०१
विश्वास-प्रस्तुतिः
पा᳘शं कृत्वा प्र᳘तिमुञ्चति॥
(त्यृ) ऋत᳘स्य त्वा देवहविः पा᳘शेन प्र᳘तिमुञ्चामी᳘ति व्वरु᳘ण्या वा᳘ ऽएषा यद्र᳘ज्जुस्त᳘देनमेत᳘दृत᳘स्यैव पा᳘शेन प्र᳘तिमुञ्चति त᳘थो हैनमेषा᳘ व्वरु᳘ण्या र᳘ज्जुर्न᳘ हिनस्ति॥
मूलम् - श्रीधरादि
पा᳘शं कृत्वा प्र᳘तिमुञ्चति॥
(त्यृ) ऋत᳘स्य त्वा देवहविः पा᳘शेन प्र᳘तिमुञ्चामी᳘ति व्वरु᳘ण्या वा᳘ ऽएषा यद्र᳘ज्जुस्त᳘देनमेत᳘दृत᳘स्यैव पा᳘शेन प्र᳘तिमुञ्चति त᳘थो हैनमेषा᳘ व्वरु᳘ण्या र᳘ज्जुर्न᳘ हिनस्ति॥
मूलम् - Weber
पा᳘शं कृत्वा प्र᳘तिमुञ्चति॥
ऋत᳘स्य त्वा देवहविः पा᳘शेन प्र᳘तिमुञ्चामी᳘ति वरुॗण्या वा᳘ एषा यद्र᳘ज्जुस्त᳘देनमेत᳘दृत᳘स्यैव पाशे प्र᳘तिमुञ्चति त᳘थो हैनमेषा᳘ वरुॗण्या र᳘ज्जुर्न᳘ हिनस्ति॥
मूलम् - विस्वरम्
पाशं कृत्वा प्रतिमुञ्चति । “ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि-” (वा. सं. ६ । ८) इति । वरुण्या वा ऽएषा यद्रज्जुः । तदेनमेतदृतस्यैव पाशेन प्रतिमुञ्चति । तथो हैनमेषा वरुण्या रज्जुर्न हिनस्ति ॥ १ ॥
सायणः
समन्त्रकं संबन्धनमाह- पाशं कृत्वा प्रतिमुञ्चतीति 1 । पाशाग्रग्रन्थ्या सुषिरं कृत्वा, तस्मिन्नितरमग्रे बहिः प्रसार्य, बहिर्गतं पाशमाकृष्य, यथा शिरो न गलति, तथा कृत्वा बध्नीयात् ॥
ऋतस्य त्वेति । हे ‘देवहविः’ ! पशो ! त्वाम् ‘ऋतस्य पाशेन’ ‘प्रतिमुञ्चामि’ । ‘मानुषः’ अहं केवलं ‘धर्षा’ धर्षणधर्मा । वरुण्येत्यादि । बध्नामीति बन्धनकर्मणो वरुणाभिमानिकत्वात् तत्साधनभूताया वरुणसम्बन्धिरज्जोः तत्त्वम्, तमपि परिहाय मन्त्रेण बन्धे सति ऋतपाशेन बन्धो भवेत् ॥ १ ॥
Eggeling
- Having made a noose, he throws it over (the victim) with (Vāj. S. VI, 8), ‘With the noose of sacred order I bind thee, O oblation to the gods!’ for that rope, forsooth, is Varuṇa’s: therefore he thus binds it with the noose of sacred order, and thus that rope of Varuṇa does not injure it.
०२
विश्वास-प्रस्तुतिः
ध᳘र्षा मा᳘नुष इ᳘ति॥
न वा᳘ ऽएतम᳘ग्रे मनु᳘ष्यो ऽधृष्णोत्स य᳘दै᳘वर्त्त᳘स्य पा᳘शेनैत्त᳘द्देवहविः᳘ प्रतिमुञ्चत्य᳘थैनं मनुष्यो[[!!]] धृष्णोति त᳘स्मादाह ध᳘र्षा मा᳘नुष इ᳘ति॥
मूलम् - श्रीधरादि
ध᳘र्षा मा᳘नुष इ᳘ति॥
न वा᳘ ऽएतम᳘ग्रे मनु᳘ष्यो ऽधृष्णोत्स य᳘दै᳘वर्त्त᳘स्य पा᳘शेनैत्त᳘द्देवहविः᳘ प्रतिमुञ्चत्य᳘थैनं मनुष्यो[[!!]] धृष्णोति त᳘स्मादाह ध᳘र्षा मा᳘नुष इ᳘ति॥
मूलम् - Weber
ध᳘र्षा मा᳘नुष इ᳘ति॥
न वा᳘ एतम᳘ग्रे मनुॗष्यो ऽधृष्णोत्स य᳘देवर्त᳘स्य 2 पा᳘शेनैत᳘द्देवहविः᳘ प्रतिमुञ्चत्य᳘थैनम् मनुॗष्यो धृष्णोति त᳘स्मादाह ध᳘र्षा मा᳘नुष इ᳘ति॥
मूलम् - विस्वरम्
“धर्षा मानुषः”- (वा. सं. ६ । ८) इति । न वा ऽएतमग्रे मनुष्यो ऽधृष्णोत् । स यदैव- य पाशेनैतद्देवहविः प्रतिमुञ्चति- अथैनं मनुष्यो धृष्णोति । तस्मादाह धर्षा मानुष इति ॥ २ ॥
सायणः
धर्षा मानुष इतीति मन्त्रभागस्य तात्पर्यमाह- न वा एतमग्र इत्यादिना । यस्मात् पशुवर्षणसामर्थ्यं मनुष्यस्य देवकृतपाशविमोकायत्तम्, अतो मन्त्रो “धर्षा मानुषः" ‘इति’ ब्रूत इत्यर्थः ॥ २ ॥
Eggeling
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ नि᳘युनक्ति॥
देव᳘स्य त्वा सवितुः[[!!]] प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामग्नीषो᳘माभ्यां जु᳘ष्टं नि᳘युनज्मी᳘ति तद्य᳘थै᳘वादो᳘ देव᳘तायै हवि᳘र्गृह्ण᳘न्नादिश᳘त्येव᳘मे᳘वैत᳘द्देव᳘ताभ्यामा᳘दिशत्य᳘थ प्रो᳘क्षत्ये᳘को वै प्रो᳘क्षणस्य ब᳘न्धुर्मे᳘ध्यमे᳘वैत᳘त्करोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ नि᳘युनक्ति॥
देव᳘स्य त्वा सवितुः[[!!]] प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामग्नीषो᳘माभ्यां जु᳘ष्टं नि᳘युनज्मी᳘ति तद्य᳘थै᳘वादो᳘ देव᳘तायै हवि᳘र्गृह्ण᳘न्नादिश᳘त्येव᳘मे᳘वैत᳘द्देव᳘ताभ्यामा᳘दिशत्य᳘थ प्रो᳘क्षत्ये᳘को वै प्रो᳘क्षणस्य ब᳘न्धुर्मे᳘ध्यमे᳘वैत᳘त्करोति॥
मूलम् - Weber
अ᳘थ नियुनक्ति॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्यामग्नीषो᳘माभ्यां जु᳘ष्टं नि᳘युनज्मी᳘ति तद्य᳘थैॗवादो᳘ देव᳘तायै हवि᳘र्गृह्ण᳘न्नादिश᳘त्येव᳘मेॗवैत᳘द्देव᳘ताभ्यामा᳘दिशत्य᳘थ प्रो᳘क्षत्ये᳘को वै प्रो᳘क्षणस्य ब᳘न्धुर्मे᳘ध्यमेॗवैत᳘त्करोति॥
मूलम् - विस्वरम्
अथ नियुनक्ति । “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नीषोमाभ्यां जुष्टं नियुनज्मि”- (वा. सं. ६ । ९) इति । तद् यथैवादो देवतायै हविर्गृह्णन्नादिशति- एवमेवैतद्देवताभ्यामादिशति । अथ प्रोक्षति । एको वै प्रोक्षणस्य बन्धुः- मेध्यमेवैतत्करोति ॥ ३ ॥
सायणः
अथ नियुनक्तीत्यादि । स्पष्टम् । देवतानिर्द्देशस्य प्रयोजनमाह- यथैवाद इति । ‘यथैव’ ‘अदः’ अमुष्मिन् दर्शपूर्णमासयागे हविर्निर्वापे देवतादर्शनम्, ‘एवम्’ इदानीमपि प्रोक्षतीति । “एको वा” इत्यसकृद् गतम् ॥ ३ ॥
Eggeling
- He then binds it (to the stake) with (Vāj. S. VI, 9), ‘At the impulse of the divine Savitr̥, I bind thee with the arms of the Aśvins, with the hands of Pūshan, thee agreeable to Agni and Soma!’ Even as on that occasion 5, when taking out an oblation for a deity, he assigns it, so does he now assign it to the two deities. He then sprinkles it,–one and the same, forsooth, is the
significance of sprinkling: he thereby makes it sacrificially pure.
०४
विश्वास-प्रस्तुतिः
स प्रो᳘क्षति॥
(त्य) अद्भ्यस्त्वौ᳘षधीभ्य इ᳘ति तद्य᳘त एव᳘ सम्भ᳘वति त᳘त ए᳘वैतन्मे᳘ध्यं करोतीदᳫँ᳭ हि᳘ यदा व्व᳘र्षत्यथौषधयो[[!!]] जायन्त ऽओ᳘षधीर्ज᳘ग्ध्वापः᳘ पीत्वा त᳘त एष र᳘सः स᳘म्भवति र᳘साद्रे᳘तो रे᳘तसः पश᳘वस्तद्य᳘त ऽएव᳘ सम्भ᳘वति य᳘तश्च जा᳘यते त᳘त ए᳘वैतन्मे᳘ध्यं करोति॥
मूलम् - श्रीधरादि
स प्रो᳘क्षति॥
(त्य) अद्भ्यस्त्वौ᳘षधीभ्य इ᳘ति तद्य᳘त एव᳘ सम्भ᳘वति त᳘त ए᳘वैतन्मे᳘ध्यं करोतीदᳫँ᳭ हि᳘ यदा व्व᳘र्षत्यथौषधयो[[!!]] जायन्त ऽओ᳘षधीर्ज᳘ग्ध्वापः᳘ पीत्वा त᳘त एष र᳘सः स᳘म्भवति र᳘साद्रे᳘तो रे᳘तसः पश᳘वस्तद्य᳘त ऽएव᳘ सम्भ᳘वति य᳘तश्च जा᳘यते त᳘त ए᳘वैतन्मे᳘ध्यं करोति॥
मूलम् - Weber
स प्रो᳘क्षति॥
अद्भ्यस्त्वौ᳘षधीभ्य इ᳘ति तद्य᳘त एव᳘ सम्भ᳘वति त᳘त एॗवैतन्मे᳘ध्यं करोतीदᳫं हि᳘ यदा व᳘र्षत्यथौ᳘षधयो जायन्त ओ᳘षधीर्जॗग्ध्वापः᳘ पीत्वा त᳘त एष र᳘सः स᳘म्भवति र᳘साद्रे᳘तो रे᳘तसः पश᳘वस्तद्य᳘त एव᳘ सम्भ᳘वति य᳘तश्च जा᳘यते तत एॗवैतन्मे᳘ध्यं करोति॥
मूलम् - विस्वरम्
स प्रोक्षति । “अद्भ्यस्त्वौषधीभ्यः”- (वा. सं. ६ । ९) इति । तद् यत एव सम्भ- वति तत एवैतन्मेध्यं करोति । इदं हि यदा वर्षति- अथौषधयो जायन्ते । औषधीर्जग्ध्वा अपः पीत्वा तत एष रसः सम्भवति । रसाद्रेतः । रेतसः पशवः । तद् यत एव सम्भवति, यतश्च जायते- तत एवैतन्मेध्यं करोति ॥ ४ ॥
सायणः
प्रोक्षणमन्त्रमाह- स प्रोक्षतीति 6 । अद्भ्यस्त्वौषधीभ्य इतीति । ‘अद्भ्यः’ च ‘ओषधीभ्यः’ च सम्भूतं त्वां ‘प्रोक्षामि’ । मेध्यं करोतीति । सञ्ज्ञपनार्थं प्रोक्ष्यमाणं त्वां मात्रादिरनुमन्यताम् ‘सगर्भ्यः’ समाने उदरे भवः, ‘अनुसखः’ समानख्यानः, ‘सयूथ्यः’ समानयूथे भवः, सर्वैरनुमतं त्वाम् ‘अग्नीषोमाभ्याम्’ अर्थाय ‘प्रोक्षामि’ ॥
मन्त्रस्य परमप्रयोजनमाह- तद् यत एवेत्यादिना । कथं ताभ्यः सकाशात् पाशासम्भव इति, तदुपपादयति- इदं हि स यदा वर्षतीत्यादिना । आपश्चौषधयश्चोपादानकारणम्, मातापितरावाश्रयत्वेन निमित्तकारणम् । अतस्तत्सकाशान्मेध्यं करोति । सगर्भ्यादीनामपि जन्मसम्बन्धसम्भवात् तेन सम्बन्धिना सगर्भ्यादिना ऽनुमन्यत इत्युक्तं भवति । स्पष्टमन्यत् ॥ ४ ॥ ५ ॥
Eggeling
- He sprinkles with, ‘For the waters–thee, for the plants!’ whereby it (the victim) exists, thereby he thus makes it sacrificially pure. For when it rains, then plants are produced here on earth; and by eating plants and drinking water that sap originates, and from sap seed, and from seed beasts: hence whereby it exists, wherefrom it springs, thereby he thus makes it sacrificially pure.
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘नु त्वा माता᳘ मन्यताम᳘नु पिते᳘ति॥
स हि᳘ मातु᳘श्चा᳘धि पितु᳘श्च जा᳘यते तद्य᳘त एव जा᳘यते त᳘त ए᳘वैतन्मेध्यं[[!!]] करोत्य᳘नुभ्रा᳘ता स᳘गर्भ्यो᳘ ऽनुस᳘खा स᳘यूथ्य इ᳘ति स य᳘त्ते ज᳘न्म ते᳘न त्वा᳘नुमतमा᳘रभ ऽइ᳘त्ये᳘वैत᳘दाहाग्नीषो᳘माभ्यां त्वा जु᳘ष्टं प्रो᳘क्षामी᳘ति तद्या᳘भ्यां देव᳘ताभ्यामार᳘भते ता᳘भ्यां मे᳘ध्यं करोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘नु त्वा माता᳘ मन्यताम᳘नु पिते᳘ति॥
स हि᳘ मातु᳘श्चा᳘धि पितु᳘श्च जा᳘यते तद्य᳘त एव जा᳘यते त᳘त ए᳘वैतन्मेध्यं[[!!]] करोत्य᳘नुभ्रा᳘ता स᳘गर्भ्यो᳘ ऽनुस᳘खा स᳘यूथ्य इ᳘ति स य᳘त्ते ज᳘न्म ते᳘न त्वा᳘नुमतमा᳘रभ ऽइ᳘त्ये᳘वैत᳘दाहाग्नीषो᳘माभ्यां त्वा जु᳘ष्टं प्रो᳘क्षामी᳘ति तद्या᳘भ्यां देव᳘ताभ्यामार᳘भते ता᳘भ्यां मे᳘ध्यं करोति॥
मूलम् - Weber
अ᳘नु त्वा माता᳘ मन्यताम᳘नु पिते᳘ति॥
स हि᳘ मातुश्चा᳘धि पितु᳘श्च जा᳘यते तद्य᳘त एव जा᳘यते त᳘त एॗवैत᳘न्मेध्यं करोत्य᳘नु भ्रा᳘ता स᳘गर्भ्यो᳘ ऽनु स᳘खा स᳘यूथ्य इ᳘ति स य᳘त्ते ज᳘न्म ते᳘न त्वा᳘नुमतमा᳘रभ इ᳘त्येॗवैत᳘दाहाग्नीषो᳘माभ्यां त्वा जु᳘ष्टम् प्रो᳘क्षामी᳘ति तद्या᳘भ्यां देव᳘ताभ्यामार᳘भते ता᳘भ्याम् मे᳘ध्यं करोति॥
मूलम् - विस्वरम्
“अनु त्वा माता मन्यतामनुपिता”- (वा. सं. ६ । ९) इति । स हि मातुश्चाधि पितुश्च जायते । तद् यत एव जायते- तत एवैतन्मेध्यं करोति । “अनु भ्राता सगर्भ्यो ऽनुसखा सयूथ्यः”- (वा. सं. ६ । ९) इति । स यत्ते जन्म तेन त्वानुमतमारभे- इत्येवैतदाह । “अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि"- (वा. सं. ६ । ९) इति । तद् याभ्यां देवताभ्यामारभते- ताभ्यां मेध्यं करोति ॥ ५ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- ‘May thy mother grant thee permission, and thy father–;’ for it is from its mother and father that it is born: hence wherefrom it is born, thereby he thus makes it sacrificially pure; ‘–thine own brother, thy fellow in the herd;’ whereby he means to say, ‘whatever kin there is of thine, with their approval I slay thee.’ ‘I sprinkle thee, agreeable to Agni and Soma;’ he thus makes it pure for those two deities for whom he slays it.
०६
विश्वास-प्रस्तुतिः
(त्य) अथो᳘पगृह्णाति॥
(त्य) अपा᳘म्पेरु᳘रसी᳘ति त᳘देनमन्तरतो मे᳘ध्यं करोत्य᳘थाथ᳘स्तादुपोक्षत्या᳘पो[[!!]] देवीः᳘ स्वदन्तु स्वात्तं᳘[[!!]] चित्स᳘द्देवहविरि᳘ति त᳘देनᳫँ᳭ सर्व्व᳘तो मे᳘ध्यं करोति॥
मूलम् - श्रीधरादि
(त्य) अथो᳘पगृह्णाति॥
(त्य) अपा᳘म्पेरु᳘रसी᳘ति त᳘देनमन्तरतो मे᳘ध्यं करोत्य᳘थाथ᳘स्तादुपोक्षत्या᳘पो[[!!]] देवीः᳘ स्वदन्तु स्वात्तं᳘[[!!]] चित्स᳘द्देवहविरि᳘ति त᳘देनᳫँ᳭ सर्व्व᳘तो मे᳘ध्यं करोति॥
मूलम् - Weber
अथो᳘पगृह्णाति॥
अपा᳘म् पेरु᳘रसी᳘ति त᳘देनमन्तरतो मे᳘ध्यं करोत्य᳘थाध᳘स्तादु᳘पोक्षत्या᳘पो देवीः᳘ स्वदन्तु स्वाॗत्तं चित्स᳘द्देवहविरि᳘ति त᳘देनᳫं सर्व᳘तो मे᳘ध्यं करोति॥
मूलम् - विस्वरम्
अथोपगृह्णाति । “अपाम्पेरुरसि"- (वा. सं. ६ । १०) इति । तदेनमन्तरतो मेध्यं करोति । अथाधस्तादुपोक्षति । “आपो देवीः स्वदन्तु स्वात्तं चित्सद्देवहविः”- (वा. सं. ६ । १०) इति । तदेनं सर्वतो मेध्यं करोति ॥ ६ ॥
सायणः
अथोपगृह्णातीति 7 । प्रोक्षणशेषं पानार्थं मुखसमीपे धारयेत् । ‘हे पशो’ ! त्वम् ‘अपां’ जलानां ‘पेरुः’ पानशीलो ऽसि । ‘तत्’ तस्योदकस्यान्तःप्रवेशात् ‘एनं’ पशुम् ‘अन्तरतः मेध्यं करोति’ ॥
अथाधस्तादिति 8 । अधस्तादुपोक्षणमन्त्रस्यायमर्थः- हे ‘आपो देवीः’ आपो देव्यः ! ‘स्वदन्तु’ स्वादयन्तु । तथा स पशुः ‘स्वात्तं’ सुष्ठु स्वीकृतं भवतु । पशुर्विशेष्यते- ‘देवहविः’ देवतयोर्हविर्भूतमिति स पशुः स्वान्नं च भवतु ॥ ६ ॥
Eggeling
- With (Vāj. S. VI, 10), ‘Thou art a drinker of water,’ he then holds (the lustral water) under (its mouth), whereby he renders it internally pure. He then sprinkles it underneath (the body), with, ‘May the divine waters make it palatable, a true palatable offering to the gods!’ he thus makes it sacrificially pure all over.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाहाग्न᳘ये समिद्ध्य᳘मानाया᳘नुब्रूही᳘ति॥
स उ᳘त्तरमाघार᳘माघार्य्यासᳫं᳭स्पर्शयन्त्स्रु᳘चौ पर्य्ये᳘त्य जुह्वा᳘ पशुᳫं᳭ स᳘मनक्ति शि᳘रो वै᳘ यज्ञस्यो᳘त्तर आघार᳘ ऽएष वा ऽअ᳘त्र यज्ञो᳘ भवति य᳘त्पशुस्त᳘द्यज्ञ᳘ ऽए᳘वैतच्छि᳘रः प्र᳘तिदधाति त᳘स्माज्जुह्वा᳘ पशुᳫं᳭ स᳘मनक्ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाहाग्न᳘ये समिद्ध्य᳘मानाया᳘नुब्रूही᳘ति॥
स उ᳘त्तरमाघार᳘माघार्य्यासᳫं᳭स्पर्शयन्त्स्रु᳘चौ पर्य्ये᳘त्य जुह्वा᳘ पशुᳫं᳭ स᳘मनक्ति शि᳘रो वै᳘ यज्ञस्यो᳘त्तर आघार᳘ ऽएष वा ऽअ᳘त्र यज्ञो᳘ भवति य᳘त्पशुस्त᳘द्यज्ञ᳘ ऽए᳘वैतच्छि᳘रः प्र᳘तिदधाति त᳘स्माज्जुह्वा᳘ पशुᳫं᳭ स᳘मनक्ति॥
मूलम् - Weber
अ᳘थाहाग्न᳘ये समिध्य᳘मानाया᳘नुब्रूही᳘ति॥
स उ᳘त्तरमाघार᳘माघार्या᳘संस्पर्शयन्त्स्रु᳘चौ पर्ये᳘त्य जुह्वा᳘ पशुᳫं स᳘मनक्ति शि᳘रो वै᳘ यज्ञस्यो᳘त्तर आघार᳘ एष वा अ᳘त्र यज्ञो᳘ भवति य᳘त्पशुस्त᳘द्यज्ञ᳘ एॗवैतछि᳘रः प्र᳘तिदधाति त᳘स्माज्जुह्वा᳘ पशुᳫं स᳘मनक्ति॥
मूलम् - विस्वरम्
अथाह- ‘अग्नये समिध्यमानायानुब्रूहि’ इति । स उत्तरमाघारमाघार्यासंस्पर्शयन्त्स्रुचौ पर्य्येत्य जुह्वा पशुं समनक्ति । शिरो वै यज्ञस्योत्तर आघारः । एष वा ऽअत्र यज्ञो भवति- यत्पशुः । तद् यज्ञ एवैतच्छिरः प्रतिदधाति । तस्माज्जुह्वा पशुं समनक्ति ॥ ७ ॥
सायणः
अथाहाग्नये समिध्यमानायेति 7 । सामिधेन्यर्थं सम्प्रैषं कुर्यात् । स उत्तरमाघारमाघार्येति 8 । द्वितीयमित्यर्थः । ‘स्रुचौ’ जुहूपभृतौ ‘असंस्पर्शयन्’, पुनरुत्तरतः ‘पर्येत्य’ ‘जुह्वा’ उत्तराघारावशिष्टेनाज्येन ‘पशुम्’ ‘अनक्ति’ आर्द्रीकरोति । तत् प्रशंसति- शिरा वै यज्ञस्योत्तराघार इति । प्रधानत्वात् ‘पशुर्यज्ञः’, तस्य प्रथमतो ऽनुष्ठेयत्वात् शिरस्त्वम् । अत आघारशेषेणाञ्जनेन ‘यज्ञे’ ‘शिरः’ स्थापितवान् भवति ॥ ७ ॥
Eggeling
- Thereupon he says (to the Hotr̥), ‘Recite to the fire being kindled!’ when he has made the second libation of ghee 9, and returned (to his former place) without letting the two spoons touch one another 10, he anoints the victim with the (ghee in the)
juhū, For the second libation is the head of the sacrifice, and the sacrifice here indeed is that victim: hence he thereby puts the head on the sacrifice and therefore anoints the victim with the juhū.
०८
विश्वास-प्रस्तुतिः
स᳘ लला᳘टे स᳘मनक्ति॥
स᳘न्ते प्राणो व्वा᳘तेन गच्छतामि᳘ति सम᳘ङ्गानि य᳘जत्रैरित्य᳘ᳫं᳘सयोः सं᳘ यज्ञ᳘पतिराशिषे᳘ति श्रो᳘ण्योः स य᳘स्मै का᳘माय पशु᳘माल᳘भन्ते तत्प्रा᳘प्नुही᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
स᳘ लला᳘टे स᳘मनक्ति॥
स᳘न्ते प्राणो व्वा᳘तेन गच्छतामि᳘ति सम᳘ङ्गानि य᳘जत्रैरित्य᳘ᳫं᳘सयोः सं᳘ यज्ञ᳘पतिराशिषे᳘ति श्रो᳘ण्योः स य᳘स्मै का᳘माय पशु᳘माल᳘भन्ते तत्प्रा᳘प्नुही᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
स᳘ लला᳘टे स᳘मनक्ति॥
सं᳘ ते प्राणो वा᳘तेन गछतामि᳘ति सम᳘ङ्गानि य᳘जत्रैरित्य᳘ᳫं᳘सयोः सं᳘ यज्ञ᳘पतिराशिषे᳘ति श्रो᳘ण्योः स य᳘स्मै का᳘माय पशु᳘माल᳘भन्ते तत्प्रा᳘प्नुही᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
स ललाटे समनक्ति । “सन्ते प्राणो वातेन गच्छताम्”- (वा. सं. ६ । १०) इति । “समङ्गानि यजत्रैः”- (वा. सं. ६ । १०) इत्यंसयोः । “सं यज्ञपतिराशिषा”- (वा. सं. ६ । १०) इति श्रोण्योः । स यस्मै कामाय पशुमालभन्ते- तत् प्राप्नुहीत्येवैतदाह ॥ ८ ॥
सायणः
अवयवावयविभेदेन मन्त्रभेदमाह- स ललाटे समनक्ति सन्ते प्राण इति । (का. श्रौ. सू. ६ । ८५) बाह्यवातस्यैव शरीरान्तःप्रवेशेन प्राणत्वात् तस्य वातप्राप्तिर्युक्ता । ‘अङ्गानि’ ‘यजत्रैः’ यागैः ‘सङ्गच्छन्ताम्’ । तथा ‘यज्ञपतिः’ यजमानः ‘आशिषा’ ‘सङ्गच्छताम्’ । एतेन ‘श्रोण्योः’ अनक्ति । अथ कृत्स्नतात्पर्यं यज्ञविषया आशीरेवेत्याह- स यस्मै कामायेति ॥ ८ ॥
Eggeling
- With ‘May thy breath unite with the wind!’ he anoints it on the forehead; with ‘Thy limbs with those worthy of sacrifice’ on the shoulders; with ‘The lord of sacrifice with (the object of) his prayer!’ the loins; whereby he means to say, ‘For whatsoever object the animal is slain, do thou obtain that!’
०९
विश्वास-प्रस्तुतिः
इदं वै पशोः᳘ सञ्ज्ञप्य᳘मानस्य॥
प्राणो व्वा᳘तम᳘पिपद्यते तत्प्रा᳘प्नुहि य᳘त्ते प्राणो व्वा᳘तमपिप᳘द्याता ऽइ᳘त्ये᳘वैत᳘दाह सम᳘ङ्गानि य᳘जत्रैरित्य᳘ङ्गैर्व्वा᳘ ऽअस्य यजन्ते तत्प्रा᳘प्नुहि यत्ते᳘ ऽङ्गैर्य्य᳘जान्ता ऽइ᳘त्ये᳘वैत᳘दाह सं᳘ यज्ञ᳘पतिराशिषे᳘ति य᳘जमानाय वा᳘ ऽएते᳘नाशि᳘ष᳘मा᳘शास्ते तत्प्रा᳘प्नुहि यत्त्व᳘या य᳘जमानायाशि᳘षमाशा᳘सान्ता ऽइ᳘त्ये᳘वैत᳘दाह साद᳘यति स्रु᳘चाव᳘थ प्रवराया᳘श्रावयति᳘ सो ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - श्रीधरादि
इदं वै पशोः᳘ सञ्ज्ञप्य᳘मानस्य॥
प्राणो व्वा᳘तम᳘पिपद्यते तत्प्रा᳘प्नुहि य᳘त्ते प्राणो व्वा᳘तमपिप᳘द्याता ऽइ᳘त्ये᳘वैत᳘दाह सम᳘ङ्गानि य᳘जत्रैरित्य᳘ङ्गैर्व्वा᳘ ऽअस्य यजन्ते तत्प्रा᳘प्नुहि यत्ते᳘ ऽङ्गैर्य्य᳘जान्ता ऽइ᳘त्ये᳘वैत᳘दाह सं᳘ यज्ञ᳘पतिराशिषे᳘ति य᳘जमानाय वा᳘ ऽएते᳘नाशि᳘ष᳘मा᳘शास्ते तत्प्रा᳘प्नुहि यत्त्व᳘या य᳘जमानायाशि᳘षमाशा᳘सान्ता ऽइ᳘त्ये᳘वैत᳘दाह साद᳘यति स्रु᳘चाव᳘थ प्रवराया᳘श्रावयति᳘ सो ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - Weber
इदं वै पशोः᳘ संज्ञप्य᳘मानस्य॥
प्राणो वा᳘तम᳘पिपद्यते तत्प्रा᳘प्नुहि य᳘त्ते प्राणो वा᳘तमपिप᳘द्याता इ᳘त्येॗवैत᳘दाह समङ्गानि य᳘जत्रैरित्य᳘ङ्गैर्वा᳘ अस्य यजन्ते तत्प्रा᳘प्नुहि यत्ते᳘ ऽङ्गैर्य᳘जान्ता इ᳘त्येॗवैत᳘दाह स᳘ यज्ञ᳘पतिराशिषे᳘ति य᳘जमानस्य वा᳘ एते᳘नाशि᳘षमा᳘शास्ते तत्प्रा᳘प्नुहि यत्त्व᳘या य᳘जमानायाशि᳘षमाशा᳘सान्ता इ᳘त्येॗवैत᳘दाह साद᳘यति स्रु᳘चाव᳘थ प्रवराया᳘श्रावयतिॗ सो ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - विस्वरम्
इदं वै पशोः संञ्ज्ञप्यमानस्य प्राणो वातमपिपद्यते । तत्प्राप्नुहि- यत्ते प्राणो वातमपिपद्यातै- इत्येवैतदाह- समङ्गानि यजत्रैरिति । अङ्गैर्वा ऽअस्य यजन्ते । तत्प्राप्नुहि- यत्ते ऽङ्गैर्यजान्तै- इत्येवैतदाह । सं यज्ञपतिराशिषेति । यजमानाय वा ऽएतेनाशिषमाशासते । तत् प्राप्नुहि- यत्त्वया यजमानायाशिषमाशासान्तै इत्येवैतदाह । सादयति स्रुचौ । अथ प्रवरायाश्रावयति । सो ऽसावेव बन्धुः ॥ ९ ॥
सायणः
मन्त्रान् क्रमेण व्याचष्टे- इदं वै पशोरित्यादि । ‘इदं’ वक्ष्यमाणम्, लोकप्रसिद्धमित्यर्थः । सामान्येनोक्तं विशेषणं योजयति- ततः प्राप्नुहीति । यद्येतन्निमित्तेन प्राणो वातमभिपद्येत, तत् प्राप्नुहीत्येवैतदाहेत्यर्थः । गतप्रायमन्यत् । अत्र सूत्रम्- “आ प्रयाजेभ्य उत्तराघारमाघार्य पशुं पूर्वं समनक्ति ललाटांसश्रोणिषु सन्त इति प्रतिमन्त्रम्”- इति । (का. श्रौ. सू. ६ । ८४-८५) । सादयति स्रुचावथ प्रवरायाश्रावयतीति । जुहूपभृतौ सादयित्वा प्रवरायाश्रावयेत् । आश्रावणार्थवादं प्रकृतिगतमत्रादिशति- सो ऽसावेव बन्धुरिति ॥ ९ ॥
Eggeling
- For, indeed, the breath of the victim when slain here passes into the wind: ‘Obtain thou that thy breath may pass into the wind!’ is what he thereby means to say. ‘Thy limbs with those worthy of offering’ he says, because it is with its limbs that they sacrifice: ‘Obtain thou that they may sacrifice with thy limbs’ is what he thereby means to say. ‘The lord of sacrifice with his prayer,’ hereby they invoke a blessing on the sacrificer: ‘Obtain thou that through thee they may invoke a blessing on the sacrificer’ is what he thereby means to say. He then deposits the two spoons and calls for the Śraushaṭ with a view to the Pravara (election of the Hotr̥) 11. The significance of this is the same (as before).
१०
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ द्विती᳘यमा᳘श्रावयति॥
द्वौ ह्य᳘त्र हो᳘तारौ भ᳘वतः स᳘ मैत्रावरुणाया᳘है᳘वाश्राव᳘यति य᳘जमानं᳘[[!!]] त्वेव प्र᳘वृणीते ऽग्नि᳘र्ह दै᳘वीनां व्विशां᳘ पुर एते᳘त्यग्निर्हि᳘ देव᳘तानां मु᳘खं त᳘स्मादाहाग्नि᳘र्ह दै᳘वीनां व्विशां᳘ पुर एते᳘त्ययं य᳘जमानो मनु᳘ष्याणामि᳘ति तᳫँ᳭हि सो ऽन्व᳘र्द्धो भ᳘वति य᳘स्मिन्न᳘र्द्धे य᳘जते त᳘स्मादाहायं य᳘जमानो मनु᳘ष्याणामि᳘ति त᳘योरस्थूरि गा᳘र्हपत्यं दीदयच्छतᳫँ᳭हि᳘माद्वायू ऽइ᳘ति त᳘योर᳘नार्त्तानि गा᳘र्हपत्यानि शतं᳘ व्वर्षा᳘णि सन्त्वि᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ द्विती᳘यमा᳘श्रावयति॥
द्वौ ह्य᳘त्र हो᳘तारौ भ᳘वतः स᳘ मैत्रावरुणाया᳘है᳘वाश्राव᳘यति य᳘जमानं᳘[[!!]] त्वेव प्र᳘वृणीते ऽग्नि᳘र्ह दै᳘वीनां व्विशां᳘ पुर एते᳘त्यग्निर्हि᳘ देव᳘तानां मु᳘खं त᳘स्मादाहाग्नि᳘र्ह दै᳘वीनां व्विशां᳘ पुर एते᳘त्ययं य᳘जमानो मनु᳘ष्याणामि᳘ति तᳫँ᳭हि सो ऽन्व᳘र्द्धो भ᳘वति य᳘स्मिन्न᳘र्द्धे य᳘जते त᳘स्मादाहायं य᳘जमानो मनु᳘ष्याणामि᳘ति त᳘योरस्थूरि गा᳘र्हपत्यं दीदयच्छतᳫँ᳭हि᳘माद्वायू ऽइ᳘ति त᳘योर᳘नार्त्तानि गा᳘र्हपत्यानि शतं᳘ व्वर्षा᳘णि सन्त्वि᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
अ᳘थ द्विती᳘यमा᳘श्रावयति॥
द्वौ ह्य᳘त्र हो᳘तारौ भ᳘वतः स᳘ मैत्रावरुणाया᳘हैॗवाश्राव᳘यति य᳘जमाॗनं त्वेव प्र᳘वृणीते ऽग्नि᳘र्ह दै᳘वीनां विशा᳘म् पुरएते᳘त्यग्निर्हि᳘ देव᳘तानाम् मु᳘खं त᳘स्मादाहाग्नि᳘र्ह दै᳘वीनां विशा᳘म् पुरएते᳘त्ययं य᳘जमानो मनुॗष्याणामि᳘ति तᳫं हि सो ऽन्व᳘र्धो भवति य᳘स्मिन्न᳘र्धे य᳘जते त᳘स्मादाहायं य᳘जमानो मनुॗष्याणामि᳘ति त᳘योरस्थूरि गा᳘र्हपत्यं दीदयछतᳫं हि᳘मा द्वा यू इ᳘ति त᳘योर᳘नार्तानि गा᳘र्हपत्यानि शतं᳘ वर्षा᳘णि सन्त्वि᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
अथ द्वितीयमाश्रावयति । द्वौ ह्यत्र होतारौ भवतः । स मैत्रावरुणायाहैवाश्रावयति । यजमानं त्वेव प्रवृणेते । “अग्निर्ह दैवीनां विशां पुर एता”- इति । अग्निर्हि देवतानां मुखम् । तस्मादाह- अग्निर्ह दैवीनां विशां पुर एतेति । “अयं यजमानो मनुष्याणाम्”- इति । तं हि सो ऽन्वर्द्धो भवति- यस्मिन्नर्द्धे यजते । तस्मादाह अयं यजमानो मनुष्याणामिति । “तयोरस्थूरि गार्हपत्यं दीदयच्छतं हिमाद्वायू”- इति । तयोरनार्तानि गार्हपत्यानि शतं वर्षाणि सन्त्वित्येवैतदाह ॥ १० ॥
सायणः
अथ द्वितीयमाश्रावयतीति 12 । मैत्रावरुणस्यापि हौत्रकर्तृत्वाद् “द्वौ ह्यत्र होतारौ भवतः” इत्युक्तम् । द्वितीयाश्रावणं किमर्थमित्याह- स मैत्रावरुणायाहवौश्रावयतीति । ‘सः’ अध्वर्युः । यजयानं त्वेवेति । ‘एव’-कारेणर्त्विजां प्रवरणं निषिध्यते ॥
यजमानप्रवरनिगदस्यायमर्थः- ‘अग्निः’ खलु ‘दैवीनां विशां’ देवसम्बन्धिनीनां प्रजानां ‘पुर एता’ मुख्य इत्यर्थः । तथा ‘मनुष्याणां विशां’ ‘यजमानः’ ‘पुर एता’ मुख्यः । सर्वे ऽपि प्राणिनस्तमनुसृत्य भवन्तीत्वर्थः । ‘तयोः’ अग्नियजमानयोः ‘गार्हपत्यं’ गृहपतिकर्म ‘अस्थूरि’ अनाश्यम् । शतवर्षपर्यन्तं हि दीक्षानुयष्टव्यत्वेन अग्नेस्तत्त्वं यजमानस्य च गार्हपत्यसम्बन्धः । ‘राधांसि इत्’ अन्नान्येव ‘सम्पृञ्चानौ’ मिश्रयन्तौ । ‘तन्वः’ तनूः ‘असम्पृञ्चानौ’ शरीरसम्पर्को यथा न स्यात्; शरीरसंपर्के दाहः स्यात् ॥
क्रमेण व्याचष्टे- अग्निर्हेत्यादिना । तं हि सो ऽन्वर्द्धो भवति, यस्मिन्नर्द्धे यजत इति । ‘यस्मिन्’ ‘अर्द्धे’ राष्ट्रे अयं यजमानो ‘यजते’ ‘सो ऽन्वर्द्धाः’ ‘तं हि’ तमनु । “हीने”- (पा. सू. १ । ४ । ३६) इत्यनोः कर्मप्रवचनीयत्वम् । ‘अस्थूरि’- शब्दार्थमाह- अनार्त्तानि गार्हपत्यानीति । ‘राधांसि’- इत्येतद् विभज्य व्याचष्टे- राधांस्येवेत्यादिना । इच्छब्द एवार्थे । तेन निरसनीयमाह- नापि तनूरिति । विपक्षे बाधकमाह- तौ ह यत्तनूरपीति । ननु “सं राधांसि सन्पृञ्चानौ”- इत्युक्तम्, सम्पर्कश्च परस्परप्रदानसव्यपेक्षः कथमत्र सम्भवतीति, तदुपपादयति- स यदग्नौ जुहोतीति । यदग्नौ प्रदानम्, यश्च तदग्नौ सम्पर्कः, ऋत्विग्भिः यजमानार्थमाशास्यमानानां फलानां तुष्टेनाग्निना दानमस्ति, तदेवाग्नेर्यजमानसम्पर्कः । ‘तत्’ तेन प्रतिपादितप्रकारेण तौ ‘राधांसि सम्पृञ्चाते’ इति ॥ १० ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे सप्तमाध्याये चतुर्थं ब्राह्मणम् ॥ ३ । ७ । ४ ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ २ ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः ॥ ३ ॥ आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ ४ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे सप्तमो ऽध्यायः समाप्तः ॥ ३-७॥
Eggeling
- Thereupon he calls a second time for the Sraushaṭ, for on this occasion there are two Hotr̥s it is with regard to the Maitrāvaruṇa 13 that he now calls for the Śraushaṭ. But it is the sacrificer whom
he chooses, saying, ‘Verily, Agni is the leader of the divine hosts,’ for Agni is the head of the deities; wherefore he says, ‘Verily, Agni is the leader of the divine hosts;’–’this sacrificer of the human;’ for that community wherein he sacrifices is behind (inferior to) him; wherefore he says, ‘This sacrificer (is the head) of the human.’ ‘May the household of these two shine brightly, not (like a cart yoked) with one bullock, for a hundred winters,–two yoke-fellows!’ whereby he means to say, ‘May their household matters be free from calamities for a hundred years 14.’
११
विश्वास-प्रस्तुतिः
रा᳘धाᳫँ᳭सी᳘त्सम्पृञ्चानाव᳘सम्पृञ्चानौ त᳘न्व[[!!]] इ᳘ति॥
रा᳘धाᳫँ᳭स्येव स᳘म्पृञ्चाथां मा᳘पि तनूरि᳘त्ये᳘वैत᳘दाह तौ᳘ ह य᳘त्तनूर᳘पि सम्पृञ्चीया᳘तां᳘ प्राग्निर्य᳘जमानं दहेत्स य᳘दग्नौ᳘ जुहो᳘ति त᳘दे᳘षो ऽग्न᳘ये प्र᳘यच्छत्य᳘थ या᳘मेवा᳘त्रर्त्वि᳘जो य᳘जमानायाशि᳘षमाशा᳘सते ता᳘मस्मै स᳘र्व्वामग्निः स᳘मर्द्धयति तद्रा᳘धाᳫँ᳭स्येव स᳘स्पृञ्चाते ना᳘पि तनूस्त᳘स्मादाह रा᳘धाᳫँ᳭सी᳘त्सम्पृञ्चानाव᳘सम्पृञ्चानौ त᳘न्व[[!!]] इ᳘ति॥
मूलम् - श्रीधरादि
रा᳘धाᳫँ᳭सी᳘त्सम्पृञ्चानाव᳘सम्पृञ्चानौ त᳘न्व[[!!]] इ᳘ति॥
रा᳘धाᳫँ᳭स्येव 12 स᳘म्पृञ्चाथां मा᳘पि तनूरि᳘त्ये᳘वैत᳘दाह तौ᳘ ह य᳘त्तनूर᳘पि सम्पृञ्चीया᳘तां᳘ प्राग्निर्य᳘जमानं दहेत्स य᳘दग्नौ᳘ जुहो᳘ति त᳘दे᳘षो ऽग्न᳘ये प्र᳘यच्छत्य᳘थ या᳘मेवा᳘त्रर्त्वि᳘जो य᳘जमानायाशि᳘षमाशा᳘सते ता᳘मस्मै स᳘र्व्वामग्निः स᳘मर्द्धयति तद्रा᳘धाᳫँ᳭स्येव स᳘स्पृञ्चाते ना᳘पि तनूस्त᳘स्मादाह रा᳘धाᳫँ᳭सी᳘त्सम्पृञ्चानाव᳘सम्पृञ्चानौ त᳘न्व[[!!]] इ᳘ति॥
मूलम् - Weber
रा᳘धांसी᳘त्सम्पृञ्चानाव᳘सम्पृञ्चानौ तन्व᳘ इ᳘ति॥
रा᳘धांस्येव सम्पृञ्चाथाम् ना᳘पि तनूरि᳘त्येॗवैत᳘दाह तौ᳘ ह य᳘त्तनूर᳘पि सम्पृञ्चीया᳘ताॗम् प्राग्निर्य᳘जमानं दहेत्स य᳘दग्नौ जुहो᳘ति त᳘देॗषो ऽग्न᳘ये प्र᳘यछत्य᳘थ या᳘मेवा᳘त्रर्त्वि᳘जो य᳘जमानायाशि᳘षमाशा᳘सते ता᳘मस्मै स᳘र्वामग्निः स᳘मर्धयति तद्रा᳘धांस्येव स᳘म्पृञ्चाते ना᳘पि तनूस्त᳘स्मादाह रा᳘धांसी᳘त्सम्पृञ्चानाव᳘सम्पृञ्चानौ तन्व᳘ इ᳘ति॥
मूलम् - विस्वरम्
“राधां 12 सीत्सम्पृञ्चानावसम्पृञ्चानौ तन्व”- इति । राधांस्येव सम्पृञ्चाथां मापि तनूरित्येवैतदाह । तौ ह यत् तनूरपि सम्पृञ्चीयाताम्; प्राग्निर्यजमानं दहेत् । स यदनौ जुहोति- तदेषो ऽग्नये प्रयच्छति । अथ यामेवात्रर्त्विजो यजमानायाशिषमाशासते- तामस्मै सर्वामग्निः समर्द्धयति । तद् राधांस्येव सम्पृञ्चाते, नापि तनूः । तस्मादाह- राधांसीत्सम्पृञ्चानावसम्पृञ्चानौ तन्व इति ॥ ११ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- ‘Uniting blessings, not uniting bodies;’ whereby he means to say, ‘Unite ye your blessings only, but not also your bodies;’ for were they also to unite their bodies, Agni (the fire) would burn the sacrificer. Now when this one sacrifices in the fire, he gives gifts to Agni; and whatever blessing the priests here invoke upon the sacrificer, all that Agni accomplishes. Thus they unite only their blessings, but not also their bodies: wherefore he says, ‘Uniting blessings, not uniting bodies.’
-
द्विगुणरशनया द्विव्यामया कौश्या पाशं कृत्वां ऽतराशृंगाभिदक्षिणं बध्नात्यृतस्यत्वेति । देवस्यत्वेतियूपे । का. श्रौ. सू. ६ । ७८ । ७९ ↩︎
-
स य᳘दै᳘व AB. ↩︎
-
181:1 Thus the author appears to take the formula ‘dharshā mā́nushaḥ.’ It would rather seem to mean, ‘Be bold: [I am (or he, the slaughterer, is)] a man.’ Mahīdhara interprets, ‘May he (the Śamitr̥) be bold enough!’ Either the Kāṇva reading ‘dharshān mānushaḥ’ or that of the Taittirīyas ‘dharshā mānushān’ would seem preferable. ↩︎
-
181:2 The Kāṇva text has ‘dhr̥shṇoti’ for ‘adhr̥shṇot,’ which renders it more simple: ‘At first the man (the slaughterer) dares not approach it, but when he thus binds it, &c.’ ↩︎
-
181:3 Viz. at the Haviryajña; see I, 1, 2, 17. ↩︎
-
अद्भ्यस्त्वेतिपशुं प्रोक्षणीभिः प्रोक्षति । का. श्रौ. सू. ६ । ८१ । ↩︎
-
182:1 For the course of performance, see I, 3, 5, 1 seq.; I, 4, 4, 1 seq. ↩︎
-
182:2 See I, 4, 5, 5. ↩︎
-
183:1 See I, 5, 1, 1 seq. (also note to part i, p. 115). ↩︎
-
प्रव्वृत्य होतारमाश्राव्याग्निर्ह दैवीनां व्विशां पुरएतायं यजमानो मनुष्याणाँ सुन्वन्निति सुत्येतयोरस्थूरिगार्हपत्यंदीदयधृतँ हिमाद्वायूराधाँ सीत्संपृञ्चानावसंपृञ्चानौ तन्त्र इति । का. श्रौ. सू. ६ । ८६ । ↩︎ ↩︎ ↩︎
-
183:2 The Maitrāvaruṇa or Praśāstr̥ is the Hotr̥’s chief assistant. He receives, as the badge of his office, the stall which the sacrificer held while he was consecrated, and has, at the instance of the Adhvaryu, to call on the Hotr̥ for the offering-prayers,–his summons (praisha) beginning with Hotā yakshat, ’let the Hotr̥ worship or, pronounce the offering-prayer) . . .,’–and occasionally himself to pronounce the invitatory prayer. ↩︎
-
184:1 See I, 9, 3, 79. ↩︎