०१

विश्वास-प्रस्तुतिः

यदा प्रा᳘ह स᳘ञ्ज्ञप्तः पशुरि᳘ति॥
अ᳘थाध्वर्युराह[[!!]] ने᳘ष्टः प᳘त्नीमुदा᳘नये᳘त्युदा᳘नयति ने᳘ष्टा प᳘त्नीं पान्ने᳘जनं बि᳘भ्रतीम्॥

मूलम् - श्रीधरादि

यदा प्रा᳘ह स᳘ञ्ज्ञप्तः पशुरि᳘ति॥
अ᳘थाध्वर्युराह[[!!]] ने᳘ष्टः प᳘त्नीमुदा᳘नये᳘त्युदा᳘नयति ने᳘ष्टा प᳘त्नीं पान्ने᳘जनं बि᳘भ्रतीम्॥

मूलम् - Weber

यदा प्रा᳘ह सं᳘ज्ञप्तः पशुरिति॥
अ᳘थाध्वर्यु᳘राह ने᳘ष्टः प᳘त्नीमुदा᳘नये᳘त्युदा᳘नयति ने᳘ष्टा प᳘त्नीम् पान्ने᳘जनम् बि᳘भ्रतीम्॥

मूलम् - विस्वरम्

यदा प्राह- सञ्ज्ञप्तः पशुरिति । अथाध्वर्युराह- नेष्टः पत्नीमुदानयेति । उदानयति नेष्टा पत्नीं- पान्नेजनं बिभ्रतीम् ॥ १ ॥

सायणः

सञ्ज्ञपनानन्तरप्रयोगमाह- यदा प्राह सञ्ज्ञप्तः पशुरित्यध्वर्युराहेत्यादिना 1 ॥ १ ॥ संज्ञप्तः पशुरितिप्रोक्ते शेतान्नुमुद्दूर्तमित्याहासोमे । का. श्रौ. सू. ६ । ११७ । प्रतिप्रस्थातः

Eggeling
  1. When he (the slaughterer) announces, ‘The victim has been quieted!’ the Adhvaryu says, ‘Neshṭar, lead up the lady!’ The Neshṭr̥ leads up the (sacrificer’s) wife bearing a vessel of water for washing the feet.

०२

विश्वास-प्रस्तुतिः

तां᳘ व्वाचयति॥
न᳘मस्त ऽआ᳘ताने᳘ति यज्ञो वा᳘ ऽआतानो᳘ यज्ञᳫँ᳭ हि᳘ तन्व᳘ते ते᳘न यज्ञ᳘ आतानो᳘ जघनार्द्धो वा᳘ ऽएष᳘ यज्ञ᳘स्य यत्प᳘त्नी ता᳘मेतत्प्रा᳘चीं यज्ञं᳘ प्रसादयिष्य᳘न्भवति त᳘स्मा ऽए᳘वैत᳘द्यज्ञा᳘य नि᳘ह्नुते त᳘थो हैनामेष᳘ यज्ञो न᳘ हिनस्ति त᳘स्मादाह न᳘मस्त ऽआ᳘ताने᳘ति॥

मूलम् - श्रीधरादि

तां᳘ व्वाचयति॥
न᳘मस्त ऽआ᳘ताने᳘ति यज्ञो वा᳘ ऽआतानो᳘ यज्ञᳫँ᳭ हि᳘ तन्व᳘ते ते᳘न यज्ञ᳘ आतानो᳘ जघनार्द्धो वा᳘ ऽएष᳘ यज्ञ᳘स्य यत्प᳘त्नी ता᳘मेतत्प्रा᳘चीं यज्ञं᳘ प्रसादयिष्य᳘न्भवति त᳘स्मा ऽए᳘वैत᳘द्यज्ञा᳘य नि᳘ह्नुते त᳘थो हैनामेष᳘ यज्ञो न᳘ हिनस्ति त᳘स्मादाह न᳘मस्त ऽआ᳘ताने᳘ति॥

मूलम् - Weber

तां᳘ वाचयति॥
न᳘मस्त आताने᳘ति यज्ञो वा᳘ आतानो᳘ यज्ञᳫं हि᳘ तन्व᳘ते ते᳘न यज्ञ᳘ आतानो᳘ जघनार्धो वा᳘ एष᳘ यज्ञ᳘स्य यत्प᳘त्नी ता᳘मेतत्प्रा᳘चीं यज्ञ᳘म् प्रसादयिष्य᳘न्भवति त᳘स्मा एॗवैत᳘द्यज्ञा᳘य नि᳘ह्नुते त᳘थो हैनामेष᳘ यज्ञो न᳘ हिनस्ति त᳘स्मादाह न᳘मस्त आताने᳘ति॥

मूलम् - विस्वरम्

तां वाचयति । “नमस्त ऽआतान”- 1- (वा० सं० ६ । १२) इति । यज्ञो वा ऽआतानः । यज्ञं हि तन्वते- तेन यज्ञ आतानः । जघनार्द्धो वा ऽएष यज्ञस्य- यत्पत्नी । तामेतत् प्राचीं यज्ञं प्रसादयिष्यन् भवति । तस्मा ऽएवैतद्यज्ञाय निह्नुते । तथो हैनामेष यज्ञो न हिनस्ति । तस्मादाह- नमस्त ऽआतानेति ॥ २ ॥

सायणः

तां वाचयतीति 1 ‘तां’ पशुं प्रति आगच्छतीं पत्नीं ‘वाचयति’ “नमस्ते आतान” इति । आसमन्तात् तन्यत इत्यातानो ‘यज्ञः’ हे आतान !- ‘ते’ तुभ्यं ‘नमः’ । यज्ञ ! त्वम् ‘अनर्वा’ असपत्नः सन् प्रेहि । ‘घृतस्य कुल्याः’ जुह्वादिषु बह्वाज्यसम्भवात् । ता विशिनष्टि- ‘ऋतस्य पथ्याः’ इति । पथि भवा पथ्याः । ताः कुल्याः ‘अनु’ [लक्ष्य] ‘उप’ प्रेहीति सम्बन्धः । इत्थं यज्ञं प्रसाध्य, अथापः प्रसाधयति ‘सुपरिविष्टाः’ पात्रेषु परिपूरिताः ‘देवीः द्योतमानाः’ ‘आपः’ ‘शुद्धाः’ स्वभावतः संस्कारेण च विशुद्धाः सत्यो यूयं ‘देवेषु’ विषयभूतेषु पशुम् ‘वोढ्वम्’ अपहत । ‘वयं’ च देवेषु मध्ये सुपरिविष्टाः, देवानां ‘परिवेष्टारः’ । नमस्कारवचनं यज्ञातिक्रमपरिहारत्वेन प्रशंसति- जघनार्द्ध इति । यज्ञस्य जघनार्द्धे पत्नीशालायामवस्थिता पत्न्यपि जघनार्द्ध इत्युच्यते । ‘तां प्राङ् नयति,’ तस्मिन् यज्ञायतने जघननिह्नवनकृता भवति । घृतकुल्याद्युपन्यासः, आगमनानुकूल्यप्रदर्शनायेति व्याचष्टे- साधूपेत्येवैतदाहेति । उपेत्युपसर्गसामर्थ्यात् एतीति क्रिया सम्बध्यते। देवीराप इत्यादिमन्त्रभागस्य तात्पर्यमाह- अप एवैतत्पावयतीति । अत्र ‘शुद्धा वोड्ढ्वम्’- इति शुद्धिविधानात् शुद्धीकरणम् ॥ २ ॥ ३ ॥

Eggeling
  1. He makes her say (Vāg . S. VI, 12), ‘Homage be to thee, O wide-stretched!’–the wide-stretched one, forsooth, is the sacrifice; for they stretch the sacrifice (over the sacrificial ground):

hence the wide-stretched one is the sacrifice. But that wife, forsooth, is the hind-part of the sacrifice, and he wants her, thus coming forward, to propitiate the sacrifice. Thereby, then, she makes amends to that sacrifice, and thus that sacrifice does not injure her: therefore she says, ‘Homage be to thee, O wide-stretched!’

०३

विश्वास-प्रस्तुतिः

(त्य) अनर्व्वा प्रेही᳘ति॥
(त्य) असपत्ने᳘न प्रेही᳘त्ये᳘वैत᳘दाह घृत᳘स्य कुल्या ऽउ᳘प ऽऋत᳘स्य प᳘थ्या ऽअन्वि᳘ति साधूपे᳘त्यै᳘वैत᳘दाह दे᳘वीरापः शुद्धा᳘ व्वोढ्वᳫँ᳭सुपरिविष्टा[[!!]] देवे᳘षु सु᳘परिविष्टा व्वयं᳘ परिव्वेष्टा᳘रो भूयास्मे᳘त्यप᳘ एवैत᳘त्पावयति[[!!]]॥

मूलम् - श्रीधरादि

(त्य) अनर्व्वा प्रेही᳘ति॥
(त्य) असपत्ने᳘न प्रेही᳘त्ये᳘वैत᳘दाह घृत᳘स्य कुल्या ऽउ᳘प ऽऋत᳘स्य प᳘थ्या ऽअन्वि᳘ति साधूपे᳘त्यै᳘वैत᳘दाह दे᳘वीरापः शुद्धा᳘ व्वोढ्वᳫँ᳭सुपरिविष्टा[[!!]] देवे᳘षु सु᳘परिविष्टा व्वयं᳘ परिव्वेष्टा᳘रो भूयास्मे᳘त्यप᳘ एवैत᳘त्पावयति[[!!]]॥

मूलम् - Weber

अनर्वा प्रेही᳘ति॥
असपत्ने᳘न प्रेही᳘त्येॗवैत᳘दाह घृत᳘स्य कुल्या उ᳘प ऋत᳘स्य प᳘थ्या अन्वि᳘ति साधूपे᳘त्येॗवैत᳘दाह दे᳘वीरापः शुद्धा᳘ वोढ्वᳫं सु᳘परिविष्टा देवे᳘षु सु᳘परिविष्टा वय᳘म् परिवेष्टा᳘रो भूयास्मे᳘त्यप᳘ एॗवैत᳘त्पावयति॥

मूलम् - विस्वरम्

“अनर्वा प्रेहि” (वा० सं० ६ । १२) इति । असपत्नेन प्रेहीत्येवैतदाह । “घृतस्य कुल्या ऽउपऋतस्य पथ्या ऽअनु” (वा० सं ६ । १२ ।) इति । साधूपेत्येवैतदाह । “देवीरापः शुद्धा वोढ्वं सुपरिविष्टा देवेषु सुपरिविष्टा वयं परिवेष्टारो भूयास्म” (वा० सं ६ । १३) इति । अप एवैतत्पावयति ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘Advance, unresisted!’ whereby she means to say, ‘Advance on (a way) free from injury!’ ‘Unto the rivers of ghee, along the paths of sacred truth!’ whereby she means to say, ‘Unto good.’ [Vāj. S. VI, 13], ‘Ye divine, pure waters, carry ye (the sacrifice) to the gods, well-prepared! May we be well-prepared preparers!’ Thereby she purifies the water.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ पशोः᳘ प्राणा᳘नद्भिः पत्न्यु᳘पस्पृशति॥
तद्य᳘दद्भिः᳘ प्राणा᳘नुपस्पृश᳘ति जीवं वै᳘ देवा᳘नाᳫं᳭ हवि᳘रमृ᳘तममृ᳘तानाम᳘थैत᳘त्पशुं᳘ घ्नन्ति य᳘त्सञ्ज्ञप᳘यन्ति य᳘द्विशा᳘सत्या᳘पो वै᳘ प्राणास्त᳘दस्मिन्नेता᳘न्प्रा᳘णा᳘न्दधाति त᳘थैत᳘ज्जीव᳘मेव᳘ देवा᳘नाᳫं᳭ हविर्भ᳘वत्यमृ᳘तममृ᳘तानाम्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ पशोः᳘ प्राणा᳘नद्भिः पत्न्यु᳘पस्पृशति॥
तद्य᳘दद्भिः᳘ प्राणा᳘नुपस्पृश᳘ति जीवं वै᳘ देवा᳘नाᳫं᳭ हवि᳘रमृ᳘तममृ᳘तानाम᳘थैत᳘त्पशुं᳘ घ्नन्ति य᳘त्सञ्ज्ञप᳘यन्ति य᳘द्विशा᳘सत्या᳘पो वै᳘ प्राणास्त᳘दस्मिन्नेता᳘न्प्रा᳘णा᳘न्दधाति त᳘थैत᳘ज्जीव᳘मेव᳘ देवा᳘नाᳫं᳭ हविर्भ᳘वत्यमृ᳘तममृ᳘तानाम्॥

मूलम् - Weber

अ᳘थ पशोः᳘ प्राणा᳘नद्भिः पत्न्यु᳘पस्पृशति॥
तद्य᳘दद्भिः᳘ प्राणा᳘नुपस्पृश᳘ति जीवं वै᳘ देवा᳘नाᳫं हवि᳘रमृ᳘तममृ᳘तानाम᳘थैत᳘त्पशुं᳘ घ्नन्ति य᳘त्संज्ञप᳘यन्ति य᳘द्विशा᳘सत्या᳘पो वै᳘ प्राणास्त᳘दस्मिन्नेता᳘न्प्राणा᳘न्दधाति त᳘थैत᳘ज्जीव᳘मेव᳘ देवा᳘नाᳫं हविर्भ᳘वत्यमृ᳘तममृ᳘तानाम्॥

मूलम् - विस्वरम्

अथ पशोः प्राणानद्भिः पत्न्युपस्पृशति । तद्यदद्भिः प्राणानुपस्पृशति । जीवं वै देवानां हविः, अमृतममृतानाम् । अथैतत् पशुं घ्नन्ति । यत् सञ्ज्ञपयन्ति, यद्विशासति । आपो वै प्राणाः । तदस्मिन्नेतान् प्राणान् दधाति । तथैतज्जीवमेव देवानां हविर्भवति, अमृतममृतानाम् ॥ ४ ॥

सायणः

अथ पशोरित्यादि 2 । प्राणमुखनासाचक्षुरादीनि अद्भिः पत्नी ‘उपस्पृशति’ प्रक्षालयेदित्यर्थः । अपामुपस्पर्शनं पशोः सजीवत्वकरणात्मना प्रशंसति- जीवो वै देवानामित्यादिना । पदद्वयं व्याचष्टे- अमृतममृतानामिति । देवाः अमृताः अमृतधर्माणः, जीवनमप्यमृतं मृतिरहितम्; अतो योग्यत्वाद् देवानां जीवनं युज्यते । संज्ञपनविशसने उभे अपि हननात्मके, अतो हेतोरस्य पुनः प्राणापेक्षत्वात्, अपां च “आपोमयः प्राणः”- इति श्रुतेः प्राणरूपत्वात्, छिद्रेष्वपां प्रक्षेप एव प्राणनिधारणमित्यर्थः । ततश्च देवानां सजीवं हविर्दत्तं भवति ॥ ४ ॥

Eggeling
  1. Thereupon the wife cleanses with the water the (openings of the) vital airs of the victim. The reason why she thus cleanses with water the (openings of the) vital airs is this: the food of the gods is living, is immortal (ambrosia) for the immortals; but in quieting and cutting up that victim they kill it. Now the vital airs are water; hence she now puts into it those vital airs, and thus that food of the gods becomes truly living, becomes immortal for the immortals.

०५

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ यत्प᳘त्न्युपस्पृश᳘ति॥
यो᳘षा वै प᳘त्नी यो᳘षायै वा᳘ ऽइमाः᳘ प्रजाः प्र᳘जायन्ते त᳘देनमेत᳘स्यै यो᳘षायै प्र᳘जनयति त᳘स्मात्पत्न्यु᳘पस्पृशति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ यत्प᳘त्न्युपस्पृश᳘ति॥
यो᳘षा वै प᳘त्नी यो᳘षायै वा᳘ ऽइमाः᳘ प्रजाः प्र᳘जायन्ते त᳘देनमेत᳘स्यै यो᳘षायै प्र᳘जनयति त᳘स्मात्पत्न्यु᳘पस्पृशति॥

मूलम् - Weber

अ᳘थ यत्प᳘त्न्युपस्पृश᳘ति॥
यो᳘षा वै प᳘त्नी यो᳘षायै वा᳘ इमाः᳘ प्रजाः प्र᳘जायन्ते त᳘देनमेत᳘स्यै यो᳘षायै प्र᳘जनयति त᳘स्मात्पत्न्यु᳘पस्पृशति॥

मूलम् - विस्वरम्

अथ यत्पत्न्युपस्पृशति । योषा वै पत्नी । योषायै वा ऽइमाः प्रजाः प्रजायन्ते । तद्एनमेतस्यै योषायै प्रजनयति । तस्मात्पत्न्युपस्पृशति ॥ ५ ॥

सायणः

अपामुपस्पर्शनं प्रशस्य, पत्नीकर्त्तृकत्वं प्रशंसति- अथ यत् पत्न्युपस्पृशति; योषा वा इत्यादिना ॥ ५॥

Eggeling
  1. Then as to why it is the wife that cleanses. The wife is a woman, and from woman progeny is born here on earth; thus he causes that (creature) to be born from that woman; and therefore the wife cleanses (the victim).

०६

विश्वास-प्रस्तुतिः

सो᳘पस्पृशति॥
व्वा᳘चं ते शुन्धामी᳘ति मु᳘खं प्राणं᳘ ते शुन्धामी᳘ति ना᳘सिके च᳘क्षुस्ते शुन्धामीत्य᳘क्ष्यौ श्रो᳘त्रं ते शुन्धामी᳘ति क᳘र्णौ ना᳘भिं ते शुन्धामी᳘ति᳘ यो ऽयम᳘निरुक्तः प्राणो मे᳘ढ्रं ते शुन्धामी᳘ति वा पायुं᳘ ते शुन्धामी᳘ति[[!!]] यो ऽयं᳘ पश्चा᳘त्प्राणस्त᳘त्प्राणा᳘न्दधाति तत्स᳘मीरयत्य᳘थसᳫँ᳭हृ᳘त्य पद᳘श्चरि᳘त्रांस्ते शुन्धामी᳘ति पद्भिर्वै प्र᳘तितिष्ठति प्र᳘तिष्ठित्या ऽएव त᳘देनं प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

सो᳘पस्पृशति॥
व्वा᳘चं ते शुन्धामी᳘ति मु᳘खं प्राणं᳘ ते शुन्धामी᳘ति ना᳘सिके च᳘क्षुस्ते शुन्धामीत्य᳘क्ष्यौ श्रो᳘त्रं ते शुन्धामी᳘ति क᳘र्णौ ना᳘भिं ते शुन्धामी᳘ति᳘ यो ऽयम᳘निरुक्तः प्राणो मे᳘ढ्रं ते शुन्धामी᳘ति वा पायुं᳘ ते शुन्धामी᳘ति[[!!]] यो ऽयं᳘ पश्चा᳘त्प्राणस्त᳘त्प्राणा᳘न्दधाति तत्स᳘मीरयत्य᳘थसᳫँ᳭हृ᳘त्य पद᳘श्चरि᳘त्रांस्ते शुन्धामी᳘ति पद्भिर्वै प्र᳘तितिष्ठति प्र᳘तिष्ठित्या ऽएव त᳘देनं प्र᳘तिष्ठापयति॥

मूलम् - Weber

सो᳘पस्पृशति॥
वा᳘चं ते शुन्धामी᳘ति मु᳘खम् प्राणं᳘ ते शुन्धामी᳘ति ना᳘सिके च᳘क्षुस्ते शुन्धामीत्य᳘क्ष्यौ श्रो᳘त्रं ते शुन्धामी᳘ति क᳘र्णौ ना᳘भिं ते शुन्धामी᳘तिॗ यो ऽयम᳘निरुक्तः प्राणो मे᳘ढ्रं ते शुन्धामी᳘ति वा पायुं᳘ ते शुन्धामी᳘तिॗ यो ऽय᳘म् पश्चा᳘त्प्राणस्त᳘त्प्राणा᳘न्दधाति तत्स᳘मीरयत्य᳘थ संहृ᳘त्य 3 पद᳘श्चरि᳘त्रांस्ते शुन्धामी᳘ति पद्भिर्वै प्र᳘तितिष्ठति प्र᳘तिष्ठित्या एव त᳘देनम् प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

सोपस्पृशति । “वाचं ते शुन्धामि”- (वा. सं. ६ । १४) इति मुखम् । “प्राणं ते शुन्धामि"- (वा. सं. ६ । १४) इति नासिके । “चक्षुस्ते शुन्धामि”- (वा. सं. ६ । १४) इति अक्ष्यौ । “श्रोत्रं ते शुन्धामि"- (वा. सं. ६ । १४) इति कर्णौ । “नाभिं ते शुन्धामि" (वा. सं. ६ । १४) इति- यो ऽयमनिरुक्तः प्राणः । “मेढ्रं ते शुन्धामि-” (वा. सं. ६ । १४) इति वा, “पायुं ते शुन्धामि”- (वा. सं. ६ । १४) इति- यो ऽयं पश्चात्प्राणः । तत् प्राणान् दधाति । तत् समीरयति । अथ संहृत्य पदः- “चरित्रांस्ते शुन्धामि"- (वा. सं. ६ । १४) इति । पद्भिर्वै प्रतितिष्ठति । प्रतिष्ठित्या ऽएव । तदेनं प्रतिष्ठापयति ॥ ६ ॥

सायणः

अवयवावयविभेदेनोपस्पर्शनमन्त्रभागमाह- सोपस्पृशतीति 2वाचं ते शुन्धामीति मुखमिति । ‘मुखं’ वदनम् । हे पशो ! ‘ते’ ‘प्राणं’ प्राणनम्, नासिकाभ्यामुत्पद्यमानं प्राणवायुम् ‘शुन्धामि’ विशुद्धं करोमि एवमुत्तरत्रापि योज्यम् । चक्षुःश्रोत्रे दर्शनश्रवणशक्तीन्द्रिये । “नाभिं ते शुन्धामि”- इति ‘अनिरुक्तम्’ अनभिव्यक्तप्राणम्; अथवा किमनिरुक्तेन प्राणेन ? “मेढ्रं ते”- इति ब्रूयात् । ‘पश्चात्प्राणः’ अधस्ताद् वर्त्तमानो ऽपानः, तं तत्र पायौ स्थापितवान् भवति । ‘अथ संहृत्य पदः’ पादानेकीकृत्य “चरित्रांस्ते शुन्धामि”- ‘इति’ पादानपि शोधयेत् । पादशोधनं शंसति- पद्भिर्वा इति ॥ ६ ॥

Eggeling
  1. With (Vāj. S. VI, 14) ‘Thy speech I cleanse’ she wipes the mouth; with ‘Thy breath I cleanse,’ the nostrils; with ‘Thine eye I cleanse,’ the eyes; with ‘Thine organ of hearing I cleanse,’ the

ears; with ‘Thy navel I cleanse,’ that mysterious (opening of a) vital air; or with ‘Thy sexual organ I cleanse;’ with ‘Thy hind-part I cleanse,’ that (opening of a) vital air behind. Thus she puts the vital airs into it, revives it. Thereupon, holding the legs together, (she wipes them) with ‘Thy feet I cleanse;’ for it is on its feet chat it stands firmly; she thus makes it stand (on its feet) for the sake of a firm position.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ या आ᳘पः परिशिष्य᳘न्ते॥
(न्ते ऽर्धा᳘) अर्द्धा᳘ वा या᳘वत्यो वा ता᳘भिरेनं य᳘जमानश्च शीर्षतो ऽग्रे᳘ ऽनुषिञ्चतस्त᳘त्प्राणां᳘श्चै᳘वास्मिंस्तत्तौ᳘ धत्तस्त᳘ च्चैनम᳘तः स᳘मीरयतः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ या आ᳘पः परिशिष्य᳘न्ते॥
(न्ते ऽर्धा᳘) अर्द्धा᳘ वा या᳘वत्यो वा ता᳘भिरेनं य᳘जमानश्च शीर्षतो ऽग्रे᳘ ऽनुषिञ्चतस्त᳘त्प्राणां᳘श्चै᳘वास्मिंस्तत्तौ᳘ धत्तस्त᳘ च्चैनम᳘तः स᳘मीरयतः॥

मूलम् - Weber

अ᳘थ या आ᳘पः परिशिष्य᳘न्ते॥
अर्धा᳘ वा या᳘वत्यो वा ता᳘भिरेनं य᳘जमानश्च शीर्षतो ऽग्रे᳘ ऽनुषिञ्चतस्त᳘त्प्राणां᳘श्चैवास्मिंस्तत्तौ᳘ धत्तस्त᳘च्चैनम᳘तः स᳘मीरयतः॥

मूलम् - विस्वरम्

अथ या आपः परिशिष्यन्ते- अर्द्धा वा, यावत्यो वा । ताभिरेनं यजमानश्च शीर्षतो ऽग्रे ऽनुषिञ्चतः । तत् प्राणांश्चैवास्मिंस्तत्तौ धत्तः । तच्चैनमतः समीरयतः ॥ ७ ॥

सायणः

अथ या आपः परिशिष्यन्त इति । परिशिष्टाभिः अर्द्धाभिल्पीयसीभिर्वा यजमानः पत्नी च पशोः शीर्षाग्रं प्रथमं तदारभ्य निषिञ्चतः ‘तौ’ पत्नीयजमानौ ‘तत्’ तेन निषिञ्चनेन ‘पशोः’ ‘प्राणान्’ ‘धत्तः’ धारयतः । ‘तत् तेन’ ‘एनं’ पशुम् ‘अतः’ अस्मात् स्थानात् ‘समीरयतः’ ॥ ७ ॥

Eggeling
  1. With one half or the whole of the water that is left, he (the Adhvaryu) and the Sacrificer 4 then sprinkle it, beginning from the head; thereby they put those vital airs into it, and revive it (beginning) from that part.

०८

विश्वास-प्रस्तुतिः

(स्त) तद्य᳘त्क्रूरीकुर्व्व᳘न्ति॥
य᳘दास्थाप᳘यन्ति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयतस्त᳘दद्भिः स᳘न्धत्तः॥

मूलम् - श्रीधरादि

(स्त) तद्य᳘त्क्रूरीकुर्व्व᳘न्ति॥
य᳘दास्थाप᳘यन्ति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयतस्त᳘दद्भिः स᳘न्धत्तः॥

मूलम् - Weber

तद्य᳘त्क्रूरीकुर्व᳘न्ति॥
य᳘दास्थापयन्ति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयतस्त᳘दद्भिः सं᳘धत्तः॥

मूलम् - विस्वरम्

तद् यत् क्रूरीकुर्वन्ति- यदास्थापयन्ति । शान्तिरापः । तदद्भिः शान्त्या शमयतः, तदद्भिः । सन्धत्तः ॥ ८ ॥

सायणः

तद् यत् क्रूरीकुर्वन्तीति । ‘आस्थापयन्ति’ सञ्ज्ञपयन्तीत्यर्थः ॥ ८ ॥

Eggeling
  1. Thus, wherever they wound it 5, wherever they hurt it–water being a means of soothing–there they soothe it by that means of soothing, water, there they heal it with water.

०९

विश्वास-प्रस्तुतिः

(स्ता) ताव᳘नुषिञ्चतः॥
(तो) म᳘नस्त ऽआ᳘प्यायतां व्वा᳘क्त ऽआ᳘प्यायतां प्राण᳘स्त[[!!]] ऽआ᳘प्यायतां च᳘क्षुस्त ऽआ᳘प्यायताᳫं᳭ श्रो᳘त्रं त ऽआ᳘प्यायतामि᳘ति त᳘त्प्राणा᳘न्धत्तस्तत्स᳘मीरयतो य᳘त्ते क्रू᳘रं यदा᳘स्थितं त᳘त्त ऽआ᳘प्यायतां नि᳘ष्ट्यायतामि᳘ति॥

मूलम् - श्रीधरादि

(स्ता) ताव᳘नुषिञ्चतः॥
(तो) म᳘नस्त ऽआ᳘प्यायतां व्वा᳘क्त ऽआ᳘प्यायतां प्राण᳘स्त[[!!]] ऽआ᳘प्यायतां च᳘क्षुस्त ऽआ᳘प्यायताᳫं᳭ श्रो᳘त्रं त ऽआ᳘प्यायतामि᳘ति त᳘त्प्राणा᳘न्धत्तस्तत्स᳘मीरयतो य᳘त्ते क्रू᳘रं यदा᳘स्थितं त᳘त्त ऽआ᳘प्यायतां नि᳘ष्ट्यायतामि᳘ति॥

मूलम् - Weber

ताव᳘नुषिञ्चतः॥
म᳘नस्त आ᳘प्यायतां वा᳘क्त आ᳘प्यायताम् प्रा᳘णस्त आ᳘प्यायतां च᳘क्षुस्त आ᳘प्यायतां श्रो᳘त्रं त आ᳘प्यायतामि᳘ति त᳘त्प्राणा᳘न्धत्तस्तत्स᳘मीरयतो य᳘त्ते क्रू᳘रं यदा᳘स्थितं त᳘त्त आ᳘प्यायतां नि᳘ष्ट्यायतामि᳘ति॥

मूलम् - विस्वरम्

तावनुषिञ्चतः । “मनस्त ऽआप्यायतां, वाक्त ऽआप्यायतां, प्राणस्त ऽआप्यायतां, चक्षुस्त ऽआप्यायतां, श्रोत्रं त ऽआप्यायताम्”- (वा. सं. ६ । १५) - इति । तत् प्राणान् धत्तः, तत् समीरयतः । “यत्ते क्रूरं यदास्थितं तत्त ऽआप्यायतां निष्ट्यायताम्”- (वा. सं. ६ । १५)- इति ॥ ९ ॥

सायणः

तावनुषिञ्चत इत्यादि । तदेव क्रूरीकरणं ‘तौ’ पत्नीयजमानौ ‘अनुषिञ्चतः’ शिरसि अवशिष्टोदकस्यैकदेशेनानुषिञ्चनं कुर्याताम् । शिरस्सेचनमन्त्रमाह- मनस्त इति 6 । मन आदिपञ्चकस्य शिरःस्थानात् तैः पञ्चभिर्मन्त्रैः शिरो निषिञ्चत । तत्प्राणान्धत्तस्तत्समीरयत इत्याप्यायनप्रयोजनाभिधानम् । इतराङ्गनिषेकमन्त्रमाह- यत् क्रूरं ते यदास्थितमिति । “यत्ते क्रूरम्” 7- इत्यस्य व्याख्यानं ‘यदास्थितम्’ इति । आस्था सञ्ज्ञप्तिः, इत्युक्तम् । न हि सञ्ज्ञपनादन्यत् क्रूरमस्ति । ‘तत् ते आप्यायताम्’, को ऽर्थः ? ‘निष्ट्यायताम्’ संहतं भवत्वित्यर्थः ॥ ९ ॥

Eggeling
  1. They sprinkle with (Vāj. S. VI, 15), ‘May thy mind grow full! may thy speech grow full! may thy breath grow full! may thine eye grow full! may thine ear grow full!’ Thus they put the vital airs into it and revive it: ‘Whatever is sore, whatever hurt in thee, may that fill up and become firm.’

१०

विश्वास-प्रस्तुतिः

तद्य᳘त्क्रूरीकुर्व्व᳘न्ति॥
य᳘दास्थाप᳘यन्ति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयतस्त᳘दद्भिः स᳘न्धत्तस्त᳘त्ते शुध्यत्वि᳘ति तन्मे᳘ध्यं कुरुतः शम᳘होभ्य इ᳘ति जघ᳘नेन पशुं नि᳘नयतः॥

मूलम् - श्रीधरादि

तद्य᳘त्क्रूरीकुर्व्व᳘न्ति॥
य᳘दास्थाप᳘यन्ति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयतस्त᳘दद्भिः स᳘न्धत्तस्त᳘त्ते शुध्यत्वि᳘ति तन्मे᳘ध्यं कुरुतः शम᳘होभ्य इ᳘ति जघ᳘नेन पशुं नि᳘नयतः॥

मूलम् - Weber

तद्य᳘त्क्रूरीकुर्व᳘न्ति॥
य᳘दास्थाप᳘यन्ति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयतस्त᳘दद्भिः सं᳘धत्तस्त᳘त्ते शुध्यत्वि᳘ति तन्मे᳘ध्यं कुरुतः शस᳘होभ्य इ᳘ति जघ᳘नेन पशुं नि᳘नयतः॥

मूलम् - विस्वरम्

तद् यत् क्रूरीकुर्वन्ति- यदास्थापायन्ति । शान्तिरापः । तदद्भिः शान्त्या शमयतः । तदद्भिः सन्धत्तः । “तत्ते शुध्यतु”- (वा. सं. ६ । १५)- इति । तन्मेध्यं कुरुत: । “शमहोभ्यः"- (वा. सं. ६ । १५) - इति । जघनेन पशुं निनयतः ॥ १० ॥

सायणः

तद्यत् क्रूरीकुर्वन्तीति । ‘ते’ तव ‘तत्’ निष्ठितमङ्गं ‘शुद्ध्यतु’ मेध्यं भवतु ॥ १० ॥

Eggeling
  1. Thus, wherever they wound it, wherever they hurt it–water being a means of soothing–they soothe it by that means of soothing, water, there

they heal it with water: ‘May that become pure in thee!’ thereby they render it sacrificially pure. With ‘Auspicious be the days!’ they pour out (the remaining water) behind the victim.

११

विश्वास-प्रस्तुतिः

(स्त) तद्य᳘त्क्रूरीकुर्व्व᳘न्ति॥
य᳘दास्थाप᳘यन्ति ने᳘देतदन्व᳘शान्तान्यहोरात्राण्यसन्नि᳘ति[[!!]] त᳘स्माच्छम᳘होभ्य इ᳘ति जघ᳘नेन पशुं नि᳘नयतः॥

मूलम् - श्रीधरादि

(स्त) तद्य᳘त्क्रूरीकुर्व्व᳘न्ति॥
य᳘दास्थाप᳘यन्ति ने᳘देतदन्व᳘शान्तान्यहोरात्राण्यसन्नि᳘ति[[!!]] त᳘स्माच्छम᳘होभ्य इ᳘ति जघ᳘नेन पशुं नि᳘नयतः॥

मूलम् - Weber

तद्य᳘त्क्रूरीकुर्व᳘न्ति॥
य᳘दास्थाप᳘यन्ति ने᳘दतदन्व᳘शान्तान्यहोरात्राण्य᳘सन्नि᳘ति 8 त᳘स्माछम᳘होभ्य इ᳘ति जघ᳘नेन पशुं नि᳘नयतः॥

मूलम् - विस्वरम्

तद् यत् क्रूरीकुर्वन्ति- यदास्थापयन्ति । नेदेतदन्वशान्तान्यहोरात्राण्यसन्निति । तस्माच्छमहोभ्य इति । जघनेन पशुं निनयतः ॥ ११ ॥

सायणः

तद्यत्क्रूरीकुर्वन्तीति । पशोर्जघनार्द्धस्य समन्त्रकं निनयनं विधत्ते- शमहोभ्य इतीति । जघनेनेति । पशोर्जघनप्रदेशं निनयतः स्थानभेदेन मन्त्रभेदं सूत्रकार आह- “शेषेण यजमानश्च शिरःप्रभृत्यनुषिञ्चतः, मनस्त इति शिरः, यत् ते क्रूरमित्यङ्गानि, शमहोभ्यः इति पश्चात् पशोर्निषिञ्चतः” 6- इति (का. श्रौ. सू. १२५ १२७) । मन्त्रे अहर्विषयं यत्सुखप्रार्थनमस्ति, तत्र कारणमाह- यत्क्रूरीकुर्वन्तीति ॥ ११ ॥

Eggeling
  1. Thus, wherever they wound it, wherever they hurt it,–lest thereafter the days and nights should be inauspicious 9,–they pour out (the water) behind the victim with, ‘Auspicious be the days.’

१२

विश्वास-प्रस्तुतिः

(तो᳘ ऽथो) अ᳘थोत्तानं᳘ प᳘शुं पर्य्यस्यन्ति[[!!]]॥
स तृ᳘णमन्त᳘र्द्दधात्यो᳘षधे त्रा᳘यस्वे᳘ति व्व᳘ज्रो वा᳘ ऽअसिस्त᳘थो हैनमेष व्वज्रो ऽसिर्न᳘ हिनस्त्य᳘थासि᳘नाभिनि᳘दधाति स्व᳘धिते᳘ मैनᳫं᳭ हिᳫं᳭सीरि᳘ति व्व᳘ज्रो वा᳘ ऽअसिस्त᳘थो हैनमेष व्व᳘ज्रो ऽसिर्न᳘ हिन᳘स्ति॥

मूलम् - श्रीधरादि

(तो᳘ ऽथो) अ᳘थोत्तानं᳘ प᳘शुं पर्य्यस्यन्ति[[!!]]॥
स तृ᳘णमन्त᳘र्द्दधात्यो᳘षधे त्रा᳘यस्वे᳘ति व्व᳘ज्रो वा᳘ ऽअसिस्त᳘थो हैनमेष व्वज्रो ऽसिर्न᳘ हिनस्त्य᳘थासि᳘नाभिनि᳘दधाति स्व᳘धिते᳘ मैनᳫं᳭ हिᳫं᳭सीरि᳘ति व्व᳘ज्रो वा᳘ ऽअसिस्त᳘थो हैनमेष व्व᳘ज्रो ऽसिर्न᳘ हिन᳘स्ति॥

मूलम् - Weber

अ᳘थोत्तान᳘म् पशुम् प᳘र्यस्यन्ति॥
स तृ᳘णमन्त᳘र्दधात्योषधे त्रा᳘यस्वे᳘ति व᳘ज्रो वा᳘ असिस्त᳘थो हैनमेष वज्रो ऽसिर्न᳘ हिनस्त्य᳘थासि᳘नाभिनि᳘दधाति स्व᳘धितेॗ मैनᳫं हिंसीरि᳘ति व᳘ज्रो वा᳘ असिस्त᳘थो हैनमेष व᳘ज्रो ऽसिर्न᳘ हिनस्ति॥

मूलम् - विस्वरम्

अथोत्तानं पशुं पर्य्यस्यन्ति । स तृणमन्तर्द्दधाति । “ओषधे त्रायस्व”- (वा. सं. ६ । १५)- इति । वज्रो वा ऽअसिः । तथो हैनमेष वज्रो ऽसिर्न हिनस्ति । अथासिनाभिनिदधाति- “स्वधिते मैनं हिंसीः”- (वा. सं. ६ । १५)- इति । वज्रो वा ऽअसिः । तथो हैनमेष वज्रो ऽसिर्न हिनस्ति ॥ १२ ॥

सायणः

विशसनप्रयोगमाह- अथोत्तानमिति 6असिनाभिनिदधाति । अत्रासेः कर्मभूतस्य कारणत्वोपचारेण तृतीया ॥ १२ ॥

Eggeling
  1. Thereupon they turn the victim over so as to lie on its back. He (the Adhvaryu) puts the (other) stalk of grass thereon, with, ‘O plant, protect!’ for the knife is a thunderbolt, and thus that thunderbolt, the knife, does not injure it (the victim). He then applies the edge of the knife to it (and cuts through it) with, ‘Injure it not, O blade!’ for the knife is a thunderbolt, and thus that thunderbolt, the knife, does not injure it.

१३

विश्वास-प्रस्तुतिः

सा या प्र᳘ज्ञाता᳘श्रिः॥
(स्त᳘) त᳘याभिनि᳘दधाति सा हि य᳘जुष्कृता मे᳘ध्या तद्यद᳘ग्रं तृ᳘णस्य त᳘त्सव्ये᳘ पाणौ᳘ कुरुते᳘ ऽथ यद्बु᳘ध्नं त᳘द्दक्षिणेना᳘दत्ते॥

मूलम् - श्रीधरादि

सा या प्र᳘ज्ञाता᳘श्रिः॥
(स्त᳘) त᳘याभिनि᳘दधाति सा हि य᳘जुष्कृता मे᳘ध्या तद्यद᳘ग्रं तृ᳘णस्य त᳘त्सव्ये᳘ पाणौ᳘ कुरुते᳘ ऽथ यद्बु᳘ध्नं त᳘द्दक्षिणेना᳘दत्ते॥

मूलम् - Weber

सा या प्र᳘ज्ञाता᳘श्रिः॥
त᳘याभिनि᳘दधाति सा हि य᳘जुष्कृता मे᳘ध्या तद्यद᳘ग्रं तृ᳘णस्य त᳘त्सव्ये᳘ प्राणौ᳘ कुरुते᳘ ऽथ यद्बु᳘ध्नं त᳘द्दक्षिणेना᳘दत्ते॥

मूलम् - विस्वरम्

सा या प्रज्ञाताश्रिस्तयाभिनिदधाति । सा हि यजुष्कृता मेध्या । तद् यदग्रं तृणस्य- तत्सव्ये पाणौ कुरुते । अथ यद् बुध्नं- तद् दक्षिणेनादत्ते ॥ १३ ॥

सायणः

सा या प्रज्ञाताश्रिरिति । ‘या’ पूर्वं पश्वञ्जनायासीत्, याभिर्निदध्यात्, सा यथा पशोरुपरि भवति, तथा स्थापयित्वा विन्द्यादभिनिधानं छेदनोपलक्षणतया भवितव्यमिति । अत्र हेतुमाह- सा हि यजुष्कृतेति ॥ १३॥

Eggeling
  1. He applies that approved edge of his, for that has been made sacrificially pure by a text 10. That which is the top part of the stalk he puts in his left hand, and that which is the bottom part he takes with his right hand.

१४

विश्वास-प्रस्तुतिः

स य᳘त्राच्छ्य᳘ति॥
य᳘त एतल्लो᳘हितमुत्प᳘तति त᳘दुभय᳘तो ऽनक्ति र᳘क्षसां भा᳘गो ऽसी᳘ति र᳘क्षसा᳘ᳫं᳘ ह्येष᳘ भागो यद᳘सृक्॥

मूलम् - श्रीधरादि

स य᳘त्राच्छ्य᳘ति॥
य᳘त एतल्लो᳘हितमुत्प᳘तति त᳘दुभय᳘तो ऽनक्ति र᳘क्षसां 11 भा᳘गो ऽसी᳘ति र᳘क्षसा᳘ᳫं᳘ ह्येष᳘ भागो यद᳘सृक्॥

मूलम् - Weber

स य᳘त्राछ्य᳘ति॥
य᳘त एतल्लो᳘हितमुत्प᳘तति त᳘दुभय᳘तो ऽनक्ति र᳘क्षसाम् भा᳘गो ऽसी᳘ति र᳘क्षसाॗᳫंॗ ह्येष᳘ भागो यद᳘सृक्॥

मूलम् - विस्वरम्

स यत्राच्छ्यति, यत एतल्लोहितमुत्पतति- तत् उभयतो ऽनक्ति । “रक्षसां भागो ऽसि”- (वा. सं. ६ । १६)- इति । रक्षसां ह्येष भागो- यदसृक् ॥ १४ ॥

सायणः

स यत्राच्छ्यतीति । तदुभयतो ऽनक्तीत्यादि 11 । ‘तत्’ तस्य छिन्नस्य दर्भस्य यत् अग्रम्, तत् सव्ये पाणौ गृहीत्वा; यन्मूलम्, तद् दक्षिणेनादाय; ‘यत्र’ यस्मिन् प्रदेशे ‘आच्छ्यति’ आच्छिनत्ति, तत्र प्रदेशे ‘यतः’ यस्मात् ‘लोहितमुत्पतति’ ‘तत्’ तत्र मूलतृणस्य ‘उभयतः’ मूलमग्रञ्च ‘अनक्ति’ “रक्षसामिति” मन्त्रेणेति ॥ १४ ॥

Eggeling
  1. And where he skins (the victim), and whence the blood spirts out, there he smears it (the bottom part with blood) on both ends with (Vāj. S. VI, I6), ‘Thou art the Rakshas’ share!’ for that blood is indeed the Rakshas’ share.

१५

विश्वास-प्रस्तुतिः

(क्त᳘) त᳘दुपा᳘स्याभि᳘तिष्ठति॥
(ती) इद᳘महᳫँ᳭ र᳘क्षो ऽभि᳘तिष्ठामीद᳘महᳫँ᳭ रक्षो᳘ ऽवबाध ऽइद᳘महᳫँ᳭र᳘क्षो ऽधमन्त᳘मो नयामी᳘ति त᳘द्यज्ञे᳘नै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वबाधते तद्य᳘दमूल᳘मुभय᳘तः प᳘रिच्छिन्नं भ᳘वत्यमूलं वा᳘ ऽइद᳘मुभय᳘तः प᳘रिच्छिन्नᳫँ᳭र᳘क्षो ऽन्त᳘रिक्षम᳘नुचरति य᳘थायं पु᳘रुषो ऽमूल᳘ उभय᳘तः प᳘रिच्छिन्नो ऽन्त᳘रिक्षमनुच᳘रति त᳘स्मादमूलमुभय᳘तः प᳘रिच्छिन्नं भवति॥

मूलम् - श्रीधरादि

(क्त᳘) त᳘दुपा᳘स्याभि᳘तिष्ठति॥
(ती) इद᳘महᳫँ᳭ र᳘क्षो ऽभि᳘तिष्ठामीद᳘महᳫँ᳭ रक्षो᳘ ऽवबाध ऽइद᳘महᳫँ᳭र᳘क्षो ऽधमन्त᳘मो नयामी᳘ति त᳘द्यज्ञे᳘नै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वबाधते तद्य᳘दमूल᳘मुभय᳘तः प᳘रिच्छिन्नं भ᳘वत्यमूलं वा᳘ ऽइद᳘मुभय᳘तः प᳘रिच्छिन्नᳫँ᳭र᳘क्षो ऽन्त᳘रिक्षम᳘नुचरति य᳘थायं पु᳘रुषो ऽमूल᳘ उभय᳘तः प᳘रिच्छिन्नो ऽन्त᳘रिक्षमनुच᳘रति त᳘स्मादमूलमुभय᳘तः प᳘रिच्छिन्नं भवति॥

मूलम् - Weber

त᳘दुपा᳘स्याभि᳘तिष्ठति॥
इद᳘महं र᳘क्षो ऽभि᳘तिष्ठामीद᳘महं रक्षो᳘ ऽवबाध इद᳘महं र᳘क्षो ऽधमं त᳘मो नयामी᳘ति त᳘द्यज्ञे᳘नैॗवैत᳘न्नाष्ट्रा र᳘क्षांस्य᳘वबाधते तद्य᳘दमूल᳘मुभय᳘तः प᳘रिछिन्नम् भ᳘वत्यमूलं वा᳘ इद᳘मुभय᳘तः प᳘रिछिन्नं र᳘क्षो ऽन्त᳘रिक्षम᳘नुचरति य᳘थायम् पु᳘रुषो ऽमूल᳘ उभय᳘तः प᳘रिछिन्नो ऽन्त᳘रिक्षमनुच᳘रति त᳘स्मादमूलमुभय᳘तः प᳘रिछिन्नम् भवति॥

मूलम् - विस्वरम्

तदुपास्याभितिष्ठति । “इदमहं रक्षो ऽभितिष्ठामि । इदमहं रक्षो ऽवबाधे । इदमहं रक्षो ऽधमन्तमो नयामि"- (वा. सं. ६ । १६)- इति । तद् यज्ञेनैवैतद् नाष्ट्रा रक्षांस्यवबाधते । तद् यदमूलमुभयतः परिच्छिन्नं भवति । अमूलं वा ऽइदमुभयतः परिच्छिन्नं रक्षो ऽन्तरिक्षमनुचरति- यथायं पुरुषो ऽमूल उभयतः परिच्छिन्नो ऽन्तरिक्षमनुचरति । तस्मादमूलमुभयतः परिच्छिन्नं भवति ॥ १५ ॥

सायणः

तदुपास्याभितिष्ठतीति 11 । ‘तत्’ दर्भाग्रम् । इदमहमिति- यजमानो ऽतिक्रामति । ‘इदम्’ इदानीम् अनेन दर्भाक्रमणव्याजेन ‘रक्षः’ ‘अभितिष्ठामि’ आक्रमामि । तथा ‘अधमं तमः’ निकृष्टमन्धकारं भूमेरधस्ताद्वर्त्तमानं तम एव प्रापयामि । गतमन्यत् ॥ १५ ॥

Eggeling
  1. Having thrown it away (on the utkara), he treads on it with, ‘Herewith I tread down the Rakshas! herewith I drive away the Rakshas! herewith I consign the Rakshas to the

nethermost darkness!’ Thus it is by means of the sacrifice that he drives away the evil spirits, the Rakshas. And as to its being rootless and severed on both sides,–rootless, forsooth, and severed on both sides, the Rakshas moves about in the air, even as man here moves about in the air rootless and severed on both sides: therefore it (the grass-end) is rootless and severed on both sides.

१६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वपामु᳘त्खिदन्ति॥
त᳘या व्वपाश्र᳘पण्यौ प्रो᳘र्णौति घृते᳘न द्यावापृथिवी प्रो᳘र्णुवाथामि᳘ति त᳘दिमे द्या᳘वापृथिवी᳘ ऊर्ज्जा र᳘सेन भाज᳘यत्यन᳘योरू᳘र्जᳫँ᳭र᳘सं दधाति ते र᳘सवत्या ऽउपजीवनी᳘ये ऽइमाः᳘ प्रजा ऽउ᳘पजीवन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वपामु᳘त्खिदन्ति॥
त᳘या व्वपाश्र᳘पण्यौ प्रो᳘र्णौति घृते᳘न द्यावापृथिवी प्रो᳘र्णुवाथामि᳘ति त᳘दिमे द्या᳘वापृथिवी᳘ ऊर्ज्जा र᳘सेन भाज᳘यत्यन᳘योरू᳘र्जᳫँ᳭र᳘सं दधाति ते र᳘सवत्या ऽउपजीवनी᳘ये ऽइमाः᳘ प्रजा ऽउ᳘पजीवन्ति॥

मूलम् - Weber

अ᳘थ वपामु᳘त्खिदन्ति॥
त᳘या वपाश्र᳘पण्यौ प्रो᳘र्णौति घृते᳘न द्यावापृथिवी प्रो᳘र्णुवाथामि᳘ति त᳘दिमे द्या᳘वापृथिवी᳘ ऊर्जा र᳘सेन भाज᳘यत्यन᳘योरू᳘र्जं र᳘सं दधाति ते र᳘सवत्या उपजीवनी᳘ये इमाः᳘ प्रजा उ᳘पजीवन्ति॥

मूलम् - विस्वरम्

अथ वपामुत्खिदन्ति- तया वपाश्रपण्यौ प्रोर्णौति । “घृतेन द्यावापृथिवी प्रोर्णुवाथाम्”- (वा. सं. ६ । १६) - इति । तदिमे द्यावापृथिवी ऽऊर्ज्जारसेन भाजयति । अनयोरूर्जं रसं दधाति । ते रसवत्या ऽउपजीवनीये ऽइमाः प्रजाः उपजीवन्ति ॥ १६ ॥

सायणः

अथ वपामुत्खिदन्तीति 12तया वपाश्रपण्यौ प्रोर्णौतीति । ‘तया’ उद्धृतया वपया वपाश्रपण्योः शाखयोरुपरि ‘प्रोर्णौति’ प्रच्छादयेत् । घृतेनेत्यादि, तत्र मन्त्रः । हे ‘द्यावापृथिवी’ द्यावापृथिव्यौ ! युवां वपाश्रपण्योराच्छादनद्वारा ‘घृतेन’ दीप्यमानेन वपापदार्थेन ‘प्रोर्णुवाथां’ प्रकर्षेणाच्छादयेथाम् । यद्वा विस्तृत्वाद् वपाश्रपण्यावेव द्यावापृथिव्यावित्युपचर्यते । “तदिमे द्यावापृथिवी"- (श. प. ब्रा. ३ । ६ । १ । २१ । भा.) इत्यादि प्राग् व्याख्यातम् ॥ १६ ॥

Eggeling
  1. Thereupon they pull out the omentum, and envelop the two spits 13 therein with, ‘May ye envelop heaven and earth with ghee!’ whereby he endows those two, heaven and earth, with strength and sap, and puts strength and sap into them; and upon those two, thus filled with sap and affording the means of subsistence, these creatures subsist.

१७

विश्वास-प्रस्तुतिः

कार्ष्मर्य्यम᳘य्यौ व्वपाश्र᳘पण्यौ भवतः॥
(तो) य᳘त्र वै᳘ देवा अ᳘ग्रे पशु᳘मालेभिरे तदु᳘दीचः कृष्य᳘माणस्या᳘वाङ्मे᳘धः पपात स᳘ ऽएष व्व᳘नस्प᳘तिरजायत तद्य᳘त्कृष्य᳘माणस्या᳘वाङ᳘पतत्त᳘स्मात्कार्ष्म᳘र्य्यस्ते᳘नै᳘वैनमेतन्मेधेन[[!!]] स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्मात्कार्ष्मर्य्यम᳘य्यौ व्वपाश्र᳘पण्यौ भवतः॥

मूलम् - श्रीधरादि

कार्ष्मर्य्यम᳘य्यौ व्वपाश्र᳘पण्यौ भवतः॥
(तो) य᳘त्र वै᳘ देवा अ᳘ग्रे पशु᳘मालेभिरे तदु᳘दीचः कृष्य᳘माणस्या᳘वाङ्मे᳘धः पपात स᳘ ऽएष व्व᳘नस्प᳘तिरजायत तद्य᳘त्कृष्य᳘माणस्या᳘वाङ᳘पतत्त᳘स्मात्कार्ष्म᳘र्य्यस्ते᳘नै᳘वैनमेतन्मेधेन[[!!]] स᳘मर्द्धयति कृत्स्नं᳘ करोति त᳘स्मात्कार्ष्मर्य्यम᳘य्यौ व्वपाश्र᳘पण्यौ भवतः॥

मूलम् - Weber

कार्ष्मर्यम᳘य्यौ वपाश्र᳘पण्यौ भवतः॥
य᳘त्र वै᳘ देवा अ᳘ग्रे पशु᳘मालेभिरे तदु᳘दीचः कृष्य᳘माणस्या᳘वाण्ने᳘धः पपात स᳘ एष व᳘नस्प᳘तिरजायत तद्य᳘त्कृष्य᳘माणस्या᳘वाङ᳘पतत्त᳘स्मात्कार्ष्म᳘र्यस्ते᳘नैॗवैनमेतन्मे᳘धेन स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्मात्कार्ष्मर्यम᳘य्यौ वपाश्र᳘पण्यौ भवतः॥

मूलम् - विस्वरम्

कार्ष्मर्य्यमय्यौ वपाश्रपण्यौ भवतः । यत्र वै देवा अग्रे पशुमालेभिरे- तद् उदीचः कृष्यमाणस्यावाङ्मेधः पपात । स एष वनस्पतिरजायत । तद् यत् कृष्यमाणस्यावाङपतत्-तस्मात् कार्ष्मर्य्यः । तेनैवैनमेतन्मेधेन समर्द्धयति- कृत्स्नं करोति । तस्मात्- कार्ष्मर्य्यमय्यौ वपाश्रपण्यौ भवतः ॥ १७ ॥

सायणः

वपाश्रपण्योः कार्ष्मर्यमयत्वं विधाय प्रशंसति- ** कार्ष्मर्य्यमय्यौ वपाश्रपण्यौ भवतो यत्र वै देवा अग्रे पशुमालेभिर** इत्यादिना । पशोः कर्षणादधःपतितस्य मेधस्य कार्यरूपेणोत्पत्तेः तस्य पशोः सम्बन्धेन यज्ञः कृत्स्नो भवति । अत एव कर्षणसम्बन्धात् कार्ष्मर्यमयी इति नाम सम्पन्नम् । पशोः कर्षणसम्बन्धादपि कार्ष्मर्यं प्रशस्तमित्यभिप्रायः ॥ १७ ॥

Eggeling
  1. The two omentum-spits are made of kārshmarya wood. For when the gods in the beginning seized (slew) a victim, then, as it was drawn upwards, its sacrificial essence 14 flowed downwards, and from it sprang a tree; and because it flowed down from the (victim) as it was drawn (karsh) upwards, therefore (it became) a kārshmarya tree 15. With that

same sacrificial essence he now perfects it, and makes it whole; therefore the two omentum-spits are of kārshmarya wood.

१८

विश्वास-प्रस्तुतिः

(स्तां) तां प᳘रिवासयति॥
तां᳘ पशुश्र᳘पणे प्र᳘तपति त᳘थो हास्यात्रा᳘पि शृता᳘ भवति पु᳘नरु᳘ल्मुकमग्नीदा᳘दत्ते ते᳘ जघ᳘नेन चा᳘त्वालं यन्ति त ऽआ᳘यन्त्या᳘गच्छन्त्याहवनी᳘यᳫँ᳭ स᳘ एतत्तृ᳘णमध्वर्यु᳘राहवनी᳘ये प्रा᳘स्यति व्वा᳘यो व्वैः᳘ स्तोका᳘नामि᳘ति स्तोका᳘नाᳫँ᳭हैषा᳘ समित्॥

मूलम् - श्रीधरादि

(स्तां) तां प᳘रिवासयति॥
तां᳘ पशुश्र᳘पणे प्र᳘तपति त᳘थो हास्यात्रा᳘पि शृता᳘ भवति पु᳘नरु᳘ल्मुकमग्नीदा᳘दत्ते ते᳘ जघ᳘नेन चा᳘त्वालं यन्ति त ऽआ᳘यन्त्या᳘गच्छन्त्याहवनी᳘यᳫँ᳭ स᳘ एतत्तृ᳘णमध्वर्यु᳘राहवनी᳘ये प्रा᳘स्यति व्वा᳘यो व्वैः᳘ स्तोका᳘नामि᳘ति स्तोका᳘नाᳫँ᳭हैषा᳘ समित्॥

मूलम् - Weber

ताम् प᳘रिवासयति॥
ता᳘म् पशुश्र᳘पणे प्र᳘तपति त᳘थो हास्यात्रा᳘पि शृता᳘ भवति पु᳘नरु᳘ल्मुकमग्नीदा᳘दत्ते ते᳘ जघ᳘नेन चा᳘त्वालं यन्ति त आ᳘यन्त्या᳘गछन्त्याहवनी᳘यᳫं स᳘ एतत्तृ᳘णमध्वर्यु᳘राहवनीये प्रा᳘स्यति वा᳘यो वै᳘ स्तोका᳘नामि᳘ति स्तोका᳘नाᳫं हैषा᳘ समित्॥

मूलम् - विस्वरम्

तां परिवासयति । तां पशुश्रपणे प्रतपति । तथो हास्यात्रापि शृता भवति । पुनरुल्मुकमग्नीदादत्ते ते जघनेन चात्वालं यन्ति । त ऽआयन्ति । आगच्छन्त्याहवनीयम् । स एतत्तृणमध्वर्युराहवनीये प्रास्यति । “वायो वेः स्तोकानाम्"- (वा. सं. ६ । १६) इति । स्तोकानां हैषा समित् ॥ १८ ॥

सायणः

तां परिवासयतीति । तां तयोरुपसृतां ‘परिवासयति’ पशोः सकाशात् छिनत्ति । छिन्नां ‘तां’ ‘पशुश्रपणे’ पशुः श्रप्यते यस्मिन्नग्नौ स पशुश्रपणः तत्र, ‘प्रतपति’ । ‘तथा’ सति ‘अस्य’ पशोर्वपा ‘अत्रापि’ ‘शृता’ स्यादित्यभिप्रायः । ‘अत्रापि’- इत्यपिशब्द आहवनीयेन सह समुच्चयार्थः । पुनरुल्मुकमग्नीदादत्त इति । प्रागाहृतमुल्मुकं श्रपणार्थमपहृताङ्गारं पुनरग्नीदादाय सर्वे ऽपि चात्वालात् पश्चाद्भागादाहवनीयं प्राप्नुयुः । तत्राध्वर्युरेतत्पुरा सव्ये धृतं तृणाग्रमाहवनीये “वायो वेः”- इति प्रास्येत् । अत्र कात्यायनः- “परिवास्य चात्वाले ऽवसिच्य शामित्रे प्रतपति, शामित्रैकदेशमाहवनीये, प्रास्यत्यग्नीत्, तृणाग्रं चाध्वर्युर्वायोवेरिति”- (का. श्रौ. सू. ६ । १३३-१३५) इति । हे ‘वायो’ ! ‘स्तोकानाम्’ वपाया उपरि आज्याभिघारणकाले ऽधः पतिता बिन्दवः स्तोकाः, तेषाम्, आधारत्वेनेदं तृणाग्रं समित्स्थानीयं ‘वेः’ विद्धि, अग्निं गमय वा ॥ १८ ॥

Eggeling
  1. He cuts it (the omentum) off on all sides (from the belly) and heats it at the cooking-fire: thus it becomes cooked for him already at this (fire) 16. The Agnīdh again takes a firebrand (from the Śāmitra, and walks in front). They go behind the pit (cātvāla) and proceed to the Āhavanīya. The Adhvaryu throws that (top part of the) grass-stalk into the Āhavanīya with, ‘O Vāyu, graciously accept the drops!’ for this is the kindler (samidh) of the drops 17.

१९

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थोत्तरतस्ति᳘ष्ठन्वपां प्र᳘तपति॥
(त्य) अत्येष्यन्वा᳘ ऽए᳘षो᳘ ऽग्निं᳘ भवति दक्षिणतः᳘ परी᳘त्य श्रपयिष्यंस्त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते त᳘थो हैनमे᳘षो ऽतिय᳘न्तमग्निर्न्न᳘ हिनस्ति त᳘स्मादुत्तरतस्ति᳘ष्ठन्वपां प्र᳘तपति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थोत्तरतस्ति᳘ष्ठन्वपां प्र᳘तपति॥
(त्य) अत्येष्यन्वा᳘ ऽए᳘षो᳘ ऽग्निं᳘ भवति दक्षिणतः᳘ परी᳘त्य श्रपयिष्यंस्त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते त᳘थो हैनमे᳘षो ऽतिय᳘न्तमग्निर्न्न᳘ हिनस्ति त᳘स्मादुत्तरतस्ति᳘ष्ठन्वपां प्र᳘तपति॥

मूलम् - Weber

अ᳘थोत्तरतस्ति᳘ष्ठन्वपाम् प्र᳘तपति॥
अत्येष्यन्वा᳘ एॗषो ऽग्नि᳘म् भवति दक्षिणतः᳘ परी᳘त्य श्रपयिष्यंस्त᳘स्मा एॗवैतन्नि᳘ह्नुते त᳘थो हैनमेॗषो ऽतिय᳘न्तमग्निर्न᳘ हिनस्ति त᳘स्मादुत्तरतस्ति᳘ष्ठन् वपाम् प्र᳘तपति॥

मूलम् - विस्वरम्

अथोत्तरतस्तिष्ठन्वपां प्रतपति । अत्येष्यन्वा ऽएषो ऽग्रिं भवति दक्षिणतः परीत्य श्रपयिष्यन् । तस्मा ऽएवैतन्निह्नुते । तथो हैनमेषो ऽतियन्तमग्निर्न्न हिनस्ति तस्मादुत्तरतस्तिष्ठन्वपां प्रतपति ॥ १९॥

सायणः

अथोत्तरतस्तिष्ठन्नित्यादि 18 । एतत् उत्तरतः प्रतितपनम्, उपरि तपनं दक्षिणतः प्रतितपनार्थे यः प्रतिप्रस्थातुरग्न्यतिक्रमः, तत्समाधानार्थमित्यर्थः ॥ १९ ॥

Eggeling
  1. Thereupon he heats the omentum while standing on the north side; for he is about to pass by the fire and to roast (the omentum) after walking round to the south side. Hereby then he propitiates it, and thus that fire does not injure him while passing by; this is why he heats the omentum while standing on the north side.

२०

विश्वास-प्रस्तुतिः

ताम᳘न्तरेण यू᳘पञ्चाग्निं᳘ च हरन्ति॥
तद्य᳘त्सम᳘या न ह᳘रन्ति ये᳘नान्या᳘नि हवी᳘ᳫँ᳭षि ह᳘रन्ति नेद᳘शृतया सम᳘या यज्ञं᳘ प्रस᳘जामे᳘ति य᳘दु बा᳘ह्येन न ह᳘रन्त्य᳘ग्रेण यू᳘पं बहिर्द्धा᳘ यज्ञा᳘त्कुर्युस्त᳘स्माद᳘न्तरेण यू᳘पं चाग्निं[[!!]] च हरन्ति दक्षिणतः᳘ परी᳘त्य प्रतिप्रस्थाता᳘ श्रपयति॥

मूलम् - श्रीधरादि

ताम᳘न्तरेण यू᳘पञ्चाग्निं᳘ च हरन्ति॥
तद्य᳘त्सम᳘या न ह᳘रन्ति ये᳘नान्या᳘नि हवी᳘ᳫँ᳭षि ह᳘रन्ति नेद᳘शृतया सम᳘या यज्ञं᳘ प्रस᳘जामे᳘ति य᳘दु बा᳘ह्येन न ह᳘रन्त्य᳘ग्रेण यू᳘पं बहिर्द्धा᳘ यज्ञा᳘त्कुर्युस्त᳘स्माद᳘न्तरेण यू᳘पं चाग्निं[[!!]] च हरन्ति दक्षिणतः᳘ परी᳘त्य प्रतिप्रस्थाता᳘ श्रपयति॥

मूलम् - Weber

ताम᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति॥
तद्य᳘त्सम᳘या न ह᳘रन्ति ये᳘नान्या᳘नि हवीं᳘षि ह᳘रन्ति नेद᳘शृतया सम᳘या यज्ञ᳘म् प्रस᳘जामे᳘ति य᳘दु बा᳘ह्येन न ह᳘रन्त्य᳘ग्रेण यू᳘पम् बहिर्धा᳘ यज्ञा᳘त्कुर्युस्त᳘स्माद᳘न्तरेण यू᳘पं चाग्निं᳘ च हरन्ति दक्षिणतः᳘ परी᳘त्य प्रतिप्रस्थाता᳘ श्रपयति॥

मूलम् - विस्वरम्

तामन्तरेण यूपञ्चाग्निं च हरन्ति । तद् यत्समया न हरन्ति- येनान्यानि हवींषि हरन्ति । नेदशृतया समया यज्ञं प्रसजामेति । यदु बाह्येन न हरन्ति । अग्रेण यूपम् । बहिर्द्धा ह यज्ञात् कुर्युः । तस्मादन्तरेण यूपं चाग्निं च हरन्ति । दक्षिणतः परीत्य प्रतिप्रस्थाता श्रपयति ॥ २० ॥

सायणः

दक्षिणतः प्रतितापोपगमनमार्गं दर्शयति- तामन्तरेण यूपामिति । तद्यदिति । ‘समया’ समीपे, वेदिमध्यदेशे ‘न हरन्ति’ । केनाभिप्रायेण ? अस्य पशोस्तया ‘वपया’ ‘समया’ साम्मुख्येनैव सामीप्येन ‘यज्ञम्’ आहवनीयेनैव ‘प्रसजाम’ प्रकर्षेण संराध्नुमः ‘इति’ । प्रसञ्जनं चेष्टनम् । आहवनीयात् पुरोदेशतो हरणे ऽपि यूपाद्बहिर्न हरेत्; ‘यज्ञात् सकाशात्’ ‘बहिर्द्धा’ कुर्यात् यूपस्यापि यज्ञावयवत्वात् उत्तरतः प्रतपनमध्वर्युकर्तृकम्; विशेषाश्रवणात् ॥ २० ॥

Eggeling
  1. They take it along between the sacrificial stake and the fire. The reason why they do not take it across the middle (of the altar) 19, where they take other sacrificial dishes, is lest they should bring the sacrifice in the middle into contact with the uncooked (omentum). And why they do not take it there outside (the altar) along the front of the sacrificial stake, is that they would thereby put it outside the sacrifice; therefore they take it along

between the sacrificial stake and the fire. Having gone round to the south side, the Pratiprasthātr̥ roasts it.

२१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ स्रु᳘वे᳘णोपहत्या᳘ज्यम्॥
(म) अध्वर्यु᳘र्व्वपा᳘मभि᳘जुहोत्यग्निरा᳘ज्यस्य व्वेतु स्वाहे᳘ति त᳘थो हास्यैते᳘ स्तोकाः᳘ शृताः स्वा᳘हाकृता आ᳘हुतयो भू᳘त्वाग्निं प्रा᳘प्नुवन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ स्रु᳘वे᳘णोपहत्या᳘ज्यम्॥
(म) अध्वर्यु᳘र्व्वपा᳘मभि᳘जुहोत्यग्निरा᳘ज्यस्य व्वेतु स्वाहे᳘ति त᳘थो हास्यैते᳘ स्तोकाः᳘ शृताः स्वा᳘हाकृता आ᳘हुतयो भू᳘त्वाग्निं प्रा᳘प्नुवन्ति॥

मूलम् - Weber

अ᳘थ स्रुवे᳘णोपहत्या᳘ज्यम्॥
अध्वर्यु᳘र्वपा᳘मभि᳘जुहोत्यग्निरा᳘ज्यस्य वेतु स्वाहे᳘ति त᳘थो हास्यैते᳘ स्तोकाः᳘ शृताः स्वा᳘हाकृता आ᳘हुतयो भूॗत्वाग्निम् प्रा᳘प्नुवन्ति॥

मूलम् - विस्वरम्

अथ स्रुवेणोपहत्याज्यमध्वर्युर्वपामभिजुहोति- “अग्निराज्यस्य वेतु स्वाहा”- (वा० सं० ६ । १६) इति । तथो हास्यैते स्तोकाः शृताः स्वाहाकृता आहुतयो भूत्वाग्निं प्राप्नुवन्ति ॥ २१ ॥

सायणः

अथ स्रुवेणोपहत्याज्यमिति 20 । तथाध्वर्युः प्रतिप्रस्थात्रा वपायां तप्यमानायां स्रुवेणाज्यमुपहत्यादाय वपोपरि अध्वर्युर्जुहुयात् “अग्निराज्यस्य वेतु" इति । ‘आज्यस्य’ आज्यं ‘वेतु’ भक्षयतु, ‘स्वाहा’ इदं सुहुतमस्तु । तथो हेत्यादि । ‘अस्य’ वपाद्रव्यस्य, वपाद्वारा पशोर्वा । “स्वाहाकारेण वा वषट्कारेण वा देवेभ्यो ऽन्नं हूयते”- (ऐ. ब्रा. २ २-३) इति श्रुतेः ‘स्वाहाकृताः’ स्वाहाकारेण दत्ते सति ‘आहुतयः’ भवन्तीत्यर्थः ॥ २१ ॥

Eggeling
  1. Thereupon the Adhvaryu, having taken ghee with the dipping-spoon, pours it upon the omentum, with, ‘May Agni graciously accept the ghee, Hail!’ Thus those drops thereof reach the fire after becoming cooked offerings, made with Svāhā (hail)!

२२

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थाह स्तोकेभ्यो᳘ ऽनुब्रूही᳘ति॥
स᳘ आग्नेयी᳘ स्तोकेभ्यो᳘ ऽन्वाह तद्य᳘दाग्नेयी᳘ स्तोके᳘भ्यो ऽन्वा᳘हेतः᳘प्रदाना वै व्वृ᳘ष्टिरितो᳘ ह्यग्निर्व्वृ᳘ष्टिं व्वनुते स᳘ एतैः᳘ स्तोकै᳘रेता᳘न्त्स्तोका᳘न्वनुते त᳘ ऽएते᳘ स्तोका᳘ व्वर्षन्ति त᳘स्मादाग्नेयी᳘ स्तोकेभ्यो᳘ ऽन्वाह यदा᳘ शृता भ᳘वति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थाह स्तोकेभ्यो᳘ ऽनुब्रूही᳘ति॥
स᳘ आग्नेयी᳘ स्तोकेभ्यो᳘ ऽन्वाह तद्य᳘दाग्नेयी᳘ स्तोके᳘भ्यो ऽन्वा᳘हेतः᳘प्रदाना वै व्वृ᳘ष्टिरितो᳘ ह्यग्निर्व्वृ᳘ष्टिं व्वनुते स᳘ एतैः᳘ स्तोकै᳘रेता᳘न्त्स्तोका᳘न्वनुते त᳘ ऽएते᳘ स्तोका᳘ व्वर्षन्ति त᳘स्मादाग्नेयी᳘ स्तोकेभ्यो᳘ ऽन्वाह यदा᳘ शृता भ᳘वति॥

मूलम् - Weber

अ᳘थाह स्तोकेभ्यो᳘ ऽनुब्रूही᳘ति॥
स᳘ आग्नेयी स्तोकेभ्यो᳘ ऽन्वाह तद्य᳘दाग्नेयी᳘ स्तोके᳘भ्यो ऽन्वा᳘हेतः᳘प्रदाना वै वृ᳘ष्टिरितो ह्यग्निर्वृ᳘ष्टिं वनुते स᳘ एतै᳘ स्तोकै᳘रेता᳘न्त्स्तोका᳘न्वनुते त᳘ एते᳘ स्तोका᳘ वर्षन्ति त᳘स्मादाग्नेयी᳘ स्तोकेभ्यो᳘ ऽन्वाह यदा᳘ शृता भ᳘वति॥

मूलम् - विस्वरम्

अथाह- स्तोकेभ्यो ऽनुब्रूहीति । स आग्नेयी स्तोकेभ्यो ऽन्वाह । तद्यदाग्नेयी स्तोकेभ्यो ऽन्वाह । इतःप्रदाना वै वृष्टिः । इतो ह्यग्निर्वृष्टिं वनुते । स एतैः स्तोकैरेतान्त्स्तोकान् वनुते । त एते स्तोका वर्षन्ति । तस्मादाग्नेयी स्तोकेभ्यो ऽन्वाह- यदा शृता भवति ॥ २२ ॥

सायणः

अथाह स्तोकेभ्यो ऽनुब्रूहीतीति 20 । होत्रा स्तोकेभ्यो ऽनूच्यमानानां मन्त्राणामाग्नेयत्वं वृष्टिसाधनत्वेन प्रशंसति- तद्यदाग्नेयी स्तोकेभ्यो ऽन्वाहेत्यादिना । ‘इतः प्रदाना वै वृष्टिः’ अस्माद् भूलोकात् प्रजाता प्रसाधयति । “इतो ह्यग्निर्वृष्टिं वनुते"- इति सङ्ग्रहेणोक्तं विशदयति- स एतैरिति । ‘एतैः’ घृतस्तोकैः ‘एतान्’ वृष्ट्यवयवभूतान् ‘वनुते’ ‘ते’ अग्निना भक्षिताः ‘एते’ घृतस्तोकाः पुनरुदकात्मना परिणताः पृथिव्यां ‘वर्षन्ति’ । ‘तस्मात्’ उक्तप्रकारेण वृष्टेरग्न्यायत्तत्वात् ‘आग्नेयी’ । ‘स्तोकेभ्यः’ अनुब्रूयात् ‘यदा’ वपा ‘शृता’ ‘भवति’ ॥ २२ ॥

Eggeling
  1. He then says (to the Maitrāvaruṇa 21), ‘Recite to the drops!’ He recites to the drops verses addressed to Agni 22. The reason why he recites to the drops verses addressed to Agni, is that rain originates from gifts made from this earth, for from here it is that Agni obtains the rain; by means of these drops (falling from the omentum) he obtains those (rain) drops, and those drops rain down; therefore he recites to the drops verses addressed to Agni. When it is roasted,–

२३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाह प्रतिप्रस्थाता᳘ शृता प्र᳘चरे᳘ति॥
स्रु᳘चावादा᳘याध्वर्यु᳘रतिक्र᳘म्याश्रा᳘व्याह स्वा᳘हाकृतिभ्यः प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाह प्रतिप्रस्थाता᳘ शृता प्र᳘चरे᳘ति॥
स्रु᳘चावादा᳘याध्वर्यु᳘रतिक्र᳘म्याश्रा᳘व्याह स्वा᳘हाकृतिभ्यः प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थाह प्रतिप्रस्थाता᳘ शृता प्र᳘चरे᳘ति॥
स्रु᳘चावादा᳘याध्वर्यु᳘रतिक्र᳘म्याश्रा᳘व्याह स्वा᳘हाकृतिभ्यः प्रेष्ये᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथाह- प्रतिप्रस्थाता- शृता प्रचरेति । स्रुचावादायाध्वर्युरतिक्रम्याश्राव्याह- स्वाहाकृतिभ्यः प्रेष्येति । वषट्कृते जुहोति ॥ २३ ॥

सायणः

अथाह प्रतिप्रस्थातेति । अनन्तरं ‘प्रतिप्रस्थाता’ तद्वपापरिपक्वासीत् अतः ‘अध्वर्यो ! प्रचारं कुरु’ इति ब्रूयात् । ‘प्रेष्यः’ स्पष्टः प्रयोगप्रकारः, स्वाहाकृतयो ऽन्त्यप्रयाजदेवताः सन्ति ॥ २३ ॥

Eggeling
  1. The Pratiprasthātr̥ says, ‘It is roasted: proceed 23!’ The Adhvaryu, having taken the two spoons and stept across (to the north side of the fire) and called for the Śraushaṭ, says (to the Maitrāvaruṇa), ‘Prompt for the Svāhās 24!’ and offers (the ghee) when the Vashaṭ has been pronounced 25.

२४

विश्वास-प्रस्तुतिः

हुत्वा᳘ व्वपा᳘मेवा᳘ग्रे ऽभिघारयति॥
(त्य᳘) अ᳘थ पृषदाज्यं त᳘दु ह च᳘रकाध्वर्य्यवः पृषदाज्य᳘मेवा᳘ग्रे ऽभि᳘घारयन्ति प्राणः᳘ पृषदाज्यमि᳘ति व्व᳘दन्तस्त᳘दु ह या᳘ज्ञवल्क्यं च᳘रकाध्वर्य्युरनुव्या᳘जहारैवं᳘ कुर्व्व᳘न्तं प्राणं वा᳘ ऽअय᳘मन्त᳘रगादध्वर्युः᳘ प्राण᳘ एनᳫं᳭ हास्यती᳘ति॥

मूलम् - श्रीधरादि

हुत्वा᳘ व्वपा᳘मेवा᳘ग्रे ऽभिघारयति॥
(त्य᳘) अ᳘थ पृषदाज्यं त᳘दु ह च᳘रकाध्वर्य्यवः पृषदाज्य᳘मेवा᳘ग्रे ऽभि᳘घारयन्ति प्राणः᳘ पृषदाज्यमि᳘ति व्व᳘दन्तस्त᳘दु ह या᳘ज्ञवल्क्यं च᳘रकाध्वर्य्युरनुव्या᳘जहारैवं᳘ कुर्व्व᳘न्तं प्राणं वा᳘ ऽअय᳘मन्त᳘रगादध्वर्युः᳘ प्राण᳘ एनᳫं᳭ हास्यती᳘ति॥

मूलम् - Weber

हुत्वा᳘ वपा᳘मेवा᳘ग्रे ऽभिघारयति॥
अ᳘थ पृषदाज्यं त᳘दु ह च᳘रकाध्वर्यवः पृषदाज्य᳘मेवा᳘ग्रे ऽभि᳘घारयन्ति प्राणः᳘ पृषदाज्यमि᳘ति व᳘दन्तस्त᳘दु ह या᳘ज्ञवल्क्यं च᳘रकाध्वर्युरनुव्या᳘जहारैवं᳘ कुर्व᳘न्तम् प्राणं वा᳘ अय᳘मन्त᳘रगादध्वर्युः᳘ प्राण᳘ एनᳫं हास्यती᳘ति॥

मूलम् - विस्वरम्

हुत्वा वपामेवाग्रे ऽभिघारयति । अथ पृषदाज्यम् । तदु ह चरकाध्वर्यवः- पृषदाज्यमेवाग्रे ऽभिघारयन्ति- प्राणः पृषदाज्यमिति वदन्तः । तदु ह याज्ञवल्क्यं चरकाध्वर्युरनुव्याजहार- एवं कुर्वन्तम् । प्राणं वा ऽअयमन्तरगात् अध्वर्युः प्राण एनं हास्यतीति ॥ २४ ॥

सायणः

हुत्वा वपामेवेति 26 । अन्त्यप्रयाजं हुत्वा ‘अग्रे’ पृषदाज्यात् प्राक् ‘वपामेव’ प्रयाजशेषेणाभिघारयेत् । ‘अथ’ पश्चात् अनूयाजाद्यर्थं ‘पृषदाज्यम्’ । चरकशाखोक्ता ऽऽध्वर्यवप्रयोगकर्त्तारः ‘चरकाध्वर्य्ववः’ । ‘पृषदाज्यमेवाग्रे ऽभिघारयन्ति’ । दधिमिश्रमाज्यं पृषदाज्यम् । प्राणवत् गवामन्तर्वर्त्तमानत्वात्; प्राणः पुष्टिः, तद्धेतुत्वाद्वा पृषदाज्यस्य प्राणत्वम् । ‘तदु’ तस्मिन्नभिघारणप्राथम्यविषये ‘याज्ञवल्क्यम्’ ‘अनु’ लक्ष्यीकृत्य ‘व्याजहार’ उक्तवान् । अनुव्याजहारः शापः । याज्ञवल्क्यं विशिनष्टि- एवं कुर्वन्तमिति । पृषदाज्यमतिक्रम्य वपामेवादावभिघारयन्तम् ‘अयमध्वर्युः’ पृषदाज्यमतिक्रामन् ‘प्राणं’ खलु ‘अन्तरगात्’ अतः ‘एनम्’ अध्वर्युं ‘प्राणो हास्यति’- ‘इति’ याज्ञवल्क्यं सम्बोध्य वक्ता अध्वर्युः साधारण्येनाह ॥ २४ ॥

Eggeling
  1. Having offered, he bastes first the omentum, then the clotted ghee. Now the Karaka-Adhvaryus, forsooth, baste first the clotted ghee, arguing that the clotted ghee is the breath; and a Caraka-Adhvaryu, forsooth, cursed Yājñavalkya for so doing, saying, ‘That Adhvaryu has shut out the breath; the breath shall depart from him!’

२५

विश्वास-प्रस्तुतिः

स᳘ ह स्म बाहू᳘ ऽअन्ववे᳘क्ष्याह॥
(हे) इमौ᳘ पलितौ᳘ बाहू᳘ क्व[[!!]] स्विद्ब्राह्मण᳘स्य व्व᳘चो बभूवे᳘ति न तदा᳘द्रियेतोत्तमो वा᳘ ऽएष᳘ प्रयाजो᳘ भवतीदं वै᳘ हविर्यज्ञ᳘ उत्तमे᳘ प्रयाजे᳘ ध्रुवा᳘मेवा᳘ग्रे ऽभि᳘घारयति त᳘स्यै हि᳘ प्रथमावा᳘ज्यभागौ होष्यन्भ᳘वति व्वपां वा ऽअ᳘त्र प्रथमा᳘ᳫं᳭ होष्य᳘न्भवति त᳘स्माद्वपा᳘मेवा᳘ग्रे ऽभि᳘घारयेद᳘थ पृषदाज्यम᳘थ य᳘त्पशुं᳘ नाभिघार᳘यति नेद᳘शृतमभिघार᳘याणी᳘त्येत᳘दे᳘वास्य स᳘र्व्वः पशु᳘रभि᳘घारितो भवति य᳘द्वपा᳘मभिघार᳘यति त᳘स्माद्वपा᳘मेवा᳘ग्रे ऽभि᳘घारयेद᳘थ पृषदाज्यम्॥

मूलम् - श्रीधरादि

स᳘ ह स्म बाहू᳘ ऽअन्ववे᳘क्ष्याह॥
(हे) इमौ᳘ पलितौ᳘ बाहू᳘ क्व[[!!]] स्विद्ब्राह्मण᳘स्य व्व᳘चो बभूवे᳘ति न तदा᳘द्रियेतोत्तमो वा᳘ ऽएष᳘ प्रयाजो᳘ भवतीदं वै᳘ हविर्यज्ञ᳘ उत्तमे᳘ प्रयाजे᳘ ध्रुवा᳘मेवा᳘ग्रे ऽभि᳘घारयति त᳘स्यै हि᳘ प्रथमावा᳘ज्यभागौ होष्यन्भ᳘वति व्वपां वा ऽअ᳘त्र प्रथमा᳘ᳫं᳭ होष्य᳘न्भवति त᳘स्माद्वपा᳘मेवा᳘ग्रे ऽभि᳘घारयेद᳘थ पृषदाज्यम᳘थ य᳘त्पशुं᳘ नाभिघार᳘यति नेद᳘शृतमभिघार᳘याणी᳘त्येत᳘दे᳘वास्य स᳘र्व्वः पशु᳘रभि᳘घारितो भवति य᳘द्वपा᳘मभिघार᳘यति त᳘स्माद्वपा᳘मेवा᳘ग्रे ऽभि᳘घारयेद᳘थ पृषदाज्यम्॥

मूलम् - Weber

स᳘ ह स्म बाहू᳘ अन्ववे᳘क्ष्याह॥
इमौ᳘ पलितौ᳘ बाहू क्व᳘ स्विद्ब्राह्मण᳘स्य व᳘चो बभूवे᳘ति न तदा᳘द्रियेतोत्तमो वा᳘ एष᳘ प्रयाजो᳘ भवतीदं वै᳘ हविर्यज्ञ᳘ उत्तमे᳘ प्रयाजे᳘ ध्रुवा᳘मेवा᳘ग्रे ऽभि᳘घारयति त᳘स्यै हि᳘ प्रथमावा᳘ज्यभागौ होष्यन्भ᳘वति वपां वा अ᳘त्र प्रथमा᳘ᳫं᳘ होष्य᳘न्भवति त᳘स्माद्वपा᳘मेवा᳘ग्रे ऽभि᳘घारयेद᳘थ पृषदाज्यम᳘थ य᳘त्पशुंॗ नाभिघार᳘यति नेद᳘शृतमभिघार᳘याणी᳘त्येत᳘देॗवास्य स᳘र्वः पशु᳘रभि᳘घारितो भवति य᳘द्वपा᳘मभिघार᳘यति त᳘स्माद्वपा᳘मेवा᳘ग्रे ऽभि᳘घारयेद᳘थ पृषदाज्यम्॥

मूलम् - विस्वरम्

स ह स्म बाहू ऽअन्ववेक्ष्याह । इमौ पलितौ बाहू क्व स्विद् ब्राह्मणस्य वचो बभूवेति । न तदाद्रियेत । उत्तमो वा ऽएष प्रयाजो भवति । इदं वै हविर्यज्ञ उत्तमे प्रयाजे ध्रुवामेवाग्रे ऽभिघारयति । तस्यै हि प्रथमावाज्यभागौ होष्यन् भवति । वपां वा ऽअत्र प्रथमां होष्यन् भवति । तस्माद्वपामेवाग्रे ऽभिघारयेत् । अथ पृषदाज्यम्, अथ यत् पशुं नाभिघारयति । नेदशृतमभिघारयाणीति । एतदेवास्य सर्वपशुरभिघारितो भवति- यद्वपामभिघारयति । तस्माद्वपामेवाग्रे ऽभिघारयेत्- अथ पृषदाज्यम् ॥ २५ ॥

सायणः

स ह स्मेति । एवमधिक्षिप्तः ‘सः’ याज्ञवल्क्यः ‘ह’ ‘बाहू’ ‘अन्ववेक्ष्य’ समवेक्ष्य, तस्मै प्रकाशनाय ‘इमौ बाहू’ ‘पलितौ’ जरसा युक्तौ शुक्लरोमयुक्तावभूताम् । अयमभिप्रायः- एतावान् कालो वपाप्रथमाभिघारणेनैव गतः, अथापि प्राणश्च न निर्गत इति स्वयमपि चरकाध्वर्युवत् परीक्षणेनैव ब्रूते- ‘ब्राह्मणस्य’ चरकाध्वर्योः ‘वचः’ प्राण एनं हास्यतीत्येतदात्मकम् ‘क्व बभूव’ नावगतमित्यर्थः । तस्मात् ‘तत्’ वचनं नादर्त्तव्यमित्युपसंहारः । हविष्ट्वे समाने ऽपि पशोरनभिघारणस्याभिप्रायमाविष्करोति- नेदशृतमिति । अभिघारणं होतव्यहविःसंस्कारः । अशृतस्य होमानर्हत्वात् अभिघारणं न युज्यत इत्यभिप्रायः । तर्हि संस्कारस्यास्य पशुसंस्पर्श एव नोपलभ्यत इत्याशङ्क्य तत्प्राप्त्युपायमाह- एतदेवास्येति ॥ २५ ॥

Eggeling
  1. But he, looking at his arms, said, ‘These hoary arms–what in the world has become of the Brāhman’s word 27!’ Let him not heed that (objection of the Karakas); for this is the last fore-offering,–and this being a havis-offering, at the last fore-offering he first pours ghee into the dhruvā, being about to offer the first two butter-portions with it 28. Now, on the present occasion, he will first offer the omentum; therefore let him first baste the omentum, then the clotted ghee. And though he does not baste the victim with ghee, ’lest he should baste the uncooked,’ that whole victim of his yet becomes (as it were) basted with ghee in that he bastes the omentum; let him therefore first baste the omentum, then the clotted ghee.

२६

विश्वास-प्रस्तुतिः

(म) अथा᳘ज्यमु᳘पस्तृणीते॥
(ते᳘ ऽथ) अ᳘थ हिरण्यशकलम᳘वदधात्य᳘थ व्वपा᳘मवद्य᳘न्नाहाग्नीषो᳘माभ्यां छा᳘गस्य व्वपा᳘यै मे᳘दसो᳘ ऽनुब्रूहीत्य᳘थ हिरण्यशकलम᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति॥

मूलम् - श्रीधरादि

(म) अथा᳘ज्यमु᳘पस्तृणीते॥
(ते᳘ ऽथ) अ᳘थ हिरण्यशकलम᳘वदधात्य᳘थ व्वपा᳘मवद्य᳘न्नाहाग्नीषो᳘माभ्यां छा᳘गस्य व्वपा᳘यै मे᳘दसो᳘ ऽनुब्रूहीत्य᳘थ हिरण्यशकलम᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति॥

मूलम् - Weber

अथा᳘ज्यमु᳘पस्तृणीते॥
अ᳘थ हिरण्यशकलम᳘वदधात्य᳘थ वपा᳘मवद्य᳘न्नाहाग्नीषो᳘माभ्यां छा᳘गस्य वपा᳘यै मे᳘दसो᳘ ऽनुब्रूहीत्य᳘थ हिरण्यशकलम᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति॥

मूलम् - विस्वरम्

अथाज्यमुपस्तृणीते । अथ हिरण्यशकलमवदधाति । अथ वपामवद्यन्नाह- अग्नीषोमाभ्यां छागस्य वपायै मेदसो ऽनुब्रूहीति । अथ हिरण्यशकलमवदधाति । अथोपरिष्टाद् द्विराज्यस्याभिघारयति ॥२६॥

सायणः

वपायागमाह- अथाज्यमुपस्तृणीत इति । उभयतो हिरण्यशकलस्थापनमप्राणस्य पशोः सप्राणत्वसम्पादनाय ॥ २६ ॥

Eggeling
  1. Thereupon he makes an ‘underlayer’ of ghee (in the juhū-spoon), and lays a piece of gold thereon. Then, cutting off the omentum (from the spits and putting it into the spoon), he says (to the Hotr̥), ‘Recite (the invitatory prayer) to Agni and Soma

for the omentum and fat of the buck!’ He then lays (another) piece of gold on (the omentum) and bastes it twice with ghee above.

२७

विश्वास-प्रस्तुतिः

तद्य᳘द्धिरण्यशकला᳘वभि᳘तो भ᳘वतः॥
(तो) घ्न᳘न्ति वा᳘ ऽएत᳘त्पशुं य᳘दग्नौ जु᳘ह्वत्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त ऽआ᳘युषि प्र᳘तितिष्ठति तथा᳘त उ᳘देति त᳘था स᳘ञ्जीवति त᳘स्माद्धिरण्यशकला᳘वभि᳘तो भवत आश्रा᳘व्याहाग्नीषो᳘माभ्यां छा᳘गस्य व्वपां मे᳘दःप्रेष्ये᳘ति न प्र᳘स्थितमि᳘त्याह प्र᳘सुते प्र᳘स्थितमिति[[!!]] व्वषट्कृते[[!!]] जुहोति॥

मूलम् - श्रीधरादि

तद्य᳘द्धिरण्यशकला᳘वभि᳘तो भ᳘वतः॥
(तो) घ्न᳘न्ति वा᳘ ऽएत᳘त्पशुं य᳘दग्नौ जु᳘ह्वत्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त ऽआ᳘युषि प्र᳘तितिष्ठति तथा᳘त उ᳘देति त᳘था स᳘ञ्जीवति त᳘स्माद्धिरण्यशकला᳘वभि᳘तो भवत आश्रा᳘व्याहाग्नीषो᳘माभ्यां छा᳘गस्य व्वपां मे᳘दःप्रेष्ये᳘ति न प्र᳘स्थितमि᳘त्याह प्र᳘सुते प्र᳘स्थितमिति[[!!]] व्वषट्कृते[[!!]] जुहोति॥

मूलम् - Weber

तद्य᳘द्धिरण्यशकला᳘वभि᳘तो भ᳘वतः॥
घ्न᳘न्ति वा᳘ एत᳘त्पशुं य᳘दग्नौ जु᳘ह्वत्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त आ᳘युषि प्र᳘तितिष्ठति तथा᳘त उ᳘देति त᳘था सं᳘जीवति त᳘स्माद्धिरण्यशकला᳘वभि᳘तो भवत आश्रा᳘व्याहाग्नीषो᳘माभ्यां छा᳘गस्य वपाम् मे᳘दः प्रेष्ये᳘ति न प्र᳘स्थितमि᳘त्याह प्र᳘सुते प्र᳘स्थितमि᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

तद् यद्धिरण्यशकलावभितो भवतः घ्नन्ति वा ऽएतत् पशुम्- यदग्नौ जुह्वति । अमृतमायुर्हिरण्यम् । तद् अमृत ऽआयुषि प्रतितिष्ठति । तथा त उदेति । तथा सञ्जीवति । तस्माद्धिरण्यशकलावभितो भवतः । आश्राव्याह- अग्नीषोमाभ्यां छागस्य वपां मेदः प्रेष्येति । न प्रस्थितमित्याह- प्रसुते प्रस्थितमिति । वषट्कृते जुहोति ॥ २७ ॥

सायणः

तद्यद्धिरण्यशकलावभितो भवत इति । अथामृताद्यात्मना स्तौति । घ्नन्ति वा एतत् पशुं यदग्नौ जुह्वतीत्यादिना । वपां 29 मेद इति । मेदो नाम मांससारभूतमङ्गं तदात्मना वपोच्यते । सारस्वतसंपादनाय वपां मेदः प्रेष्यति । “प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने” इत्यत्र (पा० सू० २ । ३ । ६१) “हविषो ऽप्रस्थितस्य प्रतिषेधो वक्तव्यः” इत्युक्तम् । अतः षष्ठी प्रतिषेधायैतस्य प्रयोगे प्राप्ते प्रतिषेधति- न प्रस्थितमित्याहेति । सर्वत्रावचनप्रसक्तौ सवनीयपशोः पुनः प्रसञ्जयति- प्रसुते प्रस्थितमिति 30 । ब्रूयादिति शेषः । ‘प्रसुते’ अभिषवे कृते सति यो वपायागस्तत्रेत्यर्थः ॥ २७ ॥

Eggeling
  1. The reason why there is a piece of gold on both sides is this. When they offer the victim in the fire they slay it; and gold means immortal life: hence it (the victim) rests in immortal life. And so it rises from hence, and so it lives; for this reason there is a piece of gold 31 on both sides. Having called for the Śraushaṭ, he says (to the Maitrāvaruṇa), ‘Prompt (the Hotr̥ to recite the offering-prayer 32 on) the omentum and fat of the buck for Agni and Soma!’ He does not say, ‘. . . (the omentum and fat) brought forward;’ when the Soma has been pressed he says, ‘brought forward 33.’ He offers when the Vashaṭ has been pronounced.

२८

विश्वास-प्रस्तुतिः

हुत्वा᳘ व्वपा᳘ᳫं᳘समी᳘च्यौ॥
व्वपाश्र᳘पण्यौ कृ᳘त्वानुप्रा᳘स्यति स्वा᳘हाकृते ऽऊर्ध्व᳘नभसम्मारुतं᳘ गच्छतमि᳘ति ने᳘दिमे᳘ ऽअमुया᳘ सतो या᳘भ्यां व्वपाम᳘शिश्रपामे᳘ति॥

मूलम् - श्रीधरादि

हुत्वा᳘ व्वपा᳘ᳫं᳘समी᳘च्यौ॥
व्वपाश्र᳘पण्यौ कृ᳘त्वानुप्रा᳘स्यति स्वा᳘हाकृते ऽऊर्ध्व᳘नभसम्मारुतं᳘ गच्छतमि᳘ति ने᳘दिमे᳘ ऽअमुया᳘ सतो या᳘भ्यां व्वपाम᳘शिश्रपामे᳘ति॥

मूलम् - Weber

हुत्वा᳘ वपा᳘ᳫं᳘ समी᳘च्यौ॥
वपाश्र᳘पण्यौ कृॗत्वानुप्रा᳘स्यति स्वा᳘हाकृते ऊर्ध्व᳘नभसम् मारुतं᳘ गछतमि᳘ति ने᳘दिमे᳘ अमुया᳘ सतो या᳘भ्यां वपाम᳘शिश्रपामे᳘ति॥

मूलम् - विस्वरम्

हुत्वा वपां समीच्यौ वपाश्रपण्यौ कृत्वानुप्रास्यति- “स्वाहाकृते । ऊर्ध्वनभसं मारुतं गच्छतम्” (वा. सं. ६ । १६) इति । नेदिमे ऽमुया सतो याभ्यां वपामशिश्रपामेति ॥ २८॥

सायणः

हुत्वा वपां समीच्यौ वपाश्रपण्यौ कृत्वानुप्रास्यतीति ‘समीच्यौ’ परस्पराभिमुखे । तथा च सूत्रम्- “वपाश्रपण्यावनुप्रास्यति प्राचीं विशाखां प्रतीचीमितराम्” (का० श्रौ० सू० ६ । १४५) इति । ‘स्वाहाकृते’ स्वाहाशब्दे उच्चारिते, हविषीत्यर्थः । अस्य प्रासने मन्त्रः- ऊर्ध्वनभसमिति । ‘ऊर्द्धम्’ उपरि भूतं ‘नभः’ अन्तरिक्षं यस्य वायोः स तथोक्तः, तम् ‘ऊर्ध्वनभसम्’ तं मारुतं वायुम्, हे वपाश्रपण्यौ ! युवां “गच्छतम्’ । ‘याभ्यां शाखाभ्यां’ वपाम् ‘अशिश्रपाम’ वपाश्रपणमकार्ष्म ते ‘इमे’ ‘अमुया’ अमुत्र, समुच्छ्रयरहिते अनभिमते देशे प्रणष्टे ‘न’ भवत इत्यभिप्रायेणाग्नौ प्रास्यत् ॥ २८ ॥

Eggeling
  1. Having offered the omentum, he lays the two spits together and throws them after (the omentum into the fire), with, ‘Consecrated by Svāhā, go ye to Ūrdhvanabhas 34, son of the Maruts!’ He does so, thinking, ‘Lest these two wherewith we have cooked the omentum should come to nought.’

२९

विश्वास-प्रस्तुतिः

तद्य᳘द्वप᳘या च᳘रन्ति॥
य᳘स्यै वै᳘ देव᳘तायै पशु᳘माल᳘भन्ते ता᳘मे᳘वैत᳘द्देव᳘तामेते᳘न मे᳘धेन प्रीणाति᳘ सैषा᳘ देव᳘तैते᳘न मे᳘धेन प्रीता᳘ शान्तो᳘त्तराणि हवी᳘ᳫं᳘षि श्रप्य᳘माणान्यु᳘परमति त᳘स्माद्वप᳘या चरन्ति॥

मूलम् - श्रीधरादि

तद्य᳘द्वप᳘या च᳘रन्ति॥
य᳘स्यै वै᳘ देव᳘तायै पशु᳘माल᳘भन्ते ता᳘मे᳘वैत᳘द्देव᳘तामेते᳘न मे᳘धेन प्रीणाति᳘ सैषा᳘ देव᳘तैते᳘न मे᳘धेन प्रीता᳘ शान्तो᳘त्तराणि हवी᳘ᳫं᳘षि श्रप्य᳘माणान्यु᳘परमति त᳘स्माद्वप᳘या चरन्ति॥

मूलम् - Weber

तद्य᳘द्वप᳘या च᳘रन्ति॥
य᳘स्यै वै᳘ देव᳘तायै पशु᳘माल᳘भन्ते ता᳘मेॗवैत᳘द्देव᳘तामेते᳘न मे᳘धेन प्रीणातिॗ सैषा᳘ देव᳘तैते᳘न मे᳘धेन प्रीता᳘ शान्तो᳘त्तराणि हवीं᳘षि श्रप्य᳘माणान्यु᳘परमति त᳘स्माद्वप᳘या चरन्ति॥

मूलम् - विस्वरम्

तद् यद्वपया चरन्ति । यस्यै वै देवतायै पशुमालभन्ते- तामेवैतद्देवतामेतेन मेधेन प्रीणाति । सैषा देवतैतेन मेधेन प्रीता शान्तोत्तराणि हवींषि श्रप्यमाणान्युपरमति । तस्माद्वपया चरन्ति ॥ २९ ॥

सायणः

वपायागं प्रशंसति- तद् यद् वपया चरन्तीति । अयं वपायागो विप्रकृष्टकालीनस्याङ्गयागस्य मध्यव्यवधानेन क्षुधार्त्ताया देवताया अवान्तरक्षुन्निवर्त्तकत्वेन क्रोधशान्तिहेतुरित्यर्थः ॥ २९ ॥

Eggeling
  1. The reason why they perform with the omen-tum is this. For whatever deity the victim is seized, that same deity he pleases by means of that fat (part); and that same deity, thus pleased with that fat, waits

patiently for the other sacrificial dishes being cooked; this is why they perform with the omentum.

३०

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ चा᳘त्वाले मार्ज्जयन्ते॥
क्रूरी वा᳘ ऽएत᳘त्कुर्व्वन्ति य᳘त्सञ्ज्ञप᳘यन्ति य᳘द्विशा᳘सति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयन्ते त᳘दद्भिः स᳘न्दधते त᳘स्माच्चा᳘त्वाले मार्ज्जयन्ते॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ चा᳘त्वाले मार्ज्जयन्ते॥
क्रूरी वा᳘ ऽएत᳘त्कुर्व्वन्ति य᳘त्सञ्ज्ञप᳘यन्ति य᳘द्विशा᳘सति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयन्ते त᳘दद्भिः स᳘न्दधते त᳘स्माच्चा᳘त्वाले मार्ज्जयन्ते॥

मूलम् - Weber

अ᳘थ चा᳘त्वाले मार्जयन्ते॥
क्रूरी वा᳘ एत᳘त्कुर्वन्ति य᳘त्संज्ञप᳘यन्ति य᳘द्विशा᳘सति सा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयन्ते त᳘दद्भिः सं᳘दधते त᳘स्माच्चा᳘त्वाले मार्जयन्ते॥

मूलम् - विस्वरम्

अथ चात्वाले 35 मार्ज्जयन्ते । क्रूरी वा ऽएतत् कुर्वन्ति यत् सञ्ज्ञपयन्ति, यद्विशासति । शान्तिरापः तदद्भिः शान्त्या शमयन्ते । तदद्भिः सन्दधते । तस्माच्चात्वाले मार्ज्जयन्ते ॥ ३० ॥

सायणः

अथ चात्वाल इत्यादि 35 । स्पष्टम् ॥ ३० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये तृतीयकाण्डे ऽष्टमाध्याये द्वितीयं ब्राह्मणम् ॥ (३-८-२)

Eggeling
  1. They then cleanse themselves over the pit 36. For in quieting and cutting up (the victim) they wound it; and water being a means of soothing, they now soothe it by means of water, heal it by means of water; therefore they cleanse themselves over the pit.

  1. पत्नीमुदानयेत्याहनेष्टारितिसोमे । का. श्रौ. सू. ६ । १२० । ↩︎ ↩︎ ↩︎

  2. पशोः प्राणान् छुंधति पत्नी । का. श्रौ. सू. ६ । १२३ । ↩︎ ↩︎

  3. सᳫह᳘त्य A. ↩︎

  4. 192:1 Or, perhaps, she and the sacrificer, as Sāyaṇa takes it (yajamānaḥ patnī ca). Kāty. VI, 6, 4 leaves it doubtful; but the commentator interprets the rule as referring to the Adhvaryu and Sacrificer, in accordance with the reading of the Kāṇva text–‘atha yāḥ pariśishṭā āpo bhavanti tābhir adhvaryuś ca yajamānaś cānushiñcataḥ.’ ↩︎

  5. 192:2 Āsthāpayanti = saṁjñapayanti, Sāyaṇa. ↩︎

  6. मनस्त इति शिरः । अनुषिंचत इति पूर्वसूत्रादनुवर्तते । द्विवचनाद्यजमानः पत्नी च । का० श्रौ० सू० ६ । १२५ । ↩︎ ↩︎ ↩︎

  7. यत्तेक्रूरमित्यंगानि । का. श्रौ. सू. ६ । १२६ । ↩︎

  8. त्राण्यसन्नि᳘ A त्राण्यैसन्नि B. ↩︎

  9. 193:1 Ned idam anv ahorātrāṇi śocān iti, Kāṇva recension. ↩︎

  10. 193:2 See III, 8, 1, 5. ↩︎

  11. इह संहितायां ‘निरस्त ँ रक्षः’ इत्यधिकं पठ्यते । ↩︎ ↩︎ ↩︎

  12. व्वपामुत्खिद्य व्वपाश्रपण्यौ प्रोर्णौति घृतेन द्यावापृथिवी इति । का. श्रौ. सू. ६ । १३२ । ↩︎

  13. 194:1 The two vapāśrapaṇīs (omentum-roasters) consist of sticks of kārshmarya wood (Gmelina Arborea), one of them being quite straight, while the other is bifurcate at the top, thus resembling a prop. ↩︎

  14. 194:2 Or, its flesh-juice, medha. The Kāṇva text reads throughout medhas. ↩︎

  15. 194:3 The Kāṇva text has the preferable reading,–Sa yat kr̥shyamāṇāt samabhavat tasmāt kārshmaryo nāma, ‘and because it sprang from that drawn-up (victim), therefore it is called kārshmarya.’ ↩︎

  16. 195:1 [He does so, thinking], ‘Lest I should cook it on the Āhavanīya uncooked.’ Kāṇva rec. ↩︎

  17. 195:2 ‘For it is for the drops that he thus lights it.’ Kāṇva rec. ↩︎

  18. उत्तरतस्तिष्ठन् प्रतप्य व्वपामंतरायूपाग्रे हृत्वा दक्षिणतः प्रतिप्रस्थाता श्रपयति परीत्य । का. श्रौ. सू. ६-१३६ ॥ ↩︎

  19. 195:3 That is, across the altar immediately behind the fire or high altar. ↩︎

  20. व्वपाँ सुवेणाभिघारयत्यग्निराज्यस्येति । का. श्रौ. सू. ६-१३७ । ↩︎ ↩︎

  21. 196:1 Thus according to the commentator on Kāty. VI, 6, 18. See also note on IV, 2, 5, 22, and Haug, Transl. Ait. Br. p. 101 note. ↩︎

  22. 196:2 The (invitatory) formulas are Rig-Veda I, 75, 1, and III, 21, 1-5; Ait. Br. II, 12; Āśv. Sr. III, 4, 1. ↩︎

  23. 196:3 The Pratiprasthātr̥ withdraws the omentum from the fire, and takes it (between fire and stake) to the north of the pit, where the Adhvaryu in the first place performs the so-called prāṇadāna (vol. i, p. 438 note), after which he deposits it on the altar. Kāty. VI, 6, 20. ↩︎

  24. 196:4 That is, for the offering-prayer or yājyā of the last fore-offering, being the last verse of whatever āprī hymn may be used; followed by a number of Svāhās, each with the name of some deity or deities (cf. I, 8, 3, 22-23). ↩︎

  25. 196:5 Cf. Haug, Transl. Ait. Br. p. 100, note 4. ↩︎

  26. हुत्वा व्वपामभिघारयति पृषदाज्यं ध्रुवां प्रथममाज्यभागौ चेत् । का. श्रौ. सू. ६ । १३९ ॥ ↩︎

  27. 197:1 That is, so much time has gone by since I first adopted that practice, and here I am grown old and still in full vigour, Sāy. ‘But he, lying old and worn out, said, “These two arms have become gray–what in the world has become of the Brahman’s word!”’ Kāṇva text. ↩︎

  28. 197:2 On the two butter-portions to Agni and Soma, succeeding the fore-offerings, see part i, p. 174 note. ↩︎

  29. वपया चरिष्यन्नुपस्तीर्यहिरण्यमवधाय व्वपामवद्यन्नाह इन्द्राग्निभ्यां छागस्य वपायै मेदसो ऽनुब्रूहि का. श्रौ. सू. । ६ । १४१ । इति निरूढेप्रैषः । “अग्नीषोमाभ्यां छागस्य वपायैमेदसो ऽनुब्रूहीति का. श्रौ. सू. ६ । १४३ सौमिको ऽयंप्रैषः । हिरण्यमवधाय द्विरभिघारणँ सोमे । का. श्रौ. सू. । ६ । १४२ । आश्राव्याहेन्द्राग्निभ्यां छागस्य वपां मेदःप्रेष्येति । का. श्रौ. सू. ६ । १४६ । ↩︎

  30. प्रस्थितमितिच प्रसुते । का. श्रौ. सू. ६ । १४४ । ↩︎

  31. 198:1 The Kāṇva text has ‘hiraṇyaśalká (masc.)’ here and elsewhere. ↩︎

  32. 198:2 The anuvākyā and yājyā for the omentum are Rig-veda I, 93, 1 and 5 respectively. ↩︎

  33. 198:3 At the animal offerings on the Soma-days he adds to his praisha (order) the word ‘prasthitam,’ lit. standing before (the altar). Kāty. VI, 6, 27. See also Ś. Br. IV, 4, 3, 9. ↩︎

  34. 198:4 Ūrdhvanabhas, ‘he who drives the clouds upwards’ (or, keeps the clouds above), or, perhaps, ‘he who is above (in) the welkin,’ is apparently a name of Vāyu, the wind. Cf. III, 6, 1, 16. ↩︎

  35. चात्वालसमीपे ‘इदमापः प्रवहतः’ (६ अ. १७ कं.) इत्यादिरात्माभ्युक्षणमन्त्रः संहितायां पठ्यते इह तु नोक्तः । ↩︎ ↩︎

  36. 199:1 They do so with the mantra, Vāj. S. VI, 17 (Atharva-veda VII, 89, 3; cf. Rig-veda I, 23, 22; X, 9, 8). ↩︎