०१

विश्वास-प्रस्तुतिः

उद᳘रमे᳘वास्य स᳘दः॥
(स्त᳘) त᳘स्मात्स᳘दसि भक्षयन्ति य᳘द्धीदं कि᳘ञ्चाश्न᳘न्त्युद᳘र ऽए᳘वेदᳫँ᳭ स᳘र्व्वं प्र᳘तितिष्ठत्य᳘थ य᳘दस्मिन्वि᳘श्वे देवा ऽअ᳘सीदंस्त᳘स्मात्स᳘दो ना᳘म त᳘ ऽउ ऽए᳘वास्मिन्नेते᳘ ब्राह्मणा᳘ व्विश्व᳘गोत्राः सीदन्त्यैन्द्रं᳘ देव᳘तया॥

मूलम् - श्रीधरादि

उद᳘रमे᳘वास्य स᳘दः॥
(स्त᳘) त᳘स्मात्स᳘दसि भक्षयन्ति य᳘द्धीदं कि᳘ञ्चाश्न᳘न्त्युद᳘र ऽए᳘वेदᳫँ᳭ स᳘र्व्वं प्र᳘तितिष्ठत्य᳘थ य᳘दस्मिन्वि᳘श्वे देवा ऽअ᳘सीदंस्त᳘स्मात्स᳘दो ना᳘म त᳘ ऽउ ऽए᳘वास्मिन्नेते᳘ ब्राह्मणा᳘ व्विश्व᳘गोत्राः सीदन्त्यैन्द्रं᳘ देव᳘तया॥

मूलम् - Weber

उद᳘रमेॗवास्य स᳘दः॥
त᳘स्मात्स᳘दसि भक्षयन्ति यॗद्धीदं किं᳘ चाश्न᳘न्त्युद᳘र एॗवेदᳫं स᳘र्वम् प्र᳘तितिष्ठत्य᳘थ य᳘दस्मिन्वि᳘श्वे देवा अ᳘सीदंस्त᳘स्मात्स᳘दो ना᳘म त᳘ उ एॗवास्मिन्नेते᳘ ब्राह्मणा᳘ विश्व᳘गोत्राः सीदन्त्यैन्द्रं᳘ देव᳘तया॥

मूलम् - विस्वरम्

औदुम्बरी ।

उदरमेवास्य सदः । तस्मात् सदसि भक्षयन्ति । यद्धीदं किञ्चाश्नन्ति- उदर एवेदं सर्वं प्रतितिष्ठति । अथ यदस्मिन् विश्वे देवा असीदन्- तस्मात् सदो नाम । त ऽउ ऽएवास्मिन्नेते ब्राह्मणाविश्वगोत्राः सीदन्ति- ऐन्द्रं देवतया ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्म्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

यज्ञशिररत्वं हविर्द्धानस्योक्त्वा तत् समर्थ्य, इदानीं सदसो यज्ञोदरत्वं प्रतिपादयितुं पूर्वोक्तमनुवदति- उदरमेवास्य सदस्तस्मात् सदसि भक्षयन्तीत्यादिना । ऐन्द्रं देवतयेति । यथा हविर्द्धानं विष्णुदेवत्यम् । एवं सद इन्द्रदेवत्यमित्यर्थः । तृतीयाविधाने “प्रकृत्यादिभ्य उपसङ्ख्यानम्” (पा. सू. २ । ३ । १ । वा. १ ।) इति तृतीया ॥ १ ॥

Eggeling
  1. The Sadas 1 is no other than his (Vishṇu, the sacrifice’s) belly; therefore they feed (drink) in the

Sadas; for whatever food is eaten here on earth, all that settles down in the belly. And because all the gods sat (sad) in it, therefore it is called sadas: and so do these Brāhmans of every family now sit therein. By way of deity it belongs to Indra.

०२

विश्वास-प्रस्तुतिः

तन्म᳘ध्य ऽऔ᳘दुम्बरीं मिनोति॥
(त्य᳘) अ᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऽउद᳘रमे᳘वास्य स᳘दस्त᳘न्मध्य᳘तो ऽन्ना᳘द्यं दधाति त᳘स्मान्म᳘ध्यऔ᳘दुम्बरीं मिनोति॥

मूलम् - श्रीधरादि

तन्म᳘ध्य ऽऔ᳘दुम्बरीं मिनोति॥
(त्य᳘) अ᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऽउद᳘रमे᳘वास्य स᳘दस्त᳘न्मध्य᳘तो ऽन्ना᳘द्यं दधाति त᳘स्मान्म᳘ध्यऔ᳘दुम्बरीं मिनोति॥

मूलम् - Weber

तन्म᳘ध्य औ᳘दुम्बरीम् मिनोति॥
अ᳘न्नं वा ऊ᳘र्गुदुम्ब᳘र उद᳘रमेॗवास्य स᳘दस्त᳘न्मध्य᳘तो ऽन्ना᳘द्यं दधाति त᳘स्मान्म᳘ध्य औ᳘दुम्बरीम् मिनोति॥

मूलम् - विस्वरम्

तन्मध्य औदुम्बरीं मिनोति । अन्नं वा ऽऊर्गुदुम्बरः । उदरमेवास्य सदः । तन्मध्यतो ऽन्नाद्यं दधाति । तस्मान्मध्य औदुम्बरीं मिनोति ॥ २ ॥

सायणः

तन्मध्य औदुम्बरीमित्यादि 2 । ‘तन्मध्ये’ तस्य सदसो मध्यदेशे ‘औदुम्बरी’ स्थूणां ‘मिनुयात्’ । औदुम्बर्या मध्यदेशस्थापनयोग्यतां दर्शयति- अन्नं वा ऊर्गित्यादिना । ऊर्ग्वा उदुम्बरः “देवा वा ऊर्ज व्यभजन्त, तत उदुम्बर उदतिष्ठत् ऊर्ग्वा उदुम्बरः”- (तै. ब्रा. १ । १ । २ । १०) इति श्रुतेः ऊर्ग्रूपत्वमुदुम्बरस्थ । मध्ये हुतशेषस्य भक्षणात् सदस उदरत्वम्, अतः सदोमध्ये औदुम्बरीमानेन उदरमध्ये ऽन्नं स्थापितम् ॥ २ ॥

Eggeling
  1. In the middle of it he puts up a (post) of udumbara wood (Ficus Glomerata); for the udumbara means strength and food; now the Sadas being his (Vishṇu’s belly), he thereby puts food therein; this is why he puts up an udumbara (post) in the middle of it.

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘ एष᳘ मध्यमः᳘ शङ्कुर्भ᳘वति॥
व्वे᳘देर्जघनार्द्धे त᳘स्मात्प्राङ्प्र᳘क्रामति[[!!]] ष᳘ड्विक्रमा᳘न्दक्षिणा᳘ सप्तम᳘मप᳘क्रामति[[!!]] सम्पदः[[!!]] का᳘माय त᳘दवटं प᳘रिलिखति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘ एष᳘ मध्यमः᳘ शङ्कुर्भ᳘वति॥
व्वे᳘देर्जघनार्द्धे त᳘स्मात्प्राङ्प्र᳘क्रामति[[!!]] ष᳘ड्विक्रमा᳘न्दक्षिणा᳘ सप्तम᳘मप᳘क्रामति[[!!]] सम्पदः[[!!]] का᳘माय त᳘दवटं प᳘रिलिखति॥

मूलम् - Weber

अ᳘थ य᳘ एष᳘ मध्यमः᳘ शङ्कुर्भ᳘वति॥
वे᳘देर्जघनार्धे त᳘स्मात्प्रा᳘ङ् प्र᳘क्रामति ष᳘ड्विक्रमा᳘न्दक्षिणा᳘ सप्तमम᳘पक्रामति सम्प᳘दः का᳘माय त᳘दवटम् प᳘रिलिखति॥

मूलम् - विस्वरम्

अथ य एष मध्यमः शंकुर्भवति- वेदेर्जघनार्द्धे । तस्मात् प्राङ् प्रक्रामति- षड्विक्रमान्- दक्षिणा सप्तममपक्रामति- सम्पदः कामाय । तदवटं परिलिखति ॥ ३ ॥

सायणः

तदपि मध्यदेशं विशिनष्टि- अथ य एष मध्यमः शंकुरित्यादिना । सौमिकवेद्या जघनार्द्धस्य मध्यदेशे यः शंकुविहितः ततः प्राक् षट्प्रक्रमान् विक्रम्य, सप्तमं दक्षिणाभिमुखं विक्रम्य, तत्र अवटं परिलिखेत् ॥ ३ ॥

Eggeling
  1. From the peg 3 which stands in the middle on the hind-part of the altar, he strides six steps eastwards (along the ‘spine’); the seventh he strides away from it to the right, for the sake of completeness, and there marks off a pit.

०४

विश्वास-प्रस्तुतिः

सो᳘ ऽभ्रिमा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामा᳘ददे ना᳘र्य्यसी᳘ति समान᳘ ऽएत᳘स्य य᳘जुषो ब᳘न्धुर्यो᳘षो वा᳘ एषा यद᳘भ्रिस्त᳘स्मादाह ना᳘र्य्यसीति[[!!]]॥

मूलम् - श्रीधरादि

सो᳘ ऽभ्रिमा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामा᳘ददे ना᳘र्य्यसी᳘ति समान᳘ ऽएत᳘स्य य᳘जुषो ब᳘न्धुर्यो᳘षो वा᳘ एषा यद᳘भ्रिस्त᳘स्मादाह ना᳘र्य्यसीति[[!!]]॥

मूलम् - Weber

सो᳘ ऽभ्रिमा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्यामा᳘ददे ना᳘र्यसी᳘ति समान᳘ एत᳘स्य य᳘जुषो ब᳘न्धुर्यो᳘षो वा᳘ एषा यद᳘भ्रिस्त᳘स्मादाह ना᳘र्यसी᳘ति॥

मूलम् - विस्वरम्

सो ऽभ्रिमादत्ते- “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्य्यसि”- (वा. सं. ५ । २६) इति । समान एतस्य यजुषो बन्धुः । योषो वा एषा-यदभ्रिः । तस्मादाह- नार्य्यसीति ॥ ४ ॥

सायणः

अवटखननार्थमभ्र्यादानं समन्त्रकं विधत्ते- सो ऽभ्रिमादत्ते देवस्य त्वेति 4 । व्याख्यातमेतत् ॥ ४ ॥

Eggeling
  1. He takes the spade with (Vāj. S. V, 26), ‘At the impulse of the divine Savitr̥, I take thee with the arms of the Aśvins, with the hands of Pūshan: thou art a woman;’ the significance of this formula is the same (as before). That spade, indeed, is a female (feminine): therefore. he says ’thou art a woman.’

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थावटं प᳘रिलिखति॥
(ती) इद᳘महᳫँ᳭ र᳘क्षसां ग्रीवा ऽअ᳘पिकृन्तामी᳘ति व्व᳘ज्रो वा अ᳘भ्रिर्व्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसां ग्रीवा ऽअ᳘पिकृन्तति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थावटं प᳘रिलिखति॥
(ती) इद᳘महᳫँ᳭ र᳘क्षसां ग्रीवा ऽअ᳘पिकृन्तामी᳘ति व्व᳘ज्रो वा अ᳘भ्रिर्व्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसां ग्रीवा ऽअ᳘पिकृन्तति॥

मूलम् - Weber

अ᳘थावटम् प᳘रिलिखति॥
इद᳘महं र᳘क्षसां ग्रीवा अ᳘पिकृन्तामी᳘ति व᳘ज्रो वा अभ्रिर्व᳘ज्रेणैॗवैत᳘न्नाष्ट्रा᳘णां र᳘क्षसां ग्रीवा अ᳘पिकृन्तति॥

मूलम् - विस्वरम्

अथावटं परिलिखति- “इदमहं रक्षसां ग्रीवा अपिकृन्तामि”- (वा. सं० ५ । २६) इति । वज्रो वा अभ्रिः । वज्रेणैवेतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्तति ॥ ५ ॥

सायणः

अथावटं परिलिखतीति । अवटपरिलेखनमन्त्रस्यायमर्थः- ‘इदम्’ एतेन परिलेखनेन ‘रक्षसां’ ‘ग्रीवाः’ कण्ठावयवान् ‘अपिकृन्तामि’ छिनद्मि । वज्रवत्तीक्ष्णधारत्वादभ्रिर्वज्रत्वेन स्तूयते । ‘नाष्ट्राणां’ नाशकानाम् । स्पष्टमन्यत् ॥ ५ ॥

Eggeling
  1. He then marks off the pit with, ‘Herewith

I cut off the necks of the Rakshas!’ for the spade is the thunderbolt: it is with the thunderbolt that he cuts off the necks of the evil spirits.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ खनति॥
प्रा᳘ञ्चमुत्करमु᳘त्किरति य᳘जमानेन सम्मायौ᳘दुम्बरीं प᳘रिवासयति ताम᳘ग्रेण[[!!]] प्रा᳘ची नि᳘दधात्येतावन्मात्रा᳘णि बर्ही᳘ᳫं᳘ष्युप᳘रिष्टादधिनि᳘दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ खनति॥
प्रा᳘ञ्चमुत्करमु᳘त्किरति य᳘जमानेन सम्मायौ᳘दुम्बरीं प᳘रिवासयति ताम᳘ग्रेण[[!!]] प्रा᳘ची नि᳘दधात्येतावन्मात्रा᳘णि बर्ही᳘ᳫं᳘ष्युप᳘रिष्टादधिनि᳘दधाति॥

मूलम् - Weber

अ᳘थ खनति॥
प्रा᳘ञ्चमुत्करमु᳘त्किरति य᳘जमानेन सम्मायौ᳘दुम्बरीम् परिवासयति ताम᳘ग्रे᳘ण प्रा᳘चीं नि᳘दधात्येतावन्मात्रा᳘णि बर्हीं᳘ष्युप᳘रिष्टादधिनि᳘दधाति॥

मूलम् - विस्वरम्

अथ खनति । प्राञ्चमुत्करमुत्किरति । यजमानेन सम्मायौदुम्बरीं परिवासयति । तामग्रेण प्राचीं निदधाति । एतावन्मात्राणि बर्हींषि उपरिष्टादधिनिदधाति ॥ ६ ॥

सायणः

अथ खनतीति 4 । ‘उत्करं’ खातं मृन्निचयं ‘प्राञ्चम्’ अवटस्य समीपे प्राग्देशे ‘उत्किरति’ । ‘यजमानेन सम्माय’ यजमानप्रमाणं कृत्वा ‘परिवासयति’ अवशिष्टमंशं छिनत्ति । ‘ताम्’ औदुम्बरशाखाम् ‘अग्रेण’ अवटस्य प्राग्देशे ‘प्राचीं’ प्रागग्रां स्थापयेत् । ‘एतावन्मात्राणि’ औदुम्बरीप्रमाणानि ‘बर्हींषि’ ‘उपरिष्टाद्’ औदुम्बर्या उपरि ‘निदधाति’ आच्छादयेदित्यर्थः ॥ ६ ॥

Eggeling
  1. Thereupon he digs: eastwards he throws up the heap of earth. Having made the udumbara (post) of the same size as the sacrificer 5, he cuts it smooth all round, and lays it down, with the top to the east, in front (of the pit). Thereon he lays barhis-grass of the same length.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘वमत्यः प्रो᳘क्षण्यो भवन्ति॥
(न्त्या᳘) आ᳘पो ह वा ओ᳘षधीनाᳫं᳭ र᳘सस्त᳘स्मादो᳘षधयः के᳘वल्यः खादिता न᳘ धिन्वन्त्यो᳘षधय ऽउ हापाᳫं᳭ र᳘सस्त᳘स्मादा᳘पः पीताः के᳘वल्यो न᳘ धिन्वन्ति य᳘दै᳘वोभ᳘य्यः स᳘ᳫं᳘सृष्टा भ᳘वन्त्य᳘थैव᳘ धिन्वन्ति त᳘र्हि हि स᳘रसा भ᳘वन्ति स᳘रसाभिः प्रो᳘क्षाणी᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘वमत्यः प्रो᳘क्षण्यो भवन्ति॥
(न्त्या᳘) आ᳘पो ह वा ओ᳘षधीनाᳫं᳭ र᳘सस्त᳘स्मादो᳘षधयः के᳘वल्यः खादिता न᳘ धिन्वन्त्यो᳘षधय ऽउ हापाᳫं᳭ र᳘सस्त᳘स्मादा᳘पः पीताः के᳘वल्यो न᳘ धिन्वन्ति य᳘दै᳘वोभ᳘य्यः स᳘ᳫं᳘सृष्टा भ᳘वन्त्य᳘थैव᳘ धिन्वन्ति त᳘र्हि हि स᳘रसा भ᳘वन्ति स᳘रसाभिः प्रो᳘क्षाणी᳘ति॥

मूलम् - Weber

अ᳘थ य᳘वमत्यः प्रो᳘क्षण्यो भवन्ति॥
आ᳘पो ह वा ओ᳘षधीनां र᳘सस्त᳘स्मादो᳘षधयः के᳘वल्यः खादिता न᳘ धिन्वन्त्यो᳘षधय उ हापां र᳘सस्त᳘स्मादा᳘पः पीताः के᳘वल्यो न᳘ धिन्वन्ति य᳘दैॗवोभ᳘य्यः स᳘ᳫं᳘सृष्टा भ᳘वन्त्य᳘थैव᳘ धिन्वन्ति त᳘र्हि हि स᳘रसा भ᳘वन्ति स᳘रसाभिः प्रो᳘क्षाणी᳘ति॥

मूलम् - विस्वरम्

अथ यवमत्यः प्रोक्षण्यो भवन्ति । आपो ह वा ओषधीनां रसः । तस्मादोषधयः केवल्यः खादिता न धिन्वन्ति । औषधय उहा अपां रसः । तस्मादापः पीताः केवल्यो न धिन्वन्ति । यदैवोभय्यः संसृष्टा भवन्ति- अथैव धिन्वन्ति- तर्हि हि सरसा भवन्ति । सरसाभिः प्रोक्षाणीति ॥ ७ ॥

सायणः

औदुम्बरीप्रोक्षणसाधनानामपां यवसाहित्यं विधाय प्रशंसति- अथ यवमत्यः प्रोक्षण्यो भवन्तीति । उक्तमपां रसत्वं युक्त्या समर्थयते- तस्मादोषधयः केवल्य इति । ‘तस्मात्’ गतरसत्वात् ‘न धिन्वन्ति’ न प्रीणयन्ति । केवलतण्डुलभक्षणे तृप्तेरदर्शनात् । “धिन्विकृण्व्योर च” इत्युप्रत्ययः (पा. सू. ३ । १ । ८०) तत्सन्नियोगेन वकारस्याकारादेशः । ओषधीनां प्रतिज्ञातमब्रसत्वमुपपादयति- तस्मादापः पीताः केवल्य इति । ‘यदा’ ‘उमय्यः’ ओषधय आपश्च ‘संसृष्टाः’ स्युः ‘अथ’ तथा सति ‘धिन्वन्ति’ ‘तर्हि’ तथा सति ‘सरसाः’ ‘भवन्ति’ भवेयुः । केनाभिप्रायेणेत्याह- सरसाभिः प्रोक्षाणीति ॥ ७ ॥

Eggeling
  1. Now the sprinkling-water (used on this occasion) contains barley-corns. For the essence (sap) of plants is water; wherefore plants when eaten alone do not satiate; and the essence of water, on the other hand, are the plants; wherefore water when drunk alone does not satiate; but only when the two are united they satiate; for then they are sapful: ‘with the sapful I will sprinkle,’ so he thinks.

०८

विश्वास-प्रस्तुतिः

देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे त᳘तो देवे᳘भ्यः स᳘र्व्वा ऽएवौ᳘षधय ऽईयुर्य्य᳘वा है᳘वैभ्यो᳘ नेयुः॥

मूलम् - श्रीधरादि

देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे त᳘तो देवे᳘भ्यः स᳘र्व्वा ऽएवौ᳘षधय ऽईयुर्य्य᳘वा है᳘वैभ्यो᳘ नेयुः॥

मूलम् - Weber

देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे त᳘तो देवे᳘भ्यः स᳘र्वा एवौ᳘षधय ईयुर्य᳘वा हैॗवैभ्योॗ नेयुः॥

मूलम् - विस्वरम्

देवाश्च वा ऽअसुराश्च उभये प्राजापत्याः पस्पृधिरे । ततो देवेभ्यः सर्वा एवौषधय ईयुः- यवा हैवैभ्यो नेयुः ॥ ८ ॥

सायणः

अथ शब्दव्युत्पत्तिप्रदर्शनमुखेन यवान् प्रशंसति- देवाश्च वा असुराश्चेत्यादिना । ‘सर्वा एव ओषधयः ईयुः’ देवेभ्यः सकाशात् पलायिताः ॥ ८ ॥

Eggeling
  1. Now, the gods and the Asuras, both of them sprung from Prajāpati, were contending. Then all the plants went away from the gods, but the barley plants alone went not from them.

०९

विश्वास-प्रस्तुतिः

(स्त) तद्वै᳘ देवा᳘ ऽअस्पृण्वत᳘॥
त᳘ ऽएतैः स᳘र्व्वाः सप᳘त्नानामो᳘षधीरयुवत यद᳘युवत त᳘स्माद्य᳘वा ना᳘म॥

मूलम् - श्रीधरादि

(स्त) तद्वै᳘ देवा᳘ ऽअस्पृण्वत᳘॥
त᳘ ऽएतैः स᳘र्व्वाः सप᳘त्नानामो᳘षधीरयुवत यद᳘युवत त᳘स्माद्य᳘वा ना᳘म॥

मूलम् - Weber

तद्वै᳘ देवा᳘ अस्पृण्वत॥
त᳘ एतैः स᳘र्वाः सप᳘त्नानामो᳘षधीरयुवत यद᳘युवत त᳘स्माद्य᳘वा ना᳘म॥

मूलम् - विस्वरम्

तद्वै देवा अस्पृण्वत । त ऽएतैः सर्वाः सपत्नानामोषधीरयुवत, यदयुवत; तस्माद्यवा नाम ॥ ९ ॥

सायणः

तद्वै देवा अस्पृण्वतेति । ‘अस्पृण्वत’ सर्वा ओषधीर्वाच्छितवन्तः । तदेव विशदयति- त एतैः सर्व्वाः सपत्नानामोषधीरयुवतेति । ‘ते’ ‘एतैः’ यवैः ‘अयुवत’ अमिश्रयन् । ‘तस्माद्’ यवनसाधनत्वाद् ‘यवाः’ इति तन्नामनिर्वचनम् । गतानाम् ओषधीनां यवनसाधनाः सम्पन्ना इति यवस्तुतिः ॥ ९ ॥

Eggeling
  1. The gods then prevailed: by means of these (barley-grains) they attracted to themselves all the plants of their enemies; and because they attracted (yu) therewith, therefore they are called yava (barley).

१०

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र्ह᳘) ह᳘न्त यः स᳘र्व्वासामो᳘षधीनाᳫं᳭ र᳘सस्तं य᳘वेषु द᳘धामे᳘ति स᳘ यःस᳘र्व्वासामो᳘षधीनाᳫं᳭ र᳘स ऽआ᳘सीत्तं य᳘वेष्वदधुस्त᳘स्माद्य᳘त्रान्या ऽओ᳘षधयो म्ला᳘यन्ति त᳘देते मो᳘दमाना व्वर्धन्त ऽएव᳘ᳫं᳘ ह्येषु र᳘सम᳘दधुस्त᳘थो ऽए᳘वैष᳘ ऽएतैः स᳘र्व्वाः सप᳘त्नानामो᳘षधीर्युते त᳘स्माद्य᳘वमत्यः प्रो᳘क्षण्यो भवन्ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र्ह᳘) ह᳘न्त यः स᳘र्व्वासामो᳘षधीनाᳫं᳭ र᳘सस्तं य᳘वेषु द᳘धामे᳘ति स᳘ यःस᳘र्व्वासामो᳘षधीनाᳫं᳭ र᳘स ऽआ᳘सीत्तं य᳘वेष्वदधुस्त᳘स्माद्य᳘त्रान्या ऽओ᳘षधयो म्ला᳘यन्ति त᳘देते मो᳘दमाना व्वर्धन्त ऽएव᳘ᳫं᳘ ह्येषु र᳘सम᳘दधुस्त᳘थो ऽए᳘वैष᳘ ऽएतैः स᳘र्व्वाः सप᳘त्नानामो᳘षधीर्युते त᳘स्माद्य᳘वमत्यः प्रो᳘क्षण्यो भवन्ति॥

मूलम् - Weber

ते᳘ होचुः॥
ह᳘न्त यः स᳘र्वासामो᳘षधीनां र᳘सस्तं य᳘वेषु द᳘धामे᳘ति स यःस᳘र्वासामो᳘षधीनां र᳘स आ᳘सीत्तं य᳘वेष्वदधुस्त᳘स्माद्य᳘त्रान्या ओ᳘षधयो म्ला᳘यन्ति त᳘देते मो᳘दमाना वर्धन्त एॗवᳫं ह्येषु र᳘सम᳘दधुस्त᳘थो एॗवैष᳘ एतैः स᳘र्वाः सप᳘त्नानामो᳘षधीर्युते त᳘स्माद्य᳘वमत्यः प्रो᳘क्षण्यो भवन्ति॥

मूलम् - विस्वरम्

ते होचुः- हन्त यः सर्वासामोषधीनां रसः, तं यवेषु दधामेति । स यः सर्वासामोषधीनां रस आसीत् तं यवेष्वदधुः । तस्माद्यत्रान्या ओषधयो म्लायन्ति, तदेते मोदमाना वर्द्धन्ते । एवं ह्येषु रसमदधुः । तथो ऽएवैष एतैः सर्वाः सपत्नानामोषधीर्युते । तस्माद्यवमत्यः प्रोक्षण्यो भवन्ति ॥ १० ॥

सायणः

ते होचुरिति । सर्व्वौषधिरसानां यवेषु स्थापनं प्रत्यक्षप्रमाणेन द्रढयति- तस्माद् यत्रान्या ओषधयो म्लायन्तीति ॥ १० ॥

Eggeling
  1. They said, ‘Come, let us put into the barley whatever sap there is of all plants!’ And, accordingly, whatever sap there was of all plants, that they put into the barley: therefore the latter thrives lustily where other plants wither, for in such wise

did they put the sap into them. And in like manner does this one now by means of those (barley-grains) attract to himself all the plants of his enemies: this is why the sprinkling-water contains barley-corns.

११

विश्वास-प्रस्तुतिः

स य᳘वाना᳘वपति॥
य᳘वो ऽसि यव᳘यास्मद्द्वे᳘षो यवया᳘रातीरि᳘ति ना᳘त्र तिरो᳘हितमिवास्त्य᳘थ प्रो᳘क्षत्ये᳘को वै प्रो᳘क्षणस्य ब᳘न्धुर्मे᳘ध्यामे᳘वैत᳘त्करोति॥

मूलम् - श्रीधरादि

स य᳘वाना᳘वपति॥
य᳘वो ऽसि यव᳘यास्मद्द्वे᳘षो यवया᳘रातीरि᳘ति ना᳘त्र तिरो᳘हितमिवास्त्य᳘थ प्रो᳘क्षत्ये᳘को वै प्रो᳘क्षणस्य ब᳘न्धुर्मे᳘ध्यामे᳘वैत᳘त्करोति॥

मूलम् - Weber

स य᳘वाना᳘वपति॥
य᳘वो ऽसि यव᳘यास्मद्द्वे᳘षो यवया᳘रातीरि᳘ति ना᳘त्र तिरो᳘हितमिवास्त्य᳘थ प्रो᳘क्षत्ये᳘को वै प्रो᳘क्षणस्य ब᳘न्धुर्मे᳘ध्यामेॗवैत᳘त्करोति॥

मूलम् - विस्वरम्

स यवानावपति- “यवो ऽसि यवयास्मद्द्वेषो यवयारातीः”- (वा. सं. ५ । २६) इति । नात्र तिरोहितमिवास्ति । अथ प्रोक्षति । एको वै प्रोक्षणस्य बन्धुः- मेध्यामेवैतत्करोति ॥ ११ ॥

सायणः

स यवानावपतीति 6 । यवावापे मन्त्रमाह- यवो ऽसि यवयेति । हे यवपदार्थ ! त्वं ‘यवो ऽसि’ पृथक्कर्ता ऽसि, अतः ‘यवय’ अस्मत्तो द्वेष्टॄन् पृथक् कुरु । तथा ‘अरातीः’ अदानशीलान् ॥

अथ प्रोक्षतीति 7 । औदुम्बरीः । एको वै प्रोक्षणस्य बन्धुरिति । यत्र यत्र प्रोक्षणमस्ति तस्य सर्वस्यापि मेध्यमेतत् करोतीति एवंरूपं ब्राह्मणमेकमेवेत्यर्थः ॥ ११ ॥

Eggeling
  1. He throws the barley-corns into it, with, ‘Thou art barley (yava): keep thou (yavaya) from us the haters, keep from us the enemies!’ In this there is nothing obscure. He then besprinkles (the post);–the significance of the sprinkling is one and the same: he thereby renders it sacrificially pure.

१२

विश्वास-प्रस्तुतिः

स प्रो᳘क्षति॥
दिवे᳘ त्वा ऽन्त᳘रिक्षाय त्वा पृथिव्यै त्वे᳘तीमा᳘ने᳘वैत᳘ल्लोका᳘नूर्ज्जा र᳘सेन भाज᳘यत्येषु᳘ लोकेषू᳘र्ज्जᳫँ᳭ र᳘सं दधाति॥

मूलम् - श्रीधरादि

स प्रो᳘क्षति॥
दिवे᳘ त्वा ऽन्त᳘रिक्षाय त्वा पृथिव्यै त्वे᳘तीमा᳘ने᳘वैत᳘ल्लोका᳘नूर्ज्जा र᳘सेन भाज᳘यत्येषु᳘ लोकेषू᳘र्ज्जᳫँ᳭ र᳘सं दधाति॥

मूलम् - Weber

स प्रो᳘क्षति॥
दिवे᳘ त्वान्त᳘रिक्षाय त्वा पृथिव्यै त्वे᳘तीमा᳘नेॗवैतल्लोका᳘नूर्जा र᳘सेन भाजयत्येषु᳘ लोकेषू᳘र्जं र᳘सं दधाति॥

मूलम् - विस्वरम्

स प्रोक्षति- “दिवे त्वा ऽन्तरिक्षाय त्वा पृथिव्यै त्वा”- (वा. सं. ५ । २६) इति । इमानेवैतल्लोकानूर्जा रसेन भाजयति । एषु लोकेषूर्जं रसं दधाति ॥ १२ ॥

सायणः

स प्रोक्षतीति । हे उदुम्बरशाखाग्र ! ‘त्वा’ त्वाम् ‘दिवे’ द्युलोकाय तदूरीभावाय प्रोक्षामीति शेषः 6 । एवमुत्तरवाक्ये ऽपि योज्यम् ॥ १२ ॥

Eggeling
  1. He sprinkles (the top, middle, and bottom parts), with, ‘For the sky–thee! for the air–thee! for the earth–thee!’ He thereby endows these worlds with strength and sap, bestows strength and sap on these worlds.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
ता᳘ ऽअवटे᳘ ऽवनयति शु᳘न्धन्तां लोकाः᳘ पितृष᳘दना ऽइ᳘ति पितृदेव᳘त्यो वै कू᳘पः खातस्त᳘मे᳘वैतन्मे᳘ध्यं करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
ता᳘ ऽअवटे᳘ ऽवनयति शु᳘न्धन्तां लोकाः᳘ पितृष᳘दना ऽइ᳘ति पितृदेव᳘त्यो वै कू᳘पः खातस्त᳘मे᳘वैतन्मे᳘ध्यं करोति॥

मूलम् - Weber

अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
ता᳘ अवटे᳘ ऽवनयति शु᳘न्धन्तां लोकाः᳘ पितृष᳘दना इ᳘ति पितृदेव᳘त्यो वै कू᳘पः खातस्त᳘मेॗवैतन्मे᳘ध्यं करोति॥

मूलम् - विस्वरम्

अथ याः प्रोक्षण्यः परिशिष्यन्ते- ता ऽअवटे ऽवनयति- “शुन्धन्तां लोकाः पितृषदनाः”- (वा. सं. ५ । २६) इति । पितृदेवत्यो वै कूपः खातः, तमेवैतन्मेध्यं करोति ॥ १३ ॥

सायणः

अथ याः प्रोक्षण्य 6 इति । शुन्धन्तामिति मन्त्रेण प्रोक्षणीशेषमवटे ऽवनयेत् । पितरः सीदन्त्येषु इति ‘पितृषदनाः’ भूम्यधोवर्तिनो लोकाः प्रायेण गर्तस्य पित्र्यकार्येषु दर्शनादवटस्य पितृषदनत्वम्, तदेवाह- पितृदेवत्यो वै कूपः खात इति ॥ १३ ॥

Eggeling
  1. And the sprinkling-water which remains he pours into the hole, with, ‘Be the worlds pure wherein the Fathers reside!’ for a pit that is dug is sacred to the Fathers: this he thereby renders sacrificially pure.

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ बर्ही᳘ᳫं᳘षि॥
प्राची᳘नाग्राणि चोदीची᳘नाग्राणि चा᳘वस्तृणाति पितृष᳘दनमसी᳘ति पितृदेव᳘त्यं वा᳘ ऽअस्या ऽएत᳘द्भवति यन्नि᳘खातᳫँ᳭ सा यथा᳘ निखातौ᳘षधिषु मिता स्या᳘देव᳘मेतास्वो᳘षधिषु मिता᳘ भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ बर्ही᳘ᳫं᳘षि॥
प्राची᳘नाग्राणि चोदीची᳘नाग्राणि चा᳘वस्तृणाति पितृष᳘दनमसी᳘ति पितृदेव᳘त्यं वा᳘ ऽअस्या ऽएत᳘द्भवति यन्नि᳘खातᳫँ᳭ सा यथा᳘ निखातौ᳘षधिषु मिता स्या᳘देव᳘मेतास्वो᳘षधिषु मिता᳘ भवति॥

मूलम् - Weber

अ᳘थ बर्हीं᳘षि॥
प्राची᳘नाग्राणि चोदीची᳘नाग्राणि चा᳘वस्तृणाति पितृष᳘दनमसी᳘ति पितृदेव᳘त्य वा᳘ अस्या एत᳘द्भवति यन्नि᳘खातᳫं सा यथा᳘निखातौषधिषु मिता स्या᳘देव᳘मेतास्वो᳘षधिषु मिता᳘ भवति॥

मूलम् - विस्वरम्

अथ बर्हींषि प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति- “पितृषदनमसि”- (वा. सं. ५ । २६) इति । पितृदेवत्यं वा ऽअस्या एतद्भवति । यन्निखातम् । सा यथा निखातौषधिषु मिता स्यात्- एवमेतास्वोषधिषु मिता भवति ॥ १४ ॥

सायणः

अथ बर्हींषीत्यादि 6 । सुविशदम् । सा यथा निखाता ओषधिषु मिता स्यात्, एवमेतास्वोषधिषु मिताभवतीति वने ‘अनिखाता’ दृढमूला स्वभावेनोत्पन्ना ‘यथा’ ओषधिषु सदोत्पन्नेषु तृणगुल्मादिषु मध्ये ‘मिता’ भवति, सबर्हिष्के गर्ते ‘मिता’ शाखापि ‘एवं’ भवतीत्यर्थः ॥ १४ ॥

Eggeling
  1. He now strews barhis-grass therein, both eastward-pointed and northward-pointed with, ‘Thou art the seat of the Fathers;’ for that part of it (the post) which is dug into the ground is sacred to the Fathers; as though it were (naturally) established 8 among plants, and not dug in, so does it become established among those plants.

१५

विश्वास-प्रस्तुतिः

तामु᳘च्छ्रयति॥
(त्यु) उद्दि᳘वᳫं᳭ स्तभा᳘नान्त᳘रिक्षं पृण दृ᳘ᳫँ᳘ हस्व पृथिव्यामि᳘तीमा᳘ने᳘वैत᳘ल्लोका᳘नूर्ज्जा र᳘सेन भाज᳘यत्येषु᳘ लोकेषू᳘र्ज्जᳫँ᳭ र᳘सं दधाति॥

मूलम् - श्रीधरादि

तामु᳘च्छ्रयति॥
(त्यु) उद्दि᳘वᳫं᳭ स्तभा᳘नान्त᳘रिक्षं पृण दृ᳘ᳫँ᳘ हस्व पृथिव्यामि᳘तीमा᳘ने᳘वैत᳘ल्लोका᳘नूर्ज्जा र᳘सेन भाज᳘यत्येषु᳘ लोकेषू᳘र्ज्जᳫँ᳭ र᳘सं दधाति॥

मूलम् - Weber

तामु᳘छ्रयति॥
उद्दि᳘वᳫं स्तभाॗनान्त᳘रिक्षम् पृण दृ᳘ᳫं᳘हस्व पृथिव्यामि᳘तीमा᳘नेॗवैत᳘ल्लोका᳘नूर्जा र᳘सेन भाज᳘यत्येषु᳘ लोकेषू᳘र्जं र᳘सं दधाति॥

मूलम् - विस्वरम्

तामुच्छ्रयति- “उद्दिवं स्तभानान्तरिक्षं पृण दृँहस्व पृथिव्याम्”- (वा. सं. ५ । २७) इति । इमानेवैतल्लोकानूर्जा रसेन भाजयति । एषु लोकेषूर्जं रसं दधाति ॥ १५ ॥

सायणः

तामुच्छ्रयतीति 9 । ‘उच्छ्रयति’ ऊर्ध्वं स्थापयेत् । तन्मन्त्रस्यायपर्थः- हे उदुम्बरशाखे ! तवाग्रभागेन ‘दिवम्’ ‘उत्तभानं’ उत्तम्भनं कुरु; शरीरस्थौल्येन ‘अन्तरिक्षं’ ‘पृण’ पूरय; ‘पृथिव्यां’ ‘दृंहस्व’ दृढा भव, पृथिवीमपि दृढां कुर्वित्यर्थः; पृथिव्याः शैथिल्ये शाखाया अपि दार्ढ्यायोगात् । ऊर्ग्रूपस्यौदुम्बरस्य लोकत्रये ऽपि सम्बन्धाल्लोकेषूर्ग्रसस्थापनं कृतं भवति । स्पष्टमन्यत् ॥ १५ ॥

Eggeling
  1. He raises it, with the text (Vāj. S. V, 27), ‘Prop thou the sky! fill the air! stand firm on the earth!’ Thereby he endows these worlds with strength and sap, bestows strength and sap on these worlds.

१६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मिनोति॥
द्युतान᳘स्त्वा मारुतो᳘ मिनोत्वि᳘ति यो वा᳘ ऽअयं प᳘वत ऽएष᳘ द्युतानो᳘ मारुतस्त᳘देनामेते᳘न मिनोति मित्राव᳘रुणौ ध्रुवे᳘ण ध᳘र्मणे᳘ति प्राणोदानौ वै᳘ मित्राव᳘रुणौ त᳘देनां प्राणोदाना᳘भ्यां मिनोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मिनोति॥
द्युतान᳘स्त्वा मारुतो᳘ मिनोत्वि᳘ति यो वा᳘ ऽअयं प᳘वत ऽएष᳘ द्युतानो᳘ मारुतस्त᳘देनामेते᳘न मिनोति मित्राव᳘रुणौ ध्रुवे᳘ण ध᳘र्मणे᳘ति प्राणोदानौ वै᳘ मित्राव᳘रुणौ त᳘देनां प्राणोदाना᳘भ्यां मिनोति॥

मूलम् - Weber

अ᳘थ मिनोति॥
द्युतान᳘स्त्वा मारुतो᳘ मिनोत्वि᳘ति यो वा᳘ अयम् प᳘वत एष᳘ द्युतानो᳘ मारुतस्त᳘देनामेते᳘न मिनोति मित्राव᳘रुणौ ध्रुवे᳘ण ध᳘र्मणे᳘ति प्राणोदानौ वै᳘ मित्राव᳘रुणौ त᳘देनाम् प्राणोदाना᳘भ्याम् मिनोति॥

मूलम् - विस्वरम्

अथ मिनोति- “द्युतानस्त्वा मारुतो मिनोतु”- (वा. सं. ५ । २७) इति । यो वा ऽअयं पवते- एष द्युतानो मारुतः । तदेनामेतेन मिनोति- “मित्रावरुणौ ध्रुवेण धर्मणा”- (वा. सं. ५ । २७) इति । प्राणोदानौ वै मित्रावरुणौ । तदेनां प्राणोदानाभ्यां मिनोति ॥ १६ ॥

सायणः

अथ मिनोतीति 9 । औदुम्बरीमानमन्त्रः- ‘द्युतानः’ दीप्यमानः, एतन्नामको वायुर्देवः, ‘मारुतः’ मरुतां देवानां वायूनां सम्बन्धी, सः ‘मिनोतु’ अवटे प्रक्षिपतु । तथा ‘मित्रावरुणौ’ देवौ ‘ध्रुवेण’ अविचलितेन ‘धर्म्मणा’ धारणेन मिनुताम् । स्पष्टमन्यत् । मित्रावरुणशब्दयोरर्थमाह- प्राणोदानौ वै मित्रावरुणाविति । एतदधिदैवतम्; अहोरात्राभिमानिनौ देवाविति (ऐ. ब्रा. ४ । २ । ४) अध्यात्मम् ॥ १६ ॥

Eggeling
  1. He then sinks it (in the hole, with), ‘May Dyutāna, the son of the Maruts, plant thee!–’ Dyutāna the son of the Maruts, doubtless, is he that blows yonder (the wind): by means of him he thus plants it;–‘Mitra and Varuṇa with firm support!’ Mitra and Varuṇa are the in-breathing and out-breathing: he thus plants it with the in-breathing and out-breathing.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प᳘र्यूहति॥
ब्रह्मव᳘नि त्वा क्षत्रव᳘नि रायस्पोषव᳘नि प᳘र्यूहामी᳘ति बह्वी वै य᳘जुःष्वाशीस्तद्ब्र᳘ह्म च क्षत्रं चा᳘शास्त ऽउभे᳘ व्वी᳘र्ये रायस्पोषवनी᳘ति भूमा वै᳘ रायस्पो᳘षस्त᳘द्भूमा᳘नमा᳘शास्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प᳘र्यूहति॥
ब्रह्मव᳘नि त्वा क्षत्रव᳘नि रायस्पोषव᳘नि प᳘र्यूहामी᳘ति बह्वी वै य᳘जुःष्वाशीस्तद्ब्र᳘ह्म च क्षत्रं चा᳘शास्त ऽउभे᳘ व्वी᳘र्ये रायस्पोषवनी᳘ति भूमा वै᳘ रायस्पो᳘षस्त᳘द्भूमा᳘नमा᳘शास्ते॥

मूलम् - Weber

अ᳘थ प᳘र्यूहति॥
ब्रह्मव᳘नि त्वा क्षत्रव᳘नि रायस्पोषव᳘नि प᳘र्यूहामी᳘ति बह्वी वै य᳘जुःष्वाशीस्तद्ब्र᳘ह्म च क्षत्रं चाशास्त उभे᳘ वीॗर्ये रायस्पोषवनी᳘ति भूमा वै᳘ रायस्पो᳘षस्त᳘द्भूमा᳘नमा᳘शास्ते॥

मूलम् - विस्वरम्

अथ पर्यूहति- “ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्यूहामि”- (वा. सं. ५ । २७) इति । बह्वी वै यजुःष्वाशीः । तद्ब्रह्म च क्षत्रं चाशास्ते । उभे वीर्ये । रायस्पोषवनीति । भूमा वै रायस्पोषः । तद्भूमानमाशास्ते ॥ १७ ॥

सायणः

समन्त्रकं पर्यूहणं विधत्ते- अथ पर्यूहति ब्रह्मवनि 9 त्वेति । हे शाखाद्रव्य ! ‘ब्रह्मवनि’ ब्रह्मणः सम्भक्तृ, ‘त्वा’ त्वाम् ‘पर्यूहामि’ प्रक्षिपामि । एवमुत्तरवाक्यान्यपि योज्यानि ।

मन्त्रं व्याचष्टे- बह्वी वा इति । प्रायेण ‘यजुःषु’ मन्त्रेषु ‘आशीः’ बह्वी परिदृश्यते । अतो ऽत्र ब्रह्मक्षत्रोभयरूपं फलमाशास्यते । “भूमा वै रायस्पोष इत्याद्यसकृद् गतम्” (श. प. ब्रा. ३ । ५ । २ । १२ ।) ॥ १७ ॥

Eggeling
  1. He then heaps up (earth) round it, with, ‘I enclose thee, winner of the priesthood, winner of the nobility, winner of growth of wealth!’ Manifold, verily, is the prayer for blessing in the sacrificial texts: by this one he prays for the priesthood and nobility, those two vital forces 10. ‘Winner of growth of wealth,’–growth of wealth means abundance: he thereby prays for abundance.

१८

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथ) अ᳘थ प᳘र्यृषति॥
ब्र᳘ह्म दृᳫँ᳭ह क्षत्रं᳘ दृᳫँ᳭हा᳘युर्दृᳫँ᳭ह प्रजां᳘ दृᳫँ᳭हे᳘त्याशी᳘रे᳘वै᳘षैत᳘स्य क᳘र्मण ऽआशि᳘षमे᳘वैतदा᳘शास्ते समम्भूमि᳘ पर्य्य᳘र्षणं करोति ग᳘र्त्तस्य वा᳘ ऽउपरिभूम्य᳘थैवं᳘ देवत्रा त᳘था हा᳘गर्त्तमिद्भवति॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथ) अ᳘थ प᳘र्यृषति॥
ब्र᳘ह्म दृᳫँ᳭ह क्षत्रं᳘ दृᳫँ᳭हा᳘युर्दृᳫँ᳭ह प्रजां᳘ दृᳫँ᳭हे᳘त्याशी᳘रे᳘वै᳘षैत᳘स्य क᳘र्मण ऽआशि᳘षमे᳘वैतदा᳘शास्ते समम्भूमि᳘ पर्य्य᳘र्षणं करोति ग᳘र्त्तस्य वा᳘ ऽउपरिभूम्य᳘थैवं᳘ देवत्रा त᳘था हा᳘गर्त्तमिद्भवति॥

मूलम् - Weber

अ᳘थ प᳘र्यृषति॥
ब्र᳘ह्म दृंह क्षत्रं᳘ दृंहा᳘युर्दृंह प्रजां᳘ दृंहे᳘त्याशी᳘रेॗवैॗषैत᳘स्य क᳘र्मण आशि᳘षमेॗवैतदा᳘शास्ते समम्भूमि᳘ पर्य᳘र्षणं करोति ग᳘र्तस्य वा᳘ उपरिभूम्य᳘थैवं᳘ देवत्रा त᳘था हा᳘गर्तमिद्भवति॥

मूलम् - विस्वरम्

अथ पर्यृषति- “ब्रह्म दृंह, क्षत्रं दृंह, आयुर्दृंह, प्रजां दृंह”- (वा. सं. ५ । २७) इति । आशीरेवैषैतस्य कर्मणः । आशिषमेवैतदाशास्ते । समंभूमि पर्यर्षणं करोति । गर्तस्य वा ऽउपरि भूमि । अथैवं देवत्रा । तथा हागर्तमिद्भवति ॥ १८ ॥

सायणः

अथ पर्यृषतीति 11 । ‘पर्यृषति’ परितः सङ्घट्टयेत् । “ऋषी गतौ”- (धा. पा. तु. प. ७) इति धातुः । ब्रह्म दृंहेत्यादिर्दृंहणमन्त्रो यजमानापेक्षितस्य कर्मफलस्य प्रतिपादक इत्याह- आशीरेवैतस्य कर्मण इति । ‘एतस्य’ शाखादृंहणकर्मणः फलरूपा ऽऽशीः प्रतिपाद्यत इत्यर्थः । परिघट्टनं- पर्यर्षणम्, भूमिप्रमाणमद्भिः कर्त्तव्यमित्याह- समम्भूमि पर्यर्षणमिति । भूम्या समं ‘समम्भूमि’, ‘पर्यर्षणं’ भूमिसमं ‘करोति’ । व्यतिरेकमाह- गर्त्तस्य वा इति ॥ अथैवं देवत्रेति । ‘अथ’- शब्द उक्तवैलक्षण्यद्योतनार्थः । एवं साम्ये सति ‘देवत्रा’ देवेषु अन्वितो भवतीत्यर्थः । तथा हागर्त्तमिद् भवतीति । ‘तथा ह’ तथा सति, भूमिसाम्ये सति ‘अगर्तमित्’ अगर्तमिता भवति । मिनोतेः कर्मणि क्विप् ॥ १८ ॥

Eggeling
  1. He then presses it firmly all round, with, ‘Uphold thou the priesthood! uphold the nobility, uphold our life, uphold our progeny!’ this is the blessing of this rite: that blessing he thereby invokes. He presses it so as to be level with the ground: with an (ordinary) hole (round trees for watering) it is higher than the ground, but in this way it is with the gods;–and thus it is not planted in an (ordinary) hole.

१९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाप᳘ ऽउपनि᳘नयति॥
यत्र[[!!]] वा᳘ ऽअस्यै ख᳘नन्तः क्रूरीकुर्व्व᳘न्त्यपघ्न᳘न्ति शा᳘न्तिरा᳘पस्तदद्भिः शा᳘न्त्या शमयति त᳘द᳘द्भिः स᳘न्दधाति त᳘स्मादप᳘ ऽउपनि᳘नयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाप᳘ ऽउपनि᳘नयति॥
यत्र[[!!]] वा᳘ ऽअस्यै ख᳘नन्तः क्रूरीकुर्व्व᳘न्त्यपघ्न᳘न्ति शा᳘न्तिरा᳘पस्तदद्भिः शा᳘न्त्या शमयति त᳘द᳘द्भिः स᳘न्दधाति त᳘स्मादप᳘ ऽउपनि᳘नयति॥

मूलम् - Weber

अ᳘थाप᳘ उपनि᳘नयति॥
य᳘त्र वा᳘ अस्यै ख᳘नन्तः क्रूरीकुर्व᳘न्त्यपघ्न᳘न्ति शा᳘न्तिरा᳘पस्तदद्भिः शा᳘न्त्या शमयति त᳘दद्भिः सं᳘दधाति त᳘स्मादप᳘ उपनिनयति॥

मूलम् - विस्वरम्

अथाप ऽउपनिनयति । यत्र वा ऽअस्यै खनन्तः क्रूरीकुर्वन्ति अपघ्नन्ति । शान्तिरापः, तद् अद्भिः शान्त्या शमयति । तदद्भिः सन्दधाति । तस्मादप उपनिनयति ॥ १९ ॥

सायणः

अथाप उपनिनयतीति 11 । ‘उपनिनयति’ मृत्परमाणुनां संश्लेषाय ‘अस्यै खनन्तः’ अस्या भूम्याः भागं विदारयन्तः, तामेव भूमिम् । अक्रूरां ‘क्रूरीकुर्वन्ति’ । ‘आपः’ तु शमनहेतुत्वात् ‘शान्तिः’ अतः ‘तत्’ तेन ‘अद्भिः’ ‘शान्त्या’ शान्तेरेकत्वादेकवचनम् । ‘क्रौर्यशमनमदृष्टं प्रयोजनम्; अद्भिः सन्धानं तु संहतिहेतु दृष्टं प्रयोजनम् ॥ १९ ॥

Eggeling
  1. He then pours water thereon;–wherever, in digging, they wound or injure this (earth),–water being a means of soothing,–there he soothes it by that means of soothing, water, there he heals it by water: therefore he pours water thereon.

२०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैव᳘मभिप᳘द्य व्वाचयति॥
ध्रु᳘वा ऽसि ध्रु᳘वो ऽयं य᳘जमानो ऽस्मि᳘न्नाय᳘तने प्रज᳘या भूयादि᳘ति पशु᳘भिरि᳘ति वैवं यं का᳘मं काम᳘यते᳘ सो ऽस्मै का᳘मः स᳘मृद्ध्यते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैव᳘मभिप᳘द्य व्वाचयति॥
ध्रु᳘वा ऽसि ध्रु᳘वो ऽयं य᳘जमानो ऽस्मि᳘न्नाय᳘तने प्रज᳘या भूयादि᳘ति पशु᳘भिरि᳘ति वैवं यं का᳘मं काम᳘यते᳘ सो ऽस्मै का᳘मः स᳘मृद्ध्यते॥

मूलम् - Weber

अ᳘थैव᳘मभिप᳘द्य वाचयति॥
ध्रुॗवासि ध्रुॗवो ऽयं य᳘जमानो ऽस्मि᳘न्नाय᳘तने प्रज᳘या भूयादिति पशुभिरि᳘ति वैवं यं का᳘मं काम᳘यतेॗ सो ऽस्मै का᳘मः स᳘मृध्यते॥

मूलम् - विस्वरम्

अथैवमभिपद्य वाचयति- “ध्रुवा ऽसिध्रुवो ऽयं यजमानो ऽस्मिन्नायतने प्रजया भूयात्”- (वा. सं. ५ । २८) इति । “पशुभिः”- (वा. सं. ५ । २८) इति । वा एवं यं कामं कामयते- सो ऽस्मै कामः समृद्ध्यते ॥ २० ॥

सायणः

अथैवमभिपद्येति 11 । ‘अभिपद्य’ शाखामालभ्य, एवं ‘वाचयति’ ध्रुवासीत्येवम्प्रकारेण । हे शाखे ! त्वमिदानीं कृतप्रकारेण ‘ध्रुवा’ अविचला ‘असि’ । ‘अयं’ ‘यजमानः’ अपि ‘अस्मिन्’ स्वकीये एव गृहे ‘प्रजया’ ‘पशुभिः’ सहितः सन् ‘ध्रुवः’ भवतु । न केवलं ‘प्रजया पशुभिः’ इत्यभिधानेन तद्द्वयं समृद्ध्यते, किन्तर्हि ? प्रजापशुव्यतिरिक्तमन्यच्च धनादिकं ‘यं कामं कामयते’ स सर्वो ऽप्युभयकामनयैव समृद्ध्यते । अत्र ‘पशुभिरिति वा’ इति ‘वा’- शब्देन ‘प्रजया’- इत्यनेन मन्त्रपदेन ‘पशुभिः’- इत्यस्य विकल्पः । (का. श्रौ. सू. ८ । १४२) ॥ २० ॥

Eggeling
  1. He then makes (the sacrificer) say, while touching it thus (Vāj. S. V, 28), ‘Thou art firm: may this sacrificer be firm in this homestead through progeny’–or, ’through cattle!’ thus whatever wish he entertains that wish is accomplished unto him.

२१

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ स्रुवे᳘णोपहत्या᳘ज्यम्॥
व्विष्ट᳘पमभि᳘ जुहोति घृते᳘न द्यावापृथिवी पूर्येथामि᳘ति त᳘दिमे द्या᳘वापृथिवी᳘ ऽऊर्ज्जा र᳘सेन भाज᳘यत्यन᳘योरू᳘र्ज्जᳫँ᳭र᳘सं दधाति ते र᳘सवत्या ऽउपजीवनी᳘ये ऽइमाः᳘ प्रजा ऽउ᳘पजीवन्ति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ स्रुवे᳘णोपहत्या᳘ज्यम्॥
व्विष्ट᳘पमभि᳘ जुहोति घृते᳘न द्यावापृथिवी पूर्येथामि᳘ति त᳘दिमे द्या᳘वापृथिवी᳘ ऽऊर्ज्जा र᳘सेन भाज᳘यत्यन᳘योरू᳘र्ज्जᳫँ᳭र᳘सं दधाति ते र᳘सवत्या ऽउपजीवनी᳘ये ऽइमाः᳘ प्रजा ऽउ᳘पजीवन्ति॥

मूलम् - Weber

अ᳘थ स्रुवे᳘णोपहत्या᳘ज्यम्॥
विष्ट᳘पमभि᳘ जुहोति घृते᳘न द्यावापृथिवी पूर्येथामि᳘ति त᳘दिमे द्या᳘वापृथिवी᳘ ऊर्जा र᳘सेन भाज᳘यत्यन᳘योरू᳘र्जं र᳘सं दधाति ते र᳘सवत्या उपजीवनी᳘ये इमाः᳘ प्रजा उ᳘पजीवन्ति॥

मूलम् - विस्वरम्

अथ स्रुवेणोपहत्याज्यं विष्टपमभि जुहोति- “घृतेन द्यावापृथिवी पूर्येथाम्”- (वा. सं. ५ । २८) इति । तदिमे द्यावापृथिवी ऽऊर्ज्जा रसेन भाजयति । अनयोरूर्जं रसं दधाति । ते रसवत्या ऽउपजीवनीये इमाः प्रजा उपजीवन्ति ॥ २१ ॥

सायणः

औदुम्बरीशाखाग्रे होमं विधत्ते- अथेति । विष्टपमभि जुहोतीति । ‘विष्टपं’ विशाखम् ‘अभि’ विष्टपस्याग्रभागस्याभितः, यथा शाखाया अग्रमूलभागो मध्यदेशश्च अक्ता भवन्ति, एवमाज्यं जुहोति ॥

तन्मन्त्रस्यायमर्थः- ‘द्यावापृथिवी’ हे द्यावापृथिव्यौ शाखाग्रमूलभागवर्त्तिन्यौ युवां ‘घृतेन’ हूयमानेन ‘पूर्येथाम्’ पूर्णौ भवतम् । अत्र सूत्रम्- ‘स्रुवेण विशाखे जुहोति घृतेन द्यावापृथिवी इति भूमिप्राप्ते स्वाहा करोति’ (का. श्रौ. सू. ८ । १४३) इति । द्यावापृथिवीपूर्त्यभिधानस्य प्रयोजनमाह- तदिमे द्यावापृथिवी ऊर्जा रसेन भाजयतीत्यादिना । ऊर्ग्रूपौदुम्बरयुक्तेन आज्येन यद् द्यावापृथिवीपूरणम्, तदूर्ग्रसेनैव द्यावापृथिवीप्रापणं कृतं भवति । तेन तयोः किं कृतं भवति ? “अनयोरूर्जं रसं दधाति” । स्पष्टमन्यत् ॥ २१ ॥

Eggeling
  1. Thereupon, having taken clarified butter with the dipping-spoon, he pours it upon the (forked) top 12, with ‘O Heaven and Earth, be ye full of ghee!’ whereby he endows the heaven and the earth with strength and sap, bestows strength and sap on them: upon them thus full of sap and affording subsistence, these creatures subsist.

२२

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ च्छदि᳘रधिनि᳘दधाति॥
(ती᳘) इ᳘न्द्रस्य च्छदि᳘रसी᳘त्यैन्द्रᳫँ᳭ हि स᳘दो व्विश्वजन᳘स्य च्छाये᳘ति व्विश्व᳘गोत्रा᳘ ह्यस्मिन्ब्राह्मणा ऽआ᳘सते त᳘दुभय᳘तश्छदि᳘षी ऽउ᳘पदधात्युत्तरतस्त्री᳘णि परस्त्री᳘णि ता᳘नि न᳘व भवन्ति त्रिवृद्वै᳘ यज्ञो न᳘व वै᳘ त्रिवृत्त᳘स्मान्न᳘व भवन्ति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ च्छदि᳘रधिनि᳘दधाति॥
(ती᳘) इ᳘न्द्रस्य च्छदि᳘रसी᳘त्यैन्द्रᳫँ᳭ हि स᳘दो व्विश्वजन᳘स्य च्छाये᳘ति व्विश्व᳘गोत्रा᳘ ह्यस्मिन्ब्राह्मणा ऽआ᳘सते त᳘दुभय᳘तश्छदि᳘षी ऽउ᳘पदधात्युत्तरतस्त्री᳘णि परस्त्री᳘णि ता᳘नि न᳘व भवन्ति त्रिवृद्वै᳘ यज्ञो न᳘व वै᳘ त्रिवृत्त᳘स्मान्न᳘व भवन्ति॥

मूलम् - Weber

अ᳘थ छदि᳘रधिनि᳘दधाति॥
इ᳘न्द्रस्य छदि᳘रसी᳘त्यैन्द्रᳫं हि स᳘दो विश्वजन᳘स्य छाये᳘ति विश्व᳘गोत्रा ह्य᳘स्मिन्ब्राह्मणा आ᳘सते त᳘दुभय᳘तश्छदि᳘षी उ᳘पदधात्युत्तरतस्त्री᳘णि परस्त्री᳘णि ता᳘नि न᳘व भवन्ति त्रिवृद्वै᳘ यज्ञो न᳘व वै᳘ त्रिवृत्त᳘स्मान्न᳘व भवन्ति॥

मूलम् - विस्वरम्

अथ च्छदिरधिनिदधाति- “इन्द्रस्य च्छदिरसि”- (वा. सं. ५ । २८) इति । ऐन्द्रं हि सदः- “विश्वजनस्य छाया”- (वा. सं. ५ । २८) इति विश्वगोत्रा ह्यस्मिन् ब्राह्मणा ऽआसते । तदुभयतश्छदिषी उपदधाति- उत्तरतस्त्रीणि, परस्त्रीणि, तानि नव भवन्ति । त्रिवृद्वै यज्ञो नव वै त्रिवृत् । तस्मान्नव भवन्ति ॥ २२ ॥

सायणः

मध्यमच्छदिर्निधानं विधत्ते- अथ च्छदिरधिनिदधातीन्द्रस्य च्छदिरसीति 13 । इन्द्रदेवत्यत्वात् सदो ऽत्रेन्द्रः, तस्याच्छादकमसि तथा ‘विश्वजनस्य छाया ऽसि’ विश्वेषां सदसि स्थितानां जनानां छायाकारी असि । एतयोर्मन्त्रभागयोर्ब्राह्मणे स्पष्टे । उभयतश्छदिषी उपधातीति (‘परपूर्वेच’ का. श्रौ. सू. ८ । ५ ।) मध्यमस्य च्छदिषः ‘उभयतः’ दक्षिणोत्तरयोः;- तानि मध्यमच्छदींषि त्रीण्यपि प्रमाय, तेषाम् ‘उत्तरतः त्रीणि’ छदींषि उपदध्यात्, तथा ‘परः’ परस्तादपि दक्षिणतो ऽपि ‘त्रीणि’ ‘उपदधाति’ ॥

छदिषां नवत्वं प्रशंसति– तानि नव भवन्तीति । त्रिवृत्स्तोमसाध्यत्वाद् यज्ञस्य त्रिवृत्त्वम् । स च ‘त्रिवृत्’ स्तोमो ‘नव वै’ नवस्तोत्रियात्मकः खलु; “तिसृभ्यो हिङ्करोति स एकया” (अ. ३ खं. १) इत्यादिसामताण्ड्यब्राह्मणोक्तप्रकारेण त्रिवृत्स्तोमे तिसृणामृचां नवत्वसंपादनात् । तस्मात् छदिषां नवत्वं युक्तम् ॥ २२ ॥

Eggeling
  1. He then lays on a mat 14, with, ‘Thou art Indra’s mat,’–for the Sadas belongs to Indra,–‘a shelter to every one,’ for Brāhmans of all families sit therein. He adds two mats, one on each side thereof, and three north of them and three further (to the north): these make nine. For the sacrifice

is threefold and nine also is threefold: for this reason there are nine.

२३

विश्वास-प्रस्तुतिः

त᳘दुदीची᳘नवᳫँ᳭शᳫँ᳭ स᳘दो भवति॥
प्राची᳘नवᳫँ᳭शᳫँ᳭ हविर्द्धा᳘नमेतद्वै᳘ देवा᳘नां नि᳘ष्केवल्यं य᳘द्धविर्द्धा᳘नं त᳘स्मात्त᳘त्र᳘ नाश्नन्ति न᳘ भक्षयन्ति नि᳘ष्केवल्य᳘ᳫं᳘[[!!]] ह्येत᳘द्देवा᳘नाᳫं᳭ स यो᳘ ह त᳘त्राश्नीया᳘द्वा भक्ष᳘येद्वा मूर्द्धा᳘ हास्य व्वि᳘पतेद᳘थैते᳘ मिश्रे[[!!]] यदा᳘ग्नीध्रं च स᳘दश्च त᳘स्मात्त᳘योरश्नन्ति त᳘स्माद्भक्षयन्ति मिश्रे᳘ ह्येते ऽउ᳘दीची वै᳘ मनु᳘ष्याणां दिक्त᳘स्मादुदीची᳘नवᳫँ᳭शᳫँ᳭ स᳘दो भवति॥

मूलम् - श्रीधरादि

त᳘दुदीची᳘नवᳫँ᳭शᳫँ᳭ स᳘दो भवति॥
प्राची᳘नवᳫँ᳭शᳫँ᳭ हविर्द्धा᳘नमेतद्वै᳘ देवा᳘नां नि᳘ष्केवल्यं य᳘द्धविर्द्धा᳘नं त᳘स्मात्त᳘त्र᳘ नाश्नन्ति न᳘ भक्षयन्ति नि᳘ष्केवल्य᳘ᳫं᳘[[!!]] ह्येत᳘द्देवा᳘नाᳫं᳭ स यो᳘ ह त᳘त्राश्नीया᳘द्वा भक्ष᳘येद्वा मूर्द्धा᳘ हास्य व्वि᳘पतेद᳘थैते᳘ मिश्रे[[!!]] यदा᳘ग्नीध्रं च स᳘दश्च त᳘स्मात्त᳘योरश्नन्ति त᳘स्माद्भक्षयन्ति मिश्रे᳘ ह्येते ऽउ᳘दीची वै᳘ मनु᳘ष्याणां दिक्त᳘स्मादुदीची᳘नवᳫँ᳭शᳫँ᳭ स᳘दो भवति॥

मूलम् - Weber

त᳘दुदीची᳘नवंशᳫं स᳘दो भवति॥
प्राची᳘नवंशᳫं हविर्धा᳘नमेतद्वै᳘ देवा᳘नां नि᳘ष्केवल्यं य᳘द्धविर्धा᳘नं त᳘स्मात्त᳘त्रॗ नाश्नन्ति न᳘ भक्षयन्ति नि᳘ष्केवॗल्यᳫं ह्येत᳘द्देवा᳘नाᳫं स यो᳘ ह त᳘त्राश्नीया᳘द्वा भक्ष᳘येद्वा मूर्धा᳘ हास्य वि᳘पतेद᳘थैते᳘ मिश्रे᳘ यदा᳘ग्नीध्रं च स᳘दश्च त᳘स्मात्त᳘योरश्नन्ति त᳘स्माद्भक्षयन्ति मिश्रेॗ ह्येते उ᳘दीची वै᳘ मनुॗष्याणां दिक्त᳘स्मादुदीची᳘नवंशᳫं स᳘दो भवति॥

मूलम् - विस्वरम्

तदुदीचीनवंशं सदो भवति । प्राचीनवंशं हविर्द्धानम् । एतद्वै देवानां निष्केवल्यं- यद्धविर्द्धानम् । तस्मात्तत्र नाश्नन्ति, न भक्षयन्ति । निष्केवल्यं ह्येतद्देवानाम् । स यो ह तत्राश्नीयाद्वा, भक्षयेद्वा- मूर्द्धा हास्य विपतेत् । अथैते मिश्रे- यदाग्नीध्रं च, सदश्च । तस्मात्तयोरश्नन्ति, तस्माद्भक्षयन्ति । मिश्रे ह्येते । उदीची वै मनुष्याणां दिक्, तस्मादुदीचीनवंशं सदो भवति ॥ २३ ॥

सायणः

सदस उदगायतत्वं विधत्ते । तदुदीचीनवंशं सदो भवतीति । सदस उदीचीनवंशत्वं प्रशंसितुं हविर्द्धानस्य सदोवैलक्षण्यं दर्शयति- प्राचीनवंशं हविर्द्धानमित्यादिना । ‘एतत्’ हविर्द्धानं ‘देवानां निष्केवल्यम्’ मनुष्यलक्षणाभावेन निःशेषेणैव देवानां केवलं भवति । “भवे छन्दसि” (पा. सू. ४ । ४ । ११०) इति यत् । तस्मात् तत्र नाश्नन्ति, न भक्षयन्तीति । ‘नाश्नन्ति’ पुरोडाशादिकम्, न भक्षयन्ति सोमम् । प्रमादाद्भक्षणे दोषमाह- मूर्द्धा हास्य विपतेदिति । उक्तवैपरीत्यमाग्नीध्रसदसोर्दर्शयति- अथैते मिश्रे इति । ‘एते मिश्रे’ स्तोत्रशस्त्रादिपाठाश्रयत्वाद् दैवम्, भक्षणसम्भवान्मानुषं चेति ‘मिश्रे’ भवतः । उदीची वै मनुष्याणां दिगिति । प्रायेणोदीच्यां दिशि मनुष्यवृद्धिदर्शनान्मनुष्यसम्बन्धव्यपदेशः । सदोनिर्माणप्रकारं सूत्रकार आह-“नाभिदघ्नं सदः, मत्या वा, उदग्वंशम्, अष्टादशारत्नि, एकविंशतिश्चतुर्विंशतिर्वा, नव तिर्यक्, अर्द्धायामो वा, औदुम्बरीं मध्ये, पृष्ठ्यामेके, इन्द्रस्य च्छदिरिति मध्यमं छदिरारोप्यापरपूर्वे च, त्रिवर्गौ चोत्तरतः”- (का. श्रौ. सू. ८ । १४५-१५२) इति । अष्टादशारत्न्यादयस्त्रयः पक्षाः उदगायामविषये विकल्पिताः; तिर्यक्प्रमाणविषये नवारत्नित्वमाषामार्धपरिमाणत्वं 15 च विकल्पितम् । उक्तपरिमाणे सदसि 16 औदुम्बरी मध्या भवति, पृष्ठ्या दक्षिणतः स्थिता वेत्यर्थः ॥ २३ ॥

Eggeling
  1. That Sadas has its tie-beams running (from south) to north, and the cart-shed (from west) to east. For this, the cart-shed, belongs exclusively to the gods: hence neither food nor drink is taken therein, because it belongs exclusively to the gods; and were any one either to eat or to drink therein, his head would verily burst asunder. But those two, the Āgnīdhra and the Sadas, are common (to the gods and men): hence food and drink is taken in these two, because they are common (to the gods and men). Now the north is the quarter of men: therefore the Sadas has its tie-beams running (from south) to north.

२४

विश्वास-प्रस्तुतिः

तत्प᳘रिश्रयन्ति॥ प᳘रि त्वा गिर्व्वणो गि᳘र ऽइमा᳘ भवन्तु व्विश्व᳘तः। व्वृद्धा᳘युम᳘नु व्वृ᳘द्धयो जु᳘ष्टा भवन्तु जु᳘ष्टय ऽइती᳘न्द्रो वै गि᳘र्व्वा व्वि᳘शो गि᳘रो वि᳘शै᳘वैत᳘त्क्षत्रं प᳘रिबृᳫं᳭हति त᳘दिदं᳘ क्षत्र᳘मुभय᳘तो व्विशा प᳘रिवृढम्॥

मूलम् - श्रीधरादि

तत्प᳘रिश्रयन्ति॥ प᳘रि त्वा गिर्व्वणो गि᳘र ऽइमा᳘ भवन्तु व्विश्व᳘तः। व्वृद्धा᳘युम᳘नु व्वृ᳘द्धयो जु᳘ष्टा भवन्तु जु᳘ष्टय ऽइती᳘न्द्रो वै गि᳘र्व्वा व्वि᳘शो गि᳘रो वि᳘शै᳘वैत᳘त्क्षत्रं प᳘रिबृᳫं᳭हति त᳘दिदं᳘ क्षत्र᳘मुभय᳘तो व्विशा प᳘रिवृढम्॥

मूलम् - Weber

प᳘रि त्वा गिर्वणो गि᳘र इमा᳘ भवन्तु विश्व᳘तः॥
वृद्धा᳘युम᳘नु वृ᳘द्धयो जु᳘ष्टा भवन्तु जु᳘ष्टय इती᳘न्द्रो वै गि᳘र्वा वि᳘शो गि᳘रो विॗश्वेॗवैत᳘त्क्षत्रम् प᳘रिबृंहति त᳘दिदं᳘ क्षत्र᳘मुभय᳘तो विशा प᳘रिबृढम्॥

मूलम् - विस्वरम्

तत्परिश्रयन्ति- “परित्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः”- (वा. सं. ५ । २९ ।) इति । इन्द्रो वै गिर्वा, विशो गिरः, विशैवैतत् क्षत्रं परिबृंहति । तदिदं क्षत्रमुभयतो विशा परिवृढम् ॥ २४ ॥

सायणः

सदसः परिश्रयणं समन्त्रकं विधत्ते- तत् परिश्रयन्ति परि त्वा गिर्वणो गिर इतीति 17 । मन्त्रस्यायमर्थः । हे ‘गिर्वणः’ गीर्भिः वननीय इन्द्र ! ‘त्वा’ त्वाम् ‘इमाः’ अस्माभिः प्रयुज्यमानाः ‘गिरः’ स्तुतिरूपाः वाचः ‘विश्वतः’ सर्वतः ‘परिभवन्तु’ । किञ्च ‘वृद्धायुम्’ वृद्धा आयवो मनुष्याः, ऋत्विग्यजमानलक्षपाः यस्य स तथोक्तः, तादृशम् ‘अनु’ ‘वृद्धयः’ समृद्धिमत्यो भवन्तु । तथा ‘जुष्टयः’ प्रीणयन्त्यो वाचः ‘जुष्टाः’ प्रीताः ‘भवन्तु’ । तव गिरां च वृद्धिजोषावुपर्युपरि वर्द्धेतामित्यर्थः ॥

प्रथमपादं व्याचष्टे- इन्द्रो वै गिर्वा, विशो गिर इत्यादिना । इन्द्रस्य देवेषु मध्ये क्षत्रियजातित्वाद्गिराञ्च स्त्रीत्वाद् बहुत्वाच्च विशां रूपत्वम्; अतो गीर्भिरिन्द्रपरिग्रहाभिधानात् क्षत्रियस्योभयतस्तत्क्षेमार्थं प्रजाः कल्पितवान् भवति ॥ २४ ॥

Eggeling
  1. They enclose it 18, with the text (Vāj. S. V, 29; Rig-veda I, 10, 12), ‘May these songs encompass thee on every side, O thou that delightest in songs! May these favours be favourably received by thee, invigorating the vigorous!’ He that delights in songs, forsooth, is Indra, and songs mean the people: he thus surrounds the nobility with the people, and therefore the nobility is here surrounded on both sides by the people.

२५

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ लस्पूजन्या᳘ स्प᳘न्द्यया प्र᳘सीव्यति॥
(ती᳘) इ᳘न्द्रस्य स्यू᳘रसीत्य᳘थ ग्रन्थिं᳘ करोती᳘न्द्रस्य ध्रु᳘वो ऽसी᳘ति ने᳘द्व्यवप᳘द्याता ऽइ᳘ति तं प्र᳘कृते क᳘र्म्मन्वि᳘ष्यति त᳘थो हाध्वर्युं᳘ वा य᳘जमानं वा ग्राहो न᳘ व्विन्दति तन्नि᳘ष्ठितमभि᳘मृशत्यैन्द्र᳘मसी᳘त्यैन्द्रᳫँ᳭ हि सदः᳘[[!!]]॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ लस्पूजन्या᳘ स्प᳘न्द्यया प्र᳘सीव्यति॥
(ती᳘) इ᳘न्द्रस्य स्यू᳘रसीत्य᳘थ ग्रन्थिं᳘ करोती᳘न्द्रस्य ध्रु᳘वो ऽसी᳘ति ने᳘द्व्यवप᳘द्याता ऽइ᳘ति तं प्र᳘कृते क᳘र्म्मन्वि᳘ष्यति त᳘थो हाध्वर्युं᳘ वा य᳘जमानं वा ग्राहो न᳘ व्विन्दति तन्नि᳘ष्ठितमभि᳘मृशत्यैन्द्र᳘मसी᳘त्यैन्द्रᳫँ᳭ हि सदः᳘[[!!]]॥

मूलम् - Weber

अ᳘थ लस्पूजन्या᳘ स्पन्द्य᳘या प्र᳘सीव्यति॥
इ᳘न्द्रस्य स्यू᳘रसीत्य᳘थ ग्रन्थिं᳘ करोती᳘न्द्रस्य ध्रुॗवो ऽसी᳘ति ने᳘द्व्यवप᳘द्याता इ᳘ति प्र᳘कृते क᳘र्मन्वि᳘ष्यति त᳘थो हाध्वर्युं᳘ वा य᳘जमानं वा ग्राहो न᳘ विन्दति तन्नि᳘ष्ठितमभि᳘मृशत्यैन्द्र᳘मसी᳘त्यैन्द्रᳫं 19 हि स᳘दः॥

मूलम् - विस्वरम्

अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति- “इन्द्रस्य स्यूरसि” (वा. सं. ५ । ३०) इति । अथ ग्रन्थिं करोति- “इन्द्रस्य ध्रुवो ऽसि”- (वा. सं ५ । ३०) इति । नेद्व्यवपद्याता ऽइति प्रकृते कर्मन् विष्यति । तथो हाध्वर्युं वा यजमानं वा ग्राहो न विन्दति । तन्निष्ठितमभिमृशति- “ऐन्द्रमसि”- (वा. सं. ५ । ३०) इति । ऐन्द्रं हि सदः ॥ २५ ॥

सायणः

सदसो द्वारशाखाप्रभृतीनां हविर्द्धानञ्च दर्भैराच्छाद्य सीवनादिकं विधत्ते- अथ लस्पूजन्येत्येवमादिना 17 । सीवनग्रन्थीकरणाभिमर्शनवाक्यानि हविर्द्धानवद् व्याख्येयानि । मन्त्रेष्वैन्द्रत्वं विशेषः ॥ २५ ॥

Eggeling
  1. Thereupon he sews (the hurdles to the posts) with a needle and cord 20, with the text (Vāj. S. V, 30), ‘Thou art Indra’s sewer.’ With, ‘Thou art Indra’s fixed (point),’ he then makes a knot, ’lest it should fall asunder.’ He undoes it again, when the work is completed; and thus disease befalls not either the Adhvaryu or the Sacrificer. When completed, he

touches it (the Sadas) with, ‘Thou art Indra’s own!’ for the Sadas belongs to Indra.

२६

विश्वास-प्रस्तुतिः

(दो᳘ ऽथ) अ᳘थ हविर्द्धा᳘नयोः॥
(र्ज) जघनार्द्ध᳘ᳫँ᳘ समन्वीक्ष्यो᳘त्तरेणा᳘ग्नीध्रं मिनोति त᳘स्यार्द्धा᳘मन्तर्व्वेदि स्या᳘दर्द्धं᳘ बहिर्वेद्य᳘थो ऽअ᳘पि भू᳘यो ऽर्द्धा᳘दन्तर्वेदि स्यात्क᳘नीयो बहिर्व्वेद्य᳘थो ऽअ᳘पि स᳘र्व्वमे᳘वान्तर्व्वेदि᳘ स्यात्तन्नि᳘ष्ठितमभि᳘मृशति व्वैश्वदेव᳘मसी᳘ति द्वये᳘नैत᳘द्वैश्वदेवं य᳘दस्मिन्पूर्व्वेद्युर्व्वि᳘श्वे देवा᳘ व्व᳘सतीव᳘रीषूपवसन्ति ते᳘न व्वैश्वदेव᳘म्॥

मूलम् - श्रीधरादि

(दो᳘ ऽथ) अ᳘थ हविर्द्धा᳘नयोः॥
(र्ज) जघनार्द्ध᳘ᳫँ᳘ समन्वीक्ष्यो᳘त्तरेणा᳘ग्नीध्रं मिनोति त᳘स्यार्द्धा᳘मन्तर्व्वेदि स्या᳘दर्द्धं᳘ बहिर्वेद्य᳘थो ऽअ᳘पि भू᳘यो ऽर्द्धा᳘दन्तर्वेदि स्यात्क᳘नीयो बहिर्व्वेद्य᳘थो ऽअ᳘पि स᳘र्व्वमे᳘वान्तर्व्वेदि᳘ स्यात्तन्नि᳘ष्ठितमभि᳘मृशति व्वैश्वदेव᳘मसी᳘ति द्वये᳘नैत᳘द्वैश्वदेवं य᳘दस्मिन्पूर्व्वेद्युर्व्वि᳘श्वे देवा᳘ व्व᳘सतीव᳘रीषूपवसन्ति ते᳘न व्वैश्वदेव᳘म्॥

मूलम् - Weber

अ᳘थ हविर्धा᳘नयोः॥
जघनार्धᳫं समन्वीक्ष्यो᳘त्तरेणा᳘ग्नीध्रम् मिनोति त᳘स्यार्ध᳘मन्तर्वेदि स्या᳘दर्ध᳘म् बहिर्वेद्य᳘थो अ᳘पि भू᳘यो ऽर्धा᳘दन्तर्वेदि स्यात्क᳘नीयो बहिर्वेद्य᳘थो अ᳘पि स᳘र्वमेॗवान्तर्वेदि᳘ स्यात्तन्नि᳘ष्ठितमभि᳘मृशति 21 वैश्वदेव᳘मसी᳘ति द्वये᳘नैत᳘द्वैश्वदेवं य᳘दस्मिन्पूर्वे᳘द्युर्वि᳘श्वे देवा᳘ वसतीव᳘रीषूपव᳘सन्ति ते᳘न वैश्वदेव᳘म्॥

मूलम् - विस्वरम्

आग्नीध्रीया भूयो ऽष्टौ धिष्ण्याः ।

अथ हविर्द्धानयोर्जघनार्द्धं समन्वीक्ष्योत्तरेणाग्नीध्रं मिनोति । तस्यार्द्धमन्तर्वेदि स्यात्, अर्द्धं बहिर्वेदि । अथो ऽअपि भूयो ऽर्द्धाद् अन्तर्वेदि स्यात्, कनीयो बहिर्वेदि । अथो ऽअपि सर्वमेवान्तर्वेदि स्यात् । तन्निष्ठितमभिमृशति – “वैश्वदेवमसि"- (वा. सं. ५ । ३०) इति । द्वयेनैतद्वैश्वदेवम्, यदस्मिन् पूर्वेद्युर्विश्वेदेवा वसतीवरीषूपवसन्ति तेन वैश्वदेवम् ॥ २६ ॥

सायणः

आग्नीध्रस्य स्थानमाह- अथ हविर्द्धानयोरित्यादिना 17 । हविर्द्धानशकटयोः पश्चाद्भागस्य साम्येन य उत्तरो देशः, तत्र ‘आग्नीध्रम्’ आग्नीध्रीयं मण्डपं कुर्यात् । तत्रापि त्रयः पक्षाः । आग्नीध्रीयस्य यावत् परिमाणं तस्यार्द्धं सौमिकवेद्या उत्तरभागे स्वीकुर्यादित्येकः पक्षः । अर्द्धादधिकमंशं वेद्याः स्वीकुर्यादिति द्वितीयः । सर्वमपि सौमिकवेद्यामिति तृतीयः । तदेतत् पक्षत्रयम्- तस्यार्द्धमन्तर्वेदीत्यादिनोक्तम् । ‘निष्ठितं’ निष्पन्नमाग्नीध्रीयम्, “वैश्वदेवमसि"- ‘इति’ मन्त्रेण अभिमृशेत् । अस्य वैश्वदेवत्वं कारणद्वयेन । तत्र प्रथमं कारणमाह- यदस्मिन् पूर्वेद्युरिति । ‘वसतीवर्यः’ सोमाभिषवार्था आपः; तासु विश्वेदेवाः सुत्यादिनात्पूर्वेद्युरधिवसन्ति अतो वैश्वदेवत्वम् । तथा चोपरिष्टादाम्नास्यते- “ता आग्नीध्रे सादयति विश्वेषां देवानां भागधेयी स्थेति”- इति (श. प. ब्रा. ३ । ९ । २ । १६ कं.) । तदासु विश्वान् देवान् संवेशयतीत्यतो विश्वेषां देवानामाश्रयभूतानामपामाधारभूतत्वाद् वैश्वदेवत्वम् ॥ २६ ॥

Eggeling
  1. In the north–with regard to the back part of the Soma-carts 22–he then raises the Āgnīdhra (shed). One half of it should be inside the altar, and one half outside; or more than one half may be inside the altar and less outside; or the whole of it may be inside the altar. When completed, he touches it with, ‘Thou art the All-gods’ own!’ To the All-gods it belongs, because on the day before (the Soma feast) the All-gods abide in it by the Vasatīvarī water.

२७

विश्वास-प्रस्तुतिः

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभया᳘ञ्चक्रुस्तान्दक्षिण᳘तो ऽसुररक्षसान्या᳘सेजुस्तान्त्स᳘दसो[[!!]] जिग्युस्ते᳘षामेतान्धि᳘ष्ण्यानुद्वापया᳘ञ्चक्रुर्य्य᳘ ऽए᳘ते ऽन्तःसदसम्[[!!]]॥

मूलम् - श्रीधरादि

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभया᳘ञ्चक्रुस्तान्दक्षिण᳘तो ऽसुररक्षसान्या᳘सेजुस्तान्त्स᳘दसो[[!!]] जिग्युस्ते᳘षामेतान्धि᳘ष्ण्यानुद्वापया᳘ञ्चक्रुर्य्य᳘ ऽए᳘ते ऽन्तःसदसम्[[!!]]॥

मूलम् - Weber

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳟᳟॥
ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘ चक्रुस्ता᳘न्दक्षिण᳘तो 23 ऽसुररक्षसान्या᳘सेजुस्तान्त्स᳘दसो जिग्युस्ते᳘षामेतान्धि᳘ष्ण्यानुद्वापयां᳘ चक्रुर्य᳘ एॗते ऽन्तःसदस᳘म्॥

मूलम् - विस्वरम्

देवा ह वै यज्ञं तन्वानाः । ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयाञ्चक्रुः । तान् दक्षिणतो ऽसुररक्षसान्यासेजुः । तान्त्सदसो जिग्युः । तेषामेतान् धिष्ण्यानुद्वापयाञ्चक्रुः- य एते ऽन्तःसदसम् ॥ २७ ॥

सायणः

द्वितीयं कारणमाह- देवा ह वा इत्यादिना । तान्त्सदसो जिग्युरिति । ‘तान्’ सदोनिविष्टान् देवान् ‘सदसः’ सकाशात् जितवन्तः, ततो निष्कासितवन्त इत्यर्थः । न केवलं तानेव देवान्, अपि तु ‘अन्तस्सदसं’ सदोमध्ये ऽवस्थितान् ‘धिष्ण्यान्’ अग्नीननाशयन्, तेषामग्नीनां तत्र सद्भाव एव नास्ति ॥ २७ ॥

Eggeling
  1. Now, once on a time, the gods, while performing sacrifice, were afraid of an attack on the part of the Asura-Rakshas. The Asura-Rakshas attacked them from the south and forced them out of the Sadas, and overturned those hearths (dhishṇya) of theirs which are within the Sadas.

२८

विश्वास-प्रस्तुतिः

(ᳫं᳭) सर्व्वे᳘ ह स्म वा᳘ ऽएते᳘ पुरा᳘ ज्वलन्ति॥
य᳘था ऽय᳘माहवनी᳘यो य᳘था गा᳘र्हपत्यो य᳘था ऽऽग्नीध्री᳘यस्तद्य᳘त ऽएनानुद᳘वापयंस्त᳘त ऽए᳘वैतन्न᳘ ज्वलन्ति ताना᳘ग्नीद्ध्रमभि स᳘ᳫँ᳘रुरुधुस्तान᳘प्यर्द्धमा᳘ग्नीद्ध्रस्य जिग्युस्त᳘तो व्वि᳘श्वे देवा᳘ ऽअमृतत्वम᳘पाजयंस्त᳘स्माद्वैश्वदेवम्[[!!]]॥

मूलम् - श्रीधरादि

(ᳫं᳭) सर्व्वे᳘ ह स्म वा᳘ ऽएते᳘ पुरा᳘ ज्वलन्ति॥
य᳘था ऽय᳘माहवनी᳘यो य᳘था गा᳘र्हपत्यो य᳘था ऽऽग्नीध्री᳘यस्तद्य᳘त ऽएनानुद᳘वापयंस्त᳘त ऽए᳘वैतन्न᳘ ज्वलन्ति ताना᳘ग्नीद्ध्रमभि स᳘ᳫँ᳘रुरुधुस्तान᳘प्यर्द्धमा᳘ग्नीद्ध्रस्य जिग्युस्त᳘तो व्वि᳘श्वे देवा᳘ ऽअमृतत्वम᳘पाजयंस्त᳘स्माद्वैश्वदेवम्[[!!]] 24

मूलम् - Weber

सर्वे᳘ ह स्म वा᳘ एते᳘ पुरा᳘ ज्वलन्ति॥
य᳘थाय᳘माहवनी᳘यो य᳘था गा᳘र्हपत्यो य᳘थाग्नीध्री᳘यस्तद्य᳘त एनानुद᳘वापयंस्त᳘त एॗवैतन्न᳘ ज्वलन्ति ताना᳘ग्नीध्रमभि सं᳘रुरुधुस्तान᳘प्यर्ध᳘मा᳘ग्नीध्रस्य जिग्युस्त᳘तो वि᳘श्वे देवा᳘ अमृतत्व᳘मपाजयंस्त᳘स्माद्वैश्वदे᳘वम् 25

मूलम् - विस्वरम्

सर्वे ह स्म वा एते पुरा ज्वलन्ति- यथा ऽयमाहवनीयो, यथा गार्हपत्यो, यथा ऽऽग्नीध्रीयः । तद् यत एनानुदवापयंस्तत एवैतन्न ज्वलन्ति । तानाग्नीध्रमभिसंरुरुधुः, तानप्यर्द्धमाग्नीध्रस्य जिग्युः । ततो विश्वेदेवा अमृतत्वमपाजयन्, तस्माद्वैश्वदेवम् ॥ २८ ॥

सायणः

तत्र ते न सन्तीति चेत् कथं ज्वलन्तीत्याह- सर्वे ह स्म वा एत इति । तानाग्नीध्रमभि संरुरुधुरिति । सदसो निष्कासिता आग्नीध्रप्रविष्टाः तत्राप्यसुरैः संरुद्धाः, ते देवा आग्नीध्रधिष्ण्यगतस्याग्नेः ‘अर्द्धं’ समीपं प्राप्य ‘तान्’ असुरान् ‘जिग्युः’ । ‘ततः’ आग्नीध्रस्याग्नेः सामर्थ्याद् ‘विश्वेदेवाः’ ‘अमृतत्वम्’ असुरकृतहिंसारहितत्वं प्राप्ता इत्यर्थः । ‘तस्मात्’ विश्वेषां देवानामाश्रयत्वाद् ‘वैश्वदेवम्’ वैश्वदेवत्वम् ॥ २८ ॥

Eggeling
  1. For, indeed, all of those (hearths) at one time burnt as brightly as this Āhavanīya and the Gārhapatya and the Āgnīdhrīya; but ever since that time when they (the Asuras) overturned them they do not burn. They forced them (the gods) back to the Āgnīdhra (fire) and even won from them one half of the Āgnīdhra. From there the All-gods gained immortality 26,–whence it (the Āgnīdhra fire) is sacred to the All-gods.

२९

विश्वास-प्रस्तुतिः

ता᳘न्देवाः᳘ प्रतिस᳘मैन्धत॥
य᳘था प्रत्यवस्येत्त᳘स्मादेनान्त्स᳘वनेसवन ऽएव᳘ प्रतिस᳘मिन्धते त᳘स्माद्यः स᳘मृद्धः स ऽआ᳘ग्नीद्ध्रं कुर्य्याद्यो वै᳘ ज्ञा᳘तो ऽनूचानः स᳘ स᳘मृद्धस्त᳘स्मादग्नी᳘धे प्रथमा᳘य द᳘क्षिणां न᳘यन्त्य᳘तो हि व्वि᳘श्वे देवा᳘ ऽअमृतत्व᳘मपा᳘जयंस्त᳘स्माद्यं᳘ दीक्षिता᳘नामबल्यं᳘ व्विन्देदा᳘ग्नीद्ध्रमेनं नयते᳘ति ब्रूयात्तद᳘नार्त्तं तन्ना᳘रिष्यती᳘ति तद्यद᳘तो व्वि᳘श्वे देवा᳘ ऽअमृतत्व᳘मपा᳘जयंस्त᳘स्माद्वैश्वदेवम्[[!!]]॥

मूलम् - श्रीधरादि

ता᳘न्देवाः᳘ प्रतिस᳘मैन्धत॥
य᳘था प्रत्यवस्येत्त᳘स्मादेनान्त्स᳘वनेसवन ऽएव᳘ प्रतिस᳘मिन्धते त᳘स्माद्यः स᳘मृद्धः स ऽआ᳘ग्नीद्ध्रं कुर्य्याद्यो वै᳘ ज्ञा᳘तो ऽनूचानः स᳘ स᳘मृद्धस्त᳘स्मादग्नी᳘धे प्रथमा᳘य द᳘क्षिणां न᳘यन्त्य᳘तो हि व्वि᳘श्वे देवा᳘ ऽअमृतत्व᳘मपा᳘जयंस्त᳘स्माद्यं᳘ दीक्षिता᳘नामबल्यं᳘ व्विन्देदा᳘ग्नीद्ध्रमेनं नयते᳘ति ब्रूयात्तद᳘नार्त्तं तन्ना᳘रिष्यती᳘ति तद्यद᳘तो व्वि᳘श्वे देवा᳘ ऽअमृतत्व᳘मपा᳘जयंस्त᳘स्माद्वैश्वदेवम्[[!!]]॥

मूलम् - Weber

ता᳘न्देवाः᳘ प्रतिस᳘मैन्धत॥
य᳘था प्रत्यवस्येत्त᳘स्मादेनान्त्स᳘वने सवन एव᳘ प्रतिस᳘मिन्धते त᳘स्माद्यः स᳘मृद्धः स आ᳘ग्नीध्रं कुर्याद्यो वै᳘ ज्ञाॗतो ऽनूचानः स स᳘मृद्धस्त᳘स्मादग्नी᳘धे प्रथमा᳘य द᳘क्षिणां न᳘यन्त्य᳘तो हि वि᳘श्वे देवा᳘ अमृतत्व᳘मपा᳘जयंस्त᳘स्माद्यं᳘ दीक्षिता᳘नामबल्यं᳘ विन्देदा᳘ग्नीध्रमेनं नयते᳘ति ब्रूयात्तद᳘नार्तं तन्ना᳘रिष्यती᳘ति तद्यद᳘तो वि᳘श्वे देवा᳘ अमृतत्व᳘मपा᳘जयंस्त᳘स्माद्वैश्वदेव᳘म् 27

मूलम् - विस्वरम्

तान् देवाः प्रतिसमैन्धत- यथा प्रत्यवस्येत् । तस्मादेनान्त्सवने सवन ऽएव प्रतिसमिन्धते । तस्माद्यः समृद्धः स आग्नीध्रं कुर्यात् । यो वै ज्ञातो ऽनूचानः- स समृद्धः । तस्मादग्नीधे प्रथमाय दक्षिणां नयन्ति । अतो हि विश्वेदेवाः अमृतत्वमपाजयन् । तस्माद् यं दीक्षितानामबल्यं विन्देत्- ‘आग्नीध्रमेनं नयत’- इति ब्रूयात् । तदनार्तम्, तन्नारिष्यतीति । तद् यदतो विश्वेदेवा अमृतत्वमपाजयन्- तस्माद् वैश्वदेवम् ॥ २९ ॥

सायणः

तान् देवा इति । ‘तान्’ उद्घाटितान् धिष्ण्यान् ‘देवाः’ ‘प्रतिसमैन्धत’ पुनरदीपयन् । ‘यथा’ येन प्रकारेण ‘प्रत्यवस्येत्’ प्रतितिष्ठेत् । यद्वा प्रत्यवसानं भोजनम्; यथा आहुत्याधारो भवेत् । तथा समैन्धत । तस्मादेनानिति । स्पष्टम् । तस्माद्य इति । ‘तस्मात्’ आग्नीध्रस्य विश्वेषां देवानां जयहेतुत्वात् ‘यः समृद्धः’, ‘सः’ ‘आग्नीध्रम्’ आग्नीध्रस्य कर्म ‘कुर्यात्’ । यो वा इति । ‘यो वै’ ‘ज्ञातः’ अयं सदाचारीति विदितः, ‘अनूचानः’ साङ्गप्रवचनाध्यायी ‘समृद्धः’ । आग्नीध्रस्य श्रैष्ठ्यं दक्षिणाप्राथम्यभाक्त्वेन समर्थयते- तस्मादग्नीधे प्रथमायेत्यादि ।

प्रसङ्गाद्यजमानार्थं कञ्चिदपूर्वनियममाह- तस्माद्यं दीक्षितानामबल्यं विन्देदिति । ‘दीक्षितानां’ मध्ये ‘यं’ दीक्षितम्, यद्वा तेषां सम्बन्धिनं कञ्चिदृत्विजम् ‘अबल्यं’ दौर्बल्यं ‘विन्देत्,’ लभेत, तद्दौर्बल्यपरिहाराय “एनम् आग्नीध्रं नयत"- ‘इति’ ब्रूयात् । एवं वदतामभिप्रायमाह- यत्तदनार्तं तन्नारिष्यतीतीति । लोके ‘यद्’ भयादिरहितम्, ‘तत्’ ‘नारिष्यति’ आर्तिं न लभेत; अत एतस्याग्नीद्ध्रस्य देवानामार्तिपरिहारसाधनत्वादसावप्यनार्तो भवेदित्यभिप्रायेण नयतेति ब्रूयादित्यर्थः । तद् यदत इत्यादिरुक्तार्थोपसंहारः ॥ २९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे षष्ठा ऽध्याये प्रथमं ब्राह्मणम् ॥ (३-६-१) ॥

Eggeling
  1. The gods kindled them again, as one would (light the fire where he is going to) stay. Therefore they are kindled at every Soma feast. Wherefore the duties of the Agnīdh should be discharged by one who is accomplished. Now he who is known and learned in sacred lore 28 is truly accomplished: hence they take to the Agnīdh his Dakshiṇā first 29, since it is from thence (from the Agnīdh’s fire) that the gods gained immortality. And if weakness were to come upon one of those that are consecrated, let (the Adhvaryu) say, ‘Lead him to the Āgnīdhra!’–thinking ’that is unscathed, there he will not meet with affliction 30.’ And because the All-gods gained immortality from there, therefore it is sacred to the All-gods.

  1. 140:3 The Sadas is a shed or tent, facing the east with its long side, which is to measure eighteen (or twenty-one, or twenty-four, or, according to the Śulva-sūtra, twenty-seven) cubits, the breadth by six cubits (or ten, or one half that of the long side). The udumbara post, according to some, is to stand exactly in the centre of the shed; or, according to others, at an equal distance from the (long) east and west sides; the ‘spine’ (cf. p. 112, note 2) in that case dividing the building into two equal parts, a northern and a southern one. In the middle the shed is to be of the sacrificer’s height, and from thence the ceiling is to slant towards the ends where it is to reach up to the sacrificer’s navel. According to the Black Yajus, the erection of the Sadas precedes the digging of the Uparavas, described in the preceding Brāhmaṇa. Taitt. S. VI, 2, 10, 11. ↩︎

  2. अतः पात्यात्षट्प्रक्रमान् प्राङ् यात्वा दक्षिणा सप्तमं महांतं तत्रोदुंबरीं मिनोति यजमानमात्रीं वा । का. श्रौ. सू. ८-१३७ । ↩︎

  3. 141:1 The antaḥpāta, see III, 5, I, 1. ↩︎

  4. अभ्र्यादि करोत्यावटस्तरणात् । का. श्रौ. सू ८-१३९ । देवस्यत्वेत्यभ्रिमादाय यूपावटं परिलिखतीदमहमित्याहवनीयस्य पुरस्तादंतर्व्वेद्यर्द्धम् । का. श्रौ. सू. ६-४१ । ↩︎ ↩︎

  5. 142:1 It is the part which is to stand above ground that is to be of the sacrificer’s size. ↩︎

  6. यवो ऽसीत्यप्सु यवानोप्य । का. श्रौ. सू । ६ । ४८ । ↩︎ ↩︎ ↩︎ ↩︎

  7. प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमंत्रम् । का. श्रौ. सू. । ६ । ४८ । ↩︎

  8. 143:1 Svāruḥ, ’naturally grown,’ Taitt. S. VI, 2, 10, 4. ↩︎

  9. उद्दिवमित्युच्छ्रयति । का. श्रौ. सू. ८ । १४० । ↩︎ ↩︎ ↩︎

  10. 144:1 See III, 5, 2, 11 with note. The Kāṇva text has, bahvī vā āśīr yajuḥshu te asmā ete āśishā vā śāste yad brahma ca kshatraṁ ca. ↩︎

  11. ब्रह्म दृँ हेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यृषति । का. श्रौ. सू. ६ । ६४ । ↩︎ ↩︎ ↩︎

  12. 145:1 The post is to be furcate at the top, and between the branch-stumps (forming as it were its ears) he is to put a piece of gold and pour the ghee thereon; when the ghee reaches the ground, he is to pronounce the final ‘Svāhā!’ in accordance with the practice at the homas; the gold representing, as it were, the sacrificial fire. Sāyaṇa on Taitt. S. I, 3, I; Kāty. VIII, 5, 37 seq. ↩︎

  13. इंद्रस्य च्छदिरिति मध्यमं छदिरारोप्यापरपूर्वे च । त्रिवर्गौ चोत्तरतः । का. श्रौ. सू. ८ । १५१ । ↩︎

  14. 145:2 That is, after putting up the posts of the front and back doors, and laying the beams on, both longways and crossways, in the same way as was done in erecting the Prācīnavaṁśa and Havirdhāna, he is to spread over the beams the nine mats that are to form the ceiling,–viz. first the middle, and then the two others, of the three southern ones, thereupon three alongside these, across the central part of the shed, and finally the three across the north side. According to some authorities the central mats are laid down first, and then those on the south and north sides. See Sāyaṇa on Taitt. S. I, 3, 1 (p. 450). ↩︎

  15. ‘अर्धपरिमाणत्वम्-’ इ. क्व. पा. । ↩︎

  16. इतो ऽग्रे- ‘यथा पृष्ठ्या रज्जुर्मध्या भवति रज्जु र्दक्षिणतः स्थिता औदुम्बरी मध्या भवति यथा पृष्ठ्या रज्जुर्मध्या भवति तथान्यतरपक्षं कुर्यादित्यर्थः’- इ. क्व. पा. । ↩︎

  17. परित्वेति परिवार्य । का. श्रौ. सू. ८ । १५३ । ↩︎ ↩︎ ↩︎

  18. 146:1 Viz. with hurdles, or upright grass-mats, fastened to the doorposts by means of cord. ↩︎

  19. तं नि᳘ष्ठि AB ↩︎

  20. 146:2 See III, 5, 3, 25. ↩︎

  21. तं नि᳘ष्ठि AB ↩︎

  22. 147:1 North of the clog (apalamba) of the carts, Kāṇva rec. ↩︎

  23. तां दक्षि AB. तां धि᳘ष्ल्या AB. ↩︎

  24. अयाजयन् इति क्व. पा. एवमुत्तरकण्डिकायामपि । ↩︎

  25. त्वम᳘याजय AB. ↩︎

  26. 147:2 They gained it, as would seem, by means of the other half of the Āgnīdhra fire. Cf. Ait. Br. II, 36. Sāyaṇa interprets ’tān apy ardham āgnīdhrasya, jigyus’ by, ‘[They forced those (gods) back to the Sadas:] and they (the gods), having reached the side (ardham = samīpam) of the Āgnīdhra (fire), conquered the Asuras and won immortality.’ The Kāṇva rec. reads:–‘Te hāpy āgnīdhrasyārdhaṁ jigyus to ’rdhān (! read ’rdhād) etad viśve devā amr̥tatvam apājayan.’ ↩︎

  27. This passage shows clearly, (what is manifest too from the पदपाठ, wherever the words occur) that आर्ति (आऽऋति in the Pada) and आर्त are not be derived from अर्द्, but from ॠ + आः see also १, ४, ३, ११-२२.५, १, २.६, १, १६. ↩︎

  28. 148:1 Or, as Sāyaṇa takes it, ‘he who is known (as well-conducted) and a repeater (reader) of the Veda.’ ↩︎

  29. 148:2 See IV, 3, 4, 19 seq. ↩︎

  30. 148:3 Or, ’that (fire) will not suffer evil’ (ārtiṁ na labheta, Sāyaṇa). ↩︎