०१

विश्वास-प्रस्तुतिः

पशु᳘श्च वै यू᳘पश्च॥
न वा᳘ ऽऋते यूपात्पशुमा᳘लभन्ते[[!!]] कदा᳘चन तद्यत्त᳘था न᳘ ह वा᳘ ऽएत᳘स्मा ऽअ᳘ग्रे पश᳘वश्चक्षमिरे यद᳘न्नम᳘भिविष्यन्य᳘थेदम᳘न्नं भूता य᳘था है᳘वायं᳘ द्विपात्पु᳘रुष उ᳘च्छ्रित एव᳘ᳫँ᳭ हैव᳘ द्विपा᳘द उ᳘च्छ्रिताश्चेरुः॥

मूलम् - श्रीधरादि

पशु᳘श्च वै यू᳘पश्च॥
न वा᳘ ऽऋते यूपात्पशुमा᳘लभन्ते[[!!]] कदा᳘चन तद्यत्त᳘था न᳘ ह वा᳘ ऽएत᳘स्मा ऽअ᳘ग्रे पश᳘वश्चक्षमिरे यद᳘न्नम᳘भिविष्यन्य᳘थेदम᳘न्नं भूता य᳘था है᳘वायं᳘ द्विपात्पु᳘रुष उ᳘च्छ्रित एव᳘ᳫँ᳭ हैव᳘ द्विपा᳘द उ᳘च्छ्रिताश्चेरुः॥

मूलम् - Weber

पशु᳘श्च वै यू᳘पश्च॥
न वा᳘ ऋते यू᳘पात्पशुमा᳘लभन्ते कदा᳘ चन तद्यत्त᳘था न᳘ ह वा᳘ एत᳘स्मा अ᳘ग्रे पश᳘वश्चक्षमिरे यद᳘न्नम᳘भिविष्यन्य᳘थेदम᳘न्नम् भूता य᳘था हैॗवायं᳘ द्विपात्पु᳘रुष उ᳘छ्रित एव᳘ᳫं᳘ हैव᳘ द्विपा᳘द उ᳘छ्रिताश्चेरुः॥

मूलम् - विस्वरम्

अग्नीषोमीयपशुयागः ।

पशुश्च वै यूपश्च । न वा ऽऋते यूपात्पशुमालभन्ते । कदाचन । तद्- यत्तथा । न ह वा ऽएतस्मा ऽअग्रे पशवश्चक्षमिरे । यदन्नमभविष्यन्- यथेदमन्नं भूता । यथा हैवायं द्विपात् पुरुष उच्छ्रितः । एवं हैव द्विपाद उच्छ्रिताश्चेरुः ॥ १ ॥

सायणः

पशुनियोजनाय सर्वथा यूपेनैव भवितव्यमित्यमुमर्थमाख्यानमुखेनोपपादयति- पशुश्च वै यूपश्चेत्यादिना । अविनाभूतावित्यर्थः । व्याप्तिं दर्शयति- न वा ऋत इति । यतो यूपं विना पश्वालम्भो नास्ति, केनापि प्रकारेण न तथा स्यात्, यथा पशोर्यूपेन; अतस्तदुपपद्यत इत्यर्थः । तत् प्रदर्श्यते- न ह वा इत्यादिना । ‘एतस्मै’ वक्ष्यमाणाय देवानामन्नभावाय ‘न’ ‘चक्षमिरे’ क्षममाणा भवन्ति, ‘अन्नमभविष्यन्निति’ ‘यत्’ अस्ति, तस्मा इत्यर्थः । ‘यथा’ ‘इदम्’ इदानीं यूपनियुक्ताः ‘अन्नं भूता’ अन्नमभवन्, तथा यूपाख्यवज्रोद्यताया रहिते काले इत्यर्थः । अन्नभावाभावे कारणमाह-** यथा हैवायं द्विपात्पुरुष** इति ॥ १ ॥

Eggeling
  1. There are both an animal and a sacrificial stake, for never do they immolate an animal without a stake. And as to why this is so:–well, animals did not at first submit thereto that they should become food, as they are now become food; for just as man here walks two-footed and erect, so did they walk two-footed and erect.

०२

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘तो देवा᳘ ऽएतं व्व᳘ज्रं ददृशुः॥
(र्य) यद्यू᳘पं तमु᳘च्छिश्रियुस्त᳘स्माद्भीषा प्रा᳘व्लीयन्त त᳘तश्च᳘तुष्पादा अभवंस्ततो᳘ ऽन्नमभ᳘वन्त्य᳘थेदम᳘न्नं भूता᳘ एत᳘स्मै हि वा᳘ ऽएते᳘ ऽतिष्ठन्त त᳘स्माद्यू᳘प ऽएव᳘ पशुमा᳘लभन्ते᳘ नर्ते[[!!]] यू᳘पात्कदा᳘चन᳘॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘तो देवा᳘ ऽएतं व्व᳘ज्रं ददृशुः॥
(र्य) यद्यू᳘पं तमु᳘च्छिश्रियुस्त᳘स्माद्भीषा प्रा᳘व्लीयन्त त᳘तश्च᳘तुष्पादा अभवंस्ततो᳘ ऽन्नमभ᳘वन्त्य᳘थेदम᳘न्नं भूता᳘ एत᳘स्मै हि वा᳘ ऽएते᳘ ऽतिष्ठन्त त᳘स्माद्यू᳘प ऽएव᳘ पशुमा᳘लभन्ते᳘ नर्ते[[!!]] यू᳘पात्कदा᳘चन᳘॥

मूलम् - Weber

त᳘तो देवा᳘ एतं व᳘ज्रं ददृशुः॥
यद्यू᳘पं तमु᳘छिश्रियुस्तस्माद्भीषा प्रा᳘व्लीयन्त 1 त᳘तश्च᳘तुष्पादा अभवंस्ततो᳘ ऽन्नमभवन्य᳘थेदम᳘न्नम् भूता᳘ एत᳘स्मै हि वा᳘ एते᳘ ऽतिष्ठन्त त᳘स्माद्यू᳘प एव᳘ पशुमा᳘लभन्ते न᳘र्ते यू᳘पात्कदा᳘ चन᳟॥

मूलम् - विस्वरम्

ततो देवा एतं वज्रं ददृशुः- यद्यूपम् । तमुच्छिश्रियुः । तस्माद् भीषा प्राव्लीयन्त । ततश्चतुष्पादा अभवन् । ततो ऽन्नमभवन्- यथेदमन्नं भूता । एतस्मै हि वा ऽएते ऽतिष्ठन्त । तस्माद् यूप ऽएव पशुमालभन्ते । नर्ते यूपात् कदाचन ॥ २ ॥

सायणः

ततो देवा इति । ‘तं यूपम्’ ‘उच्छिश्रियुः’ उच्छ्रयणमकुर्वन् । ‘तस्मात्’ भयाद्धेतोः ‘प्राव्लीयन्त’ प्रकर्षेण व्लीना अवचनीया अभवन् । ‘ततः’ हेतोः मनुष्यवद् द्विपादाः सन्तः पश्चात् ‘चतुष्पादा अभवन्’ ॥ २ ॥

Eggeling
  1. Then the gods perceived that thunderbolt, to wit, the sacrificial stake; they raised it, and from fear thereof they (the animals) shrunk together and thus became four-footed, and thus became food, as they are now become food, for they submitted thereto: wherefore they immolate the animal only at a stake and never without a stake.

०३

विश्वास-प्रस्तुतिः

(ना᳘) अ᳘थोपाकृ᳘त्य पशु᳘म्॥
(म) अग्निं᳘ मथित्वा नि᳘युनक्ति तद्यत्त᳘था न᳘ ह वा᳘ ऽएत᳘स्मा ऽअ᳘ग्रे पश᳘वश्चक्षमिरे य᳘द्धविर᳘भविष्यन्य᳘थैनानिद᳘ᳫँ᳭हवि᳘र्भूतानग्नौ जु᳘ह्वति ता᳘न्देवा᳘ उपनि᳘रुरुधुस्त᳘ ऽउपनि᳘रुद्धा᳘ नोपा᳘वेयुः॥

मूलम् - श्रीधरादि

(ना᳘) अ᳘थोपाकृ᳘त्य पशु᳘म्॥
(म) अग्निं᳘ मथित्वा नि᳘युनक्ति तद्यत्त᳘था न᳘ ह वा᳘ ऽएत᳘स्मा ऽअ᳘ग्रे पश᳘वश्चक्षमिरे य᳘द्धविर᳘भविष्यन्य᳘थैनानिद᳘ᳫँ᳭हवि᳘र्भूतानग्नौ जु᳘ह्वति ता᳘न्देवा᳘ उपनि᳘रुरुधुस्त᳘ ऽउपनि᳘रुद्धा᳘ नोपा᳘वेयुः॥

मूलम् - Weber

अ᳘थोपाकृ᳘त्य पशु᳘म्॥
अग्नि᳘म् मथित्वा नि᳘युनक्ति तद्यत्त᳘था न᳘ ह वा᳘ एत᳘स्मा अ᳘ग्रे पश᳘वश्चक्षमिरे य᳘द्धविर᳘भविष्यन्य᳘थैनानिद᳘ᳫं᳘ हवि᳘र्भूतानग्नौ जु᳘ह्वति ता᳘न्देवा᳘ उपनि᳘रुरुधुस्त᳘ उपनि᳘रुद्धाॗ नोपा᳘वेयुः॥

मूलम् - विस्वरम्

अथोपाकृत्य पशुम्, अग्निं मथित्वा नियुनक्ति । तद्यत्तथा । न ह वा ऽएतस्मा ऽअग्रे पशवश्वक्षमिरे । यद्धविरभविष्यन्- यथैनानिदं हविर्भूतानग्नौ जुह्वति । तान् देवा उपनिरुरुधुः । त ऽउपनिरुद्धा नोपावेयुः ॥ ३ ॥

सायणः

प्रासङ्गिकं यूपैकादशिनीपक्षं परिसमाप्य प्रकृतमग्नीषोमीयपशुप्रयोगमाह- अथोपाकृत्य पशुमिति 2 । पशूपाकरणानन्तरम् अग्निमन्थनानन्तरमेव पशुं यूपे नियुञ्जीत । पशुनियोजनस्य अग्निमन्थनानन्तरकालं प्रशंसति- तद्यत्तथा न ह वा एतस्मा अग्रे पशव इत्यादिना । पूर्वार्थवादवाक्यवत्तद्व्याख्येयम् । ‘नोपावेयुः’ नोपगताः पशवः ॥ ३ ॥

Eggeling
  1. Having driven up the victim, and churned the fire, he binds it (to the stake). And as to why this is so:–well, animals did not at first submit thereto that they should become sacrificial food, as they are now become sacrificial food and are offered up in the fire. The gods secured them: even thus secured they did not resign themselves.

०४

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ होचुः॥
(र्न) न वा᳘ ऽइ᳘मे ऽस्य या᳘मं व्विदुर्य᳘दग्नौ᳘ हविर्जु᳘ह्वति᳘ नैतां᳘ प्रतिष्ठा᳘मुपरु᳘द्ध्यैव᳘ पशू᳘नग्निं᳘ मथि᳘त्वाग्ना᳘वग्निं᳘ जुहवाम ते᳘ व्वेदिष्यन्त्ये᳘ष वै कि᳘ल हवि᳘षो या᳘म एषा᳘ प्रति᳘ष्ठा ऽग्नौ वै कि᳘ल हवि᳘र्जुह्वती᳘ति त᳘तो ऽभ्य᳘वैष्यन्ति त᳘तो रात᳘मनस आलम्भा᳘य भविष्यन्ती᳘ति॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ होचुः॥
(र्न) न वा᳘ ऽइ᳘मे ऽस्य या᳘मं व्विदुर्य᳘दग्नौ᳘ हविर्जु᳘ह्वति᳘ नैतां᳘ प्रतिष्ठा᳘मुपरु᳘द्ध्यैव᳘ पशू᳘नग्निं᳘ मथि᳘त्वाग्ना᳘वग्निं᳘ जुहवाम ते᳘ व्वेदिष्यन्त्ये᳘ष वै कि᳘ल हवि᳘षो या᳘म एषा᳘ प्रति᳘ष्ठा ऽग्नौ वै कि᳘ल हवि᳘र्जुह्वती᳘ति त᳘तो ऽभ्य᳘वैष्यन्ति त᳘तो रात᳘मनस आलम्भा᳘य भविष्यन्ती᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
न वा᳘ इॗमे ऽस्य या᳘मं विदुर्य᳘दग्नौ᳘ 3 हविर्जु᳘ह्वतिॗ नैता᳘म् प्रतिष्ठा᳘मुपरु᳘ध्यैव᳘ पशू᳘नग्नि᳘म् मथिॗत्वाग्ना᳘वग्निं᳘ जुहवाम ते᳘ वेदिष्यन्त्येष वै कि᳘ल हवि᳘षो या᳘म एषा᳘ प्रतिॗष्ठाग्नौ वै कि᳘ल हवि᳘र्जुह्वती᳘ति त᳘तो ऽभ्य᳘वैष्यन्ति त᳘तो रात᳘मनस आलम्भा᳘य भविष्यन्ती᳘ति॥

मूलम् - विस्वरम्

ते होचुः । न वा ऽइमे ऽस्य यामं विदुः- यदग्नौ हविर्जुह्वति । नैतां प्रतिष्ठामुपरुद्ध्यैव पशूनग्निं मथित्वाग्नावग्निं जुहवाम । ते वेदिष्यन्ति- एष वै किल हविषो यामः, एषा प्रतिष्ठा । अग्नौ वै किल हविर्जुह्वतीति । ततो ऽभ्यवैष्यन्ति । ततो रातमनस आलम्भाय भविष्यन्तीति ॥ ४ ॥

सायणः

ते होचुरिति । ‘न वा’ ‘इमे’ पशवः ‘यदग्नौ जुह्वति’ । यतः ‘अस्य’ नियोजनस्य ‘यामं’ प्रायनम्, अग्नौ होमलक्षणं ‘न विदुः’ न ज्ञातवन्तः । तदेव विशिनष्टि- नैतां प्रतिष्ठामिति । ‘एतां’ होमलक्षणां ‘प्रतिष्ठाम्’ अग्न्याख्यपरमपदस्थितिम् ‘अग्नौ’ उत्तरवेदिस्थे ‘अग्निम्’ मन्थनजन्यम् । ‘एष वै किल’- इत्येतच्छब्दार्थमाह- अग्नौ वै किल हविर्जुह्वतीति । ‘अभ्यवैष्यन्ति’ अवगतिं प्राप्स्यन्ति । ‘आलम्भाय’ ‘रातमनसः’ दत्तमनस्काः ‘भविष्यन्ति’ ‘इति’ । शिष्टं स्पष्टार्थम् ॥ ४-६ ॥

Eggeling
  1. They spake, ‘Verily, these (animals) know not the manner of this, that it is in fire that sacrificial food is offered, nor (do they know) that secure resort (the fire): let us offer fire into the fire after securing the animals and churning the fire, and they will know that this truly is the manner of sacrificial food,

this its resort; that it is truly in fire that sacrificial food is offered: and accordingly they will resign themselves, and will be favourably disposed to the slaughtering.’

०५

विश्वास-प्रस्तुतिः

त᳘ उपरु᳘ध्यैव᳘ पशू᳘न्॥
(न) अग्निं᳘ मथि᳘त्वाग्ना᳘वग्नि᳘मजुहवु᳘स्ते ऽविदुरेष वै कि᳘ल हवि᳘षो या᳘ त एषा᳘ प्रति᳘ष्ठाग्नौ वै कि᳘ल हवि᳘र्जुह्वती᳘ति[[!!]] त᳘तो ऽभ्य᳘वायंस्त᳘तो रात᳘मनस आलम्भा᳘याभवन्॥

मूलम् - श्रीधरादि

त᳘ उपरु᳘ध्यैव᳘ पशू᳘न्॥
(न) अग्निं᳘ मथि᳘त्वाग्ना᳘वग्नि᳘मजुहवु᳘स्ते ऽविदुरेष वै कि᳘ल हवि᳘षो या᳘ त एषा᳘ प्रति᳘ष्ठाग्नौ वै कि᳘ल हवि᳘र्जुह्वती᳘ति[[!!]] त᳘तो ऽभ्य᳘वायंस्त᳘तो रात᳘मनस आलम्भा᳘याभवन्॥

मूलम् - Weber

त᳘ उपरु᳘ध्यैव᳘ पशू᳘न्॥
अग्नि᳘म् मथिॗत्वाग्नावग्नि᳘मजुहुवुॗस्ते ऽविदुरेष वै कि᳘ल हवि᳘षो या᳘म एषा᳘ प्रतिॗष्ठाग्नौ वै कि᳘ल ह᳘विर्जुह्वती᳘ति त᳘तो ऽभ्य᳘वायंस्त᳘तो रात᳘मनस आलम्भा᳘याभवन्॥

मूलम् - विस्वरम्

त उपरुध्यैव पशून्, अग्निं मथित्वा, अग्नावग्निमजुहवुः । ते ऽविदुः- एष वै किल हविषो यामः, एषा प्रतिष्ठा । अग्नौ वै किल हविर्जुह्वतीति । ततो ऽभ्यवायन् । ततो रातमानस आलम्भायाभवन् ॥ ५ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. Having, then, first secured the animals, and churned the fire, they offered fire into the fire; and then they (the animals) knew that this truly is the manner of sacrificial food, this its resort; that it is truly in fire that sacrificial food is offered. And accordingly they resigned themselves, and became favourably disposed to the slaughtering.

०६

विश्वास-प्रस्तुतिः

(वंस्त᳘) त᳘थो ऽए᳘वैष᳘ एतत्॥
(दु) उपरु᳘द्ध्यैव᳘ पशु᳘मग्निं᳘ मथि᳘त्वाग्ना᳘वग्निं᳘ जुहोति स᳘ व्वेदैष वै कि᳘ल हवि᳘षो या᳘म एषा᳘ प्रति᳘ष्ठाग्नौ वै कि᳘ल हवि᳘र्जुह्वती᳘ति त᳘तो ऽभ्यवैति[[!!]] ततो[[!!]] रात᳘मना आलम्भा᳘य भवति त᳘स्मादुपाकृ᳘त्य पशु᳘मग्निं᳘ मथि᳘त्वा नि᳘युनक्ति॥

मूलम् - श्रीधरादि

(वंस्त᳘) त᳘थो ऽए᳘वैष᳘ एतत्॥
(दु) उपरु᳘द्ध्यैव᳘ पशु᳘मग्निं᳘ मथि᳘त्वाग्ना᳘वग्निं᳘ जुहोति स᳘ व्वेदैष वै कि᳘ल हवि᳘षो या᳘म एषा᳘ प्रति᳘ष्ठाग्नौ वै कि᳘ल हवि᳘र्जुह्वती᳘ति त᳘तो ऽभ्यवैति[[!!]] ततो[[!!]] रात᳘मना आलम्भा᳘य भवति त᳘स्मादुपाकृ᳘त्य पशु᳘मग्निं᳘ मथि᳘त्वा नि᳘युनक्ति॥

मूलम् - Weber

त᳘थो एॗवैष᳘ एतत्॥
उपरु᳘ध्यैव᳘ पशु᳘मग्नि᳘म् मथिॗत्वाग्ना᳘वग्निं᳘ जुहोति स᳘ वेदैष वै कि᳘ल हवि᳘षो या᳘म एषा᳘ प्रतिॗष्ठाग्नौ वै कि᳘ल हवि᳘र्जुह्वती᳘ति त᳘तो ऽभ्य᳘वैति त᳘तो रात᳘मना आलम्भा᳘य भवति त᳘स्मादुपाकृ᳘त्य पशु᳘मग्नि᳘म् मथित्वा नि᳘युनक्ति॥

मूलम् - विस्वरम्

तथो ऽएवैष एतदुपरुद्ध्यै पशुमग्निं मथित्वा अग्नावग्निं जुहोति । स वेद एष वै किल हविषो यामः एषा प्रतिष्ठा । अग्नौ वै किल हविर्जुह्वतीति । ततो ऽभ्यवैति । ततो रातमना आलम्भाय भवति तस्मादुपाकृत्य पशुमग्निं मथित्वा नियुनक्ति ॥ ६ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. And in like manner does he now offer fire into the fire, after securing the animal and churning the fire. It (the animal) knows that this truly is the manner of sacrificial food, this its resort; that it is truly in fire that sacrificial food is offered; and accordingly it resigns itself and becomes favourably disposed to the slaughtering. Therefore having driven up the victim and churned the fire, he binds it (to the stake).

०७

विश्वास-प्रस्तुतिः

त᳘दाहुः᳘॥
(र्नो) नोपा᳘कुर्या᳘न्नाग्निं᳘ मन्थेद्रशना᳘मे᳘वादाया᳘ञ्जसोपपरे᳘त्याभिधा᳘य नि᳘युञ्ज्यादि᳘ति त᳘दु त᳘था न᳘ कुर्याद्यथा᳘धर्मं तिरश्च᳘था चि᳘कीर्षेदेवं तत्त᳘स्मादेत᳘दे᳘वानुप᳘रीयात्॥

मूलम् - श्रीधरादि

त᳘दाहुः᳘॥
(र्नो) नोपा᳘कुर्या᳘न्नाग्निं᳘ मन्थेद्रशना᳘मे᳘वादाया᳘ञ्जसोपपरे᳘त्याभिधा᳘य नि᳘युञ्ज्यादि᳘ति त᳘दु त᳘था न᳘ कुर्याद्यथा᳘धर्मं तिरश्च᳘था चि᳘कीर्षेदेवं तत्त᳘स्मादेत᳘दे᳘वानुप᳘रीयात्॥

मूलम् - Weber

त᳘दाहुः᳟᳟॥
नोपा᳘कुर्याॗन्नाग्नि᳘म् मन्थेद्रशना᳘मेॗवादाया᳘ञ्जसोपपरे᳘त्याभिधा᳘य नि᳘युञ्ज्यादि᳘ति त᳘दु त᳘था न᳘ कुर्याद्यथा᳘धर्मं तिरश्च᳘था चि᳘कीर्षेदेवं तत्त᳘स्मादेत᳘देॗवानुप᳘रीयात्॥

मूलम् - विस्वरम्

तदाहुः- नोपाकुर्यात्, नाग्निं मन्थेद्, रशनामेवादायाञ्जसोपपरेत्याभिधाय नियुञ्ज्यादिति । तदु तथा न कुर्यात् । यथा- धर्मं तिरश्चथा चिकीर्षेद्- एवं तत् । तस्मादेतदेवानुपरीयात् ॥ ७ ॥

सायणः

केवलनियोजनपक्षमुदाहृत्य निराचष्टे- तदाहुर्नोपाकुर्यादिति । उपकरणाद्यकृत्वा प्रथमत एव ‘रशनामादाय’ साम्मुख्येन यूपसमीपं गत्वा ‘अभिधाय’ पशुं बद्ध्वा ‘नियुञ्ज्यात्’ नियुञ्जीत ॥ ७ ॥

Eggeling
  1. As to this they say, ‘Let him not drive up (the victim), nor churn the fire; but having taken the rope and straightway gone thither and put (the rope) round it, let him bind it.’ Let him, however, not do this; for it would be as if he intended to commit secretly some lawless action. Let him therefore go round there.

०८

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ तृ᳘णमादा᳘योपा᳘करोति॥
द्विती᳘यवान्नि᳘रुणधा ऽइ᳘ति द्विती᳘यवान् हि व्वीर्य᳘वान्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ तृ᳘णमादा᳘योपा᳘करोति॥
द्विती᳘यवान्नि᳘रुणधा ऽइ᳘ति द्विती᳘यवान् हि व्वीर्य᳘वान्॥

मूलम् - Weber

अ᳘थ तृ᳘णमादा᳘योपा᳘करोति॥
द्विती᳘यवान्नि᳘रुणधा इ᳘ति द्विती᳘यवान्हि᳘ वीर्य᳘वान्॥

मूलम् - विस्वरम्

अथ तृणमादायोपाकरोति । द्वितीयवान्निरुणधा ऽइति । द्वितीयवान् हि वीर्यवान् ॥ ८ ॥

सायणः

क्रममुक्त्वा इदानीं सार्थवादमुपाकरणं विधत्ते- अथ तृणमादायेति । तृणादानस्य प्रयोजनमाह- द्वितीयवानिति । ‘निरुणधै’ पशोर्निरोधं करवाणि 4 । तावता किमायातमित्यत आह- द्वितीयवान् हि वीर्यवानिति । असहायस्य व्यापाराक्षमत्वं लोकसिद्धम् ॥ ८ ॥

Eggeling
  1. Then, taking a straw, he drives it up, thinking, ‘having a companion, I will secure it;’ for he who has a companion is strong.

०९

विश्वास-प्रस्तुतिः

स तृ᳘णमा᳘दत्ते॥
(त्त ऽ) उपावी᳘रसीत्यु᳘प हि᳘ द्वितीयो᳘ ऽवति त᳘स्मादाहोपावी᳘रसीत्यु᳘प देवान्दै᳘वीर्व्वि᳘शः प्रा᳘गुरि᳘ति दै᳘व्यो वा᳘ ऽएता व्वि᳘शो य᳘त्पशवो᳘ ऽस्थिषत देवे᳘भ्य इ᳘त्ये᳘वैत᳘दाह यदाहो᳘प देवान्दै᳘वीर्व्वि᳘शः प्रा᳘गुरि᳘ति॥

मूलम् - श्रीधरादि

स तृ᳘णमा᳘दत्ते॥
(त्त ऽ) उपावी᳘रसीत्यु᳘प हि᳘ द्वितीयो᳘ ऽवति त᳘स्मादाहोपावी᳘रसीत्यु᳘प देवान्दै᳘वीर्व्वि᳘शः प्रा᳘गुरि᳘ति दै᳘व्यो वा᳘ ऽएता व्वि᳘शो य᳘त्पशवो᳘ ऽस्थिषत देवे᳘भ्य इ᳘त्ये᳘वैत᳘दाह यदाहो᳘प देवान्दै᳘वीर्व्वि᳘शः प्रा᳘गुरि᳘ति॥

मूलम् - Weber

स तृ᳘णमा᳘दत्ते॥
उपावी᳘रसीत्यु᳘प हि᳘ द्वितीयो᳘ ऽवति त᳘स्मादाहोपावी᳘रसीत्यु᳘प देवान्दै᳘वीर्वि᳘शः प्रागुरि᳘ति दै᳘व्यो वा᳘ एता वि᳘शो य᳘त्पशवो᳘ ऽस्थिषत देवे᳘भ्य इ᳘त्येॗवैत᳘दाह यदाहो᳘प देवान्दै᳘वीर्वि᳘शः प्रा᳘गुरि᳘ति॥

मूलम् - विस्वरम्

स तृणमादत्ते- “उपावीरसि”- (वा. सं. ६ । ७) इति । उप हि द्वितीयो ऽवति । तस्मादाह- उपावीरसीति । “उप देवान् दैवीर्विशः प्रागुः”- (वा. सं. ६ । ७) इति । दैव्यो वा ऽएता विशो- यत्पशवः । अस्थिषत देवेभ्य इत्येवैतदाह- यदाह- उपदेवान् दैवीर्विशः प्रागुरिति ॥ ९ ॥

सायणः

स तृणमादत्त इति 4 । तृणादानमन्त्रस्यायमर्थः- हे तृण ! त्वम् ‘उपावीरसि’ समीपे स्थित्वा रक्षको ऽसि एकः कार्यकरो ऽसीत्यर्थः। “अवितॄस्तॄ"- (पा. सू. उ. ३ । ४६६) इति ई-प्रत्ययः । ‘दैवीः विशः’ पशुलक्षणा देवसम्बन्धिन्यः प्रजाः ‘देवान्’ ‘उपप्रागुः’ प्राप्ताः देवतार्थमुपस्थिता इत्यर्थः ॥ ९ ॥

Eggeling
  1. He takes the straw with (Vāj. S. VI, 7), ‘Thou art a cheerer!’ for a companion does cheer one: therefore he says, ‘Thou art a cheerer.’ ‘The celestial hosts have approached the gods;’

the celestial hosts, forsooth, are those beasts: ’they have submitted to the gods’ he means to say, when he says, ‘The celestial hosts have approached the gods.’

१०

विश्वास-प्रस्तुतिः

(त्यु) उशि᳘जो व्व᳘ह्नितमा᳘निति॥
व्विद्वाᳫं᳘सो हि᳘ देवास्त᳘स्मादाहोशि᳘जो व्व᳘ह्नितमानि᳘ति॥

मूलम् - श्रीधरादि

(त्यु) उशि᳘जो व्व᳘ह्नितमा᳘निति॥
व्विद्वाᳫं᳘सो हि᳘ देवास्त᳘स्मादाहोशि᳘जो व्व᳘ह्नितमानि᳘ति॥

मूलम् - Weber

उशि᳘जो व᳘ह्नितमा᳘निति॥
विद्वा᳘ᳫं᳘सो हि᳘ देवास्त᳘स्मादाहोशि᳘जो व᳘ह्नितमानि᳘ति॥

मूलम् - विस्वरम्

“उशिजो वह्नितमान्”- (वा. सं. ६ । ७) इति । विद्वांसो हि देवाः । तस्मादाह- उशिजो वह्नितमानिति ॥ १० ॥

सायणः

उशिजो वह्नितमानितीति देवान् विशिनष्टि । ‘उशिजः’ मेधाविनामैतत्, विद्वांस इत्यर्थ: । ‘वह्नितमान्’ वोढृतमान् ॥ १० ॥

Eggeling
  1. ‘The considerate 5, best of leaders;’ for the gods are wise: therefore he says, ‘The considerate, best of leaders.’

११

विश्वास-प्रस्तुतिः

दे᳘व त्वष्टर्व्व᳘सु रमे᳘ति॥
त्व᳘ष्टा वै᳘ पशूना᳘मीष्टे पश᳘वो व्व᳘सु ता᳘नेत᳘द्देवा अ᳘तिष्ठमानांस्त्व᳘ष्टारमब्रुवन्नुपनि᳘मदे᳘ति यदा᳘ह देव त्वष्टर्व्व᳘सु रमे᳘ति[[!!]]॥

मूलम् - श्रीधरादि

दे᳘व त्वष्टर्व्व᳘सु रमे᳘ति॥
त्व᳘ष्टा वै᳘ पशूना᳘मीष्टे पश᳘वो व्व᳘सु ता᳘नेत᳘द्देवा अ᳘तिष्ठमानांस्त्व᳘ष्टारमब्रुवन्नुपनि᳘मदे᳘ति यदा᳘ह देव त्वष्टर्व्व᳘सु रमे᳘ति[[!!]]॥

मूलम् - Weber

दे᳘व त्वष्टर्व᳘सु रमे᳘ति॥
त्व᳘ष्टा वै᳘ पशूना᳘मीष्टे पश᳘वो व᳘सु ता᳘नेत᳘द्देवा अ᳘तिष्ठमानांस्त्व᳘ष्टारमब्रुवन्नुपनि᳘मदे᳘ति यदा᳘ह देव त्वष्टर्व᳘सु र᳘मेति॥

मूलम् - विस्वरम्

“देव त्वष्टर्वसु रम”- (वा. सं. ६ । ७) इति । त्वष्टा वै पशूनामीष्टे । पशवो वसु । तानेतद् देवा अतिष्ठमानांस्त्वष्टारमब्रुवन्- उपनिमदेति । यदाह- देव त्वष्टर्वसु रमेति ॥ ११ ॥

सायणः

देव त्वष्टरिति । ‘त्वष्टः ! देव !’ पशुस्वामिन् ! ‘वसु’ वस्वाख्यं धनं ‘रम’ रमय, नियोजयेत्यर्थः ॥ ११ ॥

Eggeling
  1. ‘O divine Tvashṭr̥, settle the wealth!’ for Tvashṭr̥ is lord of beasts (cattle), and wealth means cattle, it is with regard to those which did not submit that the gods then said to Tvashṭr̥, ‘Quiet them,’ when he says, ‘O divine Tvashṭr̥, settle the wealth!’

१२

विश्वास-प्रस्तुतिः

हव्या᳘ ते स्वदन्तामि᳘ति॥
यदा वा᳘ ऽएत᳘ ऽएत᳘स्मा ऽअ᳘ध्रियन्त य᳘द्धविर᳘भविष्यंस्त᳘स्मादाह हव्या᳘ ते स्वदन्तामि᳘ति॥

मूलम् - श्रीधरादि

हव्या᳘ ते स्वदन्तामि᳘ति॥
यदा वा᳘ ऽएत᳘ ऽएत᳘स्मा ऽअ᳘ध्रियन्त य᳘द्धविर᳘भविष्यंस्त᳘स्मादाह हव्या᳘ ते स्वदन्तामि᳘ति॥

मूलम् - Weber

हव्या᳘ ते स्वदन्तामि᳘ति॥
यदा वा᳘ एत᳘ एत᳘स्मा अ᳘ध्रियन्त य᳘द्धविर᳘भविष्यंस्त᳘स्मादाह हव्या᳘ ते स्वदन्तामि᳘ति॥

मूलम् - विस्वरम्

“हव्या ते स्वदन्ताम्”- (वा. सं. ६ । ७) इति । यदा वा ऽएत ऽएतस्मा ऽअध्रियन्त, यद्धविरभविष्यन् । तस्मादाह- हव्या ते स्वदन्तामिति ॥ १२ ॥

सायणः

हव्या ते स्वदन्तामितीति । हे पशो ! ‘ते’ ‘हव्या’ हवींषि ‘स्वदन्ताम्’ रेवती रमध्वमितीति । ‘रेवतीः’ रेवत्यो गावः पशवः ‘रमध्वं’ सङ्क्रीडध्वम् । ‘हे बृहस्पते’ ! बृहतः परिबृंहणकर्मणः स्वमिन् ! त्वं ‘वसूनि’ पशुलक्षणानि ‘धारय’ अत्र स्थापय ॥

मन्त्रं व्याचष्टे- उप हि द्वितीयो ऽवतीत्यादिना । ‘हि’ शब्दो लोकप्रसिद्धिद्योतनार्थः । लोक एकः कर्म कर्त्तुमशक्तः, द्वितीयः तत्साहाय्यकरणेन तमवतीति प्रसिद्धम् । देवीर्विश इत्यस्य तात्पर्यमाह- दैव्यो वा एता विशो यत् पशव इति । यथा विशः स्वस्वामिनं पुष्णन्ति, एवं पशवो हविषा पुष्णन्तीति तेषां प्रजारूपत्वोपचारः । अस्थिषत देवेभ्य इतीति । तेषामर्थायात्मानं प्रकाशितवन्त इत्यर्थः । “प्रकाशनस्थेयाख्ययोश्च”- (पा. सू. १ । ३ । २३) इत्यात्मनेपदम् । उशिक्छब्दार्थमाह- विद्वांसो हि देवा इति । त्वष्टुः प्रार्थनायाः कारणमाह- त्वष्टा वै पशूनामित्यादिना । ‘वै’ शब्दः “त्वष्टा वै पशूनां मिथुनानां रूपकृत्”- (तै. सं. ६ । ३ । ६ । २) (श. प. १२ । १ । ८ । ७) । इत्यादिश्रुत्यन्तरप्रसिद्धिद्योतनार्थः । “देव त्वष्टुर्वसु"- ‘इति’ मन्त्रभागो ‘यदाह,’ ‘अतिष्ठमानान्’ पशून् प्रति ‘त्वष्टारं’ ‘देवाः’ ‘उपनिमद’ ‘इति’ यत् ‘अब्रुवन्’ ‘एतत्’ एव ‘आह’ इत्यर्थः । ‘उपनिमद’ अस्मत्समीपे नितरां मादयेति तस्यार्थः । अथवा ‘यत्’ अध्वर्युणा ‘देवत्वष्टुः’ इत्यभिधानम्, तत्; पुरा यद् देवैरुक्तलक्षणं त्वष्टृप्रार्थनमुक्तम्, तत्स्थानीयमित्यर्थः । एवंविधेषु वाक्येषु सर्वत्रैवं व्याख्येयम् । हव्या ते स्वदन्तामिति । अस्याभिप्रायमाह- यदा वा एत इति । यद्यप्युपाकरणकाले हविषामनिष्पत्तेः स्वदनं नोपपद्यते, तथापि पलायनमकृत्वा यदावृता अभवन्, तदेव हविर्भविष्यतीर्थः । अत एवमभिधानमुपपद्यते ॥ १२ ॥ (९-१२)

Eggeling
  1. ‘May the offerings be relished by thee!’ Since they themselves submitted thereto that they should become sacrificial food, therefore he says, ‘May the offerings be relished by thee!’

१३

विश्वास-प्रस्तुतिः

रे᳘वती र᳘मध्वमि᳘ति॥
रेव᳘न्तो हि᳘ पश᳘वस्त᳘स्मादाह रे᳘वती र᳘मध्वमि᳘ति बृ᳘हस्पते धार᳘या व्व᳘सूनी᳘ति ब्र᳘ह्म वै बृ᳘हस्पतिः पश᳘वो व्व᳘सु ता᳘नेत᳘द्देवा ऽअ᳘तिष्ठमानान्ब्रह्मणैव᳘[[!!]] पर᳘स्तात्प᳘र्यदधुस्तन्ना᳘त्यायंस्त᳘थो ऽए᳘वैनानेष᳘ ऽएतद्ब्र᳘ह्मणैव᳘ पर᳘स्तात्प᳘रिदधाति तन्ना᳘तियन्ति त᳘स्मादाह बृ᳘हस्पते धार᳘या व्व᳘सूनी᳘ति पा᳘शं कृत्वा प्र᳘तिमुञ्चत्यथा᳘तो नियोजनस्यैव[[!!]]॥

मूलम् - श्रीधरादि

रे᳘वती र᳘मध्वमि᳘ति॥
रेव᳘न्तो हि᳘ पश᳘वस्त᳘स्मादाह रे᳘वती र᳘मध्वमि᳘ति बृ᳘हस्पते धार᳘या व्व᳘सूनी᳘ति ब्र᳘ह्म वै बृ᳘हस्पतिः पश᳘वो व्व᳘सु ता᳘नेत᳘द्देवा ऽअ᳘तिष्ठमानान्ब्रह्मणैव᳘[[!!]] पर᳘स्तात्प᳘र्यदधुस्तन्ना᳘त्यायंस्त᳘थो ऽए᳘वैनानेष᳘ ऽएतद्ब्र᳘ह्मणैव᳘ पर᳘स्तात्प᳘रिदधाति तन्ना᳘तियन्ति त᳘स्मादाह बृ᳘हस्पते धार᳘या व्व᳘सूनी᳘ति पा᳘शं कृत्वा प्र᳘तिमुञ्चत्यथा᳘तो नियोजनस्यैव[[!!]]॥

मूलम् - Weber

रे᳘वती र᳘मध्वमि᳘ति॥
रेव᳘न्तो हि᳘ पश᳘वस्त᳘स्मादाह रे᳘वती र᳘मध्वमि᳘ति बृ᳘हस्पते धार᳘या व᳘सूनी᳘ति ब्र᳘ह्म वै बृ᳘हस्पतिः पश᳘वो व᳘सु ता᳘नेत᳘द्देवा अ᳘तिष्ठमानान्ब्र᳘ह्मणैव᳘ पर᳘स्तात्प᳘र्यदधुस्तन्ना᳘त्यायंस्त᳘थो एॗवैनानेष᳘ एतद्ब्र᳘ह्मणैव᳘ पर᳘स्तात्प᳘रिदधाति तन्ना᳘तियन्ति त᳘स्मादाह बृ᳘हस्पते धार᳘या व᳘सूनी᳘ति पा᳘शं कृत्वा प्र᳘तिमुञ्चत्यथा᳘तो नियो᳘जनस्यैव᳟॥

मूलम् - विस्वरम्

“रेवती रमध्वम्”- (वा. स. ६ । ८) इति रेवन्तो हि पशवः । तस्मादाह- रेवतीरमध्वमिति । “बृहस्पते धारया वसूनि”- (वा. सं. ६ । ८) इति । ब्रह्म वै बृहस्पतिः । पशवो वसु । तानेतद्देवा अतिष्ठमानान् ब्रह्मणैव परस्तात्पर्यदधुः । तन्नात्यायन् । तथो ऽएवैनानेष एतद् ब्रह्मणैव परस्तात्परिदधाति तन्नातियन्ति । तस्मादाह- बृहस्पते धारया वसुनीति । पाशं कृत्वा प्रतिमुञ्चति । अथातो नियोजनस्यैव ॥ १३ ॥

सायणः

रेवन्तो हि पशव इत्यादि ब्राह्मणं स्पृष्टम् । ‘ब्रह्मणैव’ ‘परस्तात्’ परे देशे ‘पर्यदधुः’ परितो अधारयन् । अथातो नियोजनस्यैवेति । विधानमभिधीयत इति शेषः ॥ १३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे सप्तमाध्याये तृतीयं ब्राह्मणम् ॥ (३-७-३) ॥

Eggeling
  1. ‘Rejoice, ye prosperous!’ for cattle are prosperous: therefore he says, ‘Rejoice ye prosperous.’ ‘O Lord of prayer, preserve our goods!’ The Lord of prayer, forsooth, is the Brahman; and goods mean cattle: those, which did not submit, the gods on that occasion enclosed with the Brahman on the farther side, and they did not pass over it. And in like manner does he now enclose them with the Brahman on the farther side, and they do not pass over it: therefore he says, ‘O Lord of prayer, preserve our goods!’ Having made a noose he throws it over (the victim) 6. Now then as to the binding itself.

  1. प्राप्लीयन्त Sây. ↩︎

  2. अग्नीषोमीयो ऽतःपशुः । का. श्रौ. सू. ८ । २०३ । तद्देवत्यः पशुपुरोडाशः । २०४ । अभ्र्यादि करोति । २०५ । ↩︎

  3. यानं विदु Sây. ↩︎

  4. ‘पशोर्निरोधं करवाणि, इति क्व. पा. । ↩︎ ↩︎

  5. 180:1 Uśij rather means ‘willing, loving, devoted.’ ↩︎

  6. 180:2 According to the Taitt. authorities (Sāyaṇa on Taitt. S. I, 3, 8), the rope is wound round the right fore-leg and then passed upwards to the head. From Kāty. VI, 3, 27, on the other hand, it would seem that the rope is passed either between the horns (and under the neck?), or round the horns. ↩︎