपम् । उदकानि त्वां समतरन्नित्यर्थः । उदकैः सह सर्वाङ्गेभ्यो निस्सृतत्वात् । ‘वातस्य’ वायोः ‘ध्राज्यै’ गत्यै गृह्णामि । तथा ‘पूष्णः’ ‘रंह्यै’ वेगाय गृह्णामि । वाय्वादित्ययोरन्तरिक्षाश्रयत्वाद्ध्राजिरंह्योरन्तरिक्षपरतया ब्राह्मणे व्याख्यातम् । ‘ऊष्मणे व्यथिषत्’ इति वसाविशेषणम् । ऊष्मा, ततः सकाशाद् व्यथयतीति व्यथिषत्; तादृक् त्वमसि । तादृशं त्वां गृह्णामि ॥

‘रेट्’ शब्दं व्याचष्टे- लेलयेव हि यूरिति । यौति मिश्रयतीति यूः वसा, सा ‘लेलयेव’; चलनेन च इतस्ततो गमनमुपमीयते । श्रीणात्वित्यस्य पाकार्थ इति व्याचष्टे- अग्निर्ह्येतच्छ्रपयतीति । वातस्य ध्राजिः, पूष्णो रंहिश्चान्तरिक्षपराविति व्याचष्टे- अन्तरिक्षं वा अयमनुपवत इत्यादिना । ऊष्मशब्दो ऽप्यन्तरिक्षपर इत्याह- एष वा ऊष्मैतस्मा उ हि गृह्णातीति ॥ २०-२३ ॥

Eggeling
  1. He then takes the oblation of gravy 30 with (Vāj. S. VI, 18), ‘Thou art trembling,’ for quivering, as it were, is the broth: hence he says, ‘Thou art trembling;’–‘May Agni prepare 31 thee!’ for the fire does indeed cook it: hence he says, ‘May Agni prepare thee!’–‘The waters have washed thee together,’ for the water indeed gathers together that (fat) juice from the limbs: hence he says, ‘The waters have washed thee together.’

२१

विश्वास-प्रस्तुतिः

व्वा᳘तस्य त्वा ध्रा᳘ज्या ऽइ᳘ति॥
(त्य) अन्त᳘रिक्षं वा᳘ ऽअयम᳘नुपवते᳘ यो ऽयं प᳘वते ऽन्त᳘रिक्षाय वै᳘ गृह्णाति त᳘स्मादाह व्वा᳘तस्य त्वा ध्रा᳘ज्या ऽइ᳘ति॥

मूलम् - श्रीधरादि

व्वा᳘तस्य त्वा ध्रा᳘ज्या ऽइ᳘ति॥
(त्य) अन्त᳘रिक्षं वा᳘ ऽअयम᳘नुपवते᳘ यो ऽयं प᳘वते ऽन्त᳘रिक्षाय वै᳘ गृह्णाति त᳘स्मादाह व्वा᳘तस्य त्वा ध्रा᳘ज्या ऽइ᳘ति॥

मूलम् - Weber

वा᳘तस्य त्वा ध्रा᳘ज्या इ᳘ति॥
अन्त᳘रिक्षं वा᳘ अयम᳘नुपवतेॗ यो ऽयम् प᳘वते ऽन्त᳘रिक्षाय वै᳘ गृह्णाति तस्मादाह वा᳘तस्य त्वा ध्रा᳘ज्या इ᳘ति॥

मूलम् - विस्वरम्

“वातस्य त्वा ध्राज्यै”- (वा. सं. ६ । १८) इति । अन्तरिक्षं वा ऽअयमनुपवते । यो ऽयं पवते । अन्तरिक्षाय वै गृह्णाति । तस्मादाह- वातस्य त्वा ध्राज्या ऽइति ॥ २१ ॥

सायणः

[व्याख्यानं विंशत्याम्]

Eggeling
  1. ‘For the sweeping of the wind–thee!’ for verily yonder blower sweeps along the air, and for the air he takes it: hence he says, ‘For the sweeping of the wind (I take) thee.’

२२

विश्वास-प्रस्तुतिः

पूष्णो र᳘ᳫँ᳘ह्या ऽइ᳘ति॥
(त्ये) एष वै᳘ पूष्णो र᳘ᳫँ᳘हिरेत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाह पूष्णो र᳘ᳫँ᳘ह्या इ᳘ति॥

मूलम् - श्रीधरादि

पूष्णो र᳘ᳫँ᳘ह्या ऽइ᳘ति॥
(त्ये) एष वै᳘ पूष्णो र᳘ᳫँ᳘हिरेत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाह पूष्णो र᳘ᳫँ᳘ह्या इ᳘ति॥

मूलम् - Weber

पूष्णा र᳘ᳫं᳘ह्या इ᳘ति॥
एष वै᳘ पूष्णो र᳘ᳫं᳘हिरेत᳘स्मा उ हि᳘ गृह्णा᳘ति त᳘स्मादाह पूष्णो र᳘ᳫं᳘ह्या इ᳘ति॥

मूलम् - विस्वरम्

“पूष्णो रँ ह्या” (वा. सं. ६ । १८) इति । एष वै पूष्णो रंहिः । एतस्मा उ हि गृह्णाति- तस्मादाह- पूष्णो रंह्या इति ॥ २२ ॥

सायणः

[व्याख्यानं विंशत्याम्]

Eggeling
  1. ‘For the speed of Pūshan,’–Pūshan’s speed, forsooth, is yonder (wind) 32, and for that he takes it: hence he says, ‘For the speed of Pūshan.’

२३

विश्वास-प्रस्तुतिः

(त्यू) ऊ᳘ष्म᳘णो व्यथिषदि᳘ति॥
(त्ये) एष वा᳘ ऊ᳘ष्मैत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाहोष्म᳘णो व्यथिषदित्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति॥

मूलम् - श्रीधरादि

(त्यू) ऊ᳘ष्म᳘णो व्यथिषदि᳘ति॥
(त्ये) एष वा᳘ ऊ᳘ष्मैत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाहोष्म᳘णो व्यथिषदित्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति॥

मूलम् - Weber

ऊष्म᳘णो व्यथिषदि᳘ति॥
एष वा᳘ ऊॗष्मैत᳘स्मा उ हि᳘ गृह्णा᳘ते त᳘स्मादाहोष्म᳘णो व्यथिषदित्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति॥

मूलम् - विस्वरम्

“ऊष्मणो व्यथिषत्” (वा. सं. ६ । १८) इति । एष वा ऽऊष्मा । एतस्मा ऽउ हि गृह्णाति तस्मादाहोष्मणो व्यतिषदिति । अथोपरिष्टाद् द्विराज्यस्याभिघारयति ॥ २३ ॥

सायणः

[व्याख्यानं विंशत्याम्]

Eggeling
  1. ‘From the hot vapour may totter–;’ the hot vapour, namely, is yonder (wind), and for that he takes it: hence he says, ‘From the hot vapour may totter–.’ Thereupon he bastes it twice with ghee above.

२४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ पार्श्वे᳘न वा ऽसि᳘ना वा प्र᳘यौति॥
प्र᳘युतं द्वे᳘ष इ᳘ति त᳘न्नाष्ट्रा᳘ ए᳘वैतद्र᳘क्षाᳫँ᳭स्यतो᳘ ऽपहन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ पार्श्वे᳘न वा ऽसि᳘ना वा प्र᳘यौति॥
प्र᳘युतं द्वे᳘ष इ᳘ति त᳘न्नाष्ट्रा᳘ ए᳘वैतद्र᳘क्षाᳫँ᳭स्यतो᳘ ऽपहन्ति॥

मूलम् - Weber

अ᳘थ पार्श्वे᳘न वासि᳘ना वा प्र᳘यौति॥
प्र᳘युत द्वे᳘ष इ᳘ति त᳘न्नाष्ट्रा᳘ एॗवैतद्र᳘क्षांस्यतो᳘ ऽपहन्ति॥

मूलम् - विस्वरम्

अथ पार्श्वेन वासिना वा प्रयौति । “प्रयुतं द्वेषः” (वा. सं. ६ । १८) इति । तन्नाष्ट्रा एवैतद्रक्षांस्यतो ऽपहन्ति ॥ २४ ॥

सायणः

अथ पार्श्वेनेत्यादि 33“प्रयुतं द्वेषः”- ‘इति’ मन्त्रेण ‘पार्श्वेन’ पार्श्वास्थिना ‘असिना वा’ गृहीतां वसां विभजति । ‘द्वेषः’ अनिष्टेभ्यः सकाशात् ‘प्रयुतं’ पृथक् कृतं भवति ॥ २४ ॥

Eggeling
  1. He then mixes it either with the crooked knife or with the chopping-knife 34, with ‘–Confounded hatred 35!’ whereby he chases away from here those evil spirits, the Rakshas.

२५

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ यद्यू᳘ष्परिशिष्य᳘ते॥
त᳘त्समवत्तधा᳘न्यामा᳘नयति तद्धृ᳘दयं प्रा᳘स्यति जिह्वां व्व᳘क्षस्त᳘निम म᳘तस्ने व्वनिष्टुम᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ यद्यू᳘ष्परिशिष्य᳘ते॥
त᳘त्समवत्तधा᳘न्यामा᳘नयति तद्धृ᳘दयं प्रा᳘स्यति जिह्वां व्व᳘क्षस्त᳘निम म᳘तस्ने व्वनिष्टुम᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति॥

मूलम् - Weber

अ᳘थ यद्यू᳘ष्परिशिष्य᳘ते॥
त᳘त्समवत्तधा᳘न्यामा᳘नयति तद्धृ᳘दयम् प्रा᳘स्यति जिह्वां व᳘क्षस्त᳘निम म᳘तस्ने वनिष्ठुम᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति॥

मूलम् - विस्वरम्

अथ यद् यूष्परिशिष्यते- तत् समवत्तधान्यामानयति । तद् हृदयं प्रास्यति । जिह्वां, वक्षः, तनिम, मतस्रे, वनिष्टुम् । अथोपरिष्टाद् द्विराज्यस्याभिघारयति ॥ २५ ॥

सायणः

अथ यद् यूष्परिशिष्यत इति । गृहीतावशिष्टां वसां ‘समवत्तधान्याम्’ इडापात्र्याम् आनयेत् 33 । इडार्थं तत्र प्रधानावशिष्टानि हृदयादीनि प्रास्य पुनर्द्विरभिघारयति । ‘मतस्ने’ वृक्कौ । तनिमादयः प्राग्व्याख्याताः ॥ २५ ॥

Eggeling
  1. The broth which is left he pours into the Samavattadhānī, and therein he throws the heart, tongue, breast, the broad piece (of the back part), the kidneys, and the rectum. He then bastes it twice with ghee above.

२६

विश्वास-प्रस्तुतिः

तद्य᳘द्धिरण्यशकला᳘वभि᳘तो भ᳘वतः॥
(तो) घ्न᳘न्ति वा᳘ ऽएत᳘त्पशुं य᳘दग्नौ जु᳘ह्वत्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त ऽआ᳘युषि प्र᳘तितिष्ठति तथा᳘त उ᳘देति त᳘था स᳘ञ्जीवति त᳘स्माद्धिरण्यशकला᳘वभि᳘तो भवतः॥

मूलम् - श्रीधरादि

तद्य᳘द्धिरण्यशकला᳘वभि᳘तो भ᳘वतः॥
(तो) घ्न᳘न्ति वा᳘ ऽएत᳘त्पशुं य᳘दग्नौ जु᳘ह्वत्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त ऽआ᳘युषि प्र᳘तितिष्ठति तथा᳘त उ᳘देति त᳘था स᳘ञ्जीवति त᳘स्माद्धिरण्यशकला᳘वभि᳘तो भवतः॥

मूलम् - Weber

तद्य᳘द्धिरण्यशकला᳘वभि᳘तो भ᳘वतः॥
घ्न᳘न्ति वा᳘ एत᳘त्पशुं य᳘दग्नौ जु᳘ह्वत्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त आ᳘युषि प्र᳘तितिष्ठति तथा᳘त उ᳘देति त᳘था सं᳘जीवति त᳘स्माद्धिरण्यशकला᳘वभि᳘तो भवतः॥

मूलम् - विस्वरम्

तद् यद्धिरण्यशकलावभितो भवतः । घ्नन्ति वा ऽएतत् पशुम्- यदग्नौ जुह्वति । अमृतमायुर्हिरण्यम् । तदमृत ऽआयुषि प्रतितिष्ठति । तथात उदेति । तथा सञ्जीवति । तस्माद्धिरण्यशकलावभितो भवतः ॥ २६ ॥

सायणः

अत्र सूत्रकारेण “वपावद्धिरण्यम्”- (का. श्रौ. सू. ६ । १८७) इति हविषामुभयतो हिरण्यप्रक्षेप उक्तः, तं प्रशंसति- तद्यद्धिरण्यशकलावभितो भवत इति । एतद् वपायां व्याख्यातम् ॥ २६ ॥

Eggeling
  1. The reason why there is a piece of gold on each side is this. When they offer up the victim in the fire, they slay it, and gold means immortal life: thereby then it rests in immortal life; and so it rises from hence, and so it lives. This is why there is a piece of gold on each side.

२७

विश्वास-प्रस्तुतिः

(तो᳘ ऽथ) अ᳘थ य᳘दक्ष्ण᳘यावद्य᳘ति॥
सव्य᳘स्य च दोष्णो᳘ दक्षिणा᳘याश्च श्रो᳘णेर्द्दक्षिण᳘स्य च दोष्णः᳘ सव्या᳘याश्च श्रो᳘णेस्त᳘स्मादय्ं᳘ पशु᳘रक्ष्णया᳘ पदो᳘ हरत्य᳘थ य᳘त्सम्य᳘गवद्ये᳘त्समी᳘चो है᳘वायं᳘ पशुः᳘ पदो᳘ हरेत्त᳘स्मादक्ष्णया᳘वद्यत्य᳘थ यन्न᳘ शी᳘र्ष्णो ऽवद्य᳘ति ना᳘ᳫं᳘सयोर्ना᳘नूकस्य᳘ नापरसक्थ᳘योः॥

मूलम् - श्रीधरादि

(तो᳘ ऽथ) अ᳘थ य᳘दक्ष्ण᳘यावद्य᳘ति॥
सव्य᳘स्य च दोष्णो᳘ दक्षिणा᳘याश्च श्रो᳘णेर्द्दक्षिण᳘स्य च दोष्णः᳘ सव्या᳘याश्च श्रो᳘णेस्त᳘स्मादय्ं᳘ पशु᳘रक्ष्णया᳘ पदो᳘ हरत्य᳘थ य᳘त्सम्य᳘गवद्ये᳘त्समी᳘चो है᳘वायं᳘ पशुः᳘ पदो᳘ हरेत्त᳘स्मादक्ष्णया᳘वद्यत्य᳘थ यन्न᳘ शी᳘र्ष्णो ऽवद्य᳘ति ना᳘ᳫं᳘सयोर्ना᳘नूकस्य᳘ नापरसक्थ᳘योः॥

मूलम् - Weber

अ᳘थ य᳘दक्ष्णॗयावद्य᳘ति॥
सव्य᳘स्य च दोष्णो᳘ दक्षिणा᳘याश्च च दोष्णः᳘ सव्या᳘वाश्च श्रो᳘णेस्त᳘स्मादय᳘म् पशु᳘रक्ष्णया᳘ पदो᳘ हरत्य᳘थ य᳘त्सम्य᳘गवद्ये᳘त्समी᳘चो हैॗवाय᳘म् पशुः᳘ पदो᳘ हरेत्त᳘स्मादक्ष्णया᳘वद्यत्य᳘थ यन्न᳘ शीॗर्ष्णो ऽवद्य᳘ति ना᳘ᳫं᳘सयोर्ना᳘नूकस्यॗ नापरसक्थ᳘योः॥

मूलम् - विस्वरम्

अथ यदक्ष्णयावद्यति । सव्यस्य च दोष्णो, दक्षिणायाश्च श्रोणेः, दक्षिणस्य च दोष्णः सव्यायाश्च श्रोणेः । तस्मादयं पशुरक्ष्णया पदो हरति । अथ यत् सम्यगवद्येत्- समीचो हैवायं पशुः पदो हरेत् । तस्मादक्ष्णयावद्यति । अथ यन्न शीर्ष्णो ऽवद्यति, नांसयोः, नानूकस्य नापरसक्थयोः ॥ २७ ॥

सायणः

प्रधानस्विष्टकृदर्थं यदवदानम्, तत् समुच्चित्य प्रशंसति- अथ यदक्ष्णयावद्यति सव्यस्य च दोष्ण इत्यादिना । ‘सव्यस्य’ ‘दोष्णः’ भुजस्य ‘दक्षिणायाः श्रोणेश्च’ प्रधानावदानसमये, ‘दक्षिणस्य च दोष्णः’ सव्यायाः श्रोणेरिति स्विष्टकृतीत्येवमवदानं सम्पद्यते । उक्तलक्षणमवदानं प्रसिद्धपशोर्यदक्ष्णया पादसञ्चरणं तन्मूलमिति प्रशंसति- तस्मादयं पशुरक्ष्णया पदो हरतीति । ‘अक्ष्णया’ पादश्रोण्योर्व्यत्यासेन । उक्तं द्रढयति- अथ यत् सम्यगवद्येत् समीचो हैवायं पशुः पदो हरेदिति । अथ शिरआदीनामनवदेयत्वोपपत्तिमाख्यानमुखेन प्रदर्शयति-अथ यन्न शीर्ष्णो ऽवद्यति नांसयोरित्यादिन । असौ बाह्योरुपरिप्रदेशौ । अनूको वङ्क्र्याधारः, आयतः पृष्ठास्थिविशेषः । तत्रत्यमपि मांस नावदेयम् । तथा ‘न अपरसक्थयोः’ ऊर्वोरुपरिभूतौ उच्छ्रितावयवौ सक्थौ ॥ २७ ॥

Eggeling
  1. And because he cuts crossways,–of the left fore-foot and the right haunch; and of the right forefoot and the left haunch,–therefore this animal draws forward its feet crossways. But were he to cut straight on, this animal would draw forward its feet (of the same side) simultaneously: therefore he cuts crossways. Then as to why he does not make cuttings of the head, nor the shoulders, nor the neck, nor the hind-thighs.

२८

विश्वास-प्रस्तुतिः

(र᳘) अ᳘सुरा ह वा ऽअ᳘ग्रे पशुमा᳘लेभिरे॥
त᳘द्देवा᳘ भीषा᳘ नोपा᳘वेयुस्ता᳘न्हेयं᳘ पृथि᳘व्युवाच᳘ मैतदा᳘दृड्वमहं᳘ व एतस्या᳘ध्यक्षा भविष्यामि य᳘थायथैत᳘ ऽएते᳘न चरिष्यन्ती᳘ति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘सुरा ह वा ऽअ᳘ग्रे पशुमा᳘लेभिरे॥
त᳘द्देवा᳘ भीषा᳘ नोपा᳘वेयुस्ता᳘न्हेयं᳘ पृथि᳘व्युवाच᳘ मैतदा᳘दृड्वमहं᳘ व एतस्या᳘ध्यक्षा भविष्यामि य᳘थायथैत᳘ ऽएते᳘न चरिष्यन्ती᳘ति॥

मूलम् - Weber

अ᳘सुरा ह वा अ᳘ग्रे पशुमा᳘लेभिरे॥
त᳘द्देवा᳘ भीषाॗ नोपा᳘वेयुस्ता᳘न्हेय᳘म् पृथिॗव्युवाचॗ मैतदा᳘दृड्वमहं᳘ व एतस्या᳘ध्यक्षा भविष्यामि य᳘था यथैत᳘ एते᳘न चरिष्यन्ती᳘ति॥

मूलम् - विस्वरम्

असुरा ह वा ऽअग्रे पशुमालेभिरे । तद् देवा भीषा नोपावेयुः । तान् हेयं पृथिव्युवाच- मैतदादृढ्वम् । अहं व एतस्याध्यक्षा भविष्यामि- यथा यथैत ऽएतेन चरिष्यन्तीति ॥ २८ ॥

सायणः

असुरा ह वा इति । असुराः किल पशुमालभन्ते, तदालभनं देवाः ‘नोपावेयुः’ नोपगताः, तदा ‘पृथिवी’ ‘उवाच’ ‘एतत्’ भयमासुरं ‘मा दृढ्वम्’ आदरं मा कार्ष्ट ‘अहं’ ‘वः’ युष्मदर्थम् ‘एतस्य’ पश्वालम्भस्य ‘अध्यक्षा’ उपद्रष्टा ‘भविष्यामि’, ‘यथा’ येन प्रकारेण ‘एते’ असुराः ‘एतेन’ पशुना ‘चरिष्यन्ति’ ‘इति’ उक्ता, तथैव सम्यगवगता ॥ २८ ॥

Eggeling
  1. Now the Asuras, in the beginning, seized a victim. The gods, from fear, did not go near it 36. The Earth 37 then said unto them, ‘Heed ye not this: I will myself be an eye-witness thereof, in whatsoever manner they will perform this (offering).’

२९

विश्वास-प्रस्तुतिः

सा᳘ होवाच॥
(चा) अन्यतरा᳘मेवा्हुतिम᳘हौषुरन्यतरां[[!!]] प᳘र्यशिषन्नि᳘ति स यां᳘ पर्य᳘शिᳫँ᳭षंस्ता᳘नीमा᳘न्यवदा᳘नानि[[!!]] त᳘तो देवाः᳘ स्विष्टकृ᳘ते त्र्यङ्गाण्य᳘पाभजंस्त᳘स्मात्त्र्यङ्गाण्यथा᳘सुरा अ᳘वाद्यञ्छीर्ष्णो᳘ᳫँ᳭ऽसयोरनूकस्यापरसक्थ᳘योस्त᳘स्मात्ते᳘षां[[!!]] ना᳘वद्येद्य᳘न्न्वेव त्वष्टा᳘नूकमभ्य᳘वमत्त᳘स्माद᳘नूकस्यना᳘वद्येद᳘थाहाग्नीषो᳘माभ्यां छागस्य[[!!]] हविषो᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याहाग्नीषो᳘माभ्यां छा᳘गस्य हविः प्रेष्ये᳘ति न प्र᳘स्थितमित्याह[[!!]] प्र᳘सुते प्र᳘स्थितमि᳘ति॥

मूलम् - श्रीधरादि

सा᳘ होवाच॥
(चा) अन्यतरा᳘मेवा्हुतिम᳘हौषुरन्यतरां[[!!]] प᳘र्यशिषन्नि᳘ति स यां᳘ पर्य᳘शिᳫँ᳭षंस्ता᳘नीमा᳘न्यवदा᳘नानि[[!!]] त᳘तो देवाः᳘ स्विष्टकृ᳘ते त्र्यङ्गाण्य᳘पाभजंस्त᳘स्मात्त्र्यङ्गाण्यथा᳘सुरा अ᳘वाद्यञ्छीर्ष्णो᳘ᳫँ᳭ऽसयोरनूकस्यापरसक्थ᳘योस्त᳘स्मात्ते᳘षां[[!!]] ना᳘वद्येद्य᳘न्न्वेव त्वष्टा᳘नूकमभ्य᳘वमत्त᳘स्माद᳘नूकस्यना᳘वद्येद᳘थाहाग्नीषो᳘माभ्यां छागस्य[[!!]] हविषो᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याहाग्नीषो᳘माभ्यां छा᳘गस्य हविः प्रेष्ये᳘ति न प्र᳘स्थितमित्याह[[!!]] प्र᳘सुते प्र᳘स्थितमि᳘ति॥

मूलम् - Weber

सा᳘ होवाच॥
अन्यतरा᳘मेवा᳘हुतिम᳘हौषुरन्यतराम् प᳘र्यशिषन्नि᳘ति स या᳘म् पर्य᳘शिंषंस्ता᳘नीमा᳘न्यवदा᳘नाने त᳘तो देवाः᳘ स्विष्टकृ᳘ते त्र्यङ्गाण्य᳘पाभजंस्त᳘स्मात्त्र्यङ्गाण्यथा᳘सुरा अ᳘वाद्यञ्छीर्ष्णों᳘ ऽसयोर᳘नूकस्यापरसक्थ᳘योस्त᳘स्मात्ते᳘षां ना᳘वद्येद्यॗन्न्वेव त्वष्टा᳘नूकमभ्य᳘वमत्त᳘स्माद᳘नूकस्य ना᳘वद्येद᳘थाहाग्नीषो᳘माभ्यां छा᳘गस्य हविषो᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याहाग्नीषो᳘माभ्यां छा᳘गस्य हविः प्रेष्ये᳘ति न प्र᳘स्थितमि᳘त्याह प्र᳘सुते प्र᳘स्थितमि᳘ति॥

मूलम् - विस्वरम्

सा होवाच- अन्यतरामेवाहुतिमहौषुः, अन्यतरां पर्यशिषन्निति । स यां पर्यशिषन्- तानीमान्यवदानानि । ततो देवाः स्विष्टकृते त्र्यङ्गाण्यपाभजन् । तस्मात्त्र्यङ्गाणि । अथासुरा अवाद्यन्- शीर्ष्णः, अंसयोः, अनूकस्य, अपरसक्थयोः । तस्मात्तेषां नावद्येत् । यन्न्वेव त्वष्टानूकमभ्यवमत्- तस्मादनूकस्य नावद्येत् । अथाह- ‘अग्नीषोमाभ्यां छागस्य हविषो ऽनुब्रूहि’ इति । आश्राव्याह- अग्नीषोमाभ्यां छागस्य हविः प्रेष्येति । न प्रस्थितमित्याह । प्रसुते प्रस्थितमिति ॥ २९ ॥

सायणः

सा होवाचेति । तत्सकाशं सम्यगवगत्योवाच । ते ऽसुराः ‘अन्यत्तरामेवाहुतिमहौषुः’ प्रधानमेव हुतवन्तः, ‘अन्यतरां’ स्विष्टकृतमाहुतिं ‘पर्यशिषन्’ परित्यक्तवन्तः । परिशिष्टा का ? इति, तां स्वयं श्रुतिः प्रदर्शयति- तानीमानीति । ‘दक्षिणं दोः’ सव्याश्रोणिः, गुदं तृतीयं चेति त्रीणि । ‘ततः’ तस्मादसुरपरित्यक्तत्वेनादुष्टत्वात् ‘त्र्यङ्गाणि’ ‘देवाः’ प्राप्ताः । अथ यस्मात् शिर आदीनि ‘अवाद्यन्’, ‘तस्मात्’ तैरवत्तत्वेन दुष्टत्वात् तानि ‘नावद्येत’ । अनूकस्य प्रकारान्तरेणापि तत्त्वं दर्शयति- त्वष्टेति । एतच्छिरसो ऽप्युपलक्षणं गतम्, समानत्वात् ॥

इत्थमवदानप्रकारमुक्त्वा प्रदानप्रकारमाह- अथाहाग्नीषोमाभ्यां छागस्येत्यादि 38 । वपाप्रैषवदग्नीषोमीयहोमप्रैषे ऽपि प्रस्थितपदं निषेधति- न प्रस्थितमित्याहेति ॥ २९ ॥

Eggeling
  1. She said, ‘Only one oblation have they offered, the other they have left over.’ Now that which they left over are these same portions. Thereupon the gods made over three limbs to (Agni) Svishṭakr̥t, whence the Tryaṅga oblations. The Asuras then made portions of the head, the shoulders, the neck, and the hind-thighs: therefore let him not make portions of these. And since Tvashṭr̥ spat upon the neck, therefore let him not make a portion of the neck. Thereupon he says (to the Hotr̥), ‘Recite (the invitatory prayer) to Agni and Soma for the havis of the buck!’ Having called for the Śraushaṭ, he says (to the Maitrāvaruṇa), ‘Prompt (the Hotr̥ to recite the offering-prayer 39 for) the havis of the buck to Agni and Soma!’ He does not say ‘(the havis) made ready:’ when the Soma has been pressed he says ‘made ready.’

३०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘न्तरेणार्द्धर्च्चो᳘ या᳘ज्यायै व्वसाहोमं᳘ जुहोति॥
(ती) इतो वा᳘ ऽअय᳘मूर्द्धो मे᳘ध उ᳘त्थितो य᳘मस्या इमᳫं᳭ र᳘सं प्रजा᳘ उपजी᳘वन्त्यर्व्वाची᳘नं दिवो र᳘सो वै᳘ व्वसाहोमो र᳘सो मे᳘धो र᳘सेनै᳘वैतद्र᳘सं तीव्व्री᳘करोति त᳘स्मादयᳫं᳭ र᳘सो ऽद्य᳘मानो न᳘ क्षीयते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘न्तरेणार्द्धर्च्चो᳘ या᳘ज्यायै व्वसाहोमं᳘ जुहोति॥
(ती) इतो वा᳘ ऽअय᳘मूर्द्धो मे᳘ध उ᳘त्थितो य᳘मस्या इमᳫं᳭ र᳘सं प्रजा᳘ उपजी᳘वन्त्यर्व्वाची᳘नं दिवो र᳘सो वै᳘ व्वसाहोमो र᳘सो मे᳘धो र᳘सेनै᳘वैतद्र᳘सं तीव्व्री᳘करोति त᳘स्मादयᳫं᳭ र᳘सो ऽद्य᳘मानो न᳘ क्षीयते॥

मूलम् - Weber

अ᳘न्तरेणार्धर्चौ᳘ याॗज्यायै वसाहोमं᳘ जुहोति॥
इतो वा᳘ अय᳘मूर्ध्वो मे᳘ध उ᳘त्थितो य᳘मस्या इमं र᳘सम् प्रजा᳘ उपजी᳘वन्त्यर्वाची᳘नं दिवो र᳘सो वै᳘ वसाहोमो र᳘सो मे᳘धो र᳘सेनैॗवैतद्र᳘सं तीव्री᳘करोति त᳘स्मादयं र᳘सो ऽद्य᳘मानो न᳘ क्षीयते॥

मूलम् - विस्वरम्

अन्तरेणार्द्धर्च्चौ याज्यायै वसाहोमं जुहोति । इतो वा ऽअयमूर्ध्वो मेध उत्थितः; यमस्या इमं रसं प्रजा उपजीवन्ति, अर्वाचीनं दिवः । रसो वै वसाहोमः । रसो मेधः । रसेनैवैतद्रसं तीव्रीकरोति । तस्मादयं रसो ऽवद्यमानो न क्षीयते ॥ ३० ॥

सायणः

वसाहोमस्य कालमाह- अन्तरेणार्द्धर्चाविति 38 । प्रधानाहुतियाज्यायाः पूर्वार्द्धावसाने प्रतिप्रस्थाता ‘वसाहोमं जुहोति’ अर्द्धर्च्चयोरूर्ध्वभावित्वं प्रशसति- इतो वा अयमूर्ध्व इत्यादिना । पूर्वोत्तरार्द्धर्च्चो द्युपृथिव्यात्मकौ; तथा सति ‘इतः’ पृथिव्याः सकाशात् उत्पन्नो ‘मेधः’, ‘यं’ साराङ्गवसेत्यादिरूपमूर्ध्वमुद्गतं मनुष्याः उपभुञ्जते, तथा ‘दिवः’ सकाशात् उत्थितमुदकात्मकमधो निर्गतमुपभुञ्जते । एवं स लोकद्वयसारस्यान्तरिक्षे उपभोक्तव्यत्वेनावस्थानादर्द्धर्च्चयोरन्तरालहोमेन द्यावापृथिव्योः ‘रसेन’ ‘एतत्’ वसाख्यं ‘रसं’ ‘तीव्रीकरोति’ । होमस्यान्तरिक्षार्थत्वाच्चार्द्धर्च्चयोरन्तरालं कृतवान् भवति । अतस्तीव्ररसोत्पादकत्वात् होमः कर्त्तव्य इत्यर्थः ॥ ३० ॥ ३१ ॥

Eggeling
  1. In the interval between the two half-verses of the offering-prayer he offers the oblation of gravy. It is from out of this that that essence (juice) has risen upwards here,–that sap of this earth whereby creatures exist on this side of the sky 40; for the

oblation of gravy is sap, and essence is sap: thus he renders the sap strong by means of sap, whence this sap when eaten does not perish.

३१

विश्वास-प्रस्तुतिः

तद्यद᳘न्तरेण॥
(णा) अर्द्धर्च्चो᳘ या᳘ज्यायै व्वसाहोमं᳘ जुहो᳘तीयं वा᳘ ऽअर्द्ध᳘र्च्चो᳘ ऽसौ द्यौ᳘रर्द्ध᳘र्चो ऽन्तरा वै द्या᳘वापृथिवी᳘ ऽअन्त᳘रिक्षमन्त᳘रिक्षाय वै᳘ जुहोति त᳘स्माद᳘न्तरेणार्द्धर्च्चो᳘ या᳘ज्यायै व्वसाहोमं᳘ जुहोति॥

मूलम् - श्रीधरादि

तद्यद᳘न्तरेण॥
(णा) अर्द्धर्च्चो᳘ या᳘ज्यायै व्वसाहोमं᳘ जुहो᳘तीयं वा᳘ ऽअर्द्ध᳘र्च्चो᳘ ऽसौ द्यौ᳘रर्द्ध᳘र्चो ऽन्तरा वै द्या᳘वापृथिवी᳘ ऽअन्त᳘रिक्षमन्त᳘रिक्षाय वै᳘ जुहोति त᳘स्माद᳘न्तरेणार्द्धर्च्चो᳘ या᳘ज्यायै व्वसाहोमं᳘ जुहोति॥

मूलम् - Weber

तद्यद᳘न्तरेण॥
अर्धर्चौ᳘ याॗज्यायै वसाहोमं᳘ जुहो᳘तीयं वा᳘ अर्धॗर्चो ऽसौ द्यौ᳘रर्धॗर्चो ऽन्तरा वै द्या᳘वापृथिवी᳘ अन्त᳘रिक्षमन्त᳘रिक्षाय वै᳘ जुहोति त᳘स्माद᳘न्तरेणार्धर्चौ᳘ याॗज्यायै वसाहोमं᳘ जुहोति॥

मूलम् - विस्वरम्

तद् यदन्तरेणार्द्धर्च्चौ याज्यायै वसाहोमं जुहोति । इयं वा ऽअर्द्धर्च्चः, असौ द्यौरर्द्धर्चः । अन्तरा वै द्यावापृथिवी ऽअन्तरिक्षम् । अन्तरिक्षाय वै जुहोति । तस्मादन्तरेणार्द्धर्च्चौ याज्याये वसाहोमं जुहोति ॥ ३१ ॥

सायणः

[व्याख्यानं त्रिंशतितमे]

Eggeling
  1. And as to why he offers the oblation of gravy in the interval between the two half-verses of the offering-prayer,–one half-verse, forsooth, is this earth, and the other half-verse is yonder sky. Now between the sky and the earth is the air, and it is to the air that he offers: therefore he offers the oblation of gravy between the two half-verses of the offering-prayer.

३२

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
घृतं᳘ घृतपावानः पिबत व्व᳘सां व्वसापावानः पिबतान्त᳘रिक्षस्य हवि᳘रसि स्वाहे᳘त्येते᳘न व्वैश्वदेवे᳘न य᳘जुषा जुहोति व्वैश्वदेवं वा᳘ ऽअन्त᳘रिक्षं तद्य᳘देनेनेमाः᳘ प्रजाः᳘ प्राण᳘त्यश्चोदन᳘त्यश्चान्त᳘रिक्षमनुच᳘रन्ति ते᳘न व्वैश्वदेवं व्व᳘षट्कृते जुहोति या᳘नि जुह्वा᳘म᳘वदा᳘नानि भ᳘वन्ति॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
घृतं᳘ घृतपावानः पिबत व्व᳘सां व्वसापावानः पिबतान्त᳘रिक्षस्य हवि᳘रसि स्वाहे᳘त्येते᳘न व्वैश्वदेवे᳘न य᳘जुषा जुहोति व्वैश्वदेवं वा᳘ ऽअन्त᳘रिक्षं तद्य᳘देनेनेमाः᳘ प्रजाः᳘ प्राण᳘त्यश्चोदन᳘त्यश्चान्त᳘रिक्षमनुच᳘रन्ति ते᳘न व्वैश्वदेवं व्व᳘षट्कृते जुहोति या᳘नि जुह्वा᳘म᳘वदा᳘नानि भ᳘वन्ति॥

मूलम् - Weber

स᳘ जुहोति॥
घृतं᳘ घृतपावानः पिबत व᳘सां वसापावानः पिबतान्त᳘रिक्षस्य हवि᳘रसि स्वाहे᳘त्येते᳘न वैश्वदेवे᳘न य᳘जुषा जुहोति वैश्वदेवं वा᳘ अन्त᳘रिक्षं तद्य᳘देनेनेमाः᳘ प्रजाः᳘ प्राण᳘त्यश्चोदान᳘त्यश्चान्त᳘रिक्षमनुच᳘रन्ति 41 ते᳘न वैश्वदेवं व᳘षट्कृते जुहोति या᳘नि जुह्वा᳘मवदा᳘नानि भ᳘वन्ति॥

मूलम् - विस्वरम्

स जुहोति- “घृतं घृतपावानः पिबत, वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा” (वा. सं. ६ । १९)- इति । एतेन वैश्वदेवेन यजुषा जुहोति । वैश्वदेवं वा ऽअन्तरिक्षम् । तद् यदेनेनेमाः प्रजाः प्राणत्यश्चोदनत्यश्चान्तरिक्षमनुचरन्ति- तेन वैश्वदेवम् । वषट्कृते जुहोति- यानि जुह्वामवदानानि भवन्ति ॥ ३२ ॥

सायणः

वसाहोममन्त्रमाह- स जुहोति घृतं घृतपावान इति । ‘घृतं’ क्षरणरूपं रसात्मकमिदं हविः हे ‘घृतपावानः’ घृतस्य रसद्रव्यस्य पातारः सर्वे देवाः यूयं ‘पिबत’ । एतदेव विशिनष्टि- वसां वसापावान इति । हे वसाद्रव्य ! त्वम् ‘अन्तरिक्षस्य हविरसि । अन्तरिक्षस्य सर्वदेवाश्रयत्वादस्यापि तदर्थत्वाद् अन्तरिक्षस्य देवताद्वारा अन्तरिक्षस्यैव हविष्ट्वम् । अत्र सूत्रम् । “अर्द्धर्च्चान्तरे याज्यायै वसैकदेशं जुहोति”- (का. श्रौ. सू. ६ । १९३) इति ।

मन्त्रस्य वैश्वदेवत्वं प्रकृतहोमसङ्गतमित्याह- एतेन वैश्वदेवेनेति । अत्र बहुत्वलिङ्गाद् वैश्वदेवत्वं यजुषः ‘अन्तरिक्षम्’ अपि सर्वासां देवानां प्राणोदानव्यापारयोराश्रयत्वेन ‘वैश्वदेवम्’, अन्तरिक्षार्थश्च वसाहोमः; ‘तेन’ होमस्य वैश्वदेवत्वेन एतदपि वैश्वदेवं यजुरत्र युज्यत इत्यर्थः । मध्ये होतव्यं वसाहोममभिधाय प्रधानहोममाह- वषट्कृते जुहोति यानि जुह्वामित्यादि ॥ ३२ ॥

Eggeling
  1. He offers with (Vāj. S. VI, 19), ‘Drink the ghee, ye drinkers of ghee! Drink the gravy, ye drinkers of gravy! thou art the havis of the air, Hail!’ With this prayer to the All-gods he offers, for the air belongs to the All-gods: because creatures move about here in the air breathing in and breathing out therewith, therefore it belongs to the All-gods. As the Vashaṭ (of the offering-prayer for the meat portions) is pronounced, he offers the portions that are in the juhū.

३३

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ जुह्वा᳘ पृषदाज्य᳘स्योपघ्न᳘न्नाह॥
व्व᳘नस्प᳘तये᳘ ऽनु ब्रूही᳘त्याश्रा᳘व्याह व्व᳘नस्प᳘तये प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति तद्यद्व᳘नस्प᳘तये जुहो᳘त्येत᳘मे᳘वैतद्व᳘ज्रं यू᳘पं भागि᳘नं करोति सो᳘मो वै व्व᳘नस्प᳘तिः पशु᳘मे᳘वैतत्सो᳘मं करोति तद्यद᳘न्तरेणोभे ऽआ᳘हुती जुहो᳘ति त᳘थोभ᳘यं᳘ व्याप्नोति त᳘स्माद᳘न्तरेणोभे ऽआ᳘हुती जुहोति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ जुह्वा᳘ पृषदाज्य᳘स्योपघ्न᳘न्नाह॥
व्व᳘नस्प᳘तये᳘ ऽनु ब्रूही᳘त्याश्रा᳘व्याह व्व᳘नस्प᳘तये प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति तद्यद्व᳘नस्प᳘तये जुहो᳘त्येत᳘मे᳘वैतद्व᳘ज्रं यू᳘पं भागि᳘नं करोति सो᳘मो वै व्व᳘नस्प᳘तिः पशु᳘मे᳘वैतत्सो᳘मं करोति तद्यद᳘न्तरेणोभे ऽआ᳘हुती जुहो᳘ति त᳘थोभ᳘यं᳘ व्याप्नोति त᳘स्माद᳘न्तरेणोभे ऽआ᳘हुती जुहोति॥

मूलम् - Weber

अ᳘थ जुह्वा᳘ पृषदाज्य᳘स्योपघ्न᳘न्नाह॥
व᳘नस्प᳘तये᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याह व᳘नस्प᳘तये प्रेष्ये᳘ति व᳘षट्कृते जुहोति तद्यद्व᳘नस्प᳘तये जुहो᳘त्येत᳘मेॗवैतद्व᳘ज्रं यू᳘पम् भागि᳘नं करोति सो᳘मो वै व᳘नस्प᳘तिः पशु᳘मेॗवैतत्सो᳘मं करोति तद्यद᳘न्तरेणोभे आ᳘हुती जुहो᳘ति त᳘योॗभ᳘यं व्याप्नोति त᳘स्माद᳘न्तरेणोभे आ᳘हुती जुहोति॥

मूलम् - विस्वरम्

अथ जुह्वा पृषदाज्यस्योपघ्नन्नाह- ‘वनस्पतये ऽनुब्रूहि’ इति- आश्राव्याह- ‘वनस्पतये प्रेष्ये’ इति । वषट्कृते जुहोति । तद् यद्वनस्पतये जुहोति । एतमेवैतद्वज्रं यूपं भागिनं करोति । सोमो वै वनस्पतिः । पशुमेवैतत्सोमं करोति । तद् यदन्तरेणोभे ऽआहुती जुहोति- तथोभयं व्याप्नोति । तस्मादन्तरेणोभे ऽआहुती जुहोति ॥ ३३ ॥

सायणः

अथ जुह्वेति 42 । ‘अथ’ वसाहोमानन्तरं ‘जुह्वा’ जुहूद्वारा ‘पृषदाज्यस्य’ एकदेशम् ‘उपघ्नन्’ अवद्यन् “वनस्पतये ऽनुब्रूहि” 43- ‘इति’ होतारं ब्रूयात् । वनस्पतिर्यूपाभिमानी देवः । स्पष्टमन्यत् ॥

वनस्पतियागं यूपद्वारा पशोः सोमत्वसम्पादकत्वेन च प्रशंसति तद्वनस्पतय इत्यादिना । सोमस्यामावस्यायां वनस्पतिषु वासात् सोमस्वामिकत्वात् वनस्पतिः सोमः, अतस्तत्सम्बन्धिनं पशुं सोमं कृतवान् भवति । ‘तत्’ तस्मात् ‘यत्’ यथा ‘अन्तरेण उभे आहुती’ उभयोर्देवतसौविष्टकृतयोर्मध्ये वनस्पत्याहुतिं ‘जुहोति’, ‘तथा’ ‘उभयं’ दैवतं सौविष्टकृतं च यूपाहुत्या व्याप्नोति ॥ ३३ ॥

Eggeling
  1. Thereupon, while taking clotted ghee with the juhū, he says (to the Hotr̥), ‘Recite (the invitatory prayer) to the Lord of the forest!’ Having called for the Śraushaṭ, he says (to the Maitrāvaruṇa), ‘Prompt (the Hotr̥ to recite the offering-prayer) to the lord of the forest!’ and offers, as the Vashaṭ is pronounced 44. The reason why he offers to the lord of the forest (the tree) is,–he thereby makes that thunderbolt, the sacrificial stake, a sharer (in the sacrifice); and, the lord of the forest being Soma 45,

he thereby makes the victim to be Soma. And as to his offering (to the tree) between the two oblations, he thus fills both completely: therefore he offers between the two oblations.

३४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ या᳘न्युपभृ᳘त्यवदा᳘नानि भ᳘वन्ति॥
ता᳘नि समानयमान᳘ ऽआहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याहाग्न᳘ये स्विष्टकृ᳘ते प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ या᳘न्युपभृ᳘त्यवदा᳘नानि भ᳘वन्ति॥
ता᳘नि समानयमान᳘ ऽआहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याहाग्न᳘ये स्विष्टकृ᳘ते प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थ या᳘न्युपभृ᳘त्यवदा᳘नानि भ᳘वन्ति॥
ता᳘नि समान᳘यमान आहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याहाग्न᳘ये स्विष्टकृ᳘ते प्रेष्ये᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथ यान्युपभृत्यवदानानि भवन्ति- तानि समानयमानआह- ‘अग्नये स्विष्टकृते ऽनुब्रूहि’- इति । आश्राव्याह- ‘अग्नये स्विष्टकृते प्रेष्यै’ इति । वषट्कृते जुहोति ॥ ३४ ॥

सायणः

स्विष्टकृत्प्रयोगप्रकारमाह- अथ यान्युपभृत्यवदानानि भवन्ति । तानि समानयमान आहेत्यादिना 46 । त्र्यङ्गापेक्षया बहुवचनम् । ‘समानयमानः’ जुह्वां प्रक्षिपन् ॥ ३४ ॥

Eggeling
  1. Thereupon, while pouring together the meat portions that are for the upabhr̥t, he says (to the Hotr̥), ‘Recite (the invitatory prayer) to Agni Svishṭakr̥t (the maker of good offering)!’ Having called for the Śraushaṭ, he says (to the Maitrāvaruṇa), ‘Prompt for Agni Svishṭakr̥t!’ and offers as the Vashaṭ is pronounced.

३५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘द्वसाहोम᳘स्य परिशिष्यते[[!!]]॥
ते᳘न दि᳘शो व्या᳘घारयति दि᳘शः प्रदि᳘श आदि᳘शो व्विदि᳘श उद्दि᳘शो दिग्भ्यः स्वाहे᳘ति र᳘सो वै᳘ व्वसाहोमः स᳘र्व्वा स्वे᳘वैत᳘द्दिक्षु र᳘सं दधाति त᳘स्मादयं᳘ दिशि᳘-दिशि र᳘सो ऽभि᳘गम्यते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘द्वसाहोम᳘स्य परिशिष्यते[[!!]]॥
ते᳘न दि᳘शो व्या᳘घारयति दि᳘शः प्रदि᳘श आदि᳘शो व्विदि᳘श उद्दि᳘शो दिग्भ्यः स्वाहे᳘ति र᳘सो वै᳘ व्वसाहोमः स᳘र्व्वा स्वे᳘वैत᳘द्दिक्षु र᳘सं दधाति त᳘स्मादयं᳘ दिशि᳘-दिशि र᳘सो ऽभि᳘गम्यते॥

मूलम् - Weber

अ᳘थ य᳘द्वसाहोम᳘स्य परिशिष्य᳘ते॥
ते᳘न दि᳘शो व्या᳘घारयति दि᳘शः प्रदि᳘श आदि᳘शो विदि᳘श उद्दि᳘शो दिग्भ्यः स्वाहे᳘ति र᳘सो वै᳘ वसाहोमः स᳘र्वास्वे᳘वैत᳘द्दिक्षु र᳘सं दधाति त᳘स्मादयं᳘ दिशि᳘-दिशि र᳘सो ऽभि᳘गम्यते॥

मूलम् - विस्वरम्

अथ यद्वसाहोमस्य परिशिष्यते- तेन दिशो व्याघारयति । “दिशः प्रदिश ऽआदिशो विदिश ऽउद्दिशो दिग्भ्यः स्वाहा" (वा. सं. ६ । १९) इति । रसो वै वसाहोमः । सर्वास्वेवैतद्दिक्षु रसं दधाति । तस्मादयं दिशि दिशि रसो ऽभिगम्यते ॥ ३५ ॥

सायणः

वसाहोमशेषेण दिग्व्याघारणं विधत्ते- अथ यद्वसाहोमस्य परिशिष्यते तेन दिशो व्याघारयतीति 46 । वसाहोमस्य द्रव्यस्य ‘दिशः प्रदिशः’- इत्यादिका मन्त्राः । दिशो व्याघारयतीति श्रुतेरेकैको मन्त्र एकैकदिगर्थः । ‘दिशः’ प्राग्दिग्भ्यः स्वाहा; ‘प्रदिशः’ दक्षिणदिग्भ्यः स्वाहा, ‘आदिशः’ पश्चिमदिग्भ्यः स्वाहा, ‘विदिशः’ उत्तरदिग्भ्यः स्वाहा, ‘उद्दिशः’ उर्ध्वदिग्भ्यः स्वाहा, ‘दिग्भ्यः’ सर्वाभ्यो दिग्भ्यः ‘स्वाहा’ । वसाहोमो ‘रसो वै’ द्रवद्रव्यात्मकः खलु; दिशि दिशि सम्भूतो रसो ऽभिगम्यते ॥ ३५ ॥

Eggeling
  1. With what is left of the offering of gravy, he then sprinkles the quarters, with, ‘The regions,–the fore-regions,–the by-regions,–the intermediate regions,–the upper regions,–to the regions, Hail!’ For the offering of gravy is sap: thus he imbues all the regions with sap, and hence sap is obtained here on earth in every region.

३६

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ पशुᳫँ᳭ स᳘म्मृशति॥
(त्ये) एत᳘र्हि सम्म᳘र्शनस्य कालो᳘ ऽथ य᳘त्पुरा᳘ संमृश᳘ति य᳘ ऽइम᳘ ऽउपति᳘ष्ठन्ते ते व्वि᳘मथिष्यन्त ऽइ᳘ति श᳘ङ्कमानो य᳘द्यु विमाथान्न श᳘ङ्केता᳘त्रैव सं᳘मृशेत्॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ पशुᳫँ᳭ स᳘म्मृशति॥
(त्ये) एत᳘र्हि सम्म᳘र्शनस्य कालो᳘ ऽथ य᳘त्पुरा᳘ संमृश᳘ति य᳘ ऽइम᳘ ऽउपति᳘ष्ठन्ते ते व्वि᳘मथिष्यन्त ऽइ᳘ति श᳘ङ्कमानो य᳘द्यु विमाथान्न श᳘ङ्केता᳘त्रैव सं᳘मृशेत्॥

मूलम् - Weber

अ᳘थ पशुᳫं स᳘म्मृशति॥
एत᳘र्हि सम्म᳘र्शनस्य कालो᳘ ऽथ य᳘त्पुरा समृश᳘ति य᳘ इम᳘ उपति᳘ष्ठन्ते ते वि᳘मथिष्यन्त इ᳘ति श᳘ङ्कमानो य᳘द्यु विमाथान्न श᳘ङ्केता᳘त्रैव स᳘म्मृशेत्॥

मूलम् - विस्वरम्

अथ पशुं सम्मृशति । एतर्हि सम्मर्शनस्य कालः । अथ यत् पुरा सम्मृशति- य ऽइम ऽउपतिष्ठन्ते- ते विमथिष्यन्ते- इति शङ्कमानः । यद्यु विमाथात्- नशङ्केत; अत्रैव सम्मृशेत् ॥ ३६ ॥

सायणः

सम्यग्गतावयवस्य पशोः सम्मर्शनं विधत्ते- अथ पशुं सम्मृशतीति । ‘अथ’ दिग्घोमानन्तरम् ‘एतर्हि’ एतस्मिन् काले पशुसम्मर्शनं कुर्यात् ॥

विशसनानन्तरकालस्यैतस्य व्यवस्थां दर्शयति- अथ यत् पुरा सम्मृशतीति । ‘ये’ च राक्षसाः ‘इमे’ मदीयं यज्ञम् ‘उपतिष्ठन्ते’ प्राप्नुवन्ति, ‘ते’ पशुं ‘विमथिष्यन्ते’ ‘इति’ ‘शङ्कमानः’ चेत्, पूर्वस्मिन्नेव काले सम्मृशेत्; अतथाभूतश्चेत् अत्रैव दिग्घोमानन्तरकाले सम्मृशेत् । अत्र सूत्रम्- “ऐन्द्रः प्राण इति पशुं सम्मृशति अवदाय वेडां प्राक् प्रदानात्”- (का. श्रौ. सू. ६ । १९९-२००) इति ॥ ३६ ॥

Eggeling
  1. Thereupon he touches (what remains of) the victim 47: now is the time for the touching. And whether he has touched it before, fearing ’those (evil spirits) that hover near will tear it about,’ or whether he be not afraid 48 of its being torn about, let him in any case now touch (the victim).

३७

विश्वास-प्रस्तुतिः

(दै) ऐन्द्रः᳘ प्राणः[[!!]]॥
(र्णो ऽ) अ᳘ङ्गे ऽअङ्गे नि᳘दीध्यदैन्द्र᳘ उदानो ऽअङ्गे[[!!]] ऽअ᳘ङ्गे नि᳘धीत ऽइ᳘ति य᳘दङ्गशो व्वि᳘कृत्तो भ᳘वति त᳘त्प्राणोदाना᳘भ्याᳫं᳭ स᳘न्दधाति दे᳘व त्वष्टर्भू᳘रि ते स᳘ᳫं᳘ स मेतु स᳘लक्ष्मा यद्वि᳘षुरूपं भ᳘वाती᳘ति कृत्स्नवृ᳘तमे᳘वैत᳘त्करोति देवत्रा य᳘न्तम᳘वसे स᳘खायो᳘ ऽनु त्वा माता᳘पित᳘रो मदन्त्वि᳘ति तद्य᳘त्रैनम᳘हौषीत्त᳘देनं कृत्स्नं᳘ कृ᳘त्वानुस᳘मस्यति सो ऽस्य कृ᳘त्स्नो ऽमु᳘ष्मिल्ँ लोक᳘ ऽआत्मा᳘ भवति॥

मूलम् - श्रीधरादि

(दै) ऐन्द्रः᳘ प्राणः[[!!]]॥
(र्णो ऽ) अ᳘ङ्गे ऽअङ्गे नि᳘दीध्यदैन्द्र᳘ उदानो ऽअङ्गे[[!!]] ऽअ᳘ङ्गे नि᳘धीत ऽइ᳘ति य᳘दङ्गशो व्वि᳘कृत्तो भ᳘वति त᳘त्प्राणोदाना᳘भ्याᳫं᳭ स᳘न्दधाति दे᳘व त्वष्टर्भू᳘रि ते स᳘ᳫं᳘ स मेतु स᳘लक्ष्मा यद्वि᳘षुरूपं भ᳘वाती᳘ति कृत्स्नवृ᳘तमे᳘वैत᳘त्करोति देवत्रा य᳘न्तम᳘वसे स᳘खायो᳘ ऽनु त्वा माता᳘पित᳘रो मदन्त्वि᳘ति तद्य᳘त्रैनम᳘हौषीत्त᳘देनं कृत्स्नं᳘ कृ᳘त्वानुस᳘मस्यति सो ऽस्य कृ᳘त्स्नो ऽमु᳘ष्मिल्ँ लोक᳘ ऽआत्मा᳘ भवति॥

मूलम् - Weber

ऐन्द्रः᳘ प्राणः᳟॥
अ᳘ङ्गे-अङ्गे नि᳘दीध्यदैन्द्र᳘ उदानो अ᳘ङ्गे-अङ्गे नि᳘धीत इ᳘ति य᳘दङ्गशो विकृत्तो भ᳘वति त᳘त्प्राणोदाना᳘भ्याᳫं सं᳘दधाति दे᳘व त्वष्टर्भू᳘रि ते स᳘ᳫं᳘समेतु स᳘लक्ष्मा यद्वि᳘षुरूपम् भ᳘वाती᳘ति कृत्स्नवृ᳘तमेॗवैत᳘त्करोति देवत्रा य᳘न्तम᳘वसे स᳘खायो᳘ ऽनु त्वा माता᳘पित᳘रो मदन्त्वि᳘ति तद्य᳘त्रैनम᳘हौषीत्त᳘देनं कृत्स्नं᳘ कृॗत्वानुस᳘मस्यतिॗ सो ऽस्य कृॗत्स्नो ऽमु᳘ष्मिंलोक᳘ आत्मा भवति॥

मूलम् - विस्वरम्

“ऐन्द्रः प्राणो ऽअङ्गे ऽअङ्गे निदध्यद् । एन्द्र उदानो ऽअङ्गे ऽअङ्गे निधीतः"- (वा० सं० ६ । २०) इति । यदङ्गशो विकृत्तो भवति- तत् प्राणोदानाभ्यां सन्दधाति । “देवत्वष्टर्भूरि ते संसमेतु सलक्ष्मा यद्विषुरूपं भवाति"- (वा. सं. ६ । २०) इति । कृत्स्नवृतमेवैतत्करोति । “देवत्रा यन्तमवसे सखायो ऽनु त्वा मातापितरो मदन्तु”- (वा. सं. ६ । २०) इति । तद् यत्रैनमहौषीत्-तदेनं कृत्स्नं कृत्वानुसमस्यति । सो ऽस्य कृत्स्नो ऽमुष्मिल्ँ लोक ऽआत्मा भवति ॥ ३७ ॥

सायणः

सम्मर्शने मन्त्रमाह- ऐन्द्रः प्राणो ऽङ्गेङ्गे निदीध्यदिति । इन्द्रः परमात्मा, तत्सम्बन्धी ‘ऐन्द्रः’ ‘प्राणः’ हे पशो ! ते ‘अङ्गे अङ्गे’ सर्वेष्वङ्गेषु ‘निदध्यत्’ नितरां दीप्तो भवतु, दीव्यतु वा । एवं व्यानो ऽपि । अत्र सर्वत्र अपानस्थाने उदानव्यवहारः । हे ‘त्वष्टः’ पशुरूपकर्त्तः ! ‘देव’ “त्वष्टा वै पशूनां मिथुनानां रूपकृत्”- (तै. सं. ६ । ३ । ३ । ११ । १ ।) इति श्रुतेः । ‘ते’ तव पशोः, ‘यत्’ अङ्गं छेदनेन ‘सलक्ष्म’ अत एव ‘विषुरूपं’ ‘भवाति’ भवति, तत् ‘ते’ त्वत्सम्बन्धि ‘सम्’ सम्यक्, पूर्वस्मादपि ‘भूरि’ प्रभूतं ‘समेतु’ सङ्गतो भवतु । पूर्वं यादृशसंवेशेनाविशिष्टं तादृशसंवेशेन विशिष्टं भवेदिति; प्रवृद्धं भवत्वित्यर्थः । किञ्च ‘देवत्रा’ देवेषु मध्ये ‘यन्तं’ गच्छन्तम् । किमर्थम् ? ‘अवसे’ अस्माकं रक्षणाय, देवानां प्रीतये वा यन्तं त्वां सखिप्रभृतयः ‘अनुमदन्तु’ साधु जातमिति कथयन्त्वित्यर्थः ॥

क्रमेण विभज्य व्याचष्टे- यदङ्गशो विकृत्त इत्यादिना । कृत्स्नवृतमेवैतत्करोतीति । ‘एतत्’ पशुद्रव्यम् । यद्वा ‘एतत्’ एतेन “देव त्वष्टः”- इति मन्त्रेण वागुच्चारणसामर्थ्येन कृत्स्नैरङ्गैः वृतं व्याप्तं करोति, ‘यत्र’ यस्मिन् प्रदेशे ‘एनं’ पशुम् ‘अहौषीत्’, तत् तेन ‘एनं कृत्स्नं कृत्वा’ विकलं सकलं कृत्वा ‘अनु समस्यति’ गतप्राणेन त्वगस्थिमांसेन सह प्राणान् अङ्गानि चानुक्रमेण सङ्घट्टनं कृतवान् भवति । तेन ‘सः’ पशुः ‘अमुष्मिन्’ स्वर्गे लोके ‘सात्मा’ सजीवो ‘भवति’ ॥ ३७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे ऽष्टमाध्याये तृतीयं ब्राह्मणम् ॥ (३-८-३) ॥

Eggeling
  1. [Vāj. S. VI, 20], ‘To Indra belongeth the out-breathing: may it attend 49 to every limb! To Indra belongeth the in-breathing: it is attended to in every limb.’ Where it has been cut up limb by limb, there he heals it by means of the out-breathing and in-breathing.–‘O divine Tvashṭr̥, let thine ample (forms) closely unite together, that it be uniform what is of different shape:’ whereby he makes it completely enclosed (in its limbs and flesh). ‘May thy friends, thy father and mother 50, to please thee, joyfully welcome thee going to the gods!’ Thus, having made it whole wherever he has offered (a piece of) it, he afterwards unites it firmly, and that body (self) of it is complete in yonder world.

  1. अग्नीषोमीयो ऽतःपशुः । तद्देवत्यः पशुपुरोडाशः । का० श्रौ० सू० ८-२०३ । २०४ । पशुदेवतायै पुरोडाश एकादशकपालः । का. श्रौ. सू. ६ । १६४ । अग्नीषोमीयोवाविशेषोपदेशात् । का. श्रौ. सू. ६ । १६५ । ↩︎ ↩︎

  2. 199:2 The technical name of this cake to Indra and Agni is paśu-purodāśa (animal-cake). The anuvākyā and yājyā for the chief oblation, are Rig-veda I, 93, 2 and 6 respectively; for the Svishṭakr̥t, III, I, 23, and III, 54, 22; Adv. III, 8, 1; 5, 9. For a similar performance, described in detail, see note on III, 2, 5, 22. ↩︎

  3. 199:3 On the sacrificial essence passing successively from man into the horse, the ox, the goat, and finally into the rice and barley, see I, 2, 3, 6-7. ↩︎

  4. शेन प्र᳘चरति मध्य AB. ↩︎

  5. त्रिः प्रच्यावयतात् इति मूलपाठः । ↩︎

  6. 200:1 The order of proceeding is not quite clear from the context, and seems to have puzzled the later ritualists. From Kāty. VI, 7-8 it would seem that the author of the Sūtras means the performance of the cake-offering to go on simultaneously with the cutting up of the victim (and the cooking of the portions and roasting of the beast). The comm. on Kāty. VI, 7, 29, however, protests against this arrangement as contrary to the order laid down in the Brāhmaṇa; and insists especially on the ‘atha (now)’ at the beginning of this paragraph. This particle is, however, often used in a vague sense; as very frequently when, after sketching the chief course of performance, the author turns back to fill in the details. There seems also a difference of opinion as to the exact meaning of the above direction given by the Adhvaryu to the Samitar after (as would seem) the portions have been cooked. The commentator on Kāty. VI, 8, 1 apparently takes ’triḥ pracyāvaya’ in the sense of ‘shake thrice’ or ’turn thrice.’ Sāyaṇa, on the other hand, explains it as meaning that the Śamitr̥ is to divide the portions into three parts, according to whether they are destined for the chief offerings, or the Svishṭakr̥t, or the by-offerings (?). As the direction cannot refer to the taking out of the portions from the cooking-vessel (ukhā) it would seem that the Śamitar is either to move (shake) the vessel itself, or to stir the contents, perhaps hereby separating the respective portions. The Kāṇva text reads, Triḥ pracyāvayād ity uttame pracyāva uttamārdhe hr̥dayaṁ kurutād iti. The heart, when done, is to be removed from the spit and laid on the portions; whereupon the Adhvaryu pours ghee on the portions (paragraph 8). ↩︎

  7. शमितारँ शास्ति त्रिः प्रच्यावयतात् त्रिः प्रच्युतस्य हृदयमुत्तमं कुरुताद्यत्वापृछाच्छृतँ हविः शमिता ३ रिति शृतमित्येवब्रूतान्न शृतंभगवोनशृतँ हीति । त्रिः प्रच्युते हृदयंप्रवृह्योत्तमंकरोति । शूलं चाभूमौ । जुहापृषदाज्यस्यादायोपनिष्क्रम्य पृछति शृतँ हविः शमिता ३ रिति त्रिरभिक्रामम् । प्रोक्ते तद्देवानामित्याहोपाँशु का. श्रौ. सू. ६ । १७८-१८२ । ↩︎ ↩︎

  8. संतेमन इति हृदयमभिघार्य सर्व्वम् । का. श्रौ. सू. ६ । १८३ । ↩︎

  9. 201:1 The Adhvaryu removes the dish northwards from the fire, takes the portions out of it, puts them into some kind of basket, and performs ‘prāṇadāna’ (p. 196, note 3) on them. ↩︎

  10. पश्वसी व्वपावत् हृत्वा दक्षिणतः प्रतिप्रस्थाता वेद्यां प्लक्षशाखास्ववद्यति । का. श्रौ. सू. ६ । १८४ । ↩︎

  11. 202:1 Or, the Plaksha branches with which the altar was covered on the preceding night. See p. 120, note 3. The Kāṇva text (as Taitt. S. VI, 3, 10, 2) speaks of one Plaksha branch put on the barhis. ↩︎

  12. 202:2 Anūka, of which anūkya is the adjective, means ’the forepart of the spinal column.’ The Kāṇva text reads,–yan mastishko yad anūke majjā. ↩︎

  13. व्वपया चरिष्यन्नुपस्तीर्य हिरण्यमवधाय व्वपामवद्यन्नाह । हिरण्यमवधाय द्विरभिघारण‍ँ सोमे । का. श्रौ. सू. ६ । १४१-१४२ ↩︎

  14. जुहूपमृतोरुपस्तृणीते व्वसाहोमहवन्यां पात्र्यां च मनोतायै हविषो ऽवदीयमानस्यानुब्रूहीत्युक्ते स्रुचोरवद्यति यथोक्तं द्विर्द्विः । अशेषे गुदतृर्ताये । व्वपावद्धिरण्यम् । का. श्रौ. सू. ६ । १८५-१८७ ॥ ↩︎

  15. 203:1 That is, the ladle used (as a substitute for the juhū) for offering the fat-liquor or gravy. See paragraph 20. ↩︎

  16. 203:2 That is, the vessel used for holding the cuttings (samavatta) of the iḍā; also called iḍāpātrī, see part i, p. 219, note 3. ↩︎

  17. 203:3 See p. 198, note 1. ↩︎

  18. 203:4 Thereupon he says, ‘Recite to the manotā (deity) the invitatory prayer for (of) the havis which is being cut in portions (havisho ’vadīyamānasya).’ Kāṇva text; cf. Ait. Br. II, 10.–While the sacrificial portions are being cut into the respective spoons, the Hotr̥ recites the Hymn to Agni, Rig-veda VI, 1, 1-13, beginning, ‘Thou, O wondrous Agni, the first thinker (manotr̥) of this hymn, wert verily the priest. . . .’ From the occurrence of this word manotā, the latter has come to be the technical name both of the hymn itself and of the deity (Agni) to whom it is recited. ↩︎

  19. प्राणः संभवति Sây. नर्थ्या᳘ A pr. m. मर्थ्यः᳘ B. ↩︎

  20. 204:1 Literally, he makes a cutting of the heart (hr̥dayasya-avadyati), that is to say, he puts the entire heart into the juhū as an offering-portion. ↩︎

  21. 204:2 Etasmād dhy ayam ūrdhvaḥ prāṇa uccarati, Kāṇva rec. ↩︎

  22. 204:3 Or, that (comes) after that (tongue): tad dhi tato ’nvak, Kāṇva rec. ↩︎

  23. 204:4 According to Kāty. VI, 7, 6, it is the foremost (or upper) joint (pūrvanaḍaka) of the left fore-foot which is taken. The Kāṇva text has simply ‘atha doshṇaḥ.’ ↩︎

  24. ‘त्र्यङ्गेषु मध्ये’ इति क्व. पा. । ↩︎ ↩︎

  25. ‘अथैकतरायै’ इति पा. ज. । ↩︎ ↩︎

  26. 204:5 See III, 8, 4, 9 seq. ↩︎

  27. 205:1 Literally, the three-limbs, the technical name of the portion for Agni Svishṭakr̥t. ↩︎

  28. 205:2 For ‘athaikacarāyai śroṇeḥ’ the Kāṇva text reads ‘áthā́dhyūdhasaḥ śróṇeḥ,’ of the hip above the udder. ↩︎

  29. ‘विवक्षितत्वाद्’ इति क्व. पा. । ↩︎

  30. 205:3 Vasā, i.e. the melted fat (and juice) mixed with the water in which the portions have been cooked, and forming a rich gravy, offered with the Vasāhomahavanī. ↩︎

  31. 205:4 Literally, ‘mix’–śrī, this root being here, as usual, confounded with śr̥, to cook. ↩︎

  32. 205:5 Esha viva pūshā yo ’yam pavata etasmā u hi gr̥hṇāti, Kāṇva recension. ↩︎

  33. प्रयुतमितिपार्श्वेन सँ सृजत्यसिना वा । का० श्रौ० सू० ६ । १८८ । ↩︎ ↩︎

  34. 206:1 Śāsena vā pārśvena vā, Kāṇva text. ↩︎

  35. 206:2 This forms part of the preceding formula (as subject to the verb ‘may totter’), though the author seems to separate it therefrom, as does Mahīdhara. The meaning of the formula seems to be, ‘May the enemies perish, confounded by (?) the hot vapour!’ ↩︎

  36. 207:1 The St. Petersburg Dict. takes ‘Na-upāveyuḥ’ in the sense of ’they did not fall in therewith; they did not feel inclined for it;’ as above, III, 7, 3, 3. Sāyaṇa explains it by ’nopāgatāḥ’ (MSS. nāpāgatāḥ). ↩︎

  37. 207:2 That is, Aditi, according to the Kāṇva recension. ↩︎

  38. आहेंद्राग्निभ्यां छागस्य हविषो ऽनुब्रूहीति । का. श्रौ. सू. ६ । १९० । आश्राव्याहेंद्राग्निभ्यां छागस्य हविः प्रेष्येति । प्रस्थितमिति च प्रसुते । का. श्रौ. सू. ६ । १९१ । १९२ । ↩︎ ↩︎

  39. 207:3 The yājyā and anuvākyā are I, 93, 3 and 7 respectively. ↩︎

  40. 207:4 Ito vā ayam ūrdhva ucchr̥to raso yam idam imāḥ prajā upajīvanty arvāg divo ’sminn antarikshe, Kāṇva recension. ↩︎

  41. Are we to read: प्राणॗत्यश्चोदनॗत्यश्चा? see २, ५, २, २. ४, १, २,१६. ये मऽउपति Sây. - ब्राह्मणं ॥ ५ ॥ संलग्ननाम B. ↩︎

  42. देवतँ हुत्वाप्रदक्षिणमावृत्त्यजुह्वापृषदाज्यस्योपघ्नन्नाह व्वनस्पतये ऽनुब्रूहीति । का. श्रौ. सू. ६ । १९४ । ↩︎

  43. आश्राव्याह व्वनस्पतये प्रेष्येति । का. श्रौ. सू. ६ । १९५ । ↩︎

  44. 208:1 For the formulas used with this oblation, as well as the Svishṭakr̥t, see Haug, Transl. Ait. Br. pp. 95-96 notes. ↩︎

  45. 208:2 Or, Soma being a tree (plant). ↩︎

  46. हुत्वासमानीय सौविष्टकृतम् । का. श्रौ. सू. ६ । १९६ । ↩︎ ↩︎

  47. 209:1 This touching takes place either before or after the invocation of Iḍā (see I, 8, I, I seq.), whereupon the priests and sacrificer eat their respective portions; the straight gut being the Agnīdh’s, the part above the udder (adhyndhnī) the Hotr̥’s, the kloman (apparently the right lung) the Brahman’s, the pericardium (? purītat) the Adhvaryu’s, and the spleen the sacrificer’s share, while the Iḍā is eaten by all of them. ↩︎

  48. 209:2 Or perhaps,–And as to his touching it before this, (he did so) fearing lest those (evil spirits) that hover near would tear it about; and even if he be not (any longer?) afraid of its being torn about, let him now touch it in any case. The Kāṇva text has simply,– This is the time for touching; but if he think, ‘Those standing about here will meddle with it,’ he may also touch it before: but this is certainly the time for touching. ↩︎

  49. 210:1 The St. Petersburg Dictionary suggests that ’nidīdhyat’ and ’nidhīta’ are probably corruptions of forms from ‘dhā;’ the Taitt. S. (I, 3, 10) having ’ni dedhyat–vi bobhuvat’ instead. Mahīdhara also takes ’nidīdhyat’ from ‘dhī’ in the sense of ‘dhā,’–‘Indra’s out-breathing is infused into every limb; Indra’s in-breathing has been infused into every limb.’ The Kāṇva text has ‘-nidhītaḥ, -nidīdhe.’ ↩︎

  50. 210:2 Rather, ’the mothers (or mother) and fathers.’ The Taitt. S. separates mātā pitaraḥ, the mother and the fathers.’ ↩︎