०१
विश्वास-प्रस्तुतिः
यूपं व्व्रक्ष्य᳘न्वैष्ण᳘व्यर्चा᳘[[!!]] जुहोति॥
व्वैष्णवो हि यू᳘पस्त᳘स्मा᳘द्वैष्ण᳘व्यर्चा᳘[[!!]] जुहोति॥
मूलम् - श्रीधरादि
यूपं व्व्रक्ष्य᳘न्वैष्ण᳘व्यर्चा᳘[[!!]] जुहोति॥
व्वैष्णवो हि यू᳘पस्त᳘स्मा᳘द्वैष्ण᳘व्यर्चा᳘[[!!]] जुहोति॥
मूलम् - Weber
यू᳘पं व्रक्ष्य᳘न्वैष्णव्य᳘र्चा᳘ जुहोति॥
विष्णवो हि यू᳘पस्त᳘स्माद्वैष्णव्य᳘र्चा᳘ जुहोति॥
मूलम् - विस्वरम्
अथ यूपसम्पादनम् ।
यूपं वृक्ष्यन् वैष्णव्यर्चा जुहोति । वैष्णवो हि यूपः । तस्माद्वैष्णव्यर्चा जुहोति ॥ १ ॥
सायणः
अथ यूपप्रयोग उच्यते- यूपं व्रक्ष्यन्नित्यादिना । ‘वृक्ष्यन्’ छेत्स्यन् । ‘वैष्णव्यर्चा’ आहवनीये जुहुयात् 1 । “सा ऽस्य देवता”- (पा. सू. ४ । २ । २४) इत्यण् । “दिवं मा लेखीरन्तरिक्षं मा हिंसीः पृथिव्या सम्भव”- (वा. सं. ५ । ४३) इति मन्त्रेण । मन्त्रादौ लोकत्रयाक्रमणस्योक्तत्वेन विष्णुसाम्याद्वैष्णवत्वमतस्तदर्थवाच्यृचो वैष्णवत्वं युक्तम् ॥ १ ॥
Eggeling
- Being about to cut the sacrificial stake, he offers 2 with a verse addressed to Vishṇu. For the stake belongs to Vishṇu; therefore he offers with a verse addressed to Vishṇu.
०२
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ व्वैष्णव्या᳘ जुहो᳘ति॥
यज्ञो वै व्वि᳘ष्णुर्यज्ञे᳘नै᳘वैतद्यू᳘पम᳘च्छैति त᳘स्माद्द्वैष्ण᳘व्यर्चा᳘[[!!]] जुहोति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ व्वैष्णव्या᳘ जुहो᳘ति॥
यज्ञो वै व्वि᳘ष्णुर्यज्ञे᳘नै᳘वैतद्यू᳘पम᳘च्छैति त᳘स्माद्द्वैष्ण᳘व्यर्चा᳘[[!!]] जुहोति॥
मूलम् - Weber
य᳘द्वेव᳘ वैष्णव्या᳘ जुहो᳘ति॥
यज्ञो वै वि᳘ष्णुर्यज्ञे᳘नैॗवैतद्यू᳘पम᳘छैति त᳘स्माद्वैष्ण᳘व्य᳘र्चा᳘ जुहोति॥
मूलम् - विस्वरम्
यद्वेव वैष्णव्या जुहोति । यज्ञो वै विष्णुः । यज्ञेनैवैतद्यूपमच्छैति । तस्माद् वैष्णव्यर्चा जुहोति ॥ २ ॥
सायणः
ऋचो वैष्णवत्वं प्रशंसति- यद्वेव वैष्णव्या जुहोतीति । यज्ञेनैवैतद्यूपमच्छैतीति । यज्ञेनैव यूपमभिलक्ष्य गतवान् भवति ॥ २ ॥
Eggeling
- And again, why he offers with a verse addressed to Vishṇu–Vishṇu being the sacrifice, he thus approaches the stake by means of the sacrifice: therefore he offers with a verse addressed to Vishṇu.
०३
विश्वास-प्रस्तुतिः
स य᳘दि स्रुचा᳘ जुहो᳘ति॥
चतुर्गृहीतमा᳘ज्यं[[!!]] गृहीत्वा᳘ जुहोति य᳘द्यु स्रुवे᳘ण स्रुवे᳘णै᳘वोपह᳘त्य जुहोत्युरु᳘ व्विष्णो व्वि᳘क्रमस्वोरु क्ष᳘याय नस्कृधि॥ घृतं᳘ घृतयोने पिब प्र᳘ प्र यज्ञ᳘पतिं तिर स्वाहे᳘ति॥
मूलम् - श्रीधरादि
स य᳘दि स्रुचा᳘ जुहो᳘ति॥
चतुर्गृहीतमा᳘ज्यं[[!!]] गृहीत्वा᳘ जुहोति य᳘द्यु स्रुवे᳘ण स्रुवे᳘णै᳘वोपह᳘त्य जुहोत्युरु᳘ व्विष्णो व्वि᳘क्रमस्वोरु क्ष᳘याय नस्कृधि॥ घृतं᳘ घृतयोने पिब प्र᳘ प्र यज्ञ᳘पतिं तिर स्वाहे᳘ति॥
मूलम् - Weber
स य᳘दि स्रुचा᳘ जुहो᳘ति॥
चतुर्गृहीत᳘मा᳘ज्यं गृहीत्वा᳘ जुहोति य᳘द्यु स्रुवे᳘ण स्रुवे᳘णैॗवोपह᳘त्य जुहोत्युरु᳘ विष्णो वि᳘क्रमस्वोरु क्ष᳘याय नस्कृधि घृतं᳘ घृतयोने पिब प्र᳘प्र यज्ञ᳘पतिं तिर स्वाहे᳘ति॥
मूलम् - विस्वरम्
स यदि स्रुचा जुहोति- चतुर्गृहीतमाज्यं गृहीत्वा जुहोति । यद्यु स्रुवेण- स्रुवेणैवोपहत्य जुहोति- “उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि । घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिर स्वाहा”- (वा. सं. ५ । ४१) इति ॥ ३ ॥
सायणः
स यदि स्रुचेत्यादि । स्पष्टम् । उरु विष्णविति । एष मन्त्रो वैसर्जनीयहोममधिकृत्य व्याख्यातः, अत एष ब्राह्मणे नेह व्याख्यातः । अत्र सूत्रम्- “यूपाहुतिं जुहोति चतुर्गृहीतं स्रुवेण वोरु विष्णविति’ (का. श्रौ. सू. ६ । ४ ।) इति ॥ ३ ॥
Eggeling
- If he offers with the offering-spoon, he offers after taking ghee by four ladlings; and if he offers with the dipping-spoon, he offers after ‘cutting out’ (some ghee from the pot) with the dipping-spoon,–with the text (Vāj. S. V, 41), ‘Stride thou widely,
O Vishṇu, make wide room for our abode! drink the ghee, thou born of ghee, and speed the lord of the sacrifice ever onwards! Hail!’
०४
विश्वास-प्रस्तुतिः
यदा᳘ज्यं प᳘रिशिष्टं भ᳘वति॥
तदा᳘दत्ते यत्त᳘क्ष्णः श᳘स्त्रं भ᳘वति तत्तक्षा᳘दत्तेत ऽआ᳘यन्ति स यं यू᳘पं जोष᳘यन्ते॥
मूलम् - श्रीधरादि
यदा᳘ज्यं प᳘रिशिष्टं भ᳘वति॥
तदा᳘दत्ते यत्त᳘क्ष्णः श᳘स्त्रं भ᳘वति तत्तक्षा᳘दत्तेत ऽआ᳘यन्ति स यं यू᳘पं जोष᳘यन्ते॥
मूलम् - Weber
यदा᳘ज्यम् प᳘रिशिष्टम् भ᳘वति॥
तदा᳘दत्ते यत्त᳘क्ष्णः श᳘स्त्रम् भ᳘वति तत्तक्षा᳘दत्ते त आ᳘यन्ति स यं यू᳘पं जोष᳘यन्ते॥
मूलम् - विस्वरम्
यदाज्यं परिशिष्टं भवति- तदादत्ते । यत्तक्ष्णः शस्त्रं भवति- तत्तक्षा ऽऽदत्ते । त आयन्ति । स यं यूपं जोषयन्ते ॥ ४ ॥
सायणः
यदाज्यं परिशिष्टं भवतीति । अवशिष्टमाज्यमध्वर्युरादत्ते । यत्तक्ष्ण इति । ‘यत्’ तक्षकस्य ‘शस्त्र भवति’ वाशीनिशानं शिलादौ । जोषयन्ते ये यूपायालमिति, त आयन्तीति सम्बन्धः 3 ॥ ४ ॥
Eggeling
- He takes the ghee which is left (in the melting-pot). Whatever chopping-knife the carpenter uses, that the carpenter now takes. They then proceed (to the wood). Whatever (tree) they select for the stake,
०५
विश्वास-प्रस्तुतिः
त᳘मेव᳘ मभिमृ᳘श्य जपति॥
पश्चा᳘द्वैव प्राङ्ति᳘ष्ठन्नभि᳘मन्त्रयते᳘ ऽत्यन्या २ँ॥ ऽअ᳘गां᳘ नान्या २ँ॥ ऽउ᳘पागामित्य᳘ति᳘ ह्यन्याने᳘ति᳘[[!!]] नान्या᳘नुपै᳘ति त᳘स्मादाहा᳘त्यन्या २ँ॥ ऽअ᳘गां᳘ नान्या २ँ॥ ऽउ᳘पागामि᳘ति॥
मूलम् - श्रीधरादि
त᳘मेव᳘ मभिमृ᳘श्य जपति॥
पश्चा᳘द्वैव प्राङ्ति᳘ष्ठन्नभि᳘मन्त्रयते᳘ ऽत्यन्या २ँ॥ ऽअ᳘गां᳘ नान्या २ँ॥ ऽउ᳘पागामित्य᳘ति᳘ ह्यन्याने᳘ति᳘[[!!]] नान्या᳘नुपै᳘ति त᳘स्मादाहा᳘त्यन्या २ँ॥ ऽअ᳘गां᳘ नान्या २ँ॥ ऽउ᳘पागामि᳘ति॥
मूलम् - Weber
त᳘मेव᳘मभिमृ᳘श्य जपति॥
पश्चा᳘द्वैव प्राङ् ति᳘ष्ठन्नभि᳘मन्त्रयते᳘ ऽत्यन्यान् अ᳘गांॗ नान्यान् 4 उ᳘पागामित्य᳘ति ह्य᳘न्याने᳘तिॗ नान्यानुपै᳘ति त᳘स्मादाहा᳘त्यन्यान् अ᳘गांॗ नान्यान् उ᳘पागामि᳘ति॥
मूलम् - विस्वरम्
तमेवमभिमृश्य जपति । पश्चाद्धैव प्राङ् तिष्ठन्नभिमन्त्रयते- “अत्यन्या २ँ ॥ ऽअगाम्, नान्या २ँ ॥ ऽउपागाम्”- (वा. सं. ५ । ४२) इति । अति ह्यन्यानेति, नान्यानुपैति । तस्मादाह- अत्यन्या २ँ ॥ ऽअगाम्, नान्या २ँ ॥ ऽउपागामिति ॥ ५ ॥
सायणः
तमेवमभिमृश्य जपतीति 3 ‘तम्’ यूपम् ‘एवम्’ ‘अभिमृश्य जपति’ “अत्यन्यानगाम्”- इत्येवंरूपेणेत्यर्थः । अथवा अभिमर्शनं न कर्त्तव्यम्, ‘पश्चात्’ ‘प्राङ्’ ‘तिष्ठन् एव’ ‘अभिमन्त्रयते’ । अत्र “यूपमभिमृशत्यत्यन्यानिति प्राङ् तिष्ठन्नभिमन्त्रयते वा पालाशं बहुलपर्णम्”- इत्यादि सूत्रं द्रष्टव्यम् (का. श्रौ. सू. ६ । ५-१०) । मन्त्रस्यायमर्थः- हे पुरोवर्त्तिपालाशादिरूपवृक्ष ! तव प्राप्तेः पूर्वम् ‘अन्यान्’ यूप्यानपि नानाजातीयान् वृक्षान् ‘अत्यगाम्’ अतिक्रम्य त्वां प्राप्तो ऽस्मि । एवम् ‘अन्यान्’ ब्राह्मणोक्तातिरिक्तानितः परमपि ‘नोपागान्’ नोपगच्छामि । ‘त्वा’ त्वाम् ‘परेभ्यः’ त्वत्तो ऽप्युरि वर्त्तमाना ये सन्ति, तेभ्यः ‘अर्वाक्’ अधस्तात् प्रथमं वर्त्तमानम् ‘अविदम्’ । तथा ‘अवरेभ्यः’ पूर्वभाविभ्यः सकाशात् त्वां ‘परः’ परस्ताद् वर्त्तमानम् ‘अविदम्’ । आद्यन्तयोर्वर्त्तमानानां वातातपादिकृतदोषसम्भवात् निकृष्टत्वम्, अतः सर्वेषां मध्ये वर्त्तमानं त्वामेव निर्दोषमविदमित्यर्थः । हे ‘देव ! वनस्पते’ ‘तं’ तादृशं वर्तमानं यूपार्हं ‘त्वा’ त्वां ‘देवयज्यायै’ यागार्थं ‘जुषामहे’ इति । मन्त्रभागस्य तात्पर्यमाह- तद्यथेति । ‘यथा’ ‘बहूनां’ पुरुषाणां ‘मध्यात्’ एकमवकृष्य ‘साधवे’ शोभनाय ‘कर्मणे’ ‘जुषेत’ सेवेत, ‘सः’ जोष्टा ‘रातमनाः’ दत्तचित्तः, कर्मार्थमङ्गीकृतमनस्कः सन् ‘तस्मै कर्मणे’ तत् कर्म कर्तुं भवेत्, अथवा ‘कर्मणे रातमनाः स्यात्’ कर्म कर्तुं बुद्धिः प्रवृत्तेत्यर्थः । ‘एवमेवैतत्’ इति दार्ष्टान्तिकाभिधानमुक्तार्थम् ॥ ५-७ ॥
Eggeling
- That he touches while muttering (Vāj. S. V, 42),–or he salutes it while standing behind it with his face towards the east,–‘I have passed over the others, I have not gone nigh the others–’ he does indeed pass over others and does not go near to others: wherefore he says, ‘I have passed over the others, I have not gone nigh the others.’
०६
विश्वास-प्रस्तुतिः
(त्य) अर्व्वा᳘क्त्वा प᳘रेभ्यो᳘ ऽविदं परो᳘ ऽवरेभ्य इ᳘ति॥
(त्य) अर्व्वा᳘ग्घ्येनं प᳘रेभ्यो व्वृश्च᳘ति य᳘ ऽएत᳘स्मात्प᳘राञ्चो भ᳘वन्ति परो᳘ ऽवरेभ्य इ᳘ति प᳘रो᳘ ह्येनम᳘वरेभ्यो व्वृश्च᳘ति य᳘ ऽएत᳘स्मादर्व्वा᳘ञ्चो भ᳘वन्ति त᳘स्मादाहार्व्वा᳘क्त्वा प᳘रेभ्यो᳘ ऽविदं परो᳘ ऽवरेभ्य इ᳘ति॥
मूलम् - श्रीधरादि
(त्य) अर्व्वा᳘क्त्वा प᳘रेभ्यो᳘ ऽविदं परो᳘ ऽवरेभ्य इ᳘ति॥
(त्य) अर्व्वा᳘ग्घ्येनं प᳘रेभ्यो व्वृश्च᳘ति य᳘ ऽएत᳘स्मात्प᳘राञ्चो भ᳘वन्ति परो᳘ ऽवरेभ्य इ᳘ति प᳘रो᳘ ह्येनम᳘वरेभ्यो व्वृश्च᳘ति य᳘ ऽएत᳘स्मादर्व्वा᳘ञ्चो भ᳘वन्ति त᳘स्मादाहार्व्वा᳘क्त्वा प᳘रेभ्यो᳘ ऽविदं परो᳘ ऽवरेभ्य इ᳘ति॥
मूलम् - Weber
अर्वा᳘क्त्वा प᳘रेभ्यो᳘ ऽविदम् परो᳘ ऽवरेभ्य इ᳘ति॥
अर्वाॗग्घ्येनम् प᳘रेभ्यो वृश्च᳘ति य᳘ एत᳘स्मान्प᳘राञ्चो भ᳘वन्ति परो᳘ ऽवरेभ्य इ᳘ति प᳘रोॗ ह्येनम᳘वरेभ्यो वृश्च᳘ति य᳘ एत᳘स्मादर्वा᳘ञ्चो भ᳘वन्ति त᳘स्मादाहार्वा᳘क्त्वा प᳘रेभ्यो ऽविदम् परो᳘ ऽवरेभ्य इ᳘ति॥
मूलम् - विस्वरम्
“अर्वाक् त्वा परेभ्यो ऽविदम्, परो ऽवरेभ्यः” (वा. सं. ५ । ४२) इति । अर्वाग्घ्येनं परेभ्यो वृश्चति- य एतस्मात्पराञ्चो भवन्ति । परो ऽवरेभ्य इति । परो ह्येनमवरेभ्यो वृश्चति- य ऽएतस्मादर्वाञ्चो भवन्ति । तस्मादाह- अर्वाक् त्वा परेभ्यो ऽविदम्, परो ऽवरेभ्य इति ॥ ६ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- ‘Thee have I found on the nearer side of the farther, and on the farther side of the nearer;’ he does indeed fell it on the nearer side of the farther, of those that are farther away from it; and ‘on the farther side of the nearer,’ he says, because he does fell it on the farther side of the nearer, of those that are on this side of it. This is why he says, ‘Thee have I found on the nearer side of the farther, and on the farther side of the nearer.’
०७
विश्वास-प्रस्तुतिः
तं᳘ त्वा जुषामहे देव व्वनस्पते देवयज्या᳘या ऽइ᳘ति॥
तद्य᳘था बहूनां म᳘ध्यात्साध᳘वे क᳘र्मणे जुषे᳘त स रात᳘मनास्त᳘स्मै क᳘र्मणे स्या᳘देव᳘मे᳘वैनमेत᳘द्बहूनां म᳘ध्यात्साध᳘वे क᳘र्मणे जुषते स᳘रात᳘मना व्व्र᳘श्चनाय भवति॥
मूलम् - श्रीधरादि
तं᳘ त्वा जुषामहे देव व्वनस्पते देवयज्या᳘या ऽइ᳘ति॥
तद्य᳘था बहूनां म᳘ध्यात्साध᳘वे क᳘र्मणे जुषे᳘त स रात᳘मनास्त᳘स्मै क᳘र्मणे स्या᳘देव᳘मे᳘वैनमेत᳘द्बहूनां म᳘ध्यात्साध᳘वे क᳘र्मणे जुषते स᳘रात᳘मना व्व्र᳘श्चनाय भवति॥
मूलम् - Weber
तं᳘ त्वा जुषामहे देव वनस्पते देवयज्या᳘या इ᳘ति॥
तद्य᳘था बहूनाम् म᳘ध्यात्साध᳘वे कर्मणे जुषे᳘त स रात᳘मनास्त᳘स्मै क᳘र्मणे स्या᳘देव᳘मेॗवैनमेत᳘द्बहूनाम् म᳘ध्यात्साध᳘वे क᳘र्मणे जुषते स᳘ रात᳘मना व्र᳘श्चनाय भवति॥
मूलम् - विस्वरम्
“तं त्वा जुषामहे देव वनस्पते देवयज्यायै”- (वा. सं. ५ । ४२) इति । तद् यथा- बहूनां मध्यात्साधवे कर्मणे जुषेत, स रातमनास्तस्मै कर्मणे स्यात्- एवमेवैनमेतद् बहूनां मध्यात्साधवे कर्मणे जुषते, स रातमना व्रश्चनाय भवति ॥ ७ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- ‘Thee do we favour, O divine lord of the forest 5, for the worship of the gods.’ As for the good work, he would favour (select) one from amidst many (men) and he (the chosen) would be well-disposed to that work, even so does he now, for the good work, favour that (tree) from amidst many, and it becomes well-disposed to the felling.
०८
विश्वास-प्रस्तुतिः
देवा᳘स्त्वा देवयज्या᳘यै जुषन्तामि᳘ति॥
तद्वै स᳘मृद्धं यं᳘ देवाः᳘ साध᳘वे क᳘र्मणे जुषा᳘न्तै त᳘स्मादाह देवा᳘स्त्वा देवयज्या᳘यै जुषन्तामिति॥
मूलम् - श्रीधरादि
देवा᳘स्त्वा देवयज्या᳘यै जुषन्तामि᳘ति॥
तद्वै स᳘मृद्धं यं᳘ देवाः᳘ साध᳘वे क᳘र्मणे जुषा᳘न्तै त᳘स्मादाह देवा᳘स्त्वा देवयज्या᳘यै जुषन्तामिति॥
मूलम् - Weber
देवा᳘स्त्वा देवयज्या᳘यै जुषन्तामि᳘ति॥
तद्वै स᳘मृद्धं यं᳘ देवाः᳘ साध᳘वे क᳘र्मणे जुषा᳘न्तै त᳘स्मादाह देवा᳘स्त्वा देवयज्या᳘यै जुषन्तामिति॥
मूलम् - विस्वरम्
“देवास्त्वा देवयज्यायै जुषन्ताम्”- (वा. सं. ५ । ४२) इति । तद्वै समृद्धं- यं देवाः साधवे कर्मणे जुषान्तै- तस्मादाह- देवास्त्वा देवयज्यायै जुषन्तामिति ॥ ८ ॥
सायणः
देवास्त्वेति । देवानां जोषणाभिधानस्य प्रार्थनायाः प्रयोजनमाह- तद्वै समृद्धं यं देवाः साधवे कर्मणे जुषान्ता इति । ‘जुषान्तै’ जुषेरन् ॥ ८ ॥
Eggeling
- ‘Thee may the gods favour for the worship of the gods!’ for that is truly successful which the gods favour for the good work: therefore he says, ‘Thee may the gods favour for the worship of the gods!’
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ स्रुवेणो᳘पस्पृशति॥
व्वि᳘ष्णवे त्वे᳘ति व्वैष्णवो हि यू᳘पो यज्ञो व्वै व्वि᳘ष्णुर्यज्ञा᳘य᳘ ह्येनं व्वृश्च᳘ति त᳘स्मादाह व्वि᳘ष्णवे त्वेति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ स्रुवेणो᳘पस्पृशति॥
व्वि᳘ष्णवे त्वे᳘ति व्वैष्णवो हि यू᳘पो यज्ञो व्वै व्वि᳘ष्णुर्यज्ञा᳘य᳘ ह्येनं व्वृश्च᳘ति त᳘स्मादाह व्वि᳘ष्णवे त्वेति[[!!]]॥
मूलम् - Weber
अ᳘थ स्रुवेणो᳘पस्पृशति॥
वि᳘ष्णवे त्वे᳘ति वैष्णवो हि यू᳘पो यज्ञो वै वि᳘ष्णुर्यज्ञा᳘यॗ ह्येनं वृश्च᳘ति त᳘स्मादाह वि᳘ष्णवे त्वे᳘ति॥
मूलम् - विस्वरम्
अथ स्रुवेणोपस्पृशति- “विष्णवे त्वा”- (वा. सं. ५ । ४२) इति । वैष्णवो हि यूपः । यज्ञो वै विष्णुः । यज्ञाय ह्येनं वृश्चति । तस्मादाह- विष्णवे त्वेति ॥ ९ ॥
सायणः
अथ स्रुवेणेति 6 । “विष्णवे त्वा”- ‘इति’ मन्त्रेण ‘स्रुवेण’ ‘उपस्पृशति’ वृक्षम् । ‘विष्णवे’ यूपायेत्यर्थः । स्पृशामीति शेषः । कथं यूपस्य विष्णुत्वमिति, तत्राह- वैष्णवो हि यूप इति । ’ ‘यूपः’ ‘वैष्णवो हि’ विष्णुदेवत्यः खलु । तदेव कथमिति, तत्राह- यज्ञो वै विष्णुरिति । यज्ञस्यापि विष्णुत्वं यूपस्य किमायातमित्यत आह- यज्ञाय ह्येनं वृश्चतीति ॥ ९ ॥
Eggeling
- He then touches it with the dipping-spoon, with, ‘For Vishṇu, thee!’ for the stake belongs to Vishṇu, since Vishṇu is the sacrifice, and he fells this (tree) for the sacrifice: therefore he says, ‘For Vishṇu, thee!’
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ दर्भतरुणक᳘मन्त᳘र्द्दधाति॥
(त्यो᳘) ओ᳘षधे त्रा᳘यस्वे᳘ति व्व᳘ज्रो वै᳘ परशुस्त᳘थो हैनमेष व्व᳘ज्रः परन᳘र्शु हिनस्त्य᳘थ परशु᳘ना प्र᳘हरति स्व᳘धिते᳘ मैनᳫं᳭ हिᳫं᳭सीरि᳘ति व्व᳘ज्रो वै᳘ परशुस्त᳘थो हैनमेष व्व᳘ज्रः परशुर्न᳘ हिनस्ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ दर्भतरुणक᳘मन्त᳘र्द्दधाति॥
(त्यो᳘) ओ᳘षधे त्रा᳘यस्वे᳘ति व्व᳘ज्रो वै᳘ परशुस्त᳘थो हैनमेष व्व᳘ज्रः परन᳘र्शु हिनस्त्य᳘थ परशु᳘ना प्र᳘हरति स्व᳘धिते᳘ मैनᳫं᳭ हिᳫं᳭सीरि᳘ति व्व᳘ज्रो वै᳘ परशुस्त᳘थो हैनमेष व्व᳘ज्रः परशुर्न᳘ हिनस्ति॥
मूलम् - Weber
अ᳘थ दर्भतरुणक᳘मन्त᳘र्दधाति॥
ओ᳘षधे त्रा᳘यस्वे᳘ति व᳘ज्रो वै᳘ परशुस्त᳘थो हैनमेष व᳘ज्रः परशुर्न᳘ हिनस्त्य᳘थ परशु᳘ना प्र᳘हरति स्व᳘धिते मैनᳫं हिंसीरि᳘ति व᳘ज्रो वै᳘ परशुस्त᳘थो हैनमेष व᳘ज्रः परशुर्न᳘ हिनस्ति॥
मूलम् - विस्वरम्
अथ दर्भतरुणकमन्तर्द्दधाति- “ओषधे त्रायस्व- (वा. सं. ५ । ४२) इति । वज्रो वै परशुः । तथो हैनमेष वज्रः परशुर्न हिनस्ति । अथ परशुना प्रहरति- “स्वधिते मैनं हिंसीः”- (वा. सं. ५ । ४२) इति । वज्रो वै परशुः । तथो हैनमेष वज्रः परशुर्न हिनस्ति ॥ १० ॥
सायणः
अथ दर्भतरुणकमिति 6 । “ओषधे त्रायस्व”- इति । कुशतरुणेन यूपं व्यवहितं कुर्यात् । है ‘ओषधे !’ त्वं प्रहारव्यथातः ‘एनं’ वृक्षं ‘त्रायस्व’ । ‘वज्रो वै परशुः’ छेदकत्वात् परशोर्वज्रत्वम् । “स्वधिते मैनम्”- इति छेदनमन्त्रः स्पष्ट एव ॥ १० ॥
Eggeling
- He then places a blade of darbha-grass between 7, with, ‘O plant, shield it!’ for the axe is a thunderbolt; but thus that thunderbolt, the axe, does not hurt it (the tree). He then strikes with the axe, with, ‘O axe, hurt it not!’ for the axe is a thunderbolt, but thus that thunderbolt, the axe, does not hurt it.
११
विश्वास-प्रस्तुतिः
स यं᳘ प्रथमᳫं᳭ श᳘कलमपच्छिन᳘त्ति॥
तमा᳘दत्ते तं वा ऽअ᳘नक्षस्तम्भं व्वृश्चेदुत᳘ ह्येनम᳘नसा व्व᳘हन्ति त᳘था᳘ ऽनो न प्र᳘तिबाधते॥
मूलम् - श्रीधरादि
स यं᳘ प्रथमᳫं᳭ श᳘कलमपच्छिन᳘त्ति॥
तमा᳘दत्ते तं वा ऽअ᳘नक्षस्तम्भं व्वृश्चेदुत᳘ ह्येनम᳘नसा व्व᳘हन्ति त᳘था᳘ ऽनो न प्र᳘तिबाधते॥
मूलम् - Weber
स य᳘म् प्रथमं श᳘कलमपछिन᳘त्ति॥
तमा᳘दत्ते तं वा अ᳘नक्षस्तम्भं वृश्चेदुतॗ ह्येनम᳘नसा व᳘हन्ति तथा᳘नो 8 न प्र᳘तिबाधते॥
मूलम् - विस्वरम्
स यं प्रथमं शकलमपच्छिनत्ति- तमादत्ते । तं वा ऽअनक्षस्तम्भं वृश्चेद्- उत ह्येनमनसा वहन्ति- तथो ऽनो न प्रतिबाधते ॥ ११ ॥
सायणः
स यं प्रथममिति । प्रथमच्छिन्नं शकलं यूपावटे प्रक्षेपार्थमाददीत 9 । तं वा अनक्षस्तम्भमित्यादि 10 । न विद्यते ‘अक्षस्य’ शकटाङ्गस्य स्तम्भो यस्मिन् व्रश्चनकर्मणि, ‘तम् अनक्षस्तम्भम्’; अक्षसंस्पर्शो यथा न स्यात्, एवं सर्वं वृश्चेदित्यर्थः । तत्प्रयोजनमाह- उत ह्येनमनसेति । (पक्षे) अतो ह्यनसा यूपं नयेयुः, तदा अक्षं मा बाधिष्ठेति ॥ ११ ॥
Eggeling
१२
विश्वास-प्रस्तुतिः
तं प्रा᳘ञ्चं पातयेत्॥
प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो उ᳘दञ्चमु᳘दीची हि᳘ मनु᳘ष्याणां दिग᳘थो प्रत्य᳘ञ्चं द᳘क्षिणायै᳘ त्वे᳘वैनं दिशः प᳘रिविबाधिषेतैषा वै दि᳘क्पितॄणां त᳘स्मादेनं द᳘क्षिणायै दिशः प᳘रिविबाधिषेत॥
मूलम् - श्रीधरादि
तं प्रा᳘ञ्चं पातयेत्॥
प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो उ᳘दञ्चमु᳘दीची हि᳘ मनु᳘ष्याणां दिग᳘थो प्रत्य᳘ञ्चं द᳘क्षिणायै᳘ त्वे᳘वैनं दिशः प᳘रिविबाधिषेतैषा वै दि᳘क्पितॄणां त᳘स्मादेनं द᳘क्षिणायै दिशः प᳘रिविबाधिषेत॥
मूलम् - Weber
तम् प्रा᳘ञ्चम् पातयेत्॥
प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो उ᳘दञ्चमु᳘दीची हि᳘ मनुॗष्याणां दिग᳘थो प्रत्य᳘ञ्चं द᳘क्षिणायैॗ त्वेॗवैनं दिशः प᳘रिबिबाधिषेतैषा वै दि᳘क् पितॄणां त᳘स्मादेनं द᳘क्षिणायै दिशः प᳘रिबिबाधिषेत॥
मूलम् - विस्वरम्
तं प्राञ्चं पातयेत् । प्राची हि देवानां दिक् । अथो उदञ्चम् । उदीची हि मनुष्याणां दिक् । अथो प्रत्यञ्चम् । दक्षिणायै त्वेवैनं दिशः परिविबाधिषेत । एषा वै दिक् पितॄणाम् । तस्मादेनं दक्षिणायै दिशः परिविबाधिषेत ॥ १२ ॥
सायणः
यूपस्याधः पातनविषये प्रागादिदिक्त्रयं विकल्पयति- तं प्राञ्चं पातयेदित्यादिना । अन्यस्यां दिशि पातनं निषेधति- दक्षिणायै त्वेवैनं दिशः परिविबाधिषेतेति 9 । ‘एनं’ यूपं दक्षिणायै दक्षिणस्याः ‘दिशः’ परिबाधकं कारयितुमिच्छेदित्यर्थः; तस्याः पितृदेवत्यत्वात् ॥ १२ ॥
Eggeling
- Let him cut it so as to fall towards the east, for the east is the quarter of the gods; or towards the north, for the north is the quarter of men; or towards the west. But let him take care to keep it from (falling towards) the southern quarter, for that is the quarter of the Fathers: therefore he must take care to keep it from the southern quarter.
१३
विश्वास-प्रस्तुतिः
तं᳘ प्रच्य᳘वमानम᳘नुमन्त्रयते॥
द्यां मा᳘ लेखीरन्त᳘रिक्षं मा᳘ हिᳫं᳭सीः पृथिव्या स᳘म्भवे᳘ति व᳘ज्रो व्वा᳘ ऽएष᳘ भवति यं यू᳘पाय व्वृ᳘श्च᳘न्ति त᳘स्माद्व᳘ज्रात्प्रच्य᳘वमानादिमे᳘ लोकाः स᳘ᳫं᳘रेजन्ते त᳘देभ्य᳘ ए᳘वैनमेत᳘ल्लोके᳘भ्यः शमयति त᳘थेमाल्ँ᳘लोका᳘ञ्छान्तो न᳘ हिनस्ति॥
मूलम् - श्रीधरादि
तं᳘ प्रच्य᳘वमानम᳘नुमन्त्रयते॥
द्यां मा᳘ लेखीरन्त᳘रिक्षं मा᳘ हिᳫं᳭सीः पृथिव्या स᳘म्भवे᳘ति व᳘ज्रो व्वा᳘ ऽएष᳘ भवति यं यू᳘पाय व्वृ᳘श्च᳘न्ति त᳘स्माद्व᳘ज्रात्प्रच्य᳘वमानादिमे᳘ लोकाः स᳘ᳫं᳘रेजन्ते त᳘देभ्य᳘ ए᳘वैनमेत᳘ल्लोके᳘भ्यः शमयति त᳘थेमाल्ँ᳘लोका᳘ञ्छान्तो न᳘ हिनस्ति॥
मूलम् - Weber
त᳘म् प्रच्य᳘वमानम᳘नुमन्त्रयते॥
द्याम् मा लेखीरन्त᳘रिक्षम् मा᳘ हिंसीः पृथिव्या स᳘म्भवे᳘ति व᳘ज्रो वा᳘ एष᳘ भवति यं यू᳘पाय वृश्च᳘न्ति त᳘स्माद्व᳘ज्रात्प्रच्य᳘वमानादिमे᳘ लोकाः सं᳘रेजन्ते त᳘देभ्य᳘ एॗवैनमेत᳘ल्लोके᳘भ्यः शमयति त᳘थेमां᳘लोका᳘ञ्छान्तो न᳘ हिनस्ति॥
मूलम् - विस्वरम्
तं प्रच्यवमानमनुमन्त्रयते- “द्यां मा लेखीरन्तरिक्षं मा हिंसीः पृथिव्या सम्भव”- (वा. सं. ५ । ४३) इति । वज्रो वा ऽएष भवति- यं यूपाय वृश्चन्ति । तस्माद्वज्रात्प्रच्यवमानादिमे लोकाः संरेजन्ते । तदेभ्य एवैनमेतल्लोकेभ्यः शमयति । तथेमाल्ँ लोकाञ्छान्तो न हिनस्ति ॥ १३ ॥
सायणः
तं प्रच्यवमानमनुमन्त्रयत 9 इति । ‘प्रच्यवमानम्’ अधः पतन्तमित्यर्थः । तत्प्रयोजनमाह- वज्रो वा एष भवतीति । “स्फ्यस्तृतीयं, रथस्तृतीयं, यूपस्तृतीयं” (तै. सं. ५ । २ । ६ । २) इति श्रुतेः । वज्रावयवत्वाद् यूपस्य वज्रत्वम् । अतो वज्रपात इव यूपार्थवृक्षपातः । लोकाः संरेजन्त इति । “भ्यसते रेजत इति भयवेपनयोः” (निरु. ३ । ४ । ४) इति यास्कः ॥ १३ ॥
Eggeling
- The falling (tree) he addresses with the text (Vāj. S. V; 43), ‘Graze not the sky! hurt not the air! unite with the earth!’ for verily that (tree) which they cut for the stake is a thunderbolt, and these worlds tremble for fear of that falling thunderbolt; but he thereby propitiates it for these worlds, and thus propitiated it injures not these worlds.
१४
विश्वास-प्रस्तुतिः
स यदा᳘ह॥
द्यां मा᳘लेखीरि᳘ति दि᳘वं मा᳘ हिᳫं᳭सीरि᳘त्ये᳘वैत᳘दाहान्त᳘रिक्षं मा᳘ हिᳫं᳭सीरि᳘ति ना᳘त्र तिरो᳘हितमिवास्ति पृथिव्या स᳘म्भवे᳘ति पृथिव्या स᳘ञ्जानीष्वे᳘त्ये᳘वैत᳘दाहायᳫं᳭ हि᳘ त्वा स्व᳘धितिस्ते᳘तिजानः प्रणिना᳘य महते सौ᳘भगाये᳘त्येष᳘ ह्येनᳫं᳭ स्व᳘धितिस्ते᳘जमानः प्रण᳘यति॥
मूलम् - श्रीधरादि
स यदा᳘ह॥
द्यां मा᳘लेखीरि᳘ति दि᳘वं मा᳘ हिᳫं᳭सीरि᳘त्ये᳘वैत᳘दाहान्त᳘रिक्षं मा᳘ हिᳫं᳭सीरि᳘ति ना᳘त्र तिरो᳘हितमिवास्ति पृथिव्या स᳘म्भवे᳘ति पृथिव्या स᳘ञ्जानीष्वे᳘त्ये᳘वैत᳘दाहायᳫं᳭ हि᳘ त्वा स्व᳘धितिस्ते᳘तिजानः प्रणिना᳘य महते सौ᳘भगाये᳘त्येष᳘ ह्येनᳫं᳭ स्व᳘धितिस्ते᳘जमानः प्रण᳘यति॥
मूलम् - Weber
स यदा᳘ह॥
द्याम् मा लेखीरि᳘ति दिवम् मा᳘ हिंसीरि᳘त्येॗवैत᳘दाहान्त᳘रिक्षम् मा᳘ हिंसीरि᳘ति ना᳘त्र तिरो᳘हितमिवास्ति पृथिव्या स᳘म्भवे᳘ति पृथिव्या सं᳘जानीष्वे᳘त्येॗवैत᳘दाहायᳫं हि᳘ त्वा स्व᳘धितिस्ते᳘तिजानः प्रणिना᳘य महते सौ᳘भगाये᳘त्येषॗ ह्येनᳫं स्व᳘धितिस्ते᳘जमानः प्र᳘णयति॥
मूलम् - विस्वरम्
स यदाह- “द्यां मा लेखीः” इति । दिवं मा हिंसीरित्येवैतदाह । अन्तरिक्षं मा हिंसीः- इति । नात्र तिरोहितमिवास्ति । “पृथिव्या सम्भव” इति । पृथिव्या सञ्जानीष्वेत्येवैतदाह- “अयं हि त्वा स्वधितिस्तेतिजानः प्रणिनाय महते सौभगाय”- (वा. सं. ५ । ४३) इति । एष ह्येनं स्वधितिस्तेजमानः प्रणयति ॥ १४ ॥
सायणः
स यदाहेति । “पृथिव्या सम्भव”- इत्यस्य तात्पर्यमाह- सञ्जानीष्वेत्येवैतदाहेति । सम्मतिमैकमत्यं प्राप्नुहीत्यर्थः । अयं हि त्वेति । सूत्रकारः पूर्वमन्त्रशेषत्वेन 13 स्वातन्त्र्येण चेति प्रविकल्पेनोक्तवान् । ‘अयं’ खलु ‘स्वधितिः’ छेदनसाधनपरशुः ‘तेतिजानः’ निशितो भवन् ‘महते’ ‘सौभगाय’ सुभगत्वाय, अष्टाश्र्याद्याकाराश्रयणाद्धि सुभगवते; अथवा सुभगो यज्ञः, स एव सौभगः, तदर्थत्वात् प्रणयनस्य । ‘प्रणिनाय’ प्रणयनं कृतवान्, पृथक् कृतवानित्यर्थः । छेदनाभावे प्रणयनासम्भवात् पूर्वशेषत्वपक्षे परशुना यज्ञार्थं छिन्नस्त्वं लोकत्रयमपीडयन्नधः पतेत्यर्थः । पृथग्विनियोगपक्षे उक्तलक्षणं त्वां शोधयामीत्यर्थः 14 ॥ १४ ॥
Eggeling
- Now when he says, ‘Graze not the sky,’ he means to say, ‘Injure not the sky!’ In the words ‘hurt not the air’ there is nothing obscure. By ‘Unite with the earth,’ he means to say, ‘Be thou in harmony with the earth!’ ‘For this sharp-edged axe hath led thee forward unto great bliss,’ for this sharp axe indeed leads it forward.
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाव्र᳘श्चनमभि᳘जुहोति॥
नेद᳘तो नाष्ट्रा र᳘क्षाᳫं᳭स्यनूत्ति᳘ष्ठानि᳘ति व्व᳘ज्रो वा ऽआ᳘ज्यं तद्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫं᳭स्य᳘वबाधते तथा᳘तो नाष्ट्रार᳘क्षाᳫं᳭सि᳘ नानू᳘त्तिष्ठन्त्य᳘थो रे᳘तो वा ऽआ᳘ज्यं तद्व᳘नस्प᳘तिष्वे᳘वैतद्रे᳘तो दधाति त᳘स्माद्रे᳘तस आव्व्र᳘श्चनाद्वनस्प᳘तयो᳘ ऽनु[[!!]] प्र᳘जायन्ते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाव्र᳘श्चनमभि᳘जुहोति॥
नेद᳘तो नाष्ट्रा र᳘क्षाᳫं᳭स्यनूत्ति᳘ष्ठानि᳘ति व्व᳘ज्रो वा ऽआ᳘ज्यं तद्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫं᳭स्य᳘वबाधते तथा᳘तो नाष्ट्रार᳘क्षाᳫं᳭सि᳘ नानू᳘त्तिष्ठन्त्य᳘थो रे᳘तो वा ऽआ᳘ज्यं तद्व᳘नस्प᳘तिष्वे᳘वैतद्रे᳘तो दधाति त᳘स्माद्रे᳘तस आव्व्र᳘श्चनाद्वनस्प᳘तयो᳘ ऽनु[[!!]] प्र᳘जायन्ते॥
मूलम् - Weber
अ᳘थाव्रश्चनमभि᳘जुहोति॥
नेद᳘तो नाष्ट्रा र᳘क्षांस्यनूत्ति᳘ष्ठानि᳘ति व᳘ज्रो वा आ᳘ज्यं तद्व᳘ज्रेणैॗवैत᳘न्नाष्ट्रा र᳘क्षांस्य᳘वबाधते तथा᳘तो नाष्ट्रा र᳘क्षांसिॗ नानू᳘त्तिष्ठन्त्य᳘थो रे᳘तो वा आ᳘ज्यं तद्व᳘नस्प᳘तिष्वेॗवैतद्रे᳘तो दधाति त᳘स्माद्रे᳘तस आव्र᳘श्चनाद्व᳘नस्प᳘तयो᳘ ऽनु प्र᳘जायन्ते॥
मूलम् - विस्वरम्
अथाव्रश्चनमभिजुहोति- नेदतो नाष्ट्रा रक्षांस्यनूत्तिष्ठानिति । वज्रो वा ऽआज्यम् । तद् वज्रेणैवैतन्नाष्ट्रा रक्षांस्यवबाधते । तथातो नाष्ट्रा रक्षांसि नानूत्तिष्ठन्ति । अथो रेतो वा ऽआज्यम् । तद् वनस्पतिष्वेवैतद् रेतो दधाति । तस्माद्रेतस आव्रश्चनाद्वनस्पतयो ऽनुप्रजायन्ते ॥ १५ ॥
सायणः
आव्रश्चनहोमं विधाय प्रशंसति- अथाव्रश्चनमभिजुहोति नेदतो नाष्ट्रेत्यादिना । आ समन्ताद् व्रश्चनम् ‘आव्रश्चम्’, तदभि तस्मिन् जुहोति । उक्तहोमविषये सूत्रकारो विकल्पयामास- “अतस्त्वमित्याव्रश्चने ऽभिजुहोति, यूपे वा तत्संस्कारात्, स्थाणौ श्रुतेश्च” इति (का. श्रौ. सू. ६ । २०-२२) होमसाधनस्याज्यस्य द्वे सामर्थ्ये; वज्ररूपेण रक्षकत्वम्, रेतोरूपेणोत्पादकत्वं चेति । अत आव्रश्चनप्रदेशहोमो वज्रः । तस्मात् स्थानाद्राक्षसादिकमुत्पन्नं न भवेत्, उत्पन्नञ्च परिकृतं भवति; तथा तत्र आव्रश्चनप्रदेशे रेतःस्थापनात् शाखाः बहुधा जायन्ते (तै. सं. २ । ५ । १ । ४) ॥ १५ ॥
Eggeling
- Upon the stump he then offers ghee, ’lest the evil spirits should rise therefrom after (the tree):’ ghee being a thunderbolt, he thus repels the evil spirits by means of the thunderbolt, and thus the evil spirits do not rise therefrom after it. And ghee being seed, he thus endows the trees with that seed; and from that seed (in) the stump trees are afterwards produced 15.
१६
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
(त्य᳘) अ᳘तस्त्वं᳘ देव व्वनस्पते शत᳘वल्शो व्वि᳘रोह सह᳘स्रवल्शा व्वि᳘ व्वय᳘ᳫं᳭ रुहेमे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
(त्य᳘) अ᳘तस्त्वं᳘ देव व्वनस्पते शत᳘वल्शो व्वि᳘रोह सह᳘स्रवल्शा व्वि᳘ व्वय᳘ᳫं᳭ रुहेमे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - Weber
स᳘ जुहोति॥
अ᳘तस्त्वं᳘ देव वनस्पते शत᳘वल्शो 16 वि᳘रोह सह᳘स्रवल्शा वि᳘ वयं᳘ रुहेमे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - विस्वरम्
स जुहोति- “अतस्त्वं देव वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयं रुहेम”- (वा० सं० ५ । ४३ ।) इति । नात्र तिरोहितमिवास्ति ॥ १६ ॥
सायणः
स जुहोतीति । आव्रश्चनहोममन्त्रस्यायमर्थः- हे ‘वनस्पते’ ‘देव !’ ‘त्वम्’ ‘अतः’ अस्मात् प्रदेशात् ‘शतवल्शः’ अपरिमितांकुरः सन् ‘विरोह’ प्रादुर्भव । ‘वयं’ च ‘सहस्रवल्शाः’ सन्तः ‘विरुहेम’ विविधं प्रादुर्भवेम ॥ १६ ॥
Eggeling
- He sacrifices with, ‘Grow thou out of this, O lord of the forest, with a hundred shoots!
May we grow out with a thousand shoots!’ There is nothing obscure in this.
१७
विश्वास-प्रस्तुतिः
तं प᳘रिवासयति॥
स या᳘वन्तमेवा᳘ग्रे परिवास᳘येत्ता᳘वान्त्स्यात्॥
मूलम् - श्रीधरादि
तं प᳘रिवासयति॥
स या᳘वन्तमेवा᳘ग्रे परिवास᳘येत्ता᳘वान्त्स्यात्॥
मूलम् - Weber
तम् प᳘रिवासयति॥
स या᳘वन्तमेवा᳘ग्रे परिवास᳘येत्ता᳘वान्त्स्यात्
मूलम् - विस्वरम्
तं परिवासयति । स यावन्तमेवाग्रे परिवासयेत्- तावान्त्स्यात् ॥ १७ ॥
सायणः
तं परिवासयतीति 17 । ‘तं’ यूपं वक्ष्यमाणेन परिमाणेन कृत्वा ‘परिवासयति’ आच्छिनत्ति । परिवासने विशेषमाह- स यावन्तमेवाग्र इति । ‘अग्रे’ प्रथमम्, प्रथमच्छेदकाले ‘यावन्तं’ यावत्परिमाणं ‘परिवासयेत्’, ‘तावान् स्यात्’ तावतैव भवितव्यम्, स्वापेक्षितप्रमाणाय न पुनश्छिन्द्यादित्यर्थः ॥ १७॥
Eggeling
- Thereupon he cuts it (the stake of the proper length): of whatever length he cuts it the first time, so long let it remain.
१८
विश्वास-प्रस्तुतिः
प᳘ञ्चारत्निं प᳘रिवासयेत्॥
(त्पा᳘) पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः संव्वत्सर᳘स्य त᳘स्मात्प᳘ञ्चारत्निं प᳘रिवासयेत्॥
मूलम् - श्रीधरादि
प᳘ञ्चारत्निं प᳘रिवासयेत्॥
(त्पा᳘) पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः संव्वत्सर᳘स्य त᳘स्मात्प᳘ञ्चारत्निं प᳘रिवासयेत्॥
मूलम् - Weber
प᳘ञ्चारत्निम् प᳘रिवासयेत्॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः संवत्सर᳘स्य त᳘स्मात्प᳘ञ्चारत्निम् प᳘रिवासयेत्॥
मूलम् - विस्वरम्
पञ्चारत्निं परिवासयेत् । पाङ्क्तो यज्ञः, पाङ्क्तः पशुः, पञ्चर्तवः संवत्सरस्य । तस्मात् पञ्चरात्निं परिवासयेत् ॥ १८ ॥
सायणः
यूपमानविषये पञ्चारत्निप्रभृति पञ्चदशारत्निपर्यन्तान् बहून् प्रकारान् विकल्पितान् दर्शयति- पञ्चारत्निं परिवासयेत् पाङ्क्तो यज्ञ इत्यादिना । “यो वै यज्ञे हविष्पंक्तिं वेद” (ऐ. ब्रा २ । ३ । ६) इत्यादिना यज्ञस्य हविरादित्रिपञ्चसंख्यायोगात् पशोः पांक्तत्वम् ॥ १८ ॥
Eggeling
- He may cut it five cubits long; for fivefold is the sacrifice and fivefold is the animal (victim), and five seasons there are in the year: therefore he may cut it five cubits long.
१९
विश्वास-प्रस्तुतिः
(त्ष᳘) ष᳘डरत्निं प᳘रिवासयेत्॥
(त्ष) षड्वा᳘ ऋत᳘वः संव्वत्सर᳘स्य संव्वत्सरो व्व᳘ज्रो व्व᳘ज्रो यू᳘पस्त᳘स्मात्ष᳘डरत्निं प᳘रिवासयेत्॥
मूलम् - श्रीधरादि
(त्ष᳘) ष᳘डरत्निं प᳘रिवासयेत्॥
(त्ष) षड्वा᳘ ऋत᳘वः संव्वत्सर᳘स्य संव्वत्सरो व्व᳘ज्रो व्व᳘ज्रो यू᳘पस्त᳘स्मात्ष᳘डरत्निं प᳘रिवासयेत्॥
मूलम् - Weber
ष᳘डरत्निम् प᳘रिवासयेत्॥
षड्वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सरो व᳘ज्रो व᳘ज्रो यू᳘पस्त᳘स्मात्ष᳘डरत्निम् प᳘रिवासयेत्॥
मूलम् - विस्वरम्
षडरत्निं परिवासयेत् । षड्वा ऽऋतवः संवत्सरस्य । संवत्सरो वज्रः । वज्रो यूपः । तस्मात् षडरत्निं परिवासयेत् ॥ १९ ॥
सायणः
षडरत्निमिति । संवत्सरो वज्र इति । संवत्सरस्य, वृत्रप्रहरणकाले पुनःपुनरावर्त्तनसाम्याद्वा, संवत्सरनिर्वर्त्तकस्यादित्यस्यासुरघातकत्वाद्वा सारभूतत्वाद्वा वज्रत्वम् ॥ १९ ॥
Eggeling
- He may cut it six cubits long; for six seasons there are in the year; and the year is a thunderbolt, as the sacrificial stake is a thunderbolt: therefore he may cut it six cubits long.
२०
विश्वास-प्रस्तुतिः
(द) अष्टा᳘रत्निं प᳘रिवासयेत्॥
(द) अष्टा᳘क्षरावै᳘ गायत्री᳘ पूर्वार्द्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्वार्द्ध᳘ एष᳘ यज्ञ᳘स्य त᳘स्मादष्टा᳘रत्निं प᳘रिवासयेत्॥
मूलम् - श्रीधरादि
(द) अष्टा᳘रत्निं प᳘रिवासयेत्॥
(द) अष्टा᳘क्षरावै᳘ गायत्री᳘ पूर्वार्द्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्वार्द्ध᳘ एष᳘ यज्ञ᳘स्य त᳘स्मादष्टा᳘रत्निं प᳘रिवासयेत्॥
मूलम् - Weber
अष्टा᳘रत्निम् प᳘रिवासयेत्॥
अष्टा᳘क्ष्रा वै᳘ गायत्री᳘ पूर्वार्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्वार्ध᳘ एष᳘ यज्ञ᳘स्य त᳘स्मादष्टा᳘रत्निम् प᳘रिवासयेत्॥
मूलम् - विस्वरम्
अष्टारत्निं परिवासयेत् । अष्टाक्षरा वै गायत्री पूर्वार्द्धो वै यज्ञस्य गायत्री । पूर्वार्द्ध एष यज्ञस्य । तस्मादष्टारत्निं परिवासयेत् ॥ २० ॥
सायणः
अष्टारत्निं परिवासयेदिति । पूर्वार्द्धो वै यज्ञस्य गायत्रीति- साक्षादवयवत्वेन ‘गायत्री’ प्रातस्सवनसम्बन्धाद् यज्ञस्य ‘पूर्वार्द्धः’ एषः यूपो ऽपि पुरस्तान्मीयमानत्वात् ‘पूर्वार्द्धः’ ॥ २० ॥
Eggeling
- He may cut it eight cubits long, (for eight syllables has the Gāyatrī, and the Gāyatrī is the fore-part of the sacrifice, as the sacrificial stake is the fore-part of the sacrifice: therefore he may cut it eight cubits long.
२१
विश्वास-प्रस्तुतिः
(न्न᳘) न᳘वारत्निं प᳘रिवासयेत्॥
(त्त्रि) त्रिवृद्वै᳘ यज्ञो न᳘व वै᳘ त्रिवृत्त᳘स्मान्न᳘वारत्निं प᳘रिवासयेत्॥
मूलम् - श्रीधरादि
(न्न᳘) न᳘वारत्निं प᳘रिवासयेत्॥
(त्त्रि) त्रिवृद्वै᳘ यज्ञो न᳘व वै᳘ त्रिवृत्त᳘स्मान्न᳘वारत्निं प᳘रिवासयेत्॥
मूलम् - Weber
न᳘वारत्निम् प᳘रिवासयेत्॥
त्रिवृद्वै᳘ यज्ञो न᳘व वै᳘ त्रिवृत्त᳘स्मान्न᳘वारत्निम् प᳘रिवासयेत्॥
मूलम् - विस्वरम्
नवारत्निं परिवासयेत् । त्रिवृद्वैः यज्ञः । नव वै त्रिवृत् । तस्मान्नवारत्निं परिवासयेत् ॥ २१ ॥
सायणः
नवारत्निमिति । त्रिंवृद्वै यज्ञ इति । त्रिवृदादिस्तोमसाध्यत्वात् सवनभेदेन त्रिवृत्त्वाद्वा, ‘यज्ञस्त्रिवृत्’ । स च ‘त्रिवृत्’ स्तोमः ‘नव वै’; स्तोत्रियनवकरूपत्वात् ॥ २१ ॥
Eggeling
- He may cut it nine cubits long, for threefold is the sacrifice, and ’nine’ is threefold: therefore he may cut it nine cubits long.
२२
विश्वास-प्रस्तुतिः
(दे᳘) ए᳘कादशारत्निं प᳘रिवासयेत्॥
(दे᳘) ए᳘कादशाक्षरा वै᳘ त्रिष्टुब्वज्रस्त्रिष्टुब्व᳘ज्रो यू᳘पस्त᳘स्मादे᳘कादशारत्निं प᳘रिवासयेत्॥
मूलम् - श्रीधरादि
(दे᳘) ए᳘कादशारत्निं प᳘रिवासयेत्॥
(दे᳘) ए᳘कादशाक्षरा वै᳘ त्रिष्टुब्वज्रस्त्रिष्टुब्व᳘ज्रो यू᳘पस्त᳘स्मादे᳘कादशारत्निं प᳘रिवासयेत्॥
मूलम् - Weber
ए᳘कादशारत्निम् प᳘रिवासयेत्॥
ए᳘कादशाक्षरा वै᳘ त्रिष्टुब्वज्रस्त्रिष्टुब्व᳘ज्रो यू᳘पस्त᳘स्मादे᳘कादशारत्निं प᳘रिवासयेत्॥
मूलम् - विस्वरम्
एकादशारत्निं परिवासयेत् । एकादशाक्षरा वै त्रिष्टुप् वज्रस्त्रिष्टुप् । वज्रो यूपः । तस्मादेकादशारत्निं परिवासयेत् ॥ २२ ॥
सायणः
एकादशारत्निमिति । वज्रस्त्रिष्टुबिति । त्रिष्टुभा सह प्रजापतेः सकाशादुत्पन्नत्वात् । सा चोत्पत्तिरिन्द्रद्वारा वेदितव्या (तै. सं. ७ । १ । १ । ४) ॥ २२ ॥
Eggeling
- He may cut it eleven cubits long, for eleven syllables has the Trishṭubh, and the Trishṭubh is a thunderbolt, as the sacrificial stake is a thunderbolt: therefore he may cut it eleven cubits long.
२३
विश्वास-प्रस्तुतिः
(द्द्वा᳘) द्वा᳘दशारत्निं प᳘रिवासयेत्॥
(द्द्वा᳘) द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरो व्व᳘ज्रो व्व᳘ज्रो यू᳘पस्त᳘स्माद्द्वा᳘दशारत्निं प᳘रिवासयेत्॥
मूलम् - श्रीधरादि
(द्द्वा᳘) द्वा᳘दशारत्निं प᳘रिवासयेत्॥
(द्द्वा᳘) द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरो व्व᳘ज्रो व्व᳘ज्रो यू᳘पस्त᳘स्माद्द्वा᳘दशारत्निं प᳘रिवासयेत्॥
मूलम् - Weber
द्वा᳘दशारत्निम् प᳘रिवासयेत्॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सरो व᳘ज्रो व᳘ज्रो यू᳘पस्त᳘स्माद्द्वा᳘दशारत्निम् प᳘रिवासयेत्॥
मूलम् - विस्वरम्
द्वादशारत्निं परिवासयेत् । द्वादश वै मासाः संवत्सरस्य । संवत्सरो वज्रः । वज्रो यूपः । तस्माद् द्वादशारत्निं परिवासयेत् ॥ २३ ॥
सायणः
द्वादशारत्निमिति । उक्तं संवत्सरस्य वज्रत्वम् ॥ २३ ॥ २४ ॥
Eggeling
- He may cut it twelve cubits long, for twelve months there are in the year, and the year is a thunderbolt, as the sacrificial stake is a thunderbolt: therefore he may cut it twelve cubits long.
२४
विश्वास-प्रस्तुतिः
(त्त्र᳘) त्र᳘योदशारत्निं प᳘रिवासयेत्॥
(त्त्र᳘) त्र᳘योदश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरो व्व᳘ज्रो व्व᳘ज्रो यू᳘पस्त᳘स्मात्त्र᳘योदशारत्निं प᳘रिवासयेत्॥
मूलम् - श्रीधरादि
(त्त्र᳘) त्र᳘योदशारत्निं प᳘रिवासयेत्॥
(त्त्र᳘) त्र᳘योदश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरो व्व᳘ज्रो व्व᳘ज्रो यू᳘पस्त᳘स्मात्त्र᳘योदशारत्निं प᳘रिवासयेत्॥
मूलम् - Weber
त्र᳘योदशारत्निम् प᳘रिवासयेत्॥
त्र᳘योदश वै मा᳘साः संवत्सर᳘स्य संवत्सरो व᳘ज्रो व᳘ज्रो यू᳘पस्त᳘स्मात्त्र᳘योदशारत्निम् प᳘रिवासयेत्॥
मूलम् - विस्वरम्
त्रयोदशारत्निं परिवासयेत् । त्रयोदश वै मासाः संवत्सरस्य । संवत्सरो वज्रः । वज्रो यूपः । तस्मात्त्रयोदशारत्निं परिवासयेत् ॥ २४ ॥
सायणः
[व्याख्यानं त्रयोविंशतितमे]
Eggeling
- He may cut it thirteen cubits long, for thirteen months there are in a year, and the year is a thunderbolt, as the sacrificial stake is a thunderbolt: therefore he may cut it thirteen cubits long.
२५
विश्वास-प्रस्तुतिः
प᳘ञ्चदशारत्निं प᳘रिवासयेत्॥
पञ्चदशो वै व्व᳘ज्रो व्व᳘ज्रो यू᳘पस्त᳘स्मात्प᳘ञ्चदशारत्निं प᳘रिवासयेत्॥
मूलम् - श्रीधरादि
प᳘ञ्चदशारत्निं प᳘रिवासयेत्॥
पञ्चदशो वै व्व᳘ज्रो व्व᳘ज्रो यू᳘पस्त᳘स्मात्प᳘ञ्चदशारत्निं प᳘रिवासयेत्॥
मूलम् - Weber
प᳘ञ्चदशारत्निम् प᳘रिवासयेत्॥
पञ्चदशो वै व᳘ज्रो व᳘ज्रो यू᳘पस्त᳘स्मात्प᳘ञ्चदशारत्निम् प᳘रिवासयेत्॥
मूलम् - विस्वरम्
पञ्चदशारत्निं परिवासयेत् । पञ्चदशो वै वज्रः । वज्रो यूपः । तस्मात् पञ्चदशारत्निं परिवासयेत् ॥ २५ ॥
सायणः
पञ्चदशारत्निमिति । पञ्चदशो वै वज्र इति । एतदपि “उरसो बाहुभ्यां पञ्चदशं निरमिमीत, तमिन्द्रो देवता ऽन्वसृज्यत”- (तै. सं. ७ । १ । १ । ४) इति श्रुतेः । पञ्चदशस्येन्द्रसम्बन्धाद् द्रष्टव्यम् ॥ २५ ॥
Eggeling
- He may cut it fifteen cubits long, for the
fifteen-versed chant is a thunderbolt 18, as the sacrificial stake is a thunderbolt: therefore he may cut it fifteen cubits long.
२६
विश्वास-प्रस्तुतिः
सप्त᳘दशारत्निर्व्वाजपेययूपः[[!!]]॥
(पो᳘ ऽप) अ᳘परिमित एव᳘ स्याद᳘परिमितेन वा᳘ ऽएते᳘न व्व᳘ज्रेण देवा ऽअ᳘परिमितमजयंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘परिमितेनैवा᳘परिमितं जयति त᳘स्माद᳘परिमित ऽएव᳘ स्यात्॥
मूलम् - श्रीधरादि
सप्त᳘दशारत्निर्व्वाजपेययूपः[[!!]]॥
(पो᳘ ऽप) अ᳘परिमित एव᳘ स्याद᳘परिमितेन वा᳘ ऽएते᳘न व्व᳘ज्रेण देवा ऽअ᳘परिमितमजयंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘परिमितेनैवा᳘परिमितं जयति त᳘स्माद᳘परिमित ऽएव᳘ स्यात्॥
मूलम् - Weber
सप्ता᳘दशारत्निर्वाजपेययू᳘पः॥
अ᳘परिमित एव᳘ स्याद᳘परिमितेन वा᳘ एते᳘न व᳘ज्रेण देवा अ᳘परिमितमजयंस्त᳘थो एॗवैष एते᳘न व᳘ज्रेणा᳘परिमितेनैवा᳘परिमितं जयति त᳘स्माद᳘परिमित एव᳘ स्यात्॥
मूलम् - विस्वरम्
सप्तदशारत्निर्वाजपेययूपः, अपरिमित एव स्यात् । अपरिमितेन वा ऽएतेन वज्रेण देवा अपरिमितमजयन् । तथो ऽएवैष एतेन वज्रेणापरिमितेनैवापरिमितं जयति । तस्मादपरिमित एव स्यात् ॥ २६ ॥
सायणः
सप्तदशारत्निर्वाजपेययूप 19 इति । अतो ऽत्र स न गृह्यते । इत्थं बहून् पक्षानुपन्यस्यातो ऽप्यधिकमप्युन्मानमनुजानाति- अपरिमित एव स्यादिति । तत्र कारणमाह- अपरिमितेन वेति । वज्रस्याचिन्त्यमहिमत्वाद् देवानां प्रयोजनानुसारेण तत्प्रमाणस्वीकाराद् यूपो ऽप्यपरिमितो भवेदित्यर्थः ॥ २६ ॥
Eggeling
- The sacrificial stake of the Vājapeya sacrifice is seventeen cubits long. Indeed, it may be unmeasured 20, for with that same unmeasured thunderbolt did the gods conquer the unmeasured; and in like manner does he now conquer the unmeasured with that unmeasured thunderbolt: therefore it may even be unmeasured.
२७
विश्वास-प्रस्तुतिः
त्स वा᳘ ऽअष्टा᳘श्रिर्भवति॥
(त्य) अष्टा᳘क्षरा वै᳘ गायत्री᳘ पूर्व्वार्द्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्व्वार्द्ध᳘ ऽएष[[!!]] यज्ञ᳘स्य त᳘स्मादष्टा᳘श्रिर्भवति॥
मूलम् - श्रीधरादि
त्स वा᳘ ऽअष्टा᳘श्रिर्भवति॥
(त्य) अष्टा᳘क्षरा वै᳘ गायत्री᳘ पूर्व्वार्द्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्व्वार्द्ध᳘ ऽएष[[!!]] यज्ञ᳘स्य त᳘स्मादष्टा᳘श्रिर्भवति॥
मूलम् - Weber
स वा᳘ अष्टा᳘श्रिर्भवति॥
अष्टा᳘क्षरा वै᳘ गायत्री᳘ पूर्वार्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्वार्धे᳘ एष᳘ यज्ञ᳘स्य त᳘स्मादष्टा᳘श्रिर्भवति॥
मूलम् - विस्वरम्
स वा ऽअष्टाश्रिर्भवति । अष्टाक्षरा वै गायत्री । पूर्वार्द्धो वै यज्ञस्य गायत्री । पूर्वार्द्ध एष यज्ञस्य । तस्मादष्टाश्रिर्भवति ॥ २७ ॥
सायणः
स वा अष्टाश्रिर्भवतीत्यादि (का. श्रौ. सू. ६ । २७) 19 स्पष्टम् । कात्यायनो ऽपि पञ्चारत्न्यादिपक्षान् विकल्पयामास- “पञ्चारत्निः पञ्चदशपर्यन्तः सोमे, दशसप्तचतुर्दशवर्जमपरिमितो वा”- (का. श्रौ. सू. ६ । २९) इति ॥ २७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे षष्ठाध्याये चतुर्थं ब्राह्मणम् ॥ ३-६-४ ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ १ ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ २ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे षष्ठो ऽध्यायः समाप्तः ॥ ३ ॥ ६ ॥
Eggeling
- It is (made to be) eight-cornered, for eight syllables has the Gāyatrī, and the Gāyatrī is the fore-part of the sacrifice, as this (stake) is the forepart of the sacrifice: therefore it is eight-cornered.
-
यूपाहुतिं जुहोति चतुर्गृहीतँ स्रुवेणोरुव्विष्णविति । का. श्रौ. सू. ६ । ४ । ↩︎
-
162:2 This oblation is called yūpāhuti, or ‘stake-offering.’ ↩︎
-
आज्यशेषमादाय सतक्षागच्छति यूपम् । का. श्रौ. सू. ६ । ५ । ↩︎ ↩︎
-
अ᳘गा᳘न्ना A. ↩︎
-
163:1 ‘Vanaspati’ is a common synonym of vr̥ksha, tree. ↩︎
-
स्रुवेणोपस्पृशति व्विष्णवे त्वेति । का. श्रौ. सू. ६ । ११ । ↩︎ ↩︎
-
164:1 Viz. he places or holds it against where he is about to strike the tree, so as first to cut the grass. ↩︎
-
तथा᳘नो. ↩︎
-
अनक्षस्तंभं व्वृश्चति । एकजं । का. श्रौ. सू. ६ । १४ । १५ । ↩︎
-
164:2 For the destination of this chip of the bark, see III, 7, 1, 8. ↩︎
-
164:3 That is to say, he is not to cut the tree too high from the ground, so that the axle of the cart might readily pass over the remaining stump without touching it. The Kāṇva text reads, ’tam anakshastambhe vr̥śced uta hy enam anasā vakshyanto bhavanty uto svargaṁ hāsya lokaṁ yate (sic) ’kshastambhaḥ syāt tasmād anakshastambhe vr̥ścet.’ Nothing is said anywhere about the yūpa being conveyed on a cart to the sacrificial ground, if, indeed, that statement refer to the yūpa at all. Sāyaṇa’s comment is very corrupt here, but he seems to interpret the passage to the effect that some people might convey the stake on the cart (pakshe anasā yūpaṁ nayeyuḥ) and that in that case the cart would be obstructed. ↩︎
-
अमिमंत्रणशेषोवाविशेषोपदेशात् । का. श्रौ. सू. ६ । १९ । ↩︎
-
अयँ हि त्वेति शोधनम् । का. श्रौ. सू. ६ । १८ । ↩︎
-
165:1 Or, ‘hence trees grow up again from the stump (? after felling, “ā vraścanāt”) out of seed.’ ↩︎
-
वल्ट्शो, वल्ट्शा A. ↩︎
-
परिवास्योच्छेदनं पुनः । का० श्रौ० सू० ६ । २३ । ↩︎
-
167:1 On the connection of the Pañcadaśa-stoma with Indra, the wielder of the thunderbolt, see part i, introduction, p. xviii. ↩︎
-
167:2 The Kāṇva text leaves an option first between stakes six, eight, eleven, fifteen (and for the Vājapeya seventeen) cubits long; and finally lays down the rule that no regard is to be had to any fixed measure. ↩︎