०१

विश्वास-प्रस्तुतिः

स᳘र्व्वं वा᳘ ऽए᳘षो ऽभि᳘दीक्षते॥
यो दी᳘क्षते यज्ञ᳘ᳫं᳘ ह्यभि ड[ड???]] दी᳘क्षते यज्ञ᳘ᳫँ᳘[[!!]] ह्ये᳘वेदᳫँ᳭ स᳘र्व्वम᳘नु तं᳘ यज्ञ᳘ᳫं᳘सम्भृ᳘त्य य᳘मिम᳘मभिदी᳘क्षते स᳘र्व्वमिदं व्वि᳘सृजते॥

मूलम् - श्रीधरादि

स᳘र्व्वं वा᳘ ऽए᳘षो ऽभि᳘दीक्षते॥
यो दी᳘क्षते यज्ञ᳘ᳫं᳘ ह्यभि ड[ड???]] दी᳘क्षते यज्ञ᳘ᳫँ᳘[[!!]] ह्ये᳘वेदᳫँ᳭ स᳘र्व्वम᳘नु तं᳘ यज्ञ᳘ᳫं᳘सम्भृ᳘त्य य᳘मिम᳘मभिदी᳘क्षते स᳘र्व्वमिदं व्वि᳘सृजते॥

मूलम् - Weber

स᳘र्वं वा᳘ एॗषो ऽभि᳘ दीक्षते॥
यो दी᳘क्षते यज्ञᳫं ह्य᳘भि दी᳘क्षते यॗज्ञᳫं ह्येॗवेदᳫं स᳘र्वम᳘नु तं᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्य य᳘मिम᳘मभि दी᳘क्षते स᳘र्वमिदं विसृजते॥

मूलम् - विस्वरम्

वैसर्जनहोमः ।

सर्वं वा ऽएषो ऽभिदीक्षते यो दीक्षते- यज्ञं ह्यभिदीक्षते । यज्ञं ह्येवेदं सर्वमनु । तं यज्ञं सम्भृत्ययमिममभिदीक्षते- सर्वमिदं विसृजते ॥ १ ॥

सायणः

वैसर्जनीयानि विधातुमाह- सर्वं वा एषो ऽभिदीक्षत इति । यो दीक्षते एष इति सम्बन्धः । कथं सर्वमभीति, तत्राह- यज्ञं ह्यभिदीक्षत इति । यज्ञस्य कथं सर्वत्वमिति, तत्राह- यज्ञं ह्येवेदं सर्वमन्विति । ‘इदं सर्वं’ ‘यज्ञम्’ ‘अनु’-सृत्य उत्पन्नम्; कर्म्मफलं वा सर्वस्य जगतः । ‘यमिमं’ सर्वं भूतं ‘यज्ञम्’ ‘अभि-’ लक्ष्य ‘दीक्षते’ ‘तं’ यज्ञं ‘सम्भृत्य’ वैसर्जनहोमान्तं प्राचीनमङ्गजातं कृत्वेत्यर्थः । कृष्णाजिनमेखलादिकं तदिदं ‘सर्वं’ ‘विसृजते’ । पूर्वं व्रतपरित्यागासम्भवात् होमानन्तरं व्रतपरित्यागः ॥ १ ॥

Eggeling
  1. Verily he who consecrates himself, consecrates himself for the sake of this All; for he consecrates himself for the sacrifice, and this All indeed results from 1 the sacrifice; having prepared the sacrifice for which he consecrates himself, he now sets free (or produces) this All.

०२

विश्वास-प्रस्तुतिः

य᳘द्वैसर्जना᳘नि जुहो᳘ति॥
स य᳘दिदᳫँ᳭ स᳘र्वं व्विसृज᳘ते त᳘स्माद्वैसर्जना᳘नि ना᳘म त᳘स्माद्यो᳘ ऽपिव्रतः स्या᳘त्सो ऽन्वा᳘रभेत य᳘द्यु ऽअन्य᳘त्र च᳘रेन्ना᳘द्रियेत यद्वै᳘ जुहो᳘ति त᳘दे᳘वेदᳫँ᳭ स᳘र्व्वं व्वि᳘सृजते॥

मूलम् - श्रीधरादि

य᳘द्वैसर्जना᳘नि जुहो᳘ति॥
स य᳘दिदᳫँ᳭ स᳘र्वं व्विसृज᳘ते त᳘स्माद्वैसर्जना᳘नि ना᳘म त᳘स्माद्यो᳘ ऽपिव्रतः स्या᳘त्सो ऽन्वा᳘रभेत य᳘द्यु ऽअन्य᳘त्र च᳘रेन्ना᳘द्रियेत यद्वै᳘ जुहो᳘ति त᳘दे᳘वेदᳫँ᳭ स᳘र्व्वं व्वि᳘सृजते॥

मूलम् - Weber

य᳘द्वैसर्जिना᳘नि जुहो᳘ति॥
स य᳘दिदᳫं स᳘र्वं विसृजते त᳘स्माद्वैसर्जिना᳘नि ना᳘म त᳘स्माद्यो᳘ ऽपिव्रतः स्याॗत्सो ऽन्वा᳘रभेत य᳘द्यु अन्यत्र च᳘रेन्ना᳘द्रियेत यद्वै᳘ जुहो᳘ति त᳘देॗवेदᳫं स᳘र्वं वि᳘सृजते॥

मूलम् - विस्वरम्

यद्वैसर्जनानि जुहोति । स यदिदं सर्वं विसृजते- तस्माद्वैसर्जनानि नाम । तस्माद्यो ऽपिव्रतः स्यात्- सो ऽन्वारभेत । यद्यु ऽअन्यत्र चरेन्नाद्रियेत । यद्वै जुहोति- तदेवेदं सर्वं विसृजते ॥ २ ॥

सायणः

यद् वैसर्जनानि जुहोतीति 2 । विसर्जनसाधनत्वाद् वैसर्जनानीति नाम सम्पन्नम् । ‘तस्माद्’ विसर्जनसम्बन्धित्वाद्- ‘यो ऽपिव्रतः 3 स्यात्’ व्रतं भोजनं, यजमानेन सह प्राप्तभोजनः स्याद्, बन्धुवर्गः स्यादित्यर्थः । “समपिव्रतान् ह्वयध्वमिति सम्प्रेष्यति-” (आप. श्रौ. सू. ११ । १६ । १२) इत्यापस्तम्बेनोक्तम् । ‘सः’ यजमानः ‘अन्वारभेत’ । यद्यपि कश्चिद् ‘अन्यत्र’ देशान्तरे वर्त्तते, ‘तन्नाद्रियेत’ सर्वथा ऽऽह्वातव्य इति बुद्धिं न कुर्य्यात् । तथा च कात्यायनः- “अपिव्रताश्चान्वारभन्ते यजमानं, वाससा ऽऽच्छादयत्येनान्, चरत्सु नाद्रियेत”- इति (का. श्रौ. सू. ८ । १७८-१८०) ‘यद् वै’ यदेव जुहोति वैसर्जनानि, ‘तदेवेदं’ ‘सर्वं’ व्रतं ‘विसृजते’ विसर्जयेत् ॥ २ ॥

Eggeling
  1. The reason why he performs the Vaisarjina offerings is this. They are called Vaisarjina, because he sets free (vi-sarj) this All; wherefore let him who takes part in the rite 4 touch (the sacrificer) from behind; but if he have to go elsewhere (on business) he need not heed this. When he sacrifices, he sets free this All.

०३

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वैसर्जना᳘नि जुहो᳘ति॥
यज्ञो वै व्वि᳘ष्णुः स᳘ देवे᳘भ्य इमां व्वि᳘क्रान्तिं᳘ व्वि᳘चक्रमे᳘ यैषामियं व्वि᳘क्रान्तिरिद᳘मेव᳘ प्रथमे᳘न पदे᳘न पस्पारा᳘थेद᳘मन्त᳘रिक्षं द्विती᳘येन दि᳘वमुत्तमे᳘नैता᳘म्वे᳘वैष᳘ ऽएत᳘स्मै व्वि᳘ष्णुर्यज्ञो व्वि᳘क्रान्तिं व्वि᳘क्रमते य᳘ज्जुहो᳘ति त᳘स्माद्वैसर्जना᳘नि जुहोति᳘॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वैसर्जना᳘नि जुहो᳘ति॥
यज्ञो वै व्वि᳘ष्णुः स᳘ देवे᳘भ्य इमां व्वि᳘क्रान्तिं᳘ व्वि᳘चक्रमे᳘ यैषामियं व्वि᳘क्रान्तिरिद᳘मेव᳘ प्रथमे᳘न पदे᳘न पस्पारा᳘थेद᳘मन्त᳘रिक्षं द्विती᳘येन दि᳘वमुत्तमे᳘नैता᳘म्वे᳘वैष᳘ ऽएत᳘स्मै व्वि᳘ष्णुर्यज्ञो व्वि᳘क्रान्तिं व्वि᳘क्रमते य᳘ज्जुहो᳘ति त᳘स्माद्वैसर्जना᳘नि जुहोति᳘॥

मूलम् - Weber

य᳘द्वेव᳘ वैसर्जिना᳘नि जुहो᳘ति॥
यज्ञो वै वि᳘ष्णुः स᳘ देवे᳘भ्य इमां वि᳘क्रान्तिं वि᳘चक्रमेॗ यैषामियं वि᳘क्रान्तिरिद᳘मेव᳘ प्रथमे᳘न पदे᳘न पस्पारा᳘थेद᳘मन्त᳘रिक्षं द्विती᳘येन दि᳘वमुत्तमे᳘नैता᳘म्वेॗवैष᳘ एत᳘स्मै वि᳘ष्णुर्यज्ञो वि᳘क्रान्तिं वि᳘क्रमते य᳘ज्जुहो᳘ति त᳘स्माद्वैसर्जिना᳘नि जुहोति॥

मूलम् - विस्वरम्

यद्वेव वैसर्जनानि जुहोति । यज्ञो वै विष्णुः, स देवेभ्य इमां विक्रान्तिं विचक्रमे- यैषामियं विक्रान्तिः । इदमेव प्रथमेन पदेन पस्पार, अथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेन । एताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्तिं विक्रमते- यज्जुहोति । तस्माद्वैसर्जनानि जुहोति ॥ ३॥

सायणः

वैसर्जनहोमं प्रकारान्तरेण प्रशंसति- यद्वेव वैसर्जनानि जुहोति यज्ञो वै विष्णुरित्यादिना (तै. सं. ६ । ३ । २ । १) विक्रान्तिं विशिनष्टि- यैषामियं विक्रान्तिरिति । येयमिदानीं परिदृश्यमानप्रकारा स्वाधीनलोकत्रयरूपा ‘विक्रान्तिः’ इति एष यज्ञाख्यो ‘विष्णुः’ ‘एतस्मै’ यजमानाय ‘विक्रमते’ । विष्णोर्विक्रमणं कुतो लभ्यत इति तद् दर्शयति- यज्जुहोतीति । आहवनीयाग्नीद्धोत्तरवेदिरूपेषु त्रिषु स्थानेषु होम एवात्र यज्ञाख्यस्य विष्णोर्यजमानार्थभूरादिलोकत्रयव्याप्तिरित्यर्थः । तस्माद्वैसर्जनहोमाः कर्त्तव्या इत्यर्थः (तै. सं. ६ । ३ । २ । १) ॥ ३ ॥

Eggeling
  1. And again why he performs the Vaisarjina offerings. Vishṇu, forsooth, is the sacrifice; by his strides he obtained (vi-kram) for the gods that all-pervading power (vikrānti) which now belongs to them; by his first step he gained this same (earth); by the second, the region of air; and by the last,

the heaven. And that same pervading power Vishṇu, the sacrifice, obtains by his strides for this (sacrificer) when he sacrifices: this is why he performs the Vaisarjina offerings.

०४

विश्वास-प्रस्तुतिः

सो ऽपराह्णे व्वे᳘दिᳫं᳭ स्ती᳘र्त्वा॥
(र्त्वा ऽर्द्ध) अर्द्धव्व्रतं᳘ प्रदा᳘य सम्प्र᳘पद्यन्त ऽइध्म᳘मभ्या᳘दधत्युपय᳘मनीरु᳘पकल्पयन्त्या᳘ज्यम᳘धिश्रयति स्रु᳘चः स᳘म्मार्ष्ट्युप᳘स्थे रा᳘जानं य᳘जमानः कुरुते᳘ ऽथ सोमक्र᳘यण्यै पदं᳘ जघ᳘नेन गा᳘र्हपत्यं प᳘रिकिरति पदा वै प्र᳘तितिष्ठति प्र᳘तिष्ठित्या ऽएव[[!!]]॥

मूलम् - श्रीधरादि

सो ऽपराह्णे व्वे᳘दिᳫं᳭ स्ती᳘र्त्वा॥
(र्त्वा ऽर्द्ध) अर्द्धव्व्रतं᳘ प्रदा᳘य सम्प्र᳘पद्यन्त ऽइध्म᳘मभ्या᳘दधत्युपय᳘मनीरु᳘पकल्पयन्त्या᳘ज्यम᳘धिश्रयति स्रु᳘चः स᳘म्मार्ष्ट्युप᳘स्थे रा᳘जानं य᳘जमानः कुरुते᳘ ऽथ सोमक्र᳘यण्यै पदं᳘ जघ᳘नेन गा᳘र्हपत्यं प᳘रिकिरति पदा वै प्र᳘तितिष्ठति प्र᳘तिष्ठित्या ऽएव[[!!]]॥

मूलम् - Weber

सो ऽपराह्णे वे᳘दिᳫं स्ती᳘र्त्वा॥
अर्धव्रत᳘म् प्रदा᳘य सम्प्र᳘पद्यन्त इध्म᳘मभ्या᳘दधत्युपय᳘मनीरु᳘पकल्पयन्त्या᳘ज्यम᳘धिश्रयति स्रु᳘चः स᳘म्मार्ष्ट्युप᳘स्थे रा᳘जानं य᳘जमानः कुरुते᳘ ऽथ सोमक्र᳘यण्यै पदं᳘ जघ᳘नेन गा᳘र्हपत्यम् प᳘रिकिरति पदा वै प्र᳘तितिष्ठति प्र᳘तिष्ठित्या एव᳟॥

मूलम् - विस्वरम्

सो ऽपराह्णे वेदिं स्तीर्त्वा, अर्द्धव्रतं प्रदाय, सम्प्रपद्यन्ते । इध्ममभ्यादधति । उपयमनीरुपकल्पयन्ति । आज्यमधिश्रयति । स्रुचः सम्मार्ष्टि । उपस्ये राजानं यजमानः कुरुते । अथ सोमक्रयण्यै पदं जघनेन गार्हपत्यं परिकिरति । यदा वै प्रतितिष्ठति प्रतिष्ठित्या ऽएव ॥ ४ ॥

सायणः

इत्थं वैसर्जनानि विधाय तद्धोमकालं मन्त्रं च विधास्यन् अन्तरालवर्तिनमग्नीषोमीयप्रयोगमाह- सो ऽपराह्णे वेदिं स्तीर्त्वेत्यादिना । ‘अपराह्णे तृतीययामे दिनस्यापराह्णकाले सौमिकवेदिं स्तीर्त्वा । अर्द्धव्रतं प्रदायेति । तस्मिन् दिने एकस्नानम्, व्रतार्द्धस्य प्रातर्व्रतार्थमुपयुक्तत्वादर्द्धव्रतं प्रदायेत्युक्तम् । स्पष्टमन्यत् । अथ सोमक्रयण्यै पदं जघनेन गार्हपत्यं परिकिरतीति । सोमक्रयकाले य एकहायन्याः सप्तमपदपांसुर्धृतः (श. प. ब्रा. ३ । ३ । १ । ३-१०) तं प्राचीनवंशगतस्याहवनीयस्य पश्चाद्भागे प्रक्षिपेदित्यर्थः प्रक्षेपं प्रशंसति- पदा वै प्रतितिष्ठति प्रतिष्ठित्या एवेति । पदसम्बद्धपांसोः प्रतिष्ठारूपायामाहवनीयजघनार्द्धप्रदेशलक्षणपृथिव्यां स्थापनं यजमानस्य ‘पदा’ प्रतिष्ठितिर्भवति; अतः स क्षेपः ‘प्रतिष्ठित्यै’ सम्पद्यते ॥ ४ ॥

Eggeling
  1. In the afternoon, having covered the altar (with sacrificial grass), and handed (to the sacrificer and his wife) one half of the fast-milk, they enter (the hall), put fire-wood on 5, and prepare the under-layer (of gravel). He (the Adhvaryu) puts the butter on (the old Gārhapatya), and cleans the spoons. The sacrificer takes the king (Soma) on his lap. He (the Adhvaryu) scatters about the (dust of the) foot-print of the Soma-cow behind the (new) Gārhapatya for the sake of a firm standing, for it is with the foot that one stands firmly.

०५

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
चतुर्द्धा कुर्व्वन्ति य᳘त्राहवनी᳘यमुद्ध᳘रन्ति ता᳘सूपय᳘मनीषु चतुर्भागम᳘क्षं चतुर्भागेणो᳘पाञ्जन्त्येता᳘सूपय᳘मनीषु चतुर्भागं᳘ जघ᳘नेन गा᳘र्हपत्यं चतुर्भागं प᳘रिकिरति॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
चतुर्द्धा कुर्व्वन्ति य᳘त्राहवनी᳘यमुद्ध᳘रन्ति ता᳘सूपय᳘मनीषु चतुर्भागम᳘क्षं चतुर्भागेणो᳘पाञ्जन्त्येता᳘सूपय᳘मनीषु चतुर्भागं᳘ जघ᳘नेन गा᳘र्हपत्यं चतुर्भागं प᳘रिकिरति॥

मूलम् - Weber

तद्धै᳘के॥
चतुर्धा᳘ कुर्वन्ति य᳘त्राहवनी᳘यमुद्ध᳘रन्ति ता᳘सूपय᳘मनीषु चतुर्भागम᳘क्षं चतुर्भागेणो᳘पाञ्जन्त्येता᳘सूपय᳘मनीषु चतुर्भागं᳘ जघ᳘नेन गा᳘र्हपत्यं चतुर्भागम् प᳘रिकिरति॥

मूलम् - विस्वरम्

तद्धैके चतुर्द्धा कुर्वन्ति । यत्राहवनीयमुद्धरन्ति । तासूपयमनीषु चतुर्भागमक्षं चतुर्भागेणोपाञ्जन्ति । एतासूपयमनीषु चतुर्भागं जयनेन गार्हपत्यं चतुर्भागं परिकिरति ॥ ५ ॥

सायणः

पदपांसोः चतुर्द्धा विभज्य विनियोगः केषाञ्चित् पक्षः, तमुदाहृत्य निराचष्टे- तद्धैके चतुर्द्धा कुर्वन्तीत्यादिना । एतासूपयमनीष्विति । अग्नीषोमीयप्रणयनकालीनास्वित्यर्थः । अनेनैवाभिप्रायेण जघनेन सोमक्रयणी पदपांसोर्विनियोगो नोक्तः कात्यायनेन । अत्र “अग्नीषोमीयावेदेः 6 स्तरणमग्रहणं प्रस्तरस्यापराह्णे ऽर्द्धव्रते”- इत्यादि, “शालाद्वार्यमपरेण सोमक्रयणीपदं प्रकिरति चतुर्द्धैके”- इत्यन्तं 7 सूत्रजातं द्रष्टव्यम् ॥ ५ ॥

Eggeling
  1. Now some divide it (the dust) into four parts 8: one fourth part (they put) into the under-layer whereon they take up the Āhavanīya (for transferring it to the high altar); with one fourth part they anoint the axle; one fourth part (they put) into this underlayer (for taking out the Āgnīdhrīya fire); and one fourth part he scatters about behind the Gārhapatya.

०६

विश्वास-प्रस्तुतिः

त᳘दु त᳘था न᳘ कुर्य्यात्॥
(त्सा) सार्द्ध᳘मेव प᳘रिकिरेज्जघ᳘नेन गा᳘र्हपत्यम᳘थोत्पूया᳘ज्यं चतुर्गृहीते᳘ जुह्वां᳘ चोपभृ᳘ति च गृह्णा᳘ति पञ्चगृहीतं᳘ पृषदाज्यं ज्यो᳘तिरसि व्विश्व᳘रूपं व्वि᳘श्वेषां देवा᳘नाᳫं᳭ व्वैश्वदेवᳫँ᳭ हि᳘ पृषदाज्यं᳘ धार᳘यन्ति स्रु᳘चो यदा प्र᳘दीप्त इध्मो भ᳘वति॥

मूलम् - श्रीधरादि

त᳘दु त᳘था न᳘ कुर्य्यात्॥
(त्सा) सार्द्ध᳘मेव प᳘रिकिरेज्जघ᳘नेन गा᳘र्हपत्यम᳘थोत्पूया᳘ज्यं चतुर्गृहीते᳘ जुह्वां᳘ चोपभृ᳘ति च गृह्णा᳘ति पञ्चगृहीतं᳘ पृषदाज्यं ज्यो᳘तिरसि व्विश्व᳘रूपं व्वि᳘श्वेषां देवा᳘नाᳫं᳭ व्वैश्वदेवᳫँ᳭ हि᳘ पृषदाज्यं᳘ धार᳘यन्ति स्रु᳘चो यदा प्र᳘दीप्त इध्मो भ᳘वति॥

मूलम् - Weber

त᳘दु त᳘था न᳘ कुर्यात्॥
सार्ध᳘मेव प᳘रिकिरेज्जघ᳘नेन गा᳘र्हपत्यम᳘थोत्पूया᳘ज्यं चतुर्गृहीते᳘ जुह्वां᳘ चोपभृ᳘ति च गृह्णा᳘ति पञ्चगृहीत᳘म् पृषदाज्यं ज्यो᳘तिरसि विश्व᳘रूपं वि᳘श्वेषां देवा᳘नां वैश्वदेवᳫं हि᳘ पृषदाज्यं᳘ धार᳘यन्ति स्रु᳘चो यदा प्र᳘दीप्त इध्मो भ᳘वति॥

मूलम् - विस्वरम्

तदु तथा न कुर्यात् । सार्द्धमेव परिकिरेत् । जघनेन गार्हपत्यम् । अथोत्पूयाज्यं चतुर्गृहीते जुह्वां चोपभृति च गृह्णाति । पञ्चगृहीतं पृषदाज्यम् । “ज्योतिरसि विश्वरूपं विश्वेषां देवानां समित्”- (वा. सं. ५ । ३५) इति । वैश्वदेवं हि पृषदाज्यं धारयन्ति । स्रुचो- यदा प्रदीप्त इध्मो भवति ॥ ६ ॥

सायणः

तदु तथेति । अग्नीषोमीयार्थमाज्यपृषदाज्ययोर्ग्रहणं विधत्ते- अथोत्पूयाज्यं चतुर्गृहीतमिति 6 । पृषदाज्यग्रहणमन्त्रमाह- ज्योतिरसीति 7 । हे पृषदाज्य ! त्वं ‘ज्योतिः’ द्योतमानो द्योतको वा भवसि । ज्योतिर्विशेष्यते- विश्वरूपमिति । वैचित्र्याद् विश्वरूपत्वम् । आज्यस्य साधारण्येन इतरद्रव्यवत् प्रतिनियतदैवतत्वाभावात् पृषदाज्यमपि विश्वेषां देवानां समिदित्युच्यते । अनेकद्रव्यात्मकत्वाद्धा वैश्वदेवत्वम् ॥ ६ ॥

Eggeling
  1. But let him not do this; let him rather scatter it about entirely behind the Gārhapatya. Having then purified the ghee, he takes thereof four ladlings (with the sruva), both in the juhū and in the upabhr̥t; and clotted ghee 9 in five ladlings, with (Vāj. S. V, 35),

‘Thou art a light endowed with all forms, the flame of the All-gods;’ for the clotted ghee belongs to the All-gods. When the wood is well kindled, they hold the spoons for him.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ जुहोति॥
त्व᳘ᳫम्᳘ सोम तनूकृ᳘द्भ्यो द्वे᳘षोभ्यो ऽन्य᳘कृतेभ्य ऽउरु᳘ य᳘न्तासि व्व᳘रूथᳫं᳭ स्वाहे᳘ति त᳘देते᳘नै᳘वास्यां᳘ पृथिव्यां᳘ प्रतिष्ठा᳘यां प्र᳘तितिष्ठत्येते᳘नेमं᳘ लोक᳘ᳫं᳭ स्पृणुते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ जुहोति॥
त्व᳘ᳫम्᳘ सोम तनूकृ᳘द्भ्यो द्वे᳘षोभ्यो ऽन्य᳘कृतेभ्य ऽउरु᳘ य᳘न्तासि व्व᳘रूथᳫं᳭ स्वाहे᳘ति त᳘देते᳘नै᳘वास्यां᳘ पृथिव्यां᳘ प्रतिष्ठा᳘यां प्र᳘तितिष्ठत्येते᳘नेमं᳘ लोक᳘ᳫं᳭ स्पृणुते॥

मूलम् - Weber

अ᳘थ जुहोति॥
त्व᳘ᳫं᳘ सोम तनूकृ᳘द्भ्यो द्वे᳘षोभ्यो ऽन्यकृतेभ्य उरु᳘ यॗन्तासि व᳘रूथᳫं स्वाहे᳘ति त᳘देते᳘नैॗवास्या᳘म् पृथिव्या᳘म् प्रतिष्ठा᳘याम् प्र᳘तितिष्ठत्येते᳘नेमं᳘ लोक᳘ᳫं᳘ स्पृणुते॥

मूलम् - विस्वरम्

अथ जुहोति- “त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य उरु यन्तासि वरूथं स्वाहा”- (वा. सं. ५ । ३५) इति । तदेतेनैवास्यां पृथिव्यां प्रतिष्ठायां प्रतितिष्ठति, एतेनेमं लोकं स्पृणुते ॥ ७ ॥

सायणः

इदानीं समन्त्रकमाहवनीये वैसर्जनहोमं विधत्ते- अथ जुहोति त्वं सोम तनूकृद्भ्य इति । जुह्वा व्यापृतत्वात् । प्रचरण्या होमः 10 । मन्त्रस्यायमर्थः- हे ‘सोम’ ! ‘त्वं’ ‘तनूकृद्भयः’ तनूं शरीरं कृन्तन्ति तृन्दन्तीति तनूकृन्ति रक्षांसि, द्विषन्तीति द्वेषांसि, अन्यैः अस्मद्विरोधिभिरभिचरद्भिः कृतानि प्रेरितानि, तादृशेभ्यो नियन्ता ऽसि । यथा तादृशानि अस्मान् न बाधन्ते, तथा पालयसि । तस्मात् त्वमेवास्माकम् ‘उरु’ प्रभूतं ‘वरूथं बलम् ‘असि’ । तस्मै तुभ्यमिदं सुहुतमस्तु ॥

तदेतेनेत्यादि । वैसर्जनानां लोकत्रयजयरूपत्वस्योक्तत्वाद्गार्हपत्यहोमः पृथिव्यां प्रतिष्ठारूपः । अस्यां जायापत्ययोश्च प्रतिष्ठोपपद्यत इति तदर्थमाह- एतेनेमं लोकं स्पृणुत इति (तै. सं. ६ । ३ । २ । २) ॥ ७ ॥

Eggeling
  1. He then offers 11, with, ‘Thou, O Soma, wilt widely withhold thy protection from the life-injuring 12 hatreds put forth by others, Hail!’ Thereby he takes a firm stand on this resting-place, the earth, and gains this world.

०८

विश्वास-प्रस्तुतिः

(ते᳘ ऽथा) अ᳘थाप्त᳘वे द्विती᳘यामा᳘हुतिं जुहोति॥
जुषाणो᳘ ऽअप्तुरा᳘ज्यस्य व्वेतु स्वाहे᳘त्येष᳘ उ है᳘वैत᳘दुवाच र᳘क्षोभ्यो वै᳘ बिभेमि य᳘था मा ऽन्तरा᳘ नाष्ट्रा र᳘क्षाᳫं᳭सि न᳘ हिन᳘सन्नेवं᳘ मा क᳘नीयाᳫं᳭समेव᳘ व्वधा᳘त्कृत्वा᳘ ऽतिनयत स्तोक᳘मेव᳘ स्तोको᳘ ह्यप्तुरि᳘ति[[!!]] त᳘मेतत्क᳘नीयाᳫं᳭समेव᳘ व्वधा᳘त्कृत्वा᳘ ऽत्यनयन्त्स्तोक᳘मेव᳘ स्तोको᳘ ह्यप्तू[[!!]] र᳘क्षोभ्यो भीषा त᳘स्मादप्त᳘वे द्विती᳘यामा᳘हुतिं जुहोति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथा) अ᳘थाप्त᳘वे द्विती᳘यामा᳘हुतिं जुहोति॥
जुषाणो᳘ ऽअप्तुरा᳘ज्यस्य व्वेतु स्वाहे᳘त्येष᳘ उ है᳘वैत᳘दुवाच र᳘क्षोभ्यो वै᳘ बिभेमि य᳘था मा ऽन्तरा᳘ नाष्ट्रा र᳘क्षाᳫं᳭सि न᳘ हिन᳘सन्नेवं᳘ मा क᳘नीयाᳫं᳭समेव᳘ व्वधा᳘त्कृत्वा᳘ ऽतिनयत स्तोक᳘मेव᳘ स्तोको᳘ ह्यप्तुरि᳘ति[[!!]] त᳘मेतत्क᳘नीयाᳫं᳭समेव᳘ व्वधा᳘त्कृत्वा᳘ ऽत्यनयन्त्स्तोक᳘मेव᳘ स्तोको᳘ ह्यप्तू[[!!]] र᳘क्षोभ्यो भीषा त᳘स्मादप्त᳘वे द्विती᳘यामा᳘हुतिं जुहोति॥

मूलम् - Weber

अ᳘थाप्त᳘वे द्विती᳘यामा᳘हुतिं जुहोति॥
जुषाणो᳘ अप्तुरा᳘ज्यस्य वेतु स्वाहे᳘त्येष᳘ उ हैॗवैत᳘दुवाच र᳘क्षोभ्यो वै᳘ बिभेमि य᳘था मान्तरा᳘ नाष्ट्रा र᳘क्षांसि न᳘ हिन᳘सन्नेव᳘म् मा क᳘नीयांसमेव᳘ बधा᳘त्कृत्वा᳘तिनयत स्तोक᳘मेव᳘ स्तोको ह्य᳘प्तुरि᳘ति त᳘मेतत्क᳘नीयांसमेव᳘ बधा᳘त्कृत्वा᳘त्यनयन्त्स्तोक᳘मेव᳘ स्तोको ह्य᳘प्तू र᳘क्षोभ्यो भीषा त᳘स्मादप्त᳘वे द्विती᳘यामा᳘हुतिं जुहोति॥

मूलम् - विस्वरम्

अथाप्तवे द्वितीयामाहुतिं जुहोति- “जुषाणो ऽअप्तुराज्यस्य वेतु स्वाहा”- (वा. सं. ५ । ३५) इति । एष उ हैवैतदुवाच- ‘रक्षोभ्यो वै बिभेमि- यथा मा ऽन्तरा नाष्ट्रा रक्षांसि न हिनरान्, एवं मा कनीयांसमेव वधात् कृत्वा ऽतिनयत, स्तोकमेव- स्तोको ह्यप्तुः’ इति । तमेतत् कनीयांसमेव वधात्कृत्वा ऽत्यनयन्- स्तोकमेव- स्तोको ह्यप्तुः । रक्षोभ्यो भीषा । तस्मादप्तवे द्वितीयामाहुतिं जुहोति ॥ ८ ॥

सायणः

आहुत्यन्तरं समन्त्रकं विधत्ते- अथाप्तवे द्वितीयामाहुतिमिति 10 ‘अप्तुः’ सूक्ष्मरूपः सोमः । सः ‘अप्तुः’ आज्यस्य ‘जुषाणः’ प्रीयमाणः ‘वेतु’ भक्षयतु आज्यम्, ‘स्वाहा’ सुहुतमस्तु । मन्त्रतात्पर्य्यमाह- एष उ हैवेति । ‘एषः’ मन्त्रः एव, ‘एतद्’ वक्ष्यमाणम् ‘उवाच’ । एतच्छब्दार्थमाह- रक्षोभ्यो वा इत्यादिना । यथा मा ऽन्तरेति । प्रणयनकाले मध्यमार्गे शालामुखीयहविर्द्धानयोरन्तराले इत्यर्थः । कनीयांसमेव वधात्कृत्वेति । रक्षःकृताद् ‘वधात्’ हेतोः ‘कनीयांसं कृत्वा’ । कनीयःशब्दार्थमाह- स्तोकमेवेति । स्तोको ह्यप्तुरित्यादि । स्पष्टम् ॥ ८ ॥

Eggeling
  1. He then offers the second oblation to (Soma) the Nimble, with, ‘May the Nimble graciously accept the butter, Hail!’ For he (Soma) spake upon that time, ‘Verily I am afraid of the Rakshas: do ye make me to be too small for their deadly shaft, so that the evil spirits (the Rakshas) shall not injure me on the way; and take me across in the form of a drop, for the drop is nimble.’ And accordingly, having made him too small for the deadly shaft, they lead him safely across in the form of a drop, from fear of the Rakshas, for the drop is nimble: this is why he offers the second oblation to (Soma) the Nimble.

०९

विश्वास-प्रस्तुतिः

(त्यु᳘) उ᳘द्यच्छन्तीध्मम्[[!!]]॥
उ᳘पयच्छन्त्युपय᳘मनीर᳘थाहाग्न᳘ये प्रह्रिय᳘माणाया᳘नुब्रूहि सो᳘माय प्रणीय᳘मानाये᳘ति वा ऽग्न᳘ये प्रह्रिय᳘माणाया᳘नुब्रूही᳘ति᳘ त्वेव᳘ ब्रूयात्॥

मूलम् - श्रीधरादि

(त्यु᳘) उ᳘द्यच्छन्तीध्मम्[[!!]]॥
उ᳘पयच्छन्त्युपय᳘मनीर᳘थाहाग्न᳘ये प्रह्रिय᳘माणाया᳘नुब्रूहि सो᳘माय प्रणीय᳘मानाये᳘ति वा ऽग्न᳘ये प्रह्रिय᳘माणाया᳘नुब्रूही᳘ति᳘ त्वेव᳘ ब्रूयात्॥

मूलम् - Weber

उ᳘द्यछन्तीध्म᳘म्॥
उ᳘पयछन्त्युपय᳘मनीर᳘थाहाग्न᳘ये प्रह्रिय᳘माणाया᳘नुब्रूहि सो᳘माया प्रणीय᳘मानाये᳘ति वाग्न᳘ये प्रह्रिय᳘माणाया᳘नुब्रूही᳘तिॗ त्वेव᳘ ब्रूयात्॥

मूलम् - विस्वरम्

उद्यच्छन्तीध्मम्। उपयच्छन्त्युपयमनीः । अथाह अग्नये प्रह्रियमाणायानुब्रूहि सोमाय प्रणीयमानाय- इति वा । अग्नये प्रह्रियमाणायानुब्रूहीति त्वेव ब्रूयात् ॥ ९ ॥

सायणः

उद्यच्छन्तीध्ममितिउपयच्छन्त्युपयमनीरिति । इध्माधानोपयमन्युपकल्पादीनां तु कृते (श. प. ब्रा. ३ । ५ । २ । १) प्रदीप्तेध्मगतम् अग्निम् ‘उद्यच्छन्ति’ ऊर्ध्वं धारयेत् । तदाधारेषु नीयमानाः सिकता अपि ‘उपयच्छन्ति’ अधो धारयेत् ॥

अग्नीषोमप्रणयनप्रैषविषये विकल्पपक्षं निराकृत्य ‘अग्नये प्रह्रियमाणाय’ इति पक्षं सिद्धान्तयति- अथाहाग्नय इत्यादिना 13 ॥ ९ ॥

Eggeling
  1. They lift the (burning) fire-wood, and place it on the support. He then says (to the Hotr̥), ‘Recite for Agni, taken forward!’ or (say some), ‘–for Soma, led forward.’ But let him say, ‘Recite for Agni, taken forward 14!’

१०

विश्वास-प्रस्तुतिः

(दा᳘) आ᳘ददते ग्रा᳘व्णः॥
(व्णो) द्रोणकलशं᳘ व्वाय᳘व्यानीध्मं᳘ कार्ष्मर्य्यम᳘यान्परिधीना᳘ श्ववालं प्रस्तर᳘मैक्ष᳘व्यौ व्वि᳘धृती[[!!]] त᳘द्बर्हि᳘रुपस᳘न्नद्धं भवति व्वपाश्र᳘पण्यौ रशने᳘ ऽअर᳘णी ऽअधिम᳘न्थनः श᳘कलो व्वृ᳘षणौ त᳘त्समादा᳘य प्रा᳘ञ्च ऽआ᳘यन्ति स᳘ ऽएष᳘ ऊर्ध्वो᳘ यज्ञ᳘ एति॥

मूलम् - श्रीधरादि

(दा᳘) आ᳘ददते ग्रा᳘व्णः॥
(व्णो) द्रोणकलशं᳘ व्वाय᳘व्यानीध्मं᳘ कार्ष्मर्य्यम᳘यान्परिधीना᳘ श्ववालं प्रस्तर᳘मैक्ष᳘व्यौ व्वि᳘धृती[[!!]] त᳘द्बर्हि᳘रुपस᳘न्नद्धं भवति व्वपाश्र᳘पण्यौ रशने᳘ ऽअर᳘णी ऽअधिम᳘न्थनः श᳘कलो व्वृ᳘षणौ त᳘त्समादा᳘य प्रा᳘ञ्च ऽआ᳘यन्ति स᳘ ऽएष᳘ ऊर्ध्वो᳘ यज्ञ᳘ एति॥

मूलम् - Weber

आ᳘ददते ग्रा᳘व्णः॥
द्रोणकलशं᳘ वायॗव्यानीध्मं᳘ कार्ष्मर्यम᳘यान्परिधीना᳘श्ववालम् प्रस्तर᳘मैक्षॗव्यौ विधृ᳘ती 15 त᳘द्बर्हि᳘रुपसं᳘नद्धम् भवति वपाश्र᳘पण्यौ रशने᳘ अर᳘णी अधिम᳘न्थनः श᳘कलो वृ᳘षणौ त᳘त्समादा᳘य प्रा᳘ञ्च आ᳘यन्ति स᳘ एष᳘ ऊर्ध्वो᳘ यज्ञ᳘ एति॥

मूलम् - विस्वरम्

आददते ग्राव्णः, द्रोणकलशम्, वायव्यानि, इध्मम्, कार्ष्मर्यमयान् परिधीन्, आश्ववालं प्रस्तरम्, ऐक्षव्यौ विधृती । तद् बर्हिरुपसन्नद्धं भवति, वपाश्रपण्यौ, रशने अरणी, अधिमन्थनः शकलः वृषणौ । तत् समादाय प्राञ्च आयन्ति । स एष ऊर्व्वो यज्ञ एति ॥ १० ॥

सायणः

आददते ग्राव्ण 13 इत्यादि । ‘ग्राव्णः’ सोमाभिषवार्थान् पाषाणान् । ‘द्रोणकलशः’ 16 सोमाधारः प्रभूतः पात्रविशेषः । ‘वायव्यान् ग्रहान्, वायुदेवत्यानि सोमपात्राणि 17 । “ग्राव्णो वायव्यानि” (तै. सं. ६ । ३ । २। ३) इत्यादिश्रुतेरेव पात्राणां वायव्यत्वम् । ‘इध्मम्’ । काष्मर्यपरिध्याद्यः पश्वर्थाः 18 तद्बर्हिरुपसन्नद्धं भवतीति । आतिथ्यायामास्तीर्णमित्यर्थः; “यदातिथ्यायां बर्हिस्तदुपसदसः, तदाग्नीषोमीयस्य” (ऐ. ब्रा. १ । ४ । ८ । २५ । सा. भा.) इति श्रुतेः । ‘वपाश्रपण्यौ’ पशुवपायाः श्रपणसाधने कार्यशाखे । ‘रशने’ यूपपश्वर्थे द्वे । अरणी द्वे ‘अधिमन्थनः शकलः’ उत्तरारणेरधस्तात् स्थाप्यः । ‘वृषणौ’ वृषणस्थानीयौ दर्भौ । एतान् सोमार्थान् आग्नीषोमीयार्थांश्च ‘समादाय’ ‘प्राञ्चः’ ‘आयन्ति’ गच्छेयुः । स एव उर्ध्वो यज्ञ एतीति । अध्वर्युप्रमुखैर्यज्ञाङ्गानामुद्यमनाद् ‘यज्ञः’ एव ‘ऊर्द्धः एति’ ऊर्ध्वं गतो भवति ॥ १० ॥

Eggeling
  1. They take the pressing-stones, the Soma-trough (droṇa-kalaśa); Vāyu’s cups 19, the (twenty pieces of) fire-wood, the enclosing-sticks of kārshmarya wood (Gmelina Arborea), one prastara of aśvavāla grass 20, and the two Vidhr̥tis of sugarcane; that barhis (which was used before 21) is tied up therewith. Further, the two spits for (roasting) the omenta 22, the two ropes (for binding the stake and victims), the two churning-sticks (for producing fire), the adhimanthana chip, and the two vr̥shaṇa 23,–having taken up all these they go forward (to the Āgnīdhra): thus the sacrifice goes upwards 24.

११

विश्वास-प्रस्तुतिः

त᳘दाय᳘त्सु व्वाचयति॥
(त्य᳘) अ᳘ग्ने न᳘य सुप᳘था राये᳘ ऽअस्मान्वि᳘श्वानि देव व्वयु᳘नानि व्विद्वा᳘न्॥ युयो᳘ध्यस्म᳘ज्जुहुराणमे᳘नो भू᳘यिष्ठां ते न᳘मउक्तिं व्विधेमे᳘त्यग्नि᳘मे᳘वैत᳘त्पुर᳘स्तात्करोत्यग्निः᳘[[!!]] पुर᳘स्तान्नाष्ट्रा र᳘क्षाᳫं᳭स्यपघ्न᳘न्नेत्यथा᳘भयेनानाष्ट्रे᳘ण हरन्ति त ऽआ᳘यन्त्या᳘गच्छन्त्या᳘ग्नीध्रं तमा᳘ग्नीध्रे नि᳘दधाति॥

मूलम् - श्रीधरादि

त᳘दाय᳘त्सु व्वाचयति॥
(त्य᳘) अ᳘ग्ने न᳘य सुप᳘था राये᳘ ऽअस्मान्वि᳘श्वानि देव व्वयु᳘नानि व्विद्वा᳘न्॥ युयो᳘ध्यस्म᳘ज्जुहुराणमे᳘नो भू᳘यिष्ठां ते न᳘मउक्तिं व्विधेमे᳘त्यग्नि᳘मे᳘वैत᳘त्पुर᳘स्तात्करोत्यग्निः᳘[[!!]] पुर᳘स्तान्नाष्ट्रा र᳘क्षाᳫं᳭स्यपघ्न᳘न्नेत्यथा᳘भयेनानाष्ट्रे᳘ण हरन्ति त ऽआ᳘यन्त्या᳘गच्छन्त्या᳘ग्नीध्रं तमा᳘ग्नीध्रे नि᳘दधाति॥

मूलम् - Weber

त᳘दाय᳘त्सु वाचयति॥
अ᳘ग्ने न᳘य सुप᳘था राय᳘ अस्मान्वि᳘श्वानि देव वयु᳘नानि विद्वा᳘न् 25 युयो᳘ध्यस्म᳘ज्जुहुराणमे᳘नो भू᳘यिष्ठां ते न᳘मौक्तिं विधेमे᳘त्यग्नि᳘मेवै᳘त᳘त्पुर᳘स्तात्करोत्यग्निः᳘ पुर᳘स्तान्नाष्ट्रा र᳘क्षांस्यपघ्न᳘न्नेत्यथा᳘भयेनानाष्ट्रे᳘ण हरन्ति त आ᳘यन्त्या᳘गछन्त्या᳘ग्नीध्रं तमा᳘ग्नीध्रे नि᳘दधाति॥

मूलम् - विस्वरम्

तदायत्सु वाचयति- “अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम”- (वा. सं. ५ । ३६) इति । अग्निमेवैतत् पुरस्तात्करोति । अग्निः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेति । अथाभयेनानाष्ट्रेण हरन्ति । त ऽआयन्ति । आगच्छन्त्याग्नीध्रम् । तमाग्नीध्रे निदधाति ॥ ११ ॥

सायणः

तदायत्सु वाचयतीति 26 । तेषु सर्वेषु ‘आयत्सु’ “अग्ने नय”- इति ‘वाचयति’ अध्वर्युः । तस्यायमर्थः- हे ‘अग्ने’ ! ‘देव !’ ‘नय’ प्रापय ‘अस्मान्’ ‘राये’ धनार्थं ‘सुपथा’ शोभनेन मार्गेण । त्वं ‘विश्वानि’ ‘वयुनानि’ मार्गान् ‘विद्वान्’ जानन् । किञ्च ‘जुहुराणं’ कौटिल्यम्, आचरतः ‘एनः’ पापं कुटिलं चेत्युभयम् ‘अस्मत्’ अस्मत्तः ‘युयोधि’ पृथक् कुरु । ‘ते’ तुभ्यं ‘भूयिष्ठाम्’ अतिप्रभूतां ‘नमउक्तिं’ ‘विधेम’ करवामेति ॥

अग्निमेवेत्यादि । स्पष्टम् । त आयन्तीति । ते प्राञ्चो गता आगच्छेयुः । कुत्रागच्छेयुः । आग्नीध्रमागच्छन्ति । सौमिकवेदेरुत्तरेण मार्गेण । तम् ‘आग्नीद्ध्रे निदधाति’ तं प्रणीतमग्निम् 27 ॥ ११ ॥

Eggeling
  1. While they proceed thither, he makes (the sacrificer) say the text (Vāj. S. V, 36; Rig-veda I, 189, 1), ‘O Agni, lead us on a good path unto wealth, thou, O God, that knowest all works! keep thou from us the sin that leadeth astray, and we will offer unto thee most ample adoration!’ He thereby places Agni in front, and Agni marches in front repelling the evil spirits; and they take him thither on a (way) free from danger and

injury. They proceed, and reach the Āgnīdhra; and he (the Adhvaryu) puts (the fire) down on the Āgnīdhra hearth.

१२

विश्वास-प्रस्तुतिः

स नि᳘हिते जुहोति॥
(त्य) अयं᳘ नो ऽअग्निर्व्व᳘रिवस्कृणोत्वयं मृधः[[!!]] पुर᳘ ऽएतु प्रभिन्दन्[[!!]]॥ अयं व्वा᳘जाञ्जयतु व्वा᳘जसाताव्वयᳫं᳭ श᳘त्रूञ्जयतु ज᳘र्हृषाणः स्वाहे᳘ति त᳘देते᳘नै᳘वैत᳘स्मिन्नन्त᳘रिक्षे प्रतिष्ठा᳘यां प्र᳘तितिष्ठत्येते᳘नैतल्ँ᳘लोक᳘ᳫं᳘ स्पृणुते॥

मूलम् - श्रीधरादि

स नि᳘हिते जुहोति॥
(त्य) अयं᳘ नो ऽअग्निर्व्व᳘रिवस्कृणोत्वयं मृधः[[!!]] पुर᳘ ऽएतु प्रभिन्दन्[[!!]]॥ अयं व्वा᳘जाञ्जयतु व्वा᳘जसाताव्वयᳫं᳭ श᳘त्रूञ्जयतु ज᳘र्हृषाणः स्वाहे᳘ति त᳘देते᳘नै᳘वैत᳘स्मिन्नन्त᳘रिक्षे प्रतिष्ठा᳘यां प्र᳘तितिष्ठत्येते᳘नैतल्ँ᳘लोक᳘ᳫं᳘ स्पृणुते॥

मूलम् - Weber

स नि᳘हिते जुहोति॥
अयं᳘ नो अग्निर्व᳘रिवस्कृणोत्वयम् मृ᳘धः पुर᳘ एतु प्रभिन्द᳘न् अयं वा᳘जाञ्जयतु वा᳘जसातावयं श᳘त्रूञ्जयतु ज᳘र्हृषाणः स्वाहे᳘ति त᳘देते᳘नैॗवैत᳘स्मिन्नन्त᳘रिक्षे प्रतिष्ठा᳘याम् प्र᳘तितिष्ठत्येते᳘नैतं᳘ लोक᳘ᳫं᳘ स्पृणुते॥

मूलम् - विस्वरम्

स निहिते जुहोति- “अयं नो ऽअग्निर्वरिवस्कृणोतु । अयं मृधः पुर एतु प्रभिन्दन् । अयं वाजान् जयतु वाजसातावयं शत्रून् जयतु जर्हृषाणः स्वाहा”- (वा. सं. ५ । ३७) इति । तदेतेनैवैतस्मिन्नन्तरिक्षे प्रतिष्ठायां प्रतितिष्ठति, एतेनैतं लोकं स्पृणुते ॥ १२ ॥

सायणः

स निहिते जुहोतीति 26 । ‘सः’ अध्वर्युः ‘निहिते’ अग्नौ स्थापिते । तत्र होममन्त्रो ऽयम्- अयं नो अग्निरिति । तस्यायमर्थः- ‘अयम्’ ‘अग्निः’ ‘नः’ अस्माकं ‘वरिवः’ धनं ‘कृणोतु’ । तथा ‘अयम्’ एव ‘मृधः’ संङ्ग्रामान् ‘प्रभिन्दन्’ ‘पुर एतु’ । तथा ‘अयं’ ‘वाजसातौ’ संग्रामे ‘वाजान्’ ‘जयतु’ अस्मदर्थम् । ‘अयं’ जर्हृषाणः’ पुनः पुनः हृष्यन् ‘शत्रून् जयतु’ । ‘स्वाहा’ सुहुतमस्तु इदमाज्यम् ॥

तदेतेनेत्यादि । शालामुखीयाग्नीध्रीयोत्तरवेदीनां क्रमेण भूम्यादिलोकत्रयात्मकत्वात् ‘अन्तरिक्षे’ ‘स्पृणुते’ पालयति ॥ १२ ॥

Eggeling
  1. Thereon, when laid down, he offers with the text (Vas. S. V, 37), ‘May this Agni make wide room for us; may he march in front smiting the haters! May he gain riches in the winning of riches: may he, fiercely rushing, conquer the enemies, Hail!’ By means of him (Agni) he thus takes a firm stand in that resting-place, the aerial region, and gains that world.

१३

विश्वास-प्रस्तुतिः

त᳘देव नि᳘दधाति ग्रा᳘व्णः॥
(व्णो) द्रोणकलशं᳘ व्वाय᳘व्यान्यथे᳘तरमादाया᳘यन्ति तदु᳘त्तरेणाहवनी᳘यमु᳘पसादयन्ति॥

मूलम् - श्रीधरादि

त᳘देव नि᳘दधाति ग्रा᳘व्णः॥
(व्णो) द्रोणकलशं᳘ व्वाय᳘व्यान्यथे᳘तरमादाया᳘यन्ति तदु᳘त्तरेणाहवनी᳘यमु᳘पसादयन्ति॥

मूलम् - Weber

त᳘देव नि᳘दधति ग्रा᳘व्णः॥
द्रोणकलशं᳘ वायॗव्यान्यथे᳘तरमादाया᳘यन्ति तदु᳘त्तरेणाहवनी᳘यमु᳘पसादयन्ति॥

मूलम् - विस्वरम्

तदेव निदधाति ग्राव्णः, द्रोणकलशम्, वायव्यानि, अथेतरमादायायन्ति । तदुत्तरेणाहवनीयमुपसादयन्ति ॥ १३ ॥

सायणः

तदेव 28 निदधातीति । स्थापयेद् ग्रावादिकम् । ‘इतरम्’ इध्मबर्हिरादिकम्, अग्नीषोमीयार्थम् । उत्तरेणाहवनीयमुपसादयन्तीति 29 । उत्तरवेदिस्थस्यैवाहवनीयत्वात्तदुत्तर इत्यर्थः ॥ १३ ॥

Eggeling
  1. In the same place they deposit the pressing-stones, the Soma-trough, and Vāyu’s cups 30. Having then taken up the other (objects), they proceed and deposit them north of the Āhavanīya.

१४

विश्वास-प्रस्तुतिः

प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ इध्म᳘मेवा᳘ग्रे प्रो᳘क्षत्य᳘थ व्वे᳘दिम᳘थास्मै बर्हिः प्र᳘यच्छन्ति त᳘त्पुर᳘स्ताद्ग्रन्थ्या᳘सादयति तत्प्रो᳘क्ष्योपनिनी᳘य व्विस्र᳘ᳫं᳘स्य ग्रन्थिमा᳘श्ववालः प्रस्तर᳘ ऽउपस᳘न्नद्धो भवति तं᳘ गृह्णाति गृहीत्वा᳘ प्रस्तर᳘मेकवृ᳘द्बर्हि᳘स्तृणाति स्तीर्त्वा᳘ बर्हिः᳘ कार्ष्मर्यम᳘यान्परिधीन्प᳘रिदधाति परिधा᳘य परिधी᳘न्त्समि᳘धावभ्या᳘दधात्यभ्या᳘धा᳘य समि᳘धौ॥

मूलम् - श्रीधरादि

प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ इध्म᳘मेवा᳘ग्रे प्रो᳘क्षत्य᳘थ व्वे᳘दिम᳘थास्मै बर्हिः प्र᳘यच्छन्ति त᳘त्पुर᳘स्ताद्ग्रन्थ्या᳘सादयति तत्प्रो᳘क्ष्योपनिनी᳘य व्विस्र᳘ᳫं᳘स्य ग्रन्थिमा᳘श्ववालः प्रस्तर᳘ ऽउपस᳘न्नद्धो भवति तं᳘ गृह्णाति गृहीत्वा᳘ प्रस्तर᳘मेकवृ᳘द्बर्हि᳘स्तृणाति स्तीर्त्वा᳘ बर्हिः᳘ कार्ष्मर्यम᳘यान्परिधीन्प᳘रिदधाति परिधा᳘य परिधी᳘न्त्समि᳘धावभ्या᳘दधात्यभ्या᳘धा᳘य समि᳘धौ॥

मूलम् - Weber

प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ इध्म᳘मेवा᳘ग्रे प्रो᳘क्षत्य᳘थ वे᳘दिम᳘थास्मै बर्हिः प्र᳘यछन्ति त᳘त्पुर᳘स्ताद्ग्रन्थ्या᳘सादयति तत्प्रो᳘क्ष्योपनिनी᳘य विस्र᳘ᳫं᳘स्य ग्रन्थिमा᳘श्ववालः प्रस्तर᳘ उपसं᳘नद्धो भवति तं᳘ गृह्णाति गृहीत्वा᳘ प्रस्तर᳘मेकवृ᳘द्बर्हि᳘ स्तृणाति स्तीर्त्वा᳘ बर्हिः᳘ कार्ष्मर्यम᳘यान्परिधीन्प᳘रिदधाति परिधा᳘य परिधी᳘न्त्समि᳘धावभ्या᳘दधात्यभ्याधा᳘य समि᳘धौ॥

मूलम् - विस्वरम्

प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षति, अथ वेदिम्, अथास्मै बर्हिः प्रयच्छन्ति, तत्पुरस्ताद्ग्रन्थ्यासादयति, तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिम् । आश्ववालः प्रस्तर उपसन्नद्धो भवति । तं गृह्णाति । गृहीत्वा प्रस्तरमेकवृद्बर्हिः स्तृणाति । स्तीर्त्वा बर्हिः कार्ष्मर्यमयान् परिधीन् परिदधाति । परिधाय परिधीन् समिधावभ्यादधाति । अभ्याधाय समिधौ ॥ १४ ॥

सायणः

प्रोक्षणीरध्वर्युरादत्त 28 इति । प्रोक्षणीरादाय अध्वर्युरिध्ममेव पूर्वं प्रोक्षेत् । “प्रोक्षणीरध्वर्युरादत्ते स इध्ममेव पूर्वं प्रोक्षति” इत्यादिना प्राकृतः प्रयोगः पुनरभिधीयते; तत्र तत्र विशेषविधानार्थं प्रस्तरं पृथग्गृहीत्वा बर्हिरेकावृत्यैव स्तृणीयात् । “खरोत्तरार्द्ध एकवृत् स्तरणं पश्चाद्वोत्तरवेदे”- इति हि सूत्रम् (का. श्रौ. सू. ८ । १९२) ॥ १४ ॥

Eggeling
  1. The Adhvaryu takes the sprinkling-water, and sprinkles first the fire-wood, and then the altar. They then hand to him the altar-grass. He puts it down with the knot towards the east, and sprinkles it. Having poured (the remaining sprinkling-water) upon (the root ends of the altar-grass), and untied the knot,–the Prastara-hunch of aśvavāla grass is tied together (with the altar-grass),–he takes that; and having taken the Prastara, he spreads the altar-grass in a single layer. Having spread the altar-grass, he lays the enclosing-sticks of kārshmarya-wood round (the fire). Having laid the enclosing-sticks around, he puts two kindling-sticks (on the fire); and having put on the two kindling-sticks,

१५

विश्वास-प्रस्तुतिः

(धाव᳘) अ᳘थ जुहोति॥
(त्यु) उरु᳘ व्विष्णो व्वि᳘क्रमस्वोरु क्ष᳘याय नस्कृधि। घृतं᳘ घृतयोने पिब प्र᳘प्र यज्ञ᳘पतिं तिर स्वाहे᳘ति त᳘देते᳘नै᳘वैत᳘स्यां दिवि᳘ प्रतिष्ठा᳘यां प्र᳘तितिष्ठत्येते᳘नैतं᳘ लोक᳘ᳫं᳘ स्पृणुते य᳘देत᳘या जुहो᳘ति॥

मूलम् - श्रीधरादि

(धाव᳘) अ᳘थ जुहोति॥
(त्यु) उरु᳘ व्विष्णो व्वि᳘क्रमस्वोरु क्ष᳘याय नस्कृधि। घृतं᳘ घृतयोने पिब प्र᳘प्र यज्ञ᳘पतिं तिर स्वाहे᳘ति त᳘देते᳘नै᳘वैत᳘स्यां दिवि᳘ प्रतिष्ठा᳘यां प्र᳘तितिष्ठत्येते᳘नैतं᳘ लोक᳘ᳫं᳘ स्पृणुते य᳘देत᳘या जुहो᳘ति॥

मूलम् - Weber

अ᳘थ जुहोति॥
उरु᳘ विष्णो वि᳘क्रमस्वोरु क्ष᳘याय नस्कृधि घृतं᳘ घृतयोने पिब प्र᳘प्र यज्ञपतिं तिर स्वाहे᳘ति त᳘देते᳘नैॗवैत᳘स्यां दिवि᳘ प्रतिष्ठा᳘याम् प्र᳘तितिष्ठत्येते᳘नैतं᳘ लोक᳘ᳫं᳘ स्पृणुत य᳘देत᳘या जुहो᳘ति॥

मूलम् - विस्वरम्

अथ जुहोति- “उरु विष्णो विक्रमस्व, उरु क्षयाय नस्कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहा”- (वा. सं. ५ । ३८) इति । तदेतेनैवैतस्यां दिवि प्रतिष्ठायां प्रतितिष्ठति एतेनैतं लोकं स्पृणुते- यदेतया जुहोति ॥ १५ ॥

सायणः

अथ जुहोतीति 28 । ‘अथ’ आधानसमिदाधानपर्यन्तं 29 पश्वर्थमङ्गजातं कृत्वा, पश्चाद् वैसर्जनीयं होमं तुरायं ‘जुहोति’ “उरु विष्णो-” इति मन्त्रेण । अयं मन्त्रार्थः- हे ‘विष्णो’ ! यज्ञात्मक ! त्वम्, ‘उरु’ प्रभूतं द्युलोकपर्यन्तं विक्रमस्वं विक्रमणं कुरु ! विक्रमणप्रयोजनमाह- ‘क्षयाय’ अस्माकं निवासाय ‘उरु’ विस्तीर्णं ‘कृधि’ कुरु । ‘घृतयोने’ अग्ने ! ‘घृतं’ हुतं ‘पिब’ । ‘यज्ञपतिं’ यजमानं ‘प्रतिर’ 31 प्रपूर्वस्तिरतिर्वर्द्धने वर्तते । ‘स्वाहा’ सुहुतमस्तु । तदेतेनेत्यादि । पूर्ववत् ॥ १५ ॥

Eggeling
  1. He offers with the text (Vāj. S. V, 38), ‘Stride thou widely, O Vishṇu, make wide room for our abode! drink the ghee, thou born of ghee,

and speed the lord of the sacrifice ever onwards, Hail!’ Thereby he takes a firm stand in that resting-place, the sky: he thus gains that world by offering with that (verse).

१६

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वैष्ण᳘व्यर्चा᳘[[!!]] जुहो᳘ति॥
क᳘नीयाᳫँ᳭सं वा᳘ ऽएनमेत᳘द्वधा᳘त्कृत्वा᳘त्यनैषु स्तोक᳘मेव᳘ स्तोको᳘ ह्यप्तुस्त᳘मेतद᳘भयं प्रा᳘प्य य᳘ ए᳘वैष तं᳘ करोति यज्ञ᳘मेव᳘ यज्ञो हि व्वि᳘ष्णुस्त᳘स्माद्वैष्ण᳘व्यर्च्चा[[!!]] जुहोति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वैष्ण᳘व्यर्चा᳘[[!!]] जुहो᳘ति॥
क᳘नीयाᳫँ᳭सं वा᳘ ऽएनमेत᳘द्वधा᳘त्कृत्वा᳘त्यनैषु स्तोक᳘मेव᳘ स्तोको᳘ ह्यप्तुस्त᳘मेतद᳘भयं प्रा᳘प्य य᳘ ए᳘वैष तं᳘ करोति यज्ञ᳘मेव᳘ यज्ञो हि व्वि᳘ष्णुस्त᳘स्माद्वैष्ण᳘व्यर्च्चा[[!!]] जुहोति॥

मूलम् - Weber

य᳘द्वेव᳘ वैष्णव्य᳘र्चा᳘ जुहो᳘ति॥
क᳘नीयांसं वा᳘ एनमेत᳘द्बधा᳘त्कृत्वा᳘त्यनैषु स्तोक᳘मेव᳘ स्तोको ह्य᳘प्तुस्त᳘मेतद᳘भयम् प्रा᳘प्य य᳘ एॗवैष तं᳘ करोति यज्ञ᳘मेव᳘ यज्ञो हि वि᳘ष्णुस्त᳘स्माद्वैष्णव्य᳘र्चा᳘ जुहोति॥

मूलम् - विस्वरम्

यद्वेव वैष्णव्यर्चा जुहोति कनीयांसं वा एनमेतद्वधात्कृत्वात्यनैषुः- स्तोकमेव । स्तोको ह्यप्तुः । तमेतदभयं प्राप्य- य एवैष तं करोति- यज्ञमेव । यज्ञो हि विष्णुः । तस्माद्वैष्णव्यर्चा जुहोति ॥ १६ ॥

सायणः

मन्त्रस्य यद् वैष्णवत्वं प्राक् प्रतिपादितम्, तस्याल्पत्वपरिहारेण स्वाभाविकरूपप्राप्तिरूपत्वेन प्रशंसति- यद्वेव वैष्णव्यर्च्चा जुहोतीत्यादिना । तमेतदभयं प्राप्य य एवैष तं करोतीति । ‘एतत्’ एतेन वैष्णवत्वकरणेन ‘अभय’ नाशकारिरक्षोभयरहितं कृत्वा ‘एषः’ सोमः पूर्वं ‘य एव’ यादृग्यज्ञरूपः, ‘तं’ तादृग्रूपं ‘करोति’। विष्णुत्वप्रापणेन कथं स्वाभाविकरूपप्राप्तिरिति तत्राह- यज्ञो हि विष्णुरिति ॥ १६ ॥

Eggeling
  1. And as to his offering with a verse addressed to Vishṇu, it was thus that they made him (Soma) to be too small for the deadly shaft and led him safely across in the form of a drop, for the drop is nimble. And having attained to safety, he now makes him the one he really is, namely, the sacrifice, for Vishṇu is the sacrifice: therefore he offers with a verse addressed to Vishṇu.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थासा᳘द्य स्रु᳘चः॥
(चो ऽप᳘) अप᳘ ऽउपस्पृ᳘श्य रा᳘जानं प्र᳘पादयति तद्य᳘दासा᳘द्य स्रु᳘चो ऽप᳘ ऽउपस्पृ᳘श्य रा᳘जानं प्रपाद᳘यति व्व᳘ज्रो वा ऽआ᳘ज्यᳫं᳭ रे᳘तः सो᳘मो नेद्व᳘ज्रेणा᳘ज्येन रे᳘तः सो᳘मᳫं᳭ हिन᳘सानी᳘ति त᳘स्मादासा᳘द्य स्रु᳘चो ऽप᳘ ऽउपस्पृ᳘श्य रा᳘जानं प्र᳘पादयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थासा᳘द्य स्रु᳘चः॥
(चो ऽप᳘) अप᳘ ऽउपस्पृ᳘श्य रा᳘जानं प्र᳘पादयति तद्य᳘दासा᳘द्य स्रु᳘चो ऽप᳘ ऽउपस्पृ᳘श्य रा᳘जानं प्रपाद᳘यति व्व᳘ज्रो वा ऽआ᳘ज्यᳫं᳭ रे᳘तः सो᳘मो नेद्व᳘ज्रेणा᳘ज्येन रे᳘तः सो᳘मᳫं᳭ हिन᳘सानी᳘ति त᳘स्मादासा᳘द्य स्रु᳘चो ऽप᳘ ऽउपस्पृ᳘श्य रा᳘जानं प्र᳘पादयति॥

मूलम् - Weber

अ᳘थासा᳘द्य स्रु᳘चः॥
अप᳘ उपस्पृ᳘श्य रा᳘जानम् प्र᳘पादयति तद्य᳘दासा᳘द्य स्रु᳘चो ऽप᳘ उपस्पृ᳘श्य रा᳘जानम् प्रपादयति वज्रो वा आ᳘ज्यं रे᳘तः सो᳘मो नेद्व᳘ज्रेणा᳘ज्येन रे᳘तः सो᳘मᳫं हिन᳘सानी᳘ति त᳘स्मादासा᳘द्य स्रु᳘चो ऽप᳘ उपस्पृ᳘श्य रा᳘जानम् प्र᳘पादयति॥

मूलम् - विस्वरम्

अथासाद्य स्रुचः, अप उपस्पृश्य, राजानं प्रपादयति । तद्यदासाद्य स्रुचः, अप उपस्पृश्य राजानं प्रपादयति । वज्रो वा आज्यम्, रेतः सोमः । नेद्वज्रेणाज्येन रेतः सोमं हिनसानीति । तस्मादासाद्य स्रुचः, अप उपस्पृश्य राजानं प्रपादयति ॥ १७ ॥

सायणः

अथासाद्य स्रुचो ऽप उपस्पृश्य राजानं प्रपादयतीति । ‘आसाद्य’ उत्तरवेदेः पश्चाद्देशे बर्हिषि ‘स्रुचः’ आसाद्य ‘राजानं’ सोमं ‘प्रपादयति’ हविर्द्धानं प्रवेशयति 32 । उदकोपस्पर्शनं प्रशंसति- तस्मादासाद्येत्यादिना । वज्रो वा इत्यादि । प्राग् व्याख्यातम् (श. प. ब्रा. ३ । ४ । ३ । ११) ॥ १७ ॥

Eggeling
  1. After depositing the spoons 33 and touching water, he makes the king (Soma) enter (the Havirdhāna shed). The reason why he makes the king enter, after depositing the spoons and touching water, is this. The ghee is the thunderbolt, and Soma is seed: hence it is after depositing the spoons and touching water that he makes the king enter, lest he should injure the seed Soma with the thunderbolt, the ghee.

१८

विश्वास-प्रस्तुतिः

स द᳘क्षिणस्य हविर्द्धा᳘नस्य नीडे᳘ कृष्णाजिनमा᳘स्तृणाति॥
त᳘देनमा᳘सादयति दे᳘व सवितरेष᳘ ते सो᳘मस्त᳘ᳫं᳘ रक्षस्व मा᳘ त्वा दभन्नि᳘ति त᳘देनं देवा᳘यैव᳘ सवित्रे प᳘रिददाति गु᳘प्त्यै॥

मूलम् - श्रीधरादि

स द᳘क्षिणस्य हविर्द्धा᳘नस्य नीडे᳘ कृष्णाजिनमा᳘स्तृणाति॥
त᳘देनमा᳘सादयति दे᳘व सवितरेष᳘ ते सो᳘मस्त᳘ᳫं᳘ रक्षस्व मा᳘ त्वा दभन्नि᳘ति त᳘देनं देवा᳘यैव᳘ सवित्रे प᳘रिददाति गु᳘प्त्यै॥

मूलम् - Weber

स द᳘क्षिणस्य हविर्धा᳘नस्य नीडे᳘ कृष्णाजिनमा᳘स्तृणाति॥
त᳘देनमा᳘सादयति दे᳘व सवितरेष᳘ ते सो᳘मस्तं᳘ रक्षस्व मा᳘ त्वा दभन्नि᳘ति त᳘देनं देवा᳘यैव᳘ सवित्रे प᳘रिददाति गु᳘प्त्यै॥

मूलम् - विस्वरम्

स दक्षिणस्य हविर्द्धानस्य नीडे कृष्णाजिनमास्तृणाति । तदेनमासादयति- “देव सवितरेष ते सोमः, तं रक्षस्व । मा त्वा दभन्-” -(वा० सं० ५ । ३९) इति । तदेनं देवायैव सवित्रे पारेददाति गुप्त्यै ॥ १८ ॥

सायणः

स दक्षिणस्येति ‘दक्षिणस्य’ ‘हविर्द्धानस्य’ ‘नीडे’ परिवृते मध्यप्रदेशे कृष्णाजिनोपरि सोम निदध्यात् । “आसाद्याज्यानि दक्षिणे ऽनसि कृष्णाजिनमास्तीर्य तस्मिन् सोमं निदधाति देव सवितरिति”- (का. श्रौ. सू. ८ । १९५ ।) इति सूत्रम् । “देव सवितरेष ते”- इत्यासादनमन्त्रः । स्पष्टो ऽर्थः । हे सोम ! त्वां ‘मा दभन्’ मा हिंसिषुः ॥ १८ ॥

Eggeling
  1. He spreads the black deer-skin on the enclosed part of the southern Soma-cart, and sets him down thereon with (Vāj. S. V, 39), ‘O divine Savitr̥, this is thy Soma: shield him; may they not injure thee!’ whereby he makes him over to the God Savitr̥ for protection.

१९

विश्वास-प्रस्तुतिः

(प्त्या ऽअ᳘) अ᳘थानुसृज्यो᳘पतिष्ठते॥
(त ऽ) एतत्त्वं᳘ देव सोम देवो᳘ देवा २ँ॥ ऽउ᳘पागा इद᳘महं᳘ मनु᳘ष्यान्त्सह᳘ रायस्पो᳘षेणे᳘त्यग्नीषो᳘मौ वा᳘ ऽएत᳘मन्तर्जम्भ ऽआ᳘दधाते यो दी᳘क्षत ऽआग्नावैष्णव᳘ᳫं᳘ ह्यदो᳘ दीक्षणी᳘यᳫं᳭ हविर्भ᳘वति यो वै व्वि᳘ष्णुः सो᳘मः स᳘ हविर्व्वा᳘ ऽएष᳘ देवा᳘नां भवति यो दी᳘क्षते तदेनमन्त᳘र्जम्भ ऽआ᳘दधाते[[!!]] त᳘त्प्रत्य᳘क्षᳫं᳭ सो᳘मान्नि᳘र्मुच्यते यदा᳘हैतत्त्वं᳘ देव सोम देवो᳘ देवा २ँ॥ ऽउ᳘पागा ऽइद᳘महं᳘ मनु᳘ष्यान्त्सह᳘ रायस्पो᳘षेणेति᳘[[!!]] भूमा वै᳘ रायस्पो᳘षः सह᳘ भूम्ने᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(प्त्या ऽअ᳘) अ᳘थानुसृज्यो᳘पतिष्ठते॥
(त ऽ) एतत्त्वं᳘ देव सोम देवो᳘ देवा २ँ॥ ऽउ᳘पागा इद᳘महं᳘ मनु᳘ष्यान्त्सह᳘ रायस्पो᳘षेणे᳘त्यग्नीषो᳘मौ वा᳘ ऽएत᳘मन्तर्जम्भ ऽआ᳘दधाते यो दी᳘क्षत ऽआग्नावैष्णव᳘ᳫं᳘ ह्यदो᳘ दीक्षणी᳘यᳫं᳭ हविर्भ᳘वति यो वै व्वि᳘ष्णुः सो᳘मः स᳘ हविर्व्वा᳘ ऽएष᳘ देवा᳘नां भवति यो दी᳘क्षते तदेनमन्त᳘र्जम्भ ऽआ᳘दधाते[[!!]] त᳘त्प्रत्य᳘क्षᳫं᳭ सो᳘मान्नि᳘र्मुच्यते यदा᳘हैतत्त्वं᳘ देव सोम देवो᳘ देवा २ँ॥ ऽउ᳘पागा ऽइद᳘महं᳘ मनु᳘ष्यान्त्सह᳘ रायस्पो᳘षेणेति᳘[[!!]] भूमा वै᳘ रायस्पो᳘षः सह᳘ भूम्ने᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थानुसृज्यो᳘पतिष्ठते॥
एतत्त्वं᳘ देव सोम देवो᳘ देवान् उ᳘पागा इद᳘मह᳘म् मनुॗष्यान्त्सह᳘ रायस्पो᳘षेणे᳘त्यग्नीषो᳘मौ वा᳘ एत᳘मन्तर्जम्भ᳘᳘ 34 आ᳘दधाते यो दी᳘क्षत आग्नावैष्णवᳫं ह्यदो᳘ दीक्षणी᳘यᳫं हविर्भ᳘वति यो वै वि᳘ष्णुः सो᳘मः स᳘ हविर्वा᳘ एष᳘ देवा᳘नाम् भवति यो दी᳘क्षते त᳘देनमन्तर्जम्भ आ᳘दधाते त᳘त्प्रत्य᳘क्षᳫं सो᳘मान्नि᳘र्मुच्यते यदा᳘हैतत्त्वं᳘ देव सोम देवो᳘ देवान् उ᳘पागा इद᳘मह᳘म् मनुॗष्यान्त्सह रायस्पो᳘षेणे᳘ति भूमा वै᳘ रायस्पो᳘षः सह᳘ भूम्ने᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथानुसृज्योपतिष्ठते- “एतत् त्वं देव सोम देवो देवान् २ँ ॥ उपागा इदमहं मनुष्यान्त्सह रायस्पोषेण”- (वा. सं. ५ । ३९) इति । अग्नीषोमौ वा एतमन्तर्जम्भ आदधाते- यो दीक्षते । आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति । यो वै विष्णुः- सोमः सः । ह विर्वा ऽएष देवानां भवति- यो दीक्षते । तदेनमन्तर्जम्भे आदधाते । तत्प्रत्यक्षं सोमान्निर्मुच्यते । यदाह- एतत्त्वं देव सोम देवो देवान् २ ॥ उपागाः । इदमहं मनुष्यान्त्सह रायस्पोषेणेति । भूमा वै रायस्पोषः । सह भूम्नेत्येवैतदाह ॥ १९ ॥

सायणः

अथानुसृज्योपतिष्ठत इति । ‘अनुसृज्य’ विसृज्येत्यर्थः । तथा च कात्यायनः- “एतत्त्वमिति विसृज्योपतिष्ठते-" (का. श्रौ. ८ । १९६) इति । मन्त्रस्यार्थः- हे ‘सोम देव !’ ‘त्वम्’ इदानीं ‘देवान्’ ‘उपागाः’ प्राप्तो ऽसि, ‘अहम्’ अपि मनुष्यः सन् ‘एतत्’ इदानीं ‘मनुष्यान्’ अस्मदीयान् ‘उपागाः’ उपागां प्राप्तो ऽस्मि । न केवलः अहमेव किन्तु ‘रायस्पोषेण सह’ धनपोषणसहित एव । यजमानस्याग्नीषोमयोर्जम्भानुप्रवेशेन तदीयधनस्यापि अनुप्रवेशात्, इदानीं निर्गमसाहित्यमपेक्षितम् । “अग्नीषोमौ वा एतमन्तर्जम्भे” इत्यादिकम्, एतन्मन्त्रब्राह्मणम्, “अथ प्रतिप्रस्थाता अग्रेण शालाग्नीषोमीयेण पशुना”- इत्यत्र व्याख्यातम् (श. प. ब्रा. ३ । ३ । ४ । २१) । तत् एतत्त्वं देव सोम देवो देवाँ उपागा इदमहं मनुष्यान्- इत्यभिधानेन ‘प्रत्यक्षम्’ एव ‘सोमाद्’ विमुच्यते ॥ १९॥

Eggeling
  1. Having quitted his hold of him, he (the sacrificer) renders homage to him with, ‘Now, O divine Soma, hast thou, a god, joined the gods, and

here I the men with increase of wealth.’ Now Agni and Soma have seized him who consecrates himself between their jaws 35, for that consecration-offering belongs to Agni and Vishṇu, and Vishṇu forsooth is no other than Soma; and he himself that consecrates himself is the food of the gods: thus they have seized him between their jaws, and he now expressly redeems himself from Soma, when he says, ‘Now, O divine Soma, hast thou, a god, joined the gods, and here (have I joined) the men with increase of wealth;’–increase of wealth means abundance: ‘with abundance’ he thereby means to say.

२०

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थोपनि᳘ष्क्रामति॥
स्वा᳘हा निर्व्व᳘रुणस्य पा᳘शान्मुच्य ऽइ᳘ति व्वरुणपाशे वा᳘ ए᳘षो ऽन्त᳘र्भवति᳘ यो ऽन्य᳘स्यासंस्त᳘त्प्रत्य᳘क्षं व्वरुणपाशान्नि᳘र्मुच्यते यदा᳘ह स्वा᳘हा निर्व्व᳘रुणस्य पा᳘शान्मुच्य ऽइति[[!!]]॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थोपनि᳘ष्क्रामति॥
स्वा᳘हा निर्व्व᳘रुणस्य पा᳘शान्मुच्य ऽइ᳘ति व्वरुणपाशे वा᳘ ए᳘षो ऽन्त᳘र्भवति᳘ यो ऽन्य᳘स्यासंस्त᳘त्प्रत्य᳘क्षं व्वरुणपाशान्नि᳘र्मुच्यते यदा᳘ह स्वा᳘हा निर्व्व᳘रुणस्य पा᳘शान्मुच्य ऽइति[[!!]]॥

मूलम् - Weber

अ᳘थोपनि᳘ष्क्रामति॥
स्वा᳘हा निर्व᳘रुणस्य पा᳘शान्मुच्य इ᳘ति वरुणपाशे वा᳘ एॗषो ऽन्त᳘र्भवतिॗ यो ऽन्य᳘स्यासंस्त᳘त्प्रत्य᳘क्षं वरुणपाशान्नि᳘र्मुच्यते यदा᳘ह स्वा᳘हा निर्व᳘रुणस्य पा᳘शान्मुच्य इ᳘ति॥

मूलम् - विस्वरम्

अथोपनिष्क्रामति । “स्वाहा निर्वरुणस्य पाशान्मुच्ये”- (वा. सं. ५ । ३९) इति । वरुणपाशे वा एषो ऽन्तर्भवति- यो ऽन्यस्यांसन् । तत्प्रत्यक्षं वरुणपाशान्निर्मुच्यते । यदाह स्वाहा निर्वरुणस्य पाशान्मुच्य ऽइति ॥ २० ॥

सायणः

हविर्द्धानात् समन्त्रकं निष्क्रमणं विधत्ते- अथोपनिष्क्रामतीति । स्वाहा निर्वरुणस्येति । “स्वाहा निरिति निष्क्रम्य”- (का. श्रौ. सू. ८ । १९७) इति सूत्रम् । मन्त्रे वरुणपाशप्रसङ्गं दर्शयति- वरुणपाशो वा एषो ऽन्तर्भवतीति ॥ २० ॥

Eggeling
  1. He then walks out (of the cart-shed), with, ‘Hail! I am freed from Varuṇa’s noose!’ For he, truly, is in Varuṇa’s noose who is in another’s mouth: he now frees himself from Varuṇa’s noose, when he says, ‘Hail! I am freed from Varuṇa’s noose.’

२१

विश्वास-प्रस्तुतिः

(य) अथे᳘त्याहवनी᳘ये समि᳘धमभ्या᳘दधाति॥
(त्य᳘) अ᳘ग्ने व्व्रतपास्त्वे᳘ व्व्रत ऽपाइ᳘त्यग्निर्हि᳘ देवा᳘नां व्व्रत᳘पतिस्त᳘स्मादाहा᳘ग्ने व्व्रतपास्त्वे᳘ व्व्रतपा इ᳘ति या त᳘व तनूर्म्मय्य᳘भूदेषा सा त्व᳘यि᳘ यो म᳘म तनूस्त्वय्य᳘भूदियᳫं सा म᳘यि। यथायथं᳘ नौ व्व्रतपते व्व्रतान्य᳘नु मे दीक्षां᳘ दीक्षा᳘पतिर᳘मᳫंस्ता᳘नु त᳘पस्त᳘पस्पतिरि᳘ति त᳘त्प्रत्य᳘क्षमग्नेर्न्नि᳘र्मुच्यते स स्वे᳘न स᳘तात्म᳘ना यजते त᳘स्मादस्या᳘त्राश्नन्ति मानुषो हि भ᳘वति त᳘स्मादस्या᳘त्र ना᳘म गृह्णन्ति मानुषो हि भ᳘वत्य᳘थ य᳘त्पुरा᳘ नाश्न᳘न्ति य᳘था हविषो᳘ ऽहुतस्य᳘ नाश्नीया᳘देवं तत्त᳘स्माद्दीक्षित᳘स्य᳘ नाश्नीयादथा᳘त्राङ्गु᳘लीर्व्वि᳘सृजते॥

मूलम् - श्रीधरादि

(य) अथे᳘त्याहवनी᳘ये समि᳘धमभ्या᳘दधाति॥
(त्य᳘) अ᳘ग्ने व्व्रतपास्त्वे᳘ व्व्रत ऽपाइ᳘त्यग्निर्हि᳘ देवा᳘नां व्व्रत᳘पतिस्त᳘स्मादाहा᳘ग्ने व्व्रतपास्त्वे᳘ व्व्रतपा इ᳘ति या त᳘व तनूर्म्मय्य᳘भूदेषा सा त्व᳘यि᳘ यो म᳘म तनूस्त्वय्य᳘भूदियᳫं सा म᳘यि। यथायथं᳘ नौ व्व्रतपते व्व्रतान्य᳘नु मे दीक्षां᳘ दीक्षा᳘पतिर᳘मᳫंस्ता᳘नु त᳘पस्त᳘पस्पतिरि᳘ति त᳘त्प्रत्य᳘क्षमग्नेर्न्नि᳘र्मुच्यते स स्वे᳘न स᳘तात्म᳘ना यजते त᳘स्मादस्या᳘त्राश्नन्ति मानुषो हि भ᳘वति त᳘स्मादस्या᳘त्र ना᳘म गृह्णन्ति मानुषो हि भ᳘वत्य᳘थ य᳘त्पुरा᳘ नाश्न᳘न्ति य᳘था हविषो᳘ ऽहुतस्य᳘ नाश्नीया᳘देवं तत्त᳘स्माद्दीक्षित᳘स्य᳘ नाश्नीयादथा᳘त्राङ्गु᳘लीर्व्वि᳘सृजते॥

मूलम् - Weber

अथे᳘त्याहवनी᳘ये समि᳘धमभ्या᳘दधाति॥
अ᳘ग्ने व्रतपास्त्वे᳘ व्रतपा इ᳘त्यग्निर्हि᳘ देवा᳘नां व्रत᳘पतिस्त᳘स्मादाहा᳘ग्ने व्रतपास्त्वे᳘ व्रतपा इ᳘ति या त᳘व तनूर्मय्य᳘भूदेषा सा त्व᳘यिॗ यो म᳘म तनूस्त्वय्य᳘भूदियᳫं सा म᳘यि यथायथं᳘ नौ व्रतपते व्रतान्य᳘नु मे दीक्षां᳘ दीक्षा᳘पतिर᳘मंस्ता᳘नु त᳘पस्त᳘पस्पतिरि᳘ति त᳘त्प्रत्य᳘क्षमग्नेर्नि᳘र्मुच्यते स स्वे᳘न सॗतात्म᳘ना यजते त᳘स्मादस्या᳘त्राश्नन्ति मानुषो हि भ᳘वति त᳘स्मादस्या᳘त्र ना᳘म गृह्णन्ति मानुषो हि भ᳘वत्य᳘थ य᳘त्पुराॗ नाश्न᳘न्ति य᳘था हविषो᳘ हुतस्यॗ नाश्नीया᳘देवं तत्त᳘स्माद्दीक्षित᳘स्यॗ नाश्नीयादथा᳘त्राङ्गु᳘लीर्वि᳘सृजते॥

मूलम् - विस्वरम्

अथेत्याहवनीये समिधमभ्यादधाति “अग्ने व्रतपास्त्वं व्रतपाः"- (वा. सं ५ । ४०) । इति । अग्निर्हि देवानां व्रतपतिः । तस्मादाह- अग्ने व्रतपास्त्वे व्रतपा इति । “या तव तनूर्म्मय्यभूदेषा सा त्वयि । यो मम तनूस्त्वय्यभूदियं सा मयि । यथायथं नौ व्रतपते व्रतान्यनु मे दीक्षां दीक्षापतिरमंस्तानु तपस्तपस्पतिः” (वा. सं. ५ । ४०) इति । तत् प्रत्यक्षमग्नेर्न्निर्मुच्यते । स स्वेन सतात्मना यजते । तस्मादस्यात्राश्नन्ति । मानुषो हि भवति । तस्मादस्यात्र नाम गृह्णन्ति । मानुषो हि भवति । अथ यत् पुरा नाश्नन्ति- यथा हविषो ऽहुतस्य नाश्नीयात् एवं तत् । तस्माद्दीक्षितस्य नाश्नीयात् । अथात्रांगुलीर्विसृजते ॥ २१ ॥

सायणः

अथेत्याहवनीये समिधमभ्यादधातीति 36 । समिधमेवाभ्यादधदवान्तरदीक्षा उपैति “अग्ने व्रतपाः”- इति । तत्र स्वशरीरमग्नावेव संस्थाप्य अग्निशरीरस्य स्वस्मिन्वारणमुक्तम्, इह तु तद्वैपरीत्येन यथायथं शरीरस्वीकार इति विशेषः । स स्वेन सतात्मना यजत इति । पूर्वमग्न्यात्मना सता, इदानीं ‘स्वेन’ यजमानात्मना सता ‘यजते’; स्वशरीरस्य पुनः प्राप्तत्वात् । दीक्षितान्ननिषेधभावाभावयोरप्ययमेवाभिप्राय इत्याह- तस्मादस्यात्राश्नन्तीति । तस्मादिति हेतुं विवृणोति- मानुषो हीति नामग्रहणस्यापि मानुषभाव एव; अतो ऽर्थाद् वैसर्जनहोमपर्यन्तं दीक्षितस्य नाम न गृह्णीयादिति विधिरुन्नीयते । यथा हविषो ऽहुतस्य नाश्नीयादेवं तदिति । ‘अहुतं’ यथा देवातिथिषु मनुष्यो ‘नाश्नीयात्’ ‘एवं तत्’ अपि भवति; धनस्यापि यजमानेन सह प्रवेशादित्यभिप्रायः । “नामग्रहणभोजने अस्यातःकुर्वन्ति" (का. श्रौ. सू. ८ । २००) इति सूत्रम् ॥ २१ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे षष्ठाध्याये तृतीयं ब्राह्मणम् ॥ (३-६-३)

Eggeling
  1. He then puts a kindling-stick on the Āhavanīya in this way 37, ‘O Agni, protector of vows, on thee, O protector of vows–’ for Agni is lord of vows to the gods, wherefore he says, ‘O Agni, protector of vows, on thee, O protector of vows’–‘what bodily form of thine hath been on me, (may) that (be) on thee; what bodily form of mine has been on thee, (may) that (be) here on me! Our vows, O lord of vows, (have been performed) rightly: the lord of consecration hath

approved my consecration; the lord of penance hath approved my penance.’ Thereby he frees himself visibly from Agni, and sacrifices with a self (body) now his own: hence they now partake of his food, for he is a man (again); hence they now use his (real) name, for he is a man. And as to their not eating (of his food) heretofore, it is as one would not eat of sacrificial food, before offering has been made thereof: therefore let no one partake of the food of one consecrated. He now loosens his fingers.


  1. 155:2 Or, corresponds to (anu). ↩︎

  2. वैसर्जिनानिं इति क्वचित् पाठः । ↩︎

  3. “अपिव्रतास्त उच्यन्ते येषां यजमानव्रते अपित्वमस्ति । दायाद्येनाविभक्ता इति पितृभूतिः । अपिः संसर्गे । व्रतमिति कर्मनाम । संसृष्टं साधारणं कर्म येषां ते अपिव्रता अविभक्तदायादाः, ते ह्येकेनापि कृतं कृष्यादिकर्म सर्व “उपजीवन्ति” इति हरिस्वामिनः । ↩︎

  4. 155:3 That is, a blood-relation of the sacrificer, dwelling together with him. Cf. also p. 40, note 1. ↩︎

  5. 156:1 Viz. on the Āhavanīya of the Prācīnavaṁśa (hall) now serving as the Gārhapatya, and generally called śālādvārya, i.e. the one near the (front or eastern) hall-door. ↩︎

  6. इध्मं निधायाग्नीषोमीयायवेदेःस्तरणमग्रहणंप्रस्तरस्यापराह्णे, अर्द्धव्रते प्रत्ते प्रविश्यप्रणयनीयाधानम् । का. श्रौ. सू. ८ । १७१-१७२ ↩︎ ↩︎

  7. अग्नीषोमीयवेदेः स्तरणमग्रहणं प्रस्तरस्यापराह्णे । अर्द्धव्रतेप्रत्तेप्रविश्य प्रणयनीयाधानम् । आज्याधिश्रयणस्रुक् समार्जनोद्वासनावेक्षणानिकृत्वा शालाद्वार्यमपरेणास्ते यजमान उपस्थे सोमंकृत्वा । शालाद्वार्यमपरेण सोमक्रयणीपदं परिकिति । चतुर्द्धैक आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याक्षोपांजने च । का. श्रौ. सू. ८ । ७१-७५ । ↩︎ ↩︎

  8. 156:2 See p. 121, note 2. ↩︎

  9. 156:3 Pr̥shad-ājya (lit. mottled butter) is clarified butter mixed with sour milk. ↩︎

  10. प्रदीप्तमिध्मं त्व ँ सोमेति प्रचरण्या ऽभिजुहोति । का. श्रौ. सू. ८ । १८१ । ↩︎ ↩︎

  11. 157:1 He offers some ghee from a substitute spoon (pracaranī), as the proper offering-spoons now filled with ghee and clotted ghee have to be carried with the fire to the Āgnīdhra. ↩︎

  12. 157:2 Mahīdhara explains ’tanūkr̥t’ by ’tanūṁ kr̥ntanti cindanti.’ It ought rather to mean ‘body-making,’–? from the enemies that assume (various) forms.’ ↩︎

  13. अग्नये प्रह्रियमाणायानुवाचयति सोमाय प्रणीयमानायेति वा । का. श्रौ. सू. ८ । १८३ । ↩︎ ↩︎

  14. 157:3 The Kāṇva text, on the contrary, enjoins that he is to say, ‘Recite for Soma . . .!’ In the Hotr̥’s ritual this is called the Agnīshoma-praṇayana. For the seventeen verses (brought up to twenty-one by repetitions) of the Hotr̥, see Ait. Br. I, 30 (Haug, Translation, p. 68); Āśv. IV, 10. The Soma is carried either by the Brahman himself or by the sacrificer. Kāty. XI, 1, 13, 14. ↩︎

  15. वि᳘धृती. ↩︎

  16. द्रोणकलशो द्रुममयः कलशाकारो वैकङ्कतः, यस्योपरि धाराग्रहा गृह्यन्ते । इति का. श्रौ. सू. ८ । १८४ टिप्पन्याम् । ↩︎

  17. नव ग्रहपात्राणि, दश चमसा, परिप्लवा, ऋतुपात्रे, ऊर्णापात्रे, स्थाल्यश्चतस्रः, पूतभृदाहवनीयौ, उदञ्चनः, सोमासन्दी, इत्येवमादीनि । ↩︎

  18. काष्मर्यमयाः परिधय आश्वबालः प्रस्तर ऐक्षव्यौ विधृती बर्हिश्च । का. श्रौ. सू. ८ । १??? ↩︎

  19. 158:1 The ‘Vāyavya’ are wooden cups shaped like a mortar. It seems here to include all the Soma-cups, see IV, 1, 3, 7-10; Kāty, VIII, 7, 5. ↩︎

  20. 158:2 See III, 4, 1, 17-18. ↩︎

  21. 158:3 Viz. at the guest-offering, see p. 103, note 3. It was tied up with the three objects mentioned immediately before. ↩︎

  22. 158:4 The vapāśrapaṇī are sticks of kārshmarya wood. ↩︎

  23. 158:5 For these objects, see p. 90, note 5. ↩︎

  24. 158:6 ‘Thus that sacrifice goes upwards to yonder heavenly world, and, the sacrifice being the sacrificer, the sacrificer thus goes thither,’ Kāṇva text. See III, 6, 1, 28, where the gods are said to have attained immortality from the Āgnīdhrīya. ↩︎

  25. विद्वान् । AB. ↩︎

  26. अग्ने नयेति व्वाचयति । का. श्रौ. सू. ८ । १८५ । ↩︎ ↩︎

  27. उत्तरेण सदो हृत्वा ऽऽग्नीध्रे ऽग्निं निदधाति । का. श्रौ. सू. ८।१८??? ↩︎

  28. ग्रावद्रोणकलशसोमपात्राणि च । का. श्रौ. सू. ८ । १८७ । ↩︎ ↩︎ ↩︎

  29. उत्तरेण परिक्रम्याहवनीयस्योत्तरतो निदधात्यन्यदाज्य ँ सोमवर्जम् । का. श्रौ. सू. ८ । १८९ । ↩︎ ↩︎

  30. 159:1 Also the two fringed filtering-cloths (daśāpavitre), according to the Kāṇva rec. ↩︎

  31. ‘प्रसमुपोदः पादपूरणे’ इति पा. सू. ८ । १ । ६ । प्रशब्दस्य द्वित्वम् । ↩︎

  32. तच्च सोमानयनं यजमानकर्तृकं ब्रह्मकर्तृकं वा भवति- “हुते च सोममादायाग्निमन्वेति” “यजमानो वा सोम ँ हरेत्” इति कात्यायनोक्तेः । का. श्रौ. सू. (११ । १३ । १४ ।) ↩︎

  33. 160:1 ‘He then deposits the Prastara on the mound (p. 140, note 2), deposits there the juhū and the upabhr̥t and the pr̥shadājya; and having touched the sacrificial materials and touched water, he takes the king and enters (the cart-shed),’ &c. Kāṇva rec. ↩︎

  34. मन्तर्जभ A. ↩︎

  35. 161:1 See III, 3, 4, 21. ↩︎

  36. अग्नेव्रतपा इत्याहवनीये समिधमाधाय । का० श्रौ० सू० ८ । १९७ । ↩︎

  37. 161:2 Thus (iti), viz. with the following modifications of the corresponding formula, used at the ‘intermediary consecration,’ III, 4, 3, 9. Perhaps ‘iti’ may mean ’thus,’ i.e. while still keeping his fingers turned in; or, it may mean ‘as such’ (as a free man). ↩︎