०१
विश्वास-प्रस्तुतिः
तद्य᳘त्रैतत्प्र᳘वृतो हो᳘ता होतृष᳘दन ऽउपविश᳘ति॥
त᳘दुपवि᳘श्य प्र᳘सौति प्र᳘सूतो ऽध्वर्युः स्रु᳘चावा᳘दत्ते॥
मूलम् - श्रीधरादि
तद्य᳘त्रैतत्प्र᳘वृतो हो᳘ता होतृष᳘दन ऽउपविश᳘ति॥
त᳘दुपवि᳘श्य प्र᳘सौति प्र᳘सूतो ऽध्वर्युः स्रु᳘चावा᳘दत्ते॥
मूलम् - Weber
तद्य᳘त्रैतत्प्र᳘वृतो हो᳘ता होतृष᳘दन उपविश᳘ति॥
त᳘दुपवि᳘श्य प्र᳘सौति प्र᳘सूतो ऽध्वर्युः स्रु᳘चावा᳘दत्ते॥
मूलम् - विस्वरम्
तद् यत्रैतत्प्रवृत्तो होता होतृषदन ऽउपविशति । तद् उपविश्य प्रसौति । प्रसूतो ऽध्वर्यु स्रुचावादत्ते ॥ १ ॥
सायणः
यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
होत्रादिप्रवरणानन्तरभाविनं प्रयोगमाह- तद्यत्रैतत्प्रवृतो होता होतृषदन उपविशतीत्यादिना । होतृषदनं वेदेरुत्तरा श्रोणिः । ‘तत्’ तत्र ‘उपविश्य’ ‘प्रसौति’ “अग्निर्होता वेतु” 1 इत्यादि स्रुगादापनम् । निगदेनानुजानाति- “घृतवतीमध्वर्यो स्रुचमास्यस्व” (श. प. ब्रा. १ । १ । २ । १) इत्येवंरूपेण ॥ १ ॥
Eggeling
- Thereupon the Hotr̥, having sat down on the Hotr̥’s seat whereon he sits down after being chosen 2,
urges, and thus urged the Adhvaryu takes the two spoons.
०२
विश्वास-प्रस्तुतिः
(त्ते᳘ ऽथा) अ᳘थाप्री᳘भिश्चरन्ति॥
तद्य᳘दाप्री᳘भिश्च᳘रन्ति स᳘र्व्वेणेव वा᳘ ऽएष म᳘नसा स᳘र्व्वेणेवात्म᳘ना यज्ञᳫं᳭स᳘म्भरति स᳘ञ्च जिहीर्षति यो दी᳘क्षते त᳘स्य रिरिचान᳘ इवात्मा[[!!]] भवति त᳘मेता᳘भिराप्री᳘भिरा᳘प्याययन्ति तद्य᳘दाप्याय᳘यन्ति त᳘स्मादा᳘प्रियो ना᳘म त᳘स्मादाप्री᳘भिश्चरन्ति॥
मूलम् - श्रीधरादि
(त्ते᳘ ऽथा) अ᳘थाप्री᳘भिश्चरन्ति॥
तद्य᳘दाप्री᳘भिश्च᳘रन्ति स᳘र्व्वेणेव वा᳘ ऽएष म᳘नसा स᳘र्व्वेणेवात्म᳘ना यज्ञᳫं᳭स᳘म्भरति स᳘ञ्च जिहीर्षति यो दी᳘क्षते त᳘स्य रिरिचान᳘ इवात्मा[[!!]] भवति त᳘मेता᳘भिराप्री᳘भिरा᳘प्याययन्ति तद्य᳘दाप्याय᳘यन्ति त᳘स्मादा᳘प्रियो ना᳘म त᳘स्मादाप्री᳘भिश्चरन्ति॥
मूलम् - Weber
अ᳘थाप्री᳘भिश्चरन्ति॥
तद्य᳘दाप्री᳘भिश्च᳘रन्ति स᳘र्वेणेव वा᳘ एष म᳘नसा स᳘र्वेणेवात्म᳘ना यज्ञᳫं स᳘म्भरति सं᳘ च जिहीर्षति यो दी᳘क्षते त᳘स्य रिरिचान᳘ इवात्मा᳘ भवति त᳘मेताभिराप्री᳘भिरा᳘प्याययन्ति तद्य᳘दाप्याय᳘यन्ति त᳘स्मादा᳘प्रियो ना᳘म त᳘स्मादाप्री᳘भिश्चरन्ति॥
मूलम् - विस्वरम्
अथाप्रीभिश्चरन्ति । तद् यदाप्रीभिश्चरन्ति । सर्वेणेव वा ऽएष मनसा सर्वेणेवात्मना यज्ञं सम्भरति, सञ्च जिहीर्षति । यो दीक्षते- तस्य रिरिचान इवात्मा भवति । तमेताभिराप्रीभिराप्याययन्ति । तद् यदाप्याययन्ति- तस्मादाप्रियो नाम । तस्मादाप्रीभिश्चरन्ति ॥ २ ॥
सायणः
अथाप्रीभिश्चरन्तीति । समित्तनूनपादित्याद्येकादश प्रयाजा आप्रियः (नि. रु. ८ । २ । १-७) नामनिर्वचनेनाप्रियं प्रशंसितुं तत्प्रवृत्तिनिमित्तस्याप्यायनस्य सम्भावनामाह- सर्वेणेव वा एष मनसा सर्वेणेवात्मना यज्ञं सम्भरतीत्यादिना । ‘एषः’ दीक्षितः ‘सर्वेणेव मनसा’ ‘सर्वेणात्मना’ मनोव्यतिरिक्तेन प्राणादिसङ्घातेन, सर्वेषां तत्रैवोपजीव्यत्वात् अतः ‘सञ्जिहीर्षति’ संहर्तुमिच्छति । ततो ‘रिरिचान इव’ रिक्तः शून्य इव ‘आत्मा भवति’ ‘तस्मात्’ आप्यायनसाधनत्वात् ‘आप्रियः’ इति तन्नामनिर्वचनम् ॥ २ ॥
Eggeling
- They then proceed with the Āprī (verses). The reason why they proceed with the Āprīs is this. With his whole mind, with his whole self, forsooth, he who consecrates himself prepares and endeavours to prepare the sacrifice. His self is, as it were, emptied out; with those Āprīs they fill it again; and because they fill 3 it therewith, therefore they are called Āprī. For this reason they proceed with the Āprīs.
०३
विश्वास-प्रस्तुतिः
ते वा᳘ ऽएत ऽए᳘कादश प्रयाजा᳘ भवन्ति॥
द᳘श वा᳘ ऽइमे पु᳘रुषे प्राणा᳘ आ᳘त्मैकादशो य᳘स्मिन्नेते᳘ प्राणाः प्र᳘तिष्ठिता᳘ ऽएतावान्वै[[!!]] पु᳘रुषस्त᳘दस्य स᳘र्व्वमात्मा᳘नमा᳘प्यायन्ति त᳘स्मादे᳘कादश प्रयाजा᳘ भवन्ति॥
मूलम् - श्रीधरादि
ते वा᳘ ऽएत ऽए᳘कादश प्रयाजा᳘ भवन्ति॥
द᳘श वा᳘ ऽइमे पु᳘रुषे प्राणा᳘ आ᳘त्मैकादशो य᳘स्मिन्नेते᳘ प्राणाः प्र᳘तिष्ठिता᳘ ऽएतावान्वै[[!!]] पु᳘रुषस्त᳘दस्य स᳘र्व्वमात्मा᳘नमा᳘प्यायन्ति त᳘स्मादे᳘कादश प्रयाजा᳘ भवन्ति॥
मूलम् - Weber
ते वा᳘ एत ए᳘कादश प्रयाजा᳘ भवन्ति॥
द᳘श वा᳘ इमे पु᳘रुषे प्राणा᳘ आॗत्मैकादशो य᳘स्मिन्नेते᳘ प्राणाः प्र᳘तिष्ठिता एता᳘वान्वै पु᳘रुषस्त᳘दस्य स᳘र्वमात्मा᳘नमा᳘प्यायन्ति त᳘स्मादे᳘कादश प्रयाजा᳘ भवन्ति॥
मूलम् - विस्वरम्
ते वा ऽएत ऽएकादश प्रयाजा भवन्ति । दश वा ऽइमे पुरुषे प्राणाः- आत्मैकादशः- यस्मिन्नेते प्राणाः प्रतिष्ठिताः । एतावान्वै पुरुषः । तदस्य सर्वमात्मानमाप्याययन्ति । तस्मादेकादश प्रयाजा भवन्ति ॥ ३ ॥
सायणः
आप्यायनसाधनत्वमेवोपजीव्यैकादशत्वं विधाय प्रशंसति- ते वा एत एकादश प्रयाजा इति । सप्त शीर्षण्याः, द्वावपानौ, नाभिर्दशमी, तेषामाधारो देह एकादश इति तद्विवेकः ॥ ३ ॥
Eggeling
- Now there are here eleven fore-offerings; for here in man there are ten vital airs, and the eleventh is the self wherein those vital airs are contained; this is the whole man; thus they fill his whole self, and therefore there are eleven fore-offerings.
०४
विश्वास-प्रस्तुतिः
स᳘ आश्रा᳘व्याह॥
समि᳘धः प्रेष्ये᳘ति प्रे᳘ष्य प्रेष्ये᳘ति चतुर्थे᳘-चतुर्थे[[!!]] प्रयाजे᳘ समान᳘यमानो दश᳘भिः प्रयाजै᳘श्चरति द᳘श प्रयाजा᳘निष्ट्वाह[[!!]] शासमा᳘हरे᳘त्यसिं वै᳘ शास इत्या᳘चक्षते॥
मूलम् - श्रीधरादि
स᳘ आश्रा᳘व्याह॥
समि᳘धः प्रेष्ये᳘ति प्रे᳘ष्य प्रेष्ये᳘ति चतुर्थे᳘-चतुर्थे[[!!]] प्रयाजे᳘ समान᳘यमानो दश᳘भिः प्रयाजै᳘श्चरति द᳘श प्रयाजा᳘निष्ट्वाह[[!!]] शासमा᳘हरे᳘त्यसिं वै᳘ शास इत्या᳘चक्षते॥
मूलम् - Weber
स᳘ आश्रा᳘व्याह॥
समि᳘धः प्रेष्ये᳘ति प्रे᳘ष्य प्रेष्ये᳘ति चतुर्थे᳘चतुर्थे᳘ प्रयाजे᳘ समान᳘यमानो दश᳘भिः प्रयाजै᳘श्चरति द᳘श प्रयाजा᳘निॗष्ट्वाह शासमा᳘हरे᳘त्यसिं वै᳘ शास इत्या᳘चक्षते॥
मूलम् - विस्वरम्
स आश्राव्याह- समिधः प्रेष्येति । प्रेष्य प्रेष्येति । चतुर्थे चतुर्थे प्रयाजे समानयमानो दशभिः प्रयाजैश्चरति । दश प्रयाजानिष्ट्वाह शासमाहरेति । असिं वै शास इत्याचक्षते ॥ ४ ॥
सायणः
स आश्राव्याहेत्यादि । समिद्याग एव ‘समिधः प्रेष्य’ ‘इति’ एवं ब्रूयात् । तनूनपात्प्रभृतीनां ‘प्रेष्य प्रेष्य’ ‘इति’ एवं नाम निर्दिशेत् । चतुर्थे चतुर्थे प्रयाजे समानयमान इति । जुहूगतेनाज्येन प्रयाजत्रयं कृत्वा, पुनरुपभृति स्थितमाज्यमथ चतुर्थादिसप्तमान्तप्रयाजचतुष्टयाय समवनीय पुनरष्टमाद्येकादशान्तप्रयाजचतुष्टयार्थमष्टममवनयेदित्यर्थः । दशमप्रयाजानन्तरं ‘शासम्’ असिम् ‘आहर’ ‘इति’ ब्रूयात् । “शसु हिंसायाम्” (धा. पा. भ्वा. प. ७२९) शस्यते हिंस्यते अनेनेति ‘शासः’ असिः । शासशब्दस्याप्रसिद्धस्य प्रसिद्धार्थतामभिप्रेत्य व्याचष्टे- असिर्वै शास इतीति ॥ ४ ॥
Eggeling
- [The Adhvaryu] having called (on the Āgnīdhra) for the Śraushaṭ, he says (to the Maitrāvaruṇa), ‘Prompt (the Hotr̥ to recite to) the kindling-sticks 4!’ Thus he proceeds with ten fore-offerings,
saying, ‘Prompt . . .’ at each, and pouring the ghee together at every fourth fore-offering 5. Having performed ten fore-offerings, he says, ‘Bring the slayer!’ ‘Slayer,’ namely, the (butcher’s) knife is called.
०५
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ यूपशकलमा᳘दत्ते॥
ताव᳘ग्रे जुह्वा᳘ अक्त्वा᳘ पशो᳘र्लला᳘टमुपस्पृशति[[!!]] घृते᳘नाक्तौ᳘ पशूं᳘स्त्रायेथामि᳘ति व्व᳘ज्रो वै᳘ यूपशकलो व्व᳘ज्रः शासो व्व᳘ज्र आ᳘ज्यं त᳘मे᳘वैत᳘त्कृत्स्नं व्व᳘ज्रᳫं᳭ सम्भृ᳘त्य त᳘मस्याभिगोप्ता᳘रं᳘ करोति ने᳘देनं नाष्ट्रा र᳘क्षाᳫं᳭सि हिन᳘सन्नि᳘ति पु᳘नर्यूपशकलम᳘वगूहत्येषा᳘ ते प्र᳘ज्ञाता᳘श्रिरस्त्वि᳘त्याह शासं᳘ प्रय᳘च्छन्त्साद᳘यति स्रु᳘चौ॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ यूपशकलमा᳘दत्ते॥
ताव᳘ग्रे जुह्वा᳘ अक्त्वा᳘ पशो᳘र्लला᳘टमुपस्पृशति[[!!]] घृते᳘नाक्तौ᳘ पशूं᳘स्त्रायेथामि᳘ति व्व᳘ज्रो वै᳘ यूपशकलो व्व᳘ज्रः शासो व्व᳘ज्र आ᳘ज्यं त᳘मे᳘वैत᳘त्कृत्स्नं व्व᳘ज्रᳫं᳭ सम्भृ᳘त्य त᳘मस्याभिगोप्ता᳘रं᳘ करोति ने᳘देनं नाष्ट्रा र᳘क्षाᳫं᳭सि हिन᳘सन्नि᳘ति पु᳘नर्यूपशकलम᳘वगूहत्येषा᳘ ते प्र᳘ज्ञाता᳘श्रिरस्त्वि᳘त्याह शासं᳘ प्रय᳘च्छन्त्साद᳘यति स्रु᳘चौ॥
मूलम् - Weber
अ᳘थ यूपशकलमा᳘दत्ते॥
ताव᳘ग्रे जुह्वा᳘ अक्त्वा᳘ पशो᳘र्लला᳘टमु᳘पस्पृशति घृते᳘नाक्तौ᳘ पशू᳘ᳫं᳘स्त्रायेथामि᳘ति व᳘ज्रो वै᳘ यूपशकलो व᳘ज्रः शासो व᳘ज्र आ᳘ज्यं त᳘मेॗवैत᳘त्कृत्स्नं व᳘ज्रᳫं सम्भृ᳘त्य त᳘मस्याभिगोप्ता᳘रं करोति ने᳘देनं नाष्ट्रा र᳘क्षांसि हिन᳘सन्नि᳘ति पु᳘नर्यूपशकलम᳘वगूहत्येषा᳘ ते प्र᳘ज्ञाता᳘श्रिरस्त्वि᳘त्याह शास᳘म् प्रय᳘छन्त्साद᳘यति स्रु᳘चौ॥
मूलम् - विस्वरम्
अथ यूपशकलमादत्ते । तावग्रे जुह्वा अक्ता पशोर्ललाटमुपस्पृशति- “घृतेनाक्तौ पशूंस्त्रायेथाम्” (वा. सं. ६ । ११) इति । वज्रो वै यूपशकलः । वज्रः शासः । वज्र आज्यम् । तमेवैतत् कृत्स्नं वज्रं सम्भृत्य तमस्याभिगोप्तारं करोति । नेदेनं नाष्ट्रा रक्षांसि हिनसन्निति । पुनर्यूपशकलमवगूहति । ‘एषा ते प्रज्ञाताश्रिरस्तु’ इत्याह- शासं प्रयच्छन् सादयति स्रुचौ ॥ ५ ॥
सायणः
अथ यूपशकलाविति । यूपशकलौ जुह्वा अग्रगतेनाज्येन समज्य ताभ्यामक्ताभ्यां पशोर्ललाटमुपस्पृशति । तन्मन्त्रस्यायमर्थः- हे घृतेनाक्तौ स्वरुस्वधिती ! युवां ‘पशून्’ त्रायेथाम् । अत्र सूत्रम्- “स्वरुमादायाक्त्वोभौ जुह्वग्रे ताभ्यां पशोर्ललाटमुपस्पृशति घृतेनाक्ताविति” (का. श्रौ. सू. ६ । ९३) 6 इति ॥ वज्रो वा इत्यादि । यूपशकलादीनां वज्रत्वं प्रागुक्तम् (श. प. ब्रा. ३ । ७ । १ । ३०-३२) । “एषा ते”- इति ब्रुवन्, ‘शासम्’ उत्सृजतो ऽस्य हविषो ऽवदानाय ‘प्रयच्छत्’ । ‘एषा’ अष्टाश्रिः हे शमितः ! ते ‘प्रज्ञाता अस्तु’- ‘इति आह’ ॥ ५ ॥
Eggeling
- He then takes the (svaru) chip of the sacrificial stake, and having anointed both (the slaughtering-knife and the chip) at the top (with ghee) from the guhū-spoon, he touches the forehead of the victim with them, saying (Vāj. S. VI, 11), ‘Anointed with ghee, protect ye the animals!’ for the chip of the stake is a thunderbolt, and the slaughtering-knife is a thunderbolt, and ghee is a thunderbolt; having thus fitted together the entire thunderbolt 7 he appoints it the keeper of this (victim), lest the evil spirits should injure it. He again conceals the chip of the stake (under the girding-rope of the stake). In handing the slaughtering-knife to the butcher, he says, ‘Be this thine approved edge!’ and deposits the two spoons.
०६
विश्वास-प्रस्तुतिः
(चाव᳘) अ᳘थाह प᳘र्य्यग्नये᳘ ऽनुब्रूहीति[[!!]]॥
(त्यु᳘) उ᳘ल्मुकमादा᳘याग्नीत्पर्यग्निं[[!!]] करोति तद्यत्प᳘र्य्यग्निं करोत्य᳘च्छिद्रमे᳘वैनमेत᳘दग्नि᳘ना प᳘रिगृह्णाति ने᳘देनं नाष्ट्रा र᳘क्षाᳫँ᳭सि प्रमृशानि᳘त्यग्निर्हि र᳘क्षसामपहन्ता त᳘स्मात्प᳘र्यग्निं करोति तद्य᳘त्रैनᳫँ᳭ श्रप᳘यन्ति त᳘दभि प᳘रिहरति॥
मूलम् - श्रीधरादि
(चाव᳘) अ᳘थाह प᳘र्य्यग्नये᳘ ऽनुब्रूहीति[[!!]]॥
(त्यु᳘) उ᳘ल्मुकमादा᳘याग्नीत्पर्यग्निं[[!!]] करोति तद्यत्प᳘र्य्यग्निं करोत्य᳘च्छिद्रमे᳘वैनमेत᳘दग्नि᳘ना प᳘रिगृह्णाति ने᳘देनं नाष्ट्रा र᳘क्षाᳫँ᳭सि प्रमृशानि᳘त्यग्निर्हि र᳘क्षसामपहन्ता त᳘स्मात्प᳘र्यग्निं करोति तद्य᳘त्रैनᳫँ᳭ श्रप᳘यन्ति त᳘दभि प᳘रिहरति॥
मूलम् - Weber
अ᳘थाह प᳘र्यग्नये᳘ ऽनुब्रूही᳘ति॥
उ᳘ल्मुकमादायाग्नीत्प᳘र्यग्निं करोति तद्यत्प᳘र्यग्निं करोत्य᳘छिद्रमेॗवैनमेत᳘दग्नि᳘ना प᳘रिगृह्णाति ने᳘देनं नाष्ट्रा र᳘क्षांसि प्रमृशानि᳘त्यग्निर्हि र᳘क्षसामपहन्ता त᳘स्मात्प᳘र्यग्निं करोति तद्य᳘त्रैनं श्रप᳘यन्ति त᳘दभिप᳘रिहरति॥
मूलम् - विस्वरम्
अथाह- पर्य्यग्नये ऽनुब्रूहीति । उल्मुकमादायाग्नीत्, पर्यग्निं करोति । तद् यत्पर्य्यग्निं करोति- अच्छिद्रमेवैनमेतदग्निना परिगृह्णाति । नेदेनं नाष्ट्रा रक्षांसि प्रमृशानिति । अग्निर्हि रक्षसामपहन्ता । तस्मात्पर्यग्निं करोति । तद् यत्रैनं श्रपयन्ति- तदभि परिहरति ॥ ६ ॥
सायणः
अथाह पर्यग्नये ऽनुब्रूहीति । ‘अथ’ स्रुचोः सादनानन्तरम्, ‘पर्यग्नये ऽनुब्रूहीति’ उक्त्वा, ‘पर्यग्निं करोति’ पशोः परितः अग्निं करोति, उल्मुकेनाग्नीद्ध्रः । ‘अच्छिद्रमेवैनम्’ इत्याद्यर्थवादः स्पष्टार्थः । अत्र तन्त्रम्- “सादयित्वा स्रुचौ चात्वालमुत्तरेण शामित्रायोल्लिखति, पर्यग्नये ऽनुवाचयति, आहवनीयेल्मुकमादाय आग्नीत् त्रिः समन्तं पर्येति, पश्वाज्यशामित्रदेशयूपचात्वालाहवनीयान्, आज्यपशुशामित्रान् वा" इति । (का. श्रौ. सू. ६- ९५ । ९८) 8 तद्यत्रैनं श्रपयन्ति, तदभिपरिहरतीति । ‘यत्र’ शामित्रोत्तरभागे ‘एनं पशुं’ ‘श्रपयन्ति’ ‘तत्’ स्थानम् ‘अभि’- लक्ष्य ‘एनम्’ उल्मुकं पाकार्थमाहरेत् ॥ ६ ॥
Eggeling
- Thereupon he says (to the Hotr̥), ‘Recite to Agni circumambient 9!’ Having taken a firebrand,
the Agnīdh carries the fire round (the victim). Why he carries the fire round, is that he encircles it (the victim) by means of the fire with an unbroken fence, lest the evil spirits should seize upon it; for Agni is the repeller of the Rakshas; therefore he carries the fire round. He carries it round the place where they cook it (the victim 10).
०७
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
पु᳘नरेतदु᳘ल्मुकᳫँ᳭ हरेदथा᳘त्रान्य᳘मे᳘वाग्निं᳘ निर्म्म᳘थ्य त᳘स्मिन्नेनᳫँ᳭ श्रपयेयुराहवनी᳘यो वा᳘ ऽएष न वा᳘ ऽएष त᳘स्मै य᳘दस्मिन्न᳘शृतᳫँ᳭ श्रप᳘येयुस्त᳘स्मै वा᳘ ऽएष य᳘दस्मिञ्च्छृतं᳘ जुहुयुरि᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
पु᳘नरेतदु᳘ल्मुकᳫँ᳭ हरेदथा᳘त्रान्य᳘मे᳘वाग्निं᳘ निर्म्म᳘थ्य त᳘स्मिन्नेनᳫँ᳭ श्रपयेयुराहवनी᳘यो वा᳘ ऽएष न वा᳘ ऽएष त᳘स्मै य᳘दस्मिन्न᳘शृतᳫँ᳭ श्रप᳘येयुस्त᳘स्मै वा᳘ ऽएष य᳘दस्मिञ्च्छृतं᳘ जुहुयुरि᳘ति॥
मूलम् - Weber
त᳘दाहुः॥
पु᳘नरेतदु᳘ल्मुकᳫं हरेदथा᳘त्रान्य᳘मेॗवाग्निं᳘ निर्म᳘थ्य त᳘स्मिन्नेनं श्रपयेयुराहवनी᳘यो वा᳘ एष न वा᳘ एष त᳘स्मै य᳘दस्मिन्न᳘शृतं श्रपयेयुस्त᳘स्मै वा᳘ एष य᳘दस्मिञ्छृतं᳘ जुहुयुरि᳘ति॥
मूलम् - विस्वरम्
तदाहुः- पुनरेतदुल्मुकं हरेत्- अथात्रान्यमेवाग्निं निर्मथ्य तस्मिन्नेनं श्रपयेयुः । आहवनीयो वा ऽएषः । नवा ऽएष तस्मै- यदस्मिन्नशृतं श्रपयेयुः । तस्मै वा एष- यदस्मिञ्छ्रतं जुहुयुरिति ॥ ७ ॥
सायणः
उल्मुकहरणविषये केषाञ्चित् पक्षं, तद्युक्तिञ्चोपन्यस्य निराकृत्य स्वपक्षं स्थापयति- तदाहुः पुनरेतदुल्मुकं हरेदथात्रान्यमेवाग्निं निर्मथ्य तस्मिन्नेनं श्रपयेयुरित्यादिना । ‘पुनः’ पर्यग्निकरणानन्तरम् ‘एतत् उल्मुकम्’ ‘हरेत्’ आहवनीये स्थापयेत् । आहवनीयो वा एष इति । यतो ऽयमाहवनीयः, अतः शृतहोमार्थ- एषः, शृतश्रपणाय नार्हतीति तेषामभिप्रायः ॥ ७ ॥
Eggeling
- As to this they say, ‘Let him take back that firebrand (to the Āhavanīya); and having there (at the Śāmitra) churned out a new fire, let them cook it (the victim) thereon. For this (firebrand), surely, is āhavanīya (fit to offer upon); it is not for the purpose that they should cook uncooked (food) thereon, but for this that they should sacrifice cooked (food) thereon.’
०८
विश्वास-प्रस्तुतिः
त᳘दु त᳘था न᳘ कुर्यात्॥
(द्य᳘) य᳘था वै᳘ ग्रसित᳘मेव᳘मस्यैत᳘द्भवति य᳘देनेन प᳘र्यग्निं करो᳘ति स य᳘था ग्रसित᳘मनुहा᳘याच्छि᳘द्य त᳘दन्य᳘स्मै प्रय᳘च्छेदेवं तत्त᳘स्मादेत᳘स्यैवो᳘ल्मुकस्या᳘ङ्गारान्निमृ᳘द्य त᳘स्मिन्ने᳘नᳫँ᳭श्रपयेयुः॥
मूलम् - श्रीधरादि
त᳘दु त᳘था न᳘ कुर्यात्॥
(द्य᳘) य᳘था वै᳘ ग्रसित᳘मेव᳘मस्यैत᳘द्भवति य᳘देनेन प᳘र्यग्निं करो᳘ति स य᳘था ग्रसित᳘मनुहा᳘याच्छि᳘द्य त᳘दन्य᳘स्मै प्रय᳘च्छेदेवं तत्त᳘स्मादेत᳘स्यैवो᳘ल्मुकस्या᳘ङ्गारान्निमृ᳘द्य त᳘स्मिन्ने᳘नᳫँ᳭श्रपयेयुः॥
मूलम् - Weber
त᳘दु त᳘था न᳘ कुर्यात्॥
य᳘था वै᳘ ग्रसित᳘मेव᳘मस्यैत᳘द्भवति य᳘देनेन प᳘र्यग्निं करो᳘ति स य᳘था ग्रसित᳘मनुहा᳘याछि᳘द्य त᳘दन्य᳘स्मै प्रय᳘छेदेवं तत्त᳘स्मादेत᳘स्यैवो᳘ल्मुकस्या᳘ङ्गारान्निमृ᳘द्य त᳘स्मिन्नेनं श्रपयेयुः॥
मूलम् - विस्वरम्
तदु तथा न कुर्यात् । यथा वै ग्रसितम्- एवमस्यैतद्भवति- यदेनेन । पर्यग्निं करोति । स यथा ग्रसितमनुहायाच्छिद्य तदन्यस्मै प्रयच्छेद्- एवं तत् । तस्मादेतस्यैवोल्मुकस्याङ्गारान्निमृद्य तस्मिन्नेनं पयेयुः ॥ ८ ॥
सायणः
तदु तथा न कुर्यादिति । पर्यग्निकरणादेवायं पशुस्तेनाग्निना ग्रसितो ऽभूत्; अतो मुखस्थं हविः पुनराकृष्य पुनर्मन्थनाग्नौ श्रपणादन्यस्मै प्रदानं कृतं भवति । तस्मात् तेषां पक्षो न युक्त इत्यर्थः ॥ ८ ॥
Eggeling
- Let him, however, not do this. For in that he carries fire round it, it (the victim) becomes as food swallowed by that (firebrand), and it would be as if he were to seize and tear out food that has been swallowed and offer it to some one else; let them, therefore, crumble some coals off that same firebrand, and thereon cook that (victim).
०९
विश्वास-प्रस्तुतिः
(र) अथो᳘ल्मुकमादा᳘याग्नी᳘त्पुर᳘स्तात्प्र᳘तिपद्यते॥
(ते ऽग्नि᳘) अग्नि᳘मे᳘वैत᳘त्पुर᳘स्तात्करोत्यग्निः᳘ पुर᳘स्तान्नाष्ट्रा र᳘क्षाᳫँ᳭स्यपघ्न᳘न्नेत्यथा᳘भयेनानाष्ट्रे᳘ण पशुं᳘ नयन्ति तं᳘ व्वपाश्र᳘पणीभ्यां प्रतिप्रस्था᳘तान्वा᳘रभते प्रतिप्रस्थाता᳘रमध्वर्यु᳘रध्वर्युं य᳘जमानः॥
मूलम् - श्रीधरादि
(र) अथो᳘ल्मुकमादा᳘याग्नी᳘त्पुर᳘स्तात्प्र᳘तिपद्यते॥
(ते ऽग्नि᳘) अग्नि᳘मे᳘वैत᳘त्पुर᳘स्तात्करोत्यग्निः᳘ पुर᳘स्तान्नाष्ट्रा र᳘क्षाᳫँ᳭स्यपघ्न᳘न्नेत्यथा᳘भयेनानाष्ट्रे᳘ण पशुं᳘ नयन्ति तं᳘ व्वपाश्र᳘पणीभ्यां प्रतिप्रस्था᳘तान्वा᳘रभते प्रतिप्रस्थाता᳘रमध्वर्यु᳘रध्वर्युं य᳘जमानः॥
मूलम् - Weber
अथो᳘ल्मुकमादा᳘याग्नी᳘त्पुर᳘स्तात्प्र᳘तिपद्यते॥
अग्नि᳘मेॗवैत᳘त्पुर᳘स्तात्करोत्यग्निः᳘ पुर᳘स्तान्नाष्ट्रा र᳘क्षांस्यपघ्न᳘न्नेत्यथा᳘भयेनानाष्ट्रे᳘ण पशुं᳘ नयन्ति तं᳘ वपाश्र᳘पणीभ्याम् प्रतिप्रस्थाॗतान्वा᳘रभते प्रतिप्रस्थाता᳘रमध्वर्यु᳘रध्वर्युं य᳘जमानः॥
मूलम् - विस्वरम्
अथोल्मुकमादायाग्नीत् पुरस्तात्प्रतिपद्यते । अग्निमेवैतत्पुरस्तात्करोति । अग्निः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेति । अथाभयेनानाष्ट्रेण पशुं नयन्ति । तं वपाश्रपणीभ्यां प्रतिप्रस्थातान्वारभते । प्रतिप्रस्थातारमध्वर्युः । अध्वर्युं यजमानः ॥ ९ ॥
सायणः
अथाग्नीध्रप्रतिप्रस्थात्रध्वर्युयजमानानां शामित्रं प्रति गमनमाह- अथोल्मुकमादायाग्नीदित्यादिना 11 । उल्मुकस्य पुरोगमनप्रयोजनमाह- अग्निमेवैतदिति । ततश्च किमित्यत आह- अग्निः पुरस्तादिति । अग्न्यनुगमनं न युक्तमिति ॥ ९ ॥
Eggeling
- Thereupon the Agnīdh, taking a (new) firebrand, walks in front: whereby he places Agni in front, thinking, ‘Agni shall repel the evil spirits in front!’ and
they lead the victim after him (to the slaughtering-place) on a (way) free from danger and injury. The Pratiprasthātr̥ holds on to it from behind by means of the two spits 12, and the Adhvaryu (holds on to) the Pratiprasthātr̥, and the Sacrificer to the Adhvaryu.
१०
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः᳘॥
(र्नै) नैष य᳘जमानेनान्वार᳘भ्यो मृत्य᳘वे᳘ ह्येतं न᳘यन्ति त᳘स्मा᳘न्नान्वा᳘रभेते᳘ति तद᳘न्वेवा᳘रभेत न वा᳘ ऽएतं᳘ मृत्य᳘वे नयन्ति[[!!]] यं᳘ यज्ञा᳘य न᳘यन्ति त᳘स्माद᳘न्वेवा᳘रभेत यज्ञा᳘दु है᳘वात्मा᳘नमन्त᳘रियाद्य᳘न्नान्वा र᳘भेत त᳘स्माद᳘न्वेवा᳘रभेत त᳘त्परो᳘क्षमन्वा᳘रब्धं भवति व्वपाश्र᳘पणीभ्यां प्रतिप्रस्थाता᳘ प्रतिप्रस्थाता᳘रमध्वर्यु᳘रध्वर्युं य᳘जमान एत᳘दु परो᳘क्षमन्वारब्धं[[!!]] भवति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः᳘॥
(र्नै) नैष य᳘जमानेनान्वार᳘भ्यो मृत्य᳘वे᳘ ह्येतं न᳘यन्ति त᳘स्मा᳘न्नान्वा᳘रभेते᳘ति तद᳘न्वेवा᳘रभेत न वा᳘ ऽएतं᳘ मृत्य᳘वे नयन्ति[[!!]] यं᳘ यज्ञा᳘य न᳘यन्ति त᳘स्माद᳘न्वेवा᳘रभेत यज्ञा᳘दु है᳘वात्मा᳘नमन्त᳘रियाद्य᳘न्नान्वा र᳘भेत त᳘स्माद᳘न्वेवा᳘रभेत त᳘त्परो᳘क्षमन्वा᳘रब्धं भवति व्वपाश्र᳘पणीभ्यां प्रतिप्रस्थाता᳘ प्रतिप्रस्थाता᳘रमध्वर्यु᳘रध्वर्युं य᳘जमान एत᳘दु परो᳘क्षमन्वारब्धं[[!!]] भवति॥
मूलम् - Weber
त᳘दाहुः॥
नैष य᳘जमानेनान्वार᳘भ्यो मृत्य᳘वेॗ ह्येतं न᳘यन्ति त᳘स्माॗन्नान्वा᳘रभेते᳘ति तद᳘न्वेवा᳘रभेत न वा᳘ एत᳘म् मृत्य᳘वे न᳘यन्ति यं᳘ यज्ञा᳘य न᳘यन्ति त᳘स्माद᳘न्वेवा᳘रभेत यज्ञा᳘दु हैॗवात्मा᳘नमन्त᳘रियाद्यॗन्नान्वार᳘भेत त᳘स्माद᳘न्वेवा᳘रभेत त᳘त्परो᳘ ऽक्षमन्वा᳘रब्धम् भवति वपाश्र᳘पणीभ्याम् प्रतिप्रस्थाता᳘ प्रतिप्रस्थाता᳘रमध्वर्यु᳘रध्वर्युं य᳘जमान एत᳘दु परो᳘ ऽक्षमन्वा᳘रब्धम् भवति॥
मूलम् - विस्वरम्
तदाहुः- नैष यजमानेनान्वारभ्यः । मृत्यवे ह्येतं नयन्ति । तस्मान्नान्वारभेतेति । तदन्वेवारभेत । न वा ऽएतं मृत्यवे नयन्ति- यं यज्ञाय नयन्ति । तस्मादन्वेवारभेत । यज्ञादु हैवात्मानमन्तरियात्- यन्नान्वारभेत । तस्मादन्वेवारभेत । तत् परोक्षमन्वारब्धं भवति । वपाश्रपणीभ्यां प्रतिप्रस्थाता । प्रतिप्रस्थातारमध्वर्युः । अध्वर्युं यजमानः । एतदु परोक्षमन्वारब्धं भवति ॥ १० ॥
सायणः
तदाहुरिति । तेषामभिप्रायमन्यथयति- न वा एनमिति । केवलहननार्थं नयनं चेत् मृत्यवे नयति । यज्ञार्थं नयनं पशोः स्वर्गप्राप्त्यर्थत्वान्न मृत्यवे नयनमिति स्वपक्षे शङ्कितं बाधं परिहृत्य विपक्षे बाधमाह- यज्ञादु हैवात्मानमिति । तस्मिन् समये प्रतिप्रस्थाता वपाश्रपणीभ्यां काष्मर्यमयीभ्यां पशुम् अन्वारभते, तमनु अध्वर्युश्च; अतस्ताभ्यां व्यवधानात् प्रियमाणस्य पशोः न साक्षादन्वारम्भो भवति । अतो ऽपि नोक्त इत्यर्थः ॥ १० ॥
Eggeling
- As to this they say, ‘That (victim) must not be held on to by the sacrificer, for they lead it unto death; therefore let him not hold on to it.’ But let him nevertheless hold on to it; for that (victim) which they lead to the sacrifice they lead not to death; therefore let him hold on to it. Moreover he would cut himself off from the sacrifice, were he not to hold on to it; therefore let him hold on to it. It is held on to in a mysterious way; by means of the spits the Pratiprasthātr̥ (holds on to it); to the Pratiprasthātr̥ the Adhvaryu, to the Adhvaryu the Sacrificer; thus then it is held on to in a mysterious way.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ स्तीर्णा᳘यै व्वे᳘देः॥
(र्द्वे) द्वे तृणे[[!!]] ऽअध्वर्युरा᳘दत्ते स᳘ आश्रा᳘व्याहोपप्रे᳘ष्य होतर्हव्या᳘ देवे᳘भ्य इ᳘त्येत᳘दु व्वैश्वदेवं᳘ पशौ[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ स्तीर्णा᳘यै व्वे᳘देः॥
(र्द्वे) द्वे तृणे[[!!]] ऽअध्वर्युरा᳘दत्ते स᳘ आश्रा᳘व्याहोपप्रे᳘ष्य होतर्हव्या᳘ देवे᳘भ्य इ᳘त्येत᳘दु व्वैश्वदेवं᳘ पशौ[[!!]]॥
मूलम् - Weber
अ᳘थ स्तीर्णा᳘यै वे᳘देः॥
द्वे तृ᳘णे अध्वर्युरा᳘दत्ते स᳘ आश्रा᳘व्याहोपप्रे᳘ष्य होतर्हव्या᳘ देवे᳘भ्य इ᳘त्येत᳘दु वैश्वदेव᳘म् पशौ᳟॥
मूलम् - विस्वरम्
अथ स्तीर्णायै वेदेर्द्वे तृणे ऽध्वर्युरादत्ते । स आश्राव्याह- उपप्रेष्य । होतर्हव्या देवेभ्य इति । एतदुवैश्वदेवं पशौ ॥ ११ ॥
सायणः
अथ स्तीर्णायै वेदेर्द्वे तृणे अध्वर्युरादत्त इति 11 । अन्वारम्भसमये वेद्यास्तीर्णे बर्हिषि, तृणद्वयमादाय अन्वारभते । ‘सः’ तृणग्रहीता अध्वर्युः आश्रावणमुक्त्वा, प्रपद्य, “होतर्हव्या देवेभ्यः”- ‘इति’ आह । होतुर्हव्यान्युद्दिश्य, देवेभ्य उपप्रैष्य, मैत्रावरुणप्रैषादनन्तरमध्वर्युप्रैषं पठतीति तस्यार्थः । अत्र ‘देवेभ्यः’- इत्यभिधानादेव पशोर्वैश्वदेवत्वापादनम् ॥ ११ ॥
Eggeling
- Thereupon the Adhvaryu takes two stalks of grass from the covered altar, and having called for the Śraushaṭ, he says (to the Maitrāvaruṇa), ‘O Hotr̥, prompt again (the Hotr̥ to recite for) the offerings to the gods 13!’ This is what belongs to the All-gods at the animal offering.
१२
विश्वास-प्रस्तुतिः
(शाव᳘) अ᳘थ व्वा᳘चयति॥
रे᳘वति य᳘जमान इ᳘ति व्वाग्वै᳘ रेव᳘ती सा यद्वा᳘ग्बहु व्व᳘दति ते᳘न व्वा᳘ग्रेव᳘ती प्रियं धा आ᳘विशेत्य᳘नार्तिमा᳘विशे᳘त्ये᳘वैत᳘दाहोरो᳘रन्त᳘रिक्षात्सजू᳘र्द्देवे᳘न व्वा᳘तेने᳘त्यन्त᳘रिक्षं वा ऽअ᳘नु र᳘क्षश्चरत्यमूल᳘मुभय᳘तः प᳘रिच्छिन्नं य᳘थायं पु᳘रुषो ऽमूल᳘ ऽउभय᳘तः प᳘रिच्छिन्नो ऽन्त᳘रिक्षमनुच᳘रति तद्वा᳘तेनैनᳫं᳭ संविदा᳘नान्त᳘रिक्षाद्गोपाये᳘त्ये᳘वैत᳘दाह यदा᳘होरो᳘रन्त᳘रिक्षात्सजू᳘र्द्देवे᳘न व्वा᳘तेने᳘ति॥
मूलम् - श्रीधरादि
(शाव᳘) अ᳘थ व्वा᳘चयति॥
रे᳘वति य᳘जमान इ᳘ति व्वाग्वै᳘ रेव᳘ती सा यद्वा᳘ग्बहु व्व᳘दति ते᳘न व्वा᳘ग्रेव᳘ती प्रियं धा आ᳘विशेत्य᳘नार्तिमा᳘विशे᳘त्ये᳘वैत᳘दाहोरो᳘रन्त᳘रिक्षात्सजू᳘र्द्देवे᳘न व्वा᳘तेने᳘त्यन्त᳘रिक्षं वा ऽअ᳘नु र᳘क्षश्चरत्यमूल᳘मुभय᳘तः प᳘रिच्छिन्नं य᳘थायं पु᳘रुषो ऽमूल᳘ ऽउभय᳘तः प᳘रिच्छिन्नो ऽन्त᳘रिक्षमनुच᳘रति तद्वा᳘तेनैनᳫं᳭ संविदा᳘नान्त᳘रिक्षाद्गोपाये᳘त्ये᳘वैत᳘दाह यदा᳘होरो᳘रन्त᳘रिक्षात्सजू᳘र्द्देवे᳘न व्वा᳘तेने᳘ति॥
मूलम् - Weber
अ᳘थ वाचयति॥
रे᳘वति य᳘जमान इ᳘ति वाग्वै᳘ रेव᳘ती सा यद्वा᳘ग्बहु व᳘दति ते᳘न वा᳘ग्रेव᳘ती प्रियं धा आ᳘विशेत्य᳘नार्तिमा᳘विशे᳘त्येॗवैत᳘दाहोरो᳘रन्त᳘रिक्षात्सजू᳘र्देवे᳘न वा᳘तेने᳘त्यन्त᳘रिक्षं वा अ᳘नु र᳘क्षश्चरत्यमूल᳘मुभय᳘तः प᳘रिछिन्नं य᳘थायम् पु᳘रुषो ऽमूल᳘ उभय᳘तः प᳘रिछिन्नो ऽन्त᳘रिक्षमनुच᳘रति तद्वा᳘तेनैनᳫं संविदाॗनान्त᳘रिक्षाद्गोपाये᳘त्येॗवैत᳘दाह यदा᳘होरो᳘रन्त᳘रिक्षात्सजू᳘र्देवे᳘न वा᳘तेने᳘ति॥
मूलम् - विस्वरम्
अथ वाचयति- “रेवति यजमाने”- (वा. सं. ६ । ११) इति । वाग्वै रेवती । सा यद्वाग् बहु वदति- तेन वाग्रेवती । “प्रियं धा आविश”- (वा. सं. ६ । ११) इति । अनार्तिमाविशेत्येवैतदाह- “उरोरन्तरिक्षात् सजूर्द्देवेन वातेन”- (वा. सं. ६ । ११) इति । अन्तरिक्षं वा ऽअनु रक्षश्चरत्यमूलमुभयतः परिच्छिन्नम्- यथायं पुरुषो ऽमूलमुभयतः परिच्छिन्नो ऽन्तरिक्षमनुचरति । तद्वातेनैनं सम्विदानान्तरिक्षाद्गोपायेत्येवैतदाह- यदाह- उरोरन्तरिक्षात्सजूर्द्देवेन वातेनेति ॥ १२ ॥
सायणः
अथ वाचयतीति 14 । रेवतीति । हे ‘रेवति’ रयिमति धनवति वाग्देवते ‘यजमाने’ ‘प्रियम्’ अभिमतम् अनार्त्तिलक्षणं ‘धाः’ धेहि । दधातेर्लुङि सिचो लुकि रूपम् । यद्वा दधातेः क्विप् । धारयित्री त्वम् आविशदिन्द्रियमिति सम्बन्धः, अनार्त्तिं कुर्वित्यर्थः । यद्वा अनार्त्तस्यास्य हविषः आत्मना यजेति वक्ष्यमाणत्वात् ‘प्रियम्’ अनार्त्तिं कर्त्तुं पशूनाविशेत्यर्थः । हे वाग्देवि ! ‘उरोः अन्तरिक्षात्’ विस्तीर्णादन्तरिक्षात् ‘वातेन’ ‘सजूः’ समानप्रीतिः सती यजमानम् अन्तरिक्षाद्, ‘गोपाय’- इति शेषः । किञ्च ‘अस्य हविषः’ यज्ञपशुलक्षणस्य हविषः ‘त्मना’ आत्मना, स्वरूपेण ‘यज’ । ‘अस्य’ ‘पशोः’ ‘तन्वा सम्भव’ शरीरेण सम्भव । हे रेवति ! यजमानपशौ च सम्भूय यागं साधयेत्यर्थः । अत्रत्यरेवतीशब्दस्य वाग्वाचकत्वमुपपादयति- सा यद् वाग् बहु वदति तेन वाग् रेवतीति । तदपेक्षितं दानादिधनार्जनं लोकप्रसिद्धम् । प्रियशब्दार्थमाह- अनार्त्तिमाविशेति । न विद्यते आर्त्तिर्यस्मिन्नित्यनार्त्तिः, प्रियः पदार्थः । उरोरन्तरिक्षादित्यभिधानस्य प्रयोजनमाह- अन्तरिक्षं वा अनु रक्षश्चरतीत्यादिना । ‘अमूलं’ मूलसम्बन्धरहितम् । न केवलभमूलमेव, किन्तु ‘उभयतः’ उपरि अधस्ताच्च ‘परिच्छिन्नम्’ संश्लेषरहितं सद्रक्षश्चरति । तत्र दृष्टान्तः- यथायं पुरुष इति । ‘तत्’ तेन, अन्तरिक्षे रक्षःसञ्चारकारणेनैतस्माद् वातादान्तरिक्षाद् गोपायतीत्याह मन्त्रः । अस्य हविषस्त्मना यज- इत्यस्याभिप्रायमाह- वाचामेवैतदाहेति । एतत्त्वयमेव विशदयति- अनार्त्तस्यास्येति । एतद्धवीरूपः सन् देवान् प्रीणातीत्यर्थः । एवमुत्तरवाक्यमपि व्याख्येयम् ॥ १२ ॥ १३ ॥
Eggeling
- He then makes (the Sacrificer) say the text (Vāj. S. VI, 11), ‘O thou prosperous! upon
the Sacrificer,’–the prosperous one, forsooth, is Speech, it is because she speaks much, that Speech is prosperous,–‘bestow thou what is agreeable unto him! Approach thou,’–thereby he means to say, ‘Approach thou an existence free from affliction,’–‘from the wide air, along with the divine wind;’ for the Rakshas moves about the air rootless and unfettered on both sides, even as man here moves about the air rootless and unfettered on both sides: he means to say, ‘Meeting together with the wind, protect thou this one from the wide air,’ when he says ‘from the wide air, along with the divine wind.’
१३
विश्वास-प्रस्तुतिः
(त्य) अस्य᳘ हवि᳘षस्त्म᳘ना यजे᳘ति॥
व्वा᳘चमे᳘वैत᳘दाहा᳘नार्त्तस्यास्य᳘ हवि᳘ष आत्म᳘ना यजे᳘ति स᳘मस्य त᳘न्वा भवे᳘ति व्वा᳘चमे᳘वैत᳘दाहा᳘नर्त्तस्यास्य᳘ हवि᳘षस्त᳘न्वा स᳘म्भवे᳘ति॥
मूलम् - श्रीधरादि
(त्य) अस्य᳘ हवि᳘षस्त्म᳘ना यजे᳘ति॥
व्वा᳘चमे᳘वैत᳘दाहा᳘नार्त्तस्यास्य᳘ हवि᳘ष आत्म᳘ना यजे᳘ति स᳘मस्य त᳘न्वा भवे᳘ति व्वा᳘चमे᳘वैत᳘दाहा᳘नर्त्तस्यास्य᳘ हवि᳘षस्त᳘न्वा स᳘म्भवे᳘ति॥
मूलम् - Weber
अस्य᳘ हवि᳘षस्त्म᳘ना यजे᳘ति॥
वा᳘चमेॗवैत᳘दाहा᳘नार्तस्यास्य᳘ हवि᳘ष आत्म᳘ना यजे᳘ति स᳘मस्य तॗन्वा भवे᳘ति वा᳘चमेॗवैत᳘दाहा᳘नार्तस्यास्य᳘ हवि᳘षस्तॗन्वा स᳘म्भवे᳘ति॥
मूलम् - विस्वरम्
“अस्य हविषस्त्मना यज”- (वा. सं. ६ । ११) इति । वाचमेवैतदाह- अनार्तस्यास्य हविष आत्मना यजेति । “समस्य तन्वा भव"- (वा. सं. ६ । ११) इति । वाचमेवैतदाह; अनार्तस्यास्य हविषस्तन्वा सम्भवेति ॥ १३ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- ‘Offer thou with the self of this oblation!’ whereby he means to say to Speech, ‘Offer thou with the soul of this unblemished oblation;’–‘Unite thou with its body!’ whereby he means to say to Speech, ‘Unite thou with the body of this unblemished oblation!’
१४
विश्वास-प्रस्तुतिः
तद्य᳘त्रैनं व्विश᳘सन्ति॥
त᳘त्पुर᳘स्तात्तृ᳘णमु᳘पास्यति व्व᳘र्षो व्व᳘र्षीयसि यज्ञे᳘ यज्ञ᳘पतिं धा इ᳘ति बर्हि᳘रे᳘वास्मा ऽएत᳘त्स्तृणात्य᳘स्कन्नᳫं᳭ हवि᳘रसदि᳘ति तद्य᳘दे᳘वास्यात्र[[!!]] व्विशस्य᳘मानस्य कि᳘ञ्चित्स्क᳘न्दति त᳘देत᳘स्मिन्प्र᳘तितिष्ठति त᳘था᳘ नामुया᳘ भवति॥
मूलम् - श्रीधरादि
तद्य᳘त्रैनं व्विश᳘सन्ति॥
त᳘त्पुर᳘स्तात्तृ᳘णमु᳘पास्यति व्व᳘र्षो व्व᳘र्षीयसि यज्ञे᳘ यज्ञ᳘पतिं धा इ᳘ति बर्हि᳘रे᳘वास्मा ऽएत᳘त्स्तृणात्य᳘स्कन्नᳫं᳭ हवि᳘रसदि᳘ति तद्य᳘दे᳘वास्यात्र[[!!]] व्विशस्य᳘मानस्य कि᳘ञ्चित्स्क᳘न्दति त᳘देत᳘स्मिन्प्र᳘तितिष्ठति त᳘था᳘ नामुया᳘ भवति॥
मूलम् - Weber
तद्य᳘त्रैनं विश᳘सन्ति॥
त᳘त्पुर᳘स्तात्तृ᳘णमु᳘पास्यति व᳘र्षो व᳘र्षीयसि यज्ञे᳘ यज्ञ᳘पतिं धा इ᳘ति बर्हि᳘रेॗवास्मा एत᳘त्स्तृणात्य᳘स्कन्नᳫं हवि᳘रसदि᳘ति तद्य᳘देॗवास्या᳘त्र विशस्य᳘मानस्य किं᳘चित्स्क᳘न्दति त᳘देत᳘स्मिन्प्र᳘तितिष्ठति त᳘थाॗ नामुया᳘ भवति॥
मूलम् - विस्वरम्
तद् यत्रैनं विशसन्ति- तत् पुरस्तात्तृणमुपास्यति । **“वर्षो वर्षीयसि यज्ञे यज्ञपतिं धाः”- (वा. सं. ६ । ११) इति । बर्हिरेवास्मा ऽएतत् स्तृणाति । अस्कन्नं हविरसत्- इति । तद् यदेवास्यात्र विशस्यमानस्य किञ्चित् स्कन्दति- तदेतस्मिन् प्रतितिष्ठति- तथा नामुया भवति ॥ १४ ॥
सायणः
तद्यत्रैनं विशसन्तीति । (“पश्चात्तृणमुपास्यति वर्षो वर्षीयसीति” का. श्रौ. सू. ६ । १०९) वर्षीयसीति । विशसनप्रदेशे ऽध्वर्युः तृणमपास्यति- हे तृण ! ‘वर्षः’ वर्षीयः प्रवृद्धं त्वं ‘वर्षीयसि’ प्रवृद्धे ‘यज्ञपतिं’ ‘धाः’ स्थापय । एतद्बर्हिस्तरणेन स्थापनीयमिति स्तौति- बर्हिरेवास्मा एतदित्यादिना । ‘अस्मै’ पशवे । तदपि किमर्थमित्यत आह- अस्कन्नं हविरसदिति । तद् विशदयति- तद् यदेवेति । ‘तत्’ अन्यत्र पतितमपि ‘एतस्मिन्’ केवलबर्हिषि ‘प्रतितिष्ठति’ । तथा नामुया भवतीति । ‘तथा’ कृते सति अन्यत्र पतितमङ्गम् ‘अमुया’ अमुत्र, अन्तरिक्षे ऽनभिमतप्रदेशे ‘न भवति’ न विनश्यतीत्यर्थः ॥ १४ ॥
Eggeling
- In front 15 of the place where they cut it up, he throws down a stalk of grass, with, ‘O great one, lead the lord of sacrifice unto greater sacrifice!’ he thus strews barhis (an underlayer of sacrificial grass) for it, that no sacrificial food may be spilt; whatever may now be spilt of it when it is cut up, that settles thereon and thus is not lost.
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ पुनरे᳘त्याहवनी᳘यमभ्यावृ᳘त्यासते॥
ने᳘दस्य सञ्ज्ञप्य᳘मानस्या᳘ध्यक्षा अ᳘सामे᳘ति त᳘स्य न कू᳘टेन प्र᳘घ्नन्ति मानुषᳫं᳭ हि त᳘न्नो ऽएव᳘ पश्चात्कर्णं᳘ पितृदेव᳘त्यᳫं᳭ हि त᳘दपिगृ᳘ह्य वैव मु᳘खं त᳘म᳘यन्ति व्वेष्कं᳘ वा कुर्व्वन्ति त᳘न्नाह जहि᳘ मारये᳘ति मानुषᳫं᳭ हि तत्स᳘ञ्ज्ञपया᳘न्वगन्नि᳘ति तद्धि᳘ देवत्रा स यदाहा᳘न्वगन्नि᳘त्येत᳘र्हि᳘ ह्येष᳘ देवा᳘ननुग᳘च्छति त᳘स्मादाहान्वगन्नि᳘ति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ पुनरे᳘त्याहवनी᳘यमभ्यावृ᳘त्यासते॥
ने᳘दस्य सञ्ज्ञप्य᳘मानस्या᳘ध्यक्षा अ᳘सामे᳘ति त᳘स्य न कू᳘टेन प्र᳘घ्नन्ति मानुषᳫं᳭ हि त᳘न्नो ऽएव᳘ पश्चात्कर्णं᳘ पितृदेव᳘त्यᳫं᳭ हि त᳘दपिगृ᳘ह्य वैव मु᳘खं त᳘म᳘यन्ति व्वेष्कं᳘ वा कुर्व्वन्ति त᳘न्नाह जहि᳘ मारये᳘ति मानुषᳫं᳭ हि तत्स᳘ञ्ज्ञपया᳘न्वगन्नि᳘ति तद्धि᳘ देवत्रा स यदाहा᳘न्वगन्नि᳘त्येत᳘र्हि᳘ ह्येष᳘ देवा᳘ननुग᳘च्छति त᳘स्मादाहान्वगन्नि᳘ति[[!!]]॥
मूलम् - Weber
अ᳘थ पुनरे᳘त्याहवनी᳘यमभ्यावृ᳘त्यासते॥
ने᳘दस्य संज्ञप्य᳘मानस्या᳘ध्यक्षा अ᳘सामे᳘ति त᳘स्य न कू᳘टेन प्र᳘घ्नन्ति मानुषᳫं हि त᳘न्नो एव᳘ पश्चात्कर्ण᳘म् पितृदेव᳘त्यᳫं हि त᳘दपिगृ᳘ह्य वैव मु᳘खं तम᳘यन्ति वेष्कं᳘ वा कुर्वन्ति त᳘न्नाह जहि᳘ मारये᳘ति मानुषᳫं हि तत्सं᳘ज्ञपया᳘न्वगन्नि᳘ति तद्धि᳘ देवत्रा स यदाहा᳘न्वगन्नि᳘त्येत᳘र्हिॗ ह्येष᳘ देवा᳘ननुग᳘छति त᳘स्मादाहा᳘न्वगन्नि᳘ति॥
मूलम् - विस्वरम्
अथ पुनरेत्याहवनीयमभ्यावृत्यासते नेदस्य सञ्ज्ञप्यमानस्याध्यक्षा असामेति । तस्य न कूटेन प्रघ्नन्ति । मानुषं हि तत् । नो ऽएव पश्चात्कर्णम् । पितृदेवत्यं हि तत् । अपिगृह्य वैव मुखं तमयन्ति । वेष्कं वा कुर्वन्ति । तन्नाह जहि मारय- इति । मानुषं हि तत् । सञ्ज्ञपय, अन्वगन्- इति । तद्धि देवत्रा । स यदाह- अन्वगन्निति । एतर्हि ह्येष देवाननुगच्छति । तस्मादाह- अन्वगन्निति ॥ १५ ॥
सायणः
अथ पुनरेत्याहवनीयमिति । पुनराहवनीयमन्यावर्त्तनस्याभिप्रायमाह- नेदस्येति । ‘अध्यक्षाः’ न भवामेति, सन्निहिताः सन्तो वा रयितारो न भवामेति । न कूटेनेति । ‘कूटेन’ शृङ्गेण साधनेन, शृङ्गं गृहीत्वा, न हन्यात् । नैव कर्णस्य पश्चाद्भागमग्रभागं वा गृहीत्वा । तर्हि कथम् १ ‘मुखमपिगृह्य’ म्लानं कुर्यात् । ‘वेष्कं’ मुखवेष्टनं च शब्दाभावाय कुर्यात् ॥
सञ्ज्ञपनप्रकारः सूत्रे दर्शितः- “तस्मिन्नेनं निघ्नन्ति प्रत्यक्छिरसमुदक्पादं, प्राक्छिरसं वा, सङ्गृह्य मुखं तमयन्त्यवाश्यमानम्, वेष्केण वा, एत्याहवनीयमावृत्त्यासते, सञ्ज्ञपयान्वगन्नित्येव ब्रूयात्”- इति । (का. श्रौ. सू. ६ । ११०-११५) ‘जहि’ ‘मारय’ इत्यादि मानुषवधवत् क्रूरवचनं न ब्रूयात्, किन्तु हे शमितः ! ‘सञ्ज्ञपय’ असौ तु ‘अन्वगन्’ अनुगतो ऽभूत् । तद्धीत्यादि । स्पष्टम् ॥ १५ ॥
Eggeling
- They then step back (to the altar) and sit down turning towards the Āhavanīya, ’lest they should be eye-witnesses to its being quieted (strangled).’ They do not slay it on the frontal bone 16, for that is human
manner; nor behind the ear, for that is after the manner of the Fathers. They either choke it by merely keeping its mouth closed, or they make a noose. Therefore he says not, ‘Slay! kill!’ for that is human manner, but, ‘Quiet it! It has passed away!’ for that is after the manner of the gods. For when he says, ‘It has passed away,’ then this one (the Sacrificer) passes away to the gods: therefore he says, ‘It has passed away.’
१६
विश्वास-प्रस्तुतिः
तद्य᳘त्रैनं निवि᳘ध्यन्ति॥
त᳘त्पुरा᳘ सञ्ज्ञ᳘पनाज्जुहोति स्वा᳘हा देवे᳘भ्य इत्यथ[[!!]] यदा प्रा᳘ह स᳘ञ्ज्ञप्तः पशुरित्य᳘थ जुहोति देवे᳘भ्यः स्वाहे᳘ति पुर᳘स्तात्स्वाहा कृतयो वा᳘ ऽअन्ये᳘ देवा᳘ ऽउप᳘रिष्टात्स्वाहाकृतयो ऽन्ये ता᳘ने᳘वैत᳘त्प्रीणाति त᳘ ऽएनमुभ᳘ये देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति ते वा᳘ ऽएते प᳘रिपशव्ये ऽइत्या᳘हुती स य᳘दि काम᳘येत जुहुया᳘देते य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत॥
मूलम् - श्रीधरादि
तद्य᳘त्रैनं निवि᳘ध्यन्ति॥
त᳘त्पुरा᳘ सञ्ज्ञ᳘पनाज्जुहोति स्वा᳘हा देवे᳘भ्य इत्यथ[[!!]] यदा प्रा᳘ह स᳘ञ्ज्ञप्तः पशुरित्य᳘थ जुहोति देवे᳘भ्यः स्वाहे᳘ति पुर᳘स्तात्स्वाहा कृतयो वा᳘ ऽअन्ये᳘ देवा᳘ ऽउप᳘रिष्टात्स्वाहाकृतयो ऽन्ये ता᳘ने᳘वैत᳘त्प्रीणाति त᳘ ऽएनमुभ᳘ये देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति ते वा᳘ ऽएते प᳘रिपशव्ये ऽइत्या᳘हुती स य᳘दि काम᳘येत जुहुया᳘देते य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत॥
मूलम् - Weber
तद्य᳘त्रैनं निवि᳘ध्यन्ति॥
त᳘त्पुरा᳘ संज्ञ᳘पनाज्जुहोति स्वा᳘हा देवे᳘भ्य इत्य᳘थ यदा प्रा᳘ह सं᳘ज्ञप्तः पशुरित्य᳘थ जुहोति देवे᳘भ्यः स्वाहे᳘ति पुर᳘स्तात्स्वाहाकृतयो वा᳘ अन्ये᳘ देवा᳘ उप᳘रिष्टात्स्वाहाकृतयो ऽन्ये ता᳘नेॗवैत᳘त्प्रीणाति त᳘ एनमुभ᳘ये देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति ते वा᳘ एते प᳘रिपशव्ये इत्या᳘हुती स य᳘दि काम᳘येत जुहुया᳘देते य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत॥
मूलम् - विस्वरम्
तद् यत्रैनं निविध्यन्ति, तत्पुरा सञ्ज्ञपनाज्जुहोति- “स्वाहा देवेभ्यः”- (वा. सं. ६ । ११) इति । अथ यदा प्राह- सञ्ज्ञप्तः पशुरिति- अथ जुहोति- “देवेभ्यः स्वाहा”- (वा. सं. ६ । ११) इति । पुरस्तात् स्वाहाकृतयो वा ऽअन्ये देवाः, उपरिष्टात् स्वाहाकृतयो ऽन्ये । तानेवैतत् प्रीणाति त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति । ते वा ऽएते परिपशव्ये ऽइत्याहुती । स यदि कामयेत- जुहुयादेते । यद्यु कामयेत- अपि नाद्रियेत ॥ १६ ॥
सायणः
तद्यत्रैनं निविद्ध्यन्तीति । ‘सञ्ज्ञपनात्’ प्राक् “स्वाहा देवेभ्यः” 17 ‘इति’ जुहुयात् । सञ्ज्ञपनानन्तरं “देवेभ्यः 18 स्वाहा” ‘इति’ जुहुयात् । होमभेदेन स्वाहाकारप्रयोगवैपरीत्यम् । प्रयोजनाभिधानेन प्रशंसति- पुरस्तात् स्वाहाकृतयो वा अन्ये देवा इत्यादिना । एतयोराहुत्योर्नाम करोति- ते वा एते परिपशव्ये इत्याहुती 19 इति । उक्ते द्वे आहुती ‘परिपशव्ये’ परित आज्यं तयोः पशोर्हितं यतः, अत ‘परिपशव्ये’ इति नामधेये इत्यर्थः । “उगवादिभ्यो यत्"- (पा. सू. ५ । १ । २) इति यत्, “ओर्गुणः"- (पा. सू. ६ । ४ । १४६) इति भसञ्ज्ञकस्य गुणः । एतयोरनुष्ठाने ऐच्छिकत्वमाह- स यदि कामयेतेति ॥ १६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीये काण्डे अष्टमाध्याये प्रथमं ब्राह्मणम् ॥ ३-८-१ ॥
Eggeling
- When they hold it down, then, before the strangling, he offers with ‘Hail, to the gods!’ And when (the butcher) says, ‘Quieted is the victim,’ he offers with, ‘To the gods, Hail!’ Thus some of the gods are preceded by ‘Hail,’ and others followed by ‘Hail;’ he thereby gratifies them, and thus gratified both kinds of gods convey him to the heavenly world. These are the so-called ‘paripaśavya 20’ oblations; he may offer them if he choose; or, if he choose, he need not mind them.
-
अग्निर्होतेतिस्रुगादापनं प्रयाजेषु सन्निधेः । का० श्रौ सू ३ । ३४ ↩︎
-
184:2 Viz. at the north-west corner (or left hip) of the altar. For the formulas used by him, see I, 5, 1, 24-2, 1. ↩︎
-
185:1 The text has only ‘āpyāyayanti,’ but the verb with which the author connects the verb ‘āprī’ is either ā-pr̥ṇāti, he fills; or (more correctly) ‘ā-prīṇāti,’ he gratifies, propitiates, corresponding to the Zand āfrīnaiti. Perhaps some words have been lost here. The Kāṇva text has: sa yad etābhir āprībhiḥ punar āpyāyata etābhir enam āpriṇāti tasmād āpriyo nāma. On the Āprī verses, which form the offering-prayers (yājyās) at the fore-offerings of the animal sacrifice, and vary according to different families, see Ait. Br. II, 4; Max Müller, Hist. of A. S. L., p. 463 seq.; Haug, Essays, p. 24r. ↩︎
-
185:2 See I, 5, 3, 8. The Adhvaryu calls out to the Agnīdh, ‘O śrāvaya (make listen)!’ The Agnīdh calls out, ‘Astu śraushaṭ (yea, may one hear)!’ The Adhvaryu calls on the Maitrāvaruṇa, ‘Preshya samidhaḥ (prompt as to the kindling-sticks)!’ [or, ‘Preshya Tanūnapātam or Narāśaṁsam’ &c. in the succeeding fore-offerings.] The Maitrāvaruṇa calls out, ‘Hotā yakshat samidham [Tanūnapātam, &c.], (let the Hotr̥ pronounce the offering-prayer to the kindling-sticks, &c,!)’ Each offering-prayer (Āprī) is introduced with the formula ‘Ye yajāmahe, &c.’ See part i, p.148 note. The divine objects of these oblations of ghee are: 1. the Samidhs or kindling-sticks; 2. either Tanūnapāt or Narāśaṁsa; 3. the Iḍas; 4. the Barhis (sacrificial grass on the altar); 5. the gates (of heaven and worshipping ground); 6. Dawn and Night; 7. the two divine Hotr̥s; 8. the three goddesses (Sarasvatī, Iḍā, and Bhāratī); 9. Tvashṭr̥; 10. Vanaspati (the tree, or lord of the forest); 11. the Svāhākr̥tis (calls of ‘All-hail,’ which at this, the last offering-prayer, are repeated before the names of the principal deities of the sacrifice). For this last fore-offering, see III, 8, 2, 23 seq. ↩︎
-
186:1 See I, 5, 3, 16. ↩︎
-
स्वरुमवगुह्यासिं प्रयच्छन्नाहैषा ते प्रज्ञाताश्रिरस्त्विति । का० श्रौ सू ६ । ९४ । इति च । ↩︎
-
186:2 For the three parts of the thunderbolt, see p. 108, note 2. ↩︎
-
प्रतिप्रास्योल्मुकं तावत्प्रतिपर्येति । का. श्रौ. सू. । ९९ । इति । ↩︎
-
186:3 The Hotr̥ recites the triplet, Rig-veda IV, 15, 1-3. ↩︎
-
187:1 Sāyaṇa seems to take ‘abhipariharati’ in the sense of ‘he takes it round to the place where they cook.’ According to Kāty. VI, 5, 2, 3, the Agnīdh circumambulates thrice from left to right, either the place comprising the victim, the ghee, the slaughtering-place, the sacrificial post, the cātvāla, and Āhavanīya; or only the ghee, the victim, and slaughtering-place. He then throws the firebrand back on the Āhavanīya, and performs the circumambulation as many times in the opposite direction. On the Paryagnikaraṇa, see also part i, p. 45 note. ↩︎
-
“आहवनीयोल्मुकमादायाग्नीत्त्रिः समन्तं पर्येति पश्वाज्यशामित्रदेशयूपचात्वालाहवनीयान् । आज्यपशुशामित्रान्वा । प्रतिप्रास्योल्मुकं तावत्प्रतिपर्येति” इति । का. श्रौ. सू. ६ । ९७-९९ । ↩︎ ↩︎
-
188:1 For the two omentum-spits, see note on III, 8, 2, 16. ↩︎
-
188:2 The Maitrāvaruṇa’s additional cue or order (upapraisha) is ‘Agni has been victorious; he has won wealth!’ On the Hotr̥’s recitation–the so-called Adhrigu litany–commencing ‘Ye divine quieters (slaughterers), commence, as well as ye that are human!’ and consisting of formulas usually pronounced by the Adhvaryu (and hence perhaps going back to a time when the Hotr̥ had to perform all but the menial parts of the sacrificial service), see Ait. Br. II, 6-7; Roth, Yāska XXXVII seq. ↩︎
-
रेवति यजमान इति व्वाचयति । शामित्रं नातीयात् । शामित्रे ऽग्निं निदधाति । निर्मंथ्यमेके । का. श्रौ. सू. ६ । १०५-१०८ । ↩︎
-
189:1 According to Kāty. VI, 5, 15, the stalk is put down behind the Śāmitra (i.e. the fire at the slaughtering-place) with the top towards the east. ↩︎
-
189:2 Lit. ‘by means of the frontal bone.’ Sāyaṇa explains it by ‘in seizing it by the horn;’ Professor Weber, Ind. Stud. IX, p. 222, ‘by striking it with a horn.’ The Kāṇva text reads, tasya na kūṭena praghnanti mānushaṁ ha kuryād yad asya kūṭena prahanyuḥ. ↩︎
-
स्वाहा देवेभ्य इति जुहोति । ↩︎
-
देवेभ्यः स्वाहेति जुहोति का. श्रौ. सू. ६ । १२०-१२१ । ↩︎
-
नवैते जुहुयात् । का. श्रौ. सू. ६ । १२२ । ↩︎
-
190:1 That is, surrounding, relating to, the victim. ↩︎