०१

विश्वास-प्रस्तुतिः

द्वयं वा᳘ ऽअ᳘भ्युपरवाः᳘ खायन्ते॥
शि᳘रो वै᳘ यज्ञ᳘स्य हविर्द्धा᳘नं तद्य᳘ ऽइमे᳘ शीर्षं᳘श्चत्वा᳘रः कूपा ऽइमाव᳘ह[[!!]] द्वा᳘विमौ द्वौ ता᳘ने᳘वैत᳘त्करोति त᳘स्मादुपरवा᳘न्खनति॥

मूलम् - श्रीधरादि

द्वयं वा᳘ ऽअ᳘भ्युपरवाः᳘ खायन्ते॥
शि᳘रो वै᳘ यज्ञ᳘स्य हविर्द्धा᳘नं तद्य᳘ ऽइमे᳘ शीर्षं᳘श्चत्वा᳘रः कूपा ऽइमाव᳘ह[[!!]] द्वा᳘विमौ द्वौ ता᳘ने᳘वैत᳘त्करोति त᳘स्मादुपरवा᳘न्खनति॥

मूलम् - Weber

द्वयं वा᳘ अॗभ्युपरवाः᳘ खायन्ते॥
शि᳘रो वै᳘ यज्ञ᳘स्य हविर्धा᳘नं तद्य᳘ इमे᳘ शीर्ष᳘श्चत्वा᳘रः कू᳘पा इमाव᳘ह द्वा᳘विमौ द्वौ ता᳘नेॗवैत᳘त्करोति त᳘स्मादुपरवा᳘न् खनति॥

मूलम् - विस्वरम्

उपरवविधिः ।

द्वयं वा ऽअभ्युपरवाः खायन्ते । शिरो वै यज्ञस्य हविर्द्धानम् । तद् य ऽइमे शीर्षंश्चत्वारः कूपाः इमावह द्वौ, इमौ द्वौ । तानेवैतत् करोति । तस्मादुपरवान् खनति ॥ १ ॥

सायणः

सोमाभिषवायोपरवाणां खननं विवक्षुः खननस्योभयार्थतामाह- द्वयं वा इति । प्रयोजनद्वयमभिलक्ष्य खायन्त इत्यर्थः । प्रथमं प्रयोजनमाह- शिरो वै यज्ञस्येति । यस्मात् शिरसि ‘चत्वारः कूपाः’ कर्णच्छिद्रे द्वे, नासिकाछिद्रे द्वे इति ‘चत्वारः’ ‘कूपाः’ कूपवन्निम्नप्रदेशाः । ‘इमौ’- इति अभिनयोक्तिः । हविर्द्धानस्यापि यज्ञशिरोरूपत्वात् तत्र चतुरः ‘उपरवान्’ खनेत् 1 ॥ १ ॥

Eggeling
  1. It is for a twofold reason that the sounding-holes are dug. The cart-shed, truly, is the head of the sacrificer; and what four holes there are here in the head–namely, these two and these two 2–those he thereby makes: for this reason he digs the sounding-holes.

०२

विश्वास-प्रस्तुतिः

देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसु᳘रा ऽएषु[[!!]] लोके᳘षु कृत्यां᳘ वलगान्नि᳘चख्नुरु᳘तैव᳘ञ्चिद्देवा᳘नभि᳘भवेमे᳘ति॥

मूलम् - श्रीधरादि

देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसु᳘रा ऽएषु[[!!]] लोके᳘षु कृत्यां᳘ वलगान्नि᳘चख्नुरु᳘तैव᳘ञ्चिद्देवा᳘नभि᳘भवेमे᳘ति॥

मूलम् - Weber

देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा एषु᳘ लोके᳘षु कृत्यां᳘ वलगान्नि᳘चख्नुरुॗतैवं᳘ चिद्देवा᳘नभि᳘भवेमे᳘ति॥

मूलम् - विस्वरम्

देवाश्च वा ऽअसुराश्च उभये प्राजापत्याः पस्पृधिरे । ततो ऽसुरा एषु लोकेषु कृत्यां वलगान् निचख्नुः, उतैवञ्चिद्देवानभिभवेमेति ॥ २ ॥

सायणः

द्वितीयं प्रयोजनमाह- देवाश्च वा असुराश्चेति । द्वेष्यवधार्थं भूमौ स्थापिताः कृत्याविशेषाः ‘वलगाः’ तान् निखातवन्तः ‘उत’ ‘एवञ्चित्’ एवमपि युद्धेनाशक्नुवन्तः । अनेनाप्युपायेन ‘देवान् अभिभवेम’ ‘इति’ तेषामभिप्रायः ॥ २ ॥

Eggeling
  1. Now the gods and the Asuras, both of them sprung from Prajāpati, were contending. The Asuras then by way of witchcraft buried charms 3 within these worlds, thinking, ‘Peradventure we may thus overcome the gods.’

०३

विश्वास-प्रस्तुतिः

तद्वै᳘ देवा᳘ ऽअस्पृण्वत᳘॥
त᳘ ऽएतैः᳘ कृत्यां᳘ वलगानु᳘दखनन्यदा वै᳘ कृत्या᳘मुत्ख᳘नन्त्य᳘थ᳘ सा ऽलसा मो᳘घा भवति त᳘थो ऽए᳘वैष᳘ ऽएतद्य᳘द्यस्मा ऽअ᳘त्र क᳘श्चिद्द्विषन्भ्रा᳘तृव्यः कृत्यां᳘ व्वलगा᳘न्निख᳘नति ता᳘ने᳘वैतदु᳘त्किरति त᳘स्मादुपरवा᳘न्खनति स द᳘क्षिणस्य हविर्द्धा᳘नस्या᳘ ऽधो ऽधः प्र᳘उगं खनति॥

मूलम् - श्रीधरादि

तद्वै᳘ देवा᳘ ऽअस्पृण्वत᳘॥
त᳘ ऽएतैः᳘ कृत्यां᳘ वलगानु᳘दखनन्यदा वै᳘ कृत्या᳘मुत्ख᳘नन्त्य᳘थ᳘ सा ऽलसा मो᳘घा भवति त᳘थो ऽए᳘वैष᳘ ऽएतद्य᳘द्यस्मा ऽअ᳘त्र क᳘श्चिद्द्विषन्भ्रा᳘तृव्यः कृत्यां᳘ व्वलगा᳘न्निख᳘नति ता᳘ने᳘वैतदु᳘त्किरति त᳘स्मादुपरवा᳘न्खनति स द᳘क्षिणस्य हविर्द्धा᳘नस्या᳘ ऽधो ऽधः प्र᳘उगं खनति॥

मूलम् - Weber

तद्वै᳘ देवा᳘ अस्पृण्वत॥
त᳘ एतैः᳘ कृत्या᳘ वलगानु᳘दखनन्यदा वै᳘ कृत्या᳘मुत्ख᳘नन्त्य᳘थॗ सालसा मो᳘घा भवति त᳘थो एॗवैष᳘ एतद्य᳘द्यस्मा अ᳘त्र क᳘श्चिद्द्विषन्भ्रा᳘तृव्यः कृत्यां᳘ वलगा᳘न्निख᳘नति ता᳘नेॗवैतदु᳘त्किरति त᳘स्मादुपरवा᳘न् खनति स द᳘क्षिणस्य हविर्धा᳘नस्याॗधो ऽधः प्र᳘उगं खनति॥

मूलम् - विस्वरम्

तद्वै देवा ऽअस्पृण्वत, त ऽएतैः कृत्यां वलगानुदखनन् । यदा वै कृत्यामुत्खनन्ति- अथ सा ऽलसा मोघा भवति । तथो ऽएवैष एतद् । यद्यस्मा ऽअत्र कश्चिद् द्विषन् भ्रातृव्यः कृत्यां वलगान् निखनति, तानैवैतदुत्किरति । तस्मादुपरवान् खनति । स दक्षिणस्य हविर्द्धानस्याधो ऽधः प्रउगं खनति ॥ ३॥

सायणः

तद्वै देवा अस्पृण्वतेति । ‘तत्’ असुरैः कृतं खननाख्यम् ‘अस्पृण्वत’ देवाः तदुत्खननेन हिंसितवन्तः । हिंसाप्रकारमाह- त एतैरिति । ‘एतैः’ उपरवैः । ‘अथ’ कृत्योत्खननानन्तरमेव ‘सा’ कृत्या ‘अलसा’ स्वव्यापारं हननं कर्तुमसहमाना, अत एव ‘मोघा’ व्यर्था भवति । यथा देवेषु, एवं मनुष्येषु अयं कृत्यापरिहारोपाय इत्याह- तद्यो एवैष एतदिति । खननप्रदेशमाह- स दक्षिणस्य हविर्द्धानस्येति । ईषाद्वयसंयोजनप्रदेशः ‘प्रउगम्,’ तस्य ‘अधो ऽधः’ सन्निहिताधःप्रदेशे । ‘अधो ऽधः’ शब्दयोगात् प्रउगमिति द्वितीया (पा. सू. २ । ३ । २ ॥ १ । ४ । ४८ । वा. ३) ॥ ३ ॥

Eggeling
  1. The gods then prevailed. By means of these (sounding-holes) they dug up those magic charms. Now, when a charm is dug up, it becomes inoperative and useless. And in like manner, if any malicious enemy buries here charms by way of witchcraft for this (sacrificer), does he thereby dig them up; this is why he digs sounding-holes. He digs just beneath the fore-part of the shafts of the southern cart.

०४

विश्वास-प्रस्तुतिः

सो᳘ ऽभ्रिमा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामा᳘ददे ना᳘र्य्यसी᳘ति समान᳘ एत᳘स्य य᳘जुषो ब᳘न्धुर्यो᳘षो वा᳘ ऽएषा यद᳘भ्रि᳘स्त᳘स्मादाह ना᳘र्य्यसी᳘ति॥

मूलम् - श्रीधरादि

सो᳘ ऽभ्रिमा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामा᳘ददे ना᳘र्य्यसी᳘ति समान᳘ एत᳘स्य य᳘जुषो ब᳘न्धुर्यो᳘षो वा᳘ ऽएषा यद᳘भ्रि᳘स्त᳘स्मादाह ना᳘र्य्यसी᳘ति॥

मूलम् - Weber

सो᳘ ऽभ्रिमा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्यामा᳘ददे ना᳘र्यसी᳘ति समान᳘ एत᳘स्य य᳘जुषो ब᳘न्धुर्यो᳘षो वा᳘ एषा यद᳘भ्रिस्त᳘स्मादाह ना᳘र्यसी᳘ति॥

मूलम् - विस्वरम्

सो ऽभ्रिमादत्ते- “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां, पूष्णो हस्ताभ्यामाददे नार्यसि”- (वा. सं. ५ । २२) इति । समान एतस्य यजुषो बन्धुः । योषो वा एषा-यदभ्रिः । तस्मादाह- नार्यसीति ॥ ४ ॥

सायणः

खननायाभ्र्यादानं समन्त्रकं विधत्ते- सो ऽभ्रिमादत्त इति 4 । “देवस्य 5 त्वा” इति । “नार्यसि”- इति मन्त्रान्तरम् । नरस्यापत्यं स्त्री ‘नारी’ । हे अभ्रे ! त्वं नारी असि । इत्यपि स्तुतिः । यत् प्राक् “देवस्य त्वा”- इत्यस्य ब्राह्मणमुक्तं, (श. ब्रा. १ । १ । २ । २७) तदत्रातिदिशति- समान एतस्य बन्धुरिति । ‘एतस्य’ ‘यजुषः’ देवस्य त्वेत्यस्य यजुर्मन्त्रस्येत्यर्थः । आदीयमानाया अभ्र्याः स्त्रीत्वान्मन्त्रे नारीशब्देनाभ्रिरमिहितेत्याह- योषा उ वा एषेत्यादि ॥ ४ ॥

Eggeling
  1. He takes up the spade 6, with the text (Vāj. S. V, 22),

‘At the impulse of the divine Savitr̥, I take thee with the arms of the Aśvins, with the hands of Pūshan: thou art a woman.’ The significance of this formula is the same (as before). That spade (abhri, fem.) is indeed a female: therefore he says ’thou art a woman.’

०५

विश्वास-प्रस्तुतिः

ता᳘न्प्रादेशमात्रं व्वि᳘ना प᳘रिलिखति॥
(ती) इद᳘महᳫँ᳭ र᳘क्षसां ग्रीवा ऽअ᳘पिकृन्तामी᳘ति व्व᳘ज्रो वा अ᳘भ्रिर्व्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा᳘णाᳫँ᳭र᳘क्षसां ग्रीवा ऽअ᳘पिकृन्तति॥

मूलम् - श्रीधरादि

ता᳘न्प्रादेशमात्रं व्वि᳘ना प᳘रिलिखति॥
(ती) इद᳘महᳫँ᳭ र᳘क्षसां ग्रीवा ऽअ᳘पिकृन्तामी᳘ति व्व᳘ज्रो वा अ᳘भ्रिर्व्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा᳘णाᳫँ᳭र᳘क्षसां ग्रीवा ऽअ᳘पिकृन्तति॥

मूलम् - Weber

ता᳘न्प्रादेशमात्रं वि᳘ना प᳘रिलिखति॥
इद᳘महं र᳘क्षसां ग्रीवा अ᳘पिकृन्तामी᳘ति व᳘ज्रो वा अ᳘भ्रिर्व᳘ज्रेणैॗवैत᳘न्नाष्ट्रा᳘णां र᳘क्षसां ग्रीवा अ᳘पिकृन्तति॥

मूलम् - विस्वरम्

तान् प्रादेशमात्रं विना परिलिखति- “इदमहं रक्षसां ग्रीवा अपि कृन्तामि”- (वा. सं. ५ । २२) इति वज्रो वा ऽअभ्रिः । वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा ऽअपि कृन्तति ॥ ५ ॥

सायणः

तान् प्रादेशमात्रं विनेति 4 । मध्ये-मध्ये प्रादेशमात्रान्तरालं विहाय समचतुरस्रे खननप्रदेशे चतुरो ऽवटान् प्रादेशमात्रान् परिलिखेदित्यर्थः । इदमहमिति लेखनमन्त्रः ॥ ५ ॥

Eggeling
  1. He draws their outlines, saving 7 the measure of a span, with, ‘Here do I cut off the necks of the Rakshas!’ For the spade is the thunderbolt: it is with the thunderbolt that he thus cuts off the necks of the Rakshas.

०६

विश्वास-प्रस्तुतिः

तद्या᳘वेतौ पू᳘र्व्वौ॥
त᳘योर्द᳘क्षिणमेवा᳘ग्रे प᳘रिलिखेदथा᳘परयोरु᳘त्तरमथा᳘परयोर्द्द᳘क्षिणम᳘थ पू᳘र्व्वयोरु᳘त्तरम्॥

मूलम् - श्रीधरादि

तद्या᳘वेतौ पू᳘र्व्वौ॥
त᳘योर्द᳘क्षिणमेवा᳘ग्रे प᳘रिलिखेदथा᳘परयोरु᳘त्तरमथा᳘परयोर्द्द᳘क्षिणम᳘थ पू᳘र्व्वयोरु᳘त्तरम्॥

मूलम् - Weber

तद्या᳘वेतौ पू᳘र्वौ॥
त᳘योर्द᳘क्षिणमेवा᳘ग्रे प᳘रिलिखेदथा᳘परयोरु᳘त्तरमथा᳘परयोर्द᳘क्षिणम᳘थ पू᳘र्वयोरु᳘त्तरम्॥

मूलम् - विस्वरम्

तद् यावेतौ पूर्वौ तयोर्दक्षिणमेवाग्रे परिलिखेत् । अथापरयोरुत्तरम् । अथापरयोर्दक्षिणम् । अथ पूर्वयोरुत्तरम् ॥ ६ ॥

सायणः

अवटखनने द्वौ प्रकारौ, अक्ष्णया सम्यक् चेति । अक्ष्णया ऽपि द्विविधोपपद्यते तत्रैकं प्रकारमाह- तद्यावेतौ पूर्वौ तयोर्दक्षिणमेवाग्र इत्येवमादिना । आग्नेयवायव्यनैर्ऋतैशानक्रमेणेत्येकः प्रकारः ॥ ६ ॥

Eggeling
  1. Let him first mark off the right (southern) one of the two that are in front; then the left one of the two behind; then the right one of those behind; then the left one of those in front.

०७

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थो ऽइतर᳘था ऽऽहुः॥
(र᳘) अ᳘परयोरेवा᳘ग्र ऽउ᳘त्तरं प᳘रिलिखेद᳘थ पू᳘र्व्वयोर्द᳘क्षिणमथा᳘परयोर्द᳘क्षिणम᳘थ पू᳘र्व्वयोरु᳘त्तरमित्य᳘थो ऽअ᳘पि समी᳘च एव प᳘रिलिखेदेतं᳘ त्वे᳘वोत्तमं प᳘रिलिखेद्य᳘ ऽएष पू᳘र्व्वयोरु᳘त्तरो भ᳘वति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थो ऽइतर᳘था ऽऽहुः॥
(र᳘) अ᳘परयोरेवा᳘ग्र ऽउ᳘त्तरं प᳘रिलिखेद᳘थ पू᳘र्व्वयोर्द᳘क्षिणमथा᳘परयोर्द᳘क्षिणम᳘थ पू᳘र्व्वयोरु᳘त्तरमित्य᳘थो ऽअ᳘पि समी᳘च एव प᳘रिलिखेदेतं᳘ त्वे᳘वोत्तमं प᳘रिलिखेद्य᳘ ऽएष पू᳘र्व्वयोरु᳘त्तरो भ᳘वति॥

मूलम् - Weber

अ᳘थो इतर᳘थाहुः॥
अ᳘परयोरेवा᳘ग्र उ᳘त्तरम् प᳘रिलिखेद᳘थ पू᳘र्वयोर्द᳘क्षिणमथा᳘परयोर्द᳘क्षिणम᳘थ पू᳘र्वयोरु᳘त्तरमित्य᳘थो अ᳘पि समी᳘च एव प᳘रिलिखेदेॗतं त्वेॗवोत्तमम् प᳘रिलिखेद्य᳘ एष पू᳘र्वयोरु᳘त्तरो भ᳘वति॥

मूलम् - विस्वरम्

अथो ऽइतरथा ऽऽहुः- अपरयोरेवाग्र ऽउत्तरं परिलिखेत् । अथ पूर्वयोर्दक्षिणम् । अथापरयोर्दक्षिणम् । अथ पूर्वयोरुत्तरमिति । अथो ऽअपि समीच एव परिलिखेत् । एतं त्वेवोत्तमं परिलिखेत् । य एष पूर्वयोरुत्तरो भवति ॥ ७ ॥

सायणः

द्वितीयं प्रकारमाह- ‘अथो इतरथा ऽआहुः’ ‘अपरयोरेवाग्रउत्तर’ मित्यादिना वायव्याग्नेयनैर्ऋतेशानक्रमेणेत्यर्थः । स्वकीयं सम्यक्परिलेखनपक्षमाह- अथो इतरथा ऽऽहुरिति । अथो अपि समीचएवेति आग्नेयादिप्रादक्षिण्यक्रमेणेत्यर्थः 8 ॥ ७ ॥

Eggeling
  1. But they say conversely, that he should mark off first the left one of the two behind; then the right one of those in front; then the right one of those behind; and then the left one of those in front. Or he may also mark them off in one and the same direction 9: but let him, in any case, mark off last of all the one which is on the left of those in front.

०८

विश्वास-प्रस्तुतिः

ता᳘न्यथापरिलिखित᳘मेव᳘ यथापूर्व्वं᳘ खनति॥
बृह᳘न्नसि बृह᳘द्रवा ऽइत्यु᳘पस्तौत्ये᳘वैनानेत᳘न्मह᳘यत्येव यदा᳘ह बृह᳘न्नसि बृह᳘द्रवा ऽइ᳘ति बृ᳘हतीमि᳘न्द्राय व्वा᳘चं व्वदेती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता व्वैष्णव᳘ᳫँ᳘ हविर्द्धा᳘नं तत्से᳘न्द्रं करोति त᳘स्मादाह बृहतीमि᳘न्द्राय व्वा᳘चं व्वदे᳘ति॥

मूलम् - श्रीधरादि

ता᳘न्यथापरिलिखित᳘मेव᳘ यथापूर्व्वं᳘ खनति॥
बृह᳘न्नसि बृह᳘द्रवा ऽइत्यु᳘पस्तौत्ये᳘वैनानेत᳘न्मह᳘यत्येव यदा᳘ह बृह᳘न्नसि बृह᳘द्रवा ऽइ᳘ति बृ᳘हतीमि᳘न्द्राय व्वा᳘चं व्वदेती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता व्वैष्णव᳘ᳫँ᳘ हविर्द्धा᳘नं तत्से᳘न्द्रं करोति त᳘स्मादाह बृहतीमि᳘न्द्राय व्वा᳘चं व्वदे᳘ति॥

मूलम् - Weber

ता᳘न्यथापरिलिखित᳘मेव᳘ यथापूर्वं᳘ खनति॥
बृह᳘न्नसि बृह᳘द्रवा इत्यु᳘पस्तौत्येॗवैनानेत᳘न्महयत्येव यदा᳘ह बृह᳘न्नसि बृह᳘द्रवा इ᳘ति बृ᳘हतीमि᳘न्द्राय वा᳘चं वदेती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता वैष्णव᳘ᳫं᳘ हविर्धा᳘नं तत्से᳘न्द्रं करोति त᳘स्मादाह बृहतीमि᳘न्द्राय वा᳘चं वदे᳘ति॥

मूलम् - विस्वरम्

तान् यथापरिलिखितमेव यथापूर्वं खनति । “बृहन्नसि बृहद्रवाः”- (वा. सं. ५ । २२) इति । उपस्तौत्येवैनानेतत् महयत्येव यदाह- बृहन्नसि बृहद्रवा इति । “बृहतीमिन्द्राय वाचं वद”- (वा. सं. ५ । २२) इति । इन्द्रो वै यज्ञस्य देवता वैष्णवं हविर्द्धानम् । तत् सेन्द्रं करोति । तस्मादाह- बृहतीमिन्द्राय वाचं वदेति ॥ ८ ॥

सायणः

य एष पूर्वयोरुत्तरः, तमुत्तरं कुर्यादित्यभिधानात् खननमपि परिलेखनक्रमेण कर्तव्यमित्याह- तान् यथा परिलिखितमेवेति 8 । तत्र मन्त्रः- बृहन्नसीति । हे अवट ! त्वं ‘बृहन्’ स्वरूपतो महान् ‘असि’ । तथा ‘बृहद्रवाः’ प्रभूतध्वनिरसि । अतो ‘बृहतीं’ महतीं ‘वाचम्’ ‘इन्द्राय’ इन्द्रार्थम्, सोमस्येन्द्रार्थत्वात् तदर्थत्वादुपरवखननस्य स्तुतिकरीं वाचं ‘वद’ शब्दय ॥

पुनर्वाग्विशेष्यते- ‘रक्षोहणम्’ । हन्तेः “बहुलं छन्दसि” (पा. सू. ३ । २ । ८८) इति क्विप् । रक्षांसि हन्ति तादृशीम् । ‘व्वलगहनम्’ वलगान् हन्तीति वलगहा, तां व्वलगहनम् । ‘वैष्णवीम्’ विष्णुदेवत्यां वाचम् । वदेति सम्बन्धः ॥

मन्त्रं चतुर्द्धा विभज्य व्याचष्टे- बृहन्नसि बृहद्रवा इत्युपस्तौत्येवैनानित्यादिना । प्रत्यक्षतो बृहत्त्वबृहद्रवत्वयोः प्रतीतेरुपस्तुत्यभिधानमित्यर्थः । सा च किमर्थेत्यत आह- महयत्येवेति । इन्द्रो वा इत्यादि । “इन्द्राय” इत्यभिधानेनान्यदेवताकस्य हविर्द्धानस्योपरवाधारभूतस्य सेन्द्रत्वं कृतवान् भवतीत्यर्थः । रक्षोहणमित्यादि । स्पष्टम् ॥ ८ ॥ ९ ॥

Eggeling
  1. He digs them, in the very same order in which they have been marked off, with, ‘Thou art great,

of great sound!’–he praises and extols them, when he says, ‘Thou art great, of great sound;’–‘Utter thou the great voice unto Indra!’–Indra, forsooth, is the deity of the sacrifice; and the cart-shed belonging to Vishṇu, he thereby makes it to be connected with Indra: therefore he says, ‘Utter thou the great voice unto Indra!’

०९

विश्वास-प्रस्तुतिः

रक्षोह᳘णं व्वलगह᳘नमि᳘ति॥
र᳘क्षसा᳘ᳫं᳘ ह्येते᳘ व्वलगा᳘नां व्वधा᳘य खाय᳘न्ते व्वैष्णवीमि᳘ति व्वैष्णवी हि᳘ हविर्द्धा᳘ने व्वाक्[[!!]]॥

मूलम् - श्रीधरादि

रक्षोह᳘णं व्वलगह᳘नमि᳘ति॥
र᳘क्षसा᳘ᳫं᳘ ह्येते᳘ व्वलगा᳘नां व्वधा᳘य खाय᳘न्ते व्वैष्णवीमि᳘ति व्वैष्णवी हि᳘ हविर्द्धा᳘ने व्वाक्[[!!]]॥

मूलम् - Weber

रक्षोह᳘णं वलगह᳘नमि᳘ति॥
र᳘क्षसाॗᳫंॗ ह्येते᳘ वलगा᳘नाम् बधा᳘य खाय᳘न्ते वैष्णवीमि᳘ति वैष्णवी हि᳘ हविर्धा᳘ने वा᳘क्॥

मूलम् - विस्वरम्

“रक्षोहणं वलगहनम्”- (वा. सं. ५ । २३) इति । रक्षसां ह्येते वलगानां वधाय खायन्ते । “वैष्णवीम्”- (वा. सं. ५ । २३) इति । वैष्णवी हि हविर्द्धाने वाक् ॥ ९ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. ‘The Rakshas-killing, charm-killing (voice),’ for it is indeed for the killing of the charms of the Rakshas that these (holes) are dug;–‘Of Vishṇu;’ for that voice in the cart-shed is indeed Vishṇu’s.

१०

विश्वास-प्रस्तुतिः

(क्ता᳘) ता᳘न्यथाखात᳘मेवो᳘त्किरति॥
(ती) इद᳘महं तं᳘ व्वलगमु᳘त्किरामि य᳘म्मे नि᳘ष्ठ्यो य᳘ममा᳘त्यो निचखाने᳘ति नि᳘ष्ठ्यो वा᳘ वा ऽअमा᳘त्यो[[!!]] वा कृत्यां᳘ व्वलगन्नि᳘खनति ता᳘ने᳘वैतदु᳘त्किरति॥

मूलम् - श्रीधरादि

(क्ता᳘) ता᳘न्यथाखात᳘मेवो᳘त्किरति॥
(ती) इद᳘महं तं᳘ व्वलगमु᳘त्किरामि य᳘म्मे नि᳘ष्ठ्यो य᳘ममा᳘त्यो निचखाने᳘ति नि᳘ष्ठ्यो वा᳘ वा ऽअमा᳘त्यो[[!!]] वा कृत्यां᳘ व्वलगन्नि᳘खनति ता᳘ने᳘वैतदु᳘त्किरति॥

मूलम् - Weber

ता᳘न्यथाखात᳘मेवो᳘त्किरति॥
इद᳘महं तं᳘ वलगमु᳘त्किरामि य᳘म् मे नि᳘ष्ट्यो य᳘ममा᳘त्यो निचखाने᳘ति नि᳘ष्ट्यो वा वा᳘ अमा᳘त्यो वा कृत्यां᳘ वलगन्नि᳘खनति ता᳘नेॗवैतदु᳘त्किरति॥

मूलम् - विस्वरम्

तान् यथाखातमेवोत्किरति । “इदमहं तं वलगमुत्किरामि यम्मे निष्ठ्यो यममात्यो निचखान”- (वा. सं. ५ । २३) इति । निष्ठ्यो वा वा ऽअमात्यो वा कृत्यां वलगान् निखनति तानेवैतदुत्किरति ॥ १० ॥

सायणः

खाताया मृद उद्वपने ऽपि खननक्रम एवेत्याह- तान् यथाखातमेवेति 10 । चतुर्णां खातानां चत्वारो मन्त्राः । “यं मे निष्ठ्यो यममात्यो निचखान” इति प्रथमगर्ते । “यं मे समानो यमसमानः” इति द्वितीये । “यं मे सबन्धुर्यमसबन्धुः” इति तृतीये । “यं मे सजातो यमसजातः” इति चतुर्थे । “इदमहं तं व्वलगमुत्किरामि”- इति, “निचखान”- इति च सर्वशेषः ॥

‘इदं’ मृदुत्किरणप्रकारेणाहतम्, निष्ठ्येनामात्येन वा खातम्, वलगकृत्याविशेषम्, मृद्व्याजेन ‘उत्किरामि’ ऊर्ध्वं प्रक्षिपामि । ‘तम्’ इत्युक्तम्, कमित्याह- यमित्यादि । ‘निष्ठ्यः’ अस्मत्तो नीचः । “सनाभिर्यश्च निष्ठ्यः (ऋ. सं. १० । १३३ । ५)”- इत्यादिमन्त्रवर्णान्नीचार्थता ‘निष्ठ्य’- शब्दस्य । ‘अमात्यः’ सह वर्तमानः । ‘अमा’- शब्दः सहवचनो गृहवचनो वा तत्र भवो ऽमात्यः । “अव्ययात्त्यप्” (पा. सू. ४ । २ । १०४) एकगृहवासीत्यर्थः । तयोरेव कलहस्य सम्भावितत्वात् । सहोत्पन्नो वा । निखातवान् । तमुत्किरामीति सम्बन्धः। निष्ठ्यो वेत्यादि प्रथमस्योत्किरणम् । निष्ठ्यामात्ययोर्वलगोत्किरणरूपमित्यर्थः । समानः सदृशः बन्धुः ‘सबन्धुः,’ समानबन्धनः । एकस्मिन्नेव विषये व्यापारवानित्यर्थः । ‘सजातः’ सहोत्पन्नः । स्पष्टमन्यत् ॥ १०-१३ ॥

Eggeling
  1. He throws out (the earth from) them in the order in which he has dug them, with (Vāj. S. V, 23), ‘Here do I cast out the charm which the alien, which the inmate of my house has buried for me!’ Either an alien or an inmate of his house buries charms by way of witchcraft: these he thereby casts out.

११

विश्वास-प्रस्तुतिः

(ती) इद᳘महं तं᳘ व्वलगमु᳘त्किरामि॥
य᳘म्मे समानो यम᳘समानो निचखाने᳘ति समानो᳘ वा वा ऽअ᳘समानो वा कृत्यां᳘ व्वलगान्नि᳘खनति ता᳘ने᳘वैतदु᳘त्किरति॥

मूलम् - श्रीधरादि

(ती) इद᳘महं तं᳘ व्वलगमु᳘त्किरामि॥
य᳘म्मे समानो यम᳘समानो निचखाने᳘ति समानो᳘ वा वा ऽअ᳘समानो वा कृत्यां᳘ व्वलगान्नि᳘खनति ता᳘ने᳘वैतदु᳘त्किरति॥

मूलम् - Weber

इद᳘महं तं᳘ वलगमु᳘त्किरामि॥
य᳘म् मे समानो यम᳘समानो निचखाने᳘ति समानो᳘ वा वा अ᳘समानो वा कृत्यां᳘ वलगान्नि᳘खनति ता᳘नेॗवैतदु᳘त्किरति॥

मूलम् - विस्वरम्

“इदमहं तं वलगमुत्किरामि यं मे समानो यमसमानो निचखान”- (वा. सं. ५ । २३) इति । समानो वा वा ऽअसमानो वा कृत्यां वलगान् निखनति तानेवैतदुत्किरति ॥ ११ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. ‘Here do I cast out the charm which my equal, which my unequal has buried for me!’ Either one equal, or one unequal, to him buries charms by way of witchcraft: these he thereby casts out.

१२

विश्वास-प्रस्तुतिः

(ती) इद᳘महं तं व्वलगमु᳘त्किरामि॥
य᳘म्मे स᳘बन्धुर्यम᳘सबन्धुर्निचखाने᳘ति स᳘बन्धुर्व्वा वा ऽअ᳘सबन्धुर्व्वा कृत्यां᳘ व्वलगान्नि᳘खनति ता᳘ने᳘वैतदु᳘त्किरति॥

मूलम् - श्रीधरादि

(ती) इद᳘महं तं व्वलगमु᳘त्किरामि॥
य᳘म्मे स᳘बन्धुर्यम᳘सबन्धुर्निचखाने᳘ति स᳘बन्धुर्व्वा वा ऽअ᳘सबन्धुर्व्वा कृत्यां᳘ व्वलगान्नि᳘खनति ता᳘ने᳘वैतदु᳘त्किरति॥

मूलम् - Weber

इद᳘महं तं वलगमु᳘त्किरामि॥
य᳘म् मे स᳘बन्धुर्यम᳘सबन्धुर्निचखाने᳘ति स᳘बन्धुर्वा वा अ᳘सबन्धुर्वा कृत्यां᳘ वलगान्नि᳘खनति ता᳘नेॗवैतदु᳘त्किरति॥

मूलम् - विस्वरम्

“इदमहं तं वलगमुत्किरामि, यं मे सबन्धुर्यमसबन्धुर्निचखान”- (वा. सं. ५ । २३) इति । सबन्धुर्वा वा ऽअसबन्धुर्वा कृत्यां वलगान् निखनति । तानेवैतदुत्किरति ॥ १२ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. ‘Here do I cast out the charm which the kinsman, which the stranger has buried for me!’ Either a kinsman or a stranger buries charms by way of witchcraft: these he thereby casts out.

१३

विश्वास-प्रस्तुतिः

(ती) इद᳘महं तं᳘ व्वलगमु᳘त्किरामि॥
य᳘म्मे सजातो यम᳘सजातो निचखाने᳘ति सजातो᳘ वा वा ऽअ᳘सजातो वा कृत्यां᳘ व्वलगान्नि᳘खनति ता᳘ने᳘वैतदु᳘त्किरत्यु᳘त्कृत्यां᳘ किरामी᳘त्यन्तत ऽउ᳘द्वपति त᳘त्कृत्यामु᳘त्किरति॥

मूलम् - श्रीधरादि

(ती) इद᳘महं तं᳘ व्वलगमु᳘त्किरामि॥
य᳘म्मे सजातो यम᳘सजातो निचखाने᳘ति सजातो᳘ वा वा ऽअ᳘सजातो वा कृत्यां᳘ व्वलगान्नि᳘खनति ता᳘ने᳘वैतदु᳘त्किरत्यु᳘त्कृत्यां᳘ किरामी᳘त्यन्तत ऽउ᳘द्वपति त᳘त्कृत्यामु᳘त्किरति॥

मूलम् - Weber

इद᳘महं तं᳘ वलगमु᳘त्किरामि॥
य᳘म् मे सजातो यम᳘सजातो निचखाने᳘ति सजातो᳘ वा वा अ᳘सजातो वा कृत्यां᳘ वलगान्नि᳘खनति ता᳘नेॗवैतदु᳘त्किरत्यु᳘त्कृत्यां᳘ किरामी᳘त्यन्तत उ᳘द्वपति त᳘त्कृत्यामु᳘त्किरति॥

मूलम् - विस्वरम्

“इदमहं तं वलगमुत्किरामि, यं मे सजातो यमसजातो निचखान”- (वा. सं. ५ । २३) इति । सजातो वा वा ऽअसजातो वा कृत्यां वलगान् निखनति । तानेवैतदुत्किरति । “उत्कृत्यां किरामि”- (वा. सं. ५ । २३) इति । अन्तत उद्वपति । तत् कृत्यामुत्किरति ॥ १३ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. ‘Here do I cast out the charm which the countryman, which the foreigner has buried for me!’ Either a countryman or a foreigner buries charms by way of witchcraft: these he thereby casts out. With ‘I cast out witchcraft!’ he finally

throws out (the earth remaining in the several holes 11), whereby he casts out witchcraft.

१४

विश्वास-प्रस्तुतिः

ता᳘न्बाहुमात्रा᳘न्खनेत्॥
(द᳘) अ᳘न्तो वा᳘ ऽएषो᳘ ऽन्तेनै᳘वैत᳘त्कृत्यां᳘ मोहयति ता᳘नक्ष्णया स᳘न्तृन्दन्ति य᳘द्यक्ष्णया न᳘ शक्नुयाद᳘पि समी᳘चस्त᳘स्मादिमे᳘ प्राणाः᳘ परः स᳘न्तृण्णाः॥

मूलम् - श्रीधरादि

ता᳘न्बाहुमात्रा᳘न्खनेत्॥
(द᳘) अ᳘न्तो वा᳘ ऽएषो᳘ ऽन्तेनै᳘वैत᳘त्कृत्यां᳘ मोहयति ता᳘नक्ष्णया स᳘न्तृन्दन्ति य᳘द्यक्ष्णया न᳘ शक्नुयाद᳘पि समी᳘चस्त᳘स्मादिमे᳘ प्राणाः᳘ परः स᳘न्तृण्णाः॥

मूलम् - Weber

ता᳘न्बाहुमात्रा᳘न् खनेत्॥
अ᳘न्तो वा᳘ एषो᳘ ऽन्तेनैॗवैत᳘त्कृत्या᳘म् मोहयति ता᳘नक्ष्णया सं᳘तृन्दन्ति य᳘द्यक्ष्णया न᳘ शक्नुयाद᳘पि समी᳘चस्त᳘स्मादिमे᳘ प्राणाः᳘ परः सं᳘तृणाः॥

मूलम् - विस्वरम्

तान् बाहुमात्रान् खनेत् । अन्तो वा ऽएषः, अन्तेनैवेतत् कृत्यां मोहयति । तानक्ष्णया सन्तृन्दन्ति । यद्यक्ष्णया न शक्नुयात्- अपि समीचः । तस्मादिमे प्राणाः परः सन्तृण्णाः ॥ १४ ॥

सायणः

खननस्य प्रमाणमाह- तान् बाहुमात्रानिति 12 । अंगुलिप्रादेशाद्यपेक्षया बाहुप्रमाणस्य अन्तत्वात् ततो ऽधिकात्प्रदेशात् मृदुद्धरणस्याशक्यत्वाद्वाहुमात्रस्यान्तत्वम् । छिद्राणामन्तरप्रदेशसन्तर्दनं तत्प्रकारं च विधत्ते- तानक्ष्णया सन्तृन्दन्तीति 13 । पूर्वयोर्दक्षिणस्यापरयोरुत्तरस्य चान्तरालदेशम् । अनेनावशिष्टयोरप्युक्तं भवति । अपि समीच इति (का. श्रौ. सू. ८ । १२३) । वक्रस्याशक्यत्वे समीचेवाभितृन्द्यात् । तस्मादिति । अर्थवादः पक्षद्वयसाधारणः । यस्मादेते ऽन्तः सन्तृण्णाः ‘तस्मात्’ ‘इमे’ ‘प्राणाः’ मुखच्छिद्राणि अन्तः सन्तृण्णानि ॥ १४ ॥

Eggeling
  1. Let him dig them arm-deep; for that being the end (extreme limit to which he can reach) he thereby in the end brings witchcraft to naught. He connects them crossways by (underground) channels 14; or, if he cannot crossways, he may do so in one and the same direction. This is why these (openings of the) vital airs are connected by channels farther (inside).

१५

विश्वास-प्रस्तुतिः

(स्ता᳘) ता᳘न्यथाखात᳘मेवा᳘वमर्शयति॥
स्वरा᳘डसि सपत्नहा᳘ सत्ररा᳘डस्यभिमातिहा᳘ जनरा᳘डसि रक्षोहा᳘ सर्व्वरा᳘डस्यमित्रहे᳘त्याशी᳘रे᳘वै᳘षैत᳘स्य क᳘र्मण ऽआशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - श्रीधरादि

(स्ता᳘) ता᳘न्यथाखात᳘मेवा᳘वमर्शयति॥
स्वरा᳘डसि सपत्नहा᳘ सत्ररा᳘डस्यभिमातिहा᳘ जनरा᳘डसि रक्षोहा᳘ सर्व्वरा᳘डस्यमित्रहे᳘त्याशी᳘रे᳘वै᳘षैत᳘स्य क᳘र्मण ऽआशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - Weber

ता᳘न्यथाखात᳘मेवा᳘वमर्शयति॥
स्वरा᳘डसि सपत्नहा᳘ सत्ररा᳘डस्यभिमातिहा᳘ जनरा᳘डसि रक्षोहा᳘ सर्वरा᳘डस्यमित्रहे᳘त्याशी᳘रेॗवैॗषैत᳘स्य क᳘र्मण आशि᳘षमेॗवैतदा᳘शास्ते॥

मूलम् - विस्वरम्

तान् यथाखातमेवावमर्शयति । “स्वराडसि सपत्नहा, सत्रराडस्यभिमातिहा, जनराडसि रक्षोहा, सर्वराडस्यमित्रहा”- (वा. सं. ५ । २४) इति । आशीरेवैषैतस्य कर्मणः- आशिषमेवैतदाशास्ते ॥ १५ ॥

सायणः

तान् यथाखातमेवावमर्शयतीति । ‘अवमर्शयति’ अन्तःप्रदेशस्य निम्नोन्नतत्वपरिहाराय सम्मृशेत् । तन्मन्त्रचतुष्टयस्यार्थः- स्वयमेव राजत इति वा स्वकीयमेव राज्यमस्येति वा ‘स्वराट्’ । हे उपरव ! तादृक् त्वम् ‘असि’ । ‘सपत्नहा’ भव । अस्मानपि सपत्नस्य शत्रोर्हननेन स्वराजं कुर्विति भावः । ‘सत्रा’ सह, एकधा एकोद्योगेन राजत इति ‘सत्रराट्’ । अभितो हिंसको ऽभिमातिः तस्य हन्ता ‘अभिमातिहा’ । सर्वेषु राजत इति ‘सर्वराट्’ मितः सकाशात् त्राता ‘मित्रः’ अतथाभूतः ‘अमित्रः’ । अत्र कात्यायनः- “स्वराडित्यवमर्शयति यथाखातं प्रतिमन्त्रम्” (का० श्रौ० सू० ८ । १२४) इति ॥ १५ ॥

Eggeling
  1. In the same order in which he has dug them he makes (the sacrificer) touch them, with the texts (Vāj. S. V, 24), ‘Self-ruling thou art, a slayer of enemies! Ever-ruling thou art, a slayer of haters! Man-ruling thou art, a slayer of Rakshas! All-ruling thou art, a slayer of foe-men!’ This is the blessing of that work: he thereby invokes a blessing.

१६

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथा) अ᳘थाध्वर्यु᳘श्च य᳘जमानश्च स᳘म्मृशेते॥
पू᳘र्व्वयोर्द्द᳘क्षिणे ऽध्वर्युर्भ᳘वत्य᳘परयोरु᳘त्तरे य᳘जमानः᳘[[!!]] सो ऽध्वर्युः᳘ पृच्छति य᳘जमान किमत्रे᳘ति भद्रमि᳘त्याह त᳘न्नौ सहे᳘त्युपा᳘ᳫं᳘श्वध्वर्युः᳘॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथा) अ᳘थाध्वर्यु᳘श्च य᳘जमानश्च स᳘म्मृशेते॥
पू᳘र्व्वयोर्द्द᳘क्षिणे ऽध्वर्युर्भ᳘वत्य᳘परयोरु᳘त्तरे य᳘जमानः᳘[[!!]] सो ऽध्वर्युः᳘ पृच्छति य᳘जमान किमत्रे᳘ति भद्रमि᳘त्याह त᳘न्नौ सहे᳘त्युपा᳘ᳫं᳘श्वध्वर्युः᳘॥

मूलम् - Weber

अ᳘थाध्वर्यु᳘श्च य᳘जमानश्च स᳘म्मृशेते॥
पू᳘र्वयोर्द᳘क्षिणे ऽध्वर्युर्भ᳘वत्य᳘परयोरु᳘त्तरे य᳘जमाॗनः सो ऽध्वर्युः᳘ पृछति य᳘जमान किमत्रे᳘ति भद्रमि᳘त्याह त᳘न्नौ सहे᳘त्युपांश्वध्वर्युः᳟॥

मूलम् - विस्वरम्

अथाध्वर्युश्च यजमानश्च सम्मृशेते । पूर्वयोर्दक्षिणे ऽध्वर्युर्भवति । अपरयोरुत्तरे यजमानः । सो ऽध्वर्युः पृच्छति- यजमान ! किमत्रेति ? भद्रमित्याह । तन्नौ सह- इत्युपांश्वध्वर्युः ॥ १६ ॥

सायणः

‘अध्वर्युश्च यजमानश्च सम्मृशेते 15- ‘परस्परं हस्तसंस्पर्शं कुर्यातामित्यर्थः । तयोर्दिशं व्यवस्थापयति- पूर्वयोर्दक्षिणे ऽध्वर्युर्भवति, अपरयोरुत्तरे यजमानः- इति । सो ऽध्वर्युणा किमत्र विद्यत इति पृष्टो यजमानो भद्रमिति प्रतिब्रूयात् । “तन्नौ सह-” ‘इति’ ‘उपांशु’ वदतो ऽध्वर्योरयमभिप्रायः- यज्ञसंस्पृष्टं यद्यत् फलम्, तस्य सर्वस्य यजमानस्वामिकत्वादुच्चैरभिधानमयुक्तमिति 16 ॥ १६ ॥

Eggeling
  1. The Adhvaryu and Sacrificer then touch one another (with their right hands through the holes), the Adhvaryu is at the right one of those in front, and the Sacrificer at the left one of those behind. The Adhvaryu asks, ‘Sacrificer, what is here?’–‘Happiness!’ he says.–’(Be) that ours in common!’ says the Adhvaryu in a low voice.

१७

विश्वास-प्रस्तुतिः

(र) अथा᳘परयोर्द्द᳘क्षिणे ऽध्वर्यु᳘र्भ᳘वति॥
पू᳘र्वयोरु᳘त्तरे य᳘जमानः स य᳘जमानः पृच्छत्य᳘ध्वर्यो किमत्रे᳘ति भद्रमि᳘त्याह त᳘न्म इ᳘ति य᳘जमानस्तद्य᳘देव᳘ᳫँ᳘ सम्मृशे᳘ते प्राणा᳘ने᳘वैत᳘त्सयु᳘जः कुरुतस्त᳘स्मादिमे᳘ प्राणाः᳘ परः सं᳘विद्रे᳘ ऽथ य᳘त्पृष्टो᳘ भद्रमि᳘ति प्रत्या᳘ह कल्या᳘णमे᳘वैत᳘न्मानुष्यै᳘ व्वाचो᳘ व्वदति त᳘स्मात्पृष्टो᳘ भद्रमि᳘ति प्र᳘त्याहा᳘थ प्रो᳘क्षत्ये᳘को वै प्रो᳘क्षणस्य ब᳘न्धुर्मे᳘ध्याने᳘वैत᳘त्करोति॥

मूलम् - श्रीधरादि

(र) अथा᳘परयोर्द्द᳘क्षिणे ऽध्वर्यु᳘र्भ᳘वति॥
पू᳘र्वयोरु᳘त्तरे य᳘जमानः स य᳘जमानः पृच्छत्य᳘ध्वर्यो किमत्रे᳘ति भद्रमि᳘त्याह त᳘न्म इ᳘ति य᳘जमानस्तद्य᳘देव᳘ᳫँ᳘ सम्मृशे᳘ते प्राणा᳘ने᳘वैत᳘त्सयु᳘जः कुरुतस्त᳘स्मादिमे᳘ प्राणाः᳘ परः सं᳘विद्रे᳘ ऽथ य᳘त्पृष्टो᳘ भद्रमि᳘ति प्रत्या᳘ह कल्या᳘णमे᳘वैत᳘न्मानुष्यै᳘ व्वाचो᳘ व्वदति त᳘स्मात्पृष्टो᳘ भद्रमि᳘ति प्र᳘त्याहा᳘थ प्रो᳘क्षत्ये᳘को वै प्रो᳘क्षणस्य ब᳘न्धुर्मे᳘ध्याने᳘वैत᳘त्करोति॥

मूलम् - Weber

अथा᳘परयोर्द᳘क्षिणे ऽध्वर्यु᳘र्भ᳘वति॥
पू᳘र्वयोरु᳘त्तरे य᳘जमानः पृछत्य᳘ध्वर्यो किमत्रे᳘ति भद्रमि᳘त्याह त᳘न्म इ᳘ति य᳘जमानस्तद्य᳘देव᳘ᳫं᳘ सम्मृशे᳘ते प्राणा᳘नेॗवैत᳘त्सयु᳘जः कुरुतस्त᳘स्मादिमे᳘ प्राणाः᳘ परः सं᳘विद्रे᳘ ऽथ य᳘त्पृष्टो᳘ भद्रमि᳘ति प्रत्या᳘ह कल्या᳘णमेॗवैत᳘न्मानुष्यै᳘ वाचो᳘ वदति त᳘स्मात्पृष्टो᳘ भद्रमि᳘ति प्र᳘त्याहा᳘थ प्रो᳘क्षत्ये᳘को वै प्रो᳘क्षणस्य ब᳘न्धुर्मे᳘ध्यानेॗवैत᳘त्करोति॥

मूलम् - विस्वरम्

अथापरयोर्द्दक्षिणे ऽध्वर्युर्भवति । पूर्वयोरुत्तरे यजमानः । स यजमानः पृच्छति- अध्वर्यो ! किमत्रेति ? भद्रमित्याह । तत् म ऽइति यजमानः । तद् यदेवं सम्मृशेते प्राणानैवैतत् सयुजः कुरुतः । तस्मादिमे प्राणाः परः संविद्रे । अथ यत् पृष्टो भद्रमिति प्रत्याह- कल्याणमेवैतन्मानुष्यै वाचो वदति । तस्मात् पृष्टो भद्रमिति प्रत्याह । अथ प्रोक्षति । एको वै प्रोक्षणस्य बन्धुः,- मेध्यानेवैतत्करोति ॥ १७ ॥

सायणः

अथापरयोर्दक्षिणे ऽध्वर्युरिति 15 । पूर्वस्मिन् सम्मर्शनवाक्ये ऽध्वर्युः पृच्छेत्, अत्र तु यजमान इति विशेषः । यजमानस्य स्वामित्वेन स्वातन्त्र्यादध्वर्युदृष्टस्यापि भद्रस्य स्वद्रव्यत्वात् “तन्मे” ‘इति’ ब्रूयात् । सम्मर्शनं प्राणसंयोगहेतुत्वेन प्रशंसति- तद्यदेवमिति । सह युञ्जते इति ‘सयुजः’ अन्तरेकीभूतान् कृतवन्तौ भवतः । अत इदानीन्तना मनुष्यशिरस्थाः प्राणाः ‘संविद्रे’ संविद्रते सङ्गता भवन्ति । “लोपस्त आत्मनेपदेषु”- (पा. सू. ७ । १ । ४१) इति ‘त’- लोपः । “वेत्तेर्विभाषा”- (पा. सू. ७ । १ । ७) इति रुट् । ‘भद्रम्’- ‘इति’ प्रतिवदनं यदस्ति तद् ‘एतन्मानुष्यै वाचः कल्याणं वदति’ हस्तसंस्पर्शनकालकृतभद्रवचनप्रतिवदनमित्यर्थः । तस्माल्लौकिकवचनेषु भद्रत्वाय अवश्यं भद्रवचनं कर्तव्यम् ॥

अथ प्रोक्षतीति । प्रतिगर्तं प्रोक्षणम् । प्रोक्षणस्य मेध्यत्वलक्षणो ऽर्थवादः सर्वत्रैकविध एवेत्याह- एको वै प्रोक्षणस्य बन्धुरिति ॥ १७ ॥

Eggeling
  1. Thereupon the Adhvaryu is at the right one of those behind, and the Sacrificer at the left one of those in front. The Sacrificer asks, ‘Adhvaryu, what is here?’–‘Happiness!’ he says.–’(Be) that mine!’ says the Sacrificer. Now in that they thus

touch one another, thereby they make the vital airs yoke-fellows: hence these vital airs meet together farther (inside). And in that, when asked, he replies, ‘Happiness (bhadram),’ thereby he utters the wish of ‘prosperity (kalyāṇam)’ of ordinary speech: that is why, being asked, he replies, ‘Happiness.’ Thereupon he sprinkles (the holes with water): one and the same forsooth is the significance of sprinkling; he thereby renders them pure.

१८

विश्वास-प्रस्तुतिः

स प्रो᳘क्षति॥
रक्षोह᳘णो वो व्वलगह᳘न ऽइ᳘ति रक्षोह᳘णो᳘ ह्येते᳘ व्वलगह᳘नो᳘ ह्येते प्रो᳘क्षामि व्वैष्णवानि᳘ति व्वैष्णवा᳘ ह्येते᳘॥

मूलम् - श्रीधरादि

स प्रो᳘क्षति॥
रक्षोह᳘णो वो व्वलगह᳘न ऽइ᳘ति रक्षोह᳘णो᳘ ह्येते᳘ व्वलगह᳘नो᳘ ह्येते प्रो᳘क्षामि व्वैष्णवानि᳘ति व्वैष्णवा᳘ ह्येते᳘॥

मूलम् - Weber

स प्रो᳘क्षति॥
रक्षोह᳘णो वो वलगह᳘न इ᳘ति रक्षोह᳘णोॗ ह्येते᳘ वलगह᳘नोॗ ह्येते प्रो᳘क्षामि वैष्णवानिति वैष्णवाॗ ह्येते᳟॥

मूलम् - विस्वरम्

स प्रोक्षति । “रक्षोहणो वो वलगहनः”- (वा. सं. ५ । २५) इति । रक्षोहणो ह्येते, वलगहनो ह्येते । “प्रोक्षामि वैष्णवान्”- (वा. सं. ५ । २५) इति । वैष्णवा ह्येते ॥ १८ ॥

सायणः

समन्त्रकं प्रोक्षणं विधत्ते- स प्रोक्षतीति । ‘रक्षोहणः-’ इति बहुवचननिर्द्देशात्सहप्रोक्षणम् । पृथक्प्रोक्षणपक्षे मन्त्रावृत्तिः । तथा च कात्यायनः- “प्रोक्षत्येनान् रक्षोहण इति, भेदे च मन्त्रावृत्तिः सन्निपातित्वात्-” (का. श्रौ. सू. ८ । १३०-१३१) इति । मन्त्राणां क्रियासहावर्तनत्वेन व्यभिचारादित्यर्थः । सहत्वपक्षे बहुवचनमौपचारिकम् । स्पष्टो मन्त्रार्थः ॥ १८ ॥

Eggeling
  1. He sprinkles, with the text (Vāj. S. V, 25), ‘You, the Rakshas-killers, the charm-killers;’ for they are indeed Rakshas-killers as well as charm-killers; ‘Vishṇu’s own, I sprinkle;’ for they indeed belong to Vishṇu.

१९

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
ता᳘ ऽअवटेष्व᳘वनयति तद्या᳘ ऽइमाः᳘ प्राणेष्वा᳘पस्ता᳘ ऽए᳘वैत᳘द्दधाति त᳘स्मादेषु᳘ प्राणे᳘ष्विमा ऽआ᳘पः॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
ता᳘ ऽअवटेष्व᳘वनयति तद्या᳘ ऽइमाः᳘ प्राणेष्वा᳘पस्ता᳘ ऽए᳘वैत᳘द्दधाति त᳘स्मादेषु᳘ प्राणे᳘ष्विमा ऽआ᳘पः॥

मूलम् - Weber

अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘ते॥
ता᳘ अवटेष्व᳘वनयति तद्या᳘ इमाः᳘ प्राणेष्वा᳘पस्ता᳘ एॗवैत᳘द्दधाति त᳘स्मादेषु प्राणे᳘ष्विमा आ᳘पः॥

मूलम् - विस्वरम्

अथ याः प्रोक्षण्यः परिशिष्यन्ते- ता अवटेष्ववनयति । तद् या इमाः प्राणेष्वापः- ता एवैतद्दधाति । तस्मादेषु प्राणेष्विमा ऽआपः ॥ १९ ॥

सायणः

अथ याः प्रोक्षण्य इति । अवटेषु प्रोक्षणीशेषावनयनं प्रशंसति- तद्या इमाः प्राणेष्वाप इति । ‘प्राणेषु’ कर्णनासादिविवरेषु ‘याः’ ‘आपः’ सन्ति ‘ता एव’ ‘एतत्’ एतेनावनयनेन यज्ञशिरस्थोपरवाख्यप्राणेषु स्थापितवान् भवति । तस्मादित्यादि । ‘एषु प्राणेषु’ मनुष्यप्राणेषु ॥ १९ ॥

Eggeling
  1. What remains of the sprinkling-water he then pours out into the pits;–what moisture there is here in the vital airs 17, that he thereby puts into them: hence that moisture in the vital airs.

२०

विश्वास-प्रस्तुतिः

सो᳘ ऽवनयति॥
रक्षोह᳘णो वो व्वलगहनो᳘ ऽवनयामि व्वैष्णवानित्य᳘थ बर्ही᳘ᳫँ᳘षि प्राची᳘नाग्राणि चोदीची᳘नाग्राणि चा᳘वस्तृणाति तद्या᳘नीमा᳘नि प्राणे᳘षु[[!!]] लो᳘मानि ता᳘न्ये᳘वैत᳘द्दधाति त᳘स्मादेषु᳘ प्रा᳘णेष्विमा᳘नि लो᳘मानि॥

मूलम् - श्रीधरादि

सो᳘ ऽवनयति॥
रक्षोह᳘णो वो व्वलगहनो᳘ ऽवनयामि व्वैष्णवानित्य᳘थ बर्ही᳘ᳫँ᳘षि प्राची᳘नाग्राणि चोदीची᳘नाग्राणि चा᳘वस्तृणाति तद्या᳘नीमा᳘नि प्राणे᳘षु[[!!]] लो᳘मानि ता᳘न्ये᳘वैत᳘द्दधाति त᳘स्मादेषु᳘ प्रा᳘णेष्विमा᳘नि लो᳘मानि॥

मूलम् - Weber

सो᳘ ऽवनयति॥
रक्षोह᳘णो वो वलगहनो᳘ ऽवनयामि वैष्णवानित्य᳘थ बर्हीं᳘षि प्राची᳘नाग्राणि चोदीची᳘नाग्राणि चा᳘वस्तृणाति तद्या᳘नीमा᳘नि प्रा᳘णेषु लो᳘मानि ता᳘न्येॗवैत᳘द्दधाति त᳘स्मादेषु प्रा᳘णेष्विमा᳘नि लो᳘मानि॥

मूलम् - विस्वरम्

सो ऽवनयति । “रक्षोहणो वो वलगहनो ऽवनयामि वैष्णवानिति”- (वा. सं. ५। २५) इति । अथ बर्हींषि प्राचीनाग्राणि च उदीचीनाग्राणि चावस्तृणाति । तद् यानीमानि प्राणेषु लोमानि- तान्येवैतद्दधाति । तस्मादेषु प्राणेष्विमानि लोमानि ॥ २० ॥

सायणः

सो ऽवनयतीति । स्पष्टो ऽवनयनमन्त्रः । अवटेषु अन्तर्बहिःस्तरणविधितदर्थवादतन्मन्त्राः पूर्ववद् व्याख्येयाः । अवनयनावस्तरणयोर्न्यायः प्रोक्षणवत् । “अवनयनावस्तरणे चावटवत्-” (का. श्रौ. सू. ८ । १३२) इति हि सूत्रम् । यूपावटवदवनयावस्तरणे कार्ये इत्यर्थः । अवटानामुपर्यपि सूक्ष्माणां बर्हिषामाच्छादनं विधत्ते- अथ बर्हींषि तनूनीति 18केशा हैवास्यैत इति । निर्द्दिश्यमानानि यद्यपि बर्हींषि, तथापि प्रतिनिर्दिश्यमानकेशापेक्षया ‘एते’- इति पुल्ँलिङ्गता ॥ २० ॥ २१ ॥

Eggeling
  1. He pours it out with, ‘You, the Rakshas-killers, the charm-killers, Vishṇu’s own, I pour out.’ Thereupon he spreads barhis-grass, both such as is turned with its tops to the east and such as is turned to the north 19; what hair there is here at (the openings of) the vital airs, that he thereby bestows: hence that hair at (the openings of) the vital airs.

२१

विश्वास-प्रस्तुतिः

सो᳘ ऽवस्तृणाति॥
रक्षोह᳘णो वो व्वलगहनो᳘ ऽवस्तृणामि व्वैष्णवानित्य᳘थ बर्ही᳘ᳫं᳘षि तनू᳘नीवोप᳘रिष्टात्प्र᳘च्छादयति के᳘शा है᳘वास्यैते[[!!]]॥

मूलम् - श्रीधरादि

सो᳘ ऽवस्तृणाति॥
रक्षोह᳘णो वो व्वलगहनो᳘ ऽवस्तृणामि व्वैष्णवानित्य᳘थ बर्ही᳘ᳫं᳘षि तनू᳘नीवोप᳘रिष्टात्प्र᳘च्छादयति के᳘शा है᳘वास्यैते[[!!]]॥

मूलम् - Weber

सो᳘ ऽवस्तृणाति॥
रक्षोह᳘णो वो वलगहनो᳘ ऽवस्तृणामि वैष्णवानित्य᳘थ बर्हीं᳘षि तनू᳘नीवोप᳘रिष्टात्प्र᳘छादयति के᳘शा हैॗवास्यैते᳟॥

मूलम् - विस्वरम्

सो ऽवस्तृणाति । “रक्षोहणो वो वलगहनो ऽवस्तृणामि वैष्णवान्”- (वा. सं. ५ । २५) इति । अथ बर्हींषि तनूनीवोपरिष्टात् प्रच्छादयति । केशा हैवास्यैते ॥ २१ ॥

सायणः

[व्याख्यानं विंशतितमे]

Eggeling
  1. He spreads it with, ‘You, the Rakshas-killers, the charm-killers, Vishṇu’s own, I spread.’ He, as it were, covers the bodies on the top, for that (grass) is indeed his (Vishṇu’s) hair 20.

२२

विश्वास-प्रस्तुतिः

(ते᳘ ऽथा) अ᳘थाधिष᳘वणे फ᳘लके ऽउ᳘पदधाति॥
रक्षोह᳘णौ वां व्वलगह᳘ना ऽउ᳘पदधामि व्वैष्णवी ऽइ᳘ति ह᳘नू है᳘वास्यैते ऽअ᳘थ प᳘र्यूहति रक्षोह᳘णौ वां व्वलगह᳘नौ प᳘र्यूहामि व्वैष्णवी ऽइ᳘ति दृ᳘ᳫं᳘हत्ये᳘वैने[[!!]] ऽएतद᳘शिथिले करोति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथा) अ᳘थाधिष᳘वणे फ᳘लके ऽउ᳘पदधाति॥
रक्षोह᳘णौ वां व्वलगह᳘ना ऽउ᳘पदधामि व्वैष्णवी ऽइ᳘ति ह᳘नू है᳘वास्यैते ऽअ᳘थ प᳘र्यूहति रक्षोह᳘णौ वां व्वलगह᳘नौ प᳘र्यूहामि व्वैष्णवी ऽइ᳘ति दृ᳘ᳫं᳘हत्ये᳘वैने[[!!]] ऽएतद᳘शिथिले करोति॥

मूलम् - Weber

अ᳘थाधिष᳘वणे फ᳘लके उ᳘पदधाति॥
रक्षोह᳘णौ वां वलगह᳘ना उ᳘पदधामि वैष्णवी इ᳘ति ह᳘नू हैॗवास्यैते अ᳘थ प᳘र्यूहति रक्षोह᳘णौ वां वलगह᳘नौ प᳘र्यूहामि वैष्णवी इ᳘ति दृ᳘ᳫं᳘हॗत्येवैने एतद᳘शिथिले करोति॥

मूलम् - विस्वरम्

अथाधिषवणे फलके ऽउपदधाति । “रक्षोहणौ वां वलगहना ऽउपदधामि वैष्णवी”- (वा. सं. ५ । २५) इति । हनू हैवास्यैते । अथ पर्यूहति- “रक्षोहणौ वां वलगहनौ पर्यूहामि वैष्णवी”- (वा. सं. ५ । २५) इति । दृंहत्येवैने एतद् । अशिथिले करोति ॥ २२ ॥

सायणः

अथाधिषवणे फलके इति । ‘अधि’ उपरि सूयते सोमो ऽनयोरिति ‘अधिषवणे’ द्वे ‘फलके’ उपदध्यात् । ‘रक्षोहणौ वां व्वलगहनौ’- इत्युपधानमन्त्रः । स च स्पष्टार्थः । ‘ते’ च ‘अस्य’ हविर्द्धानस्य शिरसः हनुस्थानीये । अत्र कात्यायनः- “अथाधिषवणे फलके द्व्यंगुलान्तरे प्रक्षालिते प्राची अरत्निमात्रे सन्तृण्णे वोपदधाति”- (का. श्रौ. सू. ८ । १३३) इति ॥

अथ पर्यूहतीति 18 । फलके परिदृंहति परितो मृदा दृढीकुर्यात् ॥ २२ ॥

Eggeling
  1. Thereon he lays two pressing-boards 21 with, ‘You, the Rakshas-killers, the charm-killers, Vishṇu’s own, I lay down;’ they are indeed his (Vishṇu’s) jaws. He surrounds them (with earth) with, ‘You, the Rakshas-killers, the charm-killers, Vishṇu’s own, I surround;’ he thereby steadies them, makes them immovable.

२३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाधिष᳘वणं प᳘रिकृत्तं भव᳘ति॥
सर्व्वरोहितं जिह्वा᳘ है᳘वा᳘स्यैषा तद्य᳘त्सर्व्व᳘रोहितं भ᳘वति लो᳘हिनीव᳘ हीयं᳘ जिह्वा तन्नि᳘दधाति व्वैष्णव᳘मसी᳘ति व्वैष्णव᳘ᳫं᳘[[!!]] ह्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाधिष᳘वणं प᳘रिकृत्तं भव᳘ति॥
सर्व्वरोहितं जिह्वा᳘ है᳘वा᳘स्यैषा तद्य᳘त्सर्व्व᳘रोहितं भ᳘वति लो᳘हिनीव᳘ हीयं᳘ जिह्वा तन्नि᳘दधाति व्वैष्णव᳘मसी᳘ति व्वैष्णव᳘ᳫं᳘[[!!]] ह्येतत्[[!!]]॥

मूलम् - Weber

अ᳘थाधिष᳘वणम् प᳘रिकृत्तम् भवति॥
सर्व᳘रोहितं जिह्वा᳘ हैॗवास्यैषा तद्य᳘त्सर्व᳘रोहितम् भ᳘वति लो᳘हिनीवॗ हीयं जिह्वा तन्नि᳘दधाति वैष्णव᳘मसी᳘ति वैष्णॗवᳫं ह्येत᳘त्॥

मूलम् - विस्वरम्

अथाधिषवणं परिकृत्तं भवति । सर्वरोहितम् । जिह्वा हैवास्यैषा । तद् यत् सर्वरोहितं भवति- लोहिनीव हीयं जिह्वा । तन्निदधाति । “वैष्णवमसि”- (वा. सं. ५ । २५) इति । वैष्णवं ह्येतत् ॥ २३ ॥

सायणः

अथाधिषवणमिति । सर्वरोहितमित्यादि 18 । एतच्च रक्तवर्णाया जिह्वायाः स्थाने भवति । तच्च “वैष्णवमसि-” इति मन्त्रेण ‘निदध्यात्’ अधिषवणफलकयोरुपरि स्थापयेत् ॥ २३ ॥

Eggeling
  1. Now the pressing-skin is cut straight all round and (dyed) red all over, for it is his (Vishṇu’s) tongue: the reason, then, why it is quite red, is because this tongue is, as it were, red. He lays it down with, ‘Thou art Vishṇu’s own;’ for it indeed belongs to Vishṇu 22.

२४

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ ग्रा᳘व्ण उपा᳘वहरति॥
द᳘न्ता है᳘वास्य ग्रा᳘वाणस्तद्यद्ग्रा᳘वभिरभिषुण्व᳘न्ति य᳘था दद्भिः᳘ प्साया᳘देवं तत्तान्नि᳘दधाति व्वैष्णवा स्थे᳘ति व्वैष्णवा᳘ ह्येत᳘ ऽएत᳘दु यज्ञ᳘स्य शि᳘रः स᳘ᳫं᳘स्कृतम्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ ग्रा᳘व्ण उपा᳘वहरति॥
द᳘न्ता है᳘वास्य ग्रा᳘वाणस्तद्यद्ग्रा᳘वभिरभिषुण्व᳘न्ति य᳘था दद्भिः᳘ प्साया᳘देवं तत्तान्नि᳘दधाति व्वैष्णवा स्थे᳘ति व्वैष्णवा᳘ ह्येत᳘ ऽएत᳘दु यज्ञ᳘स्य शि᳘रः स᳘ᳫं᳘स्कृतम्॥

मूलम् - Weber

अ᳘थ ग्रा᳘व्ण उपा᳘वहरति॥
द᳘न्ता हैॗवास्य ग्रा᳘वाणस्तद्यद्ग्रा᳘वभिरभिषुण्व᳘न्ति य᳘था दद्भिः᳘ प्साया᳘देवं तत्तान्नि᳘दधाति वैष्णवा स्थे᳘ति वैष्णवाॗ ह्येत᳘ एत᳘दु यज्ञ᳘स्य शि᳘रः स᳘ᳫं᳘स्कृतम्॥

मूलम् - विस्वरम्

अथ ग्राव्ण उपावहरति । दन्ता हैवास्य ग्रावाणः । तद् यद् ग्रावभिरभिषुण्वन्ति- यथा दद्भिः प्सायात्- एवं तत् । तान् निदधाति । “वैष्णवा स्थ”- (वा. सं. ५ । २५) इति । वैष्णवा ह्येते । एतदु यज्ञस्य शिरः संस्कृतम् ॥ २४ ॥

सायणः

अथ ग्राव्ण इत्यादि 23 । अविषवणचर्मणि अभिषवसाधनान् पाषाणान् पञ्च आहरन्ति । ते ‘ग्रावाणः’ ‘अस्य’ ‘दन्ताः’ दन्तस्थानीयाः । तदेवोपपादयति- तद्यद् ग्रावभिरिति । दद्भिः प्सायात् एवं तदिति । यथा दन्तैर्भक्षयति एवं तत् । “प्सा भक्षणे” (धा० पा० अ० प० ४५) इति धातुः । एतदु यज्ञस्येति । “पुरुषो वै यज्ञः”- इति प्रतिज्ञाय “शिर एवास्य हविर्द्धानम्”- इति यद्धविर्द्धानस्य शिरस्त्वं निर्दिष्टम्, (श. प. ब्रा. ३ । ५ । ३ । २ । १, २) तदिदं ‘यज्ञस्य शिरः संस्कृतं’ मध्यमच्छदिरादि-सोमाभिषवग्रावान्तानां यज्ञाङ्गानां शिरोललाटादिदन्तान्तकल्पनया हविर्द्धानस्य शिरस्त्वं साधितमित्यर्थः । केवलं प्रयोगजातमानुपूर्व्येणाभिधाय तत्तदवयवरूपकल्पनया ऽभिधीयते, तेन तत्तदङ्गजातं तत्तदवयवध्यानेनानुष्ठीयमानं सन्महते फलाय भवतीत्युक्तं भवति (तै. सं. ६ । २ । ११) ॥ २४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे पञ्चमाध्याये चतुर्थं ब्राह्मणम् ॥ ३ । ५ । ४ ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ २ ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः ॥ ३ ॥

आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ ४ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे पञ्चमो ऽध्यायः समाप्तः ॥ ३ ॥ ५ ॥

Eggeling
  1. He then brings down the (five) press-stones. The press-stones, doubtless, are his (Vishṇu’s) teeth: hence, when they press (the Soma) with the stones it is as if he chewed with his teeth. He puts them down with, ‘Ye are Vishṇu’s own;’ for they indeed belong to Vishṇu. Thus, then, the head of the sacrifice is complete.

  1. दक्षिणस्यानसो ऽधः प्रउगं खनत्युपरवान् । का. श्रौ. सू. ८ । १११ । प्रष्ठगं- ईषाद्वयसंयोजनप्रदेशः । ↩︎

  2. 135:1 Viz. the ears and nostrils. ↩︎

  3. 135:2 Kr̥tyām valagān nicakhnuḥ, ’they dug in, as a charm, secret (magic) objects.’ Valaga is explained as charms, consisting of bones, nails, hair, foot-dust, and similar objects, tied up in a piece of worn matting or cloth, or the like, and dug into the ground arm-deep, for causing injury to enemies. See Taitt. S. VI, 2, 11, where Professor Weber refers to Wuttke, Der Deutsche Volksaberglaube, §492 seq. ↩︎

  4. अभ्र्यादि करोत्यवटवदापरिलेखनात् । का. श्रौ. सू. ८ । ११२ । ↩︎ ↩︎

  5. देवस्य त्वेत्यभ्रिमादाय । का. श्रौ. सू. ६ । ४१ । ↩︎

  6. 135:3 The instrument used seems to be a kind of scoop or trowel, sharpened on one side. For a fuller description, see VI, 3, 1, 30 seq. ↩︎

  7. 136:1 Vinā, i.e. leaving that space between each two adjoining uparavas. They are themselves to be round, a span in diameter. Hence by connecting the four centres by lines, a square of two spans (of thumb and forefinger), or one cubit, is obtained. See Baudh. Śulvas. 101. ↩︎

  8. अक्ष्णया व्याघारणवत् । उत्तरापरं वा प्रथमम् । सम्यग्वा । उत्तरपूर्व्वेत्वत्यम् । का. श्रौ. सू. ८ । ११४-११७ ॥ ↩︎ ↩︎

  9. 136:2 That is, successively the south-eastern, the south-western, the north-western, and last, the north-eastern hole. ↩︎

  10. इदमहमित्युत्किरति यथाखातं प्रतिमंत्रम् । का. श्रौ. सू. ८-१२० । ↩︎

  11. 138:1 That is, these words are to be pronounced at the end of each of the preceding four formulas, and the remaining loose soil is therewith to be removed from the respective hole. ↩︎

  12. बाहुमात्रान् । का. श्रौ. सू. ८ । १२२ । ↩︎

  13. अक्ष्णया संभिद्यादशक्तौ सम्यक् । का० श्रौ० सू० ८- । १२३ । ↩︎

  14. 138:2 Lit. he inter-perforates, inter-channels. ↩︎

  15. अध्वयुर्यजमानौ सम्मृशेते पूर्व्वदक्षिणे ऽध्वर्युरपरोत्तरे यजमानः । का० श्रौ० सू० ८ । १२५ । ↩︎ ↩︎

  16. अध्वर्युः पृच्छति यजमान किमत्रेति । भद्रमित्याह । तन्नौ सहेत्यध्वर्युरुपा ँ शु । का० श्रौ० सू० ?? १२६ । १२७ । १२८ । ↩︎

  17. 139:1 The Kāṇva text has cidra (‘holes, openings’) instead of prāṇa. ↩︎

  18. तनूनुपरि कुशान् कृत्वा । का. श्रौ. सू. ८ । १३३ । ↩︎ ↩︎ ↩︎

  19. 139:2 Cp. I, 3, 3, 7 seq. ↩︎

  20. 139:3 Or, the hair of the sacrificial man; see III, 5, 3, 1 seq. ↩︎

  21. 140:1 The pressing-boards are a cubit long, and somewhat broader behind than in front. They are placed one south of the other, and so as to lie close together behind (sambaddhānte, Kāṇva rec.), or the space of two inches between them. The space between them is filled up with earth. ↩︎

  22. 140:2 East of the ‘sound-holes’ he raises a square mound (khara), covered with gravel, for placing vessels on, Kāty. VIII, 5, 28. ↩︎

  23. तस्मिन् ग्राव्णः पंच व्वैष्णवाः स्थेति । का० श्रौ० सू० ८ । १३५ । ↩︎