०१

विश्वास-प्रस्तुतिः

या᳘वती वै व्वे᳘दिस्ता᳘वती पृथिवी[[!!]]॥
व्व᳘ज्रा वै यू᳘पास्त᳘दिमामे᳘वैत᳘त्पृथिवी᳘मेतैर्व्व᳘ज्रैः[[!!]] स्पृणु᳘ते ऽस्यै᳘ सप᳘त्नान्नि᳘र्भजति त᳘स्माद्यू᳘पैकादशिनी भवति द्वादश᳘ उपशयो᳘ भवति व्वि᳘तष्टस्तं᳘ दक्षिणत᳘ ऽउपनि᳘दधाति तद्य᳘द्द्वादश᳘ उपशयो भ᳘वति॥

मूलम् - श्रीधरादि

या᳘वती वै व्वे᳘दिस्ता᳘वती पृथिवी[[!!]]॥
व्व᳘ज्रा वै यू᳘पास्त᳘दिमामे᳘वैत᳘त्पृथिवी᳘मेतैर्व्व᳘ज्रैः[[!!]] स्पृणु᳘ते ऽस्यै᳘ सप᳘त्नान्नि᳘र्भजति त᳘स्माद्यू᳘पैकादशिनी भवति द्वादश᳘ उपशयो᳘ भवति व्वि᳘तष्टस्तं᳘ दक्षिणत᳘ ऽउपनि᳘दधाति तद्य᳘द्द्वादश᳘ उपशयो भ᳘वति॥

मूलम् - Weber

या᳘वतो वै वे᳘दिस्ता᳘वती पृथिवी᳟॥
व᳘ज्रा वै यू᳘पास्त᳘दिमा᳘मेॗवैत᳘त्पृथिवी᳘मेतैर्व᳘ज्रैः स्पृणुॗते ऽस्यै᳘ सप᳘त्नान्नि᳘र्भजति त᳘स्माद्यू᳘पैकादशिनी भवति द्वादश᳘ उपशयो᳘ भवति वि᳘तष्टस्तं᳘ दक्षिणत᳘ उपनि᳘दधाति तद्य᳘द्द्वादश᳘ उपशयो भ᳘वति॥

मूलम् - विस्वरम्

यावती वै वेदिस्तावती पृथिवी । वज्रा वै यूपाः तद् इमामेवैतत् पृथिवीमेतैर्वज्रैः स्पृणुते । अस्यै सपत्नान्निर्भजति । तस्माद् यूपैकादशिनी भवति । द्वादश उपशयो भवति वितष्टः । तं दक्षिणत उपनिदधाति । तद् यद्द्वादश उपशयो भवति ॥ १ ॥

सायणः

अग्नीषोमीययूपप्रसङ्गात् यूपैकादशिनीं विधातुमुपोद्घातयति- यावती वै वेदिरिति । “इयं वेदिः परो अन्तः पृथिव्याः” (माध्यं. सं. २३ । ६२) (ऋ. सं १ । १६४ क. ३५) “वेदिमाहुः परमन्तं पृथिव्याः” (माध्यं. सं. २३ । ६२) (तै० सं ७ । ४ । १८ । २) इत्यादिश्रुतेः । ‘इमां’ पृथिवीम् ‘एतैः’ यूपैः ‘वज्रैः’ ‘स्पृणुते’ बलवतीकरोति । अतो ऽत्यन्तदार्ढ्याय यूपैकादशिनी कर्त्तव्या । अत्र यूपैकादशिनीविधानं “यूपैकादशिनी चेत् रथाक्षमात्राण्यन्तराणि” 1 (का. श्रौ. सू. ८ । २१०-२१७) इत्यादिसूत्रेषु द्रष्टव्यम् । तस्मिन् पक्षे ‘उपशयः’ यूपानां समीपे शेते इत्युपशयो ऽन्यो यूपः, (तै० सं ६ । ६ । ४) स ‘द्वादशो भवति’ स च, ‘वितष्टः’ विशेषेणोपरप्रदेशे ऽपि तष्टः । ‘तं’ यूपानां दक्षिणदेशे भूमौ निखातं कृत्वा तूष्णीं स्थापयेत् ॥ १ ॥

Eggeling
  1. Verily, as large as the altar is, so large is the earth. The sacrificial stakes are thunderbolts; and by means of these thunderbolts he obtains possession of this earth, and excludes his enemies from sharing therein. Hence there are eleven stakes, and the twelfth lies aside rough-hewn; he puts it down south (of the altar). The reason why the twelfth lies aside is this.

०२

विश्वास-प्रस्तुतिः

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य ऽआसङ्गाद्बिभया᳘ञ्चक्रुस्तद्य᳘[[!!]] ऽएत ऽउ᳘च्छ्रिता यथे᳘षुरस्ता त᳘या वै᳘ स्तृणुते᳘ वा न᳘ वा स्तृणुते य᳘था दण्डः प्र᳘हृतस्ते᳘न वै स्तृणुते᳘ वा न᳘ वा स्तृणुते᳘ ऽथ य᳘ ऽएष᳘ द्वादश᳘ ऽउपशयो भ᳘वति यथे᳘षुरा᳘यता᳘नस्ता यथो᳘द्यतम᳘प्रहृतमेव᳘मेष व्व᳘ज्र ऽउ᳘द्यतो᳘ दक्षिणतो[[!!]] नाष्ट्रा᳘णाᳫं᳭ र᳘क्षसाम᳘पहत्यै त᳘स्माद्द्वादश᳘ ऽउपशयो᳘ भवति॥

मूलम् - श्रीधरादि

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य ऽआसङ्गाद्बिभया᳘ञ्चक्रुस्तद्य᳘[[!!]] ऽएत ऽउ᳘च्छ्रिता यथे᳘षुरस्ता त᳘या वै᳘ स्तृणुते᳘ वा न᳘ वा स्तृणुते य᳘था दण्डः प्र᳘हृतस्ते᳘न वै स्तृणुते᳘ वा न᳘ वा स्तृणुते᳘ ऽथ य᳘ ऽएष᳘ द्वादश᳘ ऽउपशयो भ᳘वति यथे᳘षुरा᳘यता᳘नस्ता यथो᳘द्यतम᳘प्रहृतमेव᳘मेष व्व᳘ज्र ऽउ᳘द्यतो᳘ दक्षिणतो[[!!]] नाष्ट्रा᳘णाᳫं᳭ र᳘क्षसाम᳘पहत्यै त᳘स्माद्द्वादश᳘ ऽउपशयो᳘ भवति॥

मूलम् - Weber

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः॥
ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां चक्रुस्तद्य एत उ᳘छ्रिता यथे᳘षुरस्ता त᳘या वै᳘ स्तृणुते᳘ वा न᳘ वा स्तृणुते य᳘था दण्डः प्र᳘हृतस्ते᳘न वै स्तृणुते᳘ वा न᳘ वा स्तृणुते᳘ ऽथ य᳘ एष᳘ द्वादश᳘ उपशयो भ᳘वति यथे᳘षुरा᳘यता᳘नस्ता यथो᳘द्यतम᳘प्रहृतमेव᳘मेष व᳘ज्र उ᳘द्यतो दक्षिणतो᳘ नाष्ट्रा᳘णां र᳘क्षसाम᳘पहत्यै त᳘स्माद्द्वादश᳘ उपशयो᳘ भवति॥

मूलम् - विस्वरम्

देवा ह वै यज्ञं तन्वानाः, ते ऽसुररक्षसेभ्य आसङ्गाद् बिभयाञ्चक्रुः । तद् य एतं ऽउच्छ्रिता- यथेषुरस्ता तया वै स्तृणुते वा न वा स्तृणुते । यथा दण्डः प्रहृतः तेन वै स्तृणुते वा, न वा स्तृणुते । अथ य एष द्वादश उपशयो भवति । यथेषुरायतानस्ता, यथोद्यतमप्रहृतम्,- एवमेष वज्र उद्यतो दक्षिणतो नाष्ट्राणां रक्षसामपहत्यै । तस्माद्द्वादश उपशयो भवति ॥ २ ॥

सायणः

उपशयं रक्षोनाशकत्वेन प्रशंसति- देवा ह वै यज्ञं तन्वाना इत्यादिना । यथा मुक्तेषु प्रहृतो दन्तिदण्डो वा यदा ऋजुर्गच्छति, तदा लक्ष्यं विध्यति, न चेन्न; एवं यूपो ऽपि उपशयसहितः स्थापितः तत्पतनाशङ्काया अपगतत्वाद्रक्षसां यूपविषयं भयं नोदियादित्यर्थः । अतो यूपस्य सोपशयत्वे सति मुक्तेषुवत् यदोपशयाख्यं वज्रमुद्यच्छतीति रक्षसां भयमुत्पद्यते । तस्मादुपशयः कर्त्तव्य इत्यर्थः ॥ २ ॥

Eggeling
  1. Now the gods, while performing this sacrifice,

were afraid of an attack from the Asura-Rakshas. Those raised (sacrificial stakes), then, were as a discharged arrow,–therewith one either smites or smites not; as a hurled club,–therewith one either smites or smites not. But that twelfth (stake) lying aside,–even as an arrow drawn but not discharged, as (a weapon) raised but not hurled, so was that a thunderbolt raised for repelling the evil spirits on the south; therefore the twelfth (stake) lies aside.

०३

विश्वास-प्रस्तुतिः

तं नि᳘दधाति॥
(त्ये) एष᳘ ते पृथिव्यां᳘ लोक᳘ आरण्य᳘स्ते पशुरि᳘ति पशु᳘श्च वै यू᳘पश्च त᳘दस्मा ऽआरण्य᳘मेव᳘ पशूनाम᳘नुदिशति ते᳘नो ऽएष᳘ पशुमा᳘न् भवति त᳘द् द्वयं यूपैकादशिन्यै[[!!]] सम्म᳘यनमाहुः[[!!]] श्वःसुत्या᳘यै ह᳘ न्वेवै᳘के स᳘म्मिन्वन्ति प्रकुब्द्रतायै चैव᳘ श्वः सुत्यायै᳘ यू᳘पं मिन्वन्ती᳘त्यु च॥

मूलम् - श्रीधरादि

तं नि᳘दधाति॥
(त्ये) एष᳘ ते पृथिव्यां᳘ लोक᳘ आरण्य᳘स्ते पशुरि᳘ति पशु᳘श्च वै यू᳘पश्च त᳘दस्मा ऽआरण्य᳘मेव᳘ पशूनाम᳘नुदिशति ते᳘नो ऽएष᳘ पशुमा᳘न् भवति त᳘द् द्वयं यूपैकादशिन्यै[[!!]] सम्म᳘यनमाहुः[[!!]] श्वःसुत्या᳘यै ह᳘ न्वेवै᳘के स᳘म्मिन्वन्ति प्रकुब्द्रतायै 2 चैव᳘ श्वः सुत्यायै᳘ यू᳘पं मिन्वन्ती᳘त्यु च॥

मूलम् - Weber

तं नि᳘दधाति॥
एष᳘ ते पृथिव्यां᳘ लोक᳘ आरण्य᳘स्ते पशुरि᳘ति पशु᳘श्च वै यू᳘पश्च त᳘दस्मा आरण्य᳘मेव᳘ पशूनाम᳘नुदिशति ते᳘नो एष᳘ पशुमा᳘न्भवति त᳘द्वयं यू᳘पैकादशिन्यै स᳘म्मयनमाहुः श्वःसुत्या᳘यै हॗ न्वेवै᳘के स᳘म्मिन्वन्ति प्रकुब्र᳘तायै 3 चैव᳘ श्वःसुत्या᳘यै यू᳘पम् मिन्वन्ती᳘त्यु च॥

मूलम् - विस्वरम्

तं निधदाति । “एष ते पृथिव्यां लोकः, आरण्यस्ते पशुः”- (वा. सं. ६ । ६) इति । पशुश्च वै यूपश्च । तदस्मा ऽआरण्यमेव पशूनामनुदिशति । तेनो ऽएष पशुमान् भवति । तद्द्वयं यूपैकादेशिन्यै सम्मयनमाहुः । श्वः सुत्यायै ह न्वेवैके सम्मिन्वन्ति । प्रकुब्द्रतायै चैव श्वः सुत्यायै यूपं मिन्वन्तीत्यु च ॥ ३ ॥

सायणः

निधानमन्त्रमाह- तं निदधात्येष ते पृथिव्यां लोक आरण्यस्ते पशुरितीति । हे उपशय ! यूप ! यूपानां दक्षिणप्रदेशः ‘पृथिव्यां’ ‘ते’ तव ‘लोकः’ स्थानम्, अतो न भूम्यामन्तर्मिनामीत्यर्थः । तर्ह्यस्य कः पशुः ? इत्याकांक्षायां तं दर्शयति- आरण्यस्ते पशुरिति । अरण्ये भवः ‘आरण्यः’ व्याघ्रादिरिति निर्द्दिशेत् पृथिव्यां स्थापयेत् । तथा च सूत्रम् “वितष्टं द्वादशं निदधात्येषत इति” (का० श्रौ० सू० ८ । २२६) इति । यूपस्य सर्वथा पशुसम्बन्धो ऽपेक्षित इत्याह- पशुश्च वै यूपश्चेति । अविनाभूतावित्यर्थः । ‘वै’- शब्द इतरयूपानां पशुसम्बन्धनियमप्रसिद्धिद्योतनार्थः ‘तत्’ तस्मादव्यभिचारात् । तद्द्वयमिति । यूपैकादशिन्या ‘सम्मयनं’ ‘द्वयं’ द्विविधमित्यर्थः । ‘आहुः’ विवदन्ते अभिज्ञाः ॥

तत्रैकेषाञ्चित् पक्षमाह- श्वः सुत्यायै ह त्वेवैके सम्मिन्वन्तीति । ‘श्वः’ परेद्युः क्रियमाणायाः सुत्यायाः पूर्वस्मिन् दिने अग्निष्ठप्रमुखान् सर्वान् यूपान् निखनन्ति ॥ ३ ॥

Eggeling
  1. He lays it down with (Vāj. S. VI, 6), ‘This is thy place on earth; thine is the beast of the forest.’ There are the animal (victim) and the sacrificial stake; to this one he thereby assigns of animals that of the forest, and thus it, too, is possessed of an animal (victim). That setting up of the eleven sacrificial stakes is said to be of two kinds,–some, namely, set (them all) up (on the previous day) for the morrow’s Soma feast, and others set up (one) stake for the preparation 4 of the morrow’s Soma feast.

०४

विश्वास-प्रस्तुतिः

त᳘दु त᳘था न᳘ कुर्यात्॥
(द) अग्निष्ठ᳘मेवो᳘च्छ्रयेदिदं वै यू᳘पमुच्छ्रि᳘त्याध्वर्युरा᳘प᳘रिव्य᳘यणान्ना᳘न्वर्जत्य᳘परिवीता वा᳘ ऽएत᳘ ऽएताᳫँ रा᳘त्रिं वसन्ति सा᳘ न्वेव᳘ परिचक्षा᳘ पश᳘वे वै यू᳘पमु᳘च्छ्रयन्ति प्रातर्व्वै᳘ पशूना᳘लभन्ते त᳘स्मादु प्रात᳘रेवो᳘च्छ्रयेत्॥

मूलम् - श्रीधरादि

त᳘दु त᳘था न᳘ कुर्यात्॥
(द) अग्निष्ठ᳘मेवो᳘च्छ्रयेदिदं वै यू᳘पमुच्छ्रि᳘त्याध्वर्युरा᳘प᳘रिव्य᳘यणान्ना᳘न्वर्जत्य᳘परिवीता वा᳘ ऽएत᳘ ऽएताᳫँ रा᳘त्रिं वसन्ति सा᳘ न्वेव᳘ परिचक्षा᳘ पश᳘वे वै यू᳘पमु᳘च्छ्रयन्ति प्रातर्व्वै᳘ पशूना᳘लभन्ते त᳘स्मादु प्रात᳘रेवो᳘च्छ्रयेत्॥

मूलम् - Weber

त᳘दु त᳘था न᳘ कुर्यात्॥
अग्निष्ठ᳘मेवो᳘छ्रयेदिदं वै यू᳘पमुछ्रि᳘त्याध्वर्युरा᳘ परिव्य᳘यणान्ना᳘न्वर्जत्य᳘परिवीता वा᳘ एत᳘ एतां रा᳘त्रिं वसन्ति साॗ न्वेव᳘ परिचक्षा᳘ पश᳘वे वै यू᳘पमु᳘छ्रयन्ति प्रातर्वै᳘ पशूना᳘लभन्ते त᳘स्मादु प्रात᳘रेवो᳘छ्रयेत्॥

मूलम् - विस्वरम्

तदु तथा न कुर्यात् । अग्निष्ठमेवोच्छ्रयेत् । इदं वै यूपमुच्छ्रित्याध्वर्युरापरिव्ययणान्नान्वर्जति अपरिवीता वा एते । एतां रात्रिं वसन्ति । सा न्वेव परिचक्षा । पशवे वै यूपमुच्छ्रयन्ति । प्रातर्वै पशूनालभन्ते । तस्मादु प्रातरेवोच्छ्रयेत् ॥ ४ ॥

सायणः

तं पक्षं निराचष्टे- तदु तथेति । तस्मिन् काले ‘अग्निष्ठम्’ एकम् एव उत्तरवेदेः पुरोदेशस्थमेवाग्नीषोमीयपश्वर्थम् ‘उच्छ्रयेत्’ 5 । इतरेषामपि पूर्वेद्युरुच्छ्रयणे दोषमाह- इदं वा इत्यादिना । ‘इदं’ वक्ष्यमाणं भवतीत्यर्थः । ‘आ परिव्ययणात्’ रशनापरिव्ययणपर्यन्तम्, ‘अध्वर्युः’ ‘नान्वर्जति’ नैव हस्तस्य स्पर्शं परित्यजेत् । अतो ऽग्निव्यतिरिक्तानां परिव्ययणस्य ‘प्रातः’ परेद्युः पशूपकरणकाले कर्त्तव्यत्वात्कृत्स्नां ‘रात्रिम्’ ‘अपरिवीता’ नग्ना वसन्ति । ‘सा न्वेव’ सैव, उक्तलक्षणैव ‘परिचक्षा’ पूर्वेद्युरुच्छ्रयमाणपक्षस्य निन्दा ॥

स्वपक्षे युक्तिमाह- पशवे वै यूपमुच्छ्रयन्तीति । ‘तस्मात्’ ‘प्रातरेव’ परेद्युरेव उच्छ्रयणं कुर्यादिति निगमम् 6 ॥ ४ ॥

Eggeling
  1. Let him, however, not do this; but let him only set up the one opposite the fire. For after setting it up the Adhvaryu does not quit his hold of it till the girding; but those (others) remain

ungirt during that night. Thus there would be an offence, since it is for the victim that the stake is set up, and the victim is (only) slaughtered on the next morning: let him therefore set up (the others) on the next morning.

०५

विश्वास-प्रस्तुतिः

(त्स) स य उ᳘त्तरोग्निष्ठात्स्यात्[[!!]]॥
(त्त᳘) त᳘मेवा᳘ग्र ऽउ᳘च्छ्रयेद᳘थ द᳘क्षिणमथो᳘त्तरं दक्षिणा᳘र्द्ध्यमुत्तमं तथो᳘दीची भवति॥

मूलम् - श्रीधरादि

(त्स) स य उ᳘त्तरोग्निष्ठात्स्यात्[[!!]]॥
(त्त᳘) त᳘मेवा᳘ग्र ऽउ᳘च्छ्रयेद᳘थ द᳘क्षिणमथो᳘त्तरं दक्षिणा᳘र्द्ध्यमुत्तमं तथो᳘दीची भवति॥

मूलम् - Weber

स य उ᳘त्तरो ऽग्निष्ठात्स्या᳘त्॥
त᳘मेवा᳘ग्र उ᳘छ्रयेद᳘थ द᳘क्षिणमथो᳘त्तरं दक्षिणार्ध्य᳘मुत्तमं तथो᳘दीची भवति॥

मूलम् - विस्वरम्

स य उत्तरो ऽग्निष्ठात्स्यात्- तमेवाग्र ऽउच्छ्रयेत् । अथ दक्षिणम् । अथोत्तरम् । दक्षिणार्द्ध्यमुत्तमम् । तथोदीची भवति ॥ ५ ॥

सायणः

एकादशिनीपक्षे केन क्रमेणोच्छ्रयणमिति, तमाह- स य उत्तरो ऽग्निष्ठात्स्यादिति । अग्निष्ठमध्यमवधिं कृत्वा तत उत्तरतः प्रथमम्, ततो दक्षिणतो द्वितीयम्, तत उत्तरतस्तृतीयम्, ततो दक्षिणतश्चतुर्थमित्येवमुभयोः पार्श्वयोरुत्तरप्राथम्येन पञ्च पञ्च यूपा उच्छ्रिताः । एवं क्रमेण दक्षिणार्द्धे भवम् ‘उत्तमं’ कुर्यात् । ‘तथा सति’ ‘उदीची भवति’ उत्तरोपक्रमा भवतीत्यर्थः 5 ॥ ५ ॥

Eggeling
  1. Let him first set up that (stake) which stands (immediately) north of the one opposite the fire, then the one on the south, then a northern one,–last of all the one on the southern flank: thus it (the row of stakes) inclines to the north.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थो ऽइतर᳘थाहुः॥
(र्द᳘) द᳘क्षिणमेवा᳘ग्रे ऽग्निष्ठादु᳘च्छ्रयेदथो᳘त्तरम᳘थ द᳘क्षिणमुत्तरा᳘र्द्ध्यमुत्तमं त᳘थो हास्यो᳘दगेव क᳘र्मानुस᳘न्तिष्ठत ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थो ऽइतर᳘थाहुः॥
(र्द᳘) द᳘क्षिणमेवा᳘ग्रे ऽग्निष्ठादु᳘च्छ्रयेदथो᳘त्तरम᳘थ द᳘क्षिणमुत्तरा᳘र्द्ध्यमुत्तमं त᳘थो हास्यो᳘दगेव क᳘र्मानुस᳘न्तिष्ठत ऽइ᳘ति॥

मूलम् - Weber

अ᳘थो इतर᳘थाहुः॥
द᳘क्षिणमेवा᳘ग्रे ऽग्निष्ठादु᳘छ्रयेदथो᳘त्तरम᳘थ द᳘क्षिणमुत्तरा᳘र्ध्यमुत्तमं त᳘थो हास्यो᳘दगेव क᳘र्मानुसं᳘तिष्ठत इ᳘ति॥

मूलम् - विस्वरम्

अथो ऽइतरथाहुः । दक्षिणमेवाग्रे ऽग्निष्ठादुच्छ्रयेत् । अथोत्तरम् । अथ दक्षिणम् । उत्तरार्द्ध्यमुत्तमम् । तथो हास्योदगेव कर्मानुसन्तिष्ठत ऽइति ॥ ६ ॥

सायणः

अथो इतरथाहुरिति । “दक्षिणमेवाग्रे” इत्यादिकं पूर्ववाक्यवैपरीत्येन व्याख्येयम् । तथो हास्येति । एवं कुर्वतः कर्म ‘उदगेव’ आनुपूर्व्येण ‘सन्तिष्ठते’ समाप्यते । पूर्वस्मिन् पक्षे उदगुपक्रमः, द्वितीये उदगपवर्ग इति भेदः ॥ ६ ॥

Eggeling
  1. But they also say conversely 7, ‘Let him first set up that which is south of the one opposite the fire, then the northern one, then a southern one,–last of all the one on the northern flank: and thus indeed his work attains completion towards the north.’

०७

विश्वास-प्रस्तुतिः

स यो व्व᳘र्षिष्ठः स᳘ दक्षिणार्द्ध्यः स्यात्॥
(द᳘) अ᳘थ ह्र᳘सीयान᳘थ ह्र᳘सीयानुत्तरा᳘र्द्ध्यो ह्र᳘सिष्ठस्तथो᳘दीची भवति॥

मूलम् - श्रीधरादि

स यो व्व᳘र्षिष्ठः स᳘ दक्षिणार्द्ध्यः स्यात्॥
(द᳘) अ᳘थ ह्र᳘सीयान᳘थ ह्र᳘सीयानुत्तरा᳘र्द्ध्यो ह्र᳘सिष्ठस्तथो᳘दीची भवति॥

मूलम् - Weber

स यो व᳘र्षिष्ठः स᳘ दक्षिणार्ध्यः᳘ स्यात्॥
अ᳘थ ह्र᳘सीयान᳘थ ह्र᳘सीयानुत्तराॗर्ध्यो ह्र᳘सिष्ठस्तथो᳘दीची भवति॥

मूलम् - विस्वरम्

स यो वर्षिष्ठः- स दक्षिणार्द्ध्यः स्यात् । अथ ह्रसीयान् । अथ ह्रसीयानुत्तरार्द्ध्यो ह्रसिष्ठस्तथोदीची भवति ॥ ७ ॥

सायणः

स यो वर्षिष्ठ इति । तेषामुत्तरो ‘यः वर्षिष्ठः’ ‘सः दक्षिणार्द्ध्यः स्यात्’ अथ ह्रसीयानित्यादिना । दक्षिणोपक्रममुदगपवर्गम् । प्रथमं वर्षिष्ठमत्युच्छ्रितं ततः परमीषदुच्छ्रितमित्येवं क्रमेणोच्छ्रयेत् । तथा सति सर्वेषामुत्तरस्तु ‘ह्रसिष्ठः’ अतिशयेन ह्रस्वो भवति ॥ ७ ॥

Eggeling
  1. Let the largest be the one forming the southern flank; then shorter and shorter; and the one forming the northern flank the shortest: thus (the row of stakes) inclines to the north.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प᳘त्नीभ्यः पत्नीयूपमु᳘च्छ्रयन्ति॥
सर्वत्वा᳘य᳘ न्वेव᳘ पत्नीयूप उ᳘च्छ्रीयते त᳘त्त्वाष्ट्रं᳘ पशुमा᳘लभते त्वष्टा[[!!]] वै᳘ सिक्तᳫँ᳭ रे᳘तो व्वि᳘करोति त᳘देष᳘ ए᳘वैत᳘त्सिक्तᳫं᳭ रे᳘तो व्विकरो᳘ति[[!!]] मुष्करो[[!!]] भवत्येष वै᳘ प्रजनयिता य᳘न्मुष्करस्त᳘स्मान्मुष्करो[[!!]] भवति तन्न स᳘ᳫं᳘स्थापयेत्प᳘र्यग्निकृतमेवो᳘त्सृजेत्स य᳘त्सᳫं᳘स्थाप᳘येत्प्रजा᳘यै हा᳘न्तमियात्त᳘त्प्रजामु᳘त्सृजति त᳘स्मान्न स᳘ᳫं᳘स्थापयेत्प᳘र्यग्निकृतमेवो᳘त्सृजेत्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प᳘त्नीभ्यः पत्नीयूपमु᳘च्छ्रयन्ति॥
सर्वत्वा᳘य᳘ न्वेव᳘ पत्नीयूप उ᳘च्छ्रीयते त᳘त्त्वाष्ट्रं᳘ पशुमा᳘लभते त्वष्टा[[!!]] वै᳘ सिक्तᳫँ᳭ रे᳘तो व्वि᳘करोति त᳘देष᳘ ए᳘वैत᳘त्सिक्तᳫं᳭ रे᳘तो व्विकरो᳘ति[[!!]] मुष्करो[[!!]] भवत्येष वै᳘ प्रजनयिता य᳘न्मुष्करस्त᳘स्मान्मुष्करो[[!!]] भवति तन्न स᳘ᳫं᳘स्थापयेत्प᳘र्यग्निकृतमेवो᳘त्सृजेत्स य᳘त्सᳫं᳘स्थाप᳘येत्प्रजा᳘यै हा᳘न्तमियात्त᳘त्प्रजामु᳘त्सृजति त᳘स्मान्न स᳘ᳫं᳘स्थापयेत्प᳘र्यग्निकृतमेवो᳘त्सृजेत्॥

मूलम् - Weber

अ᳘थ प᳘त्नीभ्यः पत्नीयूपमु᳘छ्रयन्ति॥
सर्वत्वा᳘यॗ 8 न्वेव᳘ पत्नीयूप उ᳘छ्रायते त᳘त्त्वाष्ट्र᳘म् पशुमा᳘लभते त्व᳘ष्टा वै᳘ सिक्तं रे᳘तो वि᳘करोति त᳘देष᳘ एॗवैत᳘त्सिक्तं रे᳘तो वि᳘करोति मुष्करो᳘ भवत्येष वै᳘ प्रजनयिता य᳘न्मुष्करस्त᳘स्मान्मुष्करो᳘ भवति तं न स᳘ᳫं᳘स्थापयेत्प᳘र्यग्निकृतमेवो᳘त्सृजेत्स य᳘त्संस्थाप᳘येत्प्रजा᳘यै हा᳘न्तमियात्त᳘त्प्रजामु᳘त्सृजति त᳘स्मान्न स᳘ᳫं᳘स्थापयेत्प᳘र्यग्निकृतमेवो᳘त्सृजेत्॥

मूलम् - विस्वरम्

अथ पत्नीभ्यः पत्नीयूपमुच्छ्रयन्ति । सर्वत्वाय न्वेव पत्नीयूपमुच्छ्रीयते । तत् त्वाष्ट्रं पशुमालभते । त्वष्टा वै सिक्तं रेतो विकरोति । तदेष एवैतत् सिक्तं रेतो विकरोति मुष्करो भवति । एष वै प्रजनयिता- यन्मुष्करः । तस्मान्मुष्करो भवति । तन्न संस्थापयेत् । पर्यग्निकृतमेवोत्सृजेत् । स यत्संस्थापयेत्- प्रजायै हान्तमियात् । तत्प्रजामुत्सृजति । तस्मान्न संस्थापयेत्- पर्यग्निकृतमेवोत्सृजेत् ॥ ८ ॥ इति यूपसम्पादनम् ॥

सायणः

प्रसङ्गात् पात्नीवतपशुप्रयोगमाह 9- अथ पत्नीभ्यः पत्नीयूपमुच्छ्रयन्तीति 10 । ‘पत्नीयपम्’ इति पात्नीवतयूपस्य सञ्ज्ञा, तं ‘पत्नीभ्यः’ अर्थाय उच्छ्रयेत् । एतत्प्रशंसति- सर्वत्वाय न्विति । तत्त्वाष्ट्रमित्यादि । (का. श्रौ. सू. ८ । २४३) ‘तत्’ तत्र यूपे ‘त्वाष्ट्रं’ त्वष्टृदेवताकं ‘पशुम्’ आलभेत । देवतां प्रशंसति- त्वष्टा वै सिक्तं रेत इति । ‘वै’ शब्देन “यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत्प्रजायते-” (तै. सं. १ । ५ । २) इत्यादि श्रुत्यन्तरप्रसिद्धिर्द्योत्यते । विशेषमाह- मुष्करो भवतीति । ‘मुष्करः’ प्रकृष्टमुष्कः । “ऊषसुषि- (पा. सू. ५-२-१०७)” इत्यादिना रप्रत्ययः । इतरपशुवत्सञ्ज्ञपनप्रसक्तावाह- तं न संस्थापयेत्, पर्यग्निकृतमेवोत्सृजेदिति । ‘संस्थापनम्’ पशुसञ्ज्ञपनम् । ‘एव’ शब्दो भिन्नक्रमः । उत्सृजेदेव, न संस्थापयेत् । संस्थापनपक्षे दोषमाह- स यत्संस्थापयेदिति । ‘प्रजायै’ प्रजायाः, पुत्रपौत्रादिरूपायाः ‘अन्तम्’ अवसानम् ‘इयात्’ प्राप्नुयात् । मुष्करस्य प्रजननेन पितृत्वोपन्यासात्सञ्ज्ञपनमयुक्तम् 11 ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये तृतीयकाण्डे सप्तमाध्याये द्वितीयं ब्राह्मणम् ॥ (३-७-२) ॥

Eggeling
  1. Thereupon they set up the wife-stake for the wives. It is for the sake of completeness, forsooth, that the wife-stake is set up: there they seize (and bind) the victim for Tvashṭr̥, for Tvashṭr̥ fashions the cast seed, and hence he fashions the seed now cast. It (the victim to Tvashṭr̥) is an animal with testicles, for such a one is a begetter. Let him not slay that one, but let him set it free after fire has been carried round it. Were he to slay it, there would assuredly be an end to offspring, but in this way he sets free the offspring. Therefore let him not

slay it, but let him set it free after fire has been carried round it.


  1. यूपैकदर्शिनीचेद्रथाक्षमात्राण्यंतराणि । पूर्वार्द्धंवा समं विभज्य । पक्षसम्मितावा ऽग्नौ । यूपाहुत्यभ्र्यादानयवावपनानि सकृत् । भेदेनान्यत्सान्निपातित्वात् । मध्यमं परिलिख्योत्तरं दक्षिणं वाव्यत्यासमितरान् । आवटहोमात्करोति । अञ्जनाद्याचषालेक्षणात्कृत्वैकैकस्य ॥ का. श्रौ. सू. ८ । २१०-२१७ ॥ रथाक्षप्रमाणं शुल्बे । चतुःशतमक्षः १०४ अंगुलानि । अष्टांगुलाधिकं हस्तचतुष्टयमित्यर्थः । ↩︎

  2. ‘ककुव्रतायै’ इति जर्मनीपुस्तके, ‘ककुब्व्रतायै’ इति जयपुरीयपुस्तके, ‘ककुब्द्रतायै’ इति वैदिकपाठपुस्तके पाठः अस्य शब्दस्यार्थस्तु न ज्ञायते । ↩︎

  3. ?प्रकुव्द्र᳘ A pr. m. प्रकुब्द्र᳘ A sec. m. प्रकुव्र B: this line is omitted in the commentary. ↩︎

  4. 176:1 No satisfactory explanation of ‘prakubratā’ occurs to me. It seems to he derived from ‘kubra,’ to which the dictionaries assign the meanings ‘hole for sacrificial fire’ and ’thread’ (besides those of ‘forest,’ ’earring,’ and ‘cart’). Uṇād. II, 28, derives this from a root ‘kub,’ to cover, shelter. ? For the safe foundation (or the protraction) of to-morrow’s Soma feast. The Kāṇva text, on the other hand, reads: ‘Some, now, raise all (the stakes) on the upavasatha (day before the Soma feast) for the sake of quickening (?prakudratāyai) the work, thinking, ‘we will quickly bring the sacrifice to a close.’ ↩︎

  5. श्वो वा दक्षिणोत्तराणामत्रगूहनान्तमालंभनासंभवात् । का. श्रौ. सू. ८ । २१८ । ↩︎ ↩︎

  6. परिवीयमध्यममगूहनांतम् । का. श्रौ. सू. ८ । २१९ । ↩︎

  7. 177:1 The Kāṇva text first mentions the practice set forth in the preceding paragraph, as the teaching of ‘some,’ but then rejects it in favour of the second alternative. ↩︎

  8. सर्वत्वा᳘य᳘ त्वेव᳘ B. and Sây तन्न स᳘ᳫ᳘स्था AB ↩︎

  9. ‘पशुप्रयोजनमाह’ इति क्व. पा. ↩︎

  10. यूपैकादशिन्यां वसावपामार्जनांतं कृत्वा शालाद्वार्येपत्नीयूपोछ्रयणं नाभिमात्रस्य । परिस्तरणपात्रसँ सादनप्रोक्षणाज्यनिर्व्वपणाधिश्रयणानि कृत्वास्फ्यादि करोति । त्वाष्ट्रोबस्तःपर्यग्निकृतमुत्सृजंति । का० श्रौ० ८ । २४१-२४३ । ↩︎

  11. ‘संज्ञपनमयुक्तः’ इति क्व. पा. । ↩︎